म.म.गङ्गाधरशास्त्रिप्रणीत:
अलिविलासिसंलाप:
विद्यावतीसुतरमाकान्तकृतया गङ्गाख्यया व्याख्यया राष्ट्रभाषानुवादेन च समलङ्कृत:
प्रथमशतकम्
।।१।।
विद्या विद्यत एव यत्र सततं वेद्यो न यो रागिणां
यं वैद्यं मनसा प्रपद्य विषयव्यालेष्वभीका बुधा:।
वेदाशेषविचारसीमविलसत्सिद्धान्तभूमि: स मे
विद्युत्य द्यतु हृद्यवद्यमखिलं श्रीवैद्यनाथ: शिव:।।
अन्वय:- यत्र सततं विद्या विद्यत एव, य: रागिणां न वेद्य:, बुधा यं वैद्यं मनसा प्रपद्य विषयव्यालेषु अभीका (भवन्ति)। स: वेदाशेषविचारसीमविलसत्सिद्धान्तभूमि: श्रीवैद्यनाथशिव: मे हृदि विद्युत्य अखिलम् अवद्यं द्यतु।
विद्यावतीसुतरमाकान्तविरचितागङ्गा
स्मïृत्वा गङ्गाधरं गङ्गाधरवागर्थवित्तये।
विद्यावतीसुतो गङ्गां रमाकान्तस्तनोत्यसौ ।।१।।
गङ्गालङ्कृतकेशपाशमहिभिव्र्याप्ताङ्गयष्टिं मुदा
नत्वा देवशिरोमणिं शिवमुमासंसेवितं शङ्करम् ।
श्रीगङ्गाधरशास्त्रिणा विरचिते काव्ये मया लिख्यते
गङ्गाख्या विदुष: प्रणम्य कुतुकाद् व्याख्या सुधीरञ्जिनी ।।२।।
मान्यो मनीषिणां राधावल्लभो यो विराजते।
गुरुं तं नौमि विद्यासु गतिर्येन प्रवर्तिता।।३।।
पितामहं दयारामं वेदान्ते श्रीधरोपमम्।
पितरौ गुरुविप्रांश्च नौमि सर्वार्थसिद्धये।।४।।
विद्यावतीसुतेनेयं रमाकान्तेन गुम्फिता।
गङ्गाधरकृतेष्टीका गङ्गा स्याद्विदुषां मुदे।।५।।
शिष्टाचारानुमितकर्तव्यताकं प्रारिप्सितस्य ग्रन्थस्य समाप्तिप्रतिद्वन्द्विनो दुरितस्य प्रशमाय प्रचाराय च मङ्गलमाचरन् शिष्यशिक्षायै व्याख्यातॄणां श्रोतॄणाञ्चाऽनेनैव मङ्गलवत्त्वसम्पादनाय च सर्वतन्त्रस्वतन्त्रस्तत्रभवान् महाकविर्गङ्गाधरशास्त्री ग्रन्थे निबध्नाति - विद्येति- तच्च नैकविधेषु मङ्गलेषु समुचितेष्टदेवप्रार्थनारूपम्। समुचितत्वञ्च सर्वविधविद्यामोक्षादिप्रदायकत्वम्। तथा चोक्ति: - ज्ञानमिच्छेन्महेश्वरात्। यत्र यस्मिन् भगवति शिवे विद्या सततं सर्वदा विद्यत एव । विद्यानामाधारत्वान्न कदाचिदपि विद्याभ्यस्तद्वियोग:। यश्च शिव: रागिणां मायामोहादिव्याप्तमनसां न वेद्य:, न ज्ञेयोऽपितु योगिनामेव । यं वैद्यं भवरोगहर्तारं मनसा प्रपद्य बुधा विद्वांस: विषयव्यालेषु कामादयो विषया एव व्याला: सर्पा:। 'आशीविषो विषधरश्चक्री व्याल: सरीसृपÓ इत्यमर:। तेषु अभीका निर्भीका भयरहिता इति यावत्। 'अभीका: कामुके क्रू रे निर्भये त्रिषु ना कवौÓ इति मेदिनी। भवन्तीति शेष:। स तादृशो वेदाशेषविचारसीमविलसत्सिद्धान्तभूमि:, वेदानाम् अशेषा: समग्रा ये विचारा: कर्मोपासनादयस्तेषां या सीमा उपनिषदस्तत्र विलसतां सुशोभमानानां सिद्धान्तानां भूमि: आधार:। समग्रवेदप्रतिपाद्य इति भाव:। श्रीवैद्यनाथ: शिव:, वैद्यानां चिकित्सकानां नाथ: स्वामी। भवरोगहर्तृत्वेन वैद्येषु शिवस्य प्राधान्यम्। मे मम हृदि हृदये, अन्त:करण इति यावत्। विद्युत्य प्रकटीभूय अखिलं सम्पूर्णम् अवद्यं यद् यद् गह्र्यं तत्सर्वं दोषजातं द्यतु खण्डयतु, विनाशयत्विति। 'निकृष्टप्रतिकृष्टार्वरेफ याप्यावमाधमा:। कुपूयकुत्सितावद्य खेटगह्र्याणका: समा:Ó इत्यमर:। कवे: काशीवासित्वात् काश्यां च सर्वविद्याधिष्ठातु: शिवस्य प्राधान्यात् शिव एवाऽत्र प्रार्थित:। अत्र रूपकं व्यतिरेकश्चाऽलङ्कारौ। शार्दूलविक्रीडितं वृत्तम्।
।।२।।
वैषयिकब्रह्मविदो: पूर्वोत्तरपक्षशिक्षणे दाक्ष्यम्।
व्यक्त्या विवेक्तुकामैर्दृश्योऽसावलिविलासिसंलाप:।।
अन्वय: - वैषयिकब्रह्मविदो: पूर्वोत्तरपक्षशिक्षणे दाक्ष्यं व्यक्त्या विवेक्तुकामै: असौ अलिविलासिसंलाप: दृश्य:।
गङ्गा- स्वेष्टं नमस्कृत्य ग्रन्थरचनाप्रयोजनं निरूपयति- वैषयिकेति- वैषयिक: कामादिसांसारिकभोगलोलुप: ब्रह्मवित् ब्रह्मतत्त्ववेत्ता चेति वैषयिकब्रह्मविदौ तयो: वैषयिकब्रह्मविदो: सांसारिकाणां चार्वाकादीनां ब्रह्मविदां ब्रह्मविद्योपासकानां चेति भाव:। पूर्वोत्तरपक्षशिक्षणे दाक्ष्यम्, वैषयिकाणां पूर्वपक्षशिक्षणे ब्रह्मविदां चोत्तरपक्षशिक्षणे नैपुण्यं व्यक्त्या अभिव्यक्त्या व्यञ्जनया वा विवेक्तुकामै:, विवेक्तुं सदसत्परीक्षितुं काम: समीहा येषां तै: असौ मम प्रणीत: 'अलिविलासिसंलापÓ इत्याख्य: काव्यविशेष: दृश्य: अवलोकनीय:। शास्त्रेष्वपि तादृशसिद्धान्तानां प्रतिपादितत्वाद् व्यक्त्येह काव्यरूपेण प्रतिपादनम् । शास्त्रेष्वभिधया प्रतिपादनान्न तत्र सहृदयानां तथा प्रीतिरिति काव्यविधयाऽस्मिन् काव्ये तेषां सिद्धान्तानां प्रतिपादनमिति विशेष:। आर्यागीतिच्छन्द:।
।।३।।
कदाचिदासन्नतमे वसन्ते
रसालसालाभिमुखोऽप्यलोल:।
सरोजिनीसौहृदनि:स्पृहोऽलि-
र्विलासिना सस्मितमेवमूचे।।
अन्वय: - कदाचित् आसन्नतमे वसन्ते विलासिना रसालसालाभिमुख: अपि अलोल: सरोजिनीसौहृदनि:स्पृह: अलि: सस्मितम् एवम् ऊ चे।
गङ्गा - काव्यपृष्ठभूमिमवतारयन्नाह-कदेति- कदाचित् आसन्नतमे वसन्ते कश्मिंश्चित् काले सन्निकटतमे वसन्तर्तौ विलासिना वैषयिकेण विषयवासनारतेन सांसारिकेणेति यावत् । रसालसालाभिमुख: सरोजिनीं कमलिनीं परित्यज्य आम्रवृक्षं प्रत्युन्मुख: अपि अलोल: अचञ्चल: आम्रमञ्जरीरसास्वादनं प्रति अनाकृष्ट: सरोजिन्या: कमलिन्या: सौहृदे प्रेम्णि रसास्वादने नि:स्पृह: स्पृहाया: निष्क्रान्त: वीतराग: अलि: ब्रह्मवित्प्रतीकभूतो भ्रमर: सस्मितं स्मितेन सह यथा स्यात्तथा एवं वक्ष्यमाणप्रकारेण ऊचे जगदे। उक्त इत्यर्थ:। 'आम्रश्चूतो रसालÓ इत्यमर:। 'वृक्षो महीरुह: शाखी विटपी पादपस्तरु:, अनोकह: कुट: साल: पलाशी द्रुद्रुमागमाÓ इत्यमर:। उपेन्द्रवज्रावृत्तम्। विरोधाभासोऽलङ्कार:।
।।४।।
सखे! हिमानीहतिहीनशोभां
पुरा चिरं चोरितचित्तवृत्तिम्।
उपस्थितामोदरसप्रसारां
सरोजिनीं सम्प्रति मावमंस्था:।।
अन्वय: - हे सखे हिमानीहतिहीनशोभां पुरा चिरं चोरितचित्तवृत्तिं उपस्थितामोदरसप्रसारां सरोजिनीं सम्प्रति मा अवमंस्था:।
गङ्गा- विलासिनोक्तं विशदीकरोति- सख इति-हे मित्र! हिमानीहतिहीनशोभाम्, हिमान्या: हिमसंहत्या: 'हिमानी हिमसंहति:Ó इत्यमर:। हते: प्रहारात् हीना क्षीणतां गता शोभा यस्यास्तादृशीम्। शिशिरर्तौ तुषारपातेन नष्टशोभामित्यर्थ:। पुरा पूर्वकाले शोभानाशात् पूर्वं चोरिता वशीकृता चित्तवृत्ति: यया तादृशीम्। उपस्थितामोदरसप्रसाराम् उपस्थित: आमोदरसयो: प्रसार: यस्यास्तादृशीं सरोजिनीं कमलिनीं सम्प्रति वसन्तकालप्राप्तावस्यां यदा प्रियस्य आवश्यकता सर्वथानुभूयते तदा मा अवमंस्था: तस्या अवमाननं मा कुर्विति भाव:। पक्षे पतिव्रतधर्मपरायणाया: स्वकीयाया अपि तादृशावस्थापन्नाया बोध:। 'सरोजिनीं सम्प्रति मावमंस्था:Ó इत्यस्य परेणाऽप्यन्वय:।
।। ५।।
अनेकधामाघविशालकुन्द -
लतापरागस्थगितात्मरूप:।
प्रभातमारभ्य निरस्तमानं
मधूनि सम्पाय्य ययाऽऽदृतोऽसि।।
अन्वय: - यया अनेकधामाघविशालकुन्दलतापरागस्थगितात्मरूप: त्वम् अलि: प्रभातम् आरभ्य निरस्तमानं मधूनि सम्पाय्य आदृत: असि (तां सरोजिनीं सम्प्रति मा अवमंस्था:)।
गङ्गा- कीदृश्या: सरोजिन्या इति विशदयति - अनेकेति- अलिस्वभावप्रतिपादकम् अनेकधेत्यादिपदं श्लिष्टम्। कीदृशस्त्वमलि:? अनेकधामाघविशालकुन्दलतापरागस्थगितात्मरूप:, अनेकधा अनेकप्रकारेण बहुविधै: आकारप्रकारै: विविधभावभङ्गिमभिर्वा माघे मासविशेषे विकसिताया: रजस उत्कर्षेण सौन्दर्यं प्राप्ताया: कुन्दलताया: परागेण मकरन्दै: स्थगितं निलीनम् आत्मरूपं यस्य तादृश:। नीलवर्णोऽपि अलि: कुन्दलताया: शुक्लपरागाणां सम्पर्कात् शुक्लत्वं प्राप्रोत्। कुन्दलताया रागेण रञ्जितोऽभवदित्यर्थ:। स च शुक्लीभाव: परस्त्रीलोलुपत्वं तया समागमञ्च तस्य द्योतयति। तथात्वेऽपि सम्पादितपरीसम्भोगस्त्वं यया प्रभातमारभ्य तव परस्त्रीसम्भोगापराधं तिरस्कृत्य मधूनि सम्पाय्य पुष्परसान् सम्यक्तया पाययित्वा निरस्तमानं मानापगमनं यथा स्यात्तथा सादरं स्नेहभाजनं कृतोऽभू:। तस्या: सरोजिन्या अपमानो नोचित इति भाव:।
अथवा - अनेकधामा अनेकानि धामानि रतिस्थानानि यस्य स: अनेकधामा। भ्रमरस्य इतस्ततो मकरन्दलोभात् नानालतासु भ्रमणस्वभावात् तस्य बहुनायिकासक्तत्वम्। तस्य न सरोजिनीमात्रनिष्ठत्वम्। सरोजिनीप्रियस्य अले: प्रणयपात्रत्वात् अघै: पापैर्विशाला पापाधिक्ययुक्ता या कुन्दलता तत्समागमरूपं यत् परम् आगोऽपराधस्तेन लज्जया स्थगितं सङ्कोचं प्रापितम् आत्मरूपं येन तादृशम् अलिं प्रभातम् प्रातरारभ्य विकासकालादारभ्य निरस्तमानं मानापगमनं यथा स्यात्तथा मानरहिता सती आदिवसं मधूनि, मकरन्दं सम्पाय्य पुष्परसान् सम्यक्तया पाययित्वा आदरं कृ तवती। तया सपत्नीसमागमो न परिगणित:। तादृशीं सरोजिनीं परित्यज्य अन्यत्र गमनमनुचितमिति भाव:। भ्रमरशब्दोऽत्र नायकस्योपलक्षक: कुन्दलताशब्द: परनायिकाया उपलक्षक:, सरोजिनी च प्रियाप्रतीकभूतेति।
।।६।।
सहस्रवस्वागमरम्यरूपा
सहासवक्त्रैव रविं प्रतार्य।
निसर्गलोले त्वयि सादरा या
निशामशेषामुपगूह्य रेमे।।
अन्वय: - सहस्रवस्वागमरम्यरूपा सहासवक्त्रा एव रविं प्रतार्य या निसर्गलोले त्वयि सादरा सती अशेषां निशाम् उपगूह्य रेमे, (तां सरोजिनीं सम्प्रति मावमंस्था:)।
गङ्गा - सहस्रेति- पुन: कीदृशीं सरोजिनीम् ़़? सहस्रवस्वागमरम्यरूपेत्यत्र वसुशब्द: नानार्थक:। 'देवभेदेऽनले रश्मौ वसू रत्ने धने वसुÓ इत्यमर:। सहस्रवस्वागमरम्यरूपा, सहस्रं वसवो रश्मयो यस्य स: सहस्रवसु: असंख्यकिरण: सूर्य:। तस्य सहस्रवसो: आगमनेन उदयेन रम्यं विकासेन रमणीयं रूपं यस्या: सा सरोजिनी। अथवा सहस्राणाम् अपरिमितानां वसूनां धनधान्यरत्नादीनाम् आगमनेन प्रापणेन रमयितुं योग्यं रूपं यस्या: सा। सर्वस्वदानेनाऽपि समागमयोग्येत्यर्थ:। सहासवक्त्रा हासयुक्तवक्त्रमात्रेण रविं प्रतार्य स्वपतिं सूर्यं वञ्चयित्वा निसर्गलोले प्रकृत्या चपले परस्त्रीसमागमासक्तस्वभावेऽपि त्वयि अलौ सादरा, आदरयुक्ता सती या सरोजिनी अशेषां समग्रां निशाम् उपगूह्य रेमे रमणं कृतवती। स्वपतिं सूर्यं हासमात्रेण वञ्चयित्वा या तस्मिन्नस्तङ्गते मुकुलतां प्राप्य अन्त:प्रविष्टेन त्वया आरात्रिं रमणं कृतवती तस्यास्त्वया अवमाननं न कर्तव्यम्। पक्षे तादृशनायिकाऽपि व्यज्यते।
।।७।।
वसन्तमारभ्य शरन्निशान्तं
त्वदीयसङ्गीतकमात्रलुब्धा।
मुदा भवन्तं परिरभ्य हृष्टा
रसार्पणे या प्रणयं दधाति।।
अन्वय: - वसन्तमारभ्य शरन्निशान्तं त्वदीयसङ्गीतकमात्रलुब्धा मुदा भवन्तं परिरभ्य हृष्टा या रसार्पणे प्रणयं दधाति (तां सरोजिनीं सम्प्रति मावमंस्था:)।
गङ्गा- वसन्तमारभ्य शरदन्तं यावत्कमलिनीकृतमुपकारं स्मारयति- वसन्तेति- पुन: कीदृशीम् ? वसन्तमारभ्य, वसन्तम् ऋतुविशेषम् आरभ्य शरन्निशान्तं यावत् त्वदीयसङ्गीतकमात्रलुब्धा, त्वदीयस्य भ्रमरस्य सङ्गीतकमात्रेण लुब्धा गानमात्रेण दत्तचित्ता या सरोजिनी भवन्तम् अलिं मुदा प्रसन्नमनसा परिरभ्य आलिङ्ग्य हृष्टा रोमाञ्चिता सती, 'हृष्टो रोमाञ्चितेऽपि च। जातहर्षे प्रतिहते विस्मितेऽप्यभिधेयवत् Ó इति मेदिनी। या रसार्पणे प्रीते: मकरन्दस्य च रसप्रदाने प्रणयं दधाति। 'तां सरोजिनीं सम्प्रति मावमंस्था:Ó इति पूर्वेणान्वय:।
।।८।।
त्वमल्पकालं सुमनोभृतायां
प्रम्लानकान्त्यां नवमल्लिकायाम्।
चिरोपभोगक्षमरम्यरूपां
यां प्राप्य चित्ते न विषादमेषि?।।
अन्वय: - त्वम् अल्पकालं सुमनोभृतायां प्रम्लानकान्त्यां नवमल्लिकायां चिरोपभोगक्षमरम्यरूपां यां प्राप्य चित्ते विषादं न एषि (तां सरोजिनीं सम्प्रति मा अवमंस्था:)।
गङ्गा - मल्लिकाया वसन्तर्तुमात्रोपभोगक्षमत्वं वर्णयति- त्वमिति- हे भ्रमर! त्वम् अल्पकालं केवलं वसन्र्तौ सुमनोभृतायां पुष्पितायां तथा च गते वसन्ते प्रम्लानकान्त्यां तस्यां नवमल्लिकायां मालत्याम्। मालती केवलं वसन्ते पुष्यतीति कविसम्प्रदाये प्रसिद्धि:। त्वं च स्वल्पकालं विकसितायां तस्यामासक्तोऽल्पकालेन सौकुमार्यातिशयान्म्लानायां तस्यां तां विहाय समागत: सापराधोऽपि सरोजिन्या नावधीरितो भवसि। चिरोपभोगक्षमरम्यरूपां चिरकालं वसन्ताद् आरभ्य शरदृतुं यावत् उपभोगक्षमं भोगयोग्यं रूपं यस्यास्तादृशीं यां सरोजिनीं प्राप्य विषादं न एषि न प्राप्रोषि। सदैव भोगवान् भूत्वा सुखमनुभवसीत्यर्थ:। तां सरोजिनीं सम्प्रति मा अवमंस्था इति चतुर्थश्लोकेनान्वय:। 'न स्याज्जाती वसन्तेÓ इति कविसम्प्रदायप्रामाण्यात् नवमल्लिकाया: केवलं वसतन्र्तौ विकासवर्णनम्।
।।९।।
गुणावलीपूर्णतमान्तरङ्गां
यामुत्सुकां त्वद्विरहेण नूनम्।
दूरागत: स्तोकरसैकगीति -
विनिद्रनेत्रां रमयन्नवात्सी:।।
अन्वय: - दूरागत: गुणावलीपूर्णतमान्तरङ्गां त्वद्विरहेण नूनम् उत्सुकां स्तोकरसैकगीतिविनिद्रनेत्रां यां रमयन् अवात्सी: (तां सरोजिनीं सम्प्रति मा अवमंस्था:)।
गङ्गा- पुन: कीदृशीं सरोजिनीमिति वर्णयति- गुणेति- गुणावलीत्यत्र गुणशब्द: कमलिनीपक्षे नायिकापक्षे च श्लिष्ट:। 'गुणो मौव्र्यामप्रधाने रूपादौ सूद इन्द्रियेÓ इति मेदिनी। 'गुणो ज्यासूत्रतन्तुषुÓ इति च हैम:। दूरागत: दूरात् नवमल्लिकाया: सकाशात् तया साकं रमणं विधाय समागत: त्वम्,गुणानां सौन्दर्यादीनाम् अवली पंक्ति: तया पूर्णतमोऽन्तरङ्गं यस्या: सा गुणावलीपूर्णतमान्तरङ्गा, ताम्। तादृशीं नायिकामित्यर्थ:। अथवा गुणावलीभि: मृणालतन्तुभि: पूर्णतमान्तरङ्गाम्। मृणालान्तस्तन्तुभरितामित्यर्थ:। त्वद्विरहेण अन्यनायिकासक्तस्य अलेस्तव अनागमनेन अतिशयेन उत्सुकाम् उत्कण्ठिताम्, स्तोकरसैकगीतिविनिद्रनेत्राम्, स्तोक: स्वल्प: रस: यस्यां तादृश्या एकया एव गीत्या तस्या: सविधे स्वागमनसङ्केतसूचिकया, विनिद्रनेत्राम्, विनिद्रे विकसिते नेत्रे यस्यास्ताम्। अथवा परनायिकासक्तत्वात् स्तोक : रस: प्रेमभाव: यस्यां तादृश्या गीत्या आगमनसूचकगुञ्जनारवेण अपि विनिद्रनेत्रां विकसितकमललोचनाम्। अन्यनायिकासक्तत्वेऽपि तव कृत्रिमरागेणाऽपि प्रसन्नामिति भाव:। रमयन् रमणं कुर्वन् अवात्सी:, सुखेन निवासम् अकार्षीरित्यर्थ:। भ्रमरव्यवहारेण तादृशनायकोऽपि व्यज्यते।
।। १०।।
स्वभावसिद्धातुलदण्डकोशा
भवन्तमालिङ्ग्य निशां नयन्ती।
मिलिन्द! मन्ये गजमीलिकाभि-
र्या राजतो नैव मनाग् बिभेति।।
अन्वय: - हे मिलिन्द! स्वभावसिद्धातुलदण्डकोशा भवन्तम् आलिङ्ग्य निशां नयन्ती या गजमीलिकाभि: राजत: मनाग् नैव बिभेति (इति) मन्ये (तां सरोजिनीं सम्प्रति मा अवमंस्था:)।
गङ्गा - सरोजिन्या गुणान्तरं वर्णयति- स्वभावेति- हे मिलिन्द! हे भ्रमर! स्वभावसिद्धातुलदण्डकोशा दण्डश्च कोशश्चेति दण्डकोशौ सेनाधनसङ्ग्रहौ कमलनाल: कुड्मलं चेति। स्वभावेन प्रकृत्या सिद्धौ अतुलौ दण्डकोशौ यस्या: तादृशी। दण्डकोशपदेऽत्र श्लिष्टे। सरोजिनीपक्षे दण्डशब्द: मृणालदण्डवाचक: कोशशब्दश्च कुड्मलवाचक:। चन्द्ररूपराजपक्षे दण्ड: सैन्यवाचक: कोशश्च धनसङ्ग्रहवाचक:। तथा च विश्व: - 'दण्डो यमे मानभेदे लगुडे दमसैन्ययो:Ó। 'कोशोऽस्त्री कुड्मले पात्रे दिव्ये खड्गपिधानकेÓ। जातिकोशेऽर्थसंघाते पेश्यां शब्दादिसंग्रहेÓ इति मेदिनी। प्रकृतिसिद्धातुलदण्डकोशा या भवन्तम् अलिम् आलिङ्ग्य निशां रात्रिं नयन्ती गमयन्ती गजमीलिकाभि: उपेक्षासूचिकाभि: क्रियाभि: राजत: नृपते: चन्द्राच्च मनाग् अपि स्वल्पमपि न बिभेति, न भयं करोति। रात्रौ कुसुमानि मीलयित्वा त्वया सह रमणं कुर्वती सा सरोजिनी चन्द्ररूपराज्ञ उपेक्षां करोति। अतो न सा केवलं सौन्दर्यवती, बलवती अपीति हेतोर्न त्वया साऽवमान्येति तात्पर्यम्।
।। ११।।
अलं तपत्युत्कटहानिदाघे-
ऽप्यनारताभुग्नमृणालबाहु:।
त्वया समं या सरसीं विगाह्य
व्यात्युक्षिकां निर्वृतये तनोति।।
अन्वय: - उत्कटहानिदाघे अलं तपति अपि या अनारताभुग्नमृणालबाहु: त्वया समं सरसीं विगाह्य व्यात्युक्षिकां निर्वृतये तनोति (तां सरोजिनीं सम्प्रति मा अवमंस्था:)।
गङ्गा - वसन्ते सरोजिनीकृतमुपकारमुपवण्र्य ग्रीष्मे तदुपकारं स्मारयति- अलमिति- 'उत्कटहानिदाघेÓ उत्कटां हानिं ददातीति उत्कटहानिदस्तादृशे अद्ये अन्यनायिकासक्तत्वरूपे अघे पापे सत्यपि अथवा कटात् उत्क्रान्त: उत्कट:, तत्सम्बुद्धौ उत्कट! इति। भृङ्गविशेषणमिदम्। अस्मिन् पक्षे 'हे उत्कट! हा निदाघेÓ इति योजना। हा इति विषादसूचकमव्ययम्। 'हा विषादे च शोके च कुत्सादु:खार्थयोरपिÓ इति मेदिनी। निदाघे ग्रीष्मे अलं तपति सति। 'गण्ड: कटÓ इत्यमर:। हे उत्कट! गतमदजलात् गजगण्डस्थलात् समागत! न तु प्रीत्या, अनारताभुग्नमृणालबाहु:, अनारतं सततम् आभुग्रं आ सम्यक्तयाभुग्न: शिथिल: ग्रीष्मकारणात् विनत: पतितो वा मृणालरूपो बाहु: यस्यास्तादृशी सा सरोजिनी त्वया भ्रमरेण सह सरसीं सर: विगाह्य व्यात्युक्षिकां जलक्रीडां निर्वृतये सन्तृप्तये तनोति विस्तारयतीत्यर्थ:। ग्रीष्मे तपति शिथिले मृणाले भृङ्गभारेण कमलकुसुमेन सह भृङ्गस्य जले निपातोऽत्र कविना जलक्रीडात्वेनोत्प्रेक्षित:। 'कासार: सरसी सर:Ó इत्यमर:।
।। १२।।
दिनेशमभ्रान्तनिलीनमूर्तिं
दृष्ट्वाऽपि जालापदुपैष्यतीति।
अचिन्तयन्ती भवदेकसङ्गात्
पङ्केऽपि वासं बहु मन्यते स्म!।।
अन्वय: - (या) अभ्रान्तनिलीनमूर्तिं दिनेशं दृष्ट्वा अपि जालापत् उपैष्यति इति अचिन्तयन्ती भवदेकसङ्गात् पङ्के अपि वासं बहु मन्यते स्म (तां सरोजिनीं सम्प्रति मा अवमंस्था:)।
गङ्गा - वर्षासु सरोजिन्युपकारं वर्णयति-दिनेशेति- दिने दिवसे ईश: स्वामीति दिनेश:, न तु रात्रौ। सूर्य: सरोजिन्या दिवस एव भवति पति: न तु रात्रौ। तदानीं स भवति अस्तङ्गत इत्यभिप्राय:। कीदृशं दिनेशम्? अभ्रान्तनिलीनमूर्तिम्। अभ्रा मेघास्तेषामन्ते अन्तस्तले निलीना निह्नुता मूर्ति: शरीरं यस्य तम् । 'अभ्रं मेघो वारिवाहÓ इत्यमर:। अथवा अभ्रान्तं निलीनमूर्तिं, निश्चयेन गुप्तदेहम्। स्वच्छन्दचारिण्या अस्या: सरोजिन्या: चरित्रपरीक्षणाय तत्प्रिय: सूर्यो निश्चयेन निलीनो विद्यत इत्यभिप्राय:। तादृशं स्वप्रियं दृष्ट्वा अपि, जालापत् जालस्य कपटस्य आपत्, अथवा जलसम्बन्धिनी आपत्ति: उपैष्यति मां सरोजिनीं प्राप्स्यति इति अचिन्तयन्ती न विचारयन्ती भवदेकसङ्गात् पङ्के कर्दमे पापे वा वासं बहु मन्यते स्म। 'अस्त्री पङ्कं पुमान् पाप्मा पापम् Ó इत्यमर:। निलीनदेहेन प्रियेण यन्निरीक्षणं तत्कृतामापदं च भ्रमरे त्वयि अनुरागातिशयेन अविगणय्य त्वया सह वासं बहु मन्यते स्म।
।। १३।।
चलस्य ते रागपरीक्षणाय
वर्षासु शश्वत्कपटावृताङ्गी।
मालत्युपेते त्वयि या सरोगा-
ऽप्प्रशस्यमाना तनिमानमेति।।
अन्वय: - चलस्य ते रागपरीक्षणाय वर्षासु शश्वत् कपटावृताङ्गी अप्प्रशस्यमाना सरोगा या त्वयि मालत्युपेते तनिमानमेति (तां सरोजिनीं सम्प्रति मा अवमंस्था:)।
गङ्गा - चलस्येति - चलस्य चञ्चलस्य अनेकप्रियासक्तस्य ते भ्रमरस्य रागपरीक्षणाय अनुरागस्य परिज्ञानाय वर्षासु शश्वत्कपटावृताङ्गी कपटेन व्याजेन जलरूपेण वस्त्रेण च आवृतानि अङ्गानि यस्या: सा तादृशी या सरोजिनी अप्रशस्य: अनभिनन्दनीय: मानो यस्या:, अथवा अद्भिर्जलै: प्रकर्षेण शस्यमाना हिंस्यमाना च त्वयि भ्रमरे मालत्युपेते सति सरोगा सरोवरगता भवति, अथवा रोगेण सहिता तनिमानं दौर्बल्यम् एति प्राप्रोति। कपटेन व्याजेन आवृतानि अङ्गानि यस्या: सा। अथवा कपटावृताङ्गी इत्यत्र कं जलमेव पट: कपट: तेन आवृतानि अङ्गानि यस्या: सा। 'सरोगाÓ सरसीजले निमज्जितशरीरा भवतीत्यर्थ:। वर्षाकाले जलाधिक्यात् सरोजिन्या निमज्जनं भ्रमरस्य प्रेमपरीक्षणाय भवतीत्युत्प्रेक्षते कवि:।
।। १४।।
कलापिकेकाक्षरयुग्मसूच्यं
'त्वं केतकीकामुकÓ इत्यनिष्टम्।
श्रुत्वेव या जीवितनिव्र्यपेक्षा
वर्षासु वापीषु तनुञ्जहाति।।
अन्वय: - त्वं 'केतकीकामुकÓ इत्यनिष्टं कलापिकेकाक्षरयुग्मसूच्यं श्रुत्वा इव या जीवितनिव्र्यपेक्षा (सती) वर्षासु वापीषु तनुञ्जहाति (तां सरोजिनीं सम्प्रति मा अवमंस्था:)।
गङ्गा - कलापीति - 'त्वं भ्रमर: केतक्या: मालत्या: कामुक:Ó इति अनिष्टं वृत्तं कलापिकेकाक्षरयुग्मसूच्यं, कलापिनां मयूराणां केकाक्षरयुग्मसूच्यं, केका मयूरध्वनि:। 'केका वाणी मयूरस्यÓ इत्यमर:। मयूराणां केकाक्षरयुग्मसूच्यं केकारूपं यदक्षरयुग्मं तेन सूच्यम्। 'केÓ इत्यनेन केतकी 'काÓ इत्यनेन च कामुकता बोध्यते। तच्छ्रुत्वा विज्ञाय इव जीवितनिव्र्यपेक्षा प्राणेभ्योऽपेक्षारहिता सती या वर्षासु वापीषु तनुं शरीरं जहाति त्यजति। वर्षासु सरोजिन्या: मुमूर्षाहेतुत्वं भ्रमरस्य केतकीकामुकतैव भजत इत्युत्प्रेक्षते।
।। १५।।
शरद्यशङ्कं भवता विहर्तुं
सन्ध्यातम:संहतिचन्द्रिकासु।
रक्तोत्पलेन्दीवरपुण्डरीक-
रूपैरभीसाररसं व्यनक्ति।।
अन्वय: - (या) भवता शरदि अशङ्कं विहर्तुं सन्ध्यातम:संहतिचन्द्रिकासु रक्तोत्पलेन्दीवरपुण्डरीकरूपै: अभीसाररसं व्यनक्ति (तां सरोजिनीं सम्प्रति मा अवमंस्था:)।
गङ्गा - शरदि सरोजिन्युपकारं वर्णयति-शरद्येति - भवता भ्रमरेण साकं शरदि अशङ्कं विहारं कर्तुं सन्ध्या च तम:संहतिश्च चन्द्रिका चेति सन्ध्यातम:संहतिचन्द्रिकास्तासु रक्तोत्पलेन्दीवरपुण्डरीकरूपै: रक्तोत्पलं च इन्दीवरं च पुण्डरीकं चेति त्रिभी रूपै: अभीसाररसम् अभिसरणानुरागं व्यनक्ति प्रकटीकरोति। सा सरोजिनी त्रिविधवर्णै: स्वपुष्पै: त्वया सह नि:शङ्कं विहर्तुं सर्वदोद्यता भवति। अभिसारे समयानुसारेण वेषधारणस्य आवश्यकत्वात् सन्ध्याकाले रक्तोत्पलं रूपं प्रकाशयति। सन्ध्याया रक्तवर्णत्वात् तदानीं रक्तस्वरूपप्रदर्शनम्। रात्रौ तम:संहतौ इन्दीवररूपं प्रकटीकरोति चन्द्रिकासु च श्वेतपुण्डरीकाख्यम्। तस्यास्त्रिविधानि पुष्पाणि त्वया सह विहारार्थमेव सन्ति। 'स्यादुत्पलं कुवलयम्,Ó 'इन्दीवरं च नीलेऽस्मिन्,Ó 'पुण्डरीकं सिताम्भोजम्Ó इत्यमर:। रक्तोत्पलादीनां सन्ध्यादिभिर्यथासंख्यमन्वय इति यथासंख्यालङ्कार:।
।। १६।।
हिमर्तुदु:स्पर्शसमीरनीर-
सम्पर्कभीत्या भवतोज्झिता किम्?।
नवेऽपमानेऽवधृतातिकष्टा
सापत्रपातङ्कमपि प्रसेहे।।
अन्वय: - हिमर्तुदु:स्पर्शसमीरनीरसम्पर्कभीत्या भवता उज्झिता किम्? नवे अपमाने अवधृतातिकष्टा सा कम् अपि पत्रपातं प्रसेहेे। अथवा 'वेपमाना इव धृतातिकृष्टा सापत्रपा आतङ्कम् अपि न प्रसेहे किम् ?
गङ्गा - हेमन्ते सरोजिन्युपकारं वर्णयन्नाह- हिमेति- हिमर्तौ दु:खेन स्प्रष्टंी योग्ययो: समीरनीरयो: सम्पर्कभीत्या भवता भ्रमरेण उज्झिता परित्यक्ता किम्? नवेऽस्मिन् भवत: परित्यागरूपे अपमाने अवधृतं निश्चितम् अतिकष्टं यया सा कमपि अपूर्वं पत्रपातं प्रसेहेे सोढवती। यो हि हेमन्ते त्यजति स निदाघे कथं न त्यजेदिति धिया पत्रपातं पत्राणां दलानां पातं च्युतिं सोढवती। हेमन्ते कमलिनीपत्रपातो जायत इति प्रसिद्ध्यनुरोधादिदम्। अथवा वेपमाना इव कम्पमाना इव धृतमतिकष्टं यया सा तादृशी अपत्रपया लज्जया सहिता आतङ्कं भयं न प्रसेहे किम्? इति काकु:। अपत्रपा लज्जेति कोश:।
।। १७।।
असोढभावत्कवियोगदु:खा
भवान्तरे त्वामधिगन्तुकामा।
असावविश्रान्तपतत्तुषार-
तुषानले देहमहो अहौषीत्!।।
अन्वय: - अहो! असोढभावत्कवियोगदु:खा भवान्तरे त्वाम् अधिगन्तुकामा असौ अविश्रान्तपतत्तुषारतुषानले देहम् अहौषीत्।
गङ्गा - शिशिरकाले कमलिन्या अदर्शनं मरणत्वेन उत्प्रेक्ष्यते - असोढेति- 'अहोÓ इत्याश्चर्यवाचकमव्ययम्। असोढभावत्कवियोगदु:खा न सोढम् असोढम्, भवत इदं भावत्कम्, असोढं भावत्कवियोगदु:खं यया सा इयं सरोजिनी भवान्तरे जन्मान्तरे 'भव: क्षेमेशसंसारे सत्तायां प्राप्तिजन्मनो:Ó इति मेदिनी। त्वाम् अलिम् अधिगन्तुकामा प्राप्तुकामा, आविश्रान्तपतत्तुषानले अविश्रान्तं सातत्येन पतन् तुषार एव तुषानल: अन्तर्दाहकोऽग्नि: तस्मिन्। हिमतुषाणां कमलिनीदाहकत्वात् अग्नित्वेन तस्य व्यपदेश:। तुषस्याग्नि: अन्तर्दहति किन्तु तस्य तीव्रता बहिर्न दृश्यते। देहं शरीरम् अहौषीत्। जुहोतेर्लुङि रूपम्।
।। १८।।
इत्यच्छलाविष्कृतभक्तिभावां
प्रतिक्षणं सम्प्रति सम्भृताभाम्।
सरोजिनीं मुञ्चसि चेन्मदान्ध!
मिलिन्द! नूनं भृशनिर्घृणोऽसि।।
अन्वय: - हे मदान्ध! मिलिन्द! इति अच्छलाविष्कृतभक्तिभावां प्रतिक्षणं सम्भृताभां सरोजिनीं मुञ्चसि चेत्, नूनं भृशनिर्घृण: असि।
गङ्गा - पुनरलिमुपदिशन्नाह- इत्यच्छलेति- हे मदान्ध! परनायिकासक्तिमदेन अन्धत्वं गत भ्रमर! इति पूर्वोक्तप्रकारेण, अच्छलाविष्कृतभक्तिभावां निश्छलतया प्रकटितो भक्तिभावोऽनन्योऽनुरागो यया ताम्, अथ च अस्मिन् वसन्ते प्रतिक्षणं सम्भृता आभा यस्या: तादृशीं सरोजिनीं कमलिनीं मुञ्चसि चेत् नूनं निश्चयेन भृशनिर्घृण:, भृशम् अतितरां निर्घृण: घृणाया: निष्क्रान्त: निष्करुण: इत्यर्थ:। 'जुगुप्साकरुणे घृणेÓ इत्यमर:। असि भवसि। लोकास्त्वां निष्करुणत्वेन व्यवहरिष्यन्तीत्यर्थ:।
।। १९।।
अनन्यसाधारणसौकुमार्य-
सौन्दर्यसौरभ्यसमष्टिभूमि:।
सरोजिनी कुत्र? मलीमसान्य-
पुष्टप्रिया चूतलता च कुत्र?।।
अन्वय: - अनन्यसाधारणसौकुमार्यसौन्दर्यसौरभ्यसमष्टिभूमि: सरोजिनी कुत्र? कुत्र च मलीमसाऽन्यपुष्टप्रियाचूतलता।
गङ्गा - सरोजिनीचूतलतयोर्भेदं प्रदर्शयति- अनन्येति - सौकुमार्यं च सौन्दर्यं चेति सौकुमार्यसौन्दर्ये अनन्यसाधारणयो: अनन्यसाधारणसौकुमार्य-सौन्दर्यसौरभ्यसमष्टिभूमि:, सौकुमार्यसौन्दर्ययो: सौरभ्यस्य समष्टिभूमि:, असाधारणसुकुमारतारूपवत्तयोश्च सुगन्धे: पूर्णतास्थलभूता सरोजिनी कुत्र? क्व सा सरोजिनी? क्व च मलीमसा मलोऽस्या अस्तीति सा मलीमसा। 'मलीमसं तु मलिनं कच्चरं मलदूषितम्Ó इत्यमर:। विहगगणरजोभि: मलिनवर्णेत्यर्थ:। अन्येन काकेन पुष्टस्य पोषितस्य परभृतस्य कोकिलस्य प्रिया सा चूतलता आम्रलता च क्व? यद्वा मलीमसशब्दोऽन्यपुष्टस्य विशेषणम्। तथात्वे मलीमसश्चासौ अन्यपुष्ट मलीमसान्यपुष्टस्तस्य प्रिया। विशेषणद्भयेन चूतलताप्रिये जुगुप्सामुत्पाद्य चूतलतां प्रत्यनादरं व्यनक्ति।
।। २०।।
प्रियान् विचेतुं विपिनं गतानां
शुचाकुलानां पथिकाङ्गनानाम्।
दृशोर्विकीर्यातुलधूलिमुष्टी-
रसौ हि पापानि समुच्चिनोति।।
अन्वय: - असौ हि प्रियान् विचेतुं विपिनं गतानां शुचाकुलानां पथिकाङ्गनानां दृशो: अतुलधूलिमुष्टी: विकीर्य पापानि समुच्चिनोति।
गङ्गा - चूतलतायां दोषान्तरं दर्शयन्नाह- प्रियामिति - असौ चूतलता प्रियान् विचेतुं विपिनं वनं गतानां शुचा शोकेन आकुलानां पतिविरहेण व्याकुलतां गतानामिति यावत्। पथिकाङ्गनानाम् अध्वगपत्नीनां दृशो: चक्षुषो: अतुलधूलिमुष्टी: अपरिमितपरागस्य मुष्टी: विकीर्य पापानि समुच्चिनोति एकत्रीकरोतीत्यर्थ:। अत्र चूतलताया: परागपाते धूलिमुष्टिविकरणत्वमुत्प्रेक्ष्यते।
।। २१।।
सपल्लवान्तान्तवनोपयुक्ता-
मनर्हपुष्पावसराभिसाराम्।
श्रितां सुसम्पन्नरवंशकुन्तै-
श्चिरात्ततारुण्यफ लामिमां धिक्!।।
अन्वय: - सपल्लवां तान्तवनोपयुक्ताम् अनर्हपुष्पावसराभिसारां सुसम्पन्नरवं शकुन्तै: श्रितां चिरात्ततारुण्यफलाम् इमां धिक् (अस्तु) अथवा सपल्लवां तव नोपयुक्तां ताम् अनर्हपुष्पावसराभिसारां सुसम्पन्नरवंशकुन्तै: श्रितां चिरात्ततारुण्यफलाम् इमां धिक् (अस्तु)।
गङ्गा - श्लेषेण चूतलताया अन्यान् दोषान्प्रदर्शयति- सपल्लवेति- सपल्लवां पल्लवै: किसलयै: यद्वा पल्लवैर्जारै: सह विद्यत इति सपल्लवा, ताम्। पल्लवोऽस्त्री किसलयम्Ó इत्यमर:। तान्तवनोपयुक्ताम् तान्ते श्रान्ते ग्रीष्मेण शुष्के वने छायादिना उपयुक्ताम्। अनर्हपुष्पावसराभिसाराम्, अनर्ह: अयोग्य: पुष्पावसरे मञ्जरीविकासकाले अभिसारो यस्या:, अयोग्य: रजोदर्शनसमयेऽभिसारो वा यस्यास्ताम्। मञ्जरीविकासकाले पत्ररहितत्वात् प्रियमिलनं तस्या न उपयुक्तं भवतीत्यर्थ:। (सुसम्पन्नै: धनादिभिराढ्यै: महाधनै: नरवंशेषु मानवकुलेषु कुन्तै: कुन्ततुल्यै: क्रूरै: श्रिताम् आश्रयत्वेन स्वीकृताम् अथ च तैरेव चिरात् आत्तम् उपभुक्तं तारुण्यफलं यौवनरस: यस्यास्ताम्। इमां चूतलतां चूतलताप्रतीकभूतां नायिकां च धिक्। अस्त्विति शेष:।
अथवा चूतलताया व्याजेन कामपि नायिकां वर्णयति। पल्लवै: जारै: सह वर्तत इति सपल्लवता, ताम्। 'पल्लव: कामुकÓ इति हैम:। तव भ्रमरस्य नोपयुक्ताम् अनुपयुक्ताम् बहुभिर्जारै: सहितत्वात् तव भोगायोग्यामिति भाव: तां चूतलातम् अनर्ह: अयोग्य: पुष्पावसरे रजोदर्शनकाले अभिसारो यस्या:, ताम्। 'पुष्पं विकासिकुसुमस्त्रीरज:सु नपुंसकम्Ó इति मेदिनी। रजोदर्शनकाले धर्मशास्त्रनिषिद्धत्वाद् अभिसारस्य अयोग्यत्वं सूचयति। सुसम्पन्नरवं परिपूर्णशब्दं यथा स्यात् तथा शकुन्तै: पक्षिभि: श्रिताम् आश्रयत्वेन ग्रहीताम् अथ च तैरेव पक्षिभि: चिरात् चिरकालेन ततं व्याप्तम् आरुण्यं येषु तादृशानि फलानि यस्यास्ताम्। जारै: क्रूरैश्च आश्रयत्वेन स्वीकृता तैरेव भृशमुपभुक्ता सा चूलता न तवोपभोग्येत्यभिप्राय:।
।। २२।।
वयस्यशीते रुचिरेऽतियाते
प्रकामवृद्धावलिवल्गितानाम्।
निवासतामात्मनि मन्यमाना
कथं न सा सम्प्रति लज्जते स्म?।
अन्वय: - हे वयस्य! रुचिरे शीते अतियाते अभिवल्गितानां प्रकामवृद्धौ (सञ्जातायां) आत्मनि निवासतां मन्यमाना सा सम्प्रति कथं न लज्जते स्म।
अथवा- रुचिरे वयसि अशीते: अतियाते प्रकामवृद्धावलिवल्गितानाम् आत्मनि निवासतां मन्यमाना सा सम्प्रति कथं न लज्जते स्म।
गङ्गा - विलासिनोक्तं विशदयति- वयस्येति- हे वयस्य! हे मित्र अले! रुचिरे रुचिप्रदे सुन्दरे शीते शीतकाले अतियाते व्यतीते वसन्तर्तोश्च प्राप्ते समयेऽस्मिन् अलीनां वल्गितानां भ्रमरचापलानां प्रकामम् अत्यन्तं वृद्धौ सत्याम् आत्मनि सरोजिन्यां वसतिस्थानत्वं मन्यमाना सम्प्रति च तव अन्यनायिकासक्तिं दृष्ट्वा सा कथं न लज्जते स्म। तव चञ्चलस्य व्यवहारेणैतेनावश्यं लज्जते स्मेति भाव:। स्मोत्तरे लङ्। 'आस्कन्दिहं धोरितकं रेचितं वल्गितं प्लुतम्Ó इत्यमर:। 'वल्ग गतौÓ इति धातो: क्त:। 'वल्गितं पुन: अग्रकायसमुल्लासात्कुञ्चितास्यं नतत्रिकम्Ó इति नाममाला। शब्दस्यास्य गतिवाचकत्वादत्र चाञ्चल्यस्य बोध:।
अथवा - रुचिरे वयसि तरुणावस्थायाम् अशीते: संख्याया अतियाते अतिक्रान्ते अत्यन्तं वृद्धत्वं प्राप्ता वर्षीयसी सा प्रकामम् अतिशयेन वृद्धावले: वल्गितानां कम्पानामित्यर्थ:। वल्गतेर्गतिवाचकत्वात् वाद्र्धक्यजन्यकम्पस्य बोध:। वृद्धभावजनितानां तेषां कम्पानां निवासताम् आधारत्वम् आत्मनि मन्यमाना जानन्ती सा कथं न लज्जत इत्यर्थ:। प्रथमपक्षे तरुणे वयसि द्वितीये च चरमे वयसि सरोजिनीदशाया बोध इति विशेष:। वृद्धावलिस्तत्तदङ्गजनितवार्धक्यभाव:।
।। २३।।
इति स्वकामित्वगुणानुरूप-
श्लिष्टोक्तिवैचित्र्यचमत्कृतार्थम्।
विलासिनं वाक्चतुरं विचिन्त्य
तं व्यङ्ग्यभङ्ग्यैैव जगाद भृङ्ग:।।
अन्वय: - इति स्वकामित्वगुणानुरूपश्लिष्टोक्तिवैचित्र्यचमत्कृतार्थं विलासिनं वाक्चतुरं विचिन्त्य भृङ्ग: व्यङ्ग्यभङ्ग्या एव जगाद।
गङ्गा - श्रुतविलासिवचनोऽलि: किमकरोदिति वर्णयति- इतीति- इति एवं प्रकारेण स्वस्य य: कामित्वाख्यो गुणस्तदनुरूपाणां श्लिष्टोक्तीनां विविधार्थयुतां वाचां वैचित्र्येण चमत्कृतश्चमत्कारयुक्तोऽर्थो यस्य तादृशं विलासिनं चतुरं वच:प्रयोगे प्रवीणं विचार्य भृङ्ग: पूर्वोक्त: अलि: व्यङ्ग्यभङ्ग्या व्यङ्ग्यान्वितवाच:सौन्दर्येण एव जगाद प्रत्युत्तररूपेण वक्ष्यमाणं कथयामास। गदधातोर्लिटि-जगादेति।
।। २४।।
गतौ भ्रमं नापवदन्ति सन्त:
किन्त्वीक्ष्यते ते मनसि भ्रमोऽयम्।
अतोऽनुगृह्योपदिशामि यत्तत्
त्वयाऽवधानेन चिरं विभाव्यम्।।
अन्वय: - (हे विलासिन्!) सन्त: गतौ भ्रमं न अपवदन्ति किन्तु अयं भ्रम: ते मनसि ईक्ष्यते। अत: अनुगृह्य यत् उपदिशामि तत् त्वया अवधानेन चिरं विभाव्यम्।
गङ्गा - विलासिनमभिमुखीकुर्वन्नाह अलि:- गताविति- सन्त: विद्वांस:, औचित्यानौचित्यविवेकदक्षा मनीषिण इति यावत्। गतौ गमने भ्रमं भ्रमणं न अपवहन्ति, न निन्दन्ति, अपि तु भ्रमणं प्रशंसन्ति किन्तु अयं भ्रम: ते विलासिन: मनसि बुद्धौ ईक्ष्यते दृश्यते। स च बुद्धिस्थो भ्रम: सद्भिर्निन्द्यते। अत: अनुगृह्य त्वयि कृपां कृत्वा अहं भ्रमर: यत् उपदिशामि तत् त्वया विलासिना अवधानेन चिरं विभाव्यं श्रोतव्यम्। मया तव बुद्धौ भ्रमो दृश्यतेऽतस्तन्निकारणाय मया यद्यदुच्यते तत् त्वया सम्यक्तया शान्तेन मनसा श्रोतव्यमिति भाव:।
।। २५।।
अये विलासिन्! न हि विद्यते मे
रसालसालेऽभिनिवेशलेश:।
असक्तचेता जनकाननोद्य-
त्सर्वागमोत्थं रसमाद्रियेऽहम्।।
अन्वय: - अये विलासिन्! मे रसालसाले अभिनिवेशलेश: नहि विद्यते। असक्तचेता अहं जनकाननोद्यत्सर्वागमोत्थं रसम् आद्रिये।
गङ्गा - भूमिकां रचयित्वा सम्प्रति अलिसिनोक्तं विशदयति- अये विलासेति- हे विलासिन्! मे मम अले: रसालसाले सहाकारवृक्षे अभिनिवेशलेश: यन्मम चाञ्चल्यं दृष्ट्वा त्वयोक्तं तत्, न विद्यते। असक्तचेता:, असक्तं कुत्रचिदपि अननुरक्तं चेत: मनो यस्य तादृश: सन्नहं जनकाननोद्यत्सर्वागमोत्थं जनानां लोकानां काननेषु उपवनेषु उद्यन्तो वृद्धिं गच्छन्तो ये सर्वे अगमा वृक्षा: सन्ति तेभ्य उत्थितं रसं मकरन्दम् आद्रिये अभिनन्दामि। 'पलाशी द्रुद्र्रुमागमाÓ इत्यमर:। अथवा अहं जनकस्य विदेहाख्ययोगिन: आननात् मुखात् उद्यन्त: नि:सरन्त: ये सर्वे आगमा: वेदोपनिषदादिसम्बन्धिन: सिद्धान्ता: तै: उत्थितं रसं ब्रह्मतत्त्वम् आद्रिये। तथा च श्रुति: - रसो वै स:Ó। न तु यथा भवान् मां चिन्तयति तथाऽहमस्मीति भाव:। यद्वा जनकशब्देनाऽत्र समेषां जनको ब्रह्मा गृह्यते। तस्यैव मुखात् समेषामागमानां जनिरिति पुराणादिषु प्रसिद्धम्। अथवा जनक: वेदेषु कीर्तिन: पुरुष:। स एव समेषां यिता।
।। २६।।
निरन्तरं माधवरम्यशोभा -
नवावतारस्तुतिक्लृप्तगीति:।
स्ववष्र्मणा विष्णुपदावलम्बी
यायावरोऽरण्यचरो द्विजोऽहम्।।
अन्वय: - अहं माधवरम्यशोभानवावतारस्तुतिक्लृप्तगीति: स्ववष्र्मणा निरन्तरं विष्णुपदावलम्बी यायावर: अरण्यचर: द्विज: (अस्मि)।
गङ्गा - पुनरलिना किमुक्तमिति वक्ति- निरन्तरेति- अत्र प्रयुक्तद्विजशब्दस्य ब्राह्मणपक्षिरूपद्विविधार्थे शक्तत्वाद् अस्य द्विविधोऽर्थ:। ब्राह्मणक्षे यथा- माधवस्य भगवतो नारायणस्य रम्या मनोहरा या शोभा तस्या: शोभाया नवावताराणां विविधकल्पेषु रामकृष्णादितत्तद्रूपेषु सञ्जाताभिनवप्रादुर्भावानां स्तुते: क्लृप्ता सम्पादिता गीतिर्येन स तादृश:। पुनश्च कीदृश:? स्ववष्र्मणा स्वदेहेन। 'वष्र्मदेहप्रमाणयो:Ó इत्यमर:। विष्णुपदावलम्बी विष्णो: नारायणस्य पदावलम्बी चरणानुरागी। यायावर: अनिकेतो मुनि: अरण्चर: वने विचरणशील: द्विज: ब्राह्मण: अस्मि।
भ्रमरपक्षे- अस्मिन् पक्षे माधवशब्द: वसन्तर्तुवाचक:। तथात्वे माधवस्य वसन्तस्य रम्यशोभाया नवावताराणां स्तुतौ क्लृप्ता गीतिर्येन प्रसारितो गुञ्जनारवो येन तादृशोऽहं भ्रमर:। वसन्तस्य रम्यशोभाया विविधरूपाणां स्तुतौ प्रसारितगुञ्जनारव इत्यर्थ:। स्ववष्र्मणा देहेन उड्डीय विष्णुपदावलम्बी गगनावलम्बी। 'वियद्विष्णुपदं वा तु पुंस्याकाशविहायसीÓ इत्यमर:। यायावर: गमनशील: अरण्यचर: विपिनविहारप्रिय: द्विज: पक्षी। 'द्विज: स्याद् ब्राह्मणक्षत्रवैश्यदन्ताण्डजेषु नाÓ इत्यमर:।
।। २७।।
सुहृद्यगन्धात् सुमनस्समूहात्
समस्तदोषज्ञचिरप्रशस्तम्।
रसं रसायां मधुरञ्जनाय
दातुं न दूष्यो मम पक्षपात:।।
अन्वय: - सुहृद्यगन्धात् सुमनस्समूहात् रसायां समस्तदोषज्ञचिरप्रशस्तं मधु रसं रञ्जनाय दातुं (योऽयं) मम पक्षपात: (स) न दूष्य:।
अथवा - सुहृदि अगन्धात् सुमनस्समूहात् रसायां समस्तदोषज्ञचिरप्रशस्तं मधुरं रसं जनाय दातुं मम (योऽयं) पक्षपात: (स) न दूष्य:।
गङ्गा - पुनरलि: किमाहेति वर्णयति- सुहृद्येति- सुहृद्यगन्धात् सुहृद्यो गन्धो यस्य तादृशात्। सुमनस्समूहात् सुमनसां पुष्पाणां समूहात् रसायां पृथिव्यां समस्तै: दोषज्ञै: चिरप्रशस्तं चिरात् प्रतिष्ठितं समस्तवैद्यकुलसमादरणीयं मधुरं रसं रञ्जनाय रोगिणां प्रीतये स्वास्थ्य प्राप्तये प्रीतये वा दातुं योऽयं मम सरोजिनीप्रभृतिपुष्पेषु पक्षपात: पक्षाभ्यां पात: इतस्ततो पुष्पेषु भ्रमणं स विलासिना नेदृशवचनैर्दूष्य:। तत्तु लोकोपकारायैव मया सम्पाद्यते न तु स्वार्थसिद्धये इति भाव:। दोषं जानातीति दोषज्ञो वैद्य:। 'दोषज्ञौ वैद्यविद्वांसौÓ इति कोश:। 'भूर्भूमिरचलानन्ता रसाÓ इत्यमर:।
यद्वा सुहृदि मित्रे अगन्धात् गर्वरहितात्। 'गन्ध: सम्बन्धलेशयो:। गन्धकामोदगर्वेषुÓ इति हैम:। सुमनसां पण्डितानां समूहात् संघात्। रसायां पृथिव्यां समस्तैर्विद्वद्भिश्चिरं प्रशस्तम् आदृतं मधुरं रसं जनाय जनसामान्याय दातुं यो हि मम पक्षपात: एकभाग्रह: स न त्वया दूष्य इत्यर्थ:॥२७॥
।। २८।।
अन्याविरोधेन सुमेषु सारं
श्रमेण सम्पाद्य विमुक्तभोग:।
गिरावहन्निर्वृतये प्रकाश्य
भूतोपकृत्यै भुवि पर्यटामि।।
अन्वय: - अन्याविरोधेन श्रमेण सुमेषु सारं सम्पाद्य विमुक्तभोग: अहं निर्वृतये गिरौ प्रकाश्य भूतोपकृत्यै भुवि पर्यटामि।
गङ्गा - पुन: किमर्थं भुवीतस्तत: पर्यटामीत्याह- अन्येति- अन्याविरोधेन अन्येषाम् अविरोधेन श्रमेण हेतुना सुमेषु पुष्पेषु सारं मधु सम्पाद्य विमुक्तभोग: स्वयमभुञ्जान: सन् अहं भ्रमर: गिरौ पर्वतते जनानां निर्वृतये आनन्दाय प्रकाश्य प्रकटय्य भूतोपकृत्यै भूतानामुपकाराय भुवि पर्यटामि,परिभ्रमामि। एवं मम इतस्ततो भ्रमणं न कामुकतापूत्र्यर्थमपितु लोकहितायैवेति विवक्षति। गिरा वाण्या वहन्नित्यप्यर्थयोजना। 'स्त्रिय: सुमनस: पुष्पं प्रसूनं कुसुमं सुमम्Ó इत्यमर:।
।। २९।।
न वाजपेयाद् विरमामि नित्यं
न पौण्डरीकादथवा सवाच्च।
स्वयागमालासततप्रवृत्त्या
धु्रवा हि मत्कर्मसुखोपलब्धि:।।
अन्वय: - (अहम् अलि:) नित्यं च वाजपेयात् अथवा पौण्डरीकात् सवात् न विरमामि। हि स्वयागमालासततप्रवृत्त्या मत्कर्मसुखोपलब्धि: ध्रुवा (अस्ति)।
अथवा- न वा नित्यम् अजपेयात् अथवा पौण्डरीकात् सवात् च विरमामि। हि स्वया अगमालासततप्रवृत्त्या मत्कर्मसु खोपलब्धि: ध्रुवा (अस्ति)।
गङ्गा - पुनरलिराह- न वेति- अहं भ्रमणशीलो भ्रमर: नित्यं च वाजपेयात् तदाख्ययज्ञात् अथवा पौण्डरीकात् पौण्डरीकनामकात् सवात् यज्ञात् न विरमामि। हि निश्चयेन स्वस्य यागमालायां क्रतुपरम्परायां सततप्रवृत्त्या नैरन्तर्येण जायमानया प्रवृत्त्या मत्कर्मणा यागसम्पादनरूपव्यापारेण सुखोपलब्धि: आनन्दप्राप्ति: ध्रुवा आवश्यम्भाविनी, न तत्र सन्देहलेश इत्यर्थ:।
अथवा- अहं भ्रमर: न वा अजपेयात् अजै: पातुं योग्यं यो हि तुच्छरसस्तस्मात्, पुण्डरीकस्येदं पौण्डरीकम्, कमलसम्बन्धिन: सवात्, आसवात्। 'पुण्डरीकं सिताम्भोजम्Ó इत्यमर:। स्वया स्वकीयया अगमालायां वृक्षपरम्परायां सततं नैरन्तर्येण प्रवृत्त्या मत्कर्मसु मया अलिना सम्पादितेषु व्यापारेषु खस्याकाशस्योपलब्धि: प्राप्ति: ध्रुवा निश्चया। आकाशप्राप्तौ न कश्चन सन्देह इति तात्पर्यम्। 'अग: स्यान्नगवत्तरौ शैले सरीसृपे भानौÓ इति हैम:।
।।३०।।
मया किलोच्चावचपार्थिवाना-
मपीडया भूतदयाप्रधाना।
स्वप्राणयात्रैकफ ला मुमुक्षू-
नध्यापिता माधुकरीह वृत्ति:।।
अन्वय: - इह मया किल उच्चावचपार्थिवानाम् अपीडया भूतदयाप्रधाना स्वप्राणयात्रैकफला माधुकरी वृत्ति: मुमुक्षून् अध्यापिता।
गङ्गा - स्वकृत्यं वर्णयन्नाह- मयेति - इह अस्मिन् भूमण्डले मया भ्रमरेण उच्चावचानाम् अनेकप्रकाराणां पार्थिवानां राज्ञां तरूणां वा। 'राज्ञि राट्पार्थिवक्ष्माभृन्नृपभूपमहीक्षित:Ó इत्यमर:। 'पार्थिवो नृपतौ भूमिविकारे पार्थिवोऽन्यवत्Ó इति च विश्व:। पार्थिवशब्दस्य पृथवीविकार वा चित्वात् वृक्षरुपोऽप्यर्थ:। अपीडया पीडया विना, सुखेन भूतानां प्राणिनां दया अनुकम्पा प्रधाना मुख्या यस्यां तादृशी, स्वप्राणानां यात्रा केवलं फलं यस्यास्तादृशी। जीवननिर्वाहमात्रमेव वृत्तेरस्या: प्रयोजनं न तु सङ्ग्रह:। माधुकरी वृत्ति: मुमुक्षून् मोक्षेच्छून् अध्यापिता पाठिता।
वस्तुतस्त्विदं पद्यं श्रीमद्भागवतस्याधोलिखितपद्ययो: सङ्ग्र्रह: -
स्तोकं स्तोकं ग्रसेद् ग्रासं देहो वर्तेत यावता।
गृहानहिंसान्नातिष्ठेद् वृत्तिं माधुकरीं मुनि:॥
अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्य: कुशलो नर:।
सर्वत: सारमादद्यात् पुष्पेभ्य इव षट्पद:॥११.८.९, १०॥
एतयोर्भावमादायैव मधुकरी वृत्तिरिह भूतदयाप्रधाना स्वप्राणयात्रैकफला च कथिता।
।। ३१।।
अल्पोऽपि देहे मम नास्ति रागो
न कुत्रचिद् द्वेषमहं वहामि।
सदैकरूपस्थितिकृत्तमोऽहं
हंसादृतं पुष्करमाश्रयामि।।
अन्वय: - मम देहे अल्प: अपि राग: न अस्ति। अहं कुत्रचिद् द्वेषं न वहामि। सदैकरूपस्थितिकृत्तम: अहं हंसादृतं पुष्करम् आश्रयामि।
अथवा - मम देहे अल्प: अपि राग: न अस्ति। अहं कुत्रचिद् द्वेषं न वहामि। सदैकरूपस्थितिकृत्तमोहं हंसादृतं पुष्करम् आश्रयामि।
गङ्गा - प्राप्तावसरो भ्रमरस्य श्लिष्टोक्तिं प्रस्तौति- अल्प इति- मुनि-भ्रमरयो: पक्षमाश्रित्य नानार्थकमिदम्। भ्रमरपक्षे- मम अले: देहे सर्वत्र नीलरूपस्य सत्त्वात् अल्पोऽपि राग: रक्तिमा नास्ति। अहं कुत्रचिद्द्वेषं कृत्रिममाकारं न वहामि। एकस्मिन् स्थल एकमपरस्मिन् स्थले चाऽन्यं रूपं न धारयामीत्यत्यर्थ:। कुत्रचिद्द्वेषमित्यत्र दकारस्य द्वित्वम्। एकस्मिन्नेव नीलरूपेऽतिशयेन स्थितिकृदहम् भ्रमर:। स्थितेरतिशयद्योतनाय तमप्। हंसेन हंसाख्यपक्षिणा आदृतं पुष्करं कमलमाश्रयामि। 'पुष्करं पङ्कजे व्योम्रिÓ इति विश्व:।
मुनिपक्षे तु रागोऽनुरागवाचक:। द्वेषोऽमर्षवाचक:। सदैकरूपस्थितिकृत्तमोहम् इति तु मुनिपक्षे क्रियाविशेषणम्। सदा एक रूपया स्थित्या कृत्तश्छिन्नो मोह: यस्मिन् कर्मणि तत्। हंसेन यतिना आदृतं पुष्करं तदाख्यं तीर्थम् आश्रयामीति व्याख्या। 'हंसो विहङ्गभेदे स्यादर्के विष्णौ हयान्तरे, योगिमन्त्रादिभेदेषु परमात्मन्यमत्सरे। निर्लोभनृपतौ हंस: शरीरमरुदन्तरेÓ इति विश्व:। 'पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले व्योम्नि खड्गफले पक्षे तीर्थौषधिविशेषयो:Ó इति चामर:।
।। ३२।।
जितेन्द्रियेष्वप्यनुवर्तमानं
त्रैगुण्यमेतन्मम पादमूले।
आलोक्य मां धारितकृष्णरूपं
सर्वत्रगं ब्रह्म विनिश्चिनु त्वम्।।
अन्वय: - (हे विलासिन्) त्वं जितेन्द्रियेषु अपि अनुवर्तमानम् एतत् त्रैगुण्यं मम पादमूले आलोक्य धारितकृष्णरूपं मां सर्वत्रगं ब्रह्म विनिश्चिनु।
गङ्ग्रा - अलिनोक्तं पुनरपि विस्तारयति - जितेन्द्रियेति- हे विलासिन्! त्वं जितेन्द्रियेषु जितानि वशीकृतानि इन्द्रियाणि यैस्तेषु यतिषु अनुवर्तमानं मम पादमूले एतत् त्रैगुण्यमालोक्य दृष्ट्वा। यतयो भवन्ति पादद्वयवन्त:। भ्रमर: पुन: षट्पदो भवतीति प्रसिद्धि:। अत: पादद्वयवतां यतीनामपेक्षया भ्रमरस्य पादत्रैगुण्यम्। इत्थं पादमूले विद्यमानत्वात् बाधितत्रैगुण्यस्तत्त्वज्ञोऽहमिति तदभिप्राय:। ब्रह्मविद्ब्रह्मैव भवतीति श्रुते: त्रैगुण्यं गुणत्रयकार्यभूत: संसार इति। त्रैगुण्यविषया वेदाÓ इत्यादि- श्रीमद्भगवद्गीतायां भाष्ये स्पष्टम्। एवं यत् त्रैगुण्यं यतीनां बुद्धावनुवर्तते तदेव मम भ्रमरस्य पादमूले विद्यत इति यत्यपेक्षयापि भ्रमरस्य श्रेष्ठत्वम्। एवं धारितकृष्णरूपं धारितं कृष्णरूपं येन तत्, परं ब्रह्मैव लीलेच्छया कृष्णरूपेण आविर्बभूवेति श्रीमद्भागवतादिमहापुराणेषु प्रसिद्धम्, तादृशं मां सर्वत्रगं सर्वत्र व्याप्तं ब्रह्म विनिश्चिनु निर्धारय। भ्रमरपक्षे धारितकृष्णरूपमित्यस्य कृष्णवर्णं सर्वत्रगमित्यस्य च सर्वत्र सञ्चारीत्यप्यर्थो बोध्य:।
।। ३३।।
मदीयनीरन्ध्रविचिन्तनेन
कीटोऽपि मदू्रपमविन्दतेति।
ब्रह्मात्मताव्यञ्जननि:सपत्ना
लोकप्रसिद्धा हि मम प्रशस्ति:।।
अन्वय: - कीट: अपि मदीयनीरन्ध्रविचिन्तनेन मम रूपम् अविन्दत इति हि मम ब्रह्मात्मताव्यञ्जननि:सपत्ना प्रशस्ति: लोकप्रसिद्धा (अस्ति)।
गङ्गा - स्वस्वरूपस्मरणस्य महत्त्वं वक्ति- मदीयेति- कीटोऽपि मदीयस्य ब्रह्मरूपस्य अले: नीरन्ध्रम् अविरतं विचिन्तनेन पुन: पुन: स्मरणेन। निदिध्यासनेनेति यावत्। ब्रह्मरूपम् अविन्दत् प्राप्नोत्। तदेतद् वेदान्तशास्त्रप्रसिद्धकीटभृङ्गन्यायेनोक्तम्। भ्रमरगृहीतकीटस्तत्कुड्यायां भयेन तमनुस्मरन् भृङ्गरूपतां प्राप्नोति। तथा चोक्तं श्रीमद्भागवते -
कीट: पेशस्कृता रुद्ध: कुड्यायां तमनुस्मरन्।
संरम्भभययोगेन विन्दते तत्सरूपताम्॥
एवं कृष्णे भगवति मायामनुज ईश्वरे।
वैरेण पूतपाप्मानस्तमापुरनुचिन्तया॥ (७.१.२७, २८)
अतश्च निदिध्यासनं लक्षयता वेदान्तपरिभाषाकृताऽप्युक्तम् - 'निदिध्यासनं नाम अनादिदुर्वासनया विषयेष्वाकृष्यमाणस्य चित्तस्य विषयेभ्योऽपकृष्यात्मविषयकस्थैर्यानुकूलो मानसो व्यापार:Ó। तच्चेदं निदिध्यासनं ब्रह्मसाक्षात्कारे साक्षात्कारणमिति वेदान्तसिद्धान्त:।
इति एवं विधा। मम पुन: पुन: स्मरणेन कीटोऽपि ब्रह्मरूपतां प्रापदित्येतादृशी ब्रह्मात्मताव्यञ्जननि:सपत्ना ब्रह्मात्मताया ब्रह्मस्वरूपताया व्यञ्जने प्रकाशने नि:सपत्ना विरोधरहिता मम प्रशस्ति: स्तुति: लोकेषु प्रसिद्धा अस्तीत्यर्थ:। न मादृशोऽन्यो ब्रह्मरूपताप्रकाशक इति भाव:। आत्मशब्दोऽत्र स्वरूपार्थे प्रयुक्त:। प्रसङ्गोऽयं हनुमन्नाटकेऽपि लभ्यते -
बिभेमि सखि संवीक्ष्य भ्रमरीभूतकीटकम्।
तद्ध्यानादागते पुंस्त्वे तेन सार्धं कुतो रति:॥(६.४५)
।। ३४।।
स्त्रीभावसम्भावनया लतासु
तरुष्वपि व्यक्तमनोजचेष्टे!
अलं भवत्यामनिरूपणेन
विप्रस्तुतं प्रस्तुतमेव वक्ष्ये।।
अन्वय: - लतासु तरुषु अपि स्त्रीभावसम्भावनया व्यक्तमनोजचेष्टे भवति आत्मनिरूपणेन अलम्। विप्रस्तुतं प्रस्तुतम् एव वक्ष्ये।
गङ्गा - पुनरलिराह- स्त्रीभावेति - लतासु वल्लीषु मल्लिकाप्रभृतिषु अथ च तरुषु वृक्षेषु सहकारादिषु स्त्रीभावस्य सम्भावनया कल्पनया व्यक्ता प्रकटिता मनोजस्य चेष्टा भावना यस्य तादृशे भवति विलासिनि आत्मनिरूपणेन आत्मन आत्मतत्त्वस्य निरूपणेन अलम्, पर्याप्तम्। य: खलु लतावृक्षादिष्वपि कामचेष्टामेव पश्यति तस्य भवतो विलासिन: पुरतो ममेदमात्मतत्त्वनिरूपणं व्यर्थमेव। अत: सम्प्रति विप्रैर्विद्वद्भि: स्तुतं प्रशंसितं प्रस्तुतमेव वक्ष्ये, कथयामीत्यर्थ:।
।। ३५।।
अनेकशाखाप्रचुरप्रचार-
निवारितस्वाश्रिततीव्रताप:।
स्मरान्धभावाद् भवता रसालो
लतात्वमारोप्य न निन्दनीय:।।
अन्वय: - भवता स्मरान्धभावात् अनेकशाखाप्रचुरप्रचारनिवारित-स्वाश्रिततीव्रताप: रसाल: लतात्वम् आरोप्य न निन्दनीय: (अस्ति)।
गङ्गा - विलासिनं रसालनिन्दातो वारयति- अनेकेति- अनेकशाखानां प्रचुरप्रचारेण भूरिविस्तारेण निवारित: दूरीकृत: स्वाश्रितानां स्वच्छायायां विद्यमानानां स्वाध्येतॄणां वा तीव्र: प्रचण्ड: ताप: येन स:। तादृशो वेदो वृक्षो वा। वेद: संसारजं तापं दूरीकरोति वृक्षश्च स्वाश्रितानामातपजं तापमिति तापवारकत्वमुभयो: निर्धारितम्। वेदोऽप्यनेकशाखोवृक्षोऽपीति शाखादृष्ट््याऽप्युभयो: साम्यसिद्धि:। स्मरान्धभावात् कामान्धभावात् भवता विलासिना रसालस्तदाख्यवृक्षो लतात्वमारोप्य न निन्दनीयो न गर्हणीय:। 'मदनो मन्मथो मार: प्रद्युम्रो मीनकेतन:, कन्दर्पो दर्पकोऽनङ्ग: काम: पञ्चशर: स्मरÓ इत्यमर:।
।। ३६।।
अकिञ्चनादिक्षितिपान्तलोक-
साधारणस्वादुफ लोपभोग:।
परोपकारैकधृतावतार:
स्तुत्यो मयोपेत्य हि वस्तुतोऽयम्।।
अन्वय: - वस्तुत: अकिञ्चनादिक्षितिपान्तलोकसाधारणस्वादुफलोपभोग: परोपकारैकधृतावतार: अयं हि (रसाल:) मया उपेत्य स्तुत्य:।
गङ्गा - अकिञ्चनेति- आदिशब्द आद्यवयवे रूढ:। अकिञ्चन आदि: अकिञ्चनादि:। अन्तशब्दोऽन्तावयवे रूढ:। क्षितिपोऽन्त इति क्षितिपान्त:। अकिञ्चनादि: क्षितिपान्त: यस्य तादृशो लोक:। अकिञ्चनो दरिद्र: क्षितिपश्च नृप:। स्वादु: स्वादिष्ट: फलोपभोग: यस्य तादृशो रसाल:। अकिञ्चनादिक्षितिपान्तलोकसाधारणस्य स्वादुफलोपभोगोऽयं केवलं परोपकाराय धृतोऽवतार: गृहीतं जन्म येन तादृशो रसालो मया अलिना सह उपेत्य त्वया विलासिनाऽपि स्तुत्योऽभिनन्दनीय: पूज्यो वेत्यर्थ:। वृक्षाणां परोपकारता सुप्रसिद्धैव।
।। ३७।।
निदाघकालातिकरालहेलि-
मयूखमालाकुलितोऽतिवेलम्।
अन्विष्य हृष्यन्निवसन्नमुष्य
च्छायासु विश्राम्यति पान्थसङ्घ:।।
अन्वय: - निदाघकालातिकरालहेलिमयूखमालाकुलित: पान्थसंघ: अन्विष्य अमुष्य छादासु हृष्यन् निवसन् अतिवेलं विश्राम्यति।
गङ्गा - रसालवृक्षस्योपकारं वर्णयति - निदाघेति - निदाघकालस्य ग्रीष्मसमयस्य अतिकरालहेलिरूपा या मयूखमाला किरणसमूहस्तया आकुलित: व्याकुलीकृत: पान्थसंघ: पान्थानां मार्गे गच्छतां समूह: अन्विष्य अन्वेषणं कृत्वा अमुष्य रसालवृक्षस्य छायासु हृष्यन् हर्षमनुभवन् निवसन् निवासं कुर्वन् अतिवेलम्, अतिक्रान्तां वेलां मर्यादाम्, 'अत्यादय: क्रान्ताद्यर्थे द्वितीययाÓ (वा. २.२.१८) इति समास:। वेलामतिक्रम्य विलम्बं यावद् विश्राम्यति शैत्यमनुभवतीत्यर्थ:। 'करालं दन्तुरे तुङ्गे भीषणे चाभिधेयवत्Ó इति मेदिनी। 'किरणोस्रमयूखांशुगभस्तिघृणिधृष्णय:, भानु: को मरीचि: स्त्रीपुंसयोर्दीधिति: स्त्रियाम्Ó इत्यमर:।
।। ३८।।
कान्तासु कान्तारपथेन यान्ती-
ष्वत्यन्ततान्तासु वसन्तकाले।
निशान्तशीघ्राप्तिविधानहेतो:
पिष्टातमध्वन्ययमुच्चिनोति।।
अन्वय: - अयं (रसाल:) वसन्तकाले अत्यन्ततान्तासु कान्तारपथेन यान्तीषु कान्तासु निशान्तशीघ्राप्तिविधानहेतो: अध्वनि पिष्टातम् उच्चिनोति।
गङ्गा - रसालस्य गुणान्तरं वर्णयन्नाह- कान्तेति- अयं रसालवृक्ष: वसन्तकाले अत्यन्ततान्तासु प्रियविरहेऽत्यन्तं श्रान्तासु। 'तान्त: श्रान्तÓ इति शब्दकल्पद्रुम:। कान्तारपथेन यान्तीषु। 'कान्तारोऽस्त्री महारण्ये विले दुर्गमवत्र्मनिÓ इति मेदिनी। वसन्तजन्यविरहपीडया दुर्गममार्गेण अतिकष्टेन कालं नयन्तीषु कान्तासु पथिकप्रियासु प्रियाणां निशान्ते भवने शीघ्रं सपदि आप्तिविधानहेतो: प्राप्तिनियमसम्पादनाय। 'निशान्तं त्रिषु शान्ते स्यात्क्लीबं तु भवनोषसो:Ó इति मेदिनी। अस्मत्प्रिया: शीघ्रं गृहमागच्छन्त्विति धिया पथिकप्रियाभि: क्रियमाणस्य विधे: पूर्तये इत्यर्थ:। अध्वनि कान्तानां दुर्गममार्गे। 'अध्वा ना पथि संस्थाने सास्रवस्कन्धकालयो:Ó इति कोश:। पिष्टातं सुगन्धचूर्णम्। 'पिष्टात: पटवासक:Ó इत्यमर:। आम्रमञ्जरीपरागरूपं द्रव्यं राशीकरोतीत्यर्थ:।
।। ३९।।
फ लातिभारेऽपि नतो विनीतो-
ऽवनोपयुक्त: सहकारराज:।
त्वया सदामोदरसप्रदायी
तप्र्यो न गह्र्यस्त्वथ वारियुक्त्या।।
अन्वय: - त्वया वा फलातिभारे अपि नत: विनीत: अवनोपयुक्त: अथ सदामोदरसप्रदायी सहकारराज: तप्र्य:, न तु अरियुक्त्या गह्र्य:।
गङ्गा - अयं रसालस्त्वया तप्र्य इति निर्दिशति- फलेति - त्वया विलासिना फलानामाधिक्यात् अतिभारे अपि नत: नम्र:, विनीत: विनयशील: वृक्षास्तु फलागमैर्नम्रा भवन्तीति 'भवन्ति नम्रास्तरव: फलागमै:Ó इत्याद्युक्तिभि: प्रसिद्धमेव। अवनोपयुक्त:, 'अवरक्षणेÓ इति धातोल्र्युटि रूपम्। रक्षणयोग्य: इत्यर्थ:। अथ सदैव आमोदरसस्य प्रदायकोऽयं सहकारराजस्तप्र्य: तर्पणयोग्य:। न तु शत्रुभावेन विरुद्धभाषणेन वा गह्र्य: निन्द्य:। अथवा 'विनीतोवनोपयुक्त:Ó इत्यपि पाठ: स्वीकर्तुं शक्यते। तथात्वे वनोपयुक्त: वनयोग्य इत्यर्थ:। आमोदशब्दस्य नानार्थकत्वात् मधुरसप्रदायी, हर्षस्य यो हि रस: सार: तस्य अनुरागस्य वा प्रदायीत्यपि अर्थयोजना। तथैव वारियुक्त्या जलयोगेन तप्र्य: इत्यप्यर्थ: सम्भाव्यते।
।। ४०।।
विरुद्धदुर्दर्शनगानि हित्वा-
ऽफ लानि तुच्छान्यधिया वनानि।
सुधावधीर्युच्चफ लाभिलाषा-
दमुं समन्ताद् भजते द्विजौघ:।।
अन्वय: - द्विजौघ: विरुद्धदुर्दर्शनगानि अफलानि वनानि तुच्छान्यधिया सुधावधीर्युच्चफलाभिलाषात् हित्वा समन्तात् अमुं भजते।
अथवा - द्विजौघ: विरुद्धदुर्दर्शनगानि (तुच्छान्यधियावनानि) फलानि हित्वा सुधावधीर्युच्चफलाभिलाषात् समन्तात् अमुं भजते।
गङ्गा - श्लिष्टोक्त्या ब्राह्मणसमूहपक्षे पक्षिसमूहपक्षे च रसालस्य गुणान् वर्णयति- विरूद्धेति- ब्राह्मणसमूह: विरुद्धानि विपरीतार्थकानि यानि दुर्दर्शनानि नास्तिकादीनि दुष्टशास्त्राणि तद्गानि तत्र स्थितानि वर्णितानि अफलानि परिणामरहितानि निष्फलानि वनानि अरण्यानि तुच्छान्यया विवेकवत्या बुद्ध्या हित्वा परित्यज्या सुधा अवधीर्यते तिरस्क्रियते यैस्तादृशानि यानि उच्चफलानि धर्मादीनि तेषाम् अभिलाषात् समन्तात् अमुं भजते। रसालवृक्षं सेवत इत्यर्थ:॥
द्विजशब्दस्य पक्षिण्यपि श्लिष्टत्वात् तत्पक्षे भिन्नार्थयोजना- द्विजौघ: पक्षिसमूह:। 'दन्तविप्राण्डजा द्विजाÓ इत्यमर:। तुच्छानि अधिकं यवनसम्बन्धीनि व्याधादिहिंसकभरिता: नगा:। 'शैलवृक्षौ नगावगौÓ इत्यमर:। वृक्षा येषु तानि विभि: पक्षिभि: रुद्धानि परिपूर्णानि फलानि हित्वा त्यक्त्वा सुधावधीरिणाम् अमृताधिकस्वादुनाम् उच्चफलानां श्रेष्ठफलानां सहकारफलानामिति यावत्। अभिलाषात् कामनया द्विजौघ: पक्षिसार्थ:, अमुं सहकारराजं भजते आश्रयत्वेन स्वीकरोतीत्यर्थ:।
।। ४१।।
विचित्रवर्णोज्ज्वलपत्रनिर्यद्-
द्रवं स्वकण्ठे सततं निधाय।
अन्तेवसन्नस्य वनप्रियोऽयं
द्विजो गिराऽशेषगिरोऽतिशेते।।
अन्वय: - विचित्रवर्णोज्ज्वलपत्रनिर्यद्द्रवं सततं स्वकण्ठे निधाय अस्य अन्तेवसन् अयं वनप्रिय: द्विज: गिरा शेषगिर: अतिशेते।
गङ्गा - पुना रसालस्य वैशिष्ट्यमाह- विचित्रेति- विचित्रवर्णैर्नानाविधाक्षरै: उज्ज्वलानि सुन्दराणि यानि पत्राणि पुस्तकपृष्ठानि तेभ्यो निर्यद् नि:सृतं रवं शब्दम्। अनचि चेति दकारस्य द्वित्वे निर्यद्द्रवम्। 'वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्णं तु चाक्षरेÓ इत्यमर:। 'शब्दे निनादनिनदध्वनिध्वानरवस्वना:Ó इति चामर:। सततम् अविरतं स्वकण्ठे निधाय धारयित्वा अस्य रसालरूपस्य गुरो: अन्तेवसन् शिष्यत्वं प्राप्ते वनप्रिय एकान्ते विद्योपासनायां संलग्र: ब्राह्मण: गिरा स्वकीयया वाण्या शेषगिर: शेषस्य पतञ्जलेरुक्तीरतिशेते तिरस्करोति। ततोऽप्यधिकं वाग्वैभववान् भवतीत्यर्थ इति ब्राह्मणपक्षेऽर्थयोजना। कोकिलपक्षे तु- विचित्रवर्णैर्नानारूपै: उज्ज्वलानि भासुराणि यानि पत्राणि दलानि तेभ्यो निर्यद् निर्गतं द्रवं रसं सततं स्वकण्ठे निधाय अस्य सहकारस्य अन्तेवसन् समीपे निवसन् अयं वनप्रियो द्विज: कोकिलाख्य: पक्षी गिरा वाण्या अशेषगिर: सकलशब्दान् अतिशेते, अतिक्रामतीत्यर्थ:। सहकारदलान्नि:सृतं द्रवं पीत्वा कोकिलस्तथा मधुरं रौति यथा नान्य: कश्चिद् द्विज इति भाव:। 'वनप्रिय: परभृत: कोकिल: पिक इत्यपिÓ इत्यमर:।
।। ४२।।
अत्रापतन्व्या सहित: शुकोऽपि
श्रुत्वा मुहु: कोकिलमञ्जुलोक्ती:।
तृप्त: प्रखण्ड्यैव फ लानि मुञ्चन्
प्रक्षीणबन्धोऽमुमुपाससाद।।
अन्वय: - (शुकपक्षे) मुहु: कोकिलमञ्जुलोक्ती: श्रुत्वा शुक: अपि अत्र तन्व्या सहित: आप। प्रखण्ड्य एव तृप्त: (स:) फलानि मुञ्चन् प्रक्षीणबन्ध: (सन्) अमुम् उपाससाद।
अथवा - (योगीन्द्रशुकदेवपक्षे) मुहु: कोकिलमञ्जुलोक्ती: श्रुत्वा अत्र व्यासहित: शुक: अपि आपतन्॥ (अन्यत् समानम्)।
गङ्गा - रसालस्य पुनर्वैशिष्ट्यं वर्णयति- अत्रेति - शुकशब्दोऽत्र श्लिष्ट:। मुहु: वारम्बारं कोकिलस्य मञ्जुला उक्ती रवान् श्रुत्वा शुक: अपि अत्र तन्व्या भर्यया सहित: आप प्राप। प्रखण्ड्य विखण्ड्य एव तृप्त: स: फलानि सुपक्वानि फलानि मुञ्चन् पञ्जरे प्रक्षीणबन्ध: सन् अमुं सहकारम् उपाससाद आजगाम।
शुकदेवपक्षे-व्यासाय हित: व्यासहित: आपतन् आगच्छन् शुको योगीन्द्र:। प्रखण्ड्य विखण्ड्य संासारिकाणि फलानि त्यजन् संसारे प्रक्षीणबन्ध: सन् अमुम् उपाससाद।
।। ४३।।
महाफ लं निश्चलभावरम्यं
विहाय मोहात्सहकारमेनम्।
जलाशयान् गूढपथेन यान्त्या-
ऽनया व्रतत्यागविनिन्द्ययाऽलम्।।
अन्वय: - मोहात् महाफलं निश्चलभावरम्यम् एनं सहकारं विहाय गूढपथेन जलाशयान् यान्त्या अनया व्रतत्यागविनिन्द्यया अलम्।
गङ्गा - विलासिनं प्रबोधयति- महाफलमिति- हे विलासिन्! मोहात् अज्ञानात् महाफलं विपुलफलदातारं निश्चलैर्भावै रम्यम् एकनिष्ठप्रीत्या मनोहरम् एनं बहुगुणोपेतं सहकारं रसालवृक्षं विहाय परित्यज्य गूढपथेन गुप्तमार्गेण जलाशयान् सरोवरादीन् यान्त्या अनया व्रतत्यागविनिन्द्यया व्रतस्य पातिव्रत्यव्रतस्य नियमस्य त्यागेन दूषितया, यद्वा 'व्रतत्या गवि निन्द्ययाÓ इति पाठ:। गवि पृथ्व्यां निन्द्यया अनया सरोजिन्या व्रतत्या अलमित्यर्थ:। अथवा 'व्रतत्याऽगविनिन्द्ययाÓ इति पाठयोजना। तथात्वे अगै: वृक्षै: विनिन्द्यया त्यक्तया व्रतत्या अलमित्यर्थबोध:। 'शैलवृक्षौ नगवगौÓ इत्यमर:। एवमेव 'जलाशयान्Ó इत्यत्र डलयोरभेदनियमात् 'जडाशयान्Ó इति पाठं परिकल्प्य मूर्खान् इत्यप्यर्थ ऊह्य:।
।। ४४।।
इयं पुरा घोरनिदाघतप्तं
पिपासयाऽव्यक्तरवं कृशं माम्।
स्वपाणिना वातजवेन तोये
निमज्जयन्ती स्वगुणैश्चकर्ष।।
अन्वय: - इयं पुरा घोरनिदाघातप्तं पिपासया अव्यक्तरवं कृशं मां वातजवेन स्वपाणिना तोये निमज्जयन्ती स्वगुणै: चकर्ष।
गङ्गा - पुनरपि सरोजिन्या: कर्म वर्णयति- इयमेति- इयं सरोजिनी पुरा पूर्वकाले घोरनिदाघतप्तम्, घोरेण प्रचण्डेन निदाघेन तप्तम् अथ च पिपासयाऽव्यक्तरवम्, पिपासया पिपासाकुलतया शुष्ककण्ठत्वात् अव्यक्तो रवो यस्य तादृशं कृशं दुर्बलं माम् अलिं वातस्य वायो: जवेन वेगेन स्वपाणिना तोये जले निमज्जयन्ती जलमग्नं कुर्वती स्वगुणै: सुगन्धादिभी रज्जुभिर्वा चकर्ष कर्षितवती। कर्षतेर्लिटि रूपम्।
।। ४५।।
मदोद्धतैरावणहस्तपातै-
र्वनेऽवनीजेव निपीड्यमाना।
विदश्य विद्राव्य च तं मयाऽसौ
त्राता यथाशक्ति जटायुनेव।।
अन्वय: - महोद्धतैरावणहस्तपातै: वने अवनीजा इव निपीड्यमाना असौ मया तं यथाशक्ति विदश्य विद्राव्य च जटायुना इव यथाशक्ति त्राता (अभवत्)।
गङ्गा - सरोजिन्यां स्वोपकारं वर्णयन्नाह- मदेति- मदोद्धतैरावणहस्तपातै:, मदेन दानेन। 'मदो रेतसि कस्तूर्यां गर्वे हर्षेभदानयो:Ó इति विश्व:। उद्धत उद्दण्डो य ऐरावण: इन्द्रगजस्तस्य हस्तपातै: शुण्डापातै:। 'ऐरावतोऽभ्रमातङ्गैरावणाभ्रमुवल्लभाÓ इत्यमर:। 'हस्त: करे कटिकरे सप्रकोष्ठकरेऽपि च। ऋक्षे केशात् परो वातेÓ इति मेदिनी। वने जले 'वने सलिलकाननेÓ इत्यमर:। अवनीजेव सीतेव निपीड्यमाना असौ सरोजिनी मया अलिना तं मत्तगजं विदश्य विद्राव्य च दूरं प्रक्षिप्य च जटायुना इव यथाशक्ति त्राता रक्षिता। अभवदिति शेष:।
सीता पक्षे 'मदोद्धतै रावणहस्तपातै:Ó मदेन गर्वेण उद्धतै रावणस्य हस्तपातै: अवनीजा सीता जटायुना इव यथाशक्ति त्रातेत्यर्थयोजना।
।। ४६।।
सदारुणोल्लासितपद्मनेत्रा
विश्राव्य या सारसनिष्ठुरोक्ती:।
पदानतं मां कटुकण्टकाग्रै-
स्तुतोद माद्यद्धृदया ऽदयाऽसौ।।
अन्वय: - सदारुणेल्लासितपद्मनेत्रा सारसनिष्ठुरोक्ती: विश्राव्य या असौ माद्यद्धृदया अदया पदानतं मां कटुकण्टकाग्रै: तुतोद।
गङ्गा - पुन: किमाचरितं सरोजिन्या इति वर्णयति- सदारुणेति- सदा अरुणेन सूर्येण उल्लासितानि पद्मनेत्राणि यस्या: सा। 'अरुणो भास्करेऽपि स्यादर्णभेदेऽपि च त्रिषुÓ इत्यमर:। अथवा दारुणेन सहितं यथा स्यात्तथा सदारुणं क्रूरम् उल्लासितानि पद्मनेत्राणि यया सा। सारसपक्षिण: निष्ठुरोक्ती: दु:श्रवशब्दान्, यद्वा अरसेन सहिता: सारसास्तादृश्यो निष्ठुरोक्ती: विश्राव्य या असौ, माद्यद्धृदयं यस्या: सा तादृशी तव विलासिनो दयापात्रभूता सरोजिनी अदया दयारहिता, पदानतं, पदे चरणे आनतं विनम्रतां प्राप्तं माम् अलिं कटुकण्टकाग्रै:, कटूनि यानि कण्टकानि तेषाम् अग्रैस्तीक्ष्णाग्रभागैस्तुतोद पीडयामास। तुदतेर्लिटि।
।। ४७।।
इयं मुहुर्वाडवजातरूप-
स्तेयार्जितश्रीकसरोजहस्ता।
लोभाद् भयाद्वा द्विजराजदृष्टे-
र्निगूहति स्वं दृढबद्धमुष्टि:।।
अन्वय: - वाडवजातरूपस्तेयार्जितश्रीकसरोजहस्ता दृढबद्धमुष्टि: इयं लोभाद् भयाद् वा द्विजराजदृष्टे: स्वं मुहु: निगूहति।
गङ्गा - इयमिति- वाडवजातरूपस्तेयार्जितश्रीकसरोजहस्ता, वाडवे समुद्रानले जातस्य अरुणरूपस्य स्तेयेन चौर्येण अर्जिता प्राप्ता श्रीर्येन तादृशं सरोजं हस्तो यस्या: सा 'वाडवं करणे स्त्रीणां घोटकौघो नपुंसकम्। पापालेन स्त्रियां पुंसि ब्राह्मणे वडवानलेÓ इति कोश:। यद्वा वाडवस्य ब्राह्मणस्य जातरूपस्य सुवर्णस्य स्तेयेन अर्जिता प्राप्ता श्रीर्येन तादृशं सरोजं तादृशो हस्तो यस्या: सा। दृढबद्धमुष्टि: मुकुलितपुष्पा लुब्धा कृपणा वा इयं सरोजिनी लोभाद् भयाद्वा स्वम् आत्मानं द्विजराजानां ब्राह्मणानां नृपाणां चन्द्रस्य वा दृष्टे: मुहु: पौन: पुण्येन निगूहति प्रच्छादयति। स्वकीयस्वर्णरूपस्य लोभाद् भयाद् वा द्विजराजेभ्य: स्वं स्वरूपं निगूहतीति भाव:।
।। ४८।।
निगूढभावान्निशि विप्रसूना
दोषानुषङ्गात्सततं विगीता।
तप: सहस्यानवलोक्यरूपा
मुदं विधत्ते न सरोजिनी मे।।
अन्वय: - निशि निगूढभावात् विप्रसूना दोषानुसङ्गात् सततं विगीता तप:सहस्य अनवलोक्यरूपा सरोजिनी मे मुदं न विधत्ते।
गङ्गा - निगूढेति - निशि रात्रौ निगूढभावात् गुप्तभावात् मुकुलिरूपत्वात्। विप्रसूना, विगतानि प्रसूनानि यस्या: सा। यद्वा विप्राणां सूना वधस्थानम्। दोषानुसङ्गात्, दोषाया रात्रे: अनुषङ्गात्, अथवा दोषाणाम् अनुषङ्गात् सततम् अहर्निशं विगीता निन्दिता गीतशून्या वा। 'अथ दोषा च नक्तं च रजनावितिÓ इत्यमर:। 'सूना पुत्र्यां वधस्थानगलशुण्डिकयोरपिÓ इति विश्व:। तप: सहस्य तपस्विन:। माघपौषयो: वा। 'तपो लोकान्तरेऽपि च। चान्द्रायणादौ धर्मे च पुमाञ् शिशिरमाघयो:Ó इति कोश:। अनवलोक्यरूपा, अनवलोक्यं रूपं यस्या: सा सरोजिनी मेऽले: मुदमानन्दं न विधत्ते न तनुत इत्यर्थ:।
।। ४९।।
निरीक्ष्य पङ्के पतितां सदाहं
हा हन्त चक्रेण विनाऽश्यमानाम्।
गिरोपदिश्यानिशमुद्दिधीर्र्षु-
र्विमोह्य मत्या मधुना न्यबध्ये।।
अन्वय: - हा! हन्त! अहं सदा पङ्के पतितां चक्रेण विना अश्यमानां निरीक्ष्य अनिशं गिरा उपदिश्य उद्दिधीर्षु: मत्या मधुना विमोह्य न्यबध्ये।
गङ्गा - निरीक्ष्येति- हा! हन्तेति दु:खसूचकेऽव्यये। अहम् अलिरेनां सरोजिनीं सदा सदैव पङ्के कर्दमे पापे वा पतितां मग्रां पातित्ययुक्तां वा। अथवा सदाहमित्येकं पदम्। दाहेन सन्तापेन सहितम् यथा स्यात्तथा। चक्रेण शस्त्रेण विना वि:पक्षी तेन विना चक्रेण विना अश्यमानां, विनाश्यमानां, सम्भुज्यमानां वा, निरीक्ष्य दृष्ट्वा। 'चक्र: कोके पुमान् क्लीबं व्रजे सैन्यरथाङ्गयो:। राष्ट्रे दम्भान्तरे कुम्भकारोपकारणास्त्रयो:Ó इति मेदिनी। 'पङ्कोऽस्त्री कर्दमे पापेÓ इति च मेदिनी। अनिशं सततं गिरा वाण्या उपदिश्य उद्दिधीर्षु: उद्धारं चिकीर्षु: मत्या बुद्धिपूर्वकं मधुना मद्येन पुष्परसेन वा विमोह्य न्यबध्ये बद्धोऽभवम्।
।। ५०।।
कष्टाऽत्र पीडाकरपत्रजात-
निपातजा मोहवशाद्दशा मे।
सकोशभूसङ्कटवासदु:खं
सोढो मया केसरसूचिवेध:।।
अन्वय: - अत्र मोहवशात् मे पीडाकरपत्रजातनिपातजा कष्टा दशा (अभूत्), मया सकोशभूसङ्कटवासदु:खं केसरसूचिवेध: सोढ:।
गङ्गा - कष्टेति- अत्र अस्यां सरोजिन्यां मोहवशात् अज्ञानकारणात् निवसतो मे भ्रमरस्य पीडाकरपत्रजातनिपातजा, पीडाकराणि पीडादायकानि यानि पत्रजातानि दलानि तेषु निपातान्मग्रताया कष्टा कष्टप्रदा दशा अवस्था जाता। यद्वा 'कष्टाऽत्र पीडा करपत्रजातनिपातजाÓ इति पाठ:। तथात्वे करपत्राणां क्रकचानां जातेन निपातेन जन्या उद्भूता पीडेत्यर्थ:। 'क्रकचोऽस्त्रीकरपत्रम्Ó इत्यमर:। कष्टा कष्टप्रदा दशा। अभवदिति शेष:। मया अलिना च सकोशभूसङ्कटवासदु:खम् कोशस्य कलिकाया अन्त:स्थाने धनस्थाने वा सङ्कटे वासस्य निवासस्य दु:खम्। 'कोषोऽस्त्रीकुड्मले खड्गपिधानेऽर्थौघदिव्ययो:Ó इत्यमर:। केसराणां किञ्चल्कानाम्। 'केसरं हिङ्गुनि क्लीबं किञ्जल्के न स्त्रियां पुमान्Ó इति मेदिनी। सूचीनां कण्टकानां वेध: सोढ:।
।। ५१।।
निशां कथञ्चिद् व्यपनीय मुक्त्यै
हरिं स्मरन् मौनविनिश्चलाङ्ग:।
सरोषमस्या अवमत्य पत्या
करैर्निशान्ते गलहस्तितोऽस्मि।।
अन्वय: - मौनविनिश्चलाङ्ग: (अहम्) मुक्त्यै हरिं स्मरन् कथञ्चिद् निशां व्यपनीय निशान्ते सरोषम् अस्या: पत्या अवमत्य करै: गलहस्तित: अस्मि।
गङ्गा- निशामिति- मौनविनिश्चलाङ्ग:, मौनेन विनिश्चलानि अङ्गानि यस्य स: मौनविनिश्चलाङ्गस्तादृशोऽहमलि: मुक्त्यै सरोजिन्या: सकाशान्मुक्त्यै मोक्षप्राप्तये वा हरिं स्मरन् विष्णो: स्मरणं कुर्वन् कथञ्चिद् येन केन प्रकारेण निशां रात्रिं व्यपनीय सरोषं रोषेण सहितं यथा स्यात्तथा अस्या: सरोजिन्या: पत्या सूर्येण अवमत्य अवमतिं विधाय निशान्ते प्रात:काले। 'निशान्तं त्रिषु शान्ते स्यात् क्लीबं तु भवनोषसो:Ó इति मेदिनी। रात्र्यपगमे गृहे वा करै: किरणै: हस्तैर्वागलहस्तितोऽस्मि बलाद् गृहीतोऽस्मि। सरोजिनीपक्षे पतिशब्द: सूर्यवाचको नायिकापक्षे तु तस्या: पत्यु:। एवमेव करशब्द: सूर्यपक्षे किरणवाचको नायिकापतिपक्षे तु हस्तवाचक:।
।। ५२।।
तथाऽवधूतं च मदेन सार्धं
विहाय मार्गं त्रपया निवृत्तम्।
स्फु टारविन्दद्वयदत्ततालं
प्रियंवदं मां सुतरां जहास।।
अन्वय: - (अलिपक्षे)त्रपया सार्धं निवृत्तं मार्गं विहाय मदेन च तथा पत्या अवधूतं प्रियंवदं मां सुतरां स्फुटारविन्दद्वयदत्ततालं जहास। (यतिपक्षे) मदेनसा त्रपया निवृत्तम् अर्धं मार्गं विहाय प्रियंवदं माम् अवधूतं च सुतरां पत्या स्फुटारविन्दद्वयदत्ततालं जहास।
गङ्गा - तथेति - त्रपया लज्जया सार्धं साकम्। 'मन्दाक्षं हृीस्त्रपा व्रीडा लज्जाÓ इत्यमर:। निवृत्तं निष्पन्नं मार्गं विहाय परित्यज्य, मदेन गर्वेण। 'मन्दो रेतसि कस्तूर्यां गर्वे हर्षेभदानयो:Ó इति मेदिनी। तथा तेन प्रकारेण पत्या कमलिनी प्रियेण सूर्येण नायिकाप्रियेण अवधूतं तिरस्कृतं प्रियंवदं मधुररवकारिणं माम् अलिं सुतरां स्फुटारविन्दद्वयदत्ततालं, स्फुटं च तत् अरविन्दं चेति स्फुटारविन्दम्, तस्य द्वयं स्फुटारविन्दद्वयम्Ó, तेन स्फुटारविन्दद्वयेन दत्तस्ताल इति स्फुटविन्दद्वयदत्ताल:। क्रियाविशेषणत्वात् कर्मत्वं क्लीबत्वमेकत्वं चेति। जहास। हसतेर्लिटि रूपम्। भृशमुपहसितवतीत्यलिपक्षेऽर्थ:। यतिपक्षे तु मदेनसा मदीयेन पापेन 'एन: पापापराधयो:Ó इत्यमर:। त्रपया लज्जया निवृत्तम् अर्धं मार्गं विहाय प्रियंवदं समेषां प्रियवक्तारं माम् अवधूतं यतिं च पत्या प्रियेण सह स्फुटारविन्दद्वयदत्ततालम्। उभयत्र क्रियाविशेषणमिदम्। जहास। यतिं मां स्वप्रियेण सह उपहासं कृत्वा तिरश्चकारेति भाव:।
।। ५३।।
तथाऽप्यमुष्यां बहुमानवत्या-
मत्यादृतोऽसौ जलजाऽबलेति।
उपादिशं यद्धितवेदमस्म-
न्मनस्ततोऽजायत भूरिदु:खम्।।
अन्वय: - 'असौ जलजाबलाÓ तथापि बहुमानवत्याम् अमुष्याम् अत्यादृत: 'इदम् अस्मन्मन: तवÓ इति यद्धि उपादिशम्, तत: भूरिदु:खम् अजायत।
गङ्गा - सरोजिनीं मूर्खसुतात्वेन च परिकल्प्य वक्ति - तथेति- असौ सरोजिनी जलजा अबला जलादुत्पन्ना अबला स्त्रीति तथापि अमुष्यां बहुमानवत्याम् अतिमानयुक्तायाम् अत्यादृत: भृशम् आदरयुक्त: सन् 'इदम् अस्मन्मदीयं मन: तवÓ तवैव इति यद्धि उपादिशम्, कथितवान् अस्मि, तत: तस्मात् भूरिदु:खं महत्कष्टम् अजायत अभवत्।
यद्वा डलयोरभेदनियमात् 'असौ जडजाबलाÓ मूर्खसुता। 'बहुमानवत्यामत्यादृत:Ó इत्यत्र च 'बहुमानवत्या मत्या आदृत:Ó इति पाठ:। तथात्वे 'बहुमानयुक्त्या बुद्ध्याÓ इत्यर्थोऽङ्गीकार्य:। 'यद्धितवेदमस्मन्मन:Ó इत्यत्र 'यद् हितवेदम्Ó इति योजना हितकरं वेदं श्रुतिमित्यर्थ:। एवं कमलिनीपक्षे मूर्खसुतायाश्च पक्षेऽस्यान्वय:। मूर्खसुतापक्षे तु 'असौ जडजाबलाÓ तथापि अमुष्यां बहुमानवत्या मत्या अत्यादृत: (सन्) 'हितवेदम् अस्मन्मन:Ó इति यद् उपादिशं तत: भूरिदु:खम् एव अजायतÓ इति सम्बन्ध:।
।। ५४।।
सुनीचकासारकुलेऽप्प्रसूता
दिवैव काम्या न ममाभिगम्या।
असारसंसारसमुत्सुकाऽसौ
वहत्यखर्वं निभृतं च दण्डम्।।
अन्वय: - (कमलिनीपक्षे) सुनीचकासारकुले अप्प्रसूता (इयं)दिवा एव काम्या मम अभिगम्या न। सारसम् उत्सुका असौ अखर्वं निभृतम् असारसं च दण्डं वहति। (नीचकुलजातकन्यापक्षे) सुनीचकासारकुलप्प्रसूता (इयं) दिवा एव काम्या मम अभिगम्या न। असारसंसारसमुत्सुका असौ अखर्वं निभृतं च दण्डं वहति।
गङ्गा - सुनीचेति- सुनीचे अध:स्थिते कासारकुले सर:समूहे। 'कासार: सरसी सर:Ó इत्यमर:। अप्सु जलेषु प्रसूता जाता अप्प्रसूता। मया भ्रमरेण इयं दिवा दिवस एव काम्या न तु अभिगम्या, अभिगन्तुं रन्तुं योग्येति भाव:। असौ सरोजिनी सारसं प्रत्युत्सुका सती अखर्वम् अनल्पं निभृतं च असारसं सारसपक्षिरहितं दण्डं मणालदण्डं च वहतीति कमलिनीपक्षेऽर्थ:।
नीचकुलजातकन्यापक्षे तु- सुनीचेऽत्यन्तं विनिन्दिते कासारे सारहीने कुले प्प्रसूता समुत्पन्ना। अनचि चेति पकारस्य द्वित्वम्। दिवा एव काम्या वाञ्छिता नीचकुलजातत्वान्न मम अभिगम्या भोगयोग्या। धर्मशास्त्रे तथा भोगस्य निषिद्धत्वात्। असारे साररहिते संसारे समुत्सुका उत्कठिता अखर्वं निभृतं च दण्डं वहति, अभिमानं धारयतीत्यर्थ:। 'दण्डो यमे मानभेदे लगुडो दमसैन्ययो: व्यूहभेदे प्रकाण्डेऽश्वे कोणमन्थानयोरपि। अभिमाने ग्रहे दण्डश्चण्डांशो: पारिपाश्र्विकेÓ इति विश्व:।
।। ५५।।
तथाऽऽत्तगन्धोऽप्यनिषेव्य रोषं
तत्त्वं वदन् मञ्जुलगुञ्जितेन।
कृपामपात्रे कृतपापमात्रां
कर्तव्यदृष्ट्या विफ लामकार्षम्।।
अन्वय: - तथा आत्तगन्ध: अपि रोषम् अनिषेव्य मञ्जुलगुञ्जितेन तत्त्वं वदन् कर्तव्यदृष्ट्या अपात्रे कृतपापमात्रां विफलां कृपाम् अकार्षम्।
गङ्गा - तथेति- तथा पूर्वोक्तप्रकारेण आत्त: प्राप्तो गन्धो येन तादृशोऽहं रोषं क्रोधम् अनिषेव्य अकृत्वा स्वकीयेन मञ्जुलगुञ्जितेन सुन्दरेण गुञ्जारवेण तत्त्वं सारं वदन् कर्तव्यदृष्ट्या मया अस्यां गन्ध आत्त इति कर्तव्यविचारणया अपात्रे कुपात्रे कृतं पापमात्रं यया तादृशीं कृतपापमात्रां विफलां फलरहितां कृपाम् अकार्षम्, अकरवम्। यद्यपीयं ममोपभोग्या न, तथापि मया अस्या गन्ध आत्त इति धिया अस्या उपरि भ्रमता मया मञ्जुलगुञ्जितेन या कृपा कृता सा कुपात्रे कृतकृपेव निष्फलैवेत्यलेरभिप्राय:।
।। ५६।।
इत्थं प्रयस्याऽपि चिरं मयाऽस्यां
कदापि नादृश्यत नित्यबोध:।
तदाऽऽविरासीन् मनसाऽप्रसह्यो
दिने दिने मेऽतुलभानुताप:।।
अन्वय: - इत्थं चिरं प्रयस्य अपि मया अस्यां कदा अपि नित्यबोध: न अदृश्यत। तदा मे दिने दिने मनसा अप्रसह्य: अतुलभानुताप: आविरासीत्।
गङ्गा - इत्थमिति- इत्थम् एवम्प्रकारेण चिरं चिरकालं यावत्, प्रयस्य प्रयासं कृत्वा अपि मया अलिना अस्यां सरोजिन्यां कदा अपि कस्मिन् काले अपि नित्यबोध: नित्यविकासो न दृष्ट:। अथवा नित्यबोध आत्मसाक्षात्कारो न दृष्ट: नैवावलोकित:। मम अले: बहुधा मञ्जुलगुञ्जितेन कृतेऽपि तत्त्वकथने नाऽस्यां तत्त्वबोधजन्य आत्मसाक्षात्कार: सञ्जात इति भाव:। तदा पूर्णविकासम् आत्मसाक्षात्कारं वा अदृष्ट्वा मे मम अले: दिने दिने मनसा अप्रसह्य: अतुलभानुताप: अतुलो महान् भानो: सूर्यजनित: ताप: सन्ताप: आविरासीत् प्रादुरासीत्। अथवा 'अतुलभानुताप:Ó इत्यत्र हे अतुलभ! अतुला अनुपमा भा शोभा यस्येति अतुलभ:। तस्य सम्बोधने हे अतुलभ विलासिन्!, अनुताप: पश्चात्ताप: प्रादुरासीदिति योजना।
।। ५७।।
अथैकमत्याद् गतिगीतकीर्ति:
शुचिश्च मुक्ताशनताव्रती च।
हंस: प्रसङ्गाद् बहुरूपसम्पद्-
द्युतो विमुक्त्यै मम शीघ्रमागात्।।
अन्वय: - अथ ऐकमत्यात् प्रसङ्गात् गतिगीतकीर्ति: शुचि: च मुक्ताशनताव्रती च बहुरूपसम्पद् (अथवा बहुरूपसम्पद्द्युत:) हंस: द्युत: विमुक्त्यै मम शीघ्रम् आगात्।
गङ्गा - यतिं हंसं च विषयीकृत्य वक्ति- हंसेति- अथ एतदनन्तरम् ऐकमत्यात् प्रसङ्गात् समानविचारजन्यात् सन्दर्भात्, गतिगीतकीर्ति: गत्या ज्ञानेन गीता प्रशंसिता इतस्ततो वा प्रसारिता कीर्तिर्यस्य स:, तादृश:, शुचि: पवित्र:, मुक्ताशनताव्रती च मुक्तम् अशनं भोजनं येन स: मुक्ताशन:, मुक्ताशनस्य भावो मुक्ताशनता, मुक्ताशनता व्रतम् अस्य स: मुक्ताशनताव्रति। बहुरूपसम्पद्द्युत: बहुरूपाभि: सम्पद्भिर्युत:। यमनियमादिसम्पद्भि: संयुक्त इति भाव:। 'अनचि चÓ इति दकारस्य द्वित्वम्। अथवा द्युत: प्रकाशित:। यति पक्षे 'बहुरूपसम्पद्द्युतÓ इत्येकं पदम्। हंसपक्षे तु पृथक् पृथक् पदद्वयमिति विवेक:। 'हंसो विहङ्गभेदे स्यादर्के विष्णौ हयान्तरे। योगिमन्त्रादिभेदेषु परमात्मन्यमत्सरे निर्लोभनृपतौ हंसÓ इति विश्व:। हंस: कश्चन यति: विमुक्त्यै मोक्षाय मम अले: सविधे शीघ्रं सपदि आगात् प्रापदिति यतिपक्षेऽर्थ:।
हंसपक्षे- गतिगीतकीर्ति: गत्या सञ्चरणेन गीता प्रसारिता कीर्तिर्यस्य स:। शुचिर्धवल:। 'शुचिग्र्रीष्माग्निशृङ्गारेष्वाषाढे शुद्धमन्त्रिणि। ज्येष्ठे च पुंसि धवले शुद्धेऽनुपहते त्रिषु।Ó इति मेदिनी। मुक्ताशनताव्रती मुक्ता मौक्तिकं मुक्ताफलं वा अशनं भोजनं मुक्ताशनम्। तस्य भावो मुक्ताशनता। सा एव नित्यं व्रतं यस्य स:। बहुरूपसम्पद् रूपमेव सम्पद् रूपसम्पद्, बहु: रूपसम्पद् यस्य स:। तादृशो हंस: पक्षिविशेष इत्यर्थ:। विमुक्त्यै सरोजिन्यां मे तथाभिनिवेशत्याजनाय द्युत: आकाशात्। द्यु शब्दात्तसिल्। मम अले: आगात्। हे अले! सरोजिनीमिमां त्यजत्विति शिक्षयित्वा मम विमुक्तिं कारयितुं कश्चन हंस: समागत इत्यभिप्राय:।
।। ५८।।
कथं परागाकुलितेन्द्रियेण
स मादृशाऽलं मलिनेन दृश्य:?।
तथाऽपि सत्येन कृतानुतापं
स सर्वसाक्षी वृणुते मिषेण।।
अन्वय: - स: परागाकुलितेन्द्रियेण मादृशा मलिनेन अलं कथं दृश्य:? तथापि स सर्वसाक्षी सत्येन मिषेण कृतानुतापं वृणुते।
गङ्गा - कथमिति- स: यति: हंसो वा परागाकुलितेन्द्रियेण परागाणि पराञ्चि बहिर्मुखानि वा आकुलितानि इन्द्रियाणि यस्य तेनेति यति पक्षेऽर्थ:। परागेण रजसा आकुलितानि इन्द्रियाणि यस्येति हंसपक्षेऽर्थ:। मलिनेन अपवित्रेण रागकलुषितेन नीलवर्णेन वा। अलं पर्याप्तरूपेण सामग्र्येण वा कथं दृश्य: साक्षात्कार्य:। तत्कृते तु शुद्धेन्द्रिया एव प्रभवन्ति। तथापि स सर्वसाक्षी सर्वदर्शी वा आत्मा सत्येन मिषेण कृतानुतापं कृत: अनुताप: प्रायश्चित्तं येन तं वृणुते वृणीते।
।। ५९।।
तनुं वहन् ब्रह्मसरस्वतीष्टां
दूरे स्थित: काममनोरथानाम्।
भाग्यैकलभ्यो विमलस्वरूपो
दयाद्र्रदृष्टि: सहसाऽऽविरासीत्।।
अन्वय: - ब्रह्मसरस्वतीष्टां तनुं वहन् काममनोरथानां दूरे स्थित: भाग्यैकलभ्य: विमलस्वरूप: दयाद्र्रदृष्टि: (स:) सहसा आविरासीत्।
गङ्गा - तनुमिति- ब्रह्मसरस्वतीष्टां, ब्रह्मा च सरस्वती चेति ब्रह्मसरस्वत्यौ, ताभ्याम् इष्टां वाञ्छितामधिकृतां वा। तयोर्वाहनत्वेन हंस: पाण्डित्येन ज्ञानेन च यति: वा तनुं शरीरं वहति। ब्रह्मसरस्वत्योर्वाहनत्वेन हंस: प्रसिद्ध: पाण्डित्येन संसारस्य असारतादिज्ञानेन च यति:। काममनोरथानां कामजनितसङ्कल्पानां दूरे स्थित इति यतिपक्षेऽर्थस्तस्य कामादिरहितत्वात्। हंसपक्षे तु काममनोरथानामित्यत्र कामम् अनोरथानां च कामं दूरे स्थित:, अन: शकटं रथ: स्यन्दनस्तादृशानां वाहनानां दूरे स्थित:। पक्षयुक्तत्वान्न हंसो वाहनमपेक्षत इत्यर्थ:। 'क्लीबेऽन: शकटोऽस्त्री स्याद्Ó इत्यमर:। भाग्यैकलभ्य: भाग्येन केवलं लभ्य: प्राप्य:। हंसो यतिश्च। विमलस्वरूप: धवलशरीर: वा दयया आनन्दात् आर्द्रनेत्र: इति हंसपक्षेऽर्थ:। यतिपक्षे तु 'विमलस्वरूपोदयाद्र्रदृष्टि:Ó इत्येकं पदम्। विमलस्वरूपस्योदयात् आद्र्रदृष्टिराद्र्रनेत्र: करुणापूरितहृदय इति यावत्। सहसा झटिति आविरासीत् प्रादुरासीत्।
।। ६०।।
यदीयसङ्गेन समानसस्य-
पूर्णस्य तोयेन शरद्दिनस्य।
प्रकर्षयोग: सरसश्च लोके
वेदे तु योगाङ्गमधुव्रतस्य।।
अन्वय: - लोके यदीयसङ्गेन समानसस्यपूर्णस्य शरद्दिनस्य सरस: च प्रकर्षयोग: (तथैव) वेदे तु योगाङ्गमधुव्रतस्य (प्रकर्षयोग: आसीत्)।
गङ्गा - यदीयेति- यदीयसङ्गेन, तत्रागतस्य यदीयेन हंसस्य सङ्गेन साहचर्येण, समानसस्यपूर्णस्य समानं सर्वत्रैकरूपं यत्सस्यं तेन पूर्णस्य परिपूर्णस्य शरद्दिनस्य शरत्कालिकदिवसस्य, प्रकर्षयोग आसीत्। धवलोऽपि शरद्दिवसो धवलस्य तस्य हंसस्य साहचर्येण अधिकं बभावित्यर्थ:। अथ च यदीय सङ्गेन मित्रभूतेन तोयेन जलेन सरस: तडागस्य च प्रकर्षयोग: उत्कर्षसंयोग:। हंसस्य सान्निध्यात्तडागस्य शोभा वृद्धिं गतेतिभाव:। यद्वा सरस इति प्रकर्षयोगस्य विशेषणम्। तथात्वे सरस: समान:। लोके यथा शरद्दिनस्य तथैव वेदे योगाङ्गमधुव्रतस्य योगाङ्गानि यमनियमादीन्येव प्रीतिजनकत्वान् मधूनि तद्व्रतस्य तन्निरतस्य च समान: प्रकर्षयोग:। तादृशो हंस: यतिर्वा आविरासीत्।
अथवा- समानसस्य मानसेन सदृशस्य तोयेन पूर्णस्य सरस: प्रकर्षयोग:। जलपूर्णोऽपि तडाग: हंसराहित्ये मानसेन साम्यं न भजते स्म। सम्प्रति हंसस्यास्य आगमेन जलपूर्ण: स: मानसेन सादृश्यं भजन् प्रकर्षं प्राप्रोति।
अलिपक्षे 'सरस:Ó इत्यत्र 'स रस:Ó इति पाठोऽङ्गीकार्य:। स इति पृथक्पदं प्रकर्षविशेषणम्। योगाङ्गमधुव्रतस्यÓ इत्यत्रापि 'य: गाङ्गस्य गङ्गासम्बन्धिनो मधुव्रतस्य भ्रमरस्य। 'मधुव्रतो मधुकरो मधुलिण्मधुपालिन:। द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालय:Ó इत्यमर:।
।। ६१।।
तस्मिन् समागच्छति सत्ययत्नात्
कृत्स्नाऽपि मृत्स्नाजनता नितान्तम्।
विस्मृत्य कार्याण्यखिलान्यकस्मा-
दाकाशमार्गार्पितदृष्टिरासीत्।।
अन्वय: - अयत्नात् तस्मिन् समागच्छति सति कृत्स्ना अपि मृत्स्नाजनता नितान्तम् अखिलानि कार्याणि विस्मृत्य अकस्मात् आकाशमार्गार्पितदृष्टि: आसीत्।
गङ्गा - तस्मिन्निति- अयत्नात् यत्नं विनैव स्वाभाविकआकाशमार्गात् तत्र आगच्छति। कृत्स्ना समग्राऽपि मृत्स्नाजनता जन: नितान्तम् अखिलानि सम्पूर्णानि कार्याणि विस्मृत्य अकस्मात् सहसा आकाशमार्गार्पितदृष्टि: आकाशमार्गे ब्रह्ममार्गे वा हंसागमनपथि गगने ब्रह्मणि अर्पिता दत्ता दृष्टिर्यया सा। हंसदर्शनकुतूहलेन समग्रोऽपि लोकस्तन्मार्गं पश्यन्नासीदित्यर्थ:।
।। ६२।।
आनन्दने नन्दनतोऽपि तस्मिन्
समागते दिव्यहिरण्यपक्षे।
स्तब्ध: क्षणं स्वस्वमनोऽनुरूपं
नानाविधं भावमुवाह लोक:।।
अन्वय: - नन्दनत: अपि आनन्दने तस्मिन् दिव्यहिरण्यपक्षे समागते (सति) क्षणं स्तब्ध: लोक: स्वस्वमनोऽनुरूपं नानाविधं भावम् उवाह।
गङ्गा - आनन्देति- नन्दनत: इन्द्रवनादपि आनन्दने सुखजनके। नन्दनं वनमित्यमर:। यद्वा आनन्दने तस्मिन् नन्दनत: समागत इत्यन्वय:। नन्दनत: आरामादित्यर्थ:। दिव्यहिरण्यपक्षे हंसे समागते। हंसानां धवलपक्षत्वमेव लोके प्रसिद्धम्। अस्य पुनरसामान्यत्वद्योतनाय दिव्यहिरण्यपक्षत्वं निरदेशि। नायं सामान्योऽपितु दिव्यो हंस इति विशेष:। तदागते सति तद्रूपदर्शनात् क्षणं क्षणमात्रं स्तब्धश्चकितो लोक: जन:। लोकस्तु भुवने जन इत्यमर:। तद्विषये स्वस्वमनोऽनुरूपं यन्मनसि यादृशो भाव आसीत् तादृशं नानाविधं भावम् उवाह। वह धातोर्लिटि रूपम्। दधारेत्यर्थ:।
।। ६३।।
न नाकलोके स्थितिरस्य दृष्टा-
ऽस्वप्नेऽपि भूम्यां किल न श्रुताऽपि।
आयात्ययं विष्णुपदादिहेति
कश्चिद्विनिश्चित्य विपश्चिदूचे।।
अन्वय: - अस्य स्थिति: नाकलोके स्वप्रे अपि न दृष्टा। (अथवा दृष्टाऽस्वप्रे नाकलोके अस्य स्थिति: न) न किल भूम्याम् अपि श्रुता। अयं विष्णुपदात् इह आयाति इति विनिश्चित्य कश्चिद् विपश्चिद् ऊचे।
गङ्गा - न नाकलोक इति- अस्य दिव्यहिरण्यपक्षवतो हंसस्य स्थिति: नाकलोके स्वर्गलोके स्वप्रे अपि न दृष्टा। 'नाकस्तु त्रिदिवेऽम्बरेÓ इति कोष:। यद्वा 'दृष्टास्वप्रेÓ इत्येकं पदम्। दृष्टा: अस्वप्रा: सुरा: यत्र तस्मिन् नाके स्वर्गे अस्य स्थितिर्नेति सम्बन्ध:। 'आदित्या ऋभवोऽस्वप्नाÓ इत्यमर:। अस्य स्थिति: भूम्यामपि न श्रुता। अयं विष्णुपदात् आकाशात् वैकुण्ठाद्वा आयातीति विनिश्चित्य कश्चिद् विपश्चिद् विद्वान् ऊचे वक्ष्यमाणप्रकारेण जगाद। 'वियद्विष्णुपदं वा तु पुंस्याकाशविहायसीÓत्यमर:।
।। ६४।।
तिष्ठेत् कथं विष्णुपदे सुखेन
शून्ये पुराणश्रुतिनिर्विवादा।
तद्ब्रह्मलोकस्थितिरित्यथामुं
प्रत्यब्रवीत्कोऽपि बुधाभिमानी।।
अन्वय: - (अयं) शून्ये विष्णुपदे सुखेन कथं तिष्ठेत्? अथ (अस्ति) तद्ब्रह्मलोकस्थिति: इति पुराणश्रुति: निर्विवादा (अस्तीति) अमुं कोऽपि बुधाभिमानी प्रत्यब्रवीत्।
गङ्गा - तिष्ठेदिति- अयं दिव्यहिरण्यपक्ष: आधाररहितत्वात् शून्ये विष्णुपदे आकाशे कथं तिष्ठेत्। यद्वा विष्णुपदेऽसुखेन शून्ये इति पाठ:। तथात्वे असुखेन दु:खेन शून्ये रहिते विष्णो: पदे स्थाने वैकुण्ठे कथं तिष्ठेदित्यर्थ:। अनाधारत्वाद् आकाशे दु:खेन शून्ये वैकुण्ठे च दिव्यहिरण्यपक्षस्याऽस्य स्थितिर्न सम्भाव्यते। अथ तत् तस्मात् कारणादयं ब्रह्मलोकस्थिति: ब्रह्मलोके ब्रह्मणो विधातुर्लोके स्थिति: यस्येति तादृशोऽयं हंस: इति पुराणश्रुतिनिर्विवादा। पुराणानां श्रुति: प्रसिद्धि: निर्विवादा अस्ति। पुराणेषु ब्रह्मलोके हंसस्थिति: प्रतिपादिताऽस्तीति भाव:। इत्येवं प्रकारेण अमुं पूर्वश्लोके वर्णितं विद्वांसं कश्चिद् बुधाभिमानी प्रत्यब्रवीत् प्रत्यकथयत्।
।। ६५।।
ऐतिह्यमात्रं शरणं प्रविश्य
तं मानसादागतमाह कश्चित्।
काव्येषु विश्वस्य च चित्रकूट-
गिरिस्थितिं तस्य परो जगाद।।
अन्वय: - कश्चित् ऐतिह्यमात्रं शरणं प्रविश्य तं मानसात् आगतम् आह। पर: विश्वस्य च तस्य काव्येषु चित्रकूटगिरिस्थितिं जगाद्।
गङ्गा - ऐतिह्यमात्रमिति- कश्चित् तत्रोपस्थितेषु जनेषु कश्चिज्जन: ऐतिह्यमात्रं शरणं प्रविश्य पुराणादिग्रन्थप्रामाण्यमङ्गीकृत्य तं दिव्यहिरण्यपक्षं हंसं मानसात् मानसरोवरात्। मानसं स्वान्तसरसोरिति कोश:। आगतं प्राप्तम् आह कथयामास। विविधेषु पुराणेषु हंसानां वर्णनात् तेषां च मानससरोवरे स्थितिवर्णनादत्र ऐतिह्यविदस्तादृशोक्तिवर्णनम्। अन्यस्तत्रोपस्थितो जन: विश्वस्य विश्वासं कृत्वा। अथवा विश्वस्य व्यापकस्य। 'विश्वं कृत्स्ने च भुवने विश्वे देवेषु नागरे इति विश्व:। दिव्यहिरण्यपक्षस्य हंसस्य काव्येषु चित्रकूटगिरिस्थितिम्। चित्रा अलङ्कृता कूटा श्लेषयुक्ता गी: वाणी यस्मिन् तत् चित्रकूटगीस्तादृशे चित्रकूटगिरि काव्ये तस्य स्थितिं जगाद्। कथयामास। काव्येष्वित्यत्र बहुवचनन्तु निर्धारणार्थम्। काव्येषु चित्रकूटगिरि काव्य एव तस्य स्थितिर्न तु सर्वेष्वित्यर्थ:। यतश्च निर्धारणमित्यनेन सप्तमी। यद्वा चित्रकूटगिरिस्थितिमित्येकं पदम्। तथात्वे विश्वस्य निखिलस्य संसारस्य चित्रकूटाख्ये गिरौ तस्य दिव्यहिरण्यपक्षस्य स्थितिं जगादेत्यर्थ:। यद्वा चित्रकूटा च या गी: वाणी तस्याम्। तस्य हंसस्य कूटस्थतां जगाद।
।। ६६।।
अन्यो विलासी नलभीमकन्या-
ऽन्योन्यानुरागैकनिदानमेनम्।
आलोच्य कान्तागुरुमानभङ्गे
दौत्योपयुक्तं गणयाम्बभूव।।
अन्वय: - अन्य: विलासी एनं नलभीमकन्याऽन्योन्यानुरागैकनिदानम् आलोच्य कान्तागुरुमानभङ्गे दौत्योपयुक्तं गणयाम्बभूव।
गङ्गा - अन्येति- अन्य: कश्चिद् विलासी एनं दिव्यहिरण्यपक्षं नलभीमकन्याऽन्योन्यानुरागैकनिदानम्, नलश्च भीमकन्या दमयन्ती च तयोरनुरागस्यैकं निदानमालोच्य विचार्य। नलभीमकन्ययोर्मिथ: प्रणयकथा महाभारतनैषधीयचरितादौ वर्णिता। तत्र हंसदौत्यमपि। कान्तागुरुमानभङ्गे कान्तानां प्रियतमानां गुरुमानभङ्गे महन्मानापगमे दौत्योपयुक्तं दौत्यकार्योचितं गणयाम्बभूव निर्धारयामास। यद्वा कान्ता गुरुमानभङ्गे इति पदद्वयम्। तथात्वे ''अन्य: विलासी एनं नलभीमकन्याऽन्योऽन्यानुरागैकनिदानं कान्ता: आलोच्य गुरुमानभङ्गे दौत्योपयुक्तं गणयाम्बभूवेत्यन्वय:। कान्ता: प्रियतमा: आलोच्य दृष्ट्वा निर्लज्जतया गुरुमानभङ्गे गुरूणां मानभङ्गे अनादरे दौत्योपयुक्तं दौत्यकार्योचितं निर्धारयामासेति व्याख्या।
।। ६७।।
प्रतारितोऽन्य: शठगोपकान्ता-
पात्रेण तुल्यद्विपयोधरेण।
तदीयपार्थक्यविधौ क्षमोऽयं
संग्राह्य इत्याग्रहतोऽभ्यधावत्।।
अन्वय: - तुल्यद्विपयोधरेण शठगोपकान्तापात्रेण प्रतारित: अन्य: 'तदीयपार्थक्यविधौ क्षम: अयं सङ्ग्राह्य:Ó इति आग्रहत: अभ्यधावत्।
गङ्गा - प्रतारित इति- तुल्यद्विपयोधरेण तुल्यौ द्वौ पयोधरौ स्तनौ यस्य तेन, समानस्तनद्वयया भाजनसदृश्या दुष्टया गोप्येति गोपकान्तापक्षेऽर्थ:। पात्रपक्षे तु तुल्ययो: अभिन्नयो: द्वयो: पयसो: दुग्धजलयो: धरेण। शठगोपीसदृशेन पात्रेणेत्यर्थ:। 'पय: क्षीरं पयोऽम्बु चÓ इत्यमर:। प्रतारित: वञ्चित:। तयो: तुल्यद्विपयोधरयोरिति गोपकान्तापक्षेऽर्थ:। तयो: दुग्धजलयोरिति हंसपक्षेऽर्थ:। पार्थक्यस्य भेदस्य विवेकस्य मर्दनस्य च विधाने क्षम: समर्थ: अयं हंस: सङ्ग्राह्य: गृहीतव्य इति आग्रहत: सम्मुखम् अभ्यधावत् धावनमकरोत्।
।। ६८।।
लुब्ध: पर: काञ्चनपत्रमात्रे
द्यावापृथिव्यो: प्रवितत्य जालम्।
जिघृक्षुरेनं सहसा विदार्य
यातेऽत्र मूलक्षतित: शुशोच।।
अन्वय: - काञ्चनपत्रमात्रे लुब्ध: एनं जिघृक्षु: पर: द्यावापृथिव्यो: जालं प्रवित्यस्य, सहसा विदार्य याते अत्र मूलक्षतित: शुशोच।
गङ्गा - लुब्ध: पर इति- काञ्चनपत्रमात्रे, दिव्यहिरण्यपक्षस्य हंसस्य स्वर्णसम्बन्धिपक्षमात्रे लुब्ध: लोभं गत:, अथ च एनं जिघृक्षु: गृहीतुमिच्छु: पर: कश्चन द्यावापृथिव्यो: आकाशस्य धरित्र्याश्च मध्ये जालं पक्षिग्रहणपाशं प्रवितत्य प्रसार्य। स्थित इति शेष:। किन्तु तेन दिव्यहिरण्यपक्षेण सहसा पाशं विदार्य याते गते स: अत्र अस्मिन् विषये मूलक्षतित: मूलस्य पाशस्य क्षतिस्तस्मात्। यद्वा मूलं प्रकृति स्तद्विलयात् शुशोच, शोकं चकार। लोभात् कृते कार्ये मूलस्याऽपि विनाशात् शोकं गत इति भाव:।
।। ६९।।
हा हेतर: स्वोदरपूरणाय
धृतामिषं स्वीयकरं प्रसार्य।
जिघांसुरेनं पटुचञ्चुकोटी-
विकुट्टिताङ्गो धरणौ पपात।।
अन्वय: - हा! हा! इतर: स्वोदरपूरणाय धृतामिषं स्वीयकरं प्रसार्य एनं जिघांसु: पटुचञ्चुकोटी विकुट्टिताङ्गो (सन्) धरणौ पपात।
गङ्गा - इतर: किं कृतवानिति वर्णयति- हा हेतर इति- हा! हा! इति खेदजनकमव्ययम्। स्वोदरपूरणाय स्वस्य निजस्य उदरस्य पूरणाय भरणाय। धृतामिषं, गृहीतविलोभनीयवस्तुकं स्वीयकरं स्वकीयं हस्तं प्रसार्य। 'आमिषं पुन्नपुंसकम् भोग्यवस्तुनि सम्भोगेऽप्युत्कोचे पललेऽपि चÓ इति मेदिनी। करविशेषणमिदम्। अथवा धृतम् आमिषं मासं येन तं हंसम्। एनं हंसं जिघांसु: हन्तुमिच्छु:। पटुचञ्चुकोटीविकुट्टिताङ्गो, तीक्ष्णचञ्चुकोटीभि: विकुट्टितानि व्रणीकृतानि अङ्गानि यस्य स तादृश: सन् धरणौ पपात्। हंसस्य चञ्चुप्रहारेण त्रुटिताङ्गो भूत्वा अपतदित्यर्थ:।
।। ७०।।
एवंविधे पण्डितपामराणां
कोलाहले सम्भ्रमत: प्रवृत्ते।
निर्विण्णचेता निभृतं निलीय
प्रापं विविक्तं परिणामदर्शी।।
अन्वय: - पण्डितपामराणां सम्भ्रमत: एवं विधे कोलाहले प्रवृत्ते (सति) निर्विण्णचेता: परिणामदर्शी (अहम् अलि:) निभृतं निलीय विविक्तं प्रापम्।
गङ्गा - अत्रान्तरे जायमानां स्वीयां दशां वर्णयन्नाद् अलि:- एवं विध इति- पण्डितपामराणां पण्डितास्तत्त्ववेत्तारश्च पामराश्चेति तेषाम्। 'जाल्मस्तु पामरेÓ इति हैम:। तेषां पण्डितपामराणां सम्भ्रमत: त्वरया भ्रमेण वा एवंविधे उपर्युक्तप्रकारके हंसस्वरूपविषयके कोलाहले प्रवृत्ते निर्विण्णचेता: निर्विण्णं खिन्नं चेतो यस्य तादृशोऽथ च परिणामदर्शी परिणामस्य फलस्य द्रष्टा साक्षात्कर्ता अहमलि: निभृतं यथा स्यात्तथा एकान्ते निलीय विविक्तं विजनं प्रापम्, अगच्छम्। 'विविक्तौ पूतविजनौÓ इत्यमर:। पण्डितपामराणां हंसस्वरूपविषयके विवादे सम्प्रवृत्ते अलिरहमेकान्तमगच्छमिति तात्पर्यम्।
।। ७१।।
हंसो महामोहहतान् हसंस्तान्
नानाविधाभिर्गतिभिर्निपीड्य।
उपेत्य मामेष भयाद्रुदन्तं
परीक्षमाण: क्षणमात्रमासीत्।।
अन्वय: - एष हंस: महामोहहतान् तान् हसन् नानाविधाभि: गतिभि: उपेत्य भयात् रुदन्तं मां निपीड्य क्षणमात्रं परीक्षमाण: आसीत्।
गङ्गा - हंस इति- एष दिव्यहिरण्यपक्षो हंस: महामोहहतान् महामोहेन अज्ञानेन हतान् ग्रस्तान् तान् पण्डितान् पामरांश्च हसन्। एतेषु न कोऽपि मम स्वरूपं जानातीति तेषामुपहासं कुर्वन्। 'मूच्र्छा तु कश्मलं मोहोऽपीÓत्यमर:। नानाविधाभि: बहुप्रकारिकाभि: सांसारिकीभिरुड्डीनादिभिश्च गतिभि: उपेत्य समीपे आगत्य। तस्य समीपागमनेन भयात् रुदन्तं माम् अलिं निपीड्य चञ्च्वादिप्रहारेण प्रपीड्य क्षणमात्रं परीक्षमाण: मम धैर्यस्य विवेकस्य वा परीक्षणं क्रियमाण आसीत्।
।। ७२।।
अत्ता नु मामेष मदीयसत्ता-
ऽऽयत्ताऽस्य शङ्काऽद्य न याति चित्तात्।
मत्तानवं तस्य च शक्तिमत्ता
हृत्तापिनी धीर्मम सम्प्रमत्ता।।
अन्वय: - एष नु माम् अत्ता। मदीय सत्ता अस्य आयत्ता (इति) शङ्का अद्य चित्तात् न याति। मत्तानवं तस्य हृत्तापिनी शक्तिमत्ता च (इति) मम धी: सम्प्रमत्ता (अभवत्)।
गङ्गा - अत्तान्विति- एष दिव्यहिरण्यपक्षो हंस: नु निश्चयेन माम् अत्ता। अद् भक्षणे इति धातो: लुटि रूपम्। मां भोक्तेत्यर्थ:। मदीया अले: सत्ता अस्तित्वम् अस्य दिव्यहिरण्यपक्षस्य हंसस्य आयत्ता आधीनम्। अस्तीति शेष:। इति शङ्का चित्तात् मानसान्न याति, न गच्छति। 'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मन:Ó इत्यमर:। मत्तानवं ममाले: दौर्बल्यम्। तस्य हंसस्य च हृत्तापिनी हृदयतापप्रदायिनी सोढुमशक्या शक्तिमत्ता शक्तिशालिता। इत्येवं विचार्य मम मेऽले: धी: बुद्धि: सम्प्रमत्ता विवेकहीना। भवतीति शेष:। हंसप्रदत्तपीडयाऽलेर्मम मनसि तत्सम्बधिनो नानाभावा उदपद्यन्त इति भाव:।
।। ७३।।
किं प्राप्तकालं? किमु मे हितं स्याद्?
भवेत्कदैतद्भवभीतिभङ्ग:?।
प्रसादये तावदमुं परस्ता-
दस्तु स्वमस्ते यदलेखि वस्तु।।
अन्वय: - (इदं मम अले:) किं प्राप्तकालम्? मे हितं किमु स्यात्? एतद्भवभीतिभङ्ग: कदा भवेत्? तावत् अमुं प्रसादये। परस्तात् स्वमस्ते यद् वस्तु अलेखि (तत्) अस्तु।
गङ्गा - हंसं दृष्ट्वा विचारयन्नलि: पुनराह- किं प्राप्तकालमिति- सम्प्रति मम किं प्राप्तकालम्? किं कर्तव्ययोग्यम्। किं मे हितं स्यात्? केन कार्येण करणेन वा स्यात्? केन कार्येण करणेन वा कस्य वा विधे: सम्पादनेन मे मम अले: हितं स्वात्मलाभ: भवेत्? एतद्भवभीतिभङ्ग:, एतस्मात् हंसाद् भवाया उत्पन्नाया भीते: भयस्य भङ्ग: कदा स्यात् कदा भवेत्। अथवा भवस्य संसारस्य भीति: भवभीति:, एषा चासौ भवभीति:, एतद्भवभीति:, तस्या भङ्ग: विनाश इति यावत्। मम अलेर्मोक्षलाभ: कदा स्यादित्यर्थ:। पुन: स्वकर्मनिर्धारयन्नाह- तावत् अमुं पुरो विद्यमानं परमात्मरूपं हंसं प्रसादये। पूजार्चनाभि: पूजयामि। परस्तात् स्वकर्मसम्पादनानन्तरं स्वमस्ते। मसी परिणामे परिमाणेवेति धातो: क्त:। मस्तक इत्यार्थ:। अले: मस्तके भाग्ये यद् वस्तु अलेखि, यद् भोग्यं निर्धारितम् विधिनेति शेष:। तत् अस्तु भवतु। न तेन मे प्रयोजनमिति तात्पर्यम्।
।। ७४।।
अस्य प्रसादेन विना न मोक्ष-
स्त्रातव्य आत्मा ह्यखिलैरुपायै:।
इत्थं विचार्य स्वयमग्रयायी
तं प्राणमं प्राणमपेक्षमाण:।।
अन्वय: - अस्य प्रसादेन विना मोक्ष: न (भवितुमर्हति)। हि अखिलै: उपायै: आत्मा त्रातव्य:। प्राणम् अपेक्षमाण: अग्रयायी (अहं) इत्थं विचार्य तं प्राणमम्।
गङ्गा - अस्य प्रसादेनेति- अस्य प्रसादेन प्रसन्नतया विना मोक्ष: अपवर्ग: न। भवितुमर्हतीति शेष:। अत एव अखिलै: मोक्षप्राप्तिसाधनभूतै: उपायै: आत्मा त्रातव्य: रक्षणीय:। प्राणम् अपेक्षमाण:। 'प्राणो हृन्मारुते बोले काव्यजीवेऽनिले बलेÓ इति मेदिनी। हृन्मारुतं प्राणवायुमपेक्षमाणोऽहमलि:। अग्रयायी अग्रे यातुं गन्तुं शीलमस्येति अग्रयायी। तादृशोऽहमित्थम् एवम्प्रकारेण विचार्य तं दिव्यहिरण्यपक्षं प्राणमं प्रणाममकरवम्।
।। ७५।।
मुहुर्नमन्तं शतश: स्तुवन्तं
मामापदन्तं चिरमर्थयन्तम्।
प्रसन्नयाऽसावनुगृह्य दृष्ट्या
विश्वासमापादयति स्म चित्ते।।
अन्वय: - मुहु: नमन्तं शतश: स्तुवन्तं चिरम् आपदन्तम् अर्थयन्तं माम् असौ प्रसन्नया दृष्ट्या अनुगृह्य चित्ते विश्वासम् आपादयति स्म।
गङ्गा - मुहुर्नमन्तमिति- मुहु: बारम्बारं नमन्तं नमनं कुर्वन्तं शतश: स्तुवन्तं स्तुतिं कुर्वन्तं चिरम् आपदन्तं आपदां विपत्तीनां सांसारिकव्याधीनां हंसभयजन्यपीडाया: तापत्रयाणां दैहिकादीनां वा अन्तम् अर्थयन्तं प्रार्थयन्तं माम् अलिम् असौ हंस: प्रसन्नया दृष्ट्या अनुगृह्य मम चित्ते विश्वासं भयराहित्यम् आपादयति प्रतिपादयति स्म। मत्त: सम्प्रति न ते भयमित्युपदिशति स्मेति भाव:।
।। ७६।।
स्थिरप्रसादत्वमवेक्ष्य तस्य
शङ्काकलङ्के मनसोऽपयाते।
लौल्येन लालाटिकतां विहाय
जिज्ञासमाने मयि तस्य तत्त्वम्।।
अन्वय: - तस्य स्थिरप्रसादत्वमवेक्ष्य मनस: शङ्काकलङ्के अपयाते लौल्येन लालाटिकतां विहाय मयि तस्य तत्त्वं जिज्ञासमाने (मौनी बभूव इति परेणान्वय:)।
गङ्गा - स्थिरप्रसादत्वमिति- त्रिभि: कुलकम्। तस्य दिव्यहिरण्यपक्षस्य हंसस्य स्थिरप्रसादत्वं दृढानुग्रहभावम्। 'प्रसादोऽनुग्रहे काव्यप्राणस्वास्थ्यप्रसत्तिषुÓ इति मेदिनी। अवेक्ष्य दृष्ट्वा मनस: तद्विषयके शङ्काकलङ्के पूर्वोक्तभयादिशङ्कापङ्के अपयाते दूरीभूते सति लौल्येन चाञ्चल्येन। लोलश्चले सतृष्णे चेति हैम:। लालाटिकतां स्वामिनो हंसस्य ललाटदर्शितां विहाय परित्यज्य। 'लालाटिक: प्रभोर्भालदर्शी कार्याक्षमश्च य:Ó इत्यमर:। तस्य हंसस्य तत्त्वं रहस्यं मयि अलौ जिज्ञासमाने सति स हंस: मौनी बभूवेति परेणान्वय:।
।। ७७।।
त्वं कोऽसि? कं द्रष्टुमिहागतोऽसि?
प्रवर्तित: केन? ददासि कस्मै?।
कस्माज्जनिस्ते? ऽसि च कस्य गृह्य:?
कस्मिंस्त्वदास्थेत्यभिधातुकामे।।
अन्वय: - त्वं क: असि? इह कं द्रष्टुम् आगत: असि? के न प्रवर्तित: असि? कस्मै ददासि? कस्मात् ते जनि:? कस्य गृह्य: असि? कस्मिन् (च) त्वदास्था (अस्ति) इति अभिधातुकामे (मौनी बभूव)।
गङ्गा - त्वं कोऽसीति- हे हंस! त्वं क: असि भवसि! पक्षिरूपस्त्वं देवादिषु कोऽसीत्यलेर्जिज्ञासा। इह लोके च कं द्रष्टुम् आगतोऽसि? तत्रापि केन प्रवर्तित: प्रेरित: सन्नागत:। कस्मै ददासि प्रयच्छसि? ते जनि: जन्म कस्मात्? कस्ते जनक इति भाव:। कस्य च गृह्य: ग्रहणयोग्य:! तव आस्था च कस्मिन् विद्यत इति मयि अलौ जिज्ञासमाने स हंस: 'मौनी बभूवÓ इति परेणाऽन्वय:।
।। ७८।।
हृष्यन्नपीष्र्यन्निव सर्वजीव-
भावैकवेदी मम चापलेन।
मनागनादिष्टमहारहस्य-
पिपृच्छिषोत्थेन बभूव मौनी।।
अन्वय: - अनादिष्टमहारहस्यपिपृच्छिषोत्थेन मम चापलेन सर्वजीवभावैकवेदी (स:) हृष्यन् अपि मनाक् ईष्र्यन् इव मौनी बभूव।
गङ्गा - हृष्यन्नपीति- सर्वजीवभावैकवेदी सर्वप्राणिभावैकवेत्ता अभिप्रायज्ञ इति यावत्। 'भाव: सत्तास्वभावाभिप्रायचेष्टात्मजन्मस्विÓत्यमर:। यद्वा जडवस्तूनां तत्त्वैकवेत्ता स: दिव्यहिरण्यपक्षो हंस: हृष्यन्नपि प्रसन्नतामनुभवन्नपि अनादिष्टमहारहस्यपिपृच्छिषोत्थेन अनादिष्टा अननुमता या तद्विषयकमहारहस्यस्य पिपृच्छिषा प्रष्टुं समीहा तया उत्थेन जनितेन मम अले: चापलेन चाञ्चल्येन मनाक् ईष्र्यन् ईष्र्यामनुभवन् इव मौनी बभूव। निरुत्तरं तस्थाविति भाव:।
।। ७९।।
मूको न्वयं? किं बकवृत्तिरेष?
सादृश्यमात्रान्न विशङ्क्यमेतत्।
आश्वासयत्यत्र मन:प्रसादो
मया प्रतीक्ष्योऽयमिति व्यचिन्ति।।
अन्वय: - अयं मूक: नु? एष बकवृत्ति: किम्? एतत् सादृश्यमात्रात् न विशङ्क्यम्। मन: प्रसाद: अत्र आश्वासयति। 'अयं मया प्रतीक्ष्य:Ó इति व्यचिन्ति।
गङ्गा - अलि: तस्य मौनभावं दृष्ट्वा स्वचिन्तितं विशदयन्नाह- मूकोन्वयमिति- अयं दिव्यहिरण्यपक्ष: हंस: मूक: वाग्रहितोनु तस्य समाधिमग्रतां द्रष्ट्वा शङ्कते एष बकवृत्ति: किम्? एतत् सर्व सादृश्यमात्रात् मौनित्वात् मूकत्वं बकवृत्तित्वं वाऽस्य न विशङ्क्यं शङ्कनीयम्। मन: प्रसाद: मनस: प्रसन्नता अयं दिव्यहिरण्यपक्ष: मया अलिना प्रतीक्ष्य: पूजय: अथवा अयं प्रतिपालनीयप्रश्नावसर:। इति एवं प्रकारेण मया अलिना व्यचिन्ति विचार: कृत:।
।। ८०।।
ममाधिकालापकदथ्र्यमान:
समाधिकालापगमे स हंस:।
मुहुर्निषेधन्निव नेति नेती-
त्यव्यक्तमेवोपदिदेश पूर्वम्।।
अन्वय: - समाधिकालापगमे मम अधिकालापकदथ्र्यमान: मुहु: नेति नेति निषेधन् इव पूर्वम् अव्यक्तम् एव उपदिदेश।
गङ्गा - हंसाचरितं वर्णयति- ममाधिकालापेति- समाधिकालापगमे व्यपगते समाधिसमये। समाधितो मुक्त्यनन्तरं मम अले: अधिकालापकदथ्र्यमान: अधिकेन आलापेन वार्तालापेन कदथ्र्यमान: पीड्यमान: स दिव्यहिरण्यपक्ष: मुहु: वारम्वारं नेति नेति निषेधन्निव पूर्वं प्रथमम् अव्यक्तमेव अस्पष्टं पक्षे ब्रह्म एव उपदिदेश उपदिष्टवान्।
।। ८१।।
तन्मूकभावं मनसोऽवधूय
प्रदक्षिणीकृत्य पुन: पुनस्तम्।
तदाभिमुख्यं स्पृहयन् प्रनृत्यन्
प्रपञ्चयामि स्म पुरेव वाचम्।।
अन्वय: - मनस: तन्मूकभावम् अवधूय तं पुन: पुन: प्रदक्षिणीकृत्य तदाभिमुख्यं स्पृहयन्, प्रनृत्यन् पुरा इव वाचं प्रपञ्चयामि।
गङ्गा - पुन: स्वकृत्यं निर्दिशति- तन्मूकभावमिति- मनस: मानसात् तन्मूकभावं तस्य दिव्यहिरण्यपक्षस्य हंसस्य मूकभावं मौनित्वम् अवधूय दूरीकृत्य तं च पुन: पुन: भूयोभूय: प्रदक्षिणीकृत्य परिक्रम्य तदाभिमुख्यं तस्य हंसस्य आभिमुख्यं साम्मुख्यं स्पृहयन् वाञ्छन् प्रनृत्यन् नृत्यं कुर्वन् पुरा इव पूर्वकाल इव वाचं स्वप्रश्नवाणीम् आलापं वा प्रपञ्चयामि विस्तारयामि।
।। ८२।।
वनात्समाहृत्य रसानभीक्ष्णं
समप्र्य शक्त्या मयि सेवमाने।
हृदि प्रसन्नोऽपि स गूढभावो
निरुत्तर: क्वाऽपि रयात् प्रतस्थे।।
अन्वय: - वनात् अभीक्ष्णं रसान् समाहृत्य समप्र्य (च) शक्त्या मयि सेवमाने (सति) गूढभाव: (स:) हृदि प्रसन्न: अपि निरुत्तर: क्वापि रयात् प्रतस्थे।
गङ्गा - हंसाचरितं विशदयति- वनादिति- वनात् अरण्यात् अभीक्ष्णं निरन्तरम्। 'अभीक्ष्णं शश्वदनारतेÓ इत्यमर:। रसान् कुसुमरसान् समाहृत्य एकत्रीकृत्य तस्मै हंसाय समप्र्य च शक्त्या मयि सेवमाने सति गूढभाव: अज्ञाताभिप्राय: स: हंस: हृदि हृदये प्रसन्न: प्रसन्नतामनुभवन्नपि निरुत्तर: उत्तरवाचमदत्वैव अथवा सर्वाधिक: रयात् वेगात् प्रतस्थे प्रस्थानं चक्रे।
।। ८३।।
तदीयरूपेक्षणमात्रलुब्धो
विहाय गन्धान् विविधान् रसांश्च।
शनै: शनैरन्वगमं, कथं नु
मन्दो गतिं विन्दतु मादृशोऽस्य?।।
अन्वय: - तदीयरूपेक्षणमात्रलुब्ध: (अहम् अलि:) विविधान् गन्धान् रसान् च विहाय शनै: शनै: (तं हंसम्) अन्वगमम्। मादृश: मन्द: अस्य गतिं कथं नु विन्दतु।
गङ्गा - तस्य हंसस्य तात्पर्यज्ञाने स्वाऽसामथ्र्यं प्रकटयत्यलि:- तदीयरूपेक्षणेति- तदीयरूपेक्षणमात्रलुब्ध: तदीयस्य दिव्यहिरण्यपक्षस्य हंसस्य रूपेक्षणमात्रेण दर्शनमात्रेण लुब्ध: अहम् अलि: वनस्थान् विविधान् रसान् गन्धान् पुष्परसान् तद्गन्धान् च विहाय परित्यज्य शनै: शनै: तं हंसम् अन्वगमम् अन्वगच्छम्। मादृश: मम अले: सदृश: क्षुद्रप्राणी कीटस्तस्य दिव्यहिरण्यपक्षस्य परमात्मरूपस्य हंसस्य गतिं तात्पर्यं द्रुतगमनं च कथं विन्दतु जानातु। स: साक्षात् ब्रह्मरूपोऽहं च कीट इति तदभिप्रायज्ञाने द्रुतगतिज्ञाने च न मम सामथ्र्यमित्यभिप्राय:।
।। ८४।।
अपेक्षमाणं स च मां दयालु-
र्विलम्बमानो विधिनोपनिन्ये।
आहूय हुङ्काररवेण मन्दं
मन्दाकिनीतीरमुपाजगाम।।
अन्वय: - विलम्बमान: स दयालु: च अपेक्षमाणं मां विधिना उपनिन्ये। हुङ्काररवेण (माम्) आहूय मन्दाकिनीतीरम् उपाजगाम।
गङ्गा - अपेक्षमाणमिति- विलम्बमान: विलम्बं क्रियमाण: स दयालु: दिव्यहिरण्यपक्षो हंस: तमपेक्षमाणं माम् अलिं विधिना विधिपूर्वकम्, उपनिन्ये समीपं प्राययामास। अथवा विधिना शास्त्रोक्तविधानेन, उपनिन्ये सञ्चस्कार। मां च हुङ्काररवेण आहूय मन्दं यथा स्यात्तथा मन्दाकिनीतीरम्, उपाजगाम, उपागच्छत्।
।। ८५।।
तदीयवीक्षाक्षण एव पक्षान्
विधूय सर्वान् सहसोत्थितेषु।
द्विजेषु पद्मासननिश्चलाङ्ग:
क्षणं विशश्राम स नाम हंस:।।
अन्वय: - तदीयवीक्षाक्षण एव सहसा उत्थितेषु द्विजेषु सर्वान् पक्षान् विधूय पद्मासननिश्चलाङ्ग: स हंस: नाम क्षणं विशश्राम।
गङ्गा - पुन: स हंस: किं कृतवानिति वर्णयति- तदीयवीक्षाक्षणेति- तदीयस्य दिव्यहिरण्यपक्षस्य हंसस्य वीक्षाक्षणे दर्शनकाले एव सहसा उत्थितेषु द्विजेषु। द्विजशब्दोऽत्र श्लिष्ट:। 'दन्तविप्राण्डजा द्विजाÓ इत्यमर:। पक्षिषु विप्रेषु वा। सर्वान् पक्षान्। पक्षशब्दोऽपि नानार्थक:। 'पक्षो मासार्धके पाश्र्वे ग्रहे साध्याविरोधयो:Ó। केशादे: परतो वृन्दे बले सखिसहाययो:। चुल्लीरन्ध्रे पतत्रे च वाजिकुञ्जरपाश्र्वयो:Ó इति मेदिनी। पक्षिपक्षेऽयं पतत्रवाचको विप्रपक्षे च नानाशास्त्रसिद्धान्तवाचक:। हंसदर्शनसमकाल एव सहसा समागतेषु विप्रेषु नानाशास्त्रसिद्धान्तान् पूर्वोत्तरपक्षान् विधूय तिरस्कृत्य। अथवा सहसा समागतेषु पक्षान् छदान् विधूय। पद्मासननिश्चलाङ्ग: कमलासनस्थिराङ्ग:। अथवा पद्मासनं योगाङ्गासनविशेष:। तत्र निश्चलाङ्ग:। स हंसो नाम। नामशब्दोऽत्र प्रसिद्धौ। यद्वा नाम्रा हंस: परमार्थतस्तु परमात्मा क्षणं मुहूर्तं विशश्राम। विश्रामं कृतवान्।
।। ८६।।
प्रत्युद्गमेनैव कृतादरेषु
स्वाभ्यस्तनानाविषयोन्मुखेषु।
तेषु प्रयातेषु स मां निरीक्ष्य
तारं स्वरं साधु रहस्युवाच।।
अन्वय: - प्रत्युद्गमेन एव कृतादरेषु स्वाभ्यस्तनानाविषयोन्मुखेषु तेषु प्रयातेषु स मां निरीक्ष्य रहसि तारं स्वरं साधु उवाच।
गङ्गा - पुन: स हंस: किं कृतवानिति वर्णयति- प्रत्युद्गमनेति- प्रत्युद्गमेन एव आसनादुत्थायैव न त्वन्येन विधिना, कृतादरेषु सम्पादितसत्कारेषु स्वाभ्यस्तनानाविषयोन्मुखेषु विषयशब्दोऽत्र देशगन्धादिवाचक:। 'विषयो गोचरे देशे तथा जनपदेऽपि चÓ इति मेदिनी। स्वाभ्यस्तनानाविषयोन्मुखा ये पक्षिण: विप्राश्च तेषु प्रयातेषु गतेषु सत्सु स हंस: माम् अलिं निरीक्ष्य दृष्ट्वा रहसि एकान्ते तारं स्वरम्, उच्चै: स्वरं प्रणवं वा। 'तारं च रजतेऽत्युच्चस्वरेऽध्यन्यवदीरितम्Ó इति विश्व:। साधु सम्यक् प्रकारेण उवाच उपदिदेश।
।। ८७।।
तेनादिमप्रश्नकृतोत्तरोऽहं
विचारयन् प्राच्यनकारवाचम्।
जगन्निषेधात्मविधानतत्त्व-
मस्याशयं तन्मननादबुध्ये।।
अन्वय: - तेन आदिमप्रश्नकृतोत्तर: अहं प्राच्यनकारवाचं विचारयन् तन्मननात् अस्य ''जगन्निषेधात्मविधानतत्त्वम् असिÓÓ इति आशयम् अबुध्ये।
गङ्गा - तदुपदेशजन्यबोधं वर्णयति- तेनादिमेति- तेन दिव्यहिरण्यपक्षेण हंसेन आदिमप्रश्नकृतोत्तर:, आदिम: प्रथमश्चासौ प्रश्न: आदिमप्रश्न:। आदिमप्रश्नस्य कृतमुत्तरं यस्य स आदिमप्रश्नकृतोत्तर:। 'त्वं कोऽसिÓ इति सप्ततसप्ततितमे पद्ये अलिना प्रश्न: कृत आसीत्। अत्र प्रणवोच्चारणेन हंस: 'अहम् आत्माÓ इत्युदतरत्। तस्योत्तरेण, प्राच्यनकारवाचम्, पूर्वं सप्तसप्ततितमे पद्ये उच्चारिता ये ''कं द्रष्टुमिहागतोऽसि, केन प्रवर्तित:, कस्मै ददासि, कस्माज्जनिस्ते, कस्य गृह्य: असि, कस्मिन् त्वदास्थाÓÓ इत्येते भेदविषयका: षट् प्रश्नास्तेषां नकार एवोत्तरम्। तन्नकारवाचं विचारयन् तन्मननात् तस्य हंसस्य अनुध्यानात् जगन्निषेधात्मविधानतत्त्वम्, जगन्निषेधेन यदात्मविधानं तत्त्वमसीति हंसस्य आशयमभिप्रायमबुध्ये, ज्ञातवान्। अस्य हंसस्य पूर्वोक्तद्वय एव तात्पर्यम्। जगन्निषेधे आत्मतत्त्वविधाने च। अथवा महावाक्यतात्पर्यम्। तत्तत्त्वं प्रतिपादितमेव उपनिषत्सु। श्रीमद्भागवतादौ बहुत्र निषेधमुखेन जगद् व्याख्यातम्। तथा च भागवते-
निषेधशेषो जयतादशेष:। एवमन्यत्रापि-
द्युपतय एव ते न ययुरन्तमनन्ततया
त्वमपि यदन्तराण्डनिचया ननु सावरणा:।
ख इव रजांसि वान्ति वयसा सह यच्छु्रतय-
स्त्वयि हि फलन्त्यतन्निरसनेन भवन्निधना:।। (१०.८७.४१)
जगतो निषेधं कृत्वा श्रुतयो यत्प्रतिपादयन्ति तदात्मतत्त्वं त्वमसीति भाव:।
।। ८८।।
विस्पष्टदृष्टस्य कथं निषेधो?
दृश्य: कथं वा भविताऽयमात्मा।
अकृत्रिमा वाक् कथमप्रमाणं?
कथं नु याथाथ्र्यमिहावधार्यम्।।
अन्वय: - विस्पष्टदृष्टस्य निषेध: कथम्? अयम् आत्मा कथं दृश्य: भविता? अकृत्रिमा वाक् कथम् अप्रमाणं भवति? इह याथाथ्र्यं कथम् अवधार्यम्?
गङ्गा - सम्प्रति स्वदुस्तर्कान् निवेदयति- विस्पष्टेति- विस्पष्टदृष्टस्य विस्पष्टतया हस्तामलकवत्स्पष्टतया दृष्टस्य प्रत्यक्षीक्रियमाणस्य जगत: निषेध: कथम्? तदभाव: कथम्? अस्त्विति शेष:। अयं जगन्निषेधमुखेन वेदान्तेषु प्रतिपादित: आत्मा चैतन्यं कथं केन प्रकारेण दृश्य: साक्षात्कार्यो भविता। आत्मसाक्षात्कार: कथं भवेदित्याशय:। अकृत्रिमा वाक् स्वाभाविकी वाणी, वेदवाक् च। वेदा अपौरुषेया न तु केनापि कृता इति तेषामकृत्रिमत्वम्। जगत्प्रत्यक्षमस्ति इति स्वाभाविकी वाक् कथमप्रमाणं भवेत्। तथैव वेदवाक् 'ब्रह्म सत्यं जगन्मिथ्याÓ इत्यादिरूपेण जगन्नास्तीति प्रतिपादयतीति सापि कथमप्रमाणं स्यादिति भाव:। एवं द्वैविध्ये सति इह अस्मिन् जगति याथाथ्र्यं यथार्थज्ञानं कथमवधार्यम्? कथं प्राप्तव्यमिति तर्क:। द्वैधीभावस्तु भ्रममेवोत्पादयति।
।। ८९।।
इत्यादिदुस्तर्कसमीरवेगै-
र्विक्षिप्यमाणोऽपि विरुद्धदिक्षु।
श्रद्धाय तद्धारितवानमुष्य
पदद्वयं मूध्र्नि मुखेऽपि चाहम्।।
अन्वय: - इत्यादिदुस्तर्कसमीरवेगै: विरुद्धदिक्षु विक्षिप्यमाण: अपि अहं श्रद्धाय अमुष्य तद् पदद्वयम् मूध्र्नि मुखे च धारितवान्।
गङ्गा - दुस्तर्काहतोऽलिर्हंसस्य पदद्वयं जग्राहेत्याह- इत्यादिदुस्तर्केति- इत्यादिदुस्तर्कसमीरवेगै: पूर्वोक्तविस्पष्टदृष्टस्य कथं निषेधेत्यादिरूपेण प्रदर्शितकुतर्कवायुजवै: विरुद्धदिक्षु विपरीतासु काष्ठासु विक्षिप्यमाण: अपि निक्षिप्यमाण: अपि। पूर्वोक्ततर्करूपपवनवेगैरपसिद्धान्तपक्षे निपातितोऽपीत्याशय:। तस्मिन् हंसे श्रद्धाय श्रद्धां कृत्वा। श्रद्धातोरुपसर्गवद्वृत्तित्वाल्ल्यप्। अहमलि: अमुष्य परमात्मरूपहंसस्य तत् पदद्वयं प्रणवनकाररूपं पदद्वयं चरणयुगं वा मूध्र्नि मुखे च धारितवान्। प्रणवनकाररूपं पदद्वयं मुखे चरणयुगं च मूध्र्रि धारितवान्। यद्वा प्रणवनकाररूपं पदद्वयं मूध्र्रि मुखे चोभयत्रापि धारितवान्। तथैव चरणयुगमपीत्यर्थ:।
(त्रिभि: कलापकम्)
।। ९०।।
तत्र प्रसङ्गान्मिलितै: सपक्षै-
र्जल्पन्ननल्पं शिखिभि: शुकैश्च।
सिष्णासयाऽऽयातबुधै: स्ववाचा
मध्यस्थभावेऽपि कृतप्रशंस:।।
अन्वय: - तत्र प्रसङ्गात् मिलितै: सपक्षै: शिखिभि: शुकै: च अनल्पं जल्पन् सिष्णासया आयातबुधै: स्ववाचा मध्यस्थभावे अपि कृतप्रशंस: (बहुश्रमेण युक्तोऽस्मीति परेणाऽन्वय:)।
गङ्गा - तत्र प्रसङ्गादिति- तत्र तस्मिन् स्थाने प्रसङ्गात् व्याजात् मिलितै: प्राप्तै:, सपक्षै: मित्रै: पक्षधारिभिश्च। शिखिभि: मयूरै: कर्मठैश्च। शुकै: कीरैर्योगिभिश्च। अनल्पं जल्पन् बहु वार्तां कुर्वन्नहमलि: सिष्णासया स्नातुमिच्छया आयातबुधै: समागतविद्वद्भि: स्ववाचा निजमुखेन भ्रमरवाणीमाधुर्यगुणेन च मध्यस्थभावे अपि तटस्थभावेऽपि कृतप्रशंस: कृता प्रशंसा यस्य तादृशोऽहमलि:। बहुश्रमेण युक्तोऽस्मीति परेणाऽन्वय:।
।। ९१।।
विपक्षमातङ्गकबृंहितेषु
तद्गण्डमाक्रम्य मदं विलुम्पन्।
प्राप्तारिराजीजयपत्रयोगा-
न्निर्बाधसम्पन्नमतप्रचार:।।
अन्वय: - विपक्षमातङ्गकबृंहितेषु तद्गण्डम् आक्रम्य मदं विलुम्पन् प्राप्तारिराजीजयपत्रयोगात् निर्बाधसम्पन्नमतप्रचार: (बहुश्रमेण युक्तोऽस्मीति परेणाऽन्वय:)।
गङ्गा - विपक्षेति- विपक्षमातङ्गकबृंहितेषु विपक्षा: पक्षशून्या: प्रतिवादिनश्च, मातङ्गका: गजा: नीचाश्च तेषां बृंहितेषु गर्जनेषु सत्सु। 'बृंहितं करिगर्जितम्Ó इत्यमर:। तद्गण्डं कपोलस्थलम् आक्रम्य, मदं मदजलं गर्वं वा विलुम्पन् पिबन्, प्राप्तारिराजीजयपत्रयोगात्, प्राप्त: अरिराजीजयो यैस्तादृशानि पत्राणि पक्षास्तेषां योगात् संयोगात्, यद्वा प्राप्तं यत् प्रतिवादिजयसूचकं पत्रं तद्योगात्, निर्बाधसम्पन्नमतप्रचार:, निर्बाध: सम्पन्न: सम्पादित: मतस्य स्वपक्षस्य प्रचार: येन तादृशोऽहं बहुश्रमेण युक्तोऽस्मीति परेणान्वय:।
।। ९२।।
गुरोरमुष्याऽथ सुरस्रवन्त्या:
स्थित्वाऽनुकूलं सुचिरं निशम्य।
श्रौतप्रमोदावहतद्वचांसि
क्रमेण युक्तोऽस्मि बहुश्रमेण।।
अन्वय: - अथ सुरस्रवन्त्या: अनुकूलं स्थित्वा अमुष्य गुरो: श्रौतप्रमोदावहतद्वचांसि क्रमेण सुचिरं निशम्य बहुश्रमेण युक्त: अस्मि।
गङ्गा - गुरोरमुष्येति- अथ सुरस्रवन्त्या: गङ्गाया: 'स्रोतस्वती द्वीपवती स्रवन्ती निम्रगाऽपगाÓ इत्यमर:। अनुकूलं तटे, हितमाचरन् वा। स्थित्वा अमुष्य हंसरूपस्य गुरो: श्रौतप्रमोदावहतद्वचांसि कर्णसुखकराणि वदसम्बन्धीनि वा सुखकराणि तस्य वचनानि क्रमेण क्रमश: सुचिरं निशम्य श्रुत्वा बहुश्रमेण युक्तोऽस्मि, सम्पन्नज्ञातोऽस्मीत्यर्थ:। श्रान्तोऽस्मीति वाऽर्थ:। अलिपक्षे श्रान्ति:। परिव्राजकपक्षे च सम्पन्नज्ञानताऽर्थ:।
।। ९३।।
अयत्नत: कल्पतरूपनीते
शतक्रतुप्राप्यफ लेऽपि तर्ष:।
यदा न मेऽभूत् स तदा सहर्षो
बभावनाकाङ्क्षितसन्निकर्ष:।।
अन्वय: - अयत्नत: कल्पतरूपनीते शतक्रतुप्राप्यफले अपि यदा मे तर्ष: न अभूत् तदा सहर्ष: अनाकाङ्क्षिसन्निकर्ष: स बभौ।
गङ्गा - तद्वचोधारणानन्तरं हंसस्य स्थितिमाह- अयत्नत इति- अयत्नत: यत्नं प्रयासं वा विना कल्पतरूपनीते देववृक्षेण प्रापिते। कल्पतरु: समीहितं वस्तु यत्नं विना ददातीति प्रसिद्धि:। 'सन्तान: कल्पवृक्षश्च पुंसि वा हरिचन्दनम्Ó इत्यमर:। शतक्रतुप्राप्यफले, शतक्रतु: इन्द्र: तेन शतक्रतुना प्राप्यफले अपि। अथवा क्रतु: यज्ञ:। यागशतकसाध्येऽपीत्यर्थ:। 'यज्ञ: सवोऽध्वरो याग: सप्ततन्तुर्मख: क्रतु:Ó इत्यमर:। तादृशफलेऽपि यदा मे अलेस्तर्ष: पिपासा। 'उदन्या तु पिपासा तृट् तर्ष:Ó इत्यमर:। प्राप्तिलोभ इति यावत्। न अभूत्, तदा सहर्ष: हर्षेण सहित:, अनाकाङ्क्षितसन्निकर्ष: अयाचितसन्निधि: स हंस: बभौ शुशुभे। प्रसन्नो बभूवेत्यर्थ:।
।। ९४।।
कदाचिदुड्डीय वियत्यकस्मा-
द्विस्मापिताशेषपतत्रिचेता:।
मां मण्डलाकारगतिच्छलेन
दिशश्चरेत्यादिशति स्म हंस:।।
अन्वय: - कदाचित् वियति उड्डीय अकस्मात् विस्मापिताशेषपतत्रिचेता: (स) हंस: मण्डलाकारगतिच्छलेन मां ''दिश: चरÓÓ इति आदिशति स्म।
गङ्गा - हंसस्यादेशं वर्णयति- कदाचिदिति- कदाचित् सहसा वियति आकाशे उड्डीय उड्डयनं कृत्वा। 'वियद्विष्णुपदं वातु पुंस्याकाशविहायसीÓ इत्यमर:। अकस्मात् विस्मापिताशेषपतत्रिचेता: न शेषा अशेषा:। सम्पूर्णा इत्यर्थ:। अशेषाश्च ते पतत्रिण: अशेषपतत्रिण:। अशेषपतत्रिणां चेतांसि अशेषपतत्रिचेतांसि। विस्मापितानि अशेषपतत्रिचेतांसि येन स:। आश्चर्यायितसमग्रपक्षिमना इत्यर्थ:। स हंस: दिव्यहिरण्यपक्ष: मण्डलाकारगतिच्छलेन तादृशगतिव्याजेन, दिश: काष्ठा:। 'काष्ठोत्कर्षे स्थितौ दिशिÓ इत्यमर:। चर भ्रम। इति आदिशति स्म। निरदिशत्। सर्वं सांसारिकं परित्यज्य दिग्भ्रमणं कुर्वित्युपदिदेशेति भाव:।
।। ९५।।
भयं द्वितीयाद्भवतीति युक्त्या
व्यङ्क्तुं विविक्तस्थितिमीहमान:।
उपास्यमानोऽपि मया कदाचिच्-
चक्राङ्गराज: स रयादयासीत्।।
अन्वय: - 'द्वितीयाद् भयं भवतिÓ इति युक्त्या व्यङ्क्तुं विविक्तस्थितिम् ईहमान: मया उपास्यमान: अपि स चक्राङ्गराज: कदाचित् रयात् अयासीत्।
गङ्गा - हंसाचरितं वर्णयति- भयं द्वितीयेति- द्वितीयाद् देहाद्यात्मभिन्नात् तत्राभिनिवेशाद्वा भयं जरामरणभीति: भवति। तदेतत्तथ्यं श्रीमद्भागवतेऽप्युक्तम्-
भयं द्वितीयाभिनिवेशत: स्या-
दीशादपेतस्य विपर्ययोऽस्मृति:।
तन्माययातो बुध आभजेत्तं
भक्त्यैकयेशं गुरुदेवतात्मा।। (११.२.३७)
द्वितीयाद् भयं भवतीति तथ्यं युक्त्या व्यङ्क्तुं विविक्तस्थितिम् एकान्तवासम् ईहमान: वाञ्छन्। 'विविक्तौ पूतविजनौÓ इत्यमर:। मया अलिना उपास्यमान: चक्राङ्गराज: हंसराज: स:। 'हंसास्तु श्वेतमरुतश्चक्राङ्गा मानसौकस:Ó इत्यमर:। कदाचिदेकदा रयात् वेगात् अयासीत् अगमत्। 'या प्रापणेÓ इति धातोर्लुङिरूपम्।
।। ९६।।
तस्य प्रसङ्गाद्विषयेऽखिलेऽपि
न्यक्कृत्य भावं कृतकृत्यभावम्।
प्राप्तोऽस्मि तृप्तोऽस्मि तमेव नित्यं
स्वच्छन्दचारी हृदये वहामि।।
अन्वय: - तस्य प्रसङ्गात् अखिले अपि विषये भावं न्यछचृत्य कृतकृत्यभावं प्राप्त: अस्मि। तृप्त: (च) अस्मि। स्वच्छन्दचारी (अहं) नित्यं तम् एव हृदये वहामि।
गङ्गा - तद्दर्शनाज्जायमानां स्वावस्थां वर्णयत्यलि:- तस्य प्रसङ्गादिति- तस्य दिव्यहिरण्यपक्षस्य हंसस्य प्रसङ्गात् सम्बन्धात् अखिले अपि समगे्रऽपि विषये सांसारिकभोग्यवस्तुनि भावं प्रीतिं न्यछचृत्य तिरस्कृत्य कृतकृत्यभावं प्राप्तोऽस्मि गतोऽस्मि। तेन च कृतकृत्यभावेन तृप्तोऽस्मि। सन्तोषं भजे। न कदाचिदपि विषयाभिलाषो मपि जागर्तीति भाव:। स्वच्छन्दचारी स्वेच्छया विचरणशीलोऽहं भ्रमर: परिव्राजको वा नित्यं सदैव तमेव परमात्मरूपं हंसं हृदये वहामि धारयामि। तद्भिन्नो न कश्चिद् विषयो हृदये विद्यत इत्यर्थ:।
।। ९७।।
नितान्तमृद्वी नवमल्लिका वा
सकण्टका सम्प्रति केतकी वा।
दैवोपपन्ना मम तुल्यरूपा
रमे न तस्यां न च तां त्यजामि।।
अन्वय: - दैवोपपन्ना नितान्तमृद्वी नवमल्लिका वा सम्प्रति सकण्टका केतकी वा मम तुल्यरूपा (अस्ति)। (अहं) तस्यां न रमे न च तां त्यजामि।
गङ्गा - अलिर्निखिलेऽपि विषये स्वदशां वर्णयन्नाह- नितान्तमृद्वीति- दैवोपपन्ना भाग्यात् प्राप्ता नितान्तमृद्वी नितान्तम् अत्यधिकं मृद्वी सुकोमला नवमल्लिका एतन्नाम्री पुष्पलता वा भवतु सम्प्रति कालेऽस्मिन् सकण्टका कण्टकोपेता केतकी वा भवतु। उभयत्र मम समा दृष्टि:। मम कृते सा नवमल्लिकाऽपि तुल्यरूपा केतकी अपि। अस्तीति शेष:। द्वयोरपि समदर्शिस्वभावात् न कमपि विशेषं पश्यामि। अहं तस्यां केतक्यां न रमे न वा नवमल्लिकां त्यजामि। विलासिन: पूर्वोक्तिनिरासायेदमिति ध्येयम्।
।। ९८।।
भिक्षार्थमेवोपसरामि सर्वं
गायामि चाव्यक्तमहं स्ववाचा।
दिनान्तलब्धागनिशान्तवासी
नि:सङ्ग्रहो मुक्तदुराग्रहोऽस्मि।।
अन्वय: - सर्वं भिक्षार्थम् एव उपचरामि। अहं स्ववाचा अव्यक्तं गायामि। दिनान्तलब्धागनिशान्तवासी नि:सङ्ग्रह: मुक्तदुराग्रह: च अस्मि।
गङ्गा - स्वकृत्यं वर्णयति- भिक्षार्थेति- सर्वं केतकीं नवमल्लिकां चूतलतां वा सर्वं भिक्षार्थम् एव भिक्षाप्रयोजनादेव उपसरामि उपगच्छामि। स्ववाचा अहम् अव्यक्तम् अस्पष्टं पक्षे च ब्रह्म एव गायामि भजे। दिनान्तलब्धागनिशान्तवासी दिनान्ते सायंकाले लब्धो योऽग: वृक्षो वा पर्वतो वा तत्र निशान्तं प्रात: कालं यावद् वस्तुं शीलमस्य। वासकर्तेति यावत्। 'शैलवृक्षौ नगावगौÓ इत्यमर:। एकस्मिन् वासे रात्रिं नीत्वा दिग्भ्रमणस्वभावादन्यत्र गच्छामि। एकस्मिन्नेव स्थले न रमे। अत एवाऽहं नि:सङ्ग्रह: सङ्ग्रहरहित: मुक्तदुराग्रह: परित्यक्तदुराग्रहश्चास्मि। मम न सङ्ग्रहेच्छा न वा कुत्रचिद् दुराग्रह एवेति भाव:। परिव्राजकप्रवृत्तिरिह दर्शिता।
।। ९९।।
विलासिनाऽऽलस्यवशेन गेह-
बिलासिना किं भवता व्यलोकि?।
अहन्तया मोहित! याहि दूरं,
हा हन्त! यामो हितकृद्विविक्तम्।।
अन्वय: - हे अहन्तया मोहित! आलस्यवशेन गेहबिलासिना विलासिना भवता हा हन्त! किं व्यलोकि। दूरं याहि। हितकृद्विविक्तं याम:।
गङ्गा - हंसकथनं वर्णयति- विलासिनेति- हे अहन्तया मोहित! अहङ्कारेण लोभं गत! अज्ञानिन्! आलस्यवशेन आलस्यस्य वशीभूतेन गेहबिलासिना गेह एव बिलं निवासस्थानं तत्र आसितुं शीलमस्य तादृशेन विलासिना रमणशीलेन पूर्वपक्षिणा भवता। हा हन्तेति खेदजनकमव्ययम्। किं व्यलोकि, किमदर्शि। यत्त्वया दृष्टं तत्सर्वमसत्यमनर्थो वा। वस्तुतो नाहं भोगी, परमात्मोपासको नि:सङ्ग्रह: परिव्राजक:। दूरं गच्छ, अपसर। न मे बिलासिना त्वया किमपि प्रयोजनम्। हितकृद्विविक्तं याम:, हितं करोतीति हितकृत्। परमात्मचिन्तनसहायकम्। तादृशं विविक्तं निर्जनस्थानं याम: गच्छाम:। अत्र त्वया सह कालक्षेपेण न कोऽपि लाभ:। त्वं तु अयथार्थद्रष्टेति भाव:। यथार्थस्य ज्ञानं तु विविक्त एव भवतीति। 'विविक्तं पूतविजनौÓ इत्यमर:। यद्वा हितसाधकं परमात्मचिन्तनसहायं पवित्रस्थानं गच्छाम इत्यर्थ:।
।। १००।।
समानकान्ताचरणप्रसाद-
नित्योद्यमो यद्यपि नाऽवभिन्न:।
अयत्नमेकान्तमुखे विभेद-
प्रथाऽऽवयो: किं वितथा तथाऽपि?।।
अन्वय: - यद्यपि आवयो: समानकान्ताचरणप्रसादनित्योद्यम: न अवभिन्न: तथापि एकान्तसुखे अयत्नं विभेदप्रथा वितथा किम्?
गङ्गा - श्लेषेणाऽलिविलासिनो: समानतां प्रतिपाद्य तत्र भेदं प्रदयर्शयन्नाह- समानकान्तेति- यद्यपि आवयोरलिविलासिनो: समानकान्ताचरणप्रसाद-नित्योद्यम: मानसहिताया: कान्ताया: प्रियतमाया: चरणप्रसादे पदप्रणामे नित्योद्यम: सन्ततमुद्योग: यस्य। पक्षे- समानकान्ताचरणप्रसादयो: समाने तुल्यरूपे सर्वत्र समे कान्ते सुन्दरे शास्त्रप्रतिपादिते आचरणे आचारे सन्ध्यावन्दनयज्ञयागादिसम्पादने परमात्मानुध्याने प्रसादे वा नित्योद्यम: निरन्तरप्रवृत्ति: यस्य स:। न अवभिन्न: एक एव। यथा भवतो नित्योद्यमो भवति समानकान्ताचरणप्रसादे तथैव मम अलेरपीत्यर्थ:। तथापि एकान्तसुखे नियतसुखे, पक्षे विविक्तसुखे अयत्नं स्वाभाविकं विभेदप्रथा भेदपरम्परा आवयो: वितथा अनृता किम्? नेत्यर्थ:। आवयो: कश्चन भेदोऽस्त्येव।
।। १०१।।
न्यस्यन् सभङ्गानि पदानि शङ्के
कौटिल्यदोषात् पतितासि पङ्के।
स्वपक्षदाक्ष्येण ममानिरुद्धा
सर्वेषु मार्गेषु गतिर्मतिश्च।।
अन्वय: - कौटिल्यदोषात् सभङ्गानि पदानि न्यस्यन् पङ्के पतितासि (इति) शङ्के। स्वपक्षदाक्ष्येण मम गति: मति: च सर्वेषु मार्गेषु अनिरुद्धा (अस्ति)।
गङ्गा - पुनर्विलासिन: स्वभेदं प्रदर्शयन्नाहाऽलि:- न्यस्यन्निति- कौटिल्यदोषात् कुटिलतारूपदोषदूषितत्वात् सभङ्गानि भङ्गयुक्तानि भङ्गश्लेषोचितसुप्तिङन्तानि पदानि न्यस्यन् पङ्के कर्दमे पापे वा। 'पङ्कोऽस्त्री कर्दमे पापेÓ इति मेदिनी। पतितासि इति शङ्के मन्ये। स्वपक्षदाक्ष्येण स्वपक्षाणां छदानां शास्त्रीयमते च दाक्ष्येण चातुर्येण मम गति: गमनं मतिर्बुद्धिश्च सर्वेषु मार्गेषु गगनादिषु दार्शनिकसम्प्रदायेषु विषयेषु च अनिरुद्धा निरोधरहिता। अस्तीति शेष:।
।। १०२।।
अपत्रपेऽपात्रविबोधनेन
व्यर्थेन किं कार्यमिहास्त्यनेन?।
त्वं गच्छ यत्रेच्छसि वेष एष
त्वां वक्त्यहो वैषयिकं विशेषात्।।
अन्वय: - अपात्रविबोधनेन अपत्रपे। अनेन व्यर्थेन इह किं कार्यम् अस्ति? त्वं यत्र इच्छसि (तत्र) गच्छ। अहो! एष वेष एव त्वां विशेषात् वैषयिकं वक्ति।
गङ्गा - विलासिनं स्वनिष्कर्षं श्रावयति- अपत्रप इति- अपात्रस्य तव विलासिन: विबोधनेन भूयोभूय: सत्यप्रतिपादनेन अपत्रपे लज्जे। इह अत्र अनेन व्यर्थेन वार्तालापेन किं कार्यमस्ति। न किमपीत्यर्थ:। त्वं विलासी यत्र इच्छसि यस्मिन् देशे गन्तुं वाञ्छसि तत्र गच्छ। एष वेष एव त्वया धारित: त्वां विशेषात् वैषयिकं भोगलिप्सुं वक्ति वदति। स्ववेषेणैव त्वं वैषयिक: भासि।
।। १०३।।
निरन्तरायत्नवचोऽन्तराय-
कारी विकारी न मतोऽधिकारी।
भवान् शमारीन् मदमाननारी-
मुखानखेदं हृदि यद्दधाति।।
अन्वय: - निरन्तरायत्नवचोऽन्तरायकारी विकारी अधिकारी न मत:। यत् भवान् मदमाननारीमुखान् शमारीन् अखेदं हृदि दधाति।
गङ्गा - विलासिनोऽनधिकारं वर्णयति- निरन्तरेति- निरन्तरायत्नवचोऽन्तरायकारी निरन्तराणां व्यवधानरहितानाम् अयत्नानां स्वाभाविकीनां वैदिकीनां च वचसाम् अन्तरायं व्यवधानं कर्तुं शीलमस्य स:। विकारी कामादिविकारवान्। अधिकारी शास्त्रोक्ततत्त्वप्रभुर्न मत: न स्वीकृत:। यत् यस्मात् भवान् विलासी मदमाननारीमुखान् मद: गर्व:। 'मदो रेतसि कस्तूर्यां गर्वे हर्षेभमानयो:Ó इति विश्व:। मान: अहङ्कार:। 'गर्वोऽभिमानोऽहङ्कार:Ó इत्यमर:। नारी स्त्री च। मदमाननार्य: मुखानि प्रमुखाणि येषां तान् शमारीन् शान्तिशत्रून् अखेदं सुखं हृदि हृदये दधाति धारयति। अधिकारी पुनरेतेभ्यो रहितो भवतीत्यर्थ:।
।। १०४।।
मधुमधुरगभीरभावपूर्णावितथ-
सयुक्तिकनिस्तुलालिसूक्ती:।
इति निशमयता विलासिनाऽन्त:-
स्तिमितहृदोपलवच्चिराय तस्थे।।
अन्वय: - इति मधुमधुरगभीरभावपूर्णवितथसयुक्तिकनिस्तुलालिसूक्ती: अन्त:स्तिमितहृदा निशमयता चिराय उपलवत् तस्थे।
गङ्गा - विलासिनोऽवस्थां वर्णयति- मधुमधुरेति- इति एवम्प्रकारेण मधुमधुरगभीरभावपूर्णावितथसयुक्तिकनिस्तुलालिसूक्ती: मधु इव मधुराश्च गभीराश्च भावपूर्णाश्च अवितथाश्च सयुक्तिकाश्च निस्तुलाश्चेति तादृशी: अलिसूक्ती: भ्रमरसदुक्ती: विलासिना अन्त:स्तिमितहृदा। 'स्तिमितस्तरले क्लिन्नेÓ इति रुद्र:। अन्त:स्तिमितेन तरलेन हृदा हृदयेन निशमयता शृण्वता विलासिना पूर्वपक्षिणा उपलवत् प्रस्तरवत् हतप्रभ: सन् चिराय तस्थे। तत्रैव स्थितिं चक्रे। पुष्पिताग्रा वृत्तम्।
।। १०५।।
मधुझरपरिपूरितालवाल:
कुसुमसमूहतिरोहितप्रवाल:।
सकलरवपिकालिचक्रवालेा
व्यहसदमुं दशया स्वया रसाल:!।।
अन्वय: - मधुझरपरिपूरितालवाल: कुसुमसमूहतिरोहितप्रवाल: सकलरवपिकालिचक्रवाल: रसाल: स्वया दशया अमुं व्यहसत्।
गङ्गा - रसालकृतविलासिप्रहासं वर्णयति- मधुझरेति- मधुझरपरिपूरितालबाल: मधो: पुष्परसस्य झरेण प्रपातेन परिपूरित: आलवालो यस्य स:। 'मधु मद्ये पुष्परसे क्षौद्रेऽपीÓत्यमर:। कुसुमसमूहतिरोहितप्रवाल: कुसुमानां पुष्पाणां समूहेन तिरोहिता: प्रवाला: नवपल्लवा: यस्य स:। 'प्रवालोऽस्त्री किसलये वीणादण्डे च विद्रुमेÓ इति मेदिनी। सकलरवपिकालिचक्रवाल: पिकश्च अलिश्च चक्रवालश्चेति पिकालिचक्रवाला:। कलरवेण सहिता: सकलरवा:। सकलरवा: पिकालिचक्रवाला: यस्मिन् स:। 'लोकालोकश्चक्रवालÓ इत्यमर:। तादृशो रसाल: आम्रवृक्ष: स्वया स्वीयया दशया अमुं विलासिनं व्यहसत्। पिकादीनां कलरवेण विलासिनस्तस्योपहासमकरोदित्यर्थ:। पुष्पिताग्रावृत्तम्।
।।१०६।।
किमुपशममुपैष्यति क्रुधं वा
मम वचसाऽयमिति स्फु टं बुभुत्सु:।
अवसरमदसीयवाचि दित्सु:
सशममलिर्निजविस्तराद् व्यरंसीत्।।
।। इत्यलिविलासिसंलापे खण्डकाव्ये प्रथमं शतकम्।।
अन्वय: - 'अयं किं मम वचसा उपशमं क्रुधं वा उपैष्यतिÓ इति स्फुटं बुभुत्सु: अदसीयवाचि अवसरं दित्सु: अलि: निजविस्तरात् सशमं व्यरंसीत्।
गङ्गा - सम्प्रत्यलिकृतं वर्णयति- किमुपशमेति- अयं मम पुरो विद्यमानो विलासी मम अले: वचसा कथनेन उपशमं शान्तिं क्रुधं रोषं वा उपैष्यति गमिष्यतीति स्फुटं यथा स्यात्तथा बुभुत्सु: ज्ञातुमिच्छु: अदसीयवाचि विलासिनो वचसि अवसरं समयं दित्सु:। द्वितीयशतके पूर्वपक्षानुपस्थापयितुमित्यर्थ:। अलि: निजविस्तरात् वच: प्रसारात् सशमं यथा स्यात्तथा व्यरंसीत् विराममगमत्।
।। इति विद्यावतीसुतरमाकान्तविरचितायां म.म. गङ्गाधरशास्त्रि-कृतालिविलासिसंलापगङ्गाटीकायां प्रथमं शतकम्।।