अथ तृतीयं शतकम्
।। १।।
अथ ततनिजपक्षोऽसावलि: सावहेलं
क्षतवचसि विलासिन्यक्षि निक्षिप्य किञ्चित्।
अनिलचलदलाग्रैराहूयन्तं रसालं
मृदुपदगतिगीति: सादरं स्तुत्यमाप।।
अन्वय: - अथ ततनिजपक्ष: असौ मृदुपदगतिगीति: अलि: क्षतवचसि विलासिनि सावहेलं किञ्चित् अक्षि निक्षिप्य अनिलचलदलाग्रै: आहूयन्तं स्तुत्यं रसालं सादरम् आप।
गङ्गा - द्वितीयशतके स्वमतस्थापनानन्तरमलेश्चेष्टितं वर्णयितुमुपक्रमते- अथ ततेति- अथ, अनन्तरं, द्वितीयशतके चार्वाकमतखण्डनप्रसङ्ग इत्यर्थ:। ततनिजपक्ष:, ततो विस्तारित: निज: पक्ष: आत्मवादसिद्धान्तो येन स:। पक्षे प्रसारिततनूरुह: तादृशोऽलि:। मृदुपदगतिगीति:, गतिर्गमनं पुष्पेष्विततस्तत उड्डयनं, गीति: गानं गुञ्जारवश्चेति गतिगीती, मृदुपदे मृदुले गतिगीती यस्य स:। पुष्पेष्विततस्ततो भ्रमन्नप्यलिर्गुञ्जारवं प्रसारयति, मधुरं च गायति। तेन तद्गमनं गीतिश्चोभयमपि मृदुपदम्। मृदु: पदगति: मृदुपदा कोमलशब्दा गीतिश्च यस्य स इत्यर्थ:। क्षतवचसि क्षतानि नानाशास्त्रोक्तपक्षप्रदर्शनपुरस्सरं खण्डितानि वचांसि दुस्तर्कान्वितानि वचनानि यस्य स:। तस्मिन् विलासिनि। पूर्वस्मिन् शतके चार्वाकमतमाश्रित्य देहमेव सर्वस्वं मत्वा विलासिना ये हि तर्का: प्रदर्शितास्तेषां निराकरणमलिना कृतमिति तदेवेह स्मारयति। सावहेलम्, हेलया उपेक्षया सहितं सावहेलं तद्यथा स्यात्तथा। तं विलासिनं किमप्यपरिगण्य्येत्यर्थ:। किञ्चित् अक्षि निक्षिप्य तस्मिन् परास्ते विलासिनि दृष्टिं निपात्य। अनिलचलदलाग्रै:, अनिलेन वायुना चलानि चञ्चलानि गतिशीलानि दलाग्राणि पत्रमुखानि तै: आहूयन्तं निमन्त्रयन्तं स्तुत्यं परोपकारित्वात् स्तुतियोग्यं रसालमाम्रवृक्षं सादरं यथा स्यात्तथा आप। तमुपागच्छदित्यर्थ:। वृक्षाणां परोपकारित्वं तु प्रसिद्धमेव। मालिनी छन्द:।
अनुवाद - तदनन्तर अपने पक्ष का विस्तार कर चुकने वाले (अथवा अपने पंखों को फैला लेने वाले) मधुरपदों से युक्त गति और गीति वाले उस 'अलिÓ ने खण्डितवचनों वाले उस विलासी की अवहेलना करते हुए उसे देखा और वायु से चंचल पत्तों के अग्र भाग से बुला रहे उस स्तुत्य रसाल के पास पहुँचा।
(आतिथ्योचितसत्क्रियाक्रम:)
।। २।।
सविनय इव सोऽमुं मारुतानम्रमौलि:
पिकमधुरनिनादै: स्वागतेनाऽभिनन्द्य।
अभिनवमधुधाराक्लृप्तपाद्याघ्र्यकृत्य:
कुसुममृदुलतल्पं कल्पयामास सद्य:।।
अन्वय: - मारुतानम्रमौलि: स: सविनय इव पिकमधुरनिनादै: अमुं स्वागतेन अभिनन्द्य अभिनवमधुधाराक्लृप्तपाद्याघ्र्यकृत्य: सद्य: कुसुममृदुलतल्पं कल्पयामास।
गङ्गा - रसालकृताऽलिस्वागतं वर्णयन्नाह- सविनय इति- मारुतेन वायुना आनम्रा सामग्र्येण नम्रीभूता मौलि: शाखाशिखा यस्य स रसालवृक्ष:। 'समीरमारुतमरुज्जगत्प्राणसमीरणाÓ इत्यमर:। अमुम् अलिम्। सविनय इव विनयेन सहित इव। आनम्रमौलित्वात्तस्य सविनयत्वमुत्प्रेक्षते। पिकमधुरनिनादै:, पिकानां कोकिलानां मधुरै: निनादैर्यद्वा कोकिलवन्मधुरैर्निनादै:। स्वागतेन स्वागतवचोभिरभिनन्द्य। अभिनवमधुधाराक्लृप्तपाद्याघ्र्यकृत्य:, अभिनवया मधो: मकरन्दस्य धारया क्लृप्तौ सम्पादितौ पाद्याघ्र्यकृत्यौ येन स तादृशो रसाल:। 'मधु मद्ये पुष्परसे क्षौद्रेऽपिÓ इत्यमर:। कुसुममृदुलतल्पं कुसुमानि पुष्पाणि इव मृदुलं सुकोमलं तल्पं, यद्वा कुसुमै: मृदुलं तल्पं शय्यां कल्पयामास रचयामास। 'तल्पं शय्याट्टदारेषुÓ इत्यमर:। विलासिनं विजित्य समागतं तमलिं रसालोऽभ्यनन्ददित्युत्प्रेक्षा।
अनुवाद - वायु के द्वारा नम्रीभूत शिखा वाले इस रसाल ने सविनय की तरह कोकिल के मधुर निनादों से उस भ्रमर का स्वागत किया। उसने अपनी नयी मधुधारा से उस अलि का पाद्य और अघ्र्य कल्पित करके उसके लिए फूलों से कोमल शय्या का निर्माण किया।
।। ३।।
क्षणमयमपनीयाऽऽयासमध्वानुभूतं
सुरभिमधुरमध्वाऽऽकण्ठपानेन तृप्त:।
सपदि मधुकरीभिस्तद्रसालाश्रिताभि:
सुचिरमतिथिबुद्ध्या नृत्यगीतै: सिषेवे।।
अन्वय: - अध्वानुभूतम् आयासं क्षणम् अपनीय सुरभिमधुरमध्वाऽऽकण्ठपानेन तृप्त: अयं तद्रसालाश्रिताभि: मधुकरीभि: सपदि अतिथिबुद्ध्या नृत्यगीतै: सुचिरं सिषेवे।
गङ्गा - मधुकरीभिस्सम्पादितं तत्सत्कारं वर्णयति- क्षणमयमिति- अध्वानुभूतं मार्गजन्यम् आयासं श्रान्तिं कष्टं च। दूरादयमागत इति मार्गजन्य आयास:। पथि मिलितेन विलासिना च जातेन दुस्तर्केणाऽप्यायासजनिरिति द्विविधमपि आयासं क्षणं निमेषम् अपनीय दूरीकृत्य। सुरभिमधुरमध्वाऽऽकण्ठपानेन, सुरभिमधुरमधो: सुरभियुक्त: मधुरश्च यो मधु: पुष्परसस्तस्य आकण्ठपानेन यथेच्छपानेन तृप्त:। 'सुरभि: शल्लकीमातृभित्सुरगोषु योषिति। चम्पके च वसन्ते च तथा जातीफले पुमान्। स्वर्णेन्धोत्पले क्लीबं सुगन्धिकान्तयोस्त्रिषु। विख्याते सचिवे धीरे चैत्रेऽपि च पुमानयम्Ó इति मेदिनी। 'मधु क्षौद्रे जले क्षीरे मद्ये पुष्परसे मधु:। दैत्ये चैत्रे वसन्ते च जीवशोके मधुद्रुमेÓ इति विश्व:। पीतसुरभिमधुरसोऽयमलिस्तद्रसालाश्रिताभि: तस्मिन्नाम्रवृक्षे निवसन्तीभि: मधुकरीभिभ्र्रमरीभि: सपदि शीघ्रम्। तदायासापगमानन्तरं रसपानानन्तरं च। अतिथिबद्ध्या, 'अतिथिदेवो भवÓ इति श्रुतिवचनाद् अयमस्माकमतिथिरिति विचार्य। एतेन कीटादिष्वप्यतिथिसत्कारपरम्परा द्योतिता। नृत्यगीतै: नृत्यैस्ताललयाश्रितैर्गीतैश्च। सुचिरं चिरकालं यावत्। सिषेवे, सेवितोऽभूत्। सुचिरमित्यनेन मधुकरीभिस्तद्रमणादिकमपि व्यनक्ति।
अनुवाद - मार्ग में अनुभूत श्रम को क्षण भर में दूर कर के यह भ्रमर सुगन्धित और मधुर पुष्प रस के पान से तृप्त हुआ। तदनन्तर उस आम्रवृक्ष पर रहने वाली भ्रमरियों ने अतिथिभाव से नृत्य और गीत के द्वारा चिरकाल तक उसकी सेवा की।
।। ४।।
मृदुमलयसमीरानीतचूतप्रसूनो-
दितविशदरजोभिश्चान्दनीं प्राप्य चर्चाम्।
अपलपितशरीरोऽप्यच्छहीरोपमार्ह:
कृतिभिरनुममेऽसौ मञ्जुना गुञ्जितेन।।
अन्वय: - मृदुमलयसमीरानीतचूतप्रसूनोदितविशदरजोभि: चान्दनीं चर्चां प्राप्य अपलपितशरीर: अपि अच्छहीरोपमार्ह: असौ कृतिभि: मञ्जुना गुञ्जितेन अनुममे।
गङ्गा - मृदुमलयेति- मृदुमलयसमीरानीतचूतप्रसूनोदितविशदरजोभि:, मृदुना मलयसमीरेण मलयपवनेन आनीतानि प्रापितानि यानि आम्रमञ्जरीतो निर्गतानि विशदानि रजांसि परागास्तैश्चान्दनीं चन्दनसम्बन्धिनीं चर्चां लेपनं प्राप्य, अपलपितशरीर: अपलपितं गोपितं शरीरं यस्य। आम्रमञ्जरीमकरन्दानुलेपात् नीलवर्णशरीरोऽसौ श्वेतवर्णोऽभवदिति भाव:। तादृशोऽयम् अच्छहीरोपमार्ह:, निर्मलरत्नतुलनायोग्य:। 'अच्छो भल्लूके स्फटिकेऽमलेऽच्छाऽभिमुखोऽव्ययम्Ó इति हैम:। कृतिभिस्तत्त्वविद्भि: मञ्जुना गुञ्जितेन हेतुना अनुममे। तत्र चूतमञ्जरीरज:सम्पर्कात् प्राप्तस्वच्छशरीरोऽयमलि: स्वमञ्जुगुञ्जनेन कथञ्चित् कृतिभिरेवाऽनुममे। सामान्यास्तु न तत्प्रत्यभिज्ञाने प्राभवन्निति ध्वनयति। प्रथमशतकेऽपि 'कुन्दलतापरागस्थगितात्मरूप:Ó कथितोऽयम्। कृतिभिरित्यनेन ब्रह्मतत्त्वविद्भिरिति बोधयति। तैरेवोपहितचैतन्यस्य प्राप्तजीवभावस्य बोधात्।
अनुवाद - मृदुल मलयपवन के द्वारा लाये गये आम्रमञ्जरी से निकले हुए परागकणों से इसने चन्दनचर्चा को प्राप्त किया। उन परागकणों के कारण इसके शरीर के आच्छादित हो जाने के कारण यह भ्रमर स्वच्छ हीरे के समान प्रतीत होने लगा। विद्वान् लोग भी इसके मधुर गुंजन से ही इसका अनुमान कर सके।
(सत्यप्रव्रजिस्य अयत्नागतेऽप्यस्पृहा)
।। ५।।
अनभिरुचितमासीत्तस्य नित्यस्वरूपा-
ऽऽवृतिकरचलवृत्तं राजसाऽऽगन्तुरूपम्।
अपि च तदनुमानं स्पष्टदृश्यस्य सर्वै-
रिति स तदवधूयाऽन्यत्र गन्तुं ववाञ्छ।।
अन्वय: - नित्यस्वरूपावृतिकरचलवृत्तं राजसाऽऽगन्तुरूपम् अपि च स्पष्टदृश्यस्य तस्य सर्वै: अनुमानम् अनभिरुचितम् आसीत्। तत् स: तदवधूय अन्यत्र गन्तुं ववाञ्छ।
गङ्गा - स्वकृत्रिमरूपाद् भ्रमरस्य अरुचिं वर्णयति- अनभिरुचीति- नित्यस्वरूपावृतिकरचलवृत्तं, तस्य भ्रमरस्य स्वरूपस्य आच्छादकमस्थिरम-नैसर्गिकावरणम्, पक्षे आत्मस्वरूपस्य परिणामि आवरणम्। संसारे उत्पन्न आत्मा स्वीयं वास्तविकं स्वरूपं विस्मृत्य सांसारिकमायामोहादिभिरावृतो भवति। राजसाऽऽगन्तुरूपम्, परागजनितमाहृतस्वरूपम्, पक्षे रजोगुणजनितमागन्तुरूपं न तु वास्तवम्। स्पष्टदृश्यस्य प्रत्यक्षानुभवविषयस्य भ्रमरस्य आत्मनश्च सर्वै: लोकै: अनुमानम्, गुञ्जारवादिभिभ्र्रमरस्य, शरीरादिभिश्चात्मनोऽनुमिति: तस्य भ्रमरस्य आत्मनश्च अनभिरुचितमासीत्। तादृशानुमाने रुचिर्नासीत्। तत् तस्मात् स भ्रमर आत्मा वा तदवधूय आहृतरूपं तिरस्कृत्य अन्यत्राऽन्यस्मिन् स्थाने गन्तुं ववाञ्छ वाञ्छां चकार। भ्रमरस्वरूपवर्णनेऽस्मिन् तादृश आत्माऽपि व्यज्यते।
अनुवाद - (भ्रमरपक्ष) वास्तविक वर्ण को आवृत करने वाला यह अनैसर्गिक, पराग से जनित आहृतस्वरूप तथा स्पष्टदृष्ट होते हुए भी अपना सभी के द्वारा अनुमान करना उस भ्रमर को अच्छा नहीं लगा। इसलिए उसे छोड़ कर उसने अन्यत्र जाने की इच्छा किया।
(आत्मपक्ष) नित्यस्वरूप को आच्छादित करने वाला परिणामी आवरण, रजोगुण से जनित आगन्तुकरूप तथा प्रत्यक्ष अनुभव का विषय होते हुए भी संसार दशा में सबके द्वारा अपना अनुमान किया जाना, आत्मा को रुचिकर नहीं लगा। अत: उस रूप को छोड़कर वह अन्यत्र जाने को उद्यत हुआ।
।। ६।।
सकलकरणरुच्यातिथ्यसत्कारसीमां
विदधदपि रसालस्तं निरोद्धुं न शेके।
सुलभतनुनिदानादृष्टजायत्नभोगै:
क्व चिदपि चिरवासो नेष्यते स्माऽनिकेतै:।।
अन्वय: - सकलकरणरुच्या आतिथ्यसत्कारसीमां विदधत् अपि रसाल: तं निरोद्धुं न शेके। सुलभतनुनिदानादृष्टजायत्नभोगै: अनिकेतै: क्वचित् अपि चिरवास: न इष्यते स्म।
गङ्गा - अलेर्वारणे सहकारस्याऽसामथ्र्यं निरूपयति- सकलकरणेति- सकलकरणरुच्या सर्वेन्द्रियाणां रुचिमनुसृत्य आतिथ्यसत्कारसीमां विदधदपि कुर्वन्नपि रसालवृक्ष: आम्रतरु: तं भ्रमरं निरोद्धुं न शेके न समर्थो बभूव। सुलभतनुनिदानादृष्टजायत्नभोगै:, सुलभ: सुखेन लभ्यस्तनुनिदानभूत: अदृष्टज: अयत्नभोग: येषां तै: अनिकेतै: संन्यासिभि: क्वचित् कस्मिन्नपि स्थाने चिरवास: बहुकालाय निवास: न इष्यते स्म।
अनुवाद - समस्त इन्द्रियों की रुचि के अनुसार आतिथ्यसत्कार की सीमा का सम्पादन करता हुआ भी वह आम्रवृक्ष उस भ्रमर को रोकने में समर्थ नहीं हो सका। जिन्हें शरीर का निदानभूत अदृष्टजन्य भोग बिना किसी प्रयास के सुलभ होता है, ऐसे संन्यासी कहीं भी चिरकाल तक निवास नहीं करना चाहते।
।। ७।।
अथ नुतसहकारारब्धनानाप्रकारा-
ऽतिथिसमुचितसाराहारसत्कारभार:।
भ्रमरसहचरीभि: सम्भ्रमादभ्रमार्गे
युगपदनुगतोऽसावुत्पपाताऽलिराम्रात्।।
अन्वय: - अथ नुतसहकारारब्धनानाप्रकाराऽतिथिसमुचितसाराहारसत्कारभार: सम्भ्रमात् अभ्रमार्गे भ्रमरसहचरीभि: युगपत् अनुगत: असौ अलि: आम्रात् उत्पपात।
गङ्गा - अथ नुतेति- अथ नुतसहकारारब्धनानाप्रकाराऽतिथिसमुचितसाराहारसत्कारभार:, अथ अनन्तरं, नुत: स्तुत: सहकारेण आम्रवृक्षेण आरब्धानां विविधानाम् अतिथिसमुचितानां सारभूतानाम् आहाररूपाणां सत्काराणां भारो येन सोऽलि:। सम्भ्रमात् त्वराया:। 'सम्भ्रमस्त्वराÓ इत्यमर:। अभ्रमार्गे आकाशमार्गे भ्रमरसहचरीभि: सहकारवृक्षाश्रिताभि: भ्रमरीभि: युगपत् सहैव अनुगत: अनुसृत: सन् असौ यतिरूपोऽलि: आम्रात् आम्रवृक्षात् उत्पपात उड्डयनं चकार। आम्रवृक्षकृतातिथ्यसत्काराणां सम्मानं विधाय अलिरयं वृक्षात्तस्मात् प्रतस्थ इति भाव:।
अनुवाद - तदनन्तर उस अलि ने आम्रवृक्ष के द्वारा सम्पादित अनेक अतिथियोग्य सारभूत सत्कारों की प्रशंसा की। त्वरा से आकाशमार्ग में भ्रमरियों के द्वारा साथ ही अनुगत यह भ्रमर उस आम्रवृक्ष से उड़ गया।
।। ८।।
विहरति परितस्तं चूतमुद्भूतगन्धं
स्वनविजितविपञ्चीपञ्चमे तत्र भृङ्गे।
अभिमतषडभिज्ञोपज्ञविज्ञानवादो
विपिन इह विलासी तं विचिन्वन् विवेश।।
अन्वय: - उद्भूतगन्धं तं चूतं परित: स्वनविजितविपञ्चीपञ्चमे भृङ्गे तत्र विहरति (सति) अभिमतषडभिज्ञोपज्ञविज्ञानवाद: विलासी तं विचिन्वन् इह विपिने विवेश।
गङ्गा - विहरतीति- उद्भूतगन्धम्, उद्भूत उत्पन्नो गन्ध: सुरभि: यस्मिन् तं चूतमाम्रवृक्षं परित: स्वनविजितविपञ्चीपञ्चमे स्वनेन गुञ्जारवेण विजितो विपञ्चीपञ्चम: येन तस्मिन् भ्रमरे। गुञ्जारवेण वीणाया: पञ्चमरागस्य विजेतरीत्यर्थ:। 'निषादर्षभगान्धारषड्जमध्यमधैवता:। पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिता: स्वराÓ इत्यमर:। 'विपञ्ची केलिवीणयो:Ó इति कोश:। तादृशे ब्रह्मवित्प्रतीकभूते भ्रमरे तत्रोपवने विहरति सति। अभिमतषडभिज्ञोपज्ञविज्ञानवाद:, अभिमत: स्वीकृत: षडभिज्ञोपज्ञ: बुद्धेनोद्भावितो विज्ञानवाद: बौद्धशास्त्रे प्रसिद्धो मतविशेषो यस्य स:। 'षडभिज्ञो दशबलोऽद्वयवादी विनायकÓ इत्यमर:। स्वीकृतबुद्धनिबद्धविज्ञानवाद: स विलासी तम् पूर्वशतके स्वविजेतारमलिं विचिन्वन् मार्गयन् इह विपिने वने विवेश, प्रवेशं चकार।
अनुवाद - जिसमें गन्ध उत्पन्न हो गयी थी, ऐसे उस आम्रवृक्ष के चारों ओर जब अपने गुंजार से वीणा के पंचम रारा को परास्त कर देने वाला वह भ्रमर विहार कर रहा था, तभी बुद्ध के द्वारा उपज्ञ विज्ञानवाद को मानने वाले उस विलासी ने भ्रमर को खोजते हुए इस वन में प्रवेश किया।
(रम्यविषया:)
।। ९।।
युवतिकुलमिवासीत् कर्णिकारोचितश्री-
सुभगमुपवनं यत्सालसम्पूर्णशोभम्।
दधदपि च पलाशान् हृद्यतारुण्ययोगाद्
वहत इह नवोद्यत्कन्दलीनामभिख्याम्।।
अन्वय: - कर्णिकारोचितश्रीसुभगं सालसम्पूर्णशोभं हृद्यतारुण्ययोगात् पलाशान् वहत: अपि च इह नवोद्यत्कन्दलीनाम् अभिख्यां दधत् यत् उपवनं युवतिकुलम् इव आसीत्।
गङ्गा - युवति कुलेति- युवतिकुलपक्ष:- कर्णिकारोचितश्रीसुभगम्, कर्णिकाभि: रोचितया श्रिया सौन्दर्येण सुभगं सुन्दरम्। 'कर्णिकाकर्णभूषणम्Ó इत्यमर:। सालसम्पूर्णशोभम्, आलस्ययुक्तमपि पूर्णशोभम्। हृद्यतारुण्ययोगात्, हृद्यं मनोहरं यत् तारुण्यं यौवनं तस्य योगात्। पलाशान् पलवत् आशा येषां तान् चञ्चलतृष्णान्। यून इति यावत्। वहत: धारयत:। युवतिकुलं दृष्ट्वा यून: सतृष्णा: भवन्ति। तादृशयूनो धारयत इत्यर्थ:। तथापि नवोद्यत्कन्दलीनाम्, अभिनवे कन्दे लीनां गुप्ताम्। 'कन्दोऽस्त्री सूरणे सस्यमूले जलधरे पुमान्Ó इति मेदिनी। नवसस्यमूले गुप्तामिथ्यर्थ:। अभिख्यां कान्तिं दधत् युवतिकुलमिव तरुणीनां समूह इव।
उपवनपक्षे- कर्णिकारोचितश्रीसुभगम्, कर्णिकाराणां वृक्षविशेषाणामुचितया श्रिया शोभया सुभगं मनोहरम्। सालसम्पूर्णशोभम्, सालैर्वृक्षै: सम्पूर्णा शोभा यस्य तत्। वृक्षपरिपूर्णसौन्दर्यम्। हृद्यतारुण्ययोगात् हृद्यतया मनोहरतया आरुण्ययोगात् रक्तत्वसंयोगात् पलाशान् किंशुकतरूंश्च वहत: धारयत:। नवोद्यत्कन्दलीनां नवोदितोद्भिद्विशेषाणाम् अभिख्यां कान्तिं सौन्दर्यं वा दधत् धारयद् यत् उपवनं युवतिकुलम् इव युवतीनां समूह इव आसीत्। अत्र प्रयुक्ततत्पदस्य 'तदुपवनमवाप्यÓ इति त्रयोदशश्लोके प्रयुक्तेन तत्पदेन सम्बन्ध:।
अनुवाद - यवति समूह पक्ष- जो उपवन कर्णाभूषण से शोभायमान सौन्दर्य से मनोहर, आलस्य युक्त होकर भी पूर्णशोभायुक्त, मनोहर यौवन के योग से चंचल तृष्णा से युक्त तरुणों को धारण करने वाले तथा अभिनव सस्यों में छिपी हुई कान्ति को धारण करने वाले युवतिकुल के समान था।
उपवनपक्ष- जो उपवन कर्णिकारवृक्षों की उचितश्री से सुशोभित था, उसकी शोभा वृक्षों से परिपूर्ण थी, मनोहर होने के कारण अरुणिमा से जो पलाश वृक्षों को धारण कर रहा था तथा नई कन्दलियों की सुन्दरता को वहन कर रहा था, वह उपवन युवतिसमूह के समान था।
।। १०।।
मृदुमृदुपवनाप्त्या लुप्तसञ्चारखेदं
घनकुरवनिकुञ्जै: सौरभाऽलङ्घनीयम्।
धृतमधुरसरागालापमाद्यन्मिलिन्दं
शशिशुचिरुचिमल्लीलास्यरम्यं यदासीत्।।
अन्वय: - यत् (उपवनं) मृदुपवनाप्त्या लुप्तसञ्चारखेदं, घनकुरवनिकुञ्जै: सौरभालङ्घनीयं, धृतमधुरसरागालापमाद्यन्मिलिन्दं शशिशुचिरुचिमल्लीलास्यरम्यम् आसीत्।
गङ्गा - पुनस्तस्यैवोपवनस्य शोभां वर्णयति- मृदुमृदुपवनेति- यदुपवनं मृदुमृदुपवनाप्त्या मृद्वी मृत् मृत्तिका यस्मिंस्तस्य उपवनस्य आप्त्या प्राप्त्या। यद्वा मृदुतरस्य वायो: पवनस्य आप्त्या प्राप्त्या। लुप्तसञ्चारखेदम्, लुप्त: सञ्चारस्य सञ्चरणस्य भ्रमणस्य वा खेद: परिश्रमो येन, दूरीकृतभ्रमणश्रमम्। घनकुरवनिकुञ्जै:, घनानां कुरवकवृक्षाणां निकुञ्जैर्लतामण्डपै:। सौरभालङ्घनीयम्, सौगन्ध्येन हेतुना अलङ्घनीयम्, लङ्घनाऽयोग्यम्, यद्वा सूर्यसम्बन्धिकान्त्या लङ्घनाऽयोग्यम्। धृतमधुरसरागालापमाद्यन्मिलिन्दम्, धृता: धारिता मधुरं सरागं चालापै: गुञ्जारवै: माद्यन्त: पीतमकरन्दरसा: मिलिन्दा भ्रमरा येन तत्। अथवा धृता मधुरसरागालापैर्माद्यन्तो मिलिन्दा येन तत्। शशिशुचिरुचिमल्लीलास्यरम्यम्, शशिशुचिरुचीनां चन्द्रशुभ्रकान्तीनां मल्लीलतानां लास्येन नृत्येन रम्यम्, अथवा चन्द्रोपमितकान्तियुक्ता लीला येषां तादृशानि आस्यानि मुखानि येषां तादृशै: नरै रम्यं मनोहरम्। यदिति पदं परेण त्रयोदशपद्यस्थेन तत्पदेन सम्बध्यते।
अनुवाद - मृदुलमृत्तिका से युक्त (अथवा मन्दतर पवन से युक्त) जिस उपवन की प्राप्ति से भ्रमण का कष्ट नष्ट हो जाता था जो सघन कुरबक के लतामण्डपों के कारण सुगन्धि (और सूर्य की किरणों) द्वारा अलंघनीय था। जिसमें मधुर और सराग आलाप से मकरन्द का पान करने वाले (अथवा रागालाप से) भ्रमर मतवाले हो रहे थे। चन्द्रमा के समान सुन्दर मल्लीलता के लास्य (चन्द्र के समान कान्ति से युक्त लीला के समान जिनकी मुखच्छवि थी ऐसे मनुष्यों से) जो रम्य था।
।। ११।।
पृथुलकुचतरुण्याह्लादहेतौ वनेऽस्मिन्
लसति चरति मन्दं दक्षिणे गन्धवाहे।
जहसुरथ ववल्गुश्चालिलिङ्गु: प्रमेणु:
प्रणयमिह वहन्त्यश्चापलम्बालवल्ल्य:।।
अन्वय: - पृथुलकुचतरुण्याह्लादहेतौ लसति अस्मिन् वने दक्षिणे गन्धवाहे मन्दं चरति (सति) इह प्रणयं वहन्त्य: चापलम्बा: लवल्ल्य: जहसु: ववल्गु: आलिलिङ्गु: अथ च प्रमेणु:।
गङ्गा - पृथुलकुचेति- पृथुलकुचतरुण्याह्लादहेतौ पुष्टतनवतीनां तरुणीनामानन्दकारणे लसति सुशोभमानेऽस्मिन् वने दक्षिणे गन्धवाहे मलयसमीरे मन्दं चरति सति वाति सति। यद्वा पृथुलकुचतरुण्याह्लादहेताविति वनविशेषणम्। पृथव: लकुचतरवो यस्मिन्निति तादृशे पृथुलकुचतरुणि वन इत्यर्थ:। 'लकुचो लिकुचो डहु:Ó इत्यमर:। इह तादृशे वने प्रणयं प्रीतिं वहन्त्यो धारयन्त्य: चापलम्बा: चाप इव लम्बा दीर्घा लवल्ल्यो लवलीलता:। अथवा चापलं चाञ्चल्यं वहन्त्यो बालवल्ल्य: बाललता:। अस्मिन् पक्षे प्रणयमिति क्रियाविशेषणम्। तादृश्यो लवल्यो बाललता: जहसु:, 'हस् धातो:Ó लिटि रूपम्। हासं चक्रुरित्यर्थ:। ववल्गु: 'वल्ग गताÓ विति धातोर्लिटि रूपम्। ननृतुरित्यर्थ:। आलिलिङ्गु:, स्नेहेन परस्परम् आलिङ्गनं कृतवत्योऽथ च प्रमेणु: 'मण् शब्दार्थेÓ इति धातोर्लिटि रूपम्। झणत्कारं कृतवत्य इत्यर्थ:।
अनुवाद - वह उपवन पुष्ट स्तनों वाली युवतियों के आनन्द क ा हेतु था। (अथवा जिसमें बहुत से लकुच वृक्ष विद्यमान थे, ऐसे आनन्दप्रद) सुशोभित हो रहे इस वन में मलय समीर के संचार करने पर प्रणय को धारण करने वाली चाप के समान लम्बी लवली (अथवा चंचल बाल) लताओं ने हास, नृत्य, आलिंगन और झणत्कार किया।
।। १२।।
परिमलमणुमप्यास्वाद्य वासन्तिकाया
धृतचिरगुरुमाना अद्य वा सन्ति का या:?।
वशयति हरिणाक्षीरन्यपुष्टोपदेशो
विपिन इह विहर्तुं कस्य नेष्टोऽपदेश:।।
अन्वय: - वासन्तिकाया: अणुम् अपि परिमलम् आस्वाद्य धृतचिरगुरुमाना: अद्य का: वा सन्ति या: हरिणाक्षी: अन्यपुष्टोपदेश: वशयति? इह विपिने विहर्तुं कस्य अपदेश: न इष्ट:?
गङ्गा - वासन्तिकाया: प्रभावाधिक्यं वर्णयति- परिमलेति- वासन्तिकाया: वसन्तर्तुसम्भूतसुषमाया: अणुमपि स्वल्पमपि परिमलं सौरभम् आस्वाद्य अद्य कालेऽस्मिन् धृतचिरगुरुमाना: धृतोऽङ्गीकृतश्चिरगुरुमानो याभिस्तादृश्य:। बहुकालव्यापिविशदमानवत्य इत्यर्थ:। अद्य अधुना अस्मिन् वसन्तर्तौ का: वा सन्ति या: हरिणाक्षी: मृगनयना: सुन्दर्य: अन्यपुष्टोपदेश: कोकिलोपदेश: वशयति, वशीकरोति, न का अपीत्यर्थ:। कोकिलोपदेशस्तासां मानमपगमयितुं न समर्थ:। वासन्तिकाया अणुमात्रपरिमलास्वादप्रभाव: परभृतोपदेशशक्तिं तिरस्करोतीत्यर्थ:। इह एतादृशे विपिमेऽरण्ये विहर्तुं कस्य वा तरुणस्य अपदेशो व्याजो न इष्ट:? समेषामेव तादृशव्याज इष्ट इत्यर्थ:।
अनुवाद - वासन्तिका के अणुमात्र परिमल का आस्वादन करके चिरकाल तक विशद मान को धारण करने वाली आज कौन सी स्त्रियाँ हैं, जिन्हें कोयल का उपदेश वशीभूत कर पा रहा है? इस विपिन में विहार करने का व्याज किसे अभीष्ट नहीं है।
।। १३।।
विकसितसितसीमाऽतीतमल्लीपरीतं
तदुपवनमवाप्य क्वाऽप्यपश्यन्नलिं तम्।
स्वकरणगतदोषात्तद्दिदृक्षानपेक्ष:
क्षुभितमनसिजोऽयं व्यक्षिपद्दिक्षु चक्षु:।।
अन्वय: - विकसितसितसीमाऽतीतमल्लीपरीतं तत् उपवनम् अवाप्य स्वकरणगतदोषात् तम् अलिं क्वापि अपश्यन् तद्दिदृक्षानपेक्ष: क्षुभितमनसिज: अयं (विलासी) दिक्षु चक्षु: व्यक्षिपत्।
गङ्गा - विकसितेति- विकसितसितसीमाऽतीतमल्लीपरीतम्, विकसितया सितसीमातीतया मल्ल्या मल्लिकया परीतं व्याप्तम्। विकासं प्राप्तया अतिशुभ्रया मल्लिकया व्याप्तमित्यर्थ:। तत् वण्र्यविषयत्वेनोपक्रान्तमुपवनमुद्यानमवाप्य अथ च तत्र क्वापि तं ब्रह्मवित्प्रतीकभूतमलिं स्वकरणगतदोषात् स्वेन्द्रियनिष्ठदोषात् अपश्यन् तद्दिदृक्षानपेक्ष: तस्य अले: दिदृक्षया द्रष्टुमिच्छया अनपेक्ष: अपेक्षारहित: क्षुभितमनसिज: क्षुभित: सुन्दरोपवनदर्शनेन आन्दोलितो मनसिज: कामो यस्य स तादृशोऽयं विलासी दिक्षु दिशासु चक्षु: अक्षि व्यक्षिपत् विस्तारयामास।
अनुवाद - वह विलासी विकास से श्वेतिमा की सीमा का अतिक्रमण करने वाली मल्लिका से व्याप्त उस उपवन में पहुँच वह विलासी अपने इन्द्रियगत दोष से उस भ्रमर को कहीं नहीं देख पाया। अत: उसकी दिदृक्षा से रहित कामपीडि़त उस विलासी ने दिशाओं में अपनी आँख को फैलाया।
।। १४।।
निशमितमितदूताऽव्यक्तसन्देशमात्र-
त्वरितविरहतान्तस्वान्तकान्ताभियाते।
मदनमदनवीनारम्भहीनाभिमाना-
ऽभिसरणपरदीनालापिमीनाक्ष्युपेते।।
अन्वय: - निशमितमितदूताव्यक्तसन्देशमात्रत्वरितविरहतान्तस्वान्तकान्ताभियाते मदनमदनवीनारम्भहीनाभिमानाऽभिसरणपरदीनालापिमीनाक्ष्युपेते इह वने स विलासी विहारं कर्तुम् ऐच्छत्।
गङ्गा - निशमितेति- निशमितमितदूताव्यक्तसन्देशमात्रत्वरितविरहतान्तस्वान्त-कान्ताभियाते, निशमितेन श्रुतेन मितदूताव्यक्तसन्देशमात्रेण मर्यादासहितस्य दूतस्य अस्पष्टसन्देशमात्रेण त्वरितं शीघ्रं विरहेण तान्तं व्याप्तं स्वान्तमन्त:करणं यासां तादृशीभि: कान्ताभि: प्रियतमाभि: अभियाते सम्प्राप्ते। दूतमुखाद् अस्पष्टमपि सन्देशं श्रुत्वा शीघ्रमेव व्याप्तविरहहृदया: कान्ता यत्र प्राप्तास्तादृशेऽस्मिन् वने। पुनश्च कीदृशे वने? मदनमदनवीनारम्भहीनाभिमानाऽभिसरणपरदी-नालापिमीनाक्ष्युपेते, मदनमदेन कामाकुलतया नवीन: नव: आरम्भ: यासां ता: मदनमदनवीनारम्भा:, अत एव हीन: अभिमान: मानो यासां ता: हीनाभिमाना:, अत एव अभिसरणपरा: प्रियमभिसर्तुं स्वयमेवोद्यता: दीनाभिलापिन्यश्च पूर्वमानवशात् तिरस्कृतान् प्रियान् अनुनेतुं दीनं करुणमपलपितुं प्रार्थयितुं शीलं यासां ता:, एतादृश्यो या मीनाक्ष्यस्ताभिरुपेते युक्ते वनेऽस्मिन् विलासी विहारं कर्तुमैच्छदिति परेणान्वय:। विहारं भ्रमणं बौद्धमठं वा कर्तुमिष्टवानित्यप्यर्थ:।
अनुवाद - दूत के अस्पष्ट सन्देशमात्र से शीघ्र ही जिनका हृदय व्याप्त हो गया था, ऐसी कान्ताएं जहाँ आ गयी थीं तथा कामदेव के मद के कारण नवीन आरम्भ वाली, अभिमान से हीन, प्रिय के अभिरण के लिए स्वयं उद्यत, प्रियतमों को प्रसन्न करने के लिए स्वयं अनुनय कर रहीं मीननयना कान्ताएं जहाँ पहुँच गयी थीं। उस इस वन में विलासी ने विहार (भ्रमण या बौद्धमठ) करना चाहा।
।। १५।।
चलितललितदोलारूढलोलालकान्ता-
कुलनयनमहेलारब्धहेलाकलापे।
जवनपवनवेगोद्धूतवासोजिघृक्षा-
स्खलितयुवतिवीक्षाव्यग्रकामार्तलोके।।
अन्वय: - चलितललितदोलारूढलोलालकान्ताकुलनयनमहेलारब्धहेलाकलापे जवनपवनवेगोद्धूतवासोजिघृक्षास्खलितयुवतिवीक्षाव्यग्रकामार्तलोके (इह वने स विलासी विहारं कर्तुमैच्छत्)।
गङ्गा - पुनस्तद्वनस्योन्मादकतां वर्णयति- चलितेति- चलितललितदोलारूढलोलालकान्ताकुलनयनमहेलारब्धहेलाकलापे, चलितललितदोलारूढाभि: चंचलसुन्दरहिन्दोलगताभि: लोलालकान्ताकुलनयनाभि: चलितकेशै: आकुलनेत्राभि: महेलाभि: स्त्रीभि:। 'महस्योत्सवस्य इला भूमि: महेलाÓ इति रामाश्रमी। आरब्ध: हेलानां क्रीडानां कलाप: समूह: यस्मिन् तस्मिन्। जवनपवनवेगोद्धूतवासोजिघृक्षास्खलितयुवतिवीक्षाव्यग्रकामार्तलोके, जवनस्य वेगशालिन: पवनस्य वेगेन उद्धूतानि इतस्ततो विस्तीर्णानि यानि वासांसि वस्त्राणि तेषां जिघृक्षया ग्रहणेच्छया स्खलिता या युवतयस्तासां वीक्षया दर्शनेन व्यग्र: कामार्तानां कामपीडितानां लोक: समूह: यस्मिन् तादृशेऽस्मिन् वने विलासी विहारं भ्रमणं कर्तुमैच्छत्। विहारं भ्रमणं बौद्धमठं वा निर्मातुं व्यचारयत्।
अनुवाद - चंचल सुन्दर हिन्दोल में आरूढ तथा चंचल केशों के कारण व्याकुल हुए नयनों वाली, स्त्रियों के द्वारा जहाँ क्रीडासमूह प्रारम्भ किये गये थे, वेगशाली पवन के वेग से इधर उधर उड़ रहे वस्त्रों को सम्हालने की इच्छा से स्खलित हुई युवतियों को देखने से व्यग्र कामियों का समूह जहाँ विद्यमान था, ऐसे उस वन में विलासी ने विहार (भ्रमण या बौद्धमठ) करना चाहा।
।। १६।।
बहुकुसुमचिचीषाव्याजदूरीकृताली-
निचयचतुररामाऽक्रान्तसङ्केतकुञ्जे।
सुभगतरुणचेतश्चञ्चरीकारविन्दे
वन इह स विलासी कर्तुमैच्छद् विहारम्।।
अन्वय: - बहुकुसुमचिकीषाव्याजदूरीकृतालीनिचयचतुररामाक्रान्तसङ्केतकुञ्जे सुभगतरुणचेतश्चञ्चरीकारविन्दे इह वने विलासी विहारं कर्तुम् ऐच्छत्।
गङ्गा - बहुकुसुमेति- बहुकुसुमचिचीषाव्याजदूरीकृतालीनिचयचतुररामाक्रान्त-सङ्केतकुञ्जे, बहुकुसुमचिचीषाया: पुष्कलप्रसूनचयनसमीहाया मिषेण दूरीकृता: सखीसमूहा याभिस्तादृशचतुररामाभि: आक्रान्ता: सङ्केतकुञ्जा: यस्मिन् तादृशे वने। पुन: कीदृशे? सुभगतरुणचेतश्चञ्चरीकारविन्दे, सुभगा: सुन्दरा ये तरुणा युवानस्तेषां चेतांसि मनांसि इव चञ्चरीका येषु तानि सुभगतरुणचेतश्चञ्चरीकाणि, एतादृशानि अरविन्दानि कमलानि यस्मिन् तस्मिन् वने विलासी विहारं क्रीडां बौद्धमठं वा कर्तुम् ऐच्छत् अवाञ्छत्।
अनुवाद - मुझे अत्यधिक फूल तोडऩे की इच्छा के बहाने सखियों के समूह को जिन्होंने दूर कर दिया है ऐसी चतुर ललनाओं से जिसके संकेत कुंज भरे हुए थे तथा सुन्दर तरुणों के मन के समान चंचल भ्रमरों और कमलों से जो परिपूर्ण था ऐसे इस वन में विलासी ने विहार (या बौद्धमठ) करना चाहा।
(कामिनां रम्यविषयेष्वादर:)
।। १७।।
अनुपदमविशङ्कं निष्प्रयासं च लभ्या:
कथमिव रमणीया इन्द्रियार्था मयेति।
चपलमतिरुपायं चिन्तयन् सोऽनपायं
तदुचितमथ वेषं बौद्धभिक्षोर्बभार।।
अन्वय: - अथ चलमति: स: 'रमणीया: इन्द्रियार्था: अनुपदम् अविशङ्कं निष्प्रयासं च मया कथम् इव लभ्या:Ó इति अनपायं उपायं चिन्तयन् तदुचितं बौद्धभिक्षो: वेषं बभार।
गङ्गा - अनुपदमिति- अथ अनन्तरं चलमति: स: चञ्चलमति: स विलासी इन्द्रियार्था: इन्द्रियाणां कामादयो भोग्यपदार्था: अनुपदं शीघ्रम् अविशङ्कं निष्प्रयासं च यथा स्यात्तथा मया विलासिना कथं लभ्या: प्राप्या इति अनपायं विघ्नरहितम् उपायं साधनं चिन्तयन् विचारयन् तदुचितम् इन्द्रियार्थप्राप्त्युचितं बौद्धभिक्षो: बुद्धमतानुयायिसंन्यासिनो वेषं बभार धारयामास।
अनुवाद - तदनन्तर उस चंचलमति विलासी ने सोचा कि मुझे सुन्दर इन्द्रियभोग्यपदार्थ शीघ्र, निर्विशंक, और बिना किसी प्रयास के कैसे मिल सकते हैं? इस विघ्नरहित उपाय को सोचते हुए उसने उसके योग्य बौद्धभिक्षु का वेष धारण किया।
।। १८।।
हृदि नियतममान्तं रागमासज्य चीरे
वशयितुमृजुबुद्धीन् मुण्डयित्वा शिर: स्वम्।
दधदजिनमजीनं कुण्डिकामण्डिहस्तो
मुकुलितनयनोऽयं ध्यानमप्यभ्यनैषीत्।।
अन्वय: - हृदि नियतम् अमान्तं रागं चीरे आसज्य अयं ऋजुबुद्धीन् वशयितुं स्वं शिर: मुण्डयित्वा अजीनम् अजिनं दधत् कुण्डिकामण्डिहस्त: मुकुलितनयन: (अयं) ध्यानम् अपि अभ्यनैषीत्।
गङ्गा - हृदि नियतमिति- हृदि हृदये नियतं निष्ठम् अमान्तम् अपरिमितं रागमनुरागं चीरे पटखण्डे आसज्य व्याप्तीकृत्य ऋजुबुद्धीन् कोमलमतीन्, लोकानिति यावत्। वशयितुं वशीकर्तुं स्वं शिर: मुण्डयित्वा अजीनं नवीनम् अजिनं चर्मकृत्ति:। 'अजिनं चर्मकृत्ति: स्त्रीÓ इत्यमर:। दधत् धारयत्। कुण्डिकामण्डिहस्त: पात्रविशेषशोभितहस्त: मुकुलितनयन: दरमीलच्चक्षु: सन् ध्यानं ध्यानयोगमपि अभ्यनैषीत् अभिनीतवान्। अस्य ध्यानशिरोमुण्डनादिकं न वास्तविकमपितु भोगप्राप्तयेऽभिनयमात्रमिति भाव:।
अनुवाद - उसने हृदय में निहित अपरिमिति राग को अपने चीर में रंग लिया। इसने सीधे साधे लोगों को ठगने के लिए अपना शिर मुड़ा कर नया अजिन (मृगचर्म) भी धारण कर लिया। कुण्डिका (पात्रविशेष) से सुशोभित हाथों वाले बौद्धभिक्षु का रूप धारण करने वाले विलासी ने मुकुलित आँखों से ध्यान करने का अभिनय भी किया।
(शठधियां दम्भेनापि कामार्जनम्)
।। १९।।
जयति यतिरसावित्याप्तविश्रम्भभक्ते-
र्जडमनुजसमाजादर्जयन् भोजनीयम्।
स वसु दुरुपदेशै: सञ्चितं वञ्चितेभ्यो
दृढदृषदि विहारे न्यक्षिपच्छद्मभिक्षु:।।
अन्वय: - असौ यति: आप्तविश्रम्भभक्ते: जयति इति जडमनुजसमाजात् भोजनीयम् अर्जयन् स छद्मभिक्षु: दुरुपदेशै: वञ्चितेभ्य: सञ्चितं वसु दृढदृषदि विहारे न्यक्षिपत्।
गङ्गा - जयतीति- असौ यति: बौद्धभिक्षु: आप्तविश्रम्भक्ते: प्राप्तविश्रब्धभक्तेर्योगात् जयति सर्वोत्कर्षशाली विद्यत इति रूपेण जडमनुजसमाजात् जडा मूर्खास्तत्स्वरूपविवेकेऽसमर्थास्तेषां समाजात् भोजनीयं स्वादुभोज्यपदार्थम् अर्जयन् एकत्रीकुर्वन् स: छद्मभिक्षु: दुरुपदेशै: कुत्सितोपदेशै: वञ्चितेभ्य: मनुष्येभ्य: सञ्चितं राशीकृतं वसुधनं दृढदृषदि अचलप्रस्तरे विहारे बौद्धमठे न्यक्षिपत् अरक्षत्।
अनुवाद - 'यह बौद्धयति अपनी प्राप्तभक्ति के कारण सर्वोत्कर्षशाली हैÓ, इस प्रकार के दुष्प्रचार से मूर्ख लोगों के समाज से उसने भोजन अर्जित किया। उस छद्मभिक्षु ने अपने दुरुपदेशों से वंचित हुए लोगों का धन ठग कर उसे दृढ़शिलाओं वाले बौद्धमठों में छिपा दिया।
।। २०।।
अधिगतबहुभिक्षाचीररक्षामिषात्ता
रचितवितथदीक्षा: साधु भुञ्जन् भुजिष्या:।
व्रतमिदमिति सर्वान्नीनतां स प्रशंसन्
चिरमरमत नारीसङ्घसङ्घट्टहृष्ट:।।
अन्वय: - अधिगतबहुभिक्षाचीररक्षामिषात्ता रचितवितथदीक्षा: भुजिष्या: साधु भुञ्जन् 'इदं व्रतम्Ó इति सर्वान्नीनतां प्रशंसन् स: नारीसङ्घसङ्घट्टहृष्ट: (सन्) चिरम् अरमत।
गङ्गा - अधिगतेति- अधिगतबहुभिक्षाचीररक्षामिषात्ता, अधिगतानि यानि बहुभिक्षाचीराणि भोज्यपदार्था: वस्त्राणि च तेषां रक्षामिषात् संरक्षणव्याजेन आत्ता: प्राप्ता: भुजिष्या: दास्य:। ता: साधु सम्यक् प्रकारेण भुञ्जन् 'इदं व्रतम्Ó इत्येवं प्रकारेण सर्वान्नीनतां सर्वान्नभोजित्वं प्रशंसन् स: छद्मभिक्षु: कपटयति: नारीसङ्घसङ्घट्टहृष्ट: स्त्रीसमूहै: मिलनेन हृष्ट: सन् चिरं चिरकालं यावत् अरमत् रमणमकरोत्।
अनुवाद - प्राप्त हुई अत्यधिक भिक्षा और चीरों की रक्षा के व्याज से प्राप्त दासियों का उसने भलीभाँति भोग किया। 'यह व्रत हैÓ यह कहते हुए उसने सर्वान्नभोजिता की प्रशंसा की तथा नारीसमूहों के मिलन से प्रसन्न होकर उसने चिरकाल तक रमण किया।
।। २१।।
स्मरपरवशमेनं विस्मृतस्वोपदेशं
कपटयतिमकस्माद् वीक्ष्य विस्मेरचेता:।
अलिरथ पथि तथ्ये स्थापयिष्यन् दयालु
: स्मरसि रसिक! कच्चिन्मद्वचांसीÓ त्यपृच्छत्।।
अन्वय: - अकस्मात् पथि स्मरवशम् एनं विस्मृतस्वोपदेशं कपटयतिं वीक्ष्य विस्मेरचेता: दयालु: अलि: तथ्ये स्थापयिष्य 'हे रसिक! कच्चित् मद्वचांसि स्मरसिÓ इति अपृच्छत्।
गङ्गा - स्मरपरवशमिति- अकस्मात् सहसा पथि मार्गे कपटयतिं स्मरपरवशं कामपीडितम् एनं वर्णनोपकान्तं विस्मृतस्वोपदेशं विस्मृत: स्वोपदेश: उपासनामार्ग: येन तं, छद्मभिक्षुं तं विलासिनं वीक्ष्य विस्मेरचेता: आश्चर्यचित्तो दयालु: अलि: तं विलासिनं तथ्ये वास्तविके स्वोपदिष्टमार्गे स्थापयन् 'हे रसिक! विलासिन् कच्चित् मद्वचांसि पूर्वप्रसङ्गे कथितानि आत्मस्वरूपप्रतिपादकवचनानि स्मरसिÓ इत्यपृच्छत्, प्रश्नमकरोत्।
अनुवाद - अकस्मात् मार्ग में कामपीडि़त, जिसने अपने उपासना मार्ग को भुला दिया था, ऐसे उस कपट संन्यासी को देखकर अलि चकित हो गया। उस दयालु ने उसे वास्तविक तथ्य में स्थापित करते हुए पूछा- हे रसिक! क्या तुम्हें मेरे वचन याद हैं?
(विज्ञानवादोत्थिति:)
।। २२।।
चकितमविचिकित्सं प्रत्यभिज्ञाय सोऽलिं
हृदि समुदितलज्जोऽप्याश्रयन् धृष्टभावम्।
स्वमतमतनुयुक्त्याभासविन्याससारं
बुधविहतविचारं सत्वरं प्रत्युवाच।।
अन्वय: - स: चकितम् अविचिकित्सं (च) अलिं प्रत्यभिज्ञाय समुदितलज्ज: अपि धृष्टभावम् आश्रयन् सत्वरं बुधविहतविचारम् अतनुयुक्त्याभासविन्याससारं स्वमतं प्रत्युवाच।
गङ्गा - चकितमिति- स: छद्मयतिरूपो विलासी चकितं तत्स्वरूपदर्शनेन आश्चर्यान्वितम् अविचिकित्सं नि:सन्दिग्धं च अलिं प्रत्यभिज्ञाय परिचीय समुदितलज्ज: लज्जामनुभवन्नपि धृष्टभावमाश्रयन् सत्वरं शीघ्रं बुधविहतविचारं बुधै: विहता विचारा यस्य तादृशम् अतनुयुक्त्याभासविन्याससारं विशदया युक्त्या आभासते विन्यासस्य सिद्धान्तस्य सारो यस्मिन्। विशदतथ्यबोधितनिष्कर्षं स्वमतं स्वसिद्धान्तं प्रत्युवाच प्रतिकथयाञ्चकार।
अनुवाद - उस विलासी ने चकित किन्तु सन्देहरहित उस भ्रमर को पहचान लिया। उसे देखकर लज्जित भी हो गया किन्तु धृष्टभाव का आश्रय लेकर शीघ्र ही वह विद्वानों के द्वारा विनष्ट किये गये विचारों से युक्त विशदयुक्ति से सिद्धान्तों के साररूप में अपने मत का कथन करने लगा।
।।२३।।
भ्रमरहितमिदं नो वेद्मि सर्वं त्वदुक्तं
भवतु दरुपपाद: कायचैतन्यवाद:।
विमतिरपि ममेष्टा नानुमाने प्रमाणे
श्रुतिचितिसुखजीवेशांस्तु नित्यान् न मन्ये।।
अन्वय: - इदं सर्वं त्वदुक्तं भ्रमरहितं नो वेद्मि। कायचैतन्यवाद: दुरुपपाद: भवतु। अनुमाने प्रमाणे मम विमति: अपि न इष्टा (किन्तु) श्रुतिचितिसुखजीवेशान् नित्यान् न मन्ये।
गङ्गा - भ्रमरहितमिति- इदं सर्वं त्वदुक्तं भ्रमरहितं भ्रान्तिशून्यं नो वेद्मि न जाने। अथवा भ्रमर! इति सम्बोधनपदम्। हे भ्रमर! त्वदुक्तमिदं सर्वं हितमनुकूलं नो वेद्मीति योजना। कायचैतन्यवाद:, पूर्वं चार्वाकेणोत्थापित: देहात्मवाद: नूनं दुरुपपाद: दु:खेनोपपादनयोग्यो भवतु। तत्र न मे बौद्धस्य कापि विप्रतिपत्ति:। त्वदुक्तेऽनुमाने प्रमाणेऽपि मम विमति: अपि न इष्टा। अहमप्यनुमानं स्वीकरोम्येवेत्यर्थ:। किन्तु श्रुतिचितिसुखजीवेशान् श्रुति: वेदश्च चितिसुखमात्मसुखं च जीव आत्मा च ईश: परमेश्वरश्च तान् वेदात्मसुखजीवात्मपरमेश्वरान् नित्यान् न मन्ये। मम मते केषामपि तत्त्वानां नित्यत्वं न घटत इत्यर्थ:। वस्तुतस्तु बौद्धमते सर्वमिदं जगद् विज्ञानरूपमसदेव। अतो नैतन्नित्यत्वम्। तथोक्तं शान्तिरक्षितेन- तेषामल्पापराधस्तु विज्ञाननित्यतयोक्तित:।
अनुवाद - तुम्हारे द्वारा कहा गया सब कुछ भ्रमरहित नहीं है (अथवा हे भ्रमर! तुम्हारे द्वारा कहा गया सब कुछ अनुकूल नही है) शरीरमात्र में चेतना भले ही संभव न हो, मुझे कोई आपत्ति नहीं है। अनुमान प्रमाण में भी मेरी कोई विमति नहीं है परन्तु मैं वेद, चितिसुख, जीव और परमेश्वर को नित्य नहीं मानता।
।। २४।।
न खलु विषयसत्तासिद्धिरन्यत्र वित्ते-
रनुमिनु ननु तस्माद् वेद्यवित्त्योरभेदम्।
तव मम च मते किं द्रव्यसंवित्त्यभिन्नाऽ-
नुभवविषयकुम्भे द्रव्यभेद: प्रसिद्ध:।।
अन्वय: - वित्ते: अन्यत्र विषयसत्तासिद्धि: न खलु। ननु तस्मात् वेद्यवित्यो: अभेदम् अनुमिनु। तव मम च मते द्रव्यसंवित्त्यभिन्नानुभवविषयकुम्भे किं द्रव्यभेद: प्रसिद्ध:?
गङ्गा - स्वमतं स्थापयन्नाह विज्ञानवादी विलासी- न खल्विति- वित्ते: विज्ञप्ते: ज्ञानाद्वा अन्यत्र विषयसत्तासिद्धि: विषयस्य घटादिपदार्थस्य सत्तासिद्धि: अस्तित्वं न खलु। भवतीति शेष:। विज्ञानवादिबौद्धमते पदार्थानां विज्ञप्तावेव सिद्धि: न तु तस्य बाह्यसत्ता भवति। तन्मते सर्वमिदं वित्तिमात्रम्। सदर्थावभासस्तैर्विज्ञप्तिरूपेणैव स्वीक्रियते। तथा च सिद्धान्तितं दिङ्नागेन- 'यदन्तज्र्ञेयरूपं बहिर्वत्तदवभासतेÓ। ननु तस्मात् वेद्यवित्यो: अभेदम् अनुमिनु। बौद्धनये नीलतद्धियो: सहोपलम्भनियमादभेद:। अनयो: वेद्यवित्त्यो: अभेदज्ञानमनुमानेन भवति। वस्तुतस्तु विज्ञानवादे बाह्यवस्तु विज्ञप्तिमात्रं किन्तु अद्वैतनये ज्ञातज्ञेययो: न तथात्वमिति विशेष:। अत एव वक्ति तव अद्वैतानुयायिनोऽलेर्मम बौद्धमतानुयायिनो विलासिनश्च मते द्रव्यसंवित्त्यभिन्नानुभवविषयकुम्भे द्रव्यभेद: प्रसिद्ध: किम्? द्रव्यसंवित्ते: घटादिज्ञानात् अभिन्नस्य अनुभवस्य विषयभूतो य: कुम्भस्तस्मिन् द्रव्यभेद: ज्ञानालिखितघटरूपद्रव्यभेद: प्रसिद्ध: किम्? नेत्यर्थ:।
अनुवाद - ज्ञान के अतिरिक्त अन्यत्र कहीं भी विषय की सिद्धि नहीं होती। इसलिए ज्ञेय और ज्ञान में अभेद होता है। तुम्हारे (वेदान्ती) और मेरे (बौद्ध के) मत में द्रव्य के ज्ञान से अभिन्न अनुभव के विषयभूत घट में द्रव्य (घट आदि) का भेद प्रसिद्ध है क्या?
टिप्पणी - विज्ञानवादी बौद्धों के मत में वस्तु की बाह्यसत्ता नहीं होती। विज्ञप्ति या ज्ञानमात्र में ही उन्हें वस्तु की सत्ता स्वीकार्य है जबकि अद्वैत वेदान्त में ज्ञान और ज्ञेय काल्पनिक नहीं हैं। उन्हें वस्तु की बाह्य सत्ता भी स्वीकार्य है। ज्ञान के विषय घट आदि में ज्ञानातिरिक्त घटरूप द्रव्य का भेद दोनो को ही स्वीकार नहीं है। आशय यह कि ज्ञान में उस ज्ञान का विषयभूत घट ही भासित होता है तद्भिन्न घट उस ज्ञान का विषय नहीं बनता।
।। २५।।
मितिरुभयविधाऽसावक्षजा वाऽनुमा वा
सममुदयविनाशौ विन्दतीत्यस्थिरा सा।
कथमिव तदभिन्ने वस्तुनि स्यात् स्थिरत्वं?
क्षणिकमिह वदामस्तेन सर्वं पदार्थम्।।
अन्वय: - असौ अक्षजा वा अनुमा वा उभयविधामिति: समम् उदयविनाशौ विन्दति इति सा अस्थिरा। तद्भिन्ने वस्तुनि कथम् इव स्थिरत्वं स्यात्। तेन इह सर्वं पदार्थं क्षणिकं वदाम:।
गङ्गा - मितिरुभयेति- असौ अक्षजा इन्द्रियजन्या वा। प्रत्यक्षमिति यावत्। प्रत्यक्षमितिर्भवतु अनुमा अनुमितिर्वा। समं समानमेव उदयविनाशौ उत्पत्तिविनाशौ विन्दति, इति सा अस्थिरा। यथा क्षणिकत्वात् प्रत्यक्षप्रमाऽस्थिरा तथैवाऽनुमाऽपीत्यर्थ:। अत एव उभयोरप्यस्थिरत्वम्। तर्हि तदभिन्ने वस्तुनि ज्ञानाभिन्ने विज्ञप्तिमात्ररूपे वस्तुनि कथमिव स्थिरत्वं स्यात्। तेन इह बौद्धनयेऽस्मिन् विज्ञानवादे सर्वं पदार्थं क्षणिकं वदाम:। 'यत्सत्तत् क्षणिकं यथा जलधरपटल: सन्तश्च भावा अमीÓ इत्यादिन्यायात् सर्वमस्थिरमिति भाव:।
अनुवाद - चाहे प्रत्यक्ष हो या अनुमान, दोनो ही प्रकार की प्रमा एक समान उत्पन्न और विनष्ट होती हैं। इस प्रकार प्रत्यक्ष और अनुमान दोनो ही अस्थिर हैं। तब प्रत्यक्ष या अनुमान जैसे क्षणिक ज्ञान में भासित होने वाली वस्तु स्थिर कैसे हो सकती है। इसलिए हम प्रत्येक पदार्थ को क्षणिक कहते हैं।
टिप्पणी - विज्ञानवादी बौद्ध विज्ञप्ति या ज्ञान में ही वस्तु की सत्ता मानते हैं। ज्ञान चाहे प्रत्यक्ष हो या अनुमान, सभी अस्थिर होते हैं। अत: उस ज्ञान से अभिन्न घट आदि वस्तु कैसे स्थिर हो सकती है?
।। २६।।
जलधरपटले चेद् दृष्टनष्टस्वरूपे
व्यभिचरति न सत्तैकक्षणोत्पादनाशौ।
गमयति गतबाधं सा समस्ते प्रपञ्चे
क्षणिकमिदमितीदृक् बौद्धसिद्धान्तघोष:।।
अन्वय: - चेत् दृष्टनष्टस्वरूपे जलधरपटले सत्ता न व्यभिचरति (तदा) सा समस्ते प्रपञ्चे एकक्षणोत्पादनाशौ गतबाधं गमयति। ईदृक् इदं क्षणिकम् इति बौद्धसिद्धान्तघोष:।
गङ्गा - सत्तावादिनो मतं निराकर्तुमुपक्रमते- जलधरपटल इति- यदि चेत् दृष्टनष्टस्वरूपे दृष्टमात्रमेव यस्य स्वरूपं विनष्टं भवति न तु स्थीयते तादृशे जलधरपटले मेघसमूहे सत्ता पदार्थास्तित्वं न व्यभिचरति, अस्तित्वस्य अभावो न भवति तस्य सत्ता भवतीत्यर्थ:। तदा सा सत्ता समस्ते प्रपञ्चे सांसारिकद्रव्यभेदे एकक्षणोत्पादनाशौ एकस्मिन्नेव क्षण उत्पत्तिविनाशौ गतबाधं निर्बाधं गमयति बोधयति। यथा जलधरपटल एकक्षणोत्पत्तिविनाशवान् विद्यते तथैव सर्वेऽप्यनुभूयमाना भावा इत्यर्थ:। न जलधरपटलमात्रस्य क्षणिकत्वमपितु सर्वेषां भावानामित्यर्थ:। ईदृक् एकक्षणोत्पत्तिविनाशमत् इदमस्मद्विज्ञानवादिनां क्षणिकमिति बौद्धसिद्धान्तघोष: डिण्डिमनादोऽस्ति। तर्कपुरस्सरं भावानां क्षणिकत्वसाधनोक्तिसंवलितत्वादितीदृशोऽस्माकं समुद्घोष:। तदेतत्सर्वं विस्तरेण प्रपञ्चितं सर्वदर्शनसङ्ग्रहे बौद्धदर्शनप्रकरणे- 'यत्सत्तत्क्षणिकं यथा जलधर:, सन्तश्च भावा अमीÓ। विस्तरस्तु विज्ञानवादिग्रन्थेषु द्रष्टव्य:।
अनुवाद - यदि कहें कि देखते ही नष्ट हो जाने वाले जलधर पटल में सत्ता का व्यभिचार नहीं होता, उसका अस्तित्व होता ही है तो मेघपटल की भाँति। यह सत्ता समस्त प्रपंचों में उसी क्षण उत्पत्ति और विनाशरूप क्षणिकता का निर्बाध रूप से बोध कराती है। ऐसा यह क्षणिकवाद बौद्धसिद्धान्त का घोष है।
टिप्पणी - विज्ञानवादी बौद्धों के अनुसार समस्त सत्तावान् क्षणिक हैं। जिस प्रकार सत्तावान् जलधरपटल क्षणिक है उसी प्रकार अन्य सांसारिक सत्तावान् पदार्थ भी क्षणिक हैं। सत्तावादी जलधरपटल की सत्ता स्वीकार करते हैं किन्तु क्षणवादी बौद्ध दृष्टनष्टस्वरूप उसी मेघपटल के दृष्टान्त से क्षणिकता की सिद्धि करते हैं। सत् जलधरपटल की क्षणिकता संसार के समस्त पदार्थों की क्षणिकता का दृष्टान्त है।
।। २७।।
विपणिविततरूप्यं भूषणादिक्रियायां
प्रभवति न हि तद्वच्छुक्तिरूप्यं समर्थम्।
अनुमतमत आद्ये सत्त्वमन्तेऽप्यसत्त्वं
तदिह भवति सत्ताऽर्थक्रियाकारितैव।।
अन्वय: - विपणिविततरूप्यं भूषणादिक्रियायां प्रभवति। तद्वत् शुक्तिरूप्यं नहि समर्थम्। अत: आद्ये सत्त्वम् अन्ते अपि असत्त्वम् अनुमतम्। तत् इह अर्थक्रियाकारिता एव सत्ता भवति।
गङ्गा - सत्तास्वरूपं निर्वक्ति- विपणीति- विपणिविततरूप्यं, विपणौ विततं प्रसृतं रूप्यं रजतं भूषणादिक्रियायां प्रभवति, समर्थो भवति। विपणिस्थरजतेन आभूषणादि निर्माणं भवतीत्यर्थ:। तद्वत् विपणिविततरजतवत् शुक्तिरूप्यं शुक्तौ प्रतीयमानं रजतं भूषणादिक्रियायां न प्रभवति। विपणौ रजतस्य वास्तविकी सत्ता शुक्तौ च भवति रजतस्य प्रातिभासिकी सत्ता। अत: आद्ये सत्त्वं वस्तुनोऽस्तित्वमन्तेऽपि असत्त्वमनुमतम्, पदार्थाभावोऽनुमत इत्यर्थ:। अपिश्चार्थक: तत् तस्मात् इह अर्थक्रियाकारिता प्रयोजनभूता या भूषणाद्यर्थक्रियाकारिता सैव सत्ता। कार्योत्पादनशक्तिमत्त्वमेव सत्त्वमित्यर्थ:। तेन समेषां पदार्थानां क्षणिकत्वमव्याहतम्। विपणिस्थरजतं भूषणादिक्रियायां प्रभवतीति भूषणरूपार्थक्रियाकारित्वात् तत्क्षणिकम्। तद्विनाशेनैव भूषणस्योत्पत्ते:। तथा चोक्तं सर्वदर्शनसङ्ग्रहे सत्ताशक्तिरिहार्थकर्मणि मिते: सिद्धेषु सिद्धा न सा। यत्सत् तत्क्षणिकं यथा जलधर:। अर्थक्रियाकारितैव सत्तेति प्रमाणसिद्धमेव।
अनुवाद - बाजार में प्राप्त चाँदी आभूषण आदि की क्रिया में समर्थ है किन्तु शुक्ति में प्रतीत होने वाली रजत से आभूषण का निर्माण नहीं हो सकता। अत: बाजार में प्राप्त रजत की सत्ता सिद्ध है किन्तु शुक्ति में रजत की विपणिस्थ शुक्ति के समान सत्ता नहीं मानी जाती। इस प्रकार प्रयोजनभूत जो निर्माण क्रिया उसको उत्पन्न करने का सामथ्र्य जिसमें हो वही सत्ता है।
टिप्पणी - बौद्धों के मत में समस्त पदार्थ क्षणिक हैं, अत: उनके सम्प्रदाय में सत्ता का लक्षण 'अर्थक्रियाकारिताÓ माना गया है। 'प्रयोजनभूता या क्रिया तत्कारित्वमेव सत्त्वम्Ó यह अर्थक्रियाकारित्वरूप 'सत्Ó का लक्षण है। उनका मानना है कि सत्ता वह है जो किसी कार्य को उत्पन्न करे। शुक्ति में प्रतीत होने वाली रजत शशविषाण की तरह कोई कार्य उत्पन्न नहीं कर सकती, अत: वह असत् है। किन्तु वास्तविक रजत आभूषण आदि क्रिया में समर्थ होने से सत् है।
बौद्धों ने सत्ता का यह लक्षण क्षणिकता की सिद्धि के लिए किया है। रजत में अर्थक्रियाकारिता है इसलिए वह आभूषण के रूप में परिणत हो जाएगी। इस तर्क के सहारे बौद्ध अपने क्षणिकवाद को पुष्ट करते हैं। उदाहरण के रूप में बीज का दृष्टान्त लेते हैं। मान लें कि बीज क्षणिक नहीं है, स्थायी है तो इसकी सत्ता होने के कारण क्षण-क्षण में यह नए नए कार्य उत्पन्न करता रहेगा। यदि बीज सभी क्षणों में समान ही रहे, अपरिवर्तित हो, तो सदा वह उसी प्रकार का कार्य उत्पन्न करेगा किन्तु वस्तुस्थिति इसके विपरीत है। घर में रखा बीज वह नहीं जो खेत में डाला गया है। दोनों के कार्य भिन्न भिन्न हैं। यदि यह तर्क किया जाय कि वस्तुत: बीज वही कार्य उत्पन्न नहीं करता किन्तु उसमें क्षमता है जो उचित उपादानों (जैसे- पृथ्वी, जल आदि) के संसर्ग से अभिव्यक्त हो जाती है। अत: बीज सदा वही है। यह तर्क असहाय है, क्योंकि ऐसी दशा में यह स्वीकार करते ही हैं कि पहले क्षण का बीज अंकुरण का कारण नहीं प्रत्युत विभिन्न उपादानों के संसर्ग से परिष्कृत बीज ही उसका कारण है। अत: बीज तो परिवर्तित हो गया। इसी प्रकार कोई भी वस्तु दो क्षण नहीं ठहरती। सभी वस्तुएँ क्षणिक हैं। इसकी सिद्धि के लिए सत्ता का एक विशिष्ट लक्षण (अर्थक्रियाकारित्व) करना पड़ता है।
।। २८।।
यदि गुणिगुणकर्मैकाश्रितां वक्षि सत्तां
प्रसभमभिनिवेशाद् गौतमौलूक्यवाक्षु।
अयि वद समवाये सा विशेषेऽस्ति नो वा?
मतविहतिरिहाद्येऽन्त्ये तयो: स्यादसत्त्वम्।।
अन्वय: - यदि गौतमौलूक्यवाक्षु प्रसभम् अभिनिवेशात् गुणिगुणकर्मैकाश्रितां सत्तां वक्षि। अयि! (तदा) सा समवाये विशेषे वा अस्ति नो वा (इति) वद। इह आद्ये मतविहति:, अन्त्ये (च) तयो: असत्त्वं स्यात्।
गङ्गा - यदि गुणीति- यदि गौतमौलूक्यवाक्षु न्यायवैशेषिकसूत्रकृतोर्वचनेषु प्रसभम् बलात् अभिनिवेशात् आग्रहात् गुणिगुणकर्मैकाश्रितां गुणिनि द्रव्ये गुणे रूपादौ कर्मणि उत्क्षेपणादौ त्रिष्वेव सत्तां वदसि। न्यायवैशेषिकयो: द्रव्यगुणकर्मस्वेव त्रिषु सत्ताङ्गीक्रियते सा च परा जाति:। तथा च तेषां सिद्धान्त: द्रव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते (मुक्तावल्याम्, १.८)। द्रव्यगुणकर्मसु वर्तमाना या सत्ता सा परा जातिरुच्यत इत्यर्थ:। अयि! अले! तदा सा सत्ता समवाये विशेषे वा अस्ति नो वा इति वद, कथय। इह आद्ये समवाये सत्तास्वीकारे ते मतविहति:, सिद्धान्तभङ्ग:। अन्त्ये विशेषे च सत्ताया: स्वीकारात् तयो: समवायविशेषयो: असत्त्वमभाव: स्यादिति दोष:। नैयायिका वैशेषिकाश्च समवाये समवायत्वरूपां सत्तां विशेषे च विशेषत्वरूपां सत्तां न स्वीकुर्वन्ति। समवायस्य एकत्वान्न तत्र सत्ता। विशेषस्तु नित्यद्रव्यवृत्ति:। अयं नित्येषु द्रव्येषु पृथ्वीजलतेज:पवनानां परमाणुषु आकाशकालदिगात्ममन:सु च भवति। अयमेव परमाणूनां परस्परभेदक:। अतो नाऽत्र सामान्यमिति न्यायवैशेषिकसिद्धान्त:। तदेव वक्ति- समवाये सत्तास्वीकारे मतविरोध:, विशेषे च सत्ताङ्गीकारे उभयो: समवायविशेषयो: असत्त्वं स्यात्। सामान्याभावादेव विशेषस्य स्वतो व्यावृतत्वरूपं वैशिष्ट्यम्।
विशेषेषु सामान्यस्य स्वीकारे विशेषस्वरूपस्यैव हानिरिति न्यायवैशेषिकनय:। विशेषे सत्ताया: स्वीकाराद् विशेषस्वरूपहानौ तत्र समवायोऽपि न भवेदिति तयोरसत्त्वम्। यदि विशेषे सत्ता स्वीक्रियते तर्हि तत्र सत्ता समवायसम्बन्धेन स्थास्यति। तेन विशेषस्वरूपस्य नाश:। सत्तासमवायाभावादेव तस्य विशेषत्वम्। सत्तायां सत्यां विशेषस्वरूपनाशे समवायस्य स्वयमेव नाशोऽयुतसिद्धत्वात्।
अनुवाद - यदि तुम गौतम और कणाद के वचनों में दृढ़ता पूर्वक विश्वास करते हो और द्रव्य, गुण तथा कर्म में ही सत्ता (जाति) स्वीकार करते हो, तब यह बताओ कि वह सत्ता समवाय और विशेष पदार्थों में है या नहीं। अगर समवाय में सत्ता स्वीकार करते हो तो तुम्हारा सिद्धान्तभंग होगा क्योंकि समवाय एक और नित्य है। एक वस्तु में सत्ता तुम्हें स्वीकार नहीं। यदि विशेष में सत्ता स्वीकार करते हो तो समवाय और विशेष दोनो ही विनष्ट हो जायेगे।
टिप्पणी - न्याय और वैशेषिक में सत्ता (सामान्य) केवल द्रव्य, गुण और कर्म में मानी गयी है। यह सत्ता नित्य और अनेकसमवेत होती है। द्रव्य आदि में अनेक समवेतत्व सिद्ध होता है। द्रव्य अदि में यह सत्ता समवाय सम्बन्ध से रहती है किन्तु समवाय में समवायत्व रूप सामान्य नहीं रहता। इसका कारण यह है कि एक तो समवाय एक है, अत: उसमें अनेकसमवेतत्व सिद्ध नहीं होगा। दूसरा समवायत्व अपने सम्बन्धी में रहेगा किस सम्बन्ध से। सामान्य तो अन्य पदार्थों में समवाय सम्बन्ध से ही रहता है। अत: नैयायिक आकाशत्व, समवायत्व, भूतत्व और मूर्तत्व आदि को सामान्य न मान कर उपाधि मानते हैं।
विशेष सामान्य रहित होने के कारण ही 'विशेषÓ कहलाता है। यह नित्यद्रव्य परमाणु का धर्म है। परमाणु में सामान्य धर्म होता नहीं। इसी तथ्य को ऊपर कहा गया है कि अगर समवाय में समवायत्व रूप सामान्य मान लिया गया तो आपके सिद्धान्त की हानि होगी और विशेष में सामान्य मान लेने से समवाय और विशेष दोनो नहीं रहेगे। विशेष में सत्ता मानने से वहाँ समवाय की व्याप्ति स्वयं हो जायेगी क्योंकि सामान्य समवाय सम्बन्ध से ही रहेगा। इससे विशेष नष्ट हो जायेगा और विशेष के नष्ट होते ही समवाय स्वयं नष्ट हो जायेगा क्योंकि वह अयुतसिद्ध होता है। अत: इन्हें जातिबाधक कहा गया है-
व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थिति:।
रूपहानिरसम्बन्धो जातिबाधकसङ्ग्रह:।।
व्यक्ति का अभेद, तुल्यता, संकर, अनवस्था, रूपहानि और असम्बन्ध जातिबाधक कहे गए हैं। इस प्रकार विज्ञानवादी बौद्ध के सिद्धान्त का आश्रय लेकर सत्ताविषयक उक्त प्रश्न विलासी ने उठाया है।
।। २९।।
यदि वदसि विशेषेष्वाश्रयैक्येन सत्तां
प्रसरति घटनिष्ठे तह्र्यभावेऽपि सा ते।
अलमिह समवायाभाव एतां न रोद्धुं
कथमिव समवाये सत्त्वमेवं सति स्यात्?।।
अन्वय: - यदि विशेषेषु आश्रयैक्येन सत्तां वदसि तर्हि सा ते घटनिष्ठे अभावे अपि प्रसरति। समवायाभाव: एतां रोद्धुं न अलम्। एवं सति समवाये सत्त्वं कथमिव स्यात्ï?।
गङ्गा - प्रकारान्तरेण पुन: नैयायिकाभिमतसत्तां निराकरोति- यदि वदसीति- यदि नाम त्वमलि: स्वसिद्धान्तरक्षार्थं विशेषे तु आश्रयैक्येन सामानाधिकरण्येन सत्तां वदसि तर्हि सा सत्ता ते तवाभिमते घटनिष्ठेऽभावेऽपि प्रसरति। यौ पदार्थौ एकस्मिन्नेव अधिकरणे तिष्ठतस्तयो: सामानाधिकरण्यं भवति। प्रकृते विशेषस्य अधिकरणम् आत्मा वर्तते तत्रैव सत्ताऽपि समवायसम्बन्धेन तिष्ठति। एवम् आत्मरूपस्य एकस्यैव अधिकरणस्य सत्त्वेन विशेषस्य सत्तायाश्च सामानाधिकरण्यसम्बन्ध:। एवं सत्ता सामान्याधिकरण्यसम्बन्धेन विशेषे तिष्ठतीति विशेषे सत्ताया: सिद्धि:। एवमेव यदा सामानाधिकरण्येन विशेषेषु सत्ता स्वीक्रियते तदा घटाभावेऽपि सत्ता स्वीकरणीया। यतो हि घट: अभावस्य सत्तायाश्च एकमेव अधिकरणमस्ति। घटे सत्तासमवायेन अभावश्च स्वरूपेण विद्यते। एवं घटाभावे सत्तासामान्याधिकरण्यं वर्तते। किन्तु नैयायिकै: अभावे समानाधिकरण्येन सत्ता न स्वीक्रियते। अतो विशेषेष्वपि सामानाधिकरण्येन सत्ता न भवितुमर्हतीति विलासिनोऽभिप्राय:। पूर्वश्लोके विशेषेषु समवायेन सत्ता निराकृताऽत्र तु सामानाधिकरण्येनेति विशेष:। घटे यद्धि सत्तासामानाधिकरण्यं तदेव तदभावेऽपि विद्यत एव। अतो घटाभावस्थले घटाभावो वक्तुं न शक्येत, एवमेव घटसत्तास्थले तत्सत्तापि न स्यात्। विशेषस्य नित्यद्रव्यवृत्तित्वात् तत्र नैषा विप्रतिपन्ति: किन्तु घटादिस्थले सैषा स्यादेवेति। तव समवायाभाव: एतां सत्तां रोद्धुं न अलम्। यतो हि अभाववत् समवाय इह घटाभावे समवायाभाव: समवायसम्बन्धस्य अभाव:, यतो हि अभाव: घटे स्वरूपसम्बन्धेन भवति। तेन घटेऽभावस्य समवायाभाव: सिद्ध:। यत्र समवायसम्बन्धो भवति तत्रैव सत्ता भवति। तस्माद् घटाभावे समवायाभाव: एतां सत्तां रोद्धुं निवारयितुमलमिति न वक्तुं शक्यते। एवं सति समवायाभावस्य सत्तानिरोधकत्वे सति घटे समवायस्यापि सत्त्वं विद्यमानत्वं कथमिव स्यात्। यतो हि घटेऽभाववत् समवायोऽपि स्वरूपसम्बन्धेनैव तिष्ठति। एवं यदि स्वरूपसम्बन्धेन घटे वर्तमाने समवाये सत्त्वं मन्यते तदा स्वरूपसम्बन्धेन घटे वर्तमानेऽभावेऽपि सत्ता मन्यताम्। एवं स्वीकृते तव सिद्धान्तभङ्ग:।
अनुवाद - अगर तुम विशेषों में सत्ता के सामानाधिकरण्य से सत्ता सिद्ध करते हो और यह मान लेते हो कि विशेष में सत्ता भले न हो किन्तु विशेष द्रव्यों में विशेष की सत्ता तो है ही, अत: विशेष और सत्ता का सामानाधिकरण्य उन परमाणु आदि विशेषों में बन ही जाता है। इस पर आपत्ति यह है कि घटाभाव स्थल में भी वैसा सामानाधिकरण्य प्राप्त होने लगेगा। अर्थात् घट में अभाव और सत्ता दोनो का सामानाधिकरण्य हो जाने से घटाभाव नहीं हो सकेगा। यदि कहो कि अभाव और सत्ता दोनो अलग अलग सम्बन्धों से वहाँ रहेगे तो घटाभावस्थल में अभाव के स्वरूप सम्बन्ध से रहने के कारण सत्ता उसका वारण कर देगी क्योंकि वह घट में समवाय सम्बन्ध से रहती है और अभाव स्वरूप सम्बन्ध से। वस्तुत: यहाँ तुम्हारा समवायाभाव उसे रोकने में समर्थ नहीं हो पायेगा क्योंकि समवाय स्वयं भी घट में स्वरूप सम्बन्ध से ही रहता है। अत: स्वरूपसम्बन्ध से युक्त घटनिष्ठ समवाय सम्बन्ध की सत्ता ही वहाँ नहीं बन सकेगी।
।। ३०।।
अथ तव समवायोऽसन् विशेषश्च कार्ये
प्रभवति गुणकर्मद्रव्यसत्ता किमर्था?।
सदसदपि च कार्यं चेद् विधत्ते त्रिसत्त्वे
वद विनिगमकं किं? वैपरीत्यं कुतो न।।
अन्वय: - अथ तव समवाय: विशेष: च असन् कार्ये प्रभवति (तर्हि) गुणकर्मद्रव्यसत्ताकिमर्था (अस्ति)। सदसदपि कार्यं विधत्ते चेत् त्रिसत्त्वे किं विनिगमकं (इति) वद? (अथ च तत्र) वैपरीत्यं कुत: न (अस्ति)?
गङ्गा - अथ तवेति- अथेति प्रश्नान्तरे। तव अले: समवाय: विशेष: च असन् सत्ता रहितो भूत्वा कार्ये प्रभवति, कार्यसम्पादनसमर्थो भवति तर्हि गुणकर्मद्रव्यसत्ता किमर्था अस्ति? गुणादिषु त्रिषु सत्ता किम्प्रयोजनेत्यर्थ:। तान्यपि त्रीणि सत्तारहितानि एव कार्यं सम्पादयन्तु नाम। यदि नाम सदसदपि, समवाय: विशेषश्च असत्। गुणादित्रयं च सत् कार्यं सम्पादयति इति वदसि तर्हि अत्र किं विनिगमकम्? एकतरपक्षपातिनी का ते युक्ति:? तत्रापि वैपरीत्यं कुतो नास्ति। गुणादित्रयमेव असद् भूत्वा समवाय: विशेषश्च सन् भूत्वा कार्यमुत्पादयन्त्विति कथं न भवति? अर्थात् गुणादित्रये सत्ताराहित्यं समवाये विशेषं च सत्ता कथं न भवतीति प्रश्न:? विनिगमकाभावान्न तवायं तर्क: स्वीकारयोग्य इति भाव:।
अनुवाद - अगर तुम्हारे समवाय और विशेष सत्तारहित होकर ही काम करते हैं तो फिर गुण, कर्म और द्रव्य में सत्ता क्यों मानते हो। यदि यह कहो कि समवाय और विशेष सत्तारहित होकर कार्य करते हैं तथा गुण आदि तीनों सत्तावान् हो कर कार्य करते हैं तो इसमें विनिगमक क्या है? इनमें वैपरीत्य क्यों नहीं है। अर्थात् गुण, कर्म और द्रव्य में सत्ता का अभाव क्यों न माना जाय। इसी प्रकार समवाय तथा विशेष में सत्ता क्यों न मान ली जाय?
।। ३१।।
यदिह चिरमतीतं वस्तु तन्न क्रियेता-
ऽघटितसकलहेतु स्यान्न भाव्यद्य सद्य:।
फ लजनिपटु वैलक्षण्यमेकक्षणे यत्
क्षणिकविषयसत्ताऽर्थक्रियाकारिता सा।।
अन्वय: - यत् इह चिरम् अतीतं वस्तु तत् न क्रियते। अघटितसकलहेतु अद्य सद्य: न भावि स्यात्। एक क्षणे यत् फलजनिपटु वैलक्षण्यम् (अस्ति) सा क्षणिकविषयसत्ता अर्थक्रियाकारिता (भवति)।
गङ्गा - यदिहेति- यद्वस्तु इह चिरमतीतं चिरकालादतीतं विनष्टं विद्यते तन्न क्रियेत। अतीतवस्तुन: कर्तुमशक्यत्वात्। अघटितसकलहेतु यस्य वस्तुन: हेतवोऽघटिता: अप्राप्ता: सन्ति तदपि अस्मिन् क्षणे सद्यो न भावि। यतो हि सामग्र्यभावे कार्योत्पत्तिर्न भवति। यत् एकक्षणे, वस्तुन: क्षणिकत्वात् यस्मिन् क्षणविशेषे फलजनिपटु फलोत्पादननिपुणं वैलक्षण्यं विलक्षणता भवति। सा एव क्षणिकविषयसत्ता अर्थक्रियाकारिता प्रयोजनभूता या क्रिया तस्या: कारित्वं भवति। विज्ञानवादिभि: अर्थक्रियाकारिता एव सत्ता स्वीकृता। सा अर्थक्रियाकारिता पदार्थानां क्षणिकत्वेनैव सम्भवति। पराभिमतेषु नित्यपदार्थेषु ईश्वरादिषु न अर्थक्रियाकारिता विद्यते। तथात्वे वर्तमानकार्योत्पादनकाले भूतभाविपदार्थानामुत्पत्तिप्रसङ्गात्। तदेतत्सर्वं पदार्थानां क्षणिकत्वसिद्धय उक्तम्।
अनुवाद - जो वस्तु चिरकाल से अतीत (भूत) है उसकी उत्पत्ति हो नहीं सकती। जिसके समस्त हेतु घटित ही नहीं हुए वह भावी वस्तु भी कैसे उत्पन्न हो सकती है। एक क्षण में ही फल को उत्पन्न करने की विलक्षणता रूप क्षणिकविषयसत्ता ही अर्थक्रियाकारिता कहलाती है। अर्थात् उसी सत्ता में कार्य को उत्पन्न करने का सामथ्र्य होता है।
।। ३२।।
क्षणमिममपहायाऽन्यत्र हेतुत्वमिच्छन्
पतति महति जाले नास्ति यस्माद् विमोक्ष:।
परसहकृतिशून्यं किञ्चिदेकं न शक्तं
सहकृतिरपि कार्याऽपेक्षते हेतुमन्यम्।।
अन्वय: - इमं क्षणम् अपहाय अन्यत्र हेतुत्वम् इच्छन् महति जाले पतति। यस्माद् विमोक्ष: नास्ति। परसहकृतिशून्यं किञ्चिदेकं शक्तं न (भवति)। कार्या सहकृति: अपि अन्यं हेतुम् अपेक्षते।
गङ्गा - क्षणमिममिति- इमं फलजनिपटुं मम विलासिनोऽभिमतं क्षणं क्षणवादं सिद्धान्तम् अपहाय परित्यज्य अन्यत्र क्षणातिरिक्ते अक्षणिकवस्तुनि हेतुत्वं कारणत्वमिच्छन् वाञ्छन् महति विशाले जाले अपसिद्धान्तरूपे पाशे पतति। यस्मात् पाशात् विमोक्ष: मुक्तिर्नास्ति। 'जालं गवाक्ष आनाये क्षारके जृम्भवृन्दयो:Ó इति मेदिनी। परसहकृतिशून्यं भिन्नपदार्थसहकाररहितं किञ्चिदेकं स्वकार्ये शक्तं समर्थं न भवति। तथा च न्याय: 'न ह्येकं किञ्चित् पर्याप्तं स्वकार्येÓ। कार्या सहकृति: अपि अन्यं हेतुमपेक्षते। क्षणस्यैव सर्वत्र हेतुत्वं निर्धारयन् नैयायिकाद्यभिमतकारणत्वे दोषमुत्पादयति। अन्यस्य कस्यचित् पदार्थस्य सहकारं विना न हि कोऽपि पदार्थो भवति कार्यजनने क्षम:। तत्र कार्या या सहकारिकारणरूपा सहकृति: साऽपि स्वस्य कृतेऽन्यं हेतुमपेक्षते। सहकृति: स्वेतरसहकृतिं सापि पुन: तद्भिन्नां सहकृतिमपेक्षते। तेनाऽनवस्थाप्रसङ्ग:। अतो न नित्यपदार्थेऽपितु क्षणिक एव कार्योत्पादनशक्ति:। तदेतत्सर्वं सर्वदर्शनसङ्ग्रहे बौद्धदर्शनप्रसङ्गे चर्चितमेव। तथा हि-
नन्वक्षणिकस्य अर्थक्रियाकारित्वं किं न स्यादिति चेत्- तदयुक्तम्। विकल्पासहत्वात्। तथा हि- वर्तमानार्थक्रियाकरणकालेऽतीतानागतयो: किम् अर्थक्रिययो: स्थायिन: सामथ्र्यमस्ति नो वा। आद्ये तयोरनिराकरणप्रसङ्ग:, समर्थस्य क्षेपायोगात्। यद्यदा यत्करणसमर्थं तत्तदा तत्करोत्येव यथा सामग्री स्वकार्यं समर्थश्चायं भाव इति प्रसङ्गानुमानाच्च।
द्वितीये कदापि न कुर्यात्। सामथ्र्यमात्रानुबन्धित्वादर्थक्रियाकारित्वस्य। यद्यदा यन्न करोति तत्तदा तत्राऽसमर्थं यथा हि शिलाशकलमङ्कुरे। न चैष वर्तमानार्थक्रियाकरणकाले वृत्तवर्तिष्यमाणे अर्थक्रिये करोतीति तद्विपर्ययाच्च।
ननु क्रमवत्सहकारिलाभात् स्थायिनोऽतीतानागतयो: क्रमेण करणमुपपद्यत इति चेत्- तत्रेदं भवान्पृष्टो व्याचष्टाम्। सहकारिण: किं भावस्योपकुर्वन्ति न वा? न चेन्नापेक्षणीयास्ते। अकिञ्चित्कुर्वतां तेषां तादथ्र्यायोगात्। अथ भावस्तै: सहकारिभि: सहैव कार्यं करोति इति स्वभाव इति चेत्- अङ्ग! तर्हि सहकारिणो न जह्यात्। प्रत्युत पलायमानापि गले पाशेन बद्ध्वा कृत्यं कुर्यात्। स्वभावस्यानपायात्।
उपकारकत्वपक्षे सोऽयमुपकार: किं भावाद्भिद्यते न वा। भेदपक्ष आगन्तुकस्येव तस्य कारणत्वं स्यात्। न भावस्याक्षणिकस्य। आगन्तुकातिशयान्वयव्यतिरेकानुविधायित्वात्कार्यस्य तदुक्तम्-
वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयो: फलम्।
चर्मोपमश्चेत्सोऽनित्य: खतुल्यश्चेदसत्फल:।। इति।
किं च, सहकारिजन्योऽतिशय: किमतिशयान्तरमारभते न वा? उभयथाऽपि प्रागुक्तदूषणपाषाणवर्षणप्रसङ्ग:। अतिशयान्तरारम्भपक्षे बहुमुखानवस्थादौ:स्थ्यमपि स्यात्। अतिशये जनयितव्ये सहकार्यन्तरापेक्षायां तत्परम्परापात इत्येकानवस्थाऽऽस्थेया।
तथा सहकारिभि: सलिलपवनादिभि: पदार्थसार्थैराधीयमाने बीजस्यातिशये बीजमुत्पादकमभ्युपेयम्। अपरथा तदभावेऽप्यतिशय: प्रादुर्भवेत्।
बीजं चातिशयमादधानं, सहकारिसापेक्षमेवाधत्ते। अन्यथा सर्वदोपकारापत्तौ अङ्कुरस्यापि सदोदय: प्रसज्येत् तस्मादतिशयार्थमपेक्ष्यमाणै: सहकारिभि: अतिशयान्तरमाधेयं बीजे। तस्मिन्नप्युपकारे पूर्वन्यायेन सहकारिसापेक्षस्य बीजस्य जनकत्वे सहकारिसम्पाद्यबीजगतातिशयानवस्था प्रथमा व्यवस्थिता।
अथोपकार: कार्यार्थमपेक्ष्यमाणोऽपि बीजादिनिरपेक्षं कार्यं जनयति तत्सापेक्षं वा। प्रथमे बीजादेरहेतुत्वमापतेत्। द्वितीयेऽपेक्ष्यमाणेन बीजादिनोपकारेऽतिशय आधेय:। एवं तत्र तत्रापीति बीजादिजन्यातिशयनिष्ठातिशयपरम्परापात इति द्वितीयानवस्था स्थिरा भवेत्।
एवमपेक्ष्यमाणेनोपकारेण बीजादौ धर्मिण्युपकारान्तरमाधेयम्- इत्युपकाराधेयबीजाश्रयातिशयपरम्परापात इति तृतीयानवस्था दुरवस्था स्यात्। अथ भावादभिन्नोऽतिशय: सहकारिभिराधीयत इत्यभ्युपगम्येत, तर्हि प्राचीनो भावोऽनतिशयात्मा निवृत्तोऽन्यश्चातिशयात्मा कुर्वदू्रपादिपदवेदनीयो जायत इति फलितं ममापि मनोरथदु्रमेण। तस्मात्क्रमेण अक्षणिकस्य अर्थक्रिया दुर्घटा।
अनुवाद - मुझ विलासी को कारण के रूप में क्षण ही अभिमत है। इस क्षण को छोड़कर अक्षणिक वस्तुओं की कारणता मानने से तू अलि (अपसिद्धान्तरूप) महान् जाल में पड़ेगा और उससे तेरा छूटना कठिन हो जायेगा। बिना दूसरे पदार्थ की सहकारिता के कोई भी पदार्थ फल उत्पन्न करने में समर्थ नहीं होता। वह सहकृति (सहकारी कारण) भी अपनी सहकृति के लिए किसी दूसरे कारण की अपेक्षा करती है। इस प्रकार सहकारिकारणों की इस परम्परा से अनवस्था उत्पन्न हो जाती है।
टिप्पणी - सहकारी कारणों की अपेक्षा से बौद्धों ने नैयायिकों के कार्यकारण सिद्धान्त में अनेक दोष दिखाये हैं। बौद्धों के अनुसार क्षणिकपदार्थ ही अर्थक्रियाकारी है। वही सत् है। जलादि सहकारीकारणों के द्वारा अतिशय के उत्पन्न होने पर भी यदि बीज आदि यथावत् स्थित रहते हैं तब तो इन सहकारियों का होना व्यर्थ है। यदि इस अतिशय से बीज दूसरी अवस्था (अंकुररूप) में पहुँच जाता है तब तो यह स्वयं सिद्ध है कि बीज की पूर्वावस्था क्षणिक थी। अत: हमारा क्षणिकवाद ही फलित होता है। अक्षणिक को तो सहकारिकारणों की सहायता पाकर भी तद्रूप ही रहना चाहिए। तभी अक्षणिकता की सिद्धि हो सकती है। किन्तु ऐसा नहीं होता। अत: क्षणिकता ही सब का कारण है। सहकारिकारणों की अपेक्षा से अनवस्थादोष स्पष्ट है।
।। ३३।।
इति महदनवस्थादौस्थ्यमुद्धर्तुकामै-
रतिशय इति कुर्वद्रूपतेति क्षणोऽयम्।
फ लजननसमर्थ: कल्प्यते बौद्धवृद्धै-
रुपगत इह नास्ति प्राच्यदोषावतार:।।
अन्वय: - इति महदनवस्थादौस्थ्यम् उद्धर्तुकामै: बौद्धवृद्धै: अतिशय इति कुर्वदू्रपता इति अयं फलजननसमर्थ: क्षण: कल्प्यते। इह उपगते प्राच्यदोषावतार: नास्ति।
गङ्गा - इति महदेति- इति पूर्वोक्तं परसहकृतिशून्यस्य फलाजननाऽसामथ्र्यस्य सहकृत्यपेक्षारूपं यत् महदनवस्थादौस्थ्यं महत्या अनवस्थया जायमाना दु:स्थिति:, सहकारिणा सहकार्यपेक्षारूपाऽनवस्था ताम् उद्धर्तुकामै: बौद्धवृद्धै: बौद्धविद्याविचक्षणै: अतिशय इति नाम्ना कुर्वदू्रपता इति नाम्ना वा अयं फलजननसमर्थ: क्षण: कल्प्यते। अत्र क्षणमात्रस्य कारणताकल्पनान्नेयमनवस्थेति भाव:। इह मम विलासिनो बौद्धप्रस्थाने क्षणस्य कारणताया उपगते स्वीकृतौ प्राच्यदोषावतार: पूर्वोक्तानवस्थादोषप्रसङ्गो नास्ति। अतिशयशब्देन बौद्धै: फलजननसमर्थ: कश्चिद्विशेषोऽभिधीयते। तथैव कुर्वद्रूपतेति पदेन यत्किञ्चित्कार्यजनकतावच्छेदकतया सिद्धो जातिविशेष उच्यते। कुर्वत्फलोन्मुखं रूपं यस्य तस्य भाव:। अतिशयश्चात्रोपकार इति ध्येयम्।
अनुवाद - इस प्रकार महान् अनवस्था की इस दु:स्थिति को दूर करने के लिये बौद्ध वृद्धों ने अतिशय तथा कुर्वदू्रपता नाम से फल के जनन में समर्थ इस क्षण की कल्पना की है। इसे मान लेने पर सहकारियों से होने वाली अनवस्था का प्रसङ्ग नहीं आता।
टिप्पणी - नैयायिक फलोत्पत्ति में तीन कारण मानते हैं- समवायि, असमवायि तथा निमित्त। बौद्धों के मत में सब कुछ क्षणिक होने से वह क्षण ही सब का कारण है। बौद्धों ने इस क्षण को 'अतिशयÓ या 'कुर्वद्रूपताÓ कहा है। यहाँ अतिशय शब्द से फलजनन में क्षण का उपकार कहा गया है। कुर्वद्रूपता कार्यजनकता का अवच्छेदक कोई विशेष है। इसी के कारण बीज से अंकुर की उत्पत्ति होती है।
।। ३४।।
अपि च भवदभीष्टा सर्वगा किं नु सत्ता
स्वविषयसकलस्था वेति चाऽऽलोच्यमाने।
प्रथममतमयुक्तं सर्वसत्त्वप्रसङ्गा-
च्चरममतनिरास: कार्य आत्माश्रयेण।।
अन्वय: - अपि च भवदभीष्टा सत्ता किं नु सर्वगा स्वविषयसकलस्था वा इति आलोच्यमाने च सर्वसत्त्वप्रसङ्गात् प्रथममतम् अयुक्तम्। आत्माश्रयेण चरममतनिरास: कार्य:।
गङ्गा - सम्प्रति नैयायिकवैशेषिकाभिमतसत्तां निराकरोति- अपि चेति- अपि चेति प्रश्नान्तरे।। भवदभीष्टा सत्ता सामान्यं जातिर्वा किन्नु सर्वगा सर्वपदार्थव्यापिनी अस्ति स्वविषयसकलस्था स्वविषयेषु सर्वेषु द्रव्यगुणकर्मादिषु स्थिता वा विद्यते? इति आलोच्यमाने समीक्ष्यमाणे च सर्वसत्त्वप्रसङ्गात्, सर्वगा सत्तेति पक्षे सर्वेषु समवायविशेषादिष्वपि तत्सत्त्वप्रसङ्गात् प्रथमं सर्वगेति मतम् अयुक्तम् अनुचितम्। आत्माश्रयेण च चरममतनिरास: कार्य:, आत्माश्रयेण स्वस्य स्वापेक्षापादक: प्रसङ्ग: आत्माश्रय:। यथा कार्यत्वावच्छिन्नकार्यतानिरूपितकारणत्वं साधारणकारणत्वमित्यादौ। अत्र एकं कार्यत्वमवच्छेदकम्। अपरं त्ववच्छेद्यम्। तथा चावच्छेदकज्ञानं विना अवच्छेद्यज्ञानं न भवति। अवच्छेद्यज्ञानं विनाऽपि अवच्छेदकज्ञानं च न भवति, परस्परसापेक्षत्वादित्यात्माश्रय:। अत्र स्वविषयसकलस्थत्वपक्षे द्रव्यगुणकर्मरूपाणां विषयाणां सिद्धि: सत्तासम्बन्धेन भवति। तथैव द्रव्यगुणकर्मरूपविषयाणां सिद्ध्यैव सत्ताया: सम्बन्ध: इत्येवमत्र परस्परसापेक्षत्वरूप आत्माश्रय:। न हि सत्तासम्बन्धं विना स्वविषयत्वसिद्धि:। एवमत्र आत्माश्रयो दोष:। स चायं पक्ष: सर्वदर्शनसङ्ग्रहे बौद्धदर्शनप्रसङ्गे चर्चित:। तदित्थम्-
किं च सामान्यं सर्वगतं स्वाश्रयगतं वा? प्रथमे सर्ववस्तुसङ्करप्रसङ्ग:। अपसिद्धान्तापत्तिश्च। यत: प्रोक्तं प्रशस्तपादेन - स्वविषयसर्वगतमिति।
किं च विद्यमाने घटे वर्तमानं सामान्यमन्यत्र जायमानेन सम्बध्यमानं तस्मादागच्छत्सम्बध्यते अनागच्छद् वा? आद्ये द्रव्यत्वापत्ति:। द्वितीये सम्बन्धानुपपत्ति:। अतो न तवाभिमतसत्ताया: सिद्धिरिति भाव:।
अनुवाद - और भी, तुम्हें अभीष्ट जो सत्ता है वह सर्वव्यापिनी है या अपने विषयभूत द्रव्य, गुण और कर्ममात्र में रहती है। इस विषय की आलोचना करने पर प्रथम मत (सत्ता की सर्वव्यापकता) तो स्वयं निरस्त हो जाता है क्योंकि तुम्हारे मत में स्वयं वह सत्ता सर्वव्यापक नहीं है। तुम स्वयं ही समवाय और विशेष में सत्ता नहीं मानते। दूसरे विकल्प के अनुसार यदि उसे द्रव्य, गुण और कर्म में व्यापक मानें तो आत्माश्रय दोष उत्पन्न हो जाता है। सत्ता का सम्बन्ध होने पर द्रव्य, गुण और कर्मरूप विषय की सिद्धि होती है तथा द्रव्य, गुण और कर्मरूप विषय की सिद्धि होने पर उनसे सत्ता का सम्बन्ध होता है। इस प्रकार इस पक्ष में परस्परसापेक्षता रूप आत्माश्रय दोष है।
।। ३५।।
प्रलयसमय एषा नास्ति चेत्तह्र्यनित्या
ध्रुवतनुरवकाशं सा तदाऽऽप्नोतु कुत्र?।
निरधिकरणसत्तामाश्रितत्वस्वभावा-
मभिदधदुपहासं लप्स्यसे सत्सभासु।।
अन्वय: - एषा (सत्ता) प्रलयसमये नास्ति चेत् तर्हि अनित्या? ध्रुवतनु: सा तदा अवकाशं कुत्र प्राप्रोतु? आश्रितत्वस्वभावां निरधिकरणसत्ताम् अभिदधत् सत्सभासु उपहासं लप्स्यसे।
गङ्गा - प्रलयेति - एषा त्वया नित्येत्यभिमता सत्ता प्रलयकाले समेषां पदार्थानां ध्वंससमये नास्ति चेत्, यदि न विद्यते तर्हि अनित्या? तस्या: सत्ताया नित्यत्वात् तस्मिन् कालेऽपि सत्त्वं स्यादन्यथाऽनित्यत्वप्रसङ्ग:। तेन तस्या नित्यत्वबाध इत्यर्थ:। ध्रुवतनु: नित्यशरीरा सा तदा प्रलयकाले अवकाशं स्वाश्रयस्थानं कुत्र प्राप्नोतु। द्रव्यादिकं व्याप्य सत्ता तिष्ठतीति प्रलयकाले तेषां विनाशे सा कुत्र तिष्ठेदित्यर्थ:। चतुर्णां महाभूतानां संहारविधि: प्रलय:। तस्मिन् काले सत्ताश्रयविनाशान्न तत्सत्त्वप्रसङ्ग इति बौद्धानामभिप्राय:। आश्रितत्वस्वभावां व्यापकत्वस्वरूपाम्। सत्ता द्रव्यादिकमाश्रित्यैव तिष्ठति। तादृशीं तां निरधिकरणसत्तामभिदधत् प्रलयकाले द्रव्यादिविनाशेऽधिकरणरहिताम् अभिदधत् स्वीकुर्वन् त्वं न्यायवैशेषिकसिद्धान्तानुयायी अलि: सत्सभासु विद्वत्सङ्गोष्ठीषु उपहासं हास्यास्पदस्थानं लप्स्यसे प्राप्स्यसि। सत्ता सर्वदा आश्रयाधीना भवति। द्रव्याद्याश्रयेष्वेव तस्य सिद्धिर्भवति। प्रलयकाले तस्या आश्रयविनाशात् तां निरालम्बनां वदन् त्वम् उपहासपात्रं भविष्यसीत्यर्थ:।
अनुवाद - यदि कहो कि प्रलय काल में सत्ता नहीं रहती, तब तो इसे नित्य कहना ही व्यर्थ है। अगर यह नित्य है तो इसे तीनो कालों में रहना चाहिए। यदि कहो कि यह नित्य है तो प्रलय काल में इसको आश्रय कहाँ से मिलेगा क्योंकि प्रलय काल में तो द्रव्य आदि सत्ता के आश्रय नष्ट हो जाते हैं। सत्ता तो किसी न किसी का आश्रय लेकर ही रहती है। आश्रितत्व उसका स्वभाव है। ऐसे में प्रलयकाल में उस निरधिकरण सत्ता का बखान करते हुए तुम विद्वानों की सभा में उपहास के पात्र बनोगे।
।। ३६।।
अनुगतमतिरन्यापोहमात्रोपपन्ना
गमयति न हि सत्तामुक्तदोषैर्निकृत्ताम्।
सकलविषयधर्मेऽपोहमात्रे च शून्ये
भवति भवति सर्वं शून्यमित्येष पक्ष:।।
अन्वय: - अन्यापोहमात्रोपपन्ना अनुगतमति: उक्तदोषै: निकृत्तां सत्तां न हि गमयति। सकलविषयधर्मे शून्ये च अपोहमात्रे भवति (सति) सर्वं शून्यं भवति इति एष पक्ष: (अस्ति)।
गङ्गा - अनुगतमतिरिति- अन्यापोहमात्रोपपन्ना अतद्व्यावृत्तिमात्रलभ्या, न तु सत्तया। अत्र मात्रपदेन सत्ताया व्यवच्छेद:। अनुगतमति: समानाकारप्रतीति: उक्तदोषै: उपर्युक्तात्माश्रयादिदोषै: निकृत्तां निराकृतां, खण्डितामित्यर्थ:। सत्तां जातिं न हि गमयति, न बोधयति। सकलविषयधर्मे सकलस्य द्रव्यादिविषयस्य य: धर्म: शून्य: अभावरूप: तदू्रपे अपोहमात्रे अतद्व्यावृत्तिमात्रे भवति सति सर्वं शून्यम् अभावरूपं भवति, इत्येवाऽस्मदीय: पक्ष:।
न्यायवैशेषिकै: अनुवृत्तिप्रत्ययहेतु: समानाकारप्रतीतेर्वा हेतुसामान्यं सत्तेत्युच्यते। तच्च सामान्यं द्रव्यगुणकर्मवृत्ति भवति। किन्तु बौद्धानां नये सेयमनुगतप्रतीतिर्न सामान्येनाऽपितु अपोहेन अतद्व्यावृत्त्या तद्भिन्नभिन्नत्वेन वा जायते। घटभिन्ना यावन्तोऽपि पटादय: पदार्था: सन्ति ते तद्भिन्ना: सन्तीति अतद्भिन्नत्वरूपया अतद्व्यावृत्त्या अनेकघटव्यक्तिषु समानाकारप्रतीतिर्जायते। एवम् अभावरूपा या अघटव्यावृत्ति: सा घटव्यक्तिरूपैव। पृथिवीत्व-जलत्वादीन्यपि अतद्व्यावृत्तिरूपाणि पृथ्व्यादिव्यक्तिभिन्नानिन सन्ति। एतेन अपोहरूप: शून्योऽभाव एव समेषां विषयाणां धर्म: सिद्ध्यति। घटे घटभिन्नपदार्थव्यावृत्ति: शून्यरूपैवेति सर्वं शून्यमिति अस्माकं बौद्धानां पक्ष इत्यर्थ:।
अनुवाद - अन्यापोह (अतद्व्यावृत्ति) मात्र से उपपन्न होने वाली अनुगत (समानाकार) प्रतीति ऊपर कहे गये आत्माश्रयादि दोषों से खण्डित सत्ता का बोध नहीं कराती। अपोहमात्ररूप शून्य के ही समस्त विषयों का धर्म हो जाने से सब कुछ शून्य (अभावरूप) ही हो जाता है, यह हमारा सिद्धान्त है।
टिप्पणी - नैयायिक अनेक व्यक्तियों की समानाकारप्रतीति में सत्ता, सामान्य या जाति को कारण मानते हैं। उन्हें अभिमत यह सत्ता (नित्यत्वे सति अनेकसमवेतत्वम्) नित्य तथा अनेक घटव्यक्तियों में समवेत होती है। इसका अभिधान त्व या तल् प्रत्ययों से होता है। जैसे घटत्व। घटत्व सत्ता अनेक घटव्यक्तियों में समवेत होती है। उसी के कारण अनेक घट व्यक्तियों में 'घटोऽयम्, घटोऽयम्Ó इस प्रकार की अनुगत प्रतीति होती है।
क्षणभंगवादी बौद्धों के मत में ऐसे किसी सामान्य या सत्ता की व्यवस्था नहीं बनती। सत्ता के स्थान पर अनुगत प्रतीति के कारण के रूप में उन्हें 'अपोहÓ अभिमत है। 'अपोहÓ उनका पारिभाषिक शब्द है। उसका अर्थ 'अतद्व्यावृत्तिÓ या 'तद्भिन्नभिन्नत्वÓ है। घट व्यक्तियों में 'अघटव्यावृत्ति या घटभिन्न समस्त जगत् की व्यावृत्ति होने से उसमें तद्भिन्नभिन्नत्व, तत्- घट से भिन्न जो पट आदि सम्पूर्ण जगत् उससे भिन्नता उस घट में रहती है। इस प्रकार घटव्यक्तियों में अनुगत प्रतीति हो जाती है। बौद्ध उसके लिए सत्ता जैसे नित्यपदार्थ की संकल्पना नहीं करते।
ऊपर अनेक पद्यों में सत्ता के दोष दिखाये गये हैं। विज्ञानवादी बौद्धों का मानना है कि अन्यापोह से अनुगत प्रतीति हो जाने के कारण उसके लिए आत्माश्रय आदि दोषों से दूषित सत्ता का मानना आवश्यक नहीं है। अतद्व्यावृत्ति से घटव्यक्ति में समस्त जगत् का अभावरूप शून्य प्राप्त हो जाता है। यह अपोहमात्र रूप शून्य ही समस्त विषयों का धर्म है। सत्ता किसी विषय का धर्म नहीं हो सकती। जब शून्य सभी पदार्थों का धर्म है तब सभी पदार्थ शून्य (अभाव) रूप ही सिद्ध हो जाते हैं। अत: नित्यसत्ता का कोई प्रसंग नहीं है। इस शून्य से ही अनुगत प्रतीति हो जाती है।
।। ३७।।
अनुभवपथयाताशेषवित्ते: क्षयित्वे
गमयति तदभिन्ने वेद्यजातेऽस्थिरत्वम्।
सदपि सुखमभिज्ञैर्दु:खमेवेति भाव्यं
सुखमपि हि विनश्यद् दु:खमेव प्रसूते।।
अन्वय: - अनुभवपथयाताशेषवित्ते: क्षयित्वे तदभिन्ने वेद्यजाते अस्थिरत्वं गमयति। अभिज्ञै: सत् अपि सुखं दु:खम् एव इति भाव्यम्। विनश्यत् सुखम् अपि दु:खम् एव प्रसूते।
गङ्गा - अनुभवेति- अनुभवपथयाताशेषवित्ते:, अनुभव एव ज्ञानमेव मार्ग: तस्मिन् अनुभवमार्गे समायाताया: अशेषाया: सर्वस्या: वित्ते: बुद्धे: क्षयित्वे विनाशशालित्वे सति। अनुभूतस्य सर्वस्यापि ज्ञानस्य विनाशशालित्वे इत्यर्थ:। तदभिन्ने वित्त्यभिन्ने वेद्यजाते ज्ञेयजाते घटादौ अस्थिरत्वं क्षणिकत्वं गमयति बोधयति। स्वक्षणिकस्वभावाद् वित्ति: स्वाभिन्नज्ञेयवस्तुनोऽपि क्षणिकत्वं बोधयतीत्यर्थ:। विज्ञानवादे ज्ञेयज्ञानयोरभिन्नत्वात् ज्ञानवत् ज्ञेयस्यापि क्षणिकत्वम्। तै: सहोपलम्भत्वात् नीलतद्धियोरभेद एवाङ्गीक्रियते। अभिज्ञै: परमार्थतत्त्वज्ञै: सत् विद्यमानमपि सुखं दु:खमेवेति भाव्यं भावनीयम्। यतो हि सदपि विद्यमानमपि विनश्यत् सुखं दु:खमेव प्रसूते जनयतीत्यर्थ:। सदपि सुखं सुखवित्तिवत् क्षणिकमस्तीति परमार्थज्ञै: तादृशं सुखं दु:खमेव स्वीकरणीयम्। विनश्यत् सुखं दु:खमेव जनयतीति सुखमपि दु:खरूपमेवेति भाव:।
अनुवाद - अनुभवपथ में आयी हुई समस्त वित्ति (ज्ञान) क्षणिक है। अत: वह अपने से अभिन्न वेद्य (घट आदि) में भी क्षणिकता का बोध करा देती है। वस्तु की सत्ता ज्ञान में ही होती है। नील और नील ज्ञान में अभेद होता है। क्षणिक नीलज्ञान में भासित होने वाले नील का बोध वह नीलज्ञान करा देता है। इस प्रकार परमार्थतत्त्व को जानने वाले को विद्यमान सुख को भी दु:ख ही मानना चाहिए। विनष्ट होने वाला सुख दु:ख को ही उत्पन्न करता है। जिस प्रकार ज्ञान की क्षणिकता से वस्तु की क्षणिकता निर्धारित हो जाती है उसी प्रकार सुख की विद्यमानता से दु:ख का निर्धारण हो जाता है।
।। ३८।।
सुखतदितरधागवाह्यनित्यक्षणौघे-
क्षणजनितविरक्त्या दुर्लभा मे न मुक्ति:।
तव तु किमपि नित्यं जानतस्तत्र रागे
प्रसरति बत दूरं याति निर्वाणवार्ता!।।
अन्वय: - सुखतदितरधारावाह्यनित्यक्षणौघेक्षणजनितविरक्त्या में मुक्ति: न दुर्लभा। किमपि नित्यं जानत: तव तत्र रागे प्रसरति (सति) निर्वाणवार्ता दूरं याति (इति) बत।
गङ्गा - सुखतदीति- सुखतदितरधारावाह्यनित्यक्षणौघेक्षणजनितविरक्त्या सुखं तद्भिन्नं दु:खं सततज्ञानवाहकं यदनित्यक्षणानां क्षणिकक्षणिकानाम् ओघ: सातत्यं धारा वा, तस्य ईक्षणादनुभवाज्जनिता या विरक्ति: वैराग्यं, तया विरक्त्या मे विज्ञानवादिबौद्धरूपस्य विलासिनो मुक्ति: सांसारिकमोहाद् विमुक्ति: न दुर्लभा, न कठिना, तत्प्राप्तिस्तु भविष्यत्येवेत्यर्थ:। अहं सर्वेषु पदार्थेषु क्षणिकत्वमनित्यत्वं च पश्यामीति न कुत्रापि मम राग:। अतो रागरहितत्वान्मे मुक्तिप्राप्ति: ध्रुवा एव। किमपि, संसारे विद्यमानं न सर्वं किन्तु आत्मप्रभृति किमप्येकं द्विकं वा तत्त्वं नित्यं जानत: तव अले: तत्र नित्यपदार्थे रागे अनुरागे प्रसरति सति तव निर्वाणवार्ता मोक्षकथा दूरं याति, दूरं गच्छति। नित्यपदार्थे रागात् ततो विरक्त्यभावस्तेन च मोक्षप्राप्त्यभाव इत्यर्थ:। बत इति खेदजनकमव्ययम्।
अनुवाद - सुख और उससे भिन्न धारावाही अनित्य क्षणों के ओघ के अनुभव से मुझमें विरक्ति उत्पन्न हो गयी है। संसार में चाहे सुख हो या उससे भिन्न कोई अन्य वस्तु, मेरी दृष्टि में वह सब अनित्य है। अत: इस अनित्यता से सांसारिक वस्तुओं पर मेरी कोई आसक्ति नहीं रही। उन क्षणों से उत्पन्न विरक्ति से मुझ विलासी के लिए मुक्ति दुर्लभ नहीं है। तुझ अलि को तो कोई न कोई नित्य तत्त्व अभीष्ट है और उस नित्यतत्त्व से राग होना भी स्वाभाविक ही है। अत: उस राग के कारण तुम्हारी निर्वाणकथा तो दूर जा रही है। इसलिए तुम्हारी नित्यता खेदजनक है।
।। ३९।।
क्वचिदपि किल पक्षे दु:खतोक्तौ सपक्ष-
प्रकृतयुगगतैकस्थायिजातेरभावात्।
क्षणगणगतवैलक्षण्यसिद्ध्योपमाने-
ऽनुपनमति सतां स्वं लक्षणं भावनीयम्।।
अन्वय: - क्वचित् अपि पक्षे दु:खतोक्तौ किल सपक्षप्रकृतयुगगतैकस्थायिजाते: अभावात् क्षणगणगतवैलक्षण्यसिद्ध्या उपमाने अनुपनमति (सति) सतां स्वं लक्षणं भावनीयं (भवति)।
गङ्गा-सत्तां निराकृत्य स्वाभिमतस्वलक्षणं स्थापयितुमुपक्रमन्नाह- क्वचिदपीति- संसारस्य दु:खात्मकत्वं दृष्ट्वा स्वप्रस्थाने च क्षणिकत्वसङ्ग्रहात् सादृश्याभावात् 'सर्वं दु:खं दु:खम्Ó इति भावयन्तो बोद्धा: स्वलक्षणं विचारयन्ति। तद्वक्ति-
क्वचिदपि कस्मिंश्चिदपि पक्षे सिसाधयिषितसाध्यधर्मिणि। पर्वते धूमेन वह्निसाधने पर्वत: पक्ष:। तादृशे पक्षे दु:खतोक्तौ, दु:खताया उक्तौ। अस्मिन् दु:खमस्तीति कथन इत्यर्थ:। सपक्षप्रकृतयुगगतैकस्थायिजाते:। निश्चितसाध्यवान् सपक्ष:। यथा पर्वते धूमेन वह्निसाधने महानस: सपक्ष:। सपक्षपक्षयुगलनिष्ठस्थिरसत्ताया:। प्रकृतशब्देनाऽत्र पक्ष एव उच्यते। एकस्मिन् पक्षे विद्यमानो यो धूमो यथा सपक्षे विद्यमानाद् धूमाद् भिन्नो भवति। नैयायिकमते उभयत्र धूमत्वसामान्यात्तत्र जातिगतं साम्यं किन्तु बौद्धमते जातेरभावान्न तत्र साम्यं कल्प्यते। तथैव पक्षे विद्यमानं यद् दु:खं तस्य सपक्षगतदु:खेन उभयत्र एकस्या: स्थायिजाते: अभावात् साम्यं न भवति। अत इदं दु:खं केन दु:खेन साम्यं भजत इति प्रश्नस्यावसरो नाऽत्रायाति। 'सर्वं दु:खं दु:खम्Ó इत्येव भावनीयं भवति। क्षणगणवैलक्षण्यसिद्ध्या, क्षणसमूहनिष्ठविलक्षणतासिद्ध्या। प्रतिक्षणं स्वभिन्नक्षणाद् विलक्षणं भवतीति उपमाने सादृश्ये अनुपनमति सति अनुपपद्यमाने सति। सतां सज्जनानां स्वं लक्षणं पदार्थानां भावनीयं विचारणीयम्। 'सर्वं दु:खं दु:खम् सर्वं स्वं लक्षणं स्वं लक्षणम्Ó इति च चिन्तनीयमित्यर्थ:।
बौद्धानां मते सर्वं क्षणिकमिति न तन्मते किमपि वस्तु केनचिदपि सदृशं भवति। अतो न वस्तुनो: द्वयो: सादृश्यं न वा भवति कस्यचिदपि साधारणं लक्षणम्। तन्मते सर्वमसाधारणम्। तेन तत्र 'एतेन सदृशमपरम्Ó इति व्यवहारो न प्रसरति। अतस्तन्मते सर्वोऽपि वस्तु स्वलक्षणं भवतीति सर्वै: स्वलक्षणं स्वलक्षणं भावनीयमिति तेषा सिद्धान्त:। किमपि दु:खं केनापि साम्यं न भजते। सर्वमपि स्वं लक्षणम्। अमुमेव सिद्धान्तं संक्षिप्याऽत्रोक्तं पक्षसपक्षगतदु:खतयोरसाधारण्यम्। तथा चोक्तं सर्वदर्शनसङ्ग्रहे- 'स्वलक्षणानां क्षणानां क्षणिकतया सालक्षण्याभावादेतेन सदृशमपरमिति वक्तुमशक्यत्वात्। तत: स्वलक्षणं स्वलक्षणमिति भावनीयम्। समेषां पदार्थानां स्वं लक्षणं स्वं लक्षणमिति विचारणीयमित्यर्थ:।
अनुवाद - किसी पक्ष में दु:खता का कथन कर देने से पक्ष और सपक्षगत दु:खता में किसी एक स्थायी जाति का अभाव होने के कारण उनमें सादृश्य निरूपित नहीं किया जा सकता। क्षणों के समूहों में विलक्षणता तो सिद्ध है ही। अत: एक क्षण दूसरे के समान नहीं हो सकता। प्रत्येक क्षण का अपना लक्षण है। इस प्रकार सादृश्य के उपपन्न न हो पाने के कारण सज्जनों को स्वलक्षण की भावना करनी चाहिए।
टिप्पणी - आस्तिक और नास्तिक सभी दर्शनप्रस्थानों में संसार की दु:खमयता सर्वसम्मत है। इसी से लोग दु:खनिवृत्ति में प्रवृत्त होते हैं। अत: बौद्ध 'सर्वं दु:खं दु:खम्Ó की भावना करते हैं। इस पर यह प्रश्न हो सकता है कि संसार की यह दु:खमयता किसी के समान तो होगी। अत: कोई उदाहरण दिया जाना चाहिए कि सांसारिक दु:ख किसके समान है। इस विप्रतिपत्ति के निराकरण के लिए बौद्ध विद्वान् सलक्षण की कल्पना करने हैं। उनके मत में समस्त वस्तुएं क्षणिक हैं। प्रत्येक क्षण दूसरे क्षण से विलक्षण है, अत: कोई किसी के समान नहीं। किसी भी असाधारण लक्षण के अभाव में यह नहीं कहा जा सकता कि कौन किसके समान है। सबका अपना अपना लक्षण है। अत: सबमें 'स्वं लक्षणं स्वं लक्षणम्Ó की भावना करनी चाहिए।
ऊपर पक्ष और सपक्ष के दृष्टान्त से इसी तथ्य को स्पष्ट किया गया है। एक पक्ष में कि जिस दु:खता का कथन किया गया कि अमुक दु:खता इस पक्ष में है तो सपक्ष में उसका सादृश्य नहीं दिखाया जा सकता। नैयायिक 'पर्वतो वह्निमान् धूमात् यथा महानसम्Ó कह कर पर्वतरूप पक्षगत धूम का सादृश्य महानस रूप सपक्ष गत धूम से दिखा देते हैं क्योंकि उनके यहाँ सत्ता है। बौद्धों के यहाँ सब कुछ क्षणिक है, अत: दृष्टान्त देकर इस दु:खता को समझाया नहीं जा सकता। उनके यहाँ सबका अपना अपना लक्षण है। अत: उनके यहाँ स्वलक्षणं स्वं लक्षणं की भावना की जाती है। उनकी प्रथम भावना 'सर्वं दु:खं दु:खम्Ó तथा दूसरी 'स्वं लक्षणं स्वं लक्षणम्Ó है। वस्तुओं के स्वलक्षण होने के कारण उनके यहाँ सादृश्य का अभाव प्रसिद्ध है। इस तथ्य को बौद्ध विद्वान् अंगुलियों के दृष्टान्त से स्पष्ट करते हैं-
एतासु पञ्चस्ववभासिनीषु
प्रत्यक्षबोधे स्फुटमङ्गुलीषु।
साधारणं रूपमवेक्षते य:
शृङ्गं शिरस्यात्मन ईक्षते स:।।
(सर्वदर्शनसंग्रह, पृ. ५३)
स्वलक्षण की उनकी यह संकल्पना विभिन्न ग्रन्थों में चर्चित है।
।। ४०।।
क्षणिकमथ च शून्यं दु:खमेवं चतुर्धा
विसदृशमिति च स्वं लक्षणं भावनीयम्।
गलितविषयरूपोपप्लवत्वाद् विशुद्धो-
द्भवति तदनु मुक्ति: शून्यविज्ञानधारा।।
अन्वय: - एवं क्षणिकं शून्यं दु:खम् अथ च विसदृशं स्वं लक्षणं इति चतुर्धा भावनीयम्। तदनु गलितविषयरूपोपप्लवात् विशुद्धा शून्यविज्ञानधारा मुक्ति: उद्भवति।
गङ्गा - क्षणिकमिति - एवं क्षणगतवैलक्षण्यसिद्ध्या क्षणिकं 'सर्वं क्षणिकं क्षणिकम्Ó शून्यं 'सर्वं शून्यं शून्यम्Ó दु:खं 'सर्वं दु:खं दु:खम्Ó अथ च विसदृशं सर्वं सादृश्यरहितं स्वं लक्षणम्, असाधारणं वस्तु स्वरूप इति चतुथ्र्या भावनीयं चिन्तनीयं विचारणीयं वेति। बौद्धानां 'बुद्धिभेदा व्यतुर्विधा भावना- 'सर्वं क्षणिकं क्षणिकं, सर्वं शून्यं शून्यं, सर्वं दु:खं दु:खं, सर्वं स्वं लक्षणं स्वं लक्षणंÓ चेत्यर्थ:। तदनु चतुर्धा भावनानन्तरं गलितविषयरूपोपप्लवात् निर्विषयज्ञानरूपो य उपप्लवो विपत्तिस्तस्मात् विशुद्धा विषयज्ञानरहिता शून्यविज्ञानधारा, शून्या विषयज्ञानाभावरूपा, निर्विषयेति यावत्। विज्ञानस्य धारा सातत्यं मुक्ति: निर्वाणपदवाच्य: पुरुषार्थ उद्भवति जायते। इयं चतुर्विधा भावनैव मुक्तेर्मूलमित्यर्थ:।
यद्यपि भगवान् बुद्ध एक एव बोधयिता तथापि बोद्धव्यानां बुद्धिभेदाच्चतुर्विधा तत्र भावना। सर्वं क्षणिकं क्षणिकमित्यादिरूपेण सैव चतुर्विधा भावनाऽत्र निर्दिष्टा। दु:खस्य विषये भगवता बुद्धेनाप्युपदिष्टम्-
'इदं खो पन भिक्खवे, दु:खं अरिय सच्च।
जातिपि दुक्खा, जरापि दुक्खा, मरणम्पि दुक्खं,
सोकपरिदेव-दोमनस्सुपायासापि दुक्खा, अरिप-
येहि सम्पयोगो पियेहि विप्पयोगो दुक्खो,
यम्पिच्छं न लभति तम्पि दुक्खं, संख्यित्तेन
पञ्चूपादानक्खन्धापि दुक्खाÓ।
हे भिक्षुगण! इदं दु:खं प्रथममार्यसत्यम्। जन्म अपि दु:खम्, वृद्धावस्थापि दु:खम्, मरणमपि दु:खम्, शोक: परिदेवना औदासीन्यं परिश्रमश्चापि दु:खम्, अप्रियवस्तुना समागमोऽपि दु:खम्। एवं रूपं वेदना, संज्ञा, संस्कार: विज्ञानं सर्वं चापि दु:खम्। अत: सर्वं दु:खं दु:खमिति भावनीयम्।
अनुवाद - इस प्रकार क्षणगतविलक्षणता की सिद्धि हो जाने से चार प्रकार से स्वलक्षण की भावना होती है- क्षणिक, शून्य, दु:ख और सादृश्यरहित असाधारण। सब कुछ क्षणिक है, क्षणिक है, सब शून्य है, शून्य है, सब दु:ख है, दु:ख है और सब कुछ विसदृश अर्थात् परस्पर असाधारण है, इन चार रूपों में स्वलक्षण की भावना होती है। तदनन्तर निर्विषयज्ञानरूप उपप्लव से विशुद्ध शून्यविज्ञानधारा, विषयज्ञान से रहित विज्ञान का सातत्य निर्वाण उत्पन्न होता है।
।। ४१।।
इति भगवति बुद्धे शासति स्वोपदेशं
निजमतिविविधत्वात्तस्य शिष्याश्चतुर्धा।
जगृहुरणुतदुक्तेराशयं तेन भिन्ना
अपि न हि विवदन्ते प्रोक्तसिद्धान्तसारे।।
अन्वय: - इति भगवति बुद्धे स्वोपदेशं शासति (सति) निजमतिविविधत्वात् तस्य शिष्या: अणुतदुक्ते: आशयं चतुर्धा जगृहु:। हि तेन भिन्ना अपि प्रोक्तसिद्धान्तसारे न विवदन्ते।
गङ्गा - इति भगवतीति- इत्येवं भगवति बुद्धे स्वोपदेशं शासति निर्दिशति सति निजमतिविविधत्वात् स्वबुद्धे: वैविध्यात् अणुतदुक्ते: सूक्ष्मायास्तस्य भगवतो बुद्धस्य उक्ते: आशयम् अभिप्रायं चतुर्धा चतुष्प्रकारेण जगृहु: गृहीतवन्त:। तेन आशयग्रहणभेदेन भिन्ना अपि ते शिष्या: प्रोक्तसिद्धान्तसारे भगवतो बुद्धस्य निर्दिष्टे सिद्धान्तरहस्ये नहि विवदन्ते, विवादं न कुर्वन्ति। आशयग्रहणे भिन्ना अपि ते तस्य सिद्धान्ते विवादं न कुर्वन्ति। सर्वम् एैक्यमत्येन स्वीकुर्वन्तीत्यर्थ:। बौद्धा उपर्युक्ताभिश्चतुर्विधभावनाभि: परमपुरुषार्थं निर्वाणं कथयन्ति। ते च माध्यमिक-योगाचार-सौत्रान्तिक-वैभाषिकसंज्ञाभि: प्रसिद्धा:। ते यथाक्रमं सर्वशून्यत्व-बाह्यार्थशून्यत्व-बाह्यार्थानुमेयत्व-बाह्यार्थप्रत्यक्षत्ववादानास्तिष्ठन्ति। बुद्धोपदेशाशयग्रहणभेदादेव एतेषां चातुर्विध्यं न तु परमार्थत:। तदुक्तं सर्वदर्शनसङ्ग्रहे- यथा गतोऽस्तमर्क: इत्युक्ते जारचौरानूचानादय: स्वेष्टानुसारेण अभिसरणपरस्वहरणसदाचरणादिसमयं बुध्यन्ते। सर्वं क्षणिकं क्षणिकं, दु:खं दु:खं, स्वलक्षणं स्वलक्षणं शून्यं शून्यमिति भावनाचतुष्टयमुपदिष्टं द्रष्टव्यम्। चतुर्धा सन्तोऽपि बुद्धशिष्या:। परमार्थे विवादं न कुर्वन्तीत्यर्थ:।
अनुवाद - इस प्रकार भगवान् बुद्ध के द्वारा अपने उपदेश का शासन (कथन) करने पर अपनी बुद्धि के वैविध्य से उनके शिष्यों ने उनकी सूक्ष्म उक्तियों का आशय चार प्रकार से ग्रहण किया। उस उपदेश के ग्रहणभेद से भिन्न होकर भी उनके चारो प्रकार के शिष्य उनके द्वारा कहे गये सिद्धान्तों के निष्कर्ष पर कोई विवाद नहीं करते।
टिप्पणी - परमपुरुषार्थ या निर्वाण के विषय में बौद्धों की चार प्रकार की भावनाएं या दृष्टिकोण हैं। ये बौद्ध माध्यमिक, योगाचार, सौत्रान्तिक और वैभाषिक नाम से प्रसिद्ध हैं। इनमें माध्यमिकों के मत में सब कुछ शून्य है, योगाचार बाह्यपदार्थों को शून्य मानते हैं, सौत्रान्तिक बाह्यपदार्थों को अनुमानगम्य मानते हैं तथा वैभाषिक बाह्यपदार्थों को प्रत्यक्ष से ज्ञेय मानते हैं। इन सबके उपदेष्टा यद्यपि भगवान् बुद्ध हैं तथापि इन्होंने अपनी अपनी बुद्धि से उनके उपदेशों को कुछ अन्तर के साथ समझा। अत: उनके शिष्यों के उपर्युक्त चार भेद प्रसिद्ध हैं। जिस प्रकार (गतोऽस्तमर्क:) (सूर्य डूब गया) कहने पर जार, चोर, वेदपाठी आदि अपनी अपनी इच्छा के अनुसार अभिसरण, परधन का हरण, और सदाचरण आदि का समय समझ लेते हैं उसी प्रकार बुद्धि भेद से इन शिष्यों ने भी बुद्ध के उपदेशों को समझा। बौद्धों की चार भावनाएं हैं-
१. सब कुछ क्षणिक है, क्षणिक है, २. सब कुछ दु:ख है, दु:ख है, ३. सभी का लक्षण अपने आप में है तथा ४. सब कुछ शून्य है, शून्य है।
ऊपर श्लोक में इसी तथ्य का प्रतिपादन हुआ है।
।। ४२।।
सति किल मितिकुड्ये मेयमालिन्ययोग:
कथमपि च कदाचिद् दुर्निवार: स नेष्ट:।
निपुणमतिभिरस्मात्कारणान्मोक्षमाणै-
धु्र्रवमभिलषणीया शून्यसाम्राज्यसिद्धि:।।
अन्वय: - मितिकुड्ये सति मेयमालिन्ययोग: कथम् अपि कदाचित् च दुर्निवार: किल। स नेष्ट:। अस्मात् कारणात् निपुणमतिभि: मोक्षमार्गै: शून्यसाम्राज्यसिद्धि: ध्रुवम् अभिलषणीया (भवति)।
गङ्गा - बौद्धेषु माध्यमिकसिद्धान्तं व्याकुर्वन्नाह- सति किलेति- मितिकुड्ये मिति: ज्ञानमेव कुड्यं भित्ति: तस्मिन् सति मेयमालिन्ययोग: मेयस्य ज्ञेयस्य मालिन्ययोग:। विषयवत्ता एव अत्र मालिन्यम्। ज्ञानभित्तौ सविषयज्ञेयस्य विषयसम्पर्कात् मालिन्ययोग: कथमपि कदाचिदपि दुर्निवार:, निवारणयोग्यो न भवतीत्यर्थ:। घटज्ञाने घटविषयस्य मालिन्यं भवत्येव। तन्निवारयितुं न शक्यम्। अस्मात् कारणात् निपुणमतिभि: चतुरबुद्धिभि: मोक्षमाणै: मुमुक्षुभि: शून्यसाम्राज्यसिद्धि: ध्रुवम् अभिलषणीया। एतेन शून्यस्य प्रयोजनमुक्तम्।
शून्यं शून्यमिति भावनीयमिति हि माध्यमिकानां सिद्धान्त:। एतेषां मते सर्वं शून्यं भवति। यदि नाम ज्ञानं स्वीक्रियेत तर्हि तत्र सविषयता स्यादेव। सा चेयं सविषयता दुर्निवारा भवतीति मुमुक्षुभि: शून्यमेव भावनीयम्। सर्वं शून्यं शून्यमिति चिन्तनीयमिति। तेन समेषां निषेधो भवतीत्यर्थ:।
अनुवाद - ज्ञानभित्ति होने पर उसमें ज्ञेयपदार्थ की सविषयता का मालिन्य होगा ही। वह मालिन्य कभी भी कैसे भी दुर्निवार होता है। उसे हटाया नहीं जा सकता। इसलिए बुद्धिमान् मुमुक्षुओं को शून्य के साम्राज्यसिद्धि की अभिलाषा अवश्य करनी चाहिए। सब कुछ शून्य है, शून्य है, इस भावना से सबका निषेध हो जाता है।
टिप्पणी - माध्यमिक जगत् में शून्य की भावना रखते हैं। उनका कथन है कि कोई भी ज्ञान सविषयक होनेे से मलिन होता है। अत: शून्यवादी माध्यमिक ज्ञान का निषेध करते हैं। उनका कथन है कि शुक्ति में रजत का भ्रम हो जाने पर उस शुक्ति के पास जाता है और रजत को नहीं देख पा। उससे इस निषेध की सिद्धि हो जाती है कि मैंने स्वप्र में या जागृत अवस्था में रजत नहीं देखी (स्वप्रे जागरणे च न मया दृष्टं रजतादीति) इस ज्ञान में (निषेध) नुञ् का अन्वय कारक सम्बद्ध क्रिया से है। अत: यहाँ दर्शन क्रिया का, उसके कर्ता का तथा उसके कर्म का, इन तीनों का ही निषेध प्राप्त होता है। प्रकारान्तर से इसे ही धर्मी, धर्म और उनके सम्बन्ध का निषेध कहते हैं।
।। ४३।।
गगनकुसुमकल्पा वित्तिराकारशून्या
यदि भवति सुषुप्तौ शून्यरूपैव साऽपि।
मुनिमतपरतत्त्वं शून्यतामेव तस्मात्
प्रकटयति पुमर्थं माध्यमिक्युक्तिशैली।।
अन्वय: - गगनकुसुमकल्पा आकारशून्या वित्ति: यदि सुषुप्तौ भवति, सा अपि शून्यरूपा एव। तस्मात् माध्यमिक्युक्तिशैली शून्यताम् एव मुनिमतपरतत्त्वं पुमर्थं प्रकटयति।
गङ्गा - गगनकुसुमेति- गगनकुसुमकल्पा आकाशपुष्पतुल्या आकारशून्या निराकारा वित्ति: ज्ञानं यदि सुषुप्तौ सुषुप्त्यवस्थायां भवति, सा सुषुप्तिकाले जायमाना निराकारा वित्ति: शून्यरूपा एव निर्विषया एव भवति। निराकारज्ञानस्य कदाऽप्यदर्शनात् तस्य गगनकुुसुमत्वमुम्भितम्। तस्मात् माध्यमिक्युक्तिशैली माध्यमिकानां शून्यवादिनाम् उक्ते: कथनस्य शैली परम्परा शून्यतां सदसदुभयात्मकानुभयात्मकविलक्षणां प्रतीतिं मुनिमतपरतत्त्वं बुद्धाभिमतचरमतत्त्वं पुमर्थं निर्वाणं प्रकटयति निरूपयति।
वस्तुतो भवति ज्ञानं सदा सविषयम्। निराकारज्ञानं च कदापि भवतीति तस्य गगनकुसुमकल्पत्वमुक्तम्। तादृशं निराकारं वस्तुज्ञानशून्यं ज्ञानं यदि सुषुप्तावपि भवति तर्हि तत्रापि तस्य शून्यरूपता एव भवति न तु विषयाकारता। शून्यरूपं ज्ञानं सदसद्विलक्षणमनिर्वचनीयं किमपि विद्यते। माध्यमिकानां शून्यमिदमद्वैतवेदान्तस्य अद्वैततत्त्वमिव विद्यते।
अनुवाद - आकाशपुष्प के समान कहीं न प्राप्त होने वाली आकार शून्य वित्ति (ज्ञान) यदि सुषुप्ति में होगी तो भी शून्यरूप ही होगी। इसलिए माध्यमिकों की कथनशैली इस शून्यरूपता को ही भगवान् बुद्ध को अभिमत निर्वाणरूप परमतत्त्व के रूप में प्रकट करती है।
टिप्पणी - निराकार निर्विषय ज्ञान का होना अति कठिन है। अत: उसे यहाँ गगनकुसुमकल्प कहा गया है। सुषुप्ति में भी यह वित्ति शून्यरूप ही होती है। माध्यमिकों के अनुसार यह शून्य ही बुद्धवचनों का परमतत्त्व है। जिसमें सबका निषेध हो जाता है। उनका यह शून्य सत्, असत्, उभयात्मक और अनुभयात्मक कोटियों से सर्वथा भिन्न है। अर्थात् यह शून्य न तो सत् है, न असत्, न सदसत् और न ही सदसत् से भिन्न। यह शून्य वेदान्तियों के अद्वैततत्त्व की तरह अनिर्वचनीय है। माध्यमिकों के अनुसार यही बुद्धाभिमत निर्वाण है।
।। ४४।।
प्रसजति जगदान्ध्यं सर्वशून्यत्ववादे
भवतु तदिह तत्त्वं स्वप्रकाशा सती चित्।
स्फु रति विविधरुपा सा स्वयं विभ्रमादौ
व्यवहृतिरनयाऽऽस्तां बाह्यवस्त्वस्तु शून्यम्।।
अन्वय: - सर्वशून्यत्ववादे जगदान्ध्यं प्रसनति। तत् इह स्वप्रकाशा सती चित् तत्त्वं भवतु। विभ्रमादौ विविधरुपा सा स्वयं स्फुटति। अनया व्यवहृति: आस्ताम्। बाह्य वस्तु शून्यम् अस्तु।
गङ्गा - योगाचारमतं विवृण्वन्नाह- प्रसजतीति- सर्वशून्यत्ववादे माध्यमिकाभिमते निरालम्बनात्मके सर्वं शून्यं शून्यमिति भावनापक्षे जगदान्ध्यं प्रसजति आपतति। अतो बाह्यार्थशून्यत्ववादिनो योगाचारमतोपासकास्तन्न स्वीकुर्वन्ति। तेषां मते बाह्यार्थस्य शून्यत्वं किन्तु आन्तरस्य शून्यभिन्नत्वम्। यया बुद्ध्या जगदिदं शून्यं प्रतीयते सा बुद्धि: शून्यरूपा नाऽस्ति। अन्यथा समस्ते संसारे आन्ध्यं प्रसक्तो भवति। अत: स्वयं वेदनं स्वज्ञानं वा स्वीकरणीयम्। तेनैव बाह्यार्थस्य शून्यताया: ज्ञानं भवेत्।
तत् तस्मात् इह शून्यत्ववादे स्वप्रकाशास्वप्रकाशरूपा सती चित् स्वप्रकाशा बुद्धि: मन: विज्ञानं वा तत्त्वं भवतु। तद्ध्यादीनां सत्यताऽङ्गीकार्येति भाव:। विभ्रमादौ विविधरूपा भिन्नभिन्नस्वरूपा सा बुद्धि: स्फुरति प्रकाशते। अनया बुद्ध्या व्यवहृति: व्यवहार: आस्तां, भवतु। शून्यं स्वीकृत्याऽपि बुद्धि: स्वीकार्येत्यर्थ:। बाह्यवस्तु घटादि शून्यं भवतु। न तेन नो विप्रतिपत्ति:। बाह्यवस्तूनां शून्यताज्ञानाय बुद्धेरस्तित्वमङ्गीकार्यमेव। सर्वशून्यत्ववादे क: खलु ज्ञाता भवेत्। अत: संसारस्य अन्धत्वापत्तिरिति तात्पर्यम्।
अनुवाद - संसार में सब कुछ शून्य मान लेने से संसार की अन्धता प्रसक्त होती है। इसलिए इस शून्यत्ववाद में स्वप्रकाश बुद्धि को स्वीकार करना चाहिए। विभ्रम आदि स्थलों में वह बुद्धि विविध रूपों में प्रकाशित होती है। इस बुद्धि से व्यवहार किया जाना चाहिए। अर्थात् इस बुद्धि से ही बाह्यवस्तुओं की शून्यता का ज्ञान मानना चाहिए। बाह्य वस्तु शून्य रहे, वह हमें भी स्वीकार्य है।
टिप्पणी - ऊपर दो पद्यों में माध्यमिकों का सिद्धान्त प्रस्तुत किया गया था। अब दो श्लोकों में योगाचार या विज्ञानवादी का मत प्रस्तुत कर रहे हैं। विज्ञानवादी माध्यमिकों की तरह सर्वशून्यत्ववाद स्वीकार नहीं करते। उनका कहना है कि सर्वशून्यत्ववाद मानने से समस्त संसार अंधा हो जायेगा। इसलिए बाह्यपदार्थों की शून्यता तो माननी चाहिए किन्तु चित्तादि आन्तरपदार्थों को सत्य मानना ही पड़ेगा। अन्यथा उस शून्य का ज्ञान कैसे होगा। संसार की शून्यता जिस बुद्धि, मन, चित्त या विज्ञान से प्रतीत होती है, उन आन्तर पदार्थों को सत्य मानना आवश्यक है। अन्यथा शून्य का ज्ञाता कौन रहेगा? बाह्यार्थ की शून्यता इन्हें भी स्वीकार है। आगे योगाचार की दृष्टि से विमुक्ति का प्रतिपादन करते हैं।
।। ४५।।
अहमिति च सुषुप्तावालयज्ञानधारा
सृजति खलु विचित्रा जागरस्वप्नवित्ती:।
इह नियतमनादिर्वासना हेतुरस्या:
क्षय उदयति योगाचारदृष्ट्या विमुक्ति:।।
अन्वय: - सुषुप्तौ आलयज्ञानधारा च 'अहम्Ó इति विचित्रा: जागरस्वप्नवित्ती: सृजति। इह अनादि: वासना नियतं हेतु:। योगाचारदृष्ट्या अस्या: क्षये विमुक्ति: उदयति।
गङ्गा - अहमितीति- सुषुप्तौ सुषुप्त्यवस्थायाम् आलयज्ञानधारा बुद्धिज्ञानधारा 'अहम्Ó इति 'अहम् अस्मिÓ इति इत्याकारिका: विचित्रा: विभिन्ना: जागरस्वप्नवित्ती: जागृतावस्थाया निद्रावस्थायाश्च वित्ती: ज्ञानानि सृजति जनयति। इह अस्यां सर्जनायाम् अनादि: वासना संस्कार: नियतं हेतु: कारणम्। योगाचारदृष्ट्या विज्ञानवादिनां नये अस्या: वासनाया: क्षये विनाशे विमुक्ति: मोक्ष: निर्वाणं वा उदयति उदयं प्राप्नोति। यावद् वासना: सन्ति न तावद्विमुक्ति:। वासनानाश एव तस्या लाभ इत्यभिप्राय:। विज्ञानवादिनोऽस्य ज्ञानस्य सिद्धये आलयविज्ञानं स्वीकुर्वन्ति। इदं चक्र आलयविज्ञानम् 'अहमास्पदंÓ भवति। तथा चोक्तम्-
तत्स्यादालयविज्ञानं यद्भवेदहमास्पदम्। इदम् आलयविज्ञानं चैतन्यरूपं भवतीतीदम् 'अहम्Ó इति ज्ञानं सुषुप्तौ सृजति।
अनुवाद - सुषुप्ति में बुद्धि की ज्ञानधारा (आलय विज्ञान) उत्पन्न होती है। वही आलय विज्ञान जागृत अवस्था एवं स्वप्नावस्था से सम्बद्ध 'मैं हूँÓ इस प्रकार की वित्तियों को जन्म देता है। इस सर्जना मे अनादि वासना ही नियत कारण है। योगाचार की दृष्टि में इस वासना के विनाश से ही मुक्ति का उदय होता है।
टिप्पणी - विज्ञानवादी बौद्ध अवस्थाभेद से विज्ञान के दो भेद करते हैं। उनमें से आलयविज्ञान धर्मों के बीजों का स्थान है। समस्त धर्म बीजरूप में आलयविज्ञान में अवस्थित रहते हैं। यही बाहर निकल कर जगत् के व्यवहार का निर्वाह करते हैं।
।। ४६।।
न हि विषयमपास्य ज्ञानवैचित्र्यसिद्धि-
र्न च भवति विचित्रा वासनर्तेऽनुभूतिम्।
अनुभवगतनानाकारनित्यानुमेयं
वदति सदपि बाह्यं वस्तु सौत्रान्तिकस्तु।।
अन्वय: - विषयम् अपास्य ज्ञानवैचित्र्यसिद्धि: न हि (भवति)। अनुभूतिम् ऋते विचित्रा वासना च न भवति। सौत्रान्तिक: तु सत् अपि बाह्यं वस्तु अनुभवगतनानाकारनित्यानुमेयं वदति।
गङ्गा - सौत्रान्तिकमतं व्याचष्टे- नहि विषयमिति- विषयं बाह्यवस्तु अपास्य परित्यज्य ज्ञानवैचित्र्यसिद्धि: ज्ञाने भेदसिद्धि: न भवति। विचित्रा विविधानुभवजन्या वासना संस्कार: अनुभूतिमृतेऽनुभवविरहे न भवति, न जायते। विविधविषया: संस्कारा अनुभवजन्या भवन्तीत्यर्थ:। सौत्रान्तिकस्तु सदपि विद्यमानमपि बाह्यं वस्तु अनुभवगतनानाकारनित्यानुमेयम्, अनुभूतिनिष्ठविविधाकारप्रकारैर्नित्यानुमेयं वदति निर्धारयति। योगाचारमते बाह्यं वस्तु शून्यं विद्यते किन्तु सौत्रान्तिकमते तन्न तथा। तन्मते बाह्यवस्तुन: सत्ता विद्यते। तच्चानुमेयं भवति। तदेतत्सर्वं प्रपञ्चितं सर्वदर्शनसङ्ग्रहे-
'ननु ज्ञानाद् भिन्नकालस्यार्थस्य ग्राह्यत्वमनुपपन्नमिति चेत्, तदनुपपन्नम्। इन्द्रियसन्निकृष्टस्य विषयस्योत्पाद्ये ज्ञाने स्वाकारसमर्पकतया समर्पितेन चाकारेण तस्यार्थस्याऽनुमेयतोपपत्ते:। अत एव पर्यनुयोगपरिहारौ समग्राहिषाताम्-
भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यतां विदु:।
हेतुत्वमेव च व्यक्तेज्र्ञानाकारार्पणक्षमम्।।
तथा च यथा पुष्ट्या भोजनमनुमीयते, यथा च भाषया देश:, यथा वा सम्भ्रमेण स्नेह:, तथा ज्ञानाकारेण ज्ञेयमनुमेयम्। तदुक्तम्-
अर्थेन घटयत्येनां न हि मुक्त्वार्थरूपताम्।
तस्मात् प्रमेयाधिगते: प्रमाणं मेयरूपता।।
सौत्रान्तिकमते बाह्यवस्त्वनुमानस्येयमेव प्रक्रिया। तदेतत्सर्वमाकरग्रन्थेषु बहुत्र प्रपञ्चितमिति तत्रैव द्रष्टव्यम्।
अनुवाद - विषय का परित्याग कर देने से ज्ञान में भेद की सिद्धि नहीं होती। अनुभव के बिना विचित्र वासना नहीं हो सकती। सौत्रान्तिक विद्यमान बाह्यवस्तु को अनुभवगत नाना आकारों से नित्य अनुमेय मानते हैं।
टिप्पणी - योगाचारों के मत में बाह्य अर्थ शून्य है किन्तु सौत्रान्तिक इस सिद्धान्त को स्वीकार नहीं करते। उनके मत में बाह्य वस्तु है किन्तु वह अनुमेय है। उसका प्रत्यक्ष नहीं होता। सभी पदार्थों के क्षणिक होने से ज्ञान भी क्षणिक ही है। प्रथमक्षण में विषय का इन्द्रिय से सन्निकर्ष होता है, इससे ज्ञान की उत्पत्ति होती है। उस ज्ञान में प्रथमक्षण में अनुभूत वह विषय अपने आकार का समर्पण कर देता है। द्वितीयक्षण में उसी समर्पित विषय का अनुमान होता है। आशय यह है कि घटादि विषय क्षणिक हैं। अत: एक क्षण में नष्ट होकर वह अपने अर्थक्रियाकारित्व के बल से दूसरे क्षण में अपने आकार के सदृश दूसरे घट को उत्पन्न करता है। पूर्वक्षण में अनुभूत वह घट ही इन्द्रिय के साथ मिल कर द्वितीय क्षण में अपने सदृश घट ज्ञान को भी उत्पन्न करता है। इसी घटज्ञान से पूर्वक्षणानुभूत घट का अनुमान होता है। इसी तथ्य को कवि ने 'अनुभव, वासना और अनुभवगतनानाकारÓ शब्दों से कहा है। सौत्रान्तिकों के इस सिद्धान्त को एक छन्द में बाँधने हेतु कवि ने इसे अति संक्षेप में कहा है, अत: उसका कठिन हो जाना स्वाभाविक ही है।
।। ४७।।
कथमनुमितिरास्तां क्वाऽप्यमत्वाऽपरोक्षं?
प्रथममुभयसम्बन्धेक्षणैकोद्भवा सा।
विषयमनुभवामीत्यत्र सर्वैकमत्यात्
क्षणिकसदपरोक्षं वस्तु वैभाषिकाणाम्।।
अन्वय: - क्वाऽपि अपरोक्षम् अमत्वा अनुमिति: कथम् आस्ताम्। सा प्रथमम् उभयसम्बन्धे क्षणैकोद्भवा भवति। 'विषयम् अनुभवामिÓ इत्यत्र सर्वैकमत्यात् वैभाषिकाणां क्षणिकसत् वस्तु अपरोक्षं (भवति)।
गङ्गा - वैभाषिकमतं बू्रते- कथमिति- क्वाऽपि अपरोक्षममत्वा कुत्रचिदपि प्रत्यक्षम् अस्वीकृत्य अनुमिति: अनुमानं कथमास्ताम्, न कथमपीत्यर्थ:। न प्रत्यक्षवस्तुनोऽपित्वप्रत्यक्षस्यैव भवत्यनुमानम्। यथा पर्वतीयवह्ने:। सा अनुमिति: प्रथममुभयसम्बन्धेक्षणैकोद्भवा भवति। अनुमिति: महानसादौ साहचर्यप्रत्यक्षेणैव भवति। महानसादौ प्रथमं वह्निधूमयो: सम्बन्धज्ञानमनन्तरं च परोक्षवह्नेरनुमानमित्यर्थ:। सौत्रान्तिकमते समेषां वस्तूनामनुमानगम्यत्वात् प्रत्यक्षाभावे तेषां साहचार्यज्ञानमेव न स्यादिति तथात्वे कथमनुमानसम्भव इत्यर्थ:। 'यत्र यत्र धूमस्तत्र तत्र वह्नि:Ó इत्यत्र महानसादौ प्रत्यक्षतया गृहीता व्याप्तिरेव कारणं भवति। सौत्रान्तिकमते प्रत्यक्षाभावे व्याप्तिज्ञानमेव न स्यात्। अतो वैभाषिका: 'विषयम् अनुभवामिÓ इत्यत्र समेषामैकमत्यात् सर्वं क्षणिकसत् क्षणं यावद् विद्यमानं वस्तु अपरोक्षं प्रत्यक्षं भवतीति स्वीकुर्वन्ति। एतेन सौत्रान्तिकानां वास्त्वनुमानवादो निराकृतो भवति। तदेतदुक्तं सर्वदर्शनसङ्ग्रहे-
'विज्ञेयानुमेयत्ववादे प्रात्यक्षिकस्य कस्यचिदप्यर्थस्याभावेन, व्याप्तिसंवेदनस्थानाभावेन अनुमानप्रवृत्त्यनुपपत्ति: सकललोकानुभवविरोधश्च। ततश्चार्थो द्विविध:-ग्राह्योऽध्वसेयश्च। तत्र ग्रहणं निर्विकल्पकरूपं प्रमाणम्। कल्पनापोढत्वात्। अध्यवसाय: सविकल्पकरूपोऽप्रमाणम्। कल्पनाज्ञानत्वात्।Ó
अनुवाद - किसी भी वस्तु को प्रत्यक्ष न मान कर अनुमिति कैसे हो सकती है। वह अनुमिति तो पहले दोनो (वह्नि और धूम) के सम्बन्ध को (महानस आदि में) प्रत्यक्ष देखने से होती है। 'मैं विषय का अनुभव कर रहा हूँÓ इस ज्ञान में सभी एक मत हैं। इसलिए वैभाषिक क्षणिक भी वस्तु को प्रत्यक्ष मानते हैं।
टिप्पणी - वैभाषिक सौत्रान्तिकों के 'सर्ववस्तु अनुमेयवादÓ का खण्डन करते हैं। वैभाषिकों का मानना है कि अनुमिति साहचर्य ज्ञान के बिना नहीं हो सकती। कोई भी महानस आदि में पहले धूम और अग्रि के सम्बन्ध को प्रत्यक्ष देखता है और व्याप्ति ज्ञान प्राप्त करता है तभी उसे धूम को देखकर वह्नि का ज्ञान होता है। अगर सब कुछ अनुमेय ही मान लिया जायेगा, कुछ भी प्रत्यक्ष नहीं रहेगा तो व्याप्तिज्ञान के अभाव में वह अनुमान होगा कैसे? अत: 'अहं विषयमनुभवामिÓ जैसे ज्ञान के बल पर वैभाषिक क्षणिक वस्तु की भी प्रत्यक्षसत्ता मानते हैं। उनका यह प्रत्यक्ष निर्विकल्पक है।
।। ४८।।
इति गृहकलहेऽपि स्थैर्ययोधावरोधे
धृतपरिकरबन्धा यौगपद्येन बौद्धा:।
अभिदधति मुधेयं भीरुताऽऽश्रित्य नित्यं
भवततिभवदु:खाद्भावनैवाऽस्त्रमत्र।।
अन्वय: - इति गृहकलहे अपि स्थैर्ययोधावरोधे यौगपद्येन धृतपरिकरबन्धा: बौद्धा:- 'भवततिभवदु:खात् नित्यम् आश्रित्य इयं भीरुता मुधा। अत्र भावना एव अस्त्रम्Ó (इति) अभिदधति।
गङ्गा - इति गृहकलह इति- इति उपर्युक्तप्रकारेण गृहकलहे अपि चतुष्र्वपि बौद्धसम्प्रदायेषु परस्परं मतेभेदे सत्यपि स्थैर्ययोधावरोधे नित्यात्मनो विरोधे यौगपद्येन सहैव सर्वेऽपि बौद्धा: धृतपरिकरबन्धा: सन्त:- भवतिभवदु:खात् भवानां जन्मनां तति: समूह: तस्माद् भवं यद् दु:खं तस्मात्। पुन: पुन: जन्मनां समूहाज्जायमानदु:खभयात् नित्यम् आत्मानमाश्रित्य इयं परलोकविषयिणी भीरुता मुधा व्यर्थैव। वस्तुत: परलोकभयान्नित्यात्माङ्गीकारो व्यर्थ एव। अत्र भावना 'सर्वं क्षणिकं क्षणिकं, सर्वं शून्यं शून्यं, सर्वं स्वं लक्षणं स्वं लक्षणं, सर्वं दु:खं दु:खम्Ó इति भावना चतुष्टयमेव अस्त्रम्। इति अभिदधति कथयन्ति। अनेन भावनाचतुष्टयेन तादृशभीरुताया विनाश: स्वयमेव भवतीति नात्मनोऽङ्गीकार आवश्यक इत्यर्थ:।
अनुवाद - इस प्रकार परस्पर मतभेद होने पर भी नित्य आत्मा के विरोध में सभी बौद्ध सम्प्रदाय एक जुट हैं और यह कहते हैं कि 'जन्मों के समूह से उत्पन्न दु:ख से नित्य आत्मा का आश्रय लेकर यह भीरुता व्यर्थ है। इस भीरुता का अस्त्र तो 'सर्वं क्षणिकं क्षणिकम्Ó इत्यादि भावना चतुष्टय है। इस भावना से ही इस भीरुता का विनाश हो जाता है, अत: नित्य आत्मा को स्वीकार करने की कोई आवश्यकता नहीं है।
।। ४९।।
उपनमति निसर्गादेव दु:खं सुखं वा
भ्रमति समयचके्र दु:खता त्वत्र चिन्त्या।
भवति च तदुपेक्षा तेन न द्वेषरागा-
वभिनवसुखदु:खे रागरोषास्पदे हि।।
अन्वय: - समयचक्रे भ्रमति (सति) सुखं दु:खं वा निसर्गात् एव उपनमति। अत्र दु:खता तु चिन्त्या। तेन तदुपेक्षा च भवति। हि अभिनवसुखदु:खे द्वेषरागौ रागरोषास्पदे न (भवत:)।
गङ्गा - उपनमतीति- समयचक्रे कालचक्रे भ्रमति भ्रमणं कुर्वति सति सुखं दु:खं वा निसर्गात् स्वभावात् एव उपनमति प्राप्नोति, न तयो: पूर्वकर्मफलत्वम्। कालचक्रस्य भ्रमणेन कदाचित् सुखं कदाचिद् दु:खं वा स्वभवादेव प्राप्तं भवति। न सर्वदा सुखं न वा सर्वदा दु:खमेवेति भाव:। एतयो: सुखदु:खयो: दु:खता तु चिन्ता विचार्या। सा दु:खता एवाऽत्र विचारविषय इत्यर्थ:। सुखता सर्वेषामभीष्टत्वान्न विचारपथमधिरोहति। तेन हेतुना, कालचक्रस्य भ्रमणेनेत्यर्थ:। तदुपेक्षा तयो: सुखदु:खयो: उपेक्षा क्षणिकत्वात् तिरस्कारश्च भवति। हि, निश्चयेन अभिनवसुखदु:खे कालचक्रस्य भ्रमणात् प्राप्ते नवीने सुखदु:खे द्वेषरागौ दु:खेन द्वेष: सुखेन रागश्च रागरोषास्पदे अनुरागक्रोधयो: स्थाने न भवत:। समेषां अनुरागक्रोधयो: स्थाने न भवत:। अस्मन्मते समेषां क्षणिकत्वात् सुखदु:खयो: रागरोषास्पदता न भवति। प्राप्तं सुखं दु:खं च सर्वं क्षणिकमिति सुखेऽनुरागो दु:खे वा रोषो न जायत इत्यर्थ:।
अनुवाद - काल चक्र के भ्रमण से सुख और दु:ख स्वभाव से ही प्राप्त होते हैं। वे पूर्वकर्म के फल नहीं हंै। इस कालचक्र के भ्रमण से प्राप्त होने वाली दु:खता ही यहाँ विचारणीय है। इसी से सुख और दु:ख की उपेक्षा होती है। निश्चय ही सुख और दु:ख के क्षणिक होने से प्राप्त होने वाले नये सुख और दु:ख रूप राग और द्वेष, प्रेम और क्रोध के स्थान नहीं होते। क्षणिक होने से न तो सुख के प्रति हमारा अनुराग होता और न ही दु:ख से द्वेष ही होता।
।। ५०।।
सुखमिदमिति बुद्धौ तत्र रागोऽनिवार्यो
नवनिपतितदु:खं द्विष्यते नाऽनुवृत्तम्।
गणयति जनुषाऽन्धो नाऽपि वन्ध्या स्वदु:खं
रिपुगदहृतचक्षुर्नष्टपुत्रा समानम्।।
अन्वय: - तत्र इदं सुखम् इति बुद्धौ राग: अनिवार्य: (भवति)। अनुवृत्तं नवनिपतितदु:खं न द्विष्यते। जनुषा अन्ध: रिपुगदहृतचक्षु: (च) बन्ध्या नष्टपुत्रा (च) स्वदु:खं समानं न गणयति।
गङ्गा - पूर्वोक्तमेव स्पष्टयन्नाह- सुखमिति- तत्र आत्मनो नित्यत्वपक्षे इदमनुभूयमानं मोक्षादि सुखम् इति बुद्धौ ज्ञाने तत्र सुखविषये रागोऽनुरागोऽनिवार्यो भवति। सुखविषयस्य नित्यत्वात्तत्र रागस्यानिवार्यता न कथञ्चिद् वारयितुं शक्यत इत्यर्थ:। अस्मत्क्षणिकत्वपक्षे अनुवृत्तं क्षणिकत्वात् पुन: पुनरागतं नवनिपतितदु:खं प्राप्तमभिनवं दु:खं न द्विष्यते। यथा पूर्वक्षणानुभूतं दु:खं विनष्टं तथैवेदमपि विनश्यतीति धिया तत्र द्वेषो न उत्पद्यते। जनुषा जन्मना अन्ध: नेत्रहीन: रिपुगदहृतचक्षु: शत्रुरोगापहृतनेत्र: च, वन्ध्या पुत्रोत्पादनशक्तिहीना स्त्री नष्टपुत्रा नष्टो जनिं प्राप्य मृत: पुत्रो यस्या: सा स्त्री स्वदु:खं समानं स्वलक्षणत्वात् सदृशं न गणयति। अपितु दु:खस्य क्षणिकत्वात् सर्वेऽपि भिन्नं भिन्नं दु:खमनुभवन्तीति दु:खस्य क्षणिकत्वसिद्धि:। यद्वा 'रिपुगदहृतचक्षुर्नष्टपुत्रासमानम्Ó इत्येकं पदम्। रिपुगदहृतचक्षुश्च नष्टपुत्रा च ताभ्यां समानमिति विग्रह:। जनुषाऽन्ध: रिपुगदेन शत्रुरूपरोगेण हृतं चक्षुर्यस्य तेन रोगापहृतदृष्टिना समानं तुल्यं वन्ध्या च नष्टपुत्रया समानं स्वदु:खं न गणयति। अपि तु सर्वेषां दु:खं भिन्नं भिन्नं भवतीति भाव:।
अनुवाद - आत्मा के नित्यत्व पक्ष में 'यह सुख हैÓ इस ज्ञान में राग अनिवार्य है। सुखप्रद वस्तु के प्रति राग होना स्वाभाविक है। हम क्षणिकवादियों के मत में दु:ख पुन: पुन: अनुवृत्त होता है। बार बार आया हुआ नवीन दु:ख द्वेष का जनक नहीं होता। जन्म से अन्धा व्यक्ति तथा शत्रुरोग से नष्ट किये गये नेत्रों वाला व्यक्ति स्वलक्षणता के कारण समान दु:ख का अनुभव नहीं करते। इसी प्रकार वन्ध्या तथा मृतपुत्रा स्त्रियाँ भी अपने दु:ख को समान नहीं मानतीं। अथवा जन्मान्ध और वन्ध्या क्रमश: शत्रुरोग से नष्ट किये गये नेत्रों वाले व्यक्ति के समान तथा नष्टपुत्रा स्त्री के समान दु:ख का अनुभव नहीं करते। सभी पृथक् पृथक् दु:ख का अनुभव करते हैं। इस प्रकार दु:ख की क्षणिकता सिद्ध है।
।। ५१।।
इति कथितपथेनाऽनित्यतातत्त्वसिद्धौ
स्वकृतसुकृतपापोत्पादिते सौख्यदु:खे।
अनुभवति शरीरी नित्य इत्याग्रहं त्वं
त्यज भज सुखदु:खे तुल्यमेते ह्यलङ्घ्ये।।
अन्वय: - इति कथितपथेन अनित्यतातत्त्वसिद्धौ, त्वं 'नित्य: शरीरी स्वकृतसुकृतपापोत्पादिते सौख्यदु:खे अनुभवतिÓ इति आग्रहं त्यज। हि एते अलङ्घ्ये सुखदु:खे हि तुल्यं भज।
गङ्गा - इतीति- इति एवम्प्रकारेण कथितपथेन निर्दिष्टमार्गेण, मया प्रतिपादितेन सिद्धान्तेनेत्यर्थ:। अनित्यतातत्त्वसिद्धौ क्षणिकताख्यतत्त्वस्य सिद्धौ सत्यां त्वम् अलि: 'नित्य: त्रिकालाबाधितसत्ताक: शरीरी आत्मा स्वकृतसुकृतपापोत्पादिते निजकृताभ्यां पुण्यपापाभ्यां जनिं प्रापिते सौख्यदु:खे अनुभवतिÓ इति आग्रहं। नित्यात्मा निजकृतपापपुण्योत्पादिते दु:खं सुखं च अनुभवतीति पक्षो भवता अलिनाऽपि त्याज्य एव। वस्तुतो न तादृश: कश्चन नित्य: न वाऽस्ति तादृशं किञ्चित् सुखं दु:खं वेति। सर्वं स्वं लक्षणमेव। हि निश्चयेन एते अलङ्घ्ये सुखदु:खे तुल्यं भज सेवस्व। सुखं दु:खं चेत्युभयमपि क्षणिकमिति स्वीकुर्वित्यर्थ:।
अनुवाद - इस प्रकार मेरे द्वारा कहे गये मार्ग से अनित्यता (क्षणिकता) की सिद्धि हो जाती है। अत: हे भ्रमर! तुम भी 'नित्य आत्मा अपने द्वारा किये गये पाप और पुण्य द्वारा उत्पादित सुख और दु:ख का अनुभव करता हैÓ इस आग्रह को छोड़ो। अलंघ्य सुख और दु:ख को समान समझो। इनमें से कोई भी नित्य नहीं है। दोनों ही क्षणिक हैं।
।। ५२।।
वयमपि कृतकृत्या भावनामात्रतुल्यी-
कृतसकलपदार्था: सर्वदोपेक्षमाणा:।
क्षणवशसुखदु:खे भुञ्ज्महे पूजयामो-
ऽर्जितसुखजनकार्थैद्र्वादशाऽपीन्द्रियाणि।।
अन्वय: - सर्वदा उपेक्षमाणा: भावनामात्रतुल्यीकृतसकलपदार्था: कृतकृत्या: वयम् अपि क्षणवशसुखदु:खे भुञ्ज्महे। अर्जितसुखजनकार्थै: द्वादश अपि इन्द्रियाणि पूजयाम:।
गङ्गा- वयमपीति- सर्वदा सदैव उपेक्षमाणा: क्षणिकत्वात् उपेक्षाबुद्ध्या पदार्थान् पश्यन्त: भावनामात्रतुल्यीकृतसकलपदार्था: भावनामात्रेण सर्वं शून्यं शून्यं, सर्वं क्षणिकं क्षणिकं, सर्वं स्वं लक्षणं स्वं लक्षणं, सर्वं दु:खं दुखमिति भावनाचतुष्टयेन तुल्यीकृता: समत्वं नीता: सकला: पदार्था: यैस्ते कृतकृत्या: पदार्थानामनित्यत्वात् तेषु रागद्वेषरहिता वयं बौद्धा अपि क्षणवशसुखदु:खे क्षणिकं सुखं दु:खं च भुञ्ज्महे अनुभवाम:। आसक्तिरहिता वयं सुखदु:खेऽनुभवाम:। न तु त्वमिव नित्यतापाशबद्धा इत्यर्थ:। अर्जितसुखजनकार्थै: अर्जिता: भिक्षादिभि: प्राप्ता: ये सुखजनका अर्था: परार्थास्तै: द्वादशापीन्द्रियाणि बुद्धिमन:सहितानि ज्ञानकर्मेन्द्रियाणि पूजयामोऽर्चाम:। सर्वं संसारे क्षणिकमिति कृत्वा लोकात् प्राप्ता ये सुखजनकपदार्थास्तैरिन्द्रियतृप्तिं कुर्म:। न तु त्वमिव इन्द्रियनिग्रहेऽस्माकं रतिरित्यर्थ:।
अनुवाद - क्षणिक होने के कारण पदार्थों में सदैव हमारी उपेक्षा बुद्धि ही रहती है। हम 'सर्वं शून्यं शून्यम्Ó इत्यादि चारों भावनाओं से समस्त पदार्थों को समान (क्षणिक) ही मानते हैं और उस क्षणिक सुख दु:ख का भोग करते हैं। उसी से कृतकृत्य होकर हम भिक्षा आदि से प्राप्त सुखजनक पदार्थों से बारहों इन्द्रियों (पाँच ज्ञानेन्द्रिय, पाँच कर्मेन्द्रिय तथा बुद्धि और मन) को तृप्त करते हैं। तुझ अलि के समान इन्द्रियनिग्रह में हमारी रुचि नहीं है।
।। ५३।।
फ लमपि च परोक्षैर्दैवते: पूजितै: किं
फ लति सुखमनल्पं स्वेन्द्रियाणां सपर्या।
चितिरपि तदधीना तेन चैतन्यमेषां
बहुभिरत उपायैस्तर्पणीयान्यमूनि।।
अन्वय: - पूजितै: परोक्षै: दैवतै: च फलम् अपि किम्? स्वेन्द्रियाणां सपर्या अनल्पं सुखं फलति। चिति: अपि तदधीना (भवति)। तेन एषां चैतन्यम्। अत: बहुभि: उपायै: अमूनि तर्पणीयानि।
गङ्गा - फलमपीति- पूजितै: हविष्यादिभि: यज्ञे तर्पितै: परोक्षैरप्रत्यक्षै: दैवतै: इन्द्रादिभिर्देवै: फलमपि किम्? किं प्रयोजनम्? न किमपीत्यर्थ:। स्वेन्द्रियाणां मनोबुद्ध्यादिज्ञानकर्मेन्द्रियाणां सपर्या पूजा अनल्पं बहु सुखं फलति यच्छति। देवपूजया किमपि फलं न लभ्यते किन्तु इन्द्रियपूजया महानानन्दो लभ्यत इत्यर्थ:। चिति: आत्मा, चैतन्यमिति यावत्। तदधीना इन्द्रियाधीना भवति। तेन हेतुना एषामिन्द्रियाणां चैतन्यम्। इन्द्रियाण्यपि चेतनानि भवन्तीति। अतो बहुभि: उपायै: भोगपदार्थप्रदानै: अमूनीन्द्रियाणि तर्पणीयानि पूजनीयानि। न तु देवता इत्यर्थ:।
अनुवाद - पूजे गये परोक्ष देवताओं से कोई फल नहीं मिलता। अपने इन्द्रियों की पूजा अत्यधिक सुख देती है। आत्मा भी इन्द्रियों के अधीन है, अत: इन्द्रिय भी चैतन्य हैं। इसलिए अनेक उपायों से इन इन्द्रियों की पूजा करनी चाहिए। देवताओं की पूजा का कोई औचित्य नहीं है।
।। ५४।।
अलमखिलरहस्यख्यापनेनाऽन्तरायो
भवति हि सुखभोगे तेन तद् याहि दूरम्।
अभिलषसि सुखं चेत्सेवमान: सदाऽस्मान्
वस मठ इह सौख्यं भोक्ष्यसे मोक्ष्यसे च।।
अन्वय: - अखिलरहस्यख्यापनेन अलम्। तेन सुखभोगे हि अन्तरायो भवति। तत् दूरं याहि। अस्मान् सेवमान: सुखम् अभिलषसि चेत्, सदा मठे वस। इह सौख्यं भोक्ष्यसे मोक्ष्यसे च।
गङ्गा - अलमिति- अखिलरहस्यख्यापनेन समग्रशास्त्रतत्त्वप्रतिपादनेन अलं पर्याप्तम्। अत्रोक्तसारमात्रेण तव सिद्धान्तस्य बोधात् न शास्त्रविस्तरोऽपेक्ष्यत इति भाव:। तेन तादृशोपनिषदादितत्त्वख्यापनेन सुखभोगे इन्द्रियसपर्यायाम् अन्तरायो विघ्न: भवति। तत्रेन्द्रियसुखस्य निन्दितत्वात्। 'विघ्नोऽन्तराय: प्रत्यूह:Ó इत्यमर:। तत् तस्मात् तादृशोपनिषत्तत्त्वख्यापनात् दूरं याहि गच्छ। अस्मान् क्षणिकोपासकान् इन्द्रियसपर्यासंलग्नान् सेवमान: भजमान: त्वमलि: सुखम् अभिलषसि वाञ्छसि चेत्, सदा अस्माभि: साकं मठे वस। इह मठे सौख्यं सुखं भोक्ष्यसे इन्द्रियसुखं प्राप्स्यसे मोक्ष्यसे च मुक्तिश्च लप्स्यसे।
अनुवाद - उपनिषद् आदि के रहस्यों की व्याख्या बन्द करो। तुम्हारी इस व्याख्या से सुख भोग में विघ्न होता है। क्योंकि इन उपनिषदों में इन्द्रिय सुख निन्दित है। इसलिए इस व्याख्या से दूर हटो। हमारे साथ यदि सुख का भोग करना चाहते हो तो सदैव मठ में रहो। यहाँ सुख का भोग भी प्राप्त करोगे और तुम्हें मुक्ति भी मिल जायेगी।
।। ५५।।
इति वदति विलासिन्यस्य शिष्या भुजिष्या
जहृषुरथ विशिष्याऽघोषयन् भृङ्गभृङ्गम्।
अलिरपि धृतधैर्य: स्थैर्यसिद्ध्याऽस्य वार्यो
भ्रम इति सुविचार्याचार्यकार्येऽयतिष्ट।।
अन्वय: - इति विलासिनि वदति (सति) अस्य शिष्या: भुजिष्या: जहृषु:। अथ विशिष्य भृङ्गभङ्गम् अघोषयन्। धृतधैर्य: अलि: अपि 'स्थैर्यसिद्ध्या अस्य भ्रम: वार्य:Ó इति सुविचार्य आचार्यकार्ये अयतिष्ट।
गङ्गा - इति वदतीति- इति पूर्वोक्तप्रकारेण विलासिनि धृतबौद्धरूपेण पूर्वपक्षिणि वदति कथयति सति तस्य बौद्धरूपस्य विलासिन: शिष्या भुजिष्या: भोगसाधनभूता: चीरभिक्षादिरक्षामिषेण प्राप्ता: दास्य:। जहृषु: प्रसन्ना बभूवु:। अथ च विशिष्य सविशेषं भृङ्गभङ्गं भृङ्गस्य सिद्धान्तपक्षिण: परमहंसस्य अले: भङ्गं पराजयम्। 'भङ्गस्तरङ्गे भेदे च रुग्विशेषे पराजयेÓ इति हैम:। अघोषयन् निरधारयन्। धृतधैर्य: विलासिवच:कशाघातेनाऽपि स्वसिद्धान्ते स्थिर: अलि: अपि स्थैर्यसिद्ध्या नित्यतास्थापनेन अस्य विलासिनो भ्रमो वार्य: दूरीकरणीय: इति सुविचार्य आचार्यकार्ये भ्रान्तिनिवारणे अयतिष्ट यत्नमकरोत्। तस्य क्षणिकत्वखण्डने प्रवृत्तोऽभूदित्यर्थ:।
अनुवाद - विलासी के द्वारा ऐसा कहे जाने पर इस विलासी की दासी शिष्याएं प्रसन्न हो गयीं। उन्होंने विशेष रूप से अलि के पराजय की घोषणा कर दिया। धैर्य धारण करते हुए अलि ने भी 'नित्यता की सिद्धि से इस विलासी का भ्रम दूर करना चाहिएÓ ऐसा विचार करके आचार्य की तरह उसके भ्रान्ति निवारण में लग गया।
(बौद्धमतनिराक्रिया)
।। ५६।।
विरम जड विलज्ज व्याहतोक्तिप्रपञ्चात्
पतसि कुमतमार्गे पातयस्येवमन्यान्।
स्फु टतरमनुभूयाऽत्रानुपन्यस्य बाधं
कथमपलपसि त्वं मानमेयव्यवस्थाम्?।।
अन्वय: - हे जड! विलज्ज! विरम। व्याहतोक्तिप्रपञ्चात्। कुमतमार्गे पतसि। एवम् अन्यान् पातयसि। स्फुटतरम् अनुभूय अत्र बाधम् अनुपन्यस्य त्वं मानमेयव्यवस्थां कथम् अपलपसि।
गङ्गा - विरमेति- हे जड़! विलज्ज! लज्जारहित! मूर्ख विलासिन्! विरम, विरामं स्वीकुरु। मौनं भजेत्यर्थ:। व्याहतोक्तिप्रपञ्चात् निष्फलोक्तीनां विस्तरात्। कुमतमार्गे कुत्सितबुद्धीनां सिद्धान्ते पतसि। एवमेतादृशसिद्धान्तेन अन्यान् च पातयसि। स्फुटतरं स्पष्टतरम् अनुभूय विचार्य अत्र स्वकथने बाधं प्रतिबन्धकम् अनुपन्यस्य अनिर्दिश्य त्वं मानमेयव्यवस्थां प्रमाणप्रमेयसिद्धान्तं कथमपलपसि निन्दसि मानमेयव्यवस्थाया अपलापाय बाधनिर्देशोऽपेक्ष्यत इत्यर्थ:।
अनुवाद - हे मूर्ख! रुको। अपनी निष्फलयुक्तियों के विस्तार से लज्जा करो। तुम खुद कुमतमार्ग में पड़ रहे हो तथा दूसरों को भी उसी में गिरा रहे हो। स्पष्ट अनुभव करके भी तुम यहाँ प्रतिबन्धक का निर्देश नही कर रहे। फिर प्रमाण और प्रमेय व्यवस्था का अपलाप कैसे कर रहे हो? प्रमाण और प्रमेय विषयक सिद्धान्तों का अपलाप करने के लिए पहले उनका बाध दिखाना आवश्यक होता है।
।। ५७।।
कथमिव न विभेषि प्रस्फु टाध्यक्षबाधा-
दनुमितिरपि न स्याच्छून्यतैकान्तवादे।
अनिपुण! भण शून्यं शून्यवच्छून्यवत्त्वा-
दिति किमनुमिति: स्याद्धेतुसाध्याश्रयैक्ये?।।
अन्प्वय: - प्रस्फुटाध्यक्षबाधात् कथम् इव न बिभेषि। शून्यतैकान्तवादे अनुमिति: अपि न स्यात्। हे अनिपुण! 'शून्यं शून्यवत् शून्यवत्वात्Ó इति अनुमिति: हेतुसाध्याश्रयैक्ये स्यात् किम्? (इति) भण।
गङ्गा - अनिपुणेति- प्रस्फुटाध्यक्षबाधात् सविकल्पकप्रत्यक्षप्रमाणस्य अस्वीकृते: कथमिव न बिभेषि, भयमनुभवसि। शून्यवादे सर्वं शून्यमेव स्वीकृतं तन्मते न किमपि वस्तु प्रत्यक्षम्। अत: शून्यतैकान्तवादे प्रत्यक्षाभावे अनुमिति: अपि न स्यात्। महानसादौ प्रत्यक्षप्रमाणेन साहचर्यसम्बन्धं ज्ञात्वा प्रमाताऽनुमितौ प्रभवति। हे अनिपुण! मूर्खविलासिन्! 'शून्यं शून्यवत् शून्यवत्वात्Ó इति अनुमिति: हेतुसाध्याश्रयैक्ये स्यात् किम्? इति भण कथय। 'पर्वतो वह्निमान् धूमवत्वात्Ó इत्यत्र पर्वत: पक्ष: वह्नि: साध्य: धूमवत्वं च हेतु:। तव मते पुन: शून्यमेव पक्ष: तदेव साध्यं हेतुश्च। अत: हेतुसाध्याश्रयैक्ये हेतो: साध्यस्य आश्रयस्य पक्षस्य च ऐक्ये अनुमिति: कथं स्यादिति वदेति प्रश्न:। पर्वते वह्न्यनुमितौ भवन्ति पक्षादयो सर्वेऽपि भिन्ना: किन्तु शून्यवादिनस्तव मते सर्वमेव शून्यमिति कथं तत्रानुमितिव्यवस्था स्यादिति भाव:।
अनुवाद - तुम सविकल्पक प्रत्यक्ष की अस्वीकृति से क्यों नहीं डरते। शून्यवाद में प्रत्यक्ष के अस्वीकृत होने से अनुमिति भी कैसे होगी। हे अनिपुण विलासिन्! 'शून्यं शून्यवत् शून्यवत्वात्Ó (शून्य पर शून्य है क्योंकि उसमें शून्यवत्व है) यह अनुमिति कैसे होगी, यह बताओ। यहाँ तो हेतु, साध्य और आश्रय एक हैं।
टिप्पणी - शून्यवादी के मत में कुछ भी प्रत्यक्ष नहीं है। वह सब कुछ शून्य ही मानता है। प्रत्यक्ष के अभाव में अनुमिति हो नहीं सकती। प्रमाता प्रथमत: महानस में अग्नि और धूम के साहचर्य का प्रत्यक्ष करता है तभी पर्वत में धूम देखकर वह अग्नि का अनुमान करता है। शून्यवाद में जब कुछ भी प्रत्यक्ष नहीं है तो प्रत्यक्ष के आश्रय से प्रसृत होने वाला अनुमान कैसे होगा।
दूसरा पर्वत में वह्नि के अनुमान स्थल में पक्ष, हेतु और साध्य तीनों ही अलग अलग होते हैं। 'पर्वतो वह्निमान् धूमात्Ó में इन तीनों का एैक्य नहीं है। किन्तु शून्यवाद पक्ष, साध्य और हेतु तीनों के शून्यरूप होने से अनुमिति कैसे हो सकेगी। शून्य पर शून्य है क्योंकि उस पर शून्यवत्व है। इस ज्ञान में पक्ष, साध्य और हेतु तीनों ही एक हैं। ऐसे में अनुमान की व्यवस्था असम्भव है। यही अलि का अभिप्राय है। 'वह्नि: वह्निमान् वह्निमत्वात्Ó जैसा अनुमान तो कभी होता नहीं।
।। ५८।।
न समसमयसत्ता वेद्यवित्त्योर्यतोऽर्थो-
ऽर्पयति मितिषु रूपं स्वं तत: पूर्वभावी।
जनकफ लगपौर्वापर्यमर्यादयैवा-
ऽऽश्रयति जगति सर्वो हेतुतां कार्यतां च।।
अन्वय: - वेद्यवित्त्यो: समसमयसत्ता न (भवति)। यत: तत: पूर्वभावी अर्थ: मितिषु स्वं रूपम् अर्पयति। जनकफलगपौर्वापर्यमर्यादया एव जगति सर्व: हेतुतां कार्यतां च आश्रयति।
गङ्गा - न समेति- वेद्यवित्त्यो: ज्ञेयज्ञानयो: समसमयसत्ता तुल्यकालस्थिति: न भवति। तत्कृते इन्द्रियार्थसन्निकर्षोऽपेक्ष्यते। भवन्मते सर्वं क्षणिकमिति कृत्वा तत्र वेद्यवित्त्यो: व्यवस्था न भवितुमर्हति। वेद्य: घटादिपदार्थ: वित्तिश्च तज्ज्ञानं तस्मिन्नेव क्षणे न भवितुमर्हति। यत: यस्मात् तत: वित्ते: पूर्वभावी अर्थ: घटादिपदार्थ: मितिषु ज्ञानेषु प्रत्यक्षादिषु स्वं रूपमर्पयति। पूर्वोपस्थितघटादिपदार्थ: ज्ञाने स्वं रूपमर्पयति। अनन्तरं स एव ज्ञाने भासते। अतो न वस्तुन: क्षणिकत्वनियमेन तादृशी व्यवस्था भवितुमर्हति। तथात्वे तस्मिन्नेव क्षणे वस्तुनो विनाशात् तज्ज्ञानाभावादित्यर्थ:। जनकफलगपौर्वापर्यमर्यादया, जनक: कारणं फलं कार्यं चेति जनकफले। जनकफले गच्छतीति जनकफलगा। द्वन्द्वान्ते श्रूयमाणस्य प्रत्येकमभिसम्बन्धनियमात् गम्धातोरुभयत्रान्वय:। कारणगता कार्यगता च या पौर्वापर्यमर्यादा पूर्वोत्तरभाविसीमा तया एव जगति सर्व: हेतुतां कारणतां कार्यतां फलतां च आश्रयति। आश्रयत्वेन अङ्गीकरोतीत्यर्थ:। कारणनिष्ठं यत् पूर्वत्वं कार्यनिष्ठं च यत् परत्वं तेनैव कारणत्व-कार्यत्वयो: निर्णयो जायते। अत एव कार्यनियतपूर्ववर्तित्वं कारणत्वं कारणनियतपश्चाद्भावित्वं च कार्यत्वमिति हेतु फलयोर्लक्षणं फलति। त्वन्मते नैतादृशी वेद्यवित्त्यो: व्यवस्था भवितुमर्हतीत्यर्थ:।
अनुवाद - ज्ञेय और ज्ञान की तुल्यकास्थिति नहीं हो सकती। अर्थात् ज्ञेय घट आदि पदार्थ और उनका ज्ञान दोनो एक ही क्षण में नहीं हो सकते। क्योंकि पूर्वभावी पदार्थ ही प्रत्यक्ष, अनुमान आदि ज्ञानों में अपने स्वरूप को अर्पित करता है। कारण और कार्यनिष्ठ पौर्वापर्य की मर्यादा से ही संसार में सब हेतुता और कार्यता का आश्रयण करते हैं। अत: ज्ञान से पूर्व वस्तु की सत्ता अपेक्षित है, तभी इन्द्रियार्थसन्निकर्ष आदि से प्रत्यक्ष आदि ज्ञान उत्पन्न होंगे। किन्तु तुम्हारे क्षणिकत्ववाद में वैसी व्यवस्था बन नहीं सकती।
।। ५९।।
गमयति मितिकादाचित्कता हेतुमन्यं
क्वचिदपि मनुषे त्वं न क्षणद्वन्द्वयोगम्।
स्वयमुदयति चित्रा ज्ञप्तिरित्यप्यसारं
किमिति सति तथात्वे वासनाभ्युपैषि?।।
अन्वय: - मितिकादाचित्कता अन्यं हेतुं गमयति। त्वं क्वचिदपि क्षणद्वन्द्वयोगं न मनुषे। चित्रा ज्ञप्ति: स्वयम् उदयति इति अपि असारम्। तथात्वे सति वासनां किमिति अभ्युपैषि?।
गङ्गा - गमयतीति- मितिकादाचित्कता मिते: ज्ञानस्य कादाचित्कता आकस्मिकता अन्यं ज्ञेयं विषयं वा हेतुं गमयति। मिति: सततं न भवति कदाचिदेव जायते। अत इयं हेतुजन्येति ज्ञायते। त्वं च बौद्धरूपो विलासी क्वचिदपि क्षणद्वन्द्वयोगं द्वयो: क्षणयो: संयोगं क्षणद्वयसम्बन्धं वा न मनुषे न स्वीकरोषि। चित्रा विचित्रा: उत्पत्तिक्षणावच्छेदेनैव ज्ञानान्तरोत्पादशालिनी विषयगतनावाकारवती ज्ञप्ति: ज्ञानं स्वयं कारणं विनैव उदयति इत्यपि असारं साररहितं वच:। तथा सति सर्वदैव मितिप्रसङ्ग: स्यादित्यर्थ:। यदि नाम भवान् मितीनां स्वयमेव जनिं स्वीकरोति तथात्वे वासनां वस्तुन: पूर्वसंस्कारं किमित्यभ्युपैषि किमिति स्वीकरोषि वासनासिद्धान्तोऽयं व्याख्यात: सर्वदर्शनसङ्ग्रहे-
'वासना नाम एकसन्तानवर्तिनामालयविज्ञानानां तत्तत्प्रवृत्तिजननशक्ति:। तस्याश्च स्वकार्योत्पादं प्रति आभिमुख्यं परिपाक:। तस्य च प्रत्यय: कारणं स्वसन्तानवर्तिपूर्वक्षण: कक्षीक्रियते सन्तानान्तरनिबन्धनत्वानङ्गीकारात्Ó।
विज्ञानवादिनो बौद्धा आलयविज्ञानमाश्रित्य पूर्वपूर्ववस्तुज्ञानं स्वीकुर्वन्ति। लङ्कावतारसूत्रे तदिदमालयविज्ञानं व्याख्यातम्-
तरङ्गो उदधेर्यद्वत्पवनप्रत्ययप्रेरिता:।
नृत्यमाना: प्रवर्तन्ते व्युच्छेदश्च न वर्तते।।
आलयौघस्तथा नित्यं विषयपवनेरित:।
चित्रैस्तरङ्गविज्ञानै: नृत्यमान: प्रवर्तते।।
यथा समुद्रे पवनेरितास्तरङ्गा उत्पद्यन्ते तथैव समुद्ररूपे आलयविज्ञाने बाह्यविषयप्रेरिताश्चित्रा विज्ञानतरङ्गा उत्पद्यन्त इति भाव:। आलयौद्योऽयं धर्मबीजानामाश्रयत्वाद् वासनारूपो भवतीति बौद्धैरस्याश्रयेण ज्ञानसन्तानं प्रमाणयन्ति।
अनुवाद - ज्ञान की आकस्मिकता अन्य (ज्ञेय या विषय) हेतु का बोध कराती है। आशय यह है कि ज्ञान सर्वदा नहीं होता, वह आकस्मिक होता है। इससे यह सिद्ध है कि उसका कोई हेतु है। तुझ बौद्धरूप विलासी को दो क्षणों का सम्बन्ध अभिमत नहीं है। अत: ज्ञेय और ज्ञान में कार्यकारण भाव बन नहीं सकता। यदि कहो कि उत्पत्तिक्षण में ही दूसरे ज्ञान को उत्पन्न करने वाली विषयगत नाना आकारों से युक्त विचित्र ज्ञप्ति स्वयं उदित होती है तो यह भी निष्कर्षहीन ही है। ऐसा होने पर तुम वासना को क्यों स्वीकार करते हो?
टिप्पणी - विज्ञानवादी बौद्ध बाह्यार्थ को शून्य मानते हैं। उनके अनुसार सन्तानपरम्परा में विद्यमान आलयविज्ञान ही अपने से सम्बद्ध प्रवृत्तिविज्ञानों को उत्पन्न करता है। पूर्वक्षण की वासना ही उत्तरक्षण की वासना के परिपाक का कारण होती है। प्रकृत में कवि का आरोप है कि बाह्यवस्तु की सत्ता न मान कर तुम क्षणगत वासना क्यों स्वीकार करते हो। क्षणद्वय के संयोग के अभाव में ज्ञेय विषय और ज्ञान में कार्यकारण सम्बन्ध न बन पाने के कारण ही तुम्हें वासना स्वीकार करनी पड़ती है।
।। ६०।।
भवति किमपि न व्यापारशून्येन कार्यं
न कलशजनिरिष्टाऽव्यापृतारण्यदण्डात्।
क्षणविलयिनि हेतौ व्यापृति: क्वाऽस्तु? तस्मात्
क्षणयुगपरिरम्भो वस्तुनो निर्विवाद:।।
अन्वय: - व्यापारशून्येन किमपि कार्यं न भवति। अव्यापृतारण्यदण्डात् कलशजनि: न इष्टा। क्षणविलयिनि हेतौ व्यापृति: क्व अस्तु। तस्मात् वस्तुन: क्षणयुगपरिरम्भ: निर्विवाद: अस्ति।
गङ्गा - भवतीति- व्यापारशून्येन व्यापाररहितेन कारणेन कार्यं न भवति, कार्यं नोत्पद्यते। अव्यापृतारण्यदण्डात् कलशजनौ अव्यापृतो व्यापाररहितो योऽरण्यदण्ड: वने स्थितो दण्ड: तत्र कारणतायां सत्यामपि व्यापाररहितत्वात् कलशजनि: न इष्टा घटोत्पत्तिर्नभवति। कारणत्वे सति व्यापारवत्वेनैव कार्यमुत्पद्यत इत्यर्थ:। अरण्यदण्डे सत्यपि कारणत्वे भ्रम्यादिव्यापारशून्यतया कलशो न उत्पद्यत इति भाव:। भवतो बौद्धरूपस्य विलासिन: क्षणविलयिनि हेतौ क्षणेनैव विलीयमाने क्षणविनाशिनि हेतौ व्यापृति: क्वाऽस्तु? न क्वापीत्यर्थ:। यतो हि व्यापारार्थं वस्तुन: क्षणयुगपरिरम्भ: क्षणद्वयसम्बन्ध: निर्विवाद:, अवश्यमेवाऽपेक्ष्यते। क्षणमात्रविनाशिनि व्यापारवत्ता न उत्पद्यते।
अनुवाद - व्यापाररहित कारण से किसी कार्य की उत्पत्ति नहीं हो सकती। भ्रमि आदि व्यापार से रहित अरण्यदण्ड से कारणता होने पर भी कलश की उत्पत्ति नहीं होती। क्षणमात्र में नष्ट होने वाले कारण में व्यापार कैसे हो सकता है। इसलिए वस्तु का क्षणद्वयसम्बन्ध निर्विवाद है।
।। ६१।।
कथमिव भवदिष्टं नि:स्वरूपञ्च शून्यं
प्रभवति चिति चित्राकारभारार्पणाय?।
तदपि तव न नित्यं तेन वाच्योऽस्य हेतु-
र्नियतमुपगतेऽस्मिन् दुर्निवाराऽनवस्था।।
अन्वय: - भवदिष्टं नि:स्वरूपं च शून्यं चिति चित्राकारभारार्पणाय कथम् इव प्रभवति? तव तत् नित्यम् अपि न (अस्ति)। तेन अस्य नियतं हेतु: वाच्य:। अस्मिन् उपगते अनवस्था दुर्निवारा (अस्ति)।
गङ्गा - कथमिवेति- भवदिष्टं बौद्धरूपविलासिनोऽभिमतं नि:स्वरूपं शून्यस्वभावत्वात् स्वरूपरहितं शून्यं चिति चैतन्ये चित्ते वा चित्राकारभारार्पणाय वित्तीनामनेकाकारताया भारस्य समर्पणाय कथमिव प्रभवति। न कथमपीत्यर्थ:। शून्यस्य चाक्षुषत्वाभावान्न तस्य तादृशभारार्पणे सामथ्र्यम्। चाक्षुषस्यैव प्रतिबिम्बं भवति न नि:स्वरूपस्येत्यर्थ:। तव तत् शून्यं नित्यमपि नास्ति क्षणिकस्वभावत्वात्। शून्यमपि क्षणिकं तत् चित्राकारभारार्पणे कथं प्रभवेदिति तात्पर्यम्। तेन हेतुना अस्य चित्राकारभारार्पणस्य नियतं हेतु: वाच्य: निर्धारणीय:। अस्मिन् नियतहेतावुपगते अनवस्था हेतो: पुनर्हेतुनिर्धारणरूपा दुव्र्यवस्था दुर्निवारा स्यात्। एकस्य हेतो: निर्धारणे पुनर्निर्धारितहेतोरपि हेतुनिर्धारणरूपाऽनवस्था तत्र आपतेदिति भाव:।
अनुवाद - आपको इष्ट शून्य नि:स्वरूप है, अत: वह चित्त में अनेक आकार प्रकार वाली वस्तुओं के भार को कैसे समर्पित कर सकेगा। तुम्हारा वह शून्य नित्य भी नहीं है। शून्य होकर भी वह क्षणिक है। नि:स्वरूप क्षणिक उस शून्य का तो कथमपि कोई प्रतिबिम्ब हो नहीं सकता। अत: तुम्हें विचित्र वित्तियों का कोई नियत हेतु निर्धारित करना पड़ेगा। इस एक हेतु के निर्धारण से तुम्हारे सिद्धान्त में दुर्निवार्य अनवस्था का प्रसंग आ जायेगा क्योंकि इस हेतु के लिए भी हेत्वन्तर की आवश्यकता होगी। इसी प्रकार आगे के हेतु भी अपने हेतु की अपेक्षा करेंगे।
।। ६२।।
अथ तव यदि शून्यं नित्यमेकं स्वकार्यं
जनयति वत सर्वं स्यात्सदैवाऽविशेषात्।
अपरमपि च तेनाऽपेक्ष्यते चेत्तदेव
प्रभवतु न तु शून्यं किञ्च सिद्धान्तहानि:।।
अन्वय: - अथ यदि तव एकं शून्यं नित्यं स्वकार्यं जनयति। वत सर्वम् अविशेषात् सदा एव स्यात्। तेन अपरम् अपि अपेक्ष्यते चेत्, तदेव प्रभवतु, न तु शून्यम्। किञ्च (तेन) सिद्धान्तहानि: (अपि स्यात्)।
गङ्गा - अथ तवेति- अथेति पक्षान्तरे। यदि नाम तव विलासिन: एकं हेत्वन्तरानपेक्षं सत् शून्यमेव नित्यं सर्वदा स्वकार्यं जनयति। समेषां कारणं शून्यमेव स्वीकरोषि चेत्, वत इति खेदे। तदा अविशेषात् विशेषरहितत्वात् सर्वं कार्यं सदा एव स्यात्, सर्वदैव सर्वकार्योत्पत्तिप्रसङ्ग: स्यात्। कारणभेदादेव कार्यभेदोऽवधार्यते। घटपटादौ मृदादिकारणभेदादेव भेदप्रतीतिर्भवति। तव मते शून्यमात्रस्य कारणतया सर्वस्मिन् कार्ये भेदराहित्यं स्यात्। अथ च सर्वदैव तदुत्पत्तिप्रसङ्ग आपद्येत। तेन शून्येन अपरमपि अपेक्ष्यते, हेत्वन्तरोऽपेक्ष्यते चेत्, तदेव तद्धेत्वन्तरमेव कार्ये प्रभवतु, न तु शून्यम्। तस्याऽभाव रूपत्वात्। किञ्च तेन अपरहेतुना सिद्धान्तहानि: अपि, त्वया सर्वं शून्यमेव स्वीकृतमिति तद्व्यतिरिक्तं शून्यभिन्नं किं स्यादिति हेत्वन्तरापेक्षया ते सिद्धान्तहानि:। अपरस्मिन्नपेक्ष्यमाणेऽनभिमतस्य शून्यत्वाभावस्य प्रसक्ति: स्यादितिभाव:।
अनुवाद - यदि तुझ विलासी का यह शून्य नित्य अकेले ही अपने कार्य को उत्पन्न करता है तब तो कोई विशेष (भेद) न होने के कारण सब कुछ सदा ही उत्पन्न होता रहेगा। कारण भेद से कार्य भेद माना जाता है। यहाँ तो एक शून्य ही सब का कारण है, अत: सभी वस्तुएं हमेशा उत्पन्न होनी चाहिए। उनकी उत्पत्ति में विराम नहीं होना चाहिए। यदि यह शून्य किसी दूसरे हेतु की अपेक्षा करता है, तब तो वह दूसरा हेतु ही कार्योत्पत्ति में समर्थ होगा, शून्य नहीं। सब कुछ शून्य मान लेने के बाद दूसरे हेतु की कल्पना करने से तुम्हारे सिद्धान्त की हानि होगी। जब सब कुछ शून्य है तो यह दूसरा हेतु कहाँ से आयेगा?
।। ६३।।
अयि! विषयसमूहालम्बनैकस्ववित्त्या
सह यदि विषयाणां मूढ! वाञ्छस्यभेदम्।
घटपटसुखदु:खाऽभावभावैक्यमद्धा
प्रसजति तदभिन्नाभिन्नतद्भेदबाधात्।।
अन्वय: - अयि! मूढ! विषयसमूहालम्बनैकस्ववित्त्या सह यदि विषयाणाम् अभेदं वाञ्छसि, अद्धा तदभिन्नाभिन्नतद्भेदबाधात् घटपटसुखदु:खाऽभावैक्यं प्रसजति।
गङ्गा - अयीति- अयि! मूढ! विलासिन्! विषयसमूहालम्बनैकस्ववित्त्या विषयाणां ज्ञेयपदार्थानां समूहालम्बनरूपा सहोपलम्भरूपा या वित्ति: ज्ञानं तया विज्ञप्त्या। बौद्धा: ज्ञेयज्ञानयोरभेदं प्रतिपादयन्तीति तन्मते नीलतद्धियो: समूहालम्बनत्वमेव फलति। तादृश्या विज्ञप्त्या सह यदि विषयाणां पदार्थानाम् अभेदं वाञ्छसि इच्छसि। पदार्थानां क्षणिकत्वात् तेषां बाह्यसत्तां निराकृत्य वित्तावभेदं निरूयसि चेत्, अद्धा निश्चयेन तदभिन्नाभिन्नतद्भेदबाधात् तस्या वित्ते: अभिन्नो य:घटस्तेन तदभिन्नस्य पटस्यापि तद्भेदबाधात्, घटपटयो: सत्यपि भेदे वित्तिरूपत्वादभेद इति तेषां भेदस्य अपोहस्य बाधात् समेषां पदार्थानामैक्यं स्यात्। घटपटसुखदु:खाऽभावभावैक्यं, घटश्च पटश्च सुखं च दु:खं च अभावश्च भावश्चेति समेषामैक्यमभिन्नता प्रसजति प्रसक्ता भवति। अयमत्राभिप्राय:- बौद्धमते वित्ति: समूहालम्बनरूपा भवति। तादृश्या वित्त्या तत्र विषयाणामभेद: कल्प्यते। वित्ते: समूहालम्बनतया घटपटादय: सर्वेऽपि पदार्थास्तत्र सहैव भासेरन्। तेन तेषां समेषामपि बाह्यसत्ताभाववतां बुद्धिमात्ररूपाणामेकत्वप्रसङ्ग:। तदभिन्नाभिन्नत्वेन तद्भिन्नभिन्नत्वरूपापोहस्वरूपपदार्थभेदस्य तत्र बाधादित्यर्थ:। ज्ञेयज्ञानयोरेकत्वात्तत्र पदार्थानामैक्यात् तद्भिन्नभिन्नत्वरूपापोहस्यापि वैयथ्र्यम्। एतेन बौद्धाभिमतचित्राद्वैतप्रसङ्गोऽपि निराकृत इति ध्येयम्।
अनुवाद - हे मूर्ख विलासिन्! विषयों की समूहालम्बनरूप वित्ति से तुम यदि विषयों का अभेद निरूपित करते हो तब तो निश्चय ही विषय (घट) उस वित्ति से अभिन्न होगा और उसी वित्ति में एक साथ भासित होने वाले घट, पट, सुख, दु:ख, अभाव और भाव का भेद (अपोह) बाधित हो जाने से उनमें एकता (अभेद) का प्रसंग आ जाएगा। वहाँ तद्भिन्नभिन्नत्वरूप अपोह भेद करने में समर्थ नहीं होगा क्योंकि वित्ति और विषय एक रूप ही होंगे।
टिप्पणी - बौद्ध नैयायिक, मुख्यत: विज्ञानवादी पदार्थ की बाह्यसत्ता स्वीकार नहीं करते। उनके मत में समस्त पदार्थ वित्ति में ही भासित होते हैं। उनके अनुसार वित्ति और पदार्थ अभिन्न हैं। इस व्यवस्था से उनकी वित्ति समूहालम्बनात्मक मानी जाती है। इसका खण्डन करते हुए कवि का कथन है कि यदि वित्ति को समूहालम्बन माना गया और ज्ञेय तथा ज्ञान (घट और घटबुद्धि) को अभिन्न मान लिया गया तो उसी बुद्धि में भासित होने वाले घट, पट, सुख, दु:ख, भाव और अभाव जैसे भिन्न पदार्थ एक हो जाएंगे। क्योंकि वेद्य और वित्ति में ऐक्य स्वीकृत होने के कारण उनका भेद स्वयं बाधित हो जायेगा। अत: तद्भिन्नभिन्नत्व रूप तुम्हारा अपोह इस भेद को सिद्ध नहीं कर सकेगा और वहाँ 'तदभिन्नाभिन्नताÓ की उत्पत्ति आ जाएगी। तत् = वित्ति से अभिन्न जो घट, उस घट से अभिन्न होने के कारण पट आदि सभी एक रूप हो जाएंगे। अत: पदार्थों को वित्तिरूप मानना उचित नहीं।
।। ६४।।
क्षमत इदमपोहो नि:स्वरूपो न भेत्तुं
यदि तमपि न भाव: कोऽपि भिन्द्यात्परस्मात्।
उपगत इह सोऽस्तु व्यक्तिवित्त्योर्विभेत्ता
परिहर बकबन्धायाससाम्यादपोहम्।।
अन्वय: - यदि तम् अपि परस्मात् कोऽपि भाव: न भिन्द्यात् (तर्हि) नि:स्वरूप: अपोह: इदं भेत्तुं न क्षमते। इह उपगत: स: व्यक्तिवित्त्योर्विभेत्ता अस्तु। (अत:) बकबन्धायाससाम्यात् अपोहं परिहर।
गङ्गा - क्षमत इति- यदि तम् अपोहमपि परस्मात् कोऽपि भाव: न भिन्द्यात् तर्हि नि:स्वरूप: स्वरूपरहितोऽभावात्मक: अपोह: अतद्व्यावृत्ति:। इदं पदार्थानामुपर्युक्तमैक्यं भेत्तुं न क्षमते न पारयति। अतोऽपोहोऽपि भावाधीन एवेत्यर्थ:। इह अपोहभेदकत्वेन उपगत: स्वीकृत: स: भाव: सत्ता व्यक्तिवित्त्योर्विभेत्ता विषयज्ञानयोर्भेदकोऽस्तु, भवतु। बौद्धमतेऽपोहो वस्तुभेदक:। अनेनैव तत्र गवादिषु अतद्व्यावृत्तिरुच्यते। अत्र अतद्व्यावृत्तये कल्पितो योऽश्वादि: सोऽपि भावरूप एव भवति। अतोऽत्र अतद्व्यावृत्तये कल्पितोऽश्वादिभाव एव व्यक्तिवित्त्योर्भेत्ता भवत्वितितात्पर्यम्। अत: बकबन्धायाससाम्यात्, बकपक्षजिघृक्षो: स्वदर्शनभिया पलायमाने तत्र तद्दर्शनप्रतिबन्धाय तन्मूध्र्नि नवनीतनिवेशप्रयाससादृश्यात् अपोहं परिहर त्यज। यदि नाम अपोहोऽपि भावाधीनतयैव पदार्थान् अपोहति तर्हि भावात् पलायित्वा पुनर्भावस्यैव स्वीकृति:। अतोऽयमपोहस्त्याज्य एवेति भाव:।
अनुवाद - यदि बाद में अपोह में भी कोई भाव भेद उत्पन्न नहीं करता तो स्वरूप रहित यह अपोह इस पदार्थों की एकता का भेद करने में समर्थ नहीं हो सकता। ऐसे में अपोह के भेदक के रूप में स्वीकृत वह भाव ही ज्ञेय और ज्ञान का भेत्ता क्यो न मान लिया जाय। बगुले को पकडऩे के लिए पहले अपने दिख जाने के भय से भागना और फिर आकर उसके शिर पर नवनीत का लेपन करना, इसमें आयासमात्र ही विशेष है। तुम्हारा भाव का परित्याग भी उसी प्रकार का आयास है। पदार्थों में भेद करने के लिए भाव को छोड़कर अपोह को मानते हो और अपोह की सिद्धि के लिए पुन: उसी भाव की शरण में जाते हो। इसलिए बकबन्धन के आयास के सदृश होने के कारण इस अपोह को छोड़ ही देना चाहिए।
टिप्पणी - विषयों के समूहालम्बन में अनेक विषयों की एक ही वित्ति होती है अर्थात् पदार्थों के वित्तिरूप होने के कारण विषयों में अभेद सिद्ध है। यह सिद्धान्त विशेषरूप से विज्ञानवादियों का है। वित्ति और विषय का अभेद होने पर स्वरूपहीन अपोह भी उन पदार्थों में भेद उत्पन्न नहीं कर सकता। अपोह तद्भिन्नभिन्नत्व रूप होता है। घट से भिन्न जो पट, उससे भिन्नता घट में होती है। घट में प्राप्त होने वाला पट का अपोहन भावात्मक ही होता है, अभावात्मक नहीं। अभाव रूप होने पर वह पदार्थ अपोहन नहीं कर सकता। अगर यह कहो कि वित्ति में भासित होने वाली घट-पट-सुख-दु:ख-भाव और अभाव की एकता का अपोहन हो जाएगा तो यह सम्भव नहीं। क्योंकि उसके लिए भाव की आवश्यकता होती है। यह भाव ही 'गोÓ का 'अगोÓ से अपोहन करता है। हाँ, यदि इस अपोहन के लिए आप इन्हें भावरूप मानते हैं तो फिर उस भाव (सत्ता, जात्यादि) को ही व्यक्ति और वेत्ता को भेदक मान लेना चाहिए। एक बार भाव को छोड़कर (गो में गोत्व का परित्याग कर) पुन: अपोहन के लिए भाव का आश्रय लेना तो वैसा ही हो गया जैसे बगुले को पकडऩे के लिए पहले कोई बगुला मुझे देख न ले, यह सोच कर भागे और फिर उसके दर्शन को प्रतिबन्धित करने के लिए उसके शिर पर नवनीत लगाने का आयास करे। जब बाद में सत्ता स्वीकार करनी ही है तो अपोह को छोकर सत्ता ही मान लेनी चाहिए।
।। ६५।।
अधिकरणमपास्याऽस्य प्रतिद्वन्द्विनं वा-
ऽनुभवति किमभावं लौकिकस्तार्किको वा?।
अधिकरणमभावश्चेदलङ्घ्याऽनवस्था
झटिति दिगियमूह्या तत्प्रतिद्वन्द्विनोऽपि।।
अन्वय: - लौकिक: तार्किक: वा अधिकरणम् अस्य प्रतिद्वन्द्विनं वा अपास्य अभावम् अनुभवति किम्? अधिकरणम् अभाव: चेत्, अनवस्था अलङ्घ्या। तत्प्रतिद्वन्द्विन: अपि झटिति इयं दिक् ऊह्या (भवेत्)।
गङ्गा - अधिकरणमिति- कोऽपि लौकिक: लोकव्यवहारनिपुण: सज्जनो भवतु तार्किक: कठिनतर्कपथपान्थ: दार्शनिको वा भवतु अधिकरणम् आधारम्। यथा 'घटाभाववद्भूतलम्Ó इत्यत्र भूतलं घटाभावस्य आधार:। तादृशं घटाभाववद्भूतलरूपमभावाऽऽधारम्। अथवाऽस्य अभावस्य प्रतिद्वन्द्विनं प्रतियोगिनमित्यर्थ:। यथा 'भूतले घटो नास्तिÓ इत्यत्र घट: अभावस्य प्रतियोगी। लौकिकस्तार्किको वा भवतु स: अभावाधिकरणे तत्प्रतियोगिनि वा अभावमनुभवति जानाति। तदपास्य परित्यज्य अभावानुभवो न कुत्रापि जायत इत्यर्थ:। एवमभावोऽधिकरणभिन्न: प्रतियोगिभिन्नश्च तत्र भासमान: पदार्थ:। यदि नाम भूतलमेव अभावत्वेन गणयसि तर्हि अनवस्था अलङ्घ्या स्यात्, समेषामप्याधाराणामभावरूपत्वकल्पनयाऽनवस्था तत्र आपतेदित्यर्थ:। तत्प्रतिद्वन्द्विन: प्रतियोगिनो घटस्याऽपि इयं दिक् ऊह्या कल्पनीया। प्रतियोगिनोऽभावरूपत्वकल्पनात् प्रतियोगिप्रतियोग्यादीनामपि तथात्वकल्पनादनवस्था स्यादिति भाव:। एतेन आधारप्रतियोगिनोरभावरूपत्वं निराकृतम्। अतो गवापोहे अश्वादीनां भावत्वेनैव प्रवृत्तिर्नाभावत्वेनेत्यर्थ:।
अनुवाद - कोई लौकिक हो या तार्किक, उसे अधिकरण या प्रतियोगी को छोड़कर कहीं अन्यत्र अभाव का अनुभव होता है क्या? अभाव का अनुभव इन दो में ही होता है। यदि अधिकरण को अभाव मान लिया जाय तो महान् अनवस्था होगी। इसी प्रकार प्रतियोगी को भी अभाव माननेमें अनवस्था का विचार करना चाहिए।
टिप्पणी - अभाव का ज्ञान या तो आधार में होता है अथवा प्रतियोगी में। जैसे 'भूतल में घट नहीं हैÓ यहाँ भूतल अभाव का आधार है और घट उसका प्रतियोगी है। घट का अभाव भूतल रूप आधार और घट रूप प्रतियोगी में ही अनुभूत होता है, अन्यत्र नहीं। यदि कहें कि अधिकरण ही अभाव है तब तो अनेक अधिकरणों की कल्पना का प्रसंग आएगा और अनवस्था होगी। अत: यह सिद्ध है कि अभाव अधिकरण और प्रतियोगी से भिन्न है। वह अभाव उनके माध्यम से भासित होता है। इस प्रकार गो आदि के अपोहन में अश्व आदि की भावरूप में ही प्रवृत्ति होती है, अभावरूप में नहीं, यह स्वयं सिद्ध है।
।। ६६।।
अधिकरणविरोधिज्ञप्तिनैयत्यशून्य-
प्रमितिविषयभावाङ्गीकृतौ नैष दौष:।
न हि गतिरपरा तेऽपास्य भावं स्वतन्त्रं
स्थितिमतिकृतिषु त्वं सूक्ष्मदृष्ट्या ऽवधेहि।।
अन्वय: - अधिकरणविरोधिज्ञप्तिनैयत्यशून्यप्रमितिविषयभावाङ्गीकृतौ एष दोष: न (भवति)। स्वतन्त्रं भावम् अपास्य ते अपरा गति: न हि (विद्यते)। त्वं स्थितिमतिकृतिषु सूक्ष्मदृष्ट्या अवधेहि।
गङ्गा - अधिकरणविरोधीति- अधिकरणविरोधिज्ञप्तिनैयत्यशून्यप्रमितिविषय-भावाङ्गीकृतौ अधिकरणविरोधिनो: आधारप्रतियोगिनो: ज्ञप्तिनैयत्येन ज्ञानसातत्येन शून्या रहिता या प्रमितिस्तस्या विषयस्य भावाङ्गीकृतौ सत्तास्वीकृतौ एष अनवस्था दोष: न। भवतीति शेष:। 'घट: अस्तिÓ इत्यादिस्थलेषु यद्यप्यधिकरणप्रतियोगिज्ञानं न भवति तथापि घटज्ञानं तु भवत्येव। अभावज्ञानाभावेऽपि घटज्ञानं जायत एवेत्यर्थ:। अतो यत्र अभावज्ञानं नास्ति तत्रापि प्रमितिविषयस्य सत्ताङ्गीकारे पूर्वोक्तोऽनवस्थादोषो न प्रसजति। स्वतन्त्रं भावं सत्ताम् अपास्य परित्यज्य ते अपरा गति: न हि विद्यते। तादृशाऽनवस्थापरिहाराय त्वया स्वतन्त्रो भावोऽङ्गीकरणीय:। त्वं शून्यवादी बौद्ध: स्थितिमतिकृतिषु स्थिति: सत्ता च मति: ज्ञानं च कृति: यत्नं चेत्येतेषु सूक्ष्मदृष्ट्या निशितमत्या अवधेहि अवधानं देहि। 'घट: अस्तिÓ इत्यत्र स्थितौ अभावज्ञानाभावेऽपि घटसत्ता ज्ञायते। मतावपि पदार्थसत्ता भवत्येव। एवमेव मृदाद्युपादानकारणे आनयनादियत्ने चापि घटसत्ता भवत्येवेति त्वया सर्वथा भावोऽङ्गीकरणीय एवेति कवेराशय:।
अनुवाद - जहाँ अधिकरण और प्रतियोगी का ज्ञान नहीं होता, इन दोनो ज्ञानों के सातत्य से रहित प्रमिति होती है, उस प्रमिति के विषय के भाव (सत्ता) को स्वीकार कर लेने पर उपर्युक्त अनवस्थादोष प्रसक्त नहीं होता। 'घट हैÓ इत्यादि ज्ञान में अधिकरण या प्रतियोगी का ज्ञान नहीं हो रहा तथापि प्रमिति का विषय 'घटÓ तो है ही। इस घट की सत्ता स्वीकार कर लेने पर अभावविषयक पूर्वोक्त अनवस्था प्रसक्त नहीं होती। अत: स्वतन्त्र भाव मानने के अतिरिक्त तुम्हारी और कोई गति नहीं है। सत्ता, ज्ञान और यत्न में अवधानता पूर्वक सूक्ष्मदृष्टि से देखो। 'घट हैÓ इस सत्ता में 'घटं जानामिÓ इस ज्ञान में तथा मिट्टी आदि उपादान कारणों एवं घटानयन आदि यत्नों में घटरूप विषय की सत्ता स्पष्ट है। अत: अभाव को छोड़कर तुम्हें भी स्वतन्त्र भाव मानना ही चाहिए।
।। ६७।।
घट इह भुवि नास्तीत्येव बुद्धि: प्रसिद्धा
सकलमतविरुद्धा नास्तितामात्रबुद्धि:।
सृजति फ लमभाव: केवलो नेत्यवोचं
मतविमतिषु शेषे भाव एवैष भार:।।
अन्वय: - 'इह भुवि घट: नास्तिÓ इति एव बुद्धि: प्रसिद्धा (अस्ति)। नास्तितामात्रबुद्धि: सकलमतविरुद्धा (विद्यते)। 'केवल: अभाव: फलं न सृजतिÓ इति अवोचम्। (त्वं) मतविमतिषु शेषे। एष भाव एव (तव) भार: (विद्यते)।
गङ्गा - घट इहेति- इह भुवि घट: नास्ति, इह अत्र भुवि भूतले घट: नास्ति घटाभावो विद्यते इति भूतलानुयोगिकघटप्रतियोगिकबुद्धिरेव प्रसिद्धाऽस्ति। अभावस्थल एतादृशं ज्ञानमेव समेषां जायत इत्यर्थ:। भवदभिमता नास्तितामात्रबुद्धि: अनुयागिप्रतियोग्यविषयिका सती अभावविषयिकाबुद्धिस्तु सकलमतविरुद्धा समेषामनुभववतां मतविरोधिनी विद्यते। न कोऽपि तथाऽनुभवतीत्यर्थ:। केवल: अभाव: शून्यं फलं कार्यं न सृजति नोत्पादयतीति तु पूर्वं 'कथमिव भवदिष्टं नि:स्वरूपं च शून्यम्Ó इत्यादिप्रसङ्ग उक्तमेव। त्वं विलासी तु मतविमतिषु मतानां विमतिषु शेषे स्वपिषि। एष पदार्थानां भाव: सत्ता एव तव भारो विद्यते। इमं पदार्थाभावं स्वीकृत्य त्वया सुमहान् भारोऽङ्गीकृत:। स्वीकृते तस्मिन्न कोऽपि भार: न वा विमतिरित्यर्थ:।
अनुवाद - 'भूतल में घट नहीं हैÓ यह भूतलानुयोगिक घटप्रतियोगिक अभाव बुद्धि ही प्रसिद्ध है। सब को अभावस्थल में ऐसा ही ज्ञान होता है। अनुयोगी तथा प्रतियोगी विषयों से रहित अभाव विषयक बुद्धि किसी को नहीं होती। यह ज्ञान सभी मतों से विरुद्ध है। अकेला अभाव (शून्य) कार्य को उत्पन्न नहीं करता यह हमने पहले ('कथमिव भवदिष्टम्Ó इत्यादि के प्रसंग में) कह ही दिया है। तुम तो मतों की विमतियों में सो रहे हो। यह भाव ही तुम्हारे लिए भार है। इसे स्वीकार कर लेने से तुम पर कोई भार नहीं रहेगा।
।। ६८।।
स्फु रति जगदवश्यं नाऽत्र सर्वस्य बाध:
सकलमपि न सत्यं तत्त्वमत्राऽस्तु किं नु?।
इति महति विमर्शे बाधसत्यत्वशङ्का
निरधिकरणबाधाऽदर्शनेनाऽपनेया।।
अन्वय: - जगत् अवश्यं स्फुरति। अत्र सर्वस्य बाध: न (भवति)। सकलं सत्यम् अपि न (विद्यते)। अत्र किं नु तत्त्वम् अस्तु? इति महति विमर्शे निरधिकरणबाधाऽदर्शनेन बाधसत्यत्वशङ्का अपनेया।
गङ्गा - स्फुरतीति- जगत् इदं पुरोदृश्यमानं नामरूपात्मकं जगदित्यर्थ:। अवश्यं स्फुरति प्रतीतिविषयतां भजते। अत्र सर्वस्य बाधोऽभावो न विद्यते। तथा चोक्तं श्रीमद्भगवद्गीतायाम्-
नासतो विद्यते भावो नाभावो विद्यते सत:।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभि:।।२.१६।।
अतस्त्वया सर्वं शून्यमिति यत्स्वीकृतं तदनुचितमेव। इदं सकलं जगत् सत्यमपि न विद्यते। यदि नाम सर्वं शून्यमिति स्वीक्रियते तर्हि सर्वस्याभावरूपताऽपतति। सकलं सत्यं स्वीक्रियते चेत् परमार्थहानि:। वस्तुतो व्यवहारदशायां जागतिकपदार्थेषु पञ्चतत्त्वानि भासन्ते-
अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम्।
आद्यं त्रयं ब्रह्मरूपं जगदू्रपं ततो द्वयम्।। वाक्यसुधा, २०।।
एतेषु अस्तिता प्रकाशमयता आनन्दरूपता चेति त्रयो धर्मा ब्रह्मणि भवन्ति। अत एतेषां सत्यता किन्तु नामरूपयोरसत्यत्वं तयोर्जगदू्रपत्वात्। अतोऽत्र जगति किन्नु तत्त्वमस्तु इति महति विमर्शे क्रियमाणे निरधिकरणबाधाऽदर्शनेन अधिकरणरहितस्य अभावस्याऽदर्शनेन बाधसत्यत्वशङ्का अभावसत्यत्वविषयिणी शङ्का अपनेया दूरीकरणीया। अधिकरणरहितो बाधो न दृश्यते। बाधस्य कृतेऽधिकरणमावश्यकम्। यथा ज्ञाने सति सर्पत्वबाधो रज्जुरूपाधिकरण एव भवति। भ्रमकाले रज्जौ प्रतीयमानं सर्पत्वं बाधविषय: बाधकाले च रज्जुत्वं सत्यम्। अतो बाधस्य निरधिकरणताऽभावात् बाधसत्यत्वविषयिणी शङ्का दूरीभवतीत्यर्थ:। तदेव शाङ्करभाष्ये (छान्दोग्योपनिषदि ६.१.२) उक्तम्- सदात्मनैव सत्यं विकारजातं स्वतस्तु अनृतमेव। सतोऽन्यत्वेऽनृतत्वम्।
अनुवाद - यह नाम रूपात्मक जगत् अवश्य ही स्फुरित होता है। इसमें सब का बाध नहीं होता और सब कुछ सत्य भी नहीं है। इस जगत् में क्या सत्य है? इस महान् विमर्श में निरधिकरण बाध दिखाई नहीं देता। बाध की इसी साधिकरणता से बाधत्व और सत्यत्व की शङ्का दूर करनी चाहिए। कौन सा पदार्थ सत् है और कौन सा असत् इसका निर्णय बाध के साधिकरणदर्शन से ही होता है।
टिप्पणी - बौद्धों के अनुसार समग्र जगत् शून्यात्मक होने के कारण अभावरूप है। इसका खण्डन करते हुए कवि ने कहा है कि यह जगत् अवश्य ही स्फुरित होता है। व्यवहारदशा में इसकी प्रतीति तो होती ही है। इस व्यवहार दशा में जागतिक पदार्थों में पाँच धर्म भासित होते हैं- अस्तिता, प्रकाशमयता, आनन्दरूपता, संज्ञात्मकता और रूपात्मकता। इनमें से प्रथम तीन धर्म तो ब्रह्म में घटित होते हैं, अत: उनकी सत्यता स्वीकृत है किन्तु नामरूपात्मकता जगत् में विद्यमान हैं। इन्हें एकान्तत: सत्य नहीं कहा जा सकता। यह केवल व्यवहार काल में ही सत्य है। इससे यह सिद्ध होता है कि व्यवहार काल में जगत् न तो समग्ररूप से सत्य है और न ही असत्। इनमें कुछ तत्त्व सत्य हैं और कुछ अभावरूप हैं। इनमें से सत्य क्या है, यह विचार करने पर यह सिद्ध होता है कि अभाव अधिकरणरहित नहीं होता, वह साधिकरण होता है। जैसे रज्जु में सर्प का भ्रम हो जाने पर उस सर्पत्वप्रकारक ज्ञान का बाध भी रज्जु में ही होता है। इस प्रकार रज्जु बाध का अधिकरण होती है। बाध की इसी साधिकरणता से बाध और सत्य की शंका को दूर करना चाहिए।
।। ६९।।
तदधिकरणबाधेऽप्याऽऽग्रहादुच्यमाने
तदधिकरणपृच्छास्रोतसा पे्रर्यमाण:।
पतति भृशमलङ्घ्ये कोऽनवस्थासमुद्रे
ऽधिकरणमिति सत्यं सङ्गिरन्ते श्रुतिज्ञा:।।
अन्वय: - आग्रहात् तदधिकरणबाधे अपि उच्यमाने (सति) तदधिकरणपृच्छास्रोतसा प्रेर्यमाण: (सन्) क: भृशम् अलङ्घ्ये अनवस्था समुद्रे पतति? (अत एव) श्रुतिज्ञा: अधिकरणं सत्यम् इति सङ्गिरन्ते।
गङ्गा - तदधिकरणेति- आग्रहात् हठात् तदधिकरणबाधे तस्य बाधाधिकरणस्य बाधे अभावे अपि उच्यमाने प्रतिपाद्यमाने। कोऽपि हठात् बाधाधिकरणस्य बाधमपि वक्तुं शक्नोतीति भाव:। तदधिकरणपृच्छास्रोतसा तस्य बाधाधिकरणस्य पृच्छास्रोतसा प्रष्टुमिच्छाया: स्रोतस्तेन प्रेर्यमाण: सन् क: बुद्धिमान् भृशम् अलङ्घ्ये अनवस्था समुद्रे अनवस्थानामानन्त्ये पतति? न कोऽपीत्यर्थ:। यस्मिन्नधिकरणे बाधो दृष्टस्तस्याऽधिकरणस्य अभावमपि कोऽपि प्रतिपादयेत्। पुन: बाधाधिकरणभूताऽधिकरणाधिकरणजिज्ञासया को वा विद्वान् अनवस्थासमुद्रे पतेत्। न कोऽपीति भाव:। तस्मात् श्रुतिज्ञा: अधिकरणं सकलजगदाधारं सत्यं ब्रह्म सङ्गिरन्ते कथयन्ति। तद् ब्रह्म एव समेषामधिकरणं, तदेव सत्यम्। न तत: परं काऽप्यधिकरणविषयिणी जिज्ञासा समुदेति। 'ब्रह्म सत्यं जगन्मिथ्याÓ इत्यादिश्रुतिवचनान्यत्र प्रमाणम्। 'सत्यस्य सत्यम्Ó (बृहदा. २.१.२०), 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्Ó (तैत्तिरीय. २.१.६) इत्यादिश्रुतिषु तदेव प्रतिपादितम्। यद्विषया बुद्धिर्न व्यभिचरति तदेव सत्यम्। अतो न तत: परमधिकरणान्तस्य जिज्ञासाऽवसर:।
अनुवाद - कोई हठ कर के उस बाध के अधिकरण का अधिकरण भी पूछ सकता है। उसके बाद उसके अधिकरण की पृच्छा भी उसमें हो सकती है। इस प्रकार ऐसा कौन है जो अधिकरणों की पृच्छा से प्रेरित होकर अनवस्था समुद्र में गिरता है। अत एव श्रुतिज्ञजन अधिकरण को ही 'सत्यÓ कहते है। वह सत्य ही ब्रह्म है। 'ब्रह्म सत्यं जगन्मिथ्याÓ जैसी अनेक श्रुतियाँ इसमें प्रमाण हैं। इस ब्रह्मरूप अधिकरण से परे अन्य कोई अधिकरण हो ही नहीं सकता।
।। ७०।।
तदधिकरणमेकं सर्वसत्तानिदानं
स्फु रति विविधरूपै: स्वस्वहेतुप्रसङ्गे।
सकलविषयबाधाऽऽधारतानित्यसिद्धं
श्रुतिशिखरविचारैश्चिन्त्यते मोक्षमाणै:।।
अन्वय: - तत् सर्वसत्तानिदानम् एकम् अधिकरणं स्वस्वहेतुप्रसङ्गे विविधरूपै: स्फुरति। मोक्षमाणै: श्रुतिशिखरविचारै: सकलविषयबाधाऽऽधारतानित्यसिद्धं चिन्त्यते।
गङ्गा - तदधिकरणमिति- तत् सर्वसत्तानिदानं सर्वासां सत्तानां भावानां निदानं कारणमेकमधिकरणं यद् 'ब्रह्मÓ इत्युच्यते तदेव स्वस्वहेतुप्रसङ्गे कारणप्राप्तौ विविधरूपै: स्फुरति विवर्तते। तथा चोक्तं छान्दोग्ये- यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् (६.१.४)। कारणभूतया मृदा घटदीपादयो नाना पदार्था उत्पद्यन्ते। तत्र नामरूपादिभेदे सत्यपि अधिकरणरूपं मृदेव सत्यम्। सा एव अभिन्न-निमित्तोपादानकारणं समेषां कार्यजातानाम्। यथा मृत्तिकायां कार्योत्पादनकारणता विद्यते तथैव विकाररहिते ब्रह्मण्यपि। इदमेव सांसारिकप्रपञ्चानामेकमधिष्ठानम्। तदेव तत्तद्धेतुप्रसङ्गे तत्तद्रूपेणावभासते। भ्रमाधिष्ठानभूतशुक्त्याद्यज्ञानाद् रजताद्यध्यारोप इव प्रपञ्चकल्पनाधिष्ठानभूतब्रह्मात्मवस्त्वज्ञानात् शुक्तौ रजतप्रतीतिवत् तस्मिन् ब्रह्मरूपाधिष्ठाने नानाविषया: प्रतीयन्ते। तत्सर्वं न सत्। तदेतद् व्याख्यातमध्यासविवेचनप्रसङ्गे विवेकचूडामणौ (१.४०) शङ्कराचार्येण-
अतस्मिंस्तद्बुद्धि: प्रभवति विमूढस्य तमसा।
विवेकाभावाद् वै स्फुरति भुजगे रज्जुधिषणा।।
वस्तुत: आरोपितस्य अधिष्ठानाद् भिन्नता न भवति। तस्मादेतद् ब्रह्ममात्रं हि विश्वमिति हि वेदान्तसिद्धान्त:। एवं सर्वसत्ताधिकरणं ब्रह्मैव स्वस्वहेतुप्रसङ्गे हेत्वनुसारिविविधरूपै: स्फुरतीति सिद्धम्। तदेव सर्वसत्तानिदानमेकमधिकरणम्। अतश्च मोक्षमाणै: मुमुक्षुभि: श्रुतिशिखरविचारै: श्रुतीनां शिखरभूतैरत्युन्नतविचारै: श्रवणमनननिदिध्यासनै:। सकलविषयबाधाऽऽधारतानित्यसिद्धं सकलविषयाणां जगत्प्रपञ्चानां बाधस्य आधारतयाऽधिकरणतया नित्यसिद्धं ब्रह्म चिन्त्यत उपास्यते। सकलविषाणां बाधस्य आधार: परमेश्वर एव विद्यते। तस्मादेव सर्वं जायते तस्मिंश्च लीयते- यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति। यत्प्रयन्त्यभिसंविशन्ति-- तद् ब्रह्म (तैत्तिरीयोपनिषदि, ३.१)। तद् ब्रह्म वाचा मनसा चक्षुषा वा न प्राप्तुं शक्यमपितु सर्वबाधानन्तरं तदाधारत्वेनैव ज्ञातं भवति। सर्वे वेदा: तस्यैव पदमामनन्ति। सर्वैर्वेदै: स एव ज्ञेय:। अध्यारोपापवादाभ्यां तदेव निष्प्रपञ्चं ब्रह्म प्रपञ्च्यते-
अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते।
शिष्याणां बोधसिद्ध्यर्थं तत्त्वज्ञै: कल्पित: क्रम:।।
अतश्च मोक्षमाणैर्नित्यसिद्धं तदेव चिन्त्यत इत्यर्थ:।
अनुवाद - वह (ब्रह्म) समस्तसत्ताओं का निदान है। सबका एक अधिकरण है। वही अपने अपने हेतुओं को पाकर अनेक रूपों में स्फुरित होता है। मुमुक्षुजन श्रुतियों के उन्नतविचारों से सकलविषयों के बाध के आधार रूप में नित्यसिद्ध उसी ब्रह्म का चिन्तन करते हैं।
टिप्पणी - अभाववादी बौद्ध का खण्डन करते हुए यह सिद्ध किया गया है कि ब्रह्म ही सभी भावों का निदान है। अर्थात् उसी से समस्त कार्यों की उत्पत्ति होती है। 'येन जातानि जीवन्तिÓ (तैत्तिरीयोपनिषद्, ३.१) इत्यादि श्रुतियों में इसी तथ्य का प्रतिपादन किया गया है। वही सबका एक अधिकरण है अन्य कोई अधिकरण नहीं हो सकता। जैसे मिट्टी होने पर भी मिट्टी ही सत् है क्योंकि घट आदि का आकार मिट्टी ही है। उसमें मिट्टी को छोड़कर और कुछ भी उपलब्ध नहीं होता। अत: वह मिट्टी ही इन सबका अधिकरण है। उसी प्रकार परमेश्वर भी समस्त प्रपंचों का अधिकरण है। अपने हेतु के प्रसंग में वही विविधरूपों में स्फुरित होता है। 'एकोऽहं बहु स्याम्Ó इत्यादि श्रुतियाँ इसमें प्रमाण हैं। अत एव मुमुक्षु वेदान्ती समस्त जागतिक प्रपंचों के बाध के आधाररूप में नित्यसिद्ध उस परमेश्वर का ही भजन करते हैं।
।। ७१।।
भवदमिमतशून्यं चेत्परेणाऽनिरूप्यं
सदथ भवति नित्यं ब्रह्म तन्नाम्नि भेद:।
न तु बहु मनुषे त्वं नित्यतां क्वापि तस्मा-
द्भ्रमसि बहुविकल्पेषूच्यसे नास्तिकश्च।।
अन्वय: - भवदभिमतशून्यं परेण अनिरूप्यं चेत् सत् अथ नित्यं ब्रह्म भवति। तन्नाम्नि भेद:। त्वं नित्यतां क्वापि तु बहु न मनुषे। तस्मात् बहुविकल्पेषु भ्रमसि नास्तिक: च उच्यसे।
गङ्गा - भवदभिमतेति- भवदभिमतशून्यं भवद्भिर्बौद्धैरभिमतं स्वीकृतं यच्छून्यं विद्यते तत् परेण अनिरूप्यम् अन्येन केनापि प्रमाणेन अबोध्यं चेत्, सत् कालत्रयेऽपि तिष्ठति, अथ नित्यं ब्रह्म भवति। यत्तत्त्वमस्माभि: ब्रह्मपदेनोच्यते तदेव भवता शून्यपदेनेत्येव विशेष:। वस्तुत: शून्यं ब्रह्माऽविशेषमेव। यथा ब्रह्म परेणाऽनिरूप्यं सन्नित्यं च विद्यते तथैव शून्यमिति भाव:। तन्नाम्नि भेद: संज्ञामात्रभेद एव। किन्तु त्वन्मते समेषां पदार्थानां क्षणिकत्वात् त्वं क्वापि नित्यतां बहु न मनुषे। तस्मादेव कारणात् बहुविकल्पेषु नानापक्षेषु भ्रमसि, अस्मादृशैश्च नास्तिक: वेदनिन्दक उच्यसे। नास्ति परलोके दृष्टिर्यस्य स नास्तिक:। शास्त्रेषु चार्वाक: माध्यमिकयोगाचारसौत्रान्तिकवैभाषिकरूपाश्चत्वारो बौद्धा आर्हताश्च षड्विधो नास्तिक: कथित:। तत्र देहात्मवादी चार्वाक:, सर्वशून्यवादी माध्यमिक:, आन्तरार्थवादी योगाचार:, बाह्यार्थानुमेयवादी सौत्रान्तिक:, आन्तरबाह्यार्थोभयवादी वैभाषिक:, पुद्गलवादी जैनश्च। नास्तिको न भवे:, अत एव त्वया शून्यस्य नित्यताङ्गीकार्येति भाव:।
अनुवाद - यदि आपको अभिमत शून्य दूसरे किसी प्रमाण से ज्ञेय नहीं है तो वह सत् और नित्य ब्रह्म है। शून्य और ब्रह्म में संज्ञामात्र का भेद है। किन्तु तुम नित्यता को स्वीकार नहीं करते। इसीलिए अनेक विकल्पों में घूमते हो और नास्तिक कहे जाते हो।
।। ७२।।
भवदभिमतशून्ये भावता नेष्यते चेत्
स्फु रति विषयवित्त्यो: सा वदेयं कुतस्त्या?।
अनुसरति हि कार्ये कोऽप्युपादानधर्मो
न कथमपरथोपादानकार्यत्वहानि:?।।
अन्वय: - भवदभिमतशून्ये भावता न इष्यते चेत् विषयवित्त्यो: सा इयं कुतस्त्या स्फुरति (इति) वद? हि कोऽपि उपादानधर्म: कार्यम् अनुसरति। अपरथा उपादानकार्यत्वहानि: कथं न (भवति)?
गङ्गा - भवदभिमतेति- भवदभिमतं बौद्धरूपविलासिस्वीकृतं यत् शून्यं तस्मिन् भावता सत्ता न इष्यते चेत् विषयवित्त्यो: घटादिविषये वित्तौ च सेयं कुतस्त्या सत्ता स्फुरतीति वद। बौद्धानां मते घटादिविषयस्य बाह्यसता नास्ति किन्तु ज्ञाने तस्य सत्ता तु भासत एव। एवमेव वित्ते: सत्ताऽपि घटादिज्ञानक्षणे भासत एव। सेयं विषयवित्त्यो: भासमाना सत्ता कुतस्त्या इति वद? हि निश्चयेन कोऽपि उपादानधर्म: समवायिकारणधर्म: कार्यमनुसरति। कार्ये समवायिकारणधर्मा आगच्छन्ति। यथा मृदो धर्म: घटे। अपरथा अन्यथा तदस्वीकार इत्यर्थ:। उपादानकार्यत्वहानि: कथं न भवति। भवता शून्ये सत्ता नाङ्गीक्रियते। शून्यमेव समेषां पदार्थानामुपादानकारणम्। तस्यैव सत्ता विषये वित्तौ च भासत इत्यर्थ:।
अनुवाद - आपको अभिमत शून्य में यदि सत्ता अभीष्ट नहीं है तो विषय और वित्ति में वह कहाँ की सत्ता स्फुरित होती है? कोई भी उपादानकारण का धर्म कार्य का अनुसरण करता है। अन्यथा उपादानकार्य की हानि क्यों नहीं होती? शून्य सब का उपादान कारण है। उसी की सत्ता विषय और वित्ति में प्रतिभासित होती है।
।। ७३।।
अपि च विमृश शून्ये भावताया निवृत्तौ
प्रसजति नियतं तद्व्याप्यनैल्याद्यभाव:।
अनुपतति न कार्ये शून्यता हेतुधर्मे-
ऽसति तव भवतूपादेयता केन कार्ये?।।
अन्वय: - अपि च, शून्ये भावताया: निवृत्तौ नियतं तद्व्याप्यनैल्याद्यभाव: प्रसजति (इति) विमृश। कार्ये शून्यता न अनुपतति। हेतुधर्मे असति तव कार्ये केन उपादेयता भवतु?
गङ्गा - अपि चेति- न केवलमुपादानकार्यत्वहानिरपितु शून्ये भावताया: सत्ताया: निवृत्तौ अस्वीकृतौ नियतं प्रसक्तं तद्व्याप्यनैल्याद्यभाव: शून्यव्याप्यं यन्नीलादि तदभाव: प्रसजति प्रसक्तो भवति। शून्यं व्यापकमधिकदेशवृत्ति तद्व्याप्यो नीलघटादिविषयस्तस्याभावापत्ति:। उपादाने सत्ताया अभावे तत्कार्येऽपि तदभावो भवतीति विमृश, विचारय। कार्ये शून्यता न अनुपतति अपितु तस्य सत्तैव भवतीति प्रमाणसिद्धम्। हेतुधर्मे असति कारणधर्मे अविद्यमाने तव कार्ये घटादौ केन हेतुना उपादेयता उपादानकारणता भवतु। न केनाऽपीत्यर्थ:। अत: शून्ये सत्ता स्वीकरणीया एवेति भाव:।
अनुवाद - शून्य में सत्ता को स्वीकार न करने से केवल उपादान कार्य की हानि ही नहीं होगी अपितु उस शून्य के व्याप्य जो नीलादि पदार्थ हैं, उनका भी अभाव प्रसक्त होगा, यह विचार करो। कार्य में शून्यता अनुपतित नहीं होती अपितु उसकी सत्ता ही दृष्टिगत होती है। कारण धर्म न मानने पर तुम्हारे घट आदि कार्यों में उपादान कारणता किसकी होगी? कारण के धर्महीन होने पर कार्य की धर्महीनता स्वत: सिद्ध है।
।। ७४।।
त्रिविधसमयबाधागोचरं सर्वबाधा-
श्रयमनुभवसिद्धं साक्षिणं प्रद्विषन् क:।
जयति बुधविवादे? तज्जयं कोऽभिनन्दे-
द्रटतु स तु यथेच्छं शून्यतां युक्तिशून्याम्।।
अन्वय: - त्रिविधसमयबाधागोचरम् अनुभवसिद्धं सर्वाश्रयं साक्षिणं प्रद्विषन् बुधविवादे क: जयति? क: तज्जयम् अभिनन्देत्? स तु युक्तिशून्यां शून्यतां यथेच्छं रटतु।
गङ्गा - त्रिविधसमयेति- त्रिविधसमयबाधागोचरं कालत्रयेऽपि विद्यमानम्, अनुभवसिद्धं न तु प्रमाणगम्यं, सर्वाश्रयं सर्वेषां जगतामाश्रयमाधारं न तु क्षणिकतापराहतं, साक्षिणम् आत्मानं प्रद्विषन् बुधविवादे विदुषां तर्के क: जयति जयं लभते। न कोऽपीत्यर्थ:। क: खलु तज्जयं तस्य जयमभिनन्देत् प्रशंसेत्। न कोऽपि। स बौद्धस्तु युक्तिशून्यां मार्गरहितां शून्यतामभावतां यथेच्छं यथा स्यात्तथा रटतु। ब्रह्म सत् विद्यते। तत्तु कालत्रयेऽपि तिष्ठति। न कस्मिन्नपि काले तस्य बाधो दृश्यते। तदुपचयापचयहीनं सत्। तेनैव सर्वमिदं व्याप्तम्। तत्स्वरूपमुक्तं श्रीमद्भगवद्गीतायाम्-
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते।
सर्वत्रगमचिन्त्यं च कूटस्थमचलं धु्रवम्।।१२.३१।।
इदं ब्रह्मैव सर्वाश्रयम्। तत्परित्यज्य कश्चिज्जयं न प्राप्रोति।
अनुवाद - तीनो कालों में जिसका बाध दृष्टिगत नहीं होता, जो सत् है, अनुभवसिद्ध है, किसी अन्य प्रमाण से जाना नहीं जा सकता, जो सभी का आश्रय है उस आत्मा (ब्रह्म) का द्वेष करता हुआ कोई भी विद्वानों के विवाद में जय नहीं पा सकता। कोई मनीषी उसके जय का अभिनन्दन भी नहीं कर सकता। वह बौद्ध अपनी युक्तिशून्य शून्यता को यथेच्छ रटे। उससे कोई हानि नहीं है।
।। ७५।।
इति निगदितयुक्त्या हेतुता भाव एव
स्थिर उपगमनीया व्यापृते: सम्भवेन।
न तु जननविनाशव्याधिनित्याभिभूत-
क्षणगणचलवृत्तिष्वेष भारोऽर्पणीय:।।
अन्वय: - इति निगदितयुक्त्या स्थिरे भावे एव व्यापृते: सम्भवेन हेतुता उपगमनीया। एष भार: तु जननविनाशव्याधिनित्याभिभूतक्षणगणचलवृत्तिषु न अर्पणीय:।
गङ्गा - इति निगदितेति- इत्येवं प्रकारेण निगदितयुक्त्या प्रतिपादितरीत्या स्थिरे कूटस्थे भावे ब्रह्मणि एव व्यापृते: व्यापारस्य सम्भवेन हेतुता उपगमनीया स्वीकरणीया। तत् कूटस्थं ब्रह्मैव समेषां कारणम्। तथा श्रुति:- 'तदैक्षत बहुस्यां प्रजायेयÓ (छान्दोग्योपनिषदि, ६-२.३), अहं सर्वस्य प्रभवो मत्त: सर्वं प्रवर्तते (गीतायाम्, १०.८), बीजं मां सर्वभूतानाम् (गीतायाम्, ७.१०)। वृहदारण्यकभाष्यवार्तिकेऽप्युक्तम्-
सर्वज्ञ: सर्वशक्तिश्च सर्वात्मा सर्वगो धु्रव:।
जगज्जनिस्थितिध्वंसहेतुरेष सदेश्वर:।।१.४.३७६।।
'जन्माद्यस्य यत:Ó इत्युक्त्वा ब्रह्मसूत्रकारेण भगवता व्यासेनाऽपि अज्ञानोपहितचैतन्यस्य कारणता निरदेशि। मुण्डकोऽप्याह-
यथोर्णनाभि: सृजते गृöते च
यथा पृथ्व्यामोषधय: पतन्ति
यथा सत: पुरुषात् केशलोमानि
तथाक्षरात् सम्भवतीह विश्वम्।।१.१.७।।
अत: स्थिरसत्ताकस्य ब्रह्मण एव जगत्कर्तृत्वम्। एष भार: जगत्कर्तृत्वभार: जननविनाशव्याधिनित्याभिभूतक्षणगणचलवृत्तिषु उत्पादविनाशरूपव्याधिना नित्याभिभूतेषु सततमुपक्षीणेषु क्षणगणचलवृत्तिषु क्षणसमूहचञ्चलस्वभावेषु बौद्धाभिमतक्षणिकविज्ञानेषु न अर्पणीय: न देय:। क्षणिकतापराहतत्वात् तत्र न व्यापारजनि: न वा कारणताजनि:। व्यापारवत एव कारणत्वस्वीकृते: स्थिरे ब्रह्मण्येव स भारोऽर्पणीय इति तात्पर्यम्।
अनुवाद - इस प्रकार ऊपर कही गयी उक्तियों से नित्य सत्ता में ही व्यापार सम्भव है। अत: सर्वत्र उसी की कारणता माननी चाहिए। ब्रह्म ही सत् है, अत: उसे ही जगत् का कारण मानना चाहिए। अनेक श्रुतिवचन इसमें प्रमाण हैं। जगत् कर्तृत्व का यह भार उत्पत्ति और विनाश की व्याधि से नित्य पराहत क्षणसमूहों की चंचलवृत्तियों में अर्पित नहीं करना चाहिए। क्षणिक होने के कारण इस बौद्धाभिमत क्षण में न तो स्थिरता है और न ही व्यापारवत्ता। अत: इनमें हेतुता सम्भव ही नहीं है।
।। ७६।।
मणिकघटशरावोदञ्चनाद्यैर्विचित्रै-
र्मृदिव विविधरूपैर्भासतामेष भाव:।
निजनिजसहकारिप्राप्तसाहाय्यसज्ज:
किमिह वद विचित्रं? सर्वदा दृष्टमेतत्।।
अन्वय: - विचित्रै: मणिकघटशरावोदञ्चनाद्यै: विविधरूपै: निजनिजसहकारिप्राप्तसाहाय्यसज्ज: एष भाव: मृदिव भासताम्। एतत् सर्वदा दष्टम्। इह किं विचित्रम् (इति) वद्।
गङ्गा - विचित्रैरिति- विचित्रै: नानाप्रकारकै: मणिकघटशरावोदञ्चनाद्यै: मणिको मृन्निर्मितपात्रविशेष: मणिकश्च घटश्च शरावश्च तेषामुदञ्चनाद्यै: उत्पादनप्रभृतिभि:। आदिना आकारग्रहणादिकस्य सङ्ग्रह:। विविधरूपै: अनेकैर्लम्बगोलाद्याकृतिभि: निजनिजसहकारिप्राप्तसज्ज: स्वस्वसहकारिकारणै: चक्राम्बुसूत्रै: प्राप्ता सज्जास्वरूपसमृद्धिर्येन स:, एष भाव: सत्ता। समेषामभिन्ननिमित्तोपादानकारणभूतं ब्रह्मेत्यर्थ:। मृदिव भासताम्, मृत्तिकेव प्रतीतिविषयतां भजताम्। एतत् भावरूपया मृदा घटाद्युत्पत्तिप्रभृति सर्वदा दृष्टम्। इह भावस्य स्वीकारे किं विचित्रम् आश्चर्यमिति वद कथय। न किमपीत्यर्थ:।
यथा मृदा मणिकघटशरावादिविविधनामरूपाकृतय उत्पद्यन्ते। तत्र सत्यपि नामरूपादिभेदे मृत्तिका स्वरूपेणैव स्थीयते तथैव विश्वरूपतयाऽवभासमानमपि ब्रह्म परमसत्यरूपेण भासते। तदेवेह प्राप्तप्रसङ्गो व्यवृणोद् ग्रन्थकार:। शङ्कराचार्येणापि तदिदं तथ्यं निर्दिष्टम्-
केनापि मृद्भिन्नतया स्वरूपं
घटस्य सन्दर्शयितुं न शक्यते।
अतो घट: कल्पित एव मोहान्
मृदेव सत्यं परमार्थभूतम्।। विवेकचूडामणौ।।२२९।।
अतो ब्रह्मणो मृदिव भासने न कापि विप्रतिपत्ति:। तत्कार्यस्य सर्वदा दृष्टानुभूतत्वादित्यर्थ:।
अनुवाद - नाना आकार प्रकार के मणिक, घट, शराव आदि के उत्पादन और आकार ग्रहण से अपने अपने सहकारिकारणों से सहायता प्राप्त करके सज्जित मिट्टी की तरह यह भाव भासित हो। मिट्टी अनेक आकार प्रकार में घटित होती है। उन सबके नाम, रूप भी भिन्न भिन्न होते हैं पर मिट्टी अपने ही स्वरूप में अवस्थित रहती है। इसी प्रकार यह ब्रह्मरूप सत्ता विश्व के भिन्न भिन्न रूपों में अवभासित हो कर अपने परम और यथार्थरूप में विद्यमान रहता है। इसमें कोई आश्चर्य नहीं है। क्योंकि मिट्टी के कार्य तो दृष्ट और अनुभूत हैं।
।। ७७।।
कलशजनिषु मृत्स्ना दण्डचक्राम्बुसूत्रा-
द्युपकरणसमष्टिं दीर्घकालानुवृत्त्या।
लभत इति समक्षं वीक्ष्य कोऽपक्षपाती
क्षणिकचिति विवक्षेज्जाग्रदाकारभारम्?।।
अन्वय: - मृत्स्ना कलशजनिषु दीर्घकालानुवृत्त्या दण्डचक्राम्बुसूत्राद्युपकरणसमष्टिं लभते इति वीक्ष्य क: अपक्षपाती क्षणिकचिति जाग्रदाकारभारं विवक्षेत्?
गङ्गा - कलशजनिष्विति- मृत्स्ना मृत्तिका। 'प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिकाÓ इत्यमर:। कलशजनिषु घटोत्पत्तिषु। मृत्पिण्डस्य चक्रे समर्पणं भ्रमणं तथा चान्याघटोत्पत्तिक्रियाप्रदर्शनार्थं बहुवचनम्। दीर्घकालानुवृत्त्या दण्डचक्राम्बुसूत्राद्युपकरणसमष्टिं जलादिसान्निध्यप्राप्त्या, न तु क्षणेनेत्यर्थ:। दण्डादिकारणसमष्टिं लभत इति वीक्ष्य क: अपक्षपाती पक्षपातरहितो जन: क्षणिकचिति क्षणिकविज्ञाने जाग्रदाकारभारम् उत्पद्यमानानाम् आकृतीनां भारं विवक्षेत् वक्तुमुत्सहेत। भवादृक्ष: क्षणिकतापक्षपाती एव तथा कर्तुं शक्नुयात्। त्वद्भिन्नो न कश्चिदन्य इत्यर्थ:। प्रतिक्षणं नवायमानवस्तुषु न कार्योत्पत्तिस्तस्यैकस्यामेव क्रियायामन्वयाभावादिति भाव:।
अनुवाद - कलश की उत्पत्ति में मृत्तिका दीर्घकाल की अनुवृत्ति से दण्ड, चक्र, जल और सूत्र आदि उपकरणों की समष्टि को प्राप्त करती है। यह कार्य एक क्षण में नहीं हो सकता, अपि तु अनेक क्षणसाध्य होता है। प्रतिक्षण परिवर्तित होने वाली वस्तु तो किसी एक ही क्रिया से अन्वित नहीं हो सकती। उससे कार्योत्पत्ति की तो कल्पना ही व्यर्थ है। इस प्रकार मृत्तिका का दीर्घकाल में दण्डचक्र आदि का लाभ देखकर पक्षपात रहित कौन ऐसा व्यक्ति है जो क्षणिक विज्ञान पर उत्पद्यमान आकृतियों का भार बताना चाहेगा। तुझ जैसा क्षणिकता का पक्षपाती ही ऐसा कर सकता है।
।। ७८।।
निगदित उपमाने चेतनत्वात्कुलाले
घटयति बहुदेशानेकदेशे मृदादीन्।
शिखरिजलधिहेतून् कोऽन्य एकत्र कुर्या-
दघटितघटनायां य: पटीयान्स ईश:।।
अन्वय: - बहुदेशान् मृदादीन् चेतनत्वात् एकदेशे घटयति कुलाले उपमाने निगदिते (सति) क: अन्य: शिखरिजलधिहेतून् एकत्र कुर्यात्? य: अघटितघटनायां पटीयान् स: ईश:।
गङ्गा - निगदित इति- बहुदेशान् मृदादीन् बह्वो भिन्नभिन्ना देशा उत्पत्तिस्थित्यादिस्थानानि येषां तान् मृदादीन् मृत्तिकाप्रभृतीन्। आदिना दण्डचक्रजलसूत्रादीनां ग्रहणम्। तान् सर्वानपि घटादिहेतून् मणिकघटशरावादिनिर्माणाय चेतनत्वात्, चेतनयुक्तत्वात् एकस्मिन् देशे घटयति योजयति कुलाले कुम्भकारे उपमाने निगदिते सति। कुलाल: घटादिनिर्माणे समर्थ:। अत: स विविधदेशेषु अरण्यादिषु विकीर्णान् मृत्तिकादण्डादीन् एकदेशे समानीय घटादि निर्माति। स चायं कुलाल उपमानम्। ईश्वरश्चोपमेयम्। यथा घटादीन् निर्माति कुलालस्तथैव जगदिदं परमेश्वर:। क: अन्य: ईश्वरव्यतिरिक्त: शिखरिजलधिहेतून्, शिखरि: पर्वतश्च जलधि: समुद्रश्च तयोर्हेतून्। शिखरिजलधी जगत उपलक्षणे। तन्निर्माणे न कुम्भकारसदृश: कोऽपि सामान्यो मनुष्य: प्रभवति किन्तु घटादिसकर्तृकपदार्थदर्शनेन यथा कुम्भकारस्यानुमानं तथैव शिखरिप्रभृतिकार्यं दृष्ट्वा ईश्वरस्यानुमानम्। तद्भिन्न: कस्तादृशहेतून् एकत्र कुर्यात्? न कोऽपीत्यर्थ:। एवं य: अघटितघटनायां अघटितानामनेकत्र विकीर्णानां शिखरिजलधिहेतूनां घटनायां संयोजने पटीयान् समर्थो दक्षश्च स ईश:, ईश्वर:। एतेन न्यायशास्त्राभिमतेश्वरसिद्धि: प्रदर्शिता। कुसुमाञ्जलिकारेण ईश्वरसिद्धये नवधा अनुमानं प्रदर्शितम्-
कार्यायोजनधृत्यादे: पदात्प्रत्ययत: श्रुते:
वाक्यात् संख्याविशेषाच्च साध्यो विश्वविदव्यय:।।५.१।।
मुक्तावल्यां 'संसारमहीरहस्य बीजायÓ इत्यस्य व्याख्याने ईश्वर: साधित:। तथा हि- यथा घटादि कार्यं कर्तृजन्यं तथा क्षित्यङ्कुरादिकमपि। यथा घटादिकं कार्यत्वाद् भवति कर्तृजन्यं तथा क्षित्यङ्कुरादिकमपि कार्यत्वाद् भवति कर्तृजन्यम्। क्षित्यङ्कुरादिकं, सकर्तृकं, कार्यत्वात्, घटवदित्यनुमानेन ईश्वर: सिद्ध्यतीति। विशेषस्तु आकरग्रन्थे द्रष्टव्य:। 'तरुशैलौ शिखरिणौÓ इत्यमर:। मूले 'कुलाल:Ó इति पाठ:। अर्थलाभायाऽत्र सप्तम्यन्तपाठोऽस्माभि: कल्पित:।
अनुवाद - अनेक देशों में विकीर्ण मिट्टी, दण्ड, जल और सूत्र आदि घट हेतुओं को चेतन होने के कारण कुलाल एक देश में घटित करता है और घट आदि का निर्माण करता है। यह कुलाल ईश्वर का उपमान कहा गया है। ईश्वर के अतिरिक्त और कौन है जो पर्वतों (या वृक्षों) तथा समुद्र आदि के नानादेशों में विकीर्ण हेतुओं को एकत्र करे। अघटित तत्त्वों की घटना में जो चतुर है, वही ईश्वर है। पर्वत, वृक्ष, समुद्र आदि समग्र जगत् घट के समान कार्य हैं। जो कार्य होता है वह सकर्तृक होता है। जैसे घटरूप कार्य का कर्ता कुलाल। सामान्य कुलाल पर्वत आदि की सृष्टि तो कर नहीं सकता। अत: जो इनकी रचना में निपुण होता है, वही ईश्वर है। न्याय शास्त्र में अनुमान प्रमाण से ईश्वर की सिद्धि की गयी है।
।। ७९।।
अनुभवति पुरस्ताद्वस्तु क्लृप्तोकारं
स्मरति तदनु संस्कारोद्भवात्तं चिकीर्षन्।
प्रयतत उपलभ्याऽऽप्नोति शर्मानुपूव्र्या-
दियति महति काले चेतनस्थास्नुरेक:।।
अन्वय: - पुरस्ताद् वस्तु अनुभवति। तदनु संस्कारोद्भवात्तं क्लृप्तोपकारं स्मरति। चिकीर्षन् प्रयतते। उपलभ्य शर्म आप्नोति। इयति महति काले आनुपूव्र्यात् एक: चेतन: स्थास्नु:।
गङ्गा - अनुभवतीति- चेतन: पुरस्तात् वस्तु अनुभवति, तद्विषयकं ज्ञानं प्राप्नोति। तदनु, तदनन्तरं संस्कारोद्भवात्तं संस्कारजन्यत्वात् प्राप्तं तस्य वस्तुन: क्लृप्तोपकारं स्मरति, क्लृप्तं समग्रं कारणत्वेन ज्ञानत्वेन चोपकारं स्मरति। चिकीर्षन् कर्तुमिच्छन् प्रयतते कृतिमान् भवति। उपलभ्य निर्मितं तद्वस्तु प्राप्य शर्म सुखमनुभवति। इयति महति काले अनुभवात् सुखप्राप्तिं यावद् आनुपूव्र्यात् क्रमस्य सत्त्वात्। अनुभव:, स्मरणं, चिकीर्षा, कृति:, सुखमिति सर्वमेकस्मिन्नेव चेतने क्रमश: जायते। अत एक एव चेतन: स्थास्नु: स्थानशील:। 'स्थास्नु: स्थिरतर: स्थेयान्Ó इत्यमर:। चेतनस्य क्षणिकत्वात् एकस्मिन् चेतनेऽनुभवेऽपरस्मिन् संस्कारोऽन्यस्मिंश्च कृतिरिति व्यवस्था न स्यात्। तथा चोक्तम्-
ज्ञानजन्या भवेदिच्छा इच्छाजन्या भवेत्कृति:।
कृतिजन्या भवेच्चेष्टा चेष्टाजन्या भवेत्क्रिया।।
चेतनभेदेऽनुभवसिद्धस्य कार्यकारणयोरेकाधिकरण्यस्य अनुपपत्तिर्दुर्निवारा। अतो न क्षणिकत्वमङ्गीकार्यमित्यर्थ:।
अनुवाद - कोई भी पहले वस्तु का अनुभव करता है, उसका ज्ञान प्राप्त करता है। उसके बाद संस्कारों के उद्भव से प्राप्त उस वस्तु के उपकार का स्मरण करता है, तदनन्तर उसमें चिकीर्षा (वस्तु के निर्माण की इच्छा) उत्पन्न होती है। तदनन्तर वह यत्नवान् होता है फिर उसे प्राप्त करता है और प्राप्ति से सुख का अनुभव करता है। इतने लम्बे समय में क्रम होने के कारण यह सब एक ही चेतन में होता है। ऐसा नहीं है कि अनुभव कोई और चेतन करे और बाद के कार्य उससे भिन्न चेतनों द्वारा किए जाएँ। जो अनुभव करेगा, उसी में इच्छा उत्पन्न होगी, वही कृतिमान् होगा। अर्थात् सबका आधार वही एक चेतन होगा। अत: वही चेतन ही इतने समय तक स्थिर रहता है। चेतन की क्षणिकता मानने से इन कार्यों की उपपत्ति नहीं होगी तथा अनुभवसिद्ध कार्यकारण के एकाधिकरण का नियम भी भंग होगा। अत: क्षणिकता स्वीकार योग्य नहीं है।
।। ८०।।
सनियममनुभूतिस्मृत्यपेक्षाकृतीष्ट-
क्रममधिकरणैक्ये वीक्ष्य को मुक्तलज्ज:।
क्षणिकमथ च शून्यं मूढ! विज्ञानमिच्छेत्
फ लजनिषु नियोक्तुं? त्वं समीक्षस्व तावत्।।
अन्वय: - हे मूढ! अनुभूतिस्मृत्यपेक्षाकृतीष्टक्रमं सनियमम् अधिकरणैक्ये वीक्ष्य क: मुक्तलज्ज: क्षणिकम् अथ च शून्यं विज्ञानं फलजनिषु नियोक्तुम् इच्छेत्? (इति) त्वं तावत् समीक्षस्व।
गङ्गा - क्षणिकमथेति- हे मूढ! बौद्धरूपधारिन् विलासिन्! अनुभूतिस्मृत्यपेक्षाकृतीष्टक्रमम् अनुभूतिरनुभवश्च स्मृतिश्च अपेक्षा वस्तुन इच्छा च कृति: यत्नं च इष्टश्चेष्टां च तेषां क्रममनुक्रमं सनियमं नियमानुसारेण यथोक्तक्रमेण अधिकरणैक्ये एकस्मिन्नधिकरणे वीक्ष्य दृष्ट्वा क: खलु मुक्तलज्ज: क्षणिकम् अथ च शून्यं ते विज्ञानं फलजनिषु कार्योत्पत्तिषु नियोक्तुं निर्धारयितुम् इच्छेत्। न कोऽपीति भाव:। अनुभूतिप्रभृतिषु कश्चन क्रमो भवति। प्रथममनुभव:, तज्जन्यसंस्कारेण स्मरणं तत: अपेक्षा ततो यत्नं तत: इष्ट: इत्यनुक्रमेणैव अनुभूत्यादीनां व्यवस्थिति:। तव विज्ञानस्य क्षणिकत्वादथ च शून्यत्वात् नैषा क्रमोपपत्तिव्यवस्था एकस्मिन्नधिकरणे स्यादिति व्यवस्थाभङ्गात् को निर्लज्ज: कार्योत्पत्तिषु ते विज्ञानमभिनन्देत् इति तावत् समीक्षस्व विचारय। त्वदतिरिक्तो न कश्चित्तादृश इति भाव:। कार्योत्पत्तौ सोऽयं क्रमो न मया अलिना निर्धारितोऽपितु शास्त्रज्ञै:। तथा हि-
ज्ञानजन्या भवेदिच्छा इच्छाजन्या भवेत्कृति:।
कृतिजन्या भवेच्चेष्टा चेष्टाजन्या भवेत्क्रिया।।
एतत्सर्वं क्रमेणैकस्मिन्नेव अधिकरणे स्यात्। तवाऽभिमतक्षणिकशून्यवादे न तथा भवितुमर्हतीति न तत्र कार्योत्पत्तिप्रसङ्ग:। अन्यस्मिन्नन्यस्मिन्नधिकरणे नेयं व्यवस्था भवेदिति तात्पर्यम्।
अनुवाद - हे मूर्ख! अनुभव, स्मरण, अपेक्षा, कृति और इष्ट (चेष्टा) के क्रम को यथोक्तक्रम से एक अधिकरण पर देखकर ऐसा कौन निर्लज्ज है जो तुम्हारे क्षणिक और शून्य विज्ञान को फलोत्पत्ति में योजित करना चाहेगा। तुम इस विषय में विचार करो।
टिप्पणी - प्रस्तुत पद्य में बौद्धों के क्षणिक और शून्यवाद की आलोचना की गयी है। उनके अनुसार सभी पदार्थ क्षणिक या अभावरूप हैं। इस पर कवि का कहना है कि कार्यजनन में क्षण कारण नहीं हो सकता। कोई भी व्यक्ति पहले किसी वस्तु का अनुभव करता है, फिर उसका स्मरण करता है, तदनन्तर उसकी अपेक्षा होती है, उससे कृति और कृति से चेष्टा तथा चेष्टा से क्रिया उत्पन्न होती है। इन सबको एक ही अधिकरण में होना चाहिए। क्षणिकता या शून्यता को स्वीकार करने से यह व्यवस्था नहीं बनती। जिस वस्तु का अनुभव जिस व्यक्ति द्वारा जिस क्षण में किया जायेगा दूसरे क्षण में न तो वह वस्तु रहेगी, न वह अनुभव और न ही वह व्यक्ति। अत: इन अनुभव आदि का क्रम भी वहाँ नहीं बन पायेगा। जिससे कार्योत्पत्ति बाधित होगी। इसलिए क्षणिक और शून्य विज्ञान को छोड़ ही देना चाहिए। इस क्रमविशेष के लिए एक ही स्थिर चेतन अपेक्षित है। पूर्व पद्य में भी यह बात कही गयी है।
।। ८१।।
क्षणमुदयति यावद्बौद्धविज्ञानचन्द्र:
कवलयति हि तावद्राहुवत्तं क्षणोऽग्र्य:।
जनयतु विषयं तं संयुनक्तु व्यनक्तु
स्वयमपि च विभात्वित्यस्थिरेऽस्मिन् न शक्यम्।।
अन्वय: - यावद् बौद्धविज्ञानचन्द्र: क्षणम् उदयति तावत् हि अग्र्य: क्षण: राहुवत् तं कवलयति। विषयं जनयतु, तं संयुनक्तु, व्यनक्तु स्वयम् अपि च विभातु इति अस्मिन् अस्थिरे (विज्ञाने) न शक्यम्।
गङ्गा - क्षणमुदयेति- यावत् यावति काले बौद्धविज्ञानचन्द्र: बौद्धानां क्षणिको विज्ञानरूपश्चन्द्र: क्षणं निमेषम् उदयति उदयं प्राप्नोति। अनुभवविषयतां गच्छतीत्यर्थ:। तावत् तावति काले सपद्येव अग्र्य: द्वितीयस्तदनन्तरभावी क्षण: राहुवत् तं कवलयति। प्रथमक्षणस्य तद्गतविषयस्य च सत्तां विनाशयतीत्यर्थ:। अयं क्षण: विषयं जनयतु, तं विषयमन्येन संयुनक्तु स्वयमपि च विभातु प्रकाशतां गच्छतु इति अस्मिन् अस्थिरे विज्ञाने न शक्यम्। सर्वं क्षणिकमिति कृत्वाऽत्र क्षणद्वययोगाभावात् किमपि न भवेदित्यर्थ:।
अनुवाद - जैसे ही बौद्धों का विज्ञानरूपी चन्द्र क्षण भर के लिए उदित होता है वैसे ही दूसरा क्षण राहु की तरह उसे कवलित कर लेता है। द्वितीय क्षण में प्रथमक्षण में अनुभूत विषय की सत्ता नहीं रह जाती। ऐसे में यह क्षण अस्थिर होने के कारण न तो विषय को उत्पन्न कर सकता, न उसे संयुक्त कर सकता और न ही स्वयं प्रकाशित हो सकता। इन सबके लिए क्षणद्वयसम्बन्ध अपेक्षित है, जो बौद्धों को अभिमत नहीं है।
।। ८२।।
करगतमपहाय प्रत्यभिज्ञोपपन्नं
लघुतरमपबाधं चोचितं चेतनैक्यम्।
प्रकटयसि मृषोक्तं निर्वहेदित्यगत्या
गुरुमनुभवबाह्यां वासनां कल्पयंस्त्वम्।।
अन्वय: - लघुतरम् अपबाधम् उचितं च करगतं प्रत्यभिज्ञोपपन्नं चेतनैक्यम् अपहाय अगत्या गुरुम् अनुभवबाह्यां वासनां कल्पयन् त्वं मृषोक्तं प्रकटयसि। (तत् मृषोक्तम्) इति निर्वहेत्?
गङ्गा - करगतमिति- लघुतरं विविधविज्ञानस्वीकृत्यपेक्षया लाघवयुक्तं, यस्य स्वीकारे गौरवं नास्तीत्यर्थ:। अपबाधं समेषामनुभवविषयत्वाद् बाधरहितम् उचितं च करगतं हस्तगतमिव स्पष्टं प्रत्यभिज्ञोपपन्नं प्रत्यभिज्ञया संस्कारेन्द्रियसहकृतज्ञानेन उपपन्नं सिद्धं सर्वत्र एकस्यैव चेतनस्य सत्त्वात् तदेवेदमिति रूपेण सिद्धं चेतनैक्यम् चेतनस्य आत्मन एकताम् अपहाय परित्यज्य। अद्वैतनये चेतनस्यैक्यम्। क्षणवादिनस्तु तथा न सहन्ते। तेषां मते सर्वं क्षणिकमिति चेतनस्यापि क्षणिकत्वम्। तादृशं चेतनैक्यं परित्यज्य अगत्या जगद्व्यवहारनिर्वाहे गतिविहीनतया गुरुं गौरवयुक्ताम् अनुभवबाह्याम् अनुभूतिविषयबाह्यां विचित्रामेकसन्तानवर्तिनामालयविज्ञानानां तत्तत्प्रवृत्तिविज्ञानजननशक्तिरूपां वासनां कल्पयन् त्वं मृषोक्तं प्रकटयसि। तत्ते मृषोक्तं चेतनैक्यं निर्वहेत्? न निर्वहेदिति भाव:। एतेन बौद्धानामालयविज्ञानसिद्धान्तो निराकृत:। बौद्धाश्चेतनाया ऐक्यं न स्वीकुर्वन्ति। आलयविज्ञानप्रवृत्तिविज्ञानभेदात् ते चित्तस्य द्वैविध्यं स्वीकुर्वन्ति। आलयविज्ञाने धर्मा बीजत्वेनावस्थिता भवन्ति। त एव विज्ञानतया जगद्व्यवहारे हेतुत्वं भजन्ते। इदमालयविज्ञानमहमास्पदं विज्ञानम्। यथा समुद्रे वायुप्रेरिता नाना तरङ्गा उत्पत्तिं लभन्ते तथैवालयविज्ञाने बाह्यविषयाणां विचित्रा विज्ञानतरङ्गा जनिं लभन्ते। न कदापि भवत्येतेषां विनाश:। आलयविज्ञानं समुद्रवद् गभीरं विद्यते। तत्र विषयरूपपवनप्रेरितास्तरङ्गा उत्तिष्ठन्ति। लङ्कावतारसूत्रे सोऽयं विषयो व्याख्यात:-
तरङ्गा उदधेर्यद्वत्पवनप्रत्ययेरिता:।
नृत्यमाना: प्रवर्तन्ते व्युच्छेदश्च न वर्तते।।
आलयौघस्तथा नित्यं विषयपवनेरित:।
चित्रैस्तरङ्गविज्ञानै: नृत्यमान: प्रवर्तते।।९९-१००।।
एतान्यालयविज्ञानान्येव प्रवृत्तिविज्ञानोत्पादनपराणि वासनाशब्देनोच्यन्ते। सा चेयं वासना अनुभवबाह्या गौरवग्रस्ता चेति तदपेक्षया चेतनैक्यस्वीकार एव लाघवमिति कवेराशय:।
अनुवाद - लाघवयुक्त, बाधरहित, उचित, हस्तामलकवत् स्पष्ट, प्रत्यभिज्ञा से सिद्ध चेतना की एकता को छोड़कर अगतिकगति से अनुभव से बाहर की वस्तु वासना की कल्पना करके तुम अपनी मृषा उक्ति को प्रकट कर रहे हो। यह मृषोक्ति तुम्हारा निर्वाह करेगी क्या?
टिप्पणी - विज्ञानवादी बौद्ध चेतना की एकता को स्वीकार नहीं करते। उनके यहाँ चेतना भी अन्यविषयों की भाँति क्षणिक है। ऐसे में सांसारिक व्यवहार की प्रसत्ति के लिए बौद्ध आलयविज्ञान को स्वीकार करते हैं। उनका यह आलयविज्ञान समुद्र के समान विशाल और गंभीर है। इसमें विषय रूप पवनों से क्षुब्ध होकर विज्ञानरूप तरंगें उठती हैं। इन तरंगों का कभी विनाश नहीं होता। संतानपरम्परा रूप में विद्यमान रहने वाला यह आलयविज्ञान जिस शक्ति से प्रवृत्ति विज्ञान को जन्म देता है उसे वासना कहते हैं। यह वासना बाह्य विषयों से ओतप्रोत रहती है।
कवि का कथन है कि चेतना की एकता अनुभव सिद्ध होने के कारण तथा अनेक विज्ञानों की स्वीकृति की अपेक्षा लाघवयुक्त है। यह एक होने से प्रत्यभिज्ञा से सिद्ध है। समस्त वस्तुओं में 'तदेवेदम्Ó रूप से इसकी प्रतीति होती है। फिर हाथ में आयी हुई उस चेतना की एकता को छोड़कर तुम अनुभव के बाहर की चीज वासना को व्यर्थ ही स्वीकार कर रहे हो। यह चेतना की एकता की अपेक्षा गौरव ग्रस्त है।
।। ८३।।
क्वचन विषयबाधं वीक्ष्य रूप्यभ्रमादा-
वनुभवितरि बाधं यो वदेदात्मचोर:।
असदपि किल तस्योत्पे्रक्षमाणस्य सोऽयं
विबुधजनविगीतो भिक्षुपादप्रसार:।।
अन्वय: - स: आत्मचोर: क्वचन रूप्यभ्रमादौ विषयबाधं वीक्ष्य अनुभवितरि बाधं वदेत् तस्य किल असत् अपि उत्पे्रक्षमाणस्य सोऽयं विबुधजनविगीत: भिक्षुपादप्रसार: (वर्तते)।
गङ्गा - क्वचन विषयेति- य: आत्मचोर: आत्मनश्चोर:, आत्मसत्तापहारक इत्यर्थ:। क्वचन रूप्यभ्रमादौ शुक्तौ रजतभ्रमादिस्थले विषयबाधं विषयस्य ज्ञेयस्य शुक्ते: बाधं वीक्ष्य दृष्ट्वा अनुभवितरि चेतनविषये बाधं वदेत्। तस्य किल असत् अपि उत्प्रेक्षमाणस्य विषयबाधं चेतनबाधत्वेन निरूप्यमाणस्य सोऽयं बाधनिरूपणप्रयास: विबुधजनविगीत: विद्वद्भिर्निन्दित: भिक्षुपादप्रसार: विद्यते। यथा भिक्षुकस्य पादप्रसारोऽधिकप्राप्तिलालसा विद्वद्भि: न प्रशस्यते तथैव आत्मसत्तानिराकर्तु: सोऽयं प्रयास: नाभिनन्द्यत इत्यर्थ:। आत्मविषयकज्ञानाभावे ते तथा प्रवृत्तिर्नोचितेति भाव:। भिक्षुपादप्रसारन्याय: शाास्त्रे प्रसिद्ध:। यथा कश्चिद्भिक्षुर्यथेष्टभोजनाच्छादनवासगृहादिलाभार्थं कस्यचिद्धनिनो गृहे प्रविश्य युगपत्सर्वाभीष्टालाभं मन्यमान: प्रथमं धनिगृहे मे पादप्रसारणमस्तु पश्चादनेन परिचयमुत्पाद्य सर्वमभीष्टं सम्पादयिष्यामीति धिया स्वल्पामपि भिक्षां बहुमन्यमान: पश्चात्क्रमेण स्वाभीष्टं सम्पादयत्येवं यत्र विवक्षा तत्रास्य न्यायस्य प्रवृत्ति:। बौद्धस्य तव चैतन्यविषयेऽपलाप: न स्वीकारयोग्य इत्यर्थ:।
अनुवाद - जो आत्मचोर (आत्मा की सत्ता को चुराने वाला) कहीं शुक्ति में रजतभ्रम आदि होने पर विषय शुक्ति के बाध को देखकर उसे चेतना का बाध कहे उस असत् उत्प्रेक्षा करने वाले (विषयबाध को चेतनबाध निरूपित करने वाले) का यह प्रयास निश्चय ही भीख मांगने वाले के पैर पसारने के समान हैं। ऐसा प्रयास विद्वानों के द्वारा निन्दनीय है। जब तुम चेतन के बारे में जानते ही नहीं तो उसके बाध की बात करने का तुम्हें अधिकार ही नहीं है।
।। ८४।।
न भवति घटसत्ता मृद्विनाशे कदाचित्
प्रकृतिजनकसत्ताऽपेक्षिणी कार्यसत्ता।
प्रकृतिविकृतिविज्ञानैककालत्वविद्विट्
नियममिममकस्माद्बाधते तन्न युक्तम्।।
अन्वय: - मृद्विनाशे (सति) कदाचित् अपि घटसत्ता न भवति। कार्यसत्ता प्रकृतिजनकसत्तापेक्षिणी भवति। प्रकृतिविकृतिविज्ञानैककालत्वविद्विट् इमं नियमम् अकस्मात् बाधते। तत् न युक्तम्।
गङ्गा - न भवतीति- मृद्विनाशे मृद: समवायिकारणस्य विनाशे सति कदाचिदपि घटसत्ता न भवति। मृदुपादाननिर्मितघटाकृतिप्रभृति तदुपादानकारणविनाशात् विनश्यतीत्यर्थ:। अत एव कार्यसत्ता कार्यस्य घटादे: सत्ता प्रकृतिजनकसत्तापेक्षिणी भवति प्रकृतिकारणरूपा या मृत् तस्या: सत्ताया अपेक्षिणी भवति। यावत् प्रकृतिजनककारणसत्ता तावत् कार्यसत्ता। उपादानकारणविनाशे तद्विनाश इत्यर्थ:। प्रकृतिविकृतिविज्ञानैककालत्वविद्विट्, प्रकृतिश्च विकृतिश्च तयोर्विज्ञानस्य एककालत्वं य: विद्वेष्टि स क्षणवादी बौद्ध:, प्रकृतौ मृत्स्नायां या विकृति: विनाशरूपो विकार उत्पद्यते तयोर्विज्ञानस्य एककालत्वविद्वेषक: इमं नियमं कारणविनाशे कार्यविनाशनियमं कार्यसत्ताया: प्रकृतिजनकसत्तापेक्षित्वनियमं च अकस्मात् सहसैव क्षणस्वीकृतेर्बाधते। तन्न युक्तम्। बौद्धनये क्षणिकतास्वीकृते: प्रकृतिविकृतिविज्ञानमेकस्मिन्नेव काले न जायते। प्रतिक्षणं तद्भवतीत्यर्थ:। प्रतिक्षणं विनश्यन् वस्तु नाशं प्राप्नोतीति तेषां मतेऽनेककालत्वं घटविनाशे।
अनुवाद - मिट्टी का विनाश हो जाने पर कभी भी घट की सत्ता नहीं रहती। कार्य की सत्ता प्रकृतिजनकसत्ता की अपेक्षा रखती है। जब तक प्रकृतिकारण की सत्ता रहेगी तब तक कार्य की भी सत्ता रहेगी, जब प्रकृतिकारण नष्ट हो जायेगा तब कार्य भी नष्ट हो जायेगा। इनमें एककालत्व है। किन्तु प्रकृति और विकृति के विज्ञान की एक कालता के विद्वेषक बौद्ध इस नियम को अकस्मात् बाधित कर देते हैं। यह ठीक नहीं। बौद्धों के अनुसार कोई भी वस्तु प्रतिक्षण विनष्ट होती हुई विनाश को प्राप्त होता है। विनाश की यह प्रक्रिया उनके यहाँ एककाल में घटित न होकर अनेक काल (क्षणों) में घटित होती है। इससे प्रकृति और विकृति के विज्ञान का एककालत्वनियम बाधित होता है।
।। ८५।।
श्रयति मृदुदकाप्त्या पिण्डतां कुम्भकार-
प्रथमचरमकृत्यो: स्यात् कपालं घटश्च।
वहति च दृढदण्डाघाततो मृत्स्वरूपं
न पुनरिह सुदर्शोऽभावलेशोऽपि कश्चित्।।
अन्वय: - मृत् उदकाप्त्या पिण्डतां श्रयति। कुम्भकारप्रथमचरमकृत्यो: कपालं घट: च स्यात्। मृत् च दृढदण्डाघातत: स्वरूपं वहति। इह पुन: कश्चित् अपि अभावलेश: सुदर्श: न (अस्ति)।
गङ्गा - श्रयतीति- मृत् मृत्स्ना उदकाप्त्या जलसंस्कारेण पिण्डतां पिण्डरूपतां श्रयति आश्रयति। जलसंयोगेन मृत्तिका पिण्डरूपेण परिणमत इत्यर्थ:। कुम्भकारप्रथमचरमकृत्यो: कुभकारस्य प्रथमचरमकृत्यो: प्रथमकृतौ चरमकृतौ च क्रमश: कपालं घट: च स्यात्। एकस्मिन्नेव क्षणे घटो न उत्पद्यते। पिण्डरूपा मृत् च दृढदण्डाघातत: कठोरदण्डस्य आघातात् भृशताडनात् स्वरूपं वहति धारयति। इह अस्मिन् घटसर्गे अनेकक्षणानां व्यवधानेऽपि कश्चित् अपि अभावलेश: अभावस्य लेशोऽपि सुदर्श: दृष्टिविषय: न अस्ति। सर्वस्य क्षणिकत्वे कश्चिदभावोऽत्र स्यात्। स न भवतीति ते क्षणिकत्वं मृषोक्तमेवेत्यर्थ:।
अनुवाद - मिट्टी जल के संसर्ग से पिण्डता का आश्रयण करती है। कुम्भकार की प्रथम कृति कपाल और चरम कृति घट होता है। एक ही क्षण में घट उत्पन्न नहीं हो जाता। दृढ़ दण्ड के आघात से मिट्टी स्वरूप धारण करती है। इस सारी प्रक्रिया का कोई भी अभावलेश दृष्टिगत नहीं होता। सबके क्षणिक होने पर यहाँ कोई अभाव तो दिखता? अत: तुम्हारा क्षणिकत्व मृषा है।
।। ८६।।
दृषदि चतुरशिल्पोत्कीर्णसिंहादिरूपं
सदपि तदधिकाश्मोत्सारणाद्भाति यद्वत्।
सदपि सकलरूपं ब्रह्मणि स्वप्रकाशा-
वृतिकरपररूपोत्सारणाद्भाति तद्वत्।।
अन्वय: - यद्वत् दृषदि सत् अपि चतुरशिल्पोत्कीर्णसिंहादिरूपं तदधिकाश्मोत्सारणाद् भाति तद्वत् सत् अपि सकलरूपं स्वप्रकाशावृतिकरपररूपोत्सारणाद् ब्रह्मणि भाति।
गङ्गा - दृषदीति- यद्वत् यथा दृषदि शिलायां सत् अपि विद्यमानम् अपि चतुरशिल्पोत्कीर्णसिंहादिरूपं चतुरशिल्पकारेण उत्कीर्णं टङ्कितं सिंहादिरूपं सिंहाश्वादीनां स्वरूपं तदधिकाश्मोत्सारणाद् तस्या: दृषद: अधिकस्य सिंहाद्याकृत्याच्छाकस्य उत्सारणात् बहिर्निष्कासनात् भाति। शिलायां सिंहादिरूपं सत् भवति। तत्र आच्छादकस्य प्रस्तराधिकस्य कारणात् दृष्टिपथं नाऽवतरति। शिल्पिभि: अधिकाश्मोत्सारणात् तत्प्रकटीभवति। तद्वत् तथा सत् अपि विद्यमानमपि सकलरूपं स्वप्रकाशावृतिकरपररूपोत्सारणात्, स्वप्रकाशस्य आत्मचैतन्यस्य आवृतिकरम् आच्छादकं यत् पररूपमज्ञानं तस्य उत्सारणाद् ब्रह्मणि भाति प्रकाशते। अतो न कोऽपि पदार्थ उत्पद्यते, तदभिव्यज्यत इत्यर्थ:।
अनुवाद - जैसे शिला में विद्यमान भी चतुरशिल्पकर के द्वारा उत्कीर्ण सिंह आदि का रूप उस शिला के अधिक प्रस्तरखण्डों के उत्सारण से सुशोभित (अभिव्यक्त) होता है। उसी प्रकार ब्रह्म में सकलरूप विद्यमान रहते हैं। स्वप्रकाशरूप आत्मचैतन्य को आवृत करने वाले अज्ञान के उत्सारण से वे ब्रह्म में प्रकाशित होते हैं।
।। ८७।।
पतति जलधितोये नाविकस्य प्रमादात्
किमु वदसि विनाशं वाऽऽवृतिं वा घटादौ।
पुनरपि न विनष्टो दृश्यते दृश्यतेऽसौ
व्यवधिरत उपेय: साऽस्तु सर्वत्र रीति:।।
अन्वय: - नाविकस्य प्रमादात् जलधितोये पतति (सति) घटादौ विनाशम् आवृतिं वा वदसि? विनष्ट: पुन: अपि न दृश्यते। असौ (घट:) दृश्यते। अत: व्यवधि: उपेय:। सा रीति: सर्वत्र अस्तु।
गङ्गा - पततीति- नाविकस्य प्रमादात् अनवधानात् जलधितोये समुद्रजले पतति सति घटादौ, आदिना तुम्बिकादीनां सङ्ग्रह:। विनाशम् आवृतिम् आवरणं वा वदसि? नाविकस्य प्रमादात् समुद्रजले पतित: घट: कदाचिज्जले निमज्जति कदाचिच्च उपरि आयाति। तत्र क्षणिकतोपासकस्त्वं घटस्य नाशं स्वीकरोषि जलेन तस्य आवरणं वा? यदि नाम विनाशं स्वीकरोषि तर्हि विनष्ट: पुन: अपि न दृश्यते। अयं तु पुन: उपरि आयतीति दृश्यतेऽपि। अतो घटविनाशस्तत्र न स्वीकारयोग्य:। अत: व्यवधि: व्यवधानम् आवरणमिति यावत्। अज्ञानरूपमिदमावरणं सच्चिदानन्दस्वरूपमावृणोति। यस्मिन् क्षणे निमग्नं तस्मिन् क्षणे जलावरणात् तददर्शनम् यदा पुनरुपरि दृष्टस्तदाऽऽवरणभङ्ग:। उपेय: अभ्युपगन्तव्य:। सा व्यवधानरीति: सर्वत्र जागतिकप्रपञ्चेषूत्पत्तिविनाशेष्वपि अस्तु, भवतु। आवरणदशायां विनाशो दर्शनदशायां चोत्पत्तिरिति प्रतिक्षणमुत्पत्तिविनाशौ न स्वीकारयोग्यावित्यर्थ:।
अनुवाद - नाविक के प्रमाद से समुद्र के जल में गिरे हुए घट को तुम विनष्ट समझते हो या उसे जल से आवृत मानते हो? विनष्ट घट फिर से दृष्टिगत नहीं हो सकता किन्तु यह घड़ा दिखाई देता है। अत: इसमें जल का व्यवधान (आवरण) मानना चाहिए। जब वह डूबा है तब जल के व्यवधान से उसका दृष्टिगत न होना स्वाभाविक है और जब वह ऊपर आ गया उस समय जलरूप आवरण के हट जाने से उसका दर्शन भी स्वाभाविक है। यही नियम समस्त जागतिक प्रपंचों में भी समझना चाहिए। आवरणदशा में उस घट का विनाश तथा दर्शन होने पर उत्पत्ति मानना उचित नहीं।
।। ८८।।
अथ यदि सति कुम्भे दृश्यमानेऽपि तत्त-
द्व्यवहितबहुरूपोद्भावनैकाग्रहेण।
निगदसि तदभावं तान्यनन्तानि तस्माद्
घट इति लघु वाच्ये स्यादभावोक्तिभार:।।
अन्वय: - अथ यदि कुम्भे दृश्यमाने सति अपि तत्तद्व्यवहितबहुरूपोद्भावनैकाग्रहेण तानि अनन्तानि (इति) तदभावं निगदसि। तस्मात् घट इति लघुवाच्ये अभावोक्तिभार: स्यात्।
गङ्गा - अथ यदीति- अथेत्यनेन पक्षान्तरमुद्भावयति। यदि क्षणिकतोपासकस्त्वं बौद्ध: दृश्यमाने दृष्टिविषयतां भजमाने सत्यपि घटे तस्मिन् तत्तद्व्यवहितबहुरूपोद्भावनैकाग्रहेण तेषां तेषां व्यवहितानाम् आवृतानां बहुरूपाणामुत्पत्तीनामेकाग्रहेण हठेन, स घट: प्रतिक्षणं निमज्जन् पुनरुपरि दृश्यते। अत: क्षणवादमाश्रित्य त्वं प्रतिव्यवधानमभिनवरूपं स्वीकृत्य तत्र बहुरूपाणामुत्पत्त्येकाग्रहेण तानि बहुरूपोद्भावनानि अनन्तानि इति कृत्वा निमग्नताक्षणे तदभावं तस्य घटस्य अभावं निगदसि। तस्मात् घट इति लघुवाच्ये तस्मिन् अभावोक्तिभार: प्रतिक्षणं विनाशकल्पनया अभावोक्तिभार: स्यात्। अतो न बहुरूपोत्पत्तिस्तत्र स्वीकरणीयेत्यर्थ:।
अनुवाद - और यदि तुम दृश्यमान होने पर भी उन उन व्यवधानों से (प्रतिक्षण डूबने को विनाश मान कर) बहुत से रूपों के उद्भावन का आग्रह करते हो तथा उन उद्भावनों के अनन्त होने से पूर्व पूर्व क्षणो में डूबे हुए घट का अभाव कहते हो और उत्तर उत्तर क्षणों में दृष्टिगत हो रहे उस घट की उत्पत्ति मानते हो। तब तो घट इस लघुपद से वाच्य उस घट पर अभावोक्ति का भार ही हो जाएगा। अत: क्षणिकता के आश्रय से इस अभाव को मानना उचित नहीं।
।। ८९।।
इति निगदितरीत्या भावसङ्घातसाध्ये
सुवच उचितभावप्रोद्भवे सर्वदैव।
अधिकरणविरोधिज्ञप्त्यधीनप्रकाशौ
क्वचिदपि मम नेष्टौ प्रागभावप्रकाशौ।।
अन्वय: - इति निगदितरीत्या भावसङ्घातसाध्ये सर्वदा सुवचे भावप्रोद्भवे अधिकरणविरोधिज्ञप्त्यधीनप्रकाशौ प्रागभावप्रणाशौ मम क्वचित् अपि इष्टौ न स्त:।
गङ्गा - इति निगदितेति- इति एवम्प्रकारेण पूर्वं निगदितरीत्या कथितया शैल्या भावसङ्घातसाध्ये भावानां साध्ये सर्वदा एव सुवचे स्वीकारयोग्ये उचितभावप्रोद्भवे उचितानां दण्डचक्रचीवरादितत्तद्भावसङ्घातसाध्यानां भावानां घटादीनां प्रोद्भवे आविर्भावे तिरोभावे च। प्रोद्भवशब्दोऽत्र तिरोभावस्याऽप्युपलक्षणम्। अधिकरणविरोधिज्ञप्त्यधीनप्रकाशौ, अधिकरणम् आधारश्च विरोधी प्रतियोगी च तयोरधिकरणप्रतियोगिनो: ज्ञानाधीन: प्रकाश: ज्ञानं ययोस्तौ प्रागभावप्रणाशौ प्रागभावप्रध्वंसाभावौ मम अलेरद्वैतपथानुयायिन: क्वचिदपि न इष्टौ न सम्मतौ। अभावस्य ज्ञानम् अधिकरणप्रतियोगिनो ज्ञानाधीना भवति। 'भूतले घटो नास्तिÓ इत्यत्र भूतलमधिकरणं घटश्चाभावप्रतियोगी। अभावज्ञानम् अनयोर्घटभूतलयोज्र्ञानाधीना। तज्ज्ञानं विना नाभावज्ञानमुदेति। अलिमते कार्यस्योत्पत्तिर्न भवति। तेन तु कार्यस्याविर्भाव एव स्वीक्रियते। आविर्भावो नाम प्रकाश:। मृदादिकारणे विद्यमान एव घटो दण्डादिकारणसङ्घातेन पुन: प्रकाशते। अतोऽत्र 'उत्पत्ते: प्राक् कारणे कार्यस्याभावरूप: प्रागभावो न नाऽभिमत:। मुद्गरादिप्रहारे सति कार्यं कारणमालायां तिरोभवतीति तन्मते उत्पन्नस्य कारणेऽभावरूपस्य प्रध्वंसाभावस्यापि प्रसङ्गो नापतति। तदेतत्सर्वं स्वाभिमतभावाविर्भावप्रसङ्ग: 'श्रयति मृदुदकाप्त्याÓ इत्यादिपद्ये निरदिशदलि:। क्षणवादिमते तु प्रागभावप्रध्वंसाभावप्रसङ्ग: स्यात्तेन तस्य अधिकरणप्रतियोगिज्ञानपरतन्त्रताऽपि भवेत्। मम तु न तथेति भाव:।
अनुवाद - इस प्रकार मेरे मत में ऊपर कहे गये क्रम से दण्डचक्रचीवर आदि भावों के संघात से घट आदि पदार्थों का आविर्भाव और तिरोभाव सर्वथा सुवच है। मैं पदार्थों का आविर्भाव और तिरोभाव स्वीकार करता हूँ। यह आविर्भाव तिरोभाव संघात से साध्य होता है। अत: अधिकरण और प्रतियोगी के ज्ञान के अधीन जिनका ज्ञान होता है, ऐसे प्रागभाव और प्रध्वंसाभाव मुझे अभीष्ट नहीं है। तुझ क्षणिकवादी के मत में प्रत्येक क्षण पदार्थों की उत्पत्ति और विनाश का क्रम चलता रहता है, अत: तुझे प्रागभाव और प्रध्वंसाभाव इष्ट हैं।
टिप्पणी - वेदान्त मत में कार्य का आविर्भाव कारणसमूह से माना गया है। उनके अनुसार उचित कारण सामग्री से घटादि पदार्थों का आविर्भाव होता है। उस सामग्री के तिरोहित हो जाने से पदार्थ भी तिरोहित हो जाता है। अत: इनके मत में किसी पदार्थ का प्रागभाव या उसका प्रध्वंसाभाव प्रसक्त नहीं होता। क्षणवादी बौद्ध के मत में पदार्थों की क्षणिकता स्वीकृत होने से भावों का संघात संभव नहीं है। इनके मत में उत्पत्स्यमान पदार्थ का प्रागभाव तथा विनष्ट पदार्थ का प्रध्वंसाभाव प्रसक्त होता है। अलि ने ऊपर 'श्रयति मृदुदकाप्त्याÓ इत्यादि पद्य में अपनी पदार्थाविर्भावप्रक्रिया का कथन किया है। कारणसमूह में विद्यमान कार्य उचितभावों से आविर्भूत होता है। उसी प्रकार कारणसामग्री के बिखर जाने पर वह उसी में तिरोभूत हो जाता है। अत: अलि को किसी भी कार्य का प्रागभाव या प्रध्वंसाभाव अभीष्ट नहीं है।
।। ९०।।
सुकृतदुरितकर्ता सौख्यदु:खोपभोक्ते-
त्यनुमत उपपत्त्या चेतनस्थैर्यवाद:।
क्षणिकमतकुमार्गे कर्तृभोक्तोर्विभेदे
प्रसजति कृतहानिश्चाकृताभ्यागमश्च।।
अन्वय: - सुकृतदुरितकर्ता सौख्यदु:खोपभोक्ता (भवति) इति उपपत्त्या चेतनस्थैर्यवाद: अनुमत:। क्षणिकमतकुमार्गे कर्तृभोक्तो: विभेदे कृतहानि: च अकृताभ्यागम: च प्रसजति।
गङ्गा - सुकृतेति- सुकृतदुरितकर्ता पुण्यपापयो: कर्ता सौख्यदु:खोपभोक्ता पुण्यकर्ता सुखस्य पापकर्ता च दु:खस्य उपभोक्ता भवतीति उपपत्त्या कर्मानुसारिभोगव्यवस्थया चेतनस्थैर्यवाद: आत्मनो नित्यत्वसिद्धान्त: अनुमत: स्वीकृतोऽस्ति। जगत: जन्म एव प्राणिनां भोगार्थं भवति। कर्मभोगार्थमेव परमात्मन: सङ्कल्प:। तत्र सर्गाद्यकाले परमेश्वर: सृज्यमानप्रपञ्चवैचित्र्यहेतुप्राणिकर्मसहकृतोऽपरिमितानिरूपितशक्तिविशिष्टमायासहित: सन्नामरूपात्मकनिखिलप्रपञ्चं प्रथमं बुद्धावाकलय्येदं करिष्यामीति सङ्कल्पयति तदैक्षत बहुस्यां प्रजायेय (तै.उ. २.६) इति श्रुते:। य: चेतन: यादृशं कर्म कुरुते सा तादृशं फलमाप्नोतीति व्यवस्था चेतनैक्येनैव सम्भवति। क्षणिकमतकुमार्गे यत्र प्रतिक्षणं चेतनो विनश्यति जनिं च लभते तत्र कर्तृभोक्तो: विभेदे कर्तु: भोक्तुश्च भेदे सति प्रथमक्षणोत्पन्नचेतनेन कृतकर्मणो भोक्ता द्वितीयक्षणोत्पन्नचेतन: स्यादिति तत्र कर्तृभोक्तृविभेदो वर्तते। तेन कृतहानि: कृतस्य सम्पादितकर्मण: फलाप्राप्तिहानि: स्यात्। यतो हि प्रथमक्षणोत्पन्नचेतन: कर्म सम्पाद्य विनष्ट:। वासनया तत्फलभोक्ता द्वितीयक्षणोत्पन्नचेतनो भवति। एवं द्वितीयक्षणोत्पन्नचेतनस्य च अकृताभ्यागम: अकृतकार्यफलप्राप्ति: प्रसजति। अतो नायं सिद्धान्त: स्वीकारयोग्य इति भाव:।
अनुवाद - पुण्य और पाप का कर्ता सुख और दु:ख का भोग करता है, इस व्यवस्था से चेतन के स्थिरता का सिद्धान्त स्वीकृत है। जो चेतन जैसा कर्म करेगा वैसा फल पायेगा। पुण्य का कर्ता सुख और पाप का कर्ता दु:ख का भोक्ता होता है। किन्तु बौद्धाभिमत कुमार्ग में कर्ता और भोक्ता के भिन्न भिन्न होने से वहाँ किये गये कर्म की हानि और विना कर्म के फलप्राप्ति प्रसक्त होती है। वहाँ चेतन के क्षणिक होने से प्रथम क्षण में उत्पन्न चेतन के कर्म का फल वासना से द्वितीयक्षणोत्पन्न चेतन को प्राप्त होता है। यह व्यवस्था उचित नहीं।
।। ९१।।
इह पुनरपि सूक्ष्मं चिन्त्यमाने समष्टि:
स्थिरतरचितिभावे पर्यवस्यत्यवश्यम्।
असति किमु कुलाले दण्डचक्रादि कुम्भं
घटयति? तदुपेया चेतने सा स्वतन्त्रे।।
अन्वय: - इह पुन: अपि सूक्ष्मं चिन्त्यमाने समष्टि: अवश्यं स्थिरतरचितिभावे पर्यवस्यति। दण्डचक्रादि कुलाले असति कुम्भं घटयति किमु? तत् स्वतन्त्रे चेतने सा उपेया।
गङ्गा - इह पुनरपीति- इह अस्मिन् विषये पुनरपि सूक्ष्मं चिन्त्यमाने विचार्यमाणे समष्टि: संघीभूत: समस्तोऽपि पदार्थ: अवश्यं स्थिरतरचितिभावे नित्यचेतनपदार्थे पर्यवस्यति पर्यवसानमेति। दण्डचक्रादि घटोत्पत्तिकारणं कुलाले असति कुलालरूपे स्थिरतरचेतनेऽसति कुम्भं घटयति किमु, घटं निर्माति किमु? नेत्यर्थ:। तस्मात् अचेतनप्रवृत्तौ चेतनप्रयोज्यत्वस्यैव दर्शनात् स्वतन्त्रे चेतने सा समष्टि: अभ्युपेया, अभ्युपगन्तव्या। दण्डचक्रादिसमष्टि: कुलाल एव पर्यवस्यतीत्यर्थ:।
अनुवाद - इस विषय में पुन: सूक्ष्म विचार करने पर यह सिद्ध होता है कि समष्टि (संघीभूत समस्त पदार्थ) स्थिरतर चेतनभाव में ही पर्यवसित होता है। दण्ड और चक्र आदि कुम्भकार के न होने पर कुम्भ का निर्माण नहीं कर सकते। अत: अचेतन की प्रवृत्ति में चेतन का प्रयोज्यत्व होने से स्वतन्त्र चेतन में ही समष्टि स्वीकार करनी चाहिए।
।। ९२।।
श्रितपरिमितदेशश्चेतनो भिन्नदेश-
स्थितबहुविधरूपोद्भावने न क्षमेत।
इति विपुलधरित्रीस्वर्गपातालसिद्धौ
ध्रुवमुपगमनीयो व्यापको भाव एष:।।
अन्वय: - श्रितपरिमितदेश: चेतन: भिन्नदेशस्थितबहुविधरूपोद्भावने न क्षमेत इति विपुल धरित्रीस्वर्गपातालसिद्धौ ध्रुवम् एष: व्यापक: भाव: उपगमनीय:।
गङ्गा - श्रितपरिमितेति- श्रितपरिमितदेश: श्रित आश्रित: परिमित: न्यूनो देश: येन स:। स्वल्पदेशवृत्तीत्यर्थ:। स तादृश: चेतन: भिन्नदेशस्थितबहुविधरूपोद्भावने भिन्नदेशेषु पृथक् पृथक् प्रदेशेषु लोकेषु वा स्थितानां बहुविधरूपोद्भावने अनेकाकारप्रकाररूपोत्पादने न क्षमेत न समर्थो भवेत्। तच्च न चन्द्रादीनां ज्ञापने प्रभवेदित्यर्थ:। इति हेतो: विपुलधरित्रीस्वर्गपातालसिद्धौ विपुला विशाला धरित्री, पृथ्वी च स्वर्गश्च पातालश्च तेषां सिद्धौ सत्यां ध्रुवं निश्चयेन एष: चेतनाख्य: व्यापक: विभु: भाव: उपगमनीय: स्वीकरणीय:। न तदृते भिन्नदेशस्थितबहुविधरूपोद्भावनप्रसङ्ग:। तस्यैव चेतनस्य भासा सर्वमिदं विभातीति श्रुतयोऽप्यामनन्ति।
अनुवाद - सीमित देश का आश्रय करके रहने वाला चेतन भिन्न भिन्न देशों में स्थित अनेक प्रकार के रूपों को उत्पन्न करने में समर्थ नहीं हो सकता। वह आकाश आदि में स्थित चन्द्र आदि का ज्ञान कराने में समर्थ नहीं होगा। इसलिए विशाल धरती, स्वर्ग और पाताल के सिद्ध होने पर निश्चय ही इस व्यापक सत्ता (चेतन) को स्वीकार करना चाहिए। न्यूनदेश वृत्ति क्षणिक चेतन इन सबका ज्ञान नहीं करा सकता।
।। ९३।।
धु्रवतनुरथ चैक: सर्वभावानुगामी
भवति परमसत्तानामकश्चेतनोऽयम्।
पुनरयमनुगम्यव्यक्तिवैचित्र्ययोगा-
द्वहति जडघटत्वेशत्वजीवत्वसंज्ञा:।।
अन्वय: - अयं परमसत्तानामक: चेतन: ध्रुवतनु: एक: अथ च सर्वभावानुगामी भवति। अयं पुन: अनुगम्यव्यक्तिवैचित्र्ययोगात् जडघटत्वेशत्वजीवत्वसंज्ञा: वहति।
गङ्गा - ध्रुवतनुरिति- अयमस्मदभिमत: परमसत्तानामकश्चेतन: त्रिकालेऽप्यबाध्यत्वं परमत्वम्। ब्रह्मेत्यर्थ:। तदेवाऽद्वैतनये परमसत्तारूपेण स्वीकृत:। अस्य न कदाप्यभावो भवति-नाभावो विद्यते सत: (गी. २.४) 'तत्रैव शङ्कराचार्येणोक्तम्-यद्विषया बुद्धिर्नव्यभिचरति तत् सत्। आसीदेकमेवाद्वितीयमित्युक्त्वा छान्दोग्येऽपिÓ (६.२.१) तदिदं तथ्यं समर्थितम्। परमसत्तानामकश्चेतनोऽयं ध्रुवतनु: नित्यशरीर: सदित्यर्थ:। एक: एक एव विद्यते। अयमेव सर्वभावानुगामी भवति। सर्वान् भावान् अयमेव परमसत्तानामकश्चेतनो व्याप्नोति। तैत्तिरीयोपनिषद् वक्ति- सत्यं ज्ञानमनन्तं ब्रह्म। स चेतन: देशकालवस्त्वादिपरिच्छेद्यो नास्ति। पञ्चदश्यां (३.३५) उक्तम्-
न व्यापित्वाद् देशतोऽन्तो नित्यत्वान्नापि कालत:।
न वस्तुतोऽपि सार्वात्म्यादानन्त्यं ब्रह्मणि त्रिधा।।
'नित्यं विभुं सर्वगतं सुसूक्ष्मम्Ó इति मुण्डके (१.१.६)
सर्वगतमित्यनेन तस्य सर्वभावानुगामित्वं समर्थितम्। अयं चेतन: पुन: अनुगम्यव्यक्तिवैचित्र्ययोगात्, अनुगम्या, अनुगमनयोग्या या व्यक्ति: जडघटत्वेशत्वजीवत्वत्वादिरूपेण अभिव्यक्ति: तस्या अभिव्यक्तेर्वैचित्र्ययोगात् भेदसंयोगात् जडघटत्वेशत्वजीवत्वसंज्ञा: जडघटत्वसंज्ञां धारयन् अचेतनघटादिकार्येषु स्फुरतीति तां संज्ञां धारयति। मूलाविद्ययोपहित: सन्नीशत्वसंज्ञां धारयति सर्गविधानं च करोति। तूलाविद्ययोपहितो भूत्वा जीवत्वसंज्ञां धारयन् पूर्वकृतकर्मभोगमनुभवतीति। जडत्वेशत्वजीवत्वत्रितयेन त्रिविधेष्वपि सर्गेषु तद्व्याप्ति: समर्थिता। अनुगमनयोग्या सा घटपटादिपदार्थरूपेण अभिव्यक्ति: प्रकाश इति यावत्। तस्या एव वैचित्र्येण चेतनेऽस्मिन् भेदो दृश्यते। वस्तुत भेदोऽयमुपाधिरूपश्चेतनस्त्वेक एव। तथा च श्रुति:- तत्सृष्ट्वा तदेवानुप्रविशत् (तैत्तिरी. २.६) एको देव: सर्वभूतेषु गूढ: (श्वेताश्व. ६-११) एक एवात्मा भूते भूते व्यवस्थित:, ईश्वर: सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति (गी. १८.६१) इत्यादिवचनैस्तस्य परमतत्त्वस्य सर्वव्यापकता सिद्ध्यति। विविधेषु पदार्थेषु स एव भासते। समष्टिरूपाज्ञानादयं परमसत्ताख्यश्चेतन एव ईश्वर इति व्यपदिश्यते- 'इयं समष्टितत्कृतोपाधितया विशुद्धसत्त्वप्रधानाÓ एतदुपहितं चैतन्यं जगत्कारणमीश्वर इति च व्यपदिश्यते। श्रीमद्भागवतादावुनिषत्स्वन्यत्र च वेदान्तग्रन्थेषु विषयोऽयं विस्तरेण प्रतिपादित:। अत्र निष्कर्षतया योगवासिष्ठे प्रतिपादितम्- 'तस्मै सर्वं तत: सर्वं स सर्वं सर्वतश्च स:Ó (६.४८.२३) इदं चराचरजगत् तस्य परमेश्वरस्य विद्यते, तस्मादेव उत्पन्न:, स एव सर्वस्वम्, स एव जगति उपरि बहिरन्तश्च प्रविष्टोऽस्ति। जीवस्तस्य चेतनस्य कार्योपाधि:, ईश्वर: कारणोपाधि:। तथा चोक्तम् अनुभूतिप्रकाशे-
कार्योपाधिरयं जीव: कारणोपाधिरीश्वर:।
कार्यकारणतां हित्वा पूर्णबोधोऽवशिष्यते।।
एतादृशचेतनस्वीकारादेव जगद्व्यवहारप्रसत्ति:। तत्क्षणिकत्वे तु सर्वत्र व्यवहारानुपपत्तिरेवेति कवेराशय:।
अनुवाद - यह परमसत्ता नामक चेतन नित्य है, एक है और सर्वव्यापक है। यह अभिव्यक्ति की विचित्रता (भेद) के योग से जड़ घटत्व, ईशत्व और जीवत्व की संज्ञाएं धारण करता है।
टिप्पणी - उपनिषदों में ब्रह्म को परमतत्त्व कहा गया है। वह नित्य, एक और शाश्वत है। इस संसार में वही नानारूपों में अभिव्यक्त होता है, प्रकाशित होता है।
श्रीमद्भगवद्गीता में श्रीकृष्ण स्वयं कहते हैं-
मत्त: परतरं नान्यत्किञ्चिदस्ति धनञ्जय।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव।।
गीता में ही 'नाभावो विद्यते सत:Ó कह कर उस ब्रह्म की नित्यता निरूपित की गयी है। वह परब्रह्म ही सर्वभावानुगामी है। अर्थात् सभी भावों में उसकी सत्ता है। वेदान्त का सिद्धान्त है कि वह परमपुरुष सृष्टि करके उसी में अनुप्रविष्ट हो गया-
कालसंज्ञां तदा देवीं बिभ्रच्छक्तिमुरुक्रम:।
त्रयोविंशतितत्त्वानां गणं युगपदाविशत्।।
सोऽनुप्रविष्टो भगवांश्चेष्टारूपेण तं गणम्।
भिन्नं संयोजयामास सुप्तं कार्यं प्रबोधयन्।।
(श्रीमद्भागवत, ३.६.२, ३)
यह परम तत्त्व ही जगत् में घटत्व, पटत्व आदि के रूप में अभिव्यक्त होता है। यही उपहित चैतन्य के रूप में 'ईश्वरÓ कहलाता है। अद्वैत वेदान्त में ब्रह्म की दो अवस्थाएं स्वीकृत हैं- १. माया की उपाधि से युक्त और २. माया की उपाधि से रहित। शङ्कराचार्य ने कहा है- द्विरूपं हि ब्रह्म अवगम्यते, नामरूपविकारभेदोपाधिविशिष्टं, तद्विपरीतं च सर्वोपाधिविवर्जितम् (शां. भा. - १.१.११)। माया की उपाधि से युक्त होकर निर्गुण ब्रह्म सगुण बन जाता है और इसे ईश्वर की संज्ञा दे दी जाती है। राम, कृष्ण आदि इसके उदाहरण है। कवि ने अद्वैतवेदान्त के इन परमसत्ता विषयक सिद्धान्तों को समेट कर प्रस्तुत पद्य में निबद्ध किया है। इस नित्यचेतन को स्वीकार किये बिना क्षणिकसत्ता से जगत् के व्यवहार प्रसृत नहीं हो सकते। गीता के सातवें एवं दशवें अध्याय में श्रीकृष्ण ने स्वयं अपनी सर्वव्यापकता का कथन किया है।
।। ९४।।
स्फु रति ननु कदाचिद्व्यञ्जकानां समष्ट्या
शकलपटुसमष्ट्याऽऽच्छाद्यते वा घटत्वम्।
स्फु रति समनुगच्छत्येवमेषा सदेति
प्रथयति निजरूपं भावता ब्रह्मतत्त्वम्।।
अन्वय: - ननु घटत्वं कदाचित् व्यञ्जकानां समष्ट्या स्फुरति (कदाचित्) शकलपटुसमष्ट्या वा आच्छाद्यते। एवम् एषा भावता ब्रह्मतत्त्वं सदा स्फुरति समनुगच्छति इति निजरूपं प्रथयति।
गङ्गा - स्फुरतीति- नन्विति निश्चये। घटत्वं, घटत्वस्य सामान्यत्वाद् व्यापकत्वाच्च ब्रह्मोपलक्षणत्वम्। तदिदं घटत्वं कदाचिद् व्यञ्जकानां मृद्दण्डचक्रचीवरादीनां समष्ट्या स्फुरति प्रकाशतामुपगच्छति। दण्डादीनां भावसमूहे समारोपिते मृदि घट उत्पद्यते। तेन घटत्वं स्फुरति। कदाचिच्च शकलपटुसमष्ट्या शकलेषु कपालादिखण्डेषु, कपालादिखण्डकरण इति यावत्। या पटु: समर्था, या मुद्गरप्रहारावयवविभागादिसमष्टिस्तया घटत्वं घटनिष्ठा जातिराच्छाद्यते। विनष्टे घटे तत्र जातिर्न स्फुरतीत्यर्थ:। तत् घटत्वं तत्राच्छाद्यते। न तत्र तद्विनाशो भवतीति बोध्यम्। एवं घटत्ववत् एषा भावता सद्रूपं ब्रह्मतत्त्वं सदा नित्यं स्फुरति प्रकाशिता भवति। समनुगच्छति, कार्येष्वन्वेति। यथा घटत्वं घटव्यक्तिष्वन्वेति तद्वत्। इत्येवं प्रकारेण इयं भावता निजरूपं त्रिकालाबाध्यत्वात्मकं निजस्वरूपं प्रथयति विस्तारयति। एकमेव सत् सर्वत्र व्याप्तो भवतीत्यर्थ:।
अनुवाद - निश्चय ही घटत्व कभी व्यंजकों की समष्टि से स्फुरित होता है तो कभी टुकड़े करने में समर्थ मुद्गर प्रहार और अवयव विभाग आदि के द्वारा वह आच्छादित कर लिया जाता है। घट के खण्ड-खण्ड हो जाने पर वह घटत्व वहाँ स्फुरित नहीं होता। इसी घटत्व की तरह यह भावता रूप ब्रह्मतत्त्व सदैव स्फुरित होता है। आवरण के आ जाने से कभी कभी वह प्रतीत नहीं होता। घटत्व की तरह वह घट व्यक्तिरूप कार्यों से अन्वित होता है तथा त्रिकालाबाध्यत्वात्मक अपने स्वरूप का विस्तार करता है।
।। ९५।।
सहकृतिपटवोऽस्मिन्सन्तु भावा: सहस्रं
धु्रवमुपगमनीयाऽनादिता तेष्वगत्या।
न तु कथमपि नित्यास्तावतैवोपपत्त्या
फ लजनकसमष्टेर्वादशेषे च बाधात्।।
अन्वय: - अस्मिन् सहकृतिपटव: सहस्रं भावा: सन्तु, तेषु अगत्या अनादिता ध्रुवम् उपगमनीया। तावता एव तु फलजनकसमष्टे: उपपत्त्या वादशेषे च बाधात् (ते) कथम् अपि नित्या: न (सन्ति)।
गङ्गा - सहकृतीति- अस्मिन् ब्रह्मतत्त्वे सहकृतिपटव: सहकारिकारणरूपा: सहस्रं भावा: पदार्था: सन्तु तेषु सहकारिभावेषु अगत्या अनादिता आदिताराहित्यं किन्तु सान्तत्वं ध्रुवं निश्चयेन उपगमनीया अवगन्तव्या। यथा घटोत्पादने मृद: दण्डचक्राम्बुसूत्ररूपाणि नानासहकारीणि भवन्ति तथैव ब्रह्मणोऽपि सहकारिणो नाना भावा बोद्धव्या:। तावता अनादित्वमात्रेणैव फलजनकसमष्टे: कार्योत्पादककारणसमष्टे: उपपत्त्या सिद्ध्या वादशेषे च परमार्थविचारे च तेषां बाधात् ते सहकृतिपटव: भावा नित्या न सन्ति। नित्यस्तु एक एव परमात्मा ब्र्रह्मपदवाच्य:। वेदान्ते जीवजगदविद्यासृष्टिबन्धमोक्षाणामनादित्वं स्वीकृतम्।
अनुवाद - इस ब्रह्मतत्त्व में सहकारी के रूप असंख्य भाव हो सकते हैं। उनमें अगत्या अनादिता या उत्पत्ति शून्यता तो निश्चय ही मानी जा सकती है किन्तु उस अनादिता मात्र से फलजनकसमष्टि के उपपन्न हो जाने से तथा परमार्थ विचार में उनका बाध हो जाने से वे सहकारी भाव कथमपि नित्य नहीं हो सकते। अद्वैतवेदान्त में जीव, जगत्, अविद्या, सृष्टि, बन्ध और मोक्ष अनादि पदार्थ कहे गये हैं।
।। ९६।।
घटपटमुखकार्ये काऽपि नूनं समष्टि:
प्रकटयति फ लं न त्वत्र पर्याप्तमेकम्।
क्रमिकसकलभावोद्भावनैकस्वभावा
जयति तु पुनरेका ब्रह्मरूपा समष्टि:।।
अन्वय: - घटपटमुखकार्ये नूनं काऽपि समष्टि: फलं प्रकटयति अत्र एकं तु न पर्याप्तम्। क्रमिकसकलभावोद्भावनैकस्वभावा पुन: एका ब्रह्मरूपा समष्टि: तु जयति।
गङ्गा - घटपटेति- घटपटमुखकार्ये घटपटा: प्रमुखा: यस्मिन् तत्ञ तादृशे कार्ये नूनं निश्चयेन काऽपि अपूर्वा समष्टि: फलं घटपटादिरूपं कार्यं प्रकटयति। कापीत्यनेन प्रतिकार्यं समष्टिभेद: सूचित:। घटकार्ये मृत्कुलालदण्डचक्राम्बुसमष्टि:। एवमन्यत्रापि बोध्यम्। अत्र फलोत्पादने एकं किमपि न पर्याप्तम्। एकेन फलोत्पत्त्यसम्भवात्। क्रमिकसकलभावोद्भावनैकस्वभावा क्रमिकाणां सकलभावानां सम्पूर्णपदार्थानाम् उद्भावना उत्पत्तिरेव एक: स्वभाव: यस्या: सा पुनरेका ब्रह्मरूपा समष्टि: तु जयति सर्वातिशयेन वर्तते। ब्रह्मव्यतिरिक्ता न काचित्समष्टि: एकाकिनी कार्योत्पादने समर्था भवति। इयं तु एकैव कार्यमुत्पादयतीति सर्वोत्कर्षशालिनी विद्यते। अद्वैतप्रस्थानेऽज्ञानोपहितचैतन्येन सर्गविधानम्। तथा च श्रुति:-
य: सर्वज्ञ: सर्वविद् यस्य ज्ञानमयं तप:।
तस्मादेतद् ब्रह्म नामरूपमन्नं च जायते।। (मुण्डको. १.१.९)
श्रीमद्भगवद्गीतायामपि 'अहं सर्वस्य प्रभवो मत्त: सर्वं प्रवर्ततेÓ (१०.८) इत्युक्त्वा सिद्धान्तोऽयं समर्थित:।
अनुवाद - घट, पट आदि प्रमुख कार्य में निश्चय ही कारणों की कोई अपूर्व समष्टि फल को प्रकट करती है। इस फलोत्पादन में कोई एक पर्याप्त नहीं है। क्रमिक रूप से समस्त भावों को उत्पन्न करना ही जिसका एक मात्र स्वभाव है वह ब्रह्मरूपा समष्टि सर्वोत्कर्षशालिनी है। वह अकेले ही समस्त कार्यों को उत्पन्न करने में पर्याप्त है।
।। ९७।।
क्षण इति परसत्ताऽर्थक्रियाकारितेत्य-
प्यभिलप निजरुच्या तां स्वसङ्केतभेदात्।
स्थिरचितिसुखसारा भावरूपा समष्टि:
कथमपि भवता चेत्स्वीकृता सिद्धमिष्टम्।।
अन्वय: - क्षण इति अर्थक्रियाकारिता परमसत्ता (अस्ति) इति निजरुच्या तां स्वसङ्केतभेदात् अभिलप। भवता कथम् अपि स्थिरचितिसुखसारा भावरूपा समष्टि: स्वीकृता चेत्, इष्टं सिद्धम्।
गङ्गा - क्षण इतीति- क्षण इति अपरनामधेया अर्थक्रियाकारिता प्रयोजनभूता या क्रिया तत्कारितैव सत्ता, न तु शशविषाणवत् असद्वस्तु किमपि कार्यमुत्पादयतीति। यत्सत् तत्क्षणिकमिति नियमाद् बौद्धमते क्षणस्यैव अर्थक्रियाकारिता सैव परमसत्ता। प्रपञ्चितं चैतत्पूर्वं 'विपणिविततरूप्यम्Ó (३.२६) इत्यादिश्लोकव्याख्याने। तामर्थक्रियाकारितां परमसत्तां निजरुच्या यथेच्छं स्वसङ्केतभेदात् स्वशक्तिग्रहपार्थक्यात् अभिलप। यद् वाञ्छसि तत्कथय। तेन नाऽस्माकं कापि क्षति:। तव क्षणरूपायामर्थक्रियाकारित्वलक्षणसत्तायां सङ्केतग्रहो मम तु त्रिकालाबाधितब्रह्मरूपपरमसत्तायामिति तत्र सङ्केतग्रहभेद एव कारणम्। भवता बौद्धरूपविलासिना कथमपि कथञ्चिदपि स्थिरचितिसुखसारा स्थिरचितिसुखमेव सारो यस्यां सा भावरूपा ब्रह्मस्वरूपा समष्टि: स्वीकृता सत्तारूपेण अङ्गीकृता चेत्, इष्टं सिद्धम्। अस्माकमिति शेष:। त्वया नित्यसुखात्मकचिद्रूपसत्ता स्वीकारेऽस्माकमेवेष्टसिद्धिसुखात्मकचिद्रूपसत्ता स्वीकारेऽस्माकमेवेष्टसिद्धिरित्यर्थ:।
अनुवाद - क्षणरूप अर्थक्रियाकारिता ही परमसत्ता है, यह कहते हुए तुम अपनी इच्छा के अनुसार उस सत्ता का अपने संकेतभेद के अनुसार अभिलाप करो। तुम्हारे द्वारा यदि स्थिर चेतना का सुखसार जिसमें है, ऐसी सत्ता स्वीकार कर ली गयी तो हमारी ही इष्टसिद्धि है।
।। ९८।।
नयनरसननासात्वक्श्रुतिज्ञातपूर्वं
स्मरति पृथगमीषां चेतना तेन नेष्टा।
न च समुदयधर्म: सैकनाशेऽपि सत्त्वात्
स्थिरतदितरभावश्चेतनो य: स आत्मा।।
अन्वय: - (चेतन:) नयनरसननासात्वक्श्रुतिज्ञातपूर्वं स्मरति। तेन अमीषां पृथक् चेतना न इष्टा। एकनाशे अपि सत्त्वात् सा च समुदयधर्म: न (अस्ति)। य: स्थिरतदितरभाव: चेतन: स आत्मा (भवति)।
गङ्गा - इन्द्रियात्मवादं खण्डयति- स्थिरतदितरेति- कश्चन चेतन: नयनरसननासात्वक्श्रुतिज्ञातपूर्वं नयनं च रसनं च नासा च त्वक् च श्रुतिश्चेति ज्ञानेन्द्रियै: इति यावत्। ज्ञातपूर्वम् अनुभूतपूर्र्वं स्मरति। तेन हेतुना अमीषां ज्ञानेन्द्रियाणां पृथक् चेतना न इष्टा। एकनाशे एकस्य कस्यचिदपि इन्द्रियविशेषस्य नाशे चेतनाया: सत्त्वात् सा चेतना समुदयधर्म: इन्द्रियाणां समुदायस्य। धर्म: न अस्ति। य: स्थिरतरभाव: अतिस्थिरतत्त्वं नित्य: सन् इन्द्रियभिन्नभाव:। चेतन: स आत्मा। न नेत्रादीन्द्रियवर्ग आत्मेत्यर्थ:। एतेन 'ते ह प्राणा: प्रजापतिं पितरमेत्योचु:Ó इति श्रुतिं प्रमाणतयोपन्यस्येन्द्रियात्मवादं निर्धारयतां मतं निराकृतम्। वेदान्तसारे सोऽयमिन्द्रियात्मवाद: प्रपञ्चितो निरस्तश्च।
अनुवाद - चेतन आँख, जिह्वा, नासिका, त्वक् और श्रुति नामक ज्ञानेन्द्रियों से ज्ञातपूर्व अर्थ का स्मरण करता है। इसलिए इन इन्द्रियों को पृथक् चेतन मानने की आवश्यकता नहीं है। किसी एक इन्द्रिय का विनाश हो जाने पर भी चेतना बनी रहती है, अत: चेतना समुदाय का धर्म नहीं है। जो स्थिर होकर भी इन्द्रियभिन्न चेतन भाव है, वह आत्मा है। अत: इन्द्रियों को आत्मा नहीं कहा जा सकता।
।। ९९।।
मनसि चपलवृत्तिग्रामभूपत्वमास्तां
भवतु च तदधीनो मोहभङ्गाधिकार:।
अणु वहतु कथं तन्नश्वरं सक्रियत्वात्
सकलतनुगभोगस्वप्रकाशाधिपत्यम्?।।
अन्वय: - मनसि चपलवृत्तिग्रामत्वभूपत्वम् आस्ताम्। मोहभङ्गाधिकार: तदधीन: भवतु। तत् नश्वरम् अणु सक्रियत्वात् सकलतनुगभोगस्वप्रकाशाधिपत्यं कथं वहतु?
गङ्गा - मनसोऽनात्मत्वं साधयन्नाह- मनसीति- केचन 'अन्योऽन्तर आत्मा मनोमय:Ó (२.३.१) इत्यादितैत्तिरीयवचनमादाय मनस आत्मत्वं स्वीकुर्वन्ति। पक्षोऽयं वेदान्तसारे विद्वन्मनोरञ्जिन्यां विशदीकृत:। मनसि चपलवृत्तिग्रामत्वभूपत्वम्, मन आख्येऽन्तरिन्द्रिये अन्त:करणवृत्तिभेदत्वात् सङ्कल्पविकल्पवृत्तिरूपत्वात्। चाञ्चल्यव्यवहारग्रामताया भूपता श्रेष्ठता आस्ताम्। मनश्चपलव्यवहारसमूहानां राजा भवतु। मोहभङ्गाधिकार: तदधीनो विशुद्धमनोऽधीनो भवतु। सक्रियत्वात् नश्वरम् अणुपरिमाणवत् तत् मन: सकलतनुगभोगस्वप्रकाशाधिपत्यं समस्तशरीरगतभोगानां य: स्वप्रकाशस्तस्याधिपत्यं स्वामित्वं कथं वहतु धारयतु। न कथमपीत्यर्थ:। तत्र तु आत्मन: स्वामित्वं स्वप्रकाशज्ञानरूपत्वादिति भाव:। मनस्तु सङ्कल्पविकल्पवृत्तिमच्चाञ्चल्यमात्रं भजते। मनसो नानावृत्तिरूपाण्युक्तानि वृहदारण्यके- 'काम: सङ्कल्पो विचिकित्सा श्रद्धा अश्रद्धा धृतिरधृतिर्हीर्धीर्भीरित्येतत्सर्वं मन एवÓ (१.५.३)। 'मनसैवाऽनुद्रष्टव्य: नेह नानास्ति किञ्चनÓ इति वृहदारण्यके मनस आत्मत्वं खण्डितम्। अतो आत्मा मनोभिन्न: इति कवेराशय:।।
अनुवाद - मन चंचलव्यवहार समूहों का राजा रहे। मोहभंग का अधिकार भी उसके अधीन रहे, उससे कोई क्षति नहीं होती। वह नश्वर है, अणुपरिमाण है, सक्रिय है, अत: समस्त शरीर के भोगों के स्वप्रकाश का आधिपत्य कैसे धारण कर सकता है?
।। १००।।
स्मृतिफ लबलकल्प्यो वासनौघ: सुषुप्ता-
वतिचलजडजाग्रद्वृत्तिसङ्घातजन्मा।
फ लजनितविनाश: स्वप्रकाशाधिराज्ये
कलुषदृगनुरोधान्नाभिषेच्योऽप्रमत्तै:।।
अन्वय: - सुषुप्तौ स्मृतिफलबलकल्प्य: अतिबलजडजाग्रद्वृत्तिसङ्घातजन्मा फलजनितविनाश: वासनौघ: अप्रमत्तै: कलुषदृगनुरोधात् स्वप्रकाशाधिराज्ये न अभिषेच्य:।
गङ्गा - वासनात्मवादं निराकरोति- स्मृतिफलेति- सुषुप्तौ सुषुप्त्यवस्थायां यस्यां ज्ञानकर्मेन्द्रियै: सह मनोऽपि पुरीततिनाड्यां विश्राम्यति। तस्यामवस्थायां स्मृतिफलबलकल्प्य: स्मृतिरूपफलसाहाय्येन ज्ञेय:। स्मृति: वासनाजन्या भवतीति तस्या: 'संस्कारमात्रजन्यत्वंÓ निगद्यते। स्मृतिरूपकार्येण वासनानुमानम्। अतिचलजडजाग्रद्वृत्तिसङ्घातजन्मा, अतिचञ्चलानां जडानां जाग्रति जाग्रद्वस्थायां जायमानानां वृत्तीनां चित्तवृत्तीनां सङ्घातेन जन्म यस्याऽसौ। चित्तवृत्तीनां प्रकृतिजन्यत्वाच्चाञ्चल्यं जडत्वं चोक्तम्। फलजनितविनाश:, फलेन जनित: उत्पादित: विनाश: यस्य स: वासनौघ: वासनानां समूह: अप्रमत्तै: बुद्धिमद्भि: कलुशदृगनुरोधात् कुत्सितदृष्टीनां बौद्धानामालयविज्ञानवादिनामनुरोधादाग्रहात् स्वप्रकाशाधिराज्ये स्वप्रकाशस्य आत्मनोऽधिराज्ये सम्राज्ये न अभिषेच्यो न स्थापनीय:। वासनेयमात्मभिन्नेत्यर्थ:।
सुषुप्तौ जीवो न किमपि कामयते। स अस्यां दशायामानन्दमनुभवन् चेतो मुखो भवतीति कैवल्योपनिषदि निर्दिष्टम्-
सुषुप्तिकाले सकले विलीने
तमोऽभिभूत: सुखरूपमेति।
अत्र भवति जीवे चैतन्यदीप्ताज्ञानवृत्ते: प्राधान्यम्। एतेनाज्ञानेन सह स आनन्दमनुभवतीति 'सुखमहमस्वाप्सं न किञ्चिदवेदिषम्Ó इति कथनेन प्रामाण्यमभ्युपगच्छति। स्मृत्यानया वासनाया अपि सुषुप्तौ स्थिति: प्रमाणिता भवति। सुषुप्तौ देहेन्द्रियान्त:करणानां क्रिया न भवन्ति। प्रमाणप्रमेययोव्र्यवहारोऽपि समाप्तिं गच्छति। बुद्धिरविद्यायां बीजे वृक्षवत् स्थिता भवतीति पञ्चीकरणवार्तिके निर्दिष्टं सुरेश्वराचार्येण-
ज्ञानेनानुपसंहारो बुद्धे: कारणता स्थिति:।
वटबीजे वटस्यैव सुषुप्तिरभिधीयते।।
सुषुप्तावानन्दमात्रस्य प्रतीतेरात्मा सुखमनुभवति। तत्र सुषुप्तिदशायां वासनानामपि संस्काररूपाणामवस्थिते: कश्चन वासनानामत्मरूपत्वं न स्वीकुर्यादिति वासनात्मवादोऽत्र निराकृत:। वासना च प्राक्तनकर्मजन्य: संस्कारविशेष:। क्वचिदनुशयशब्देनाऽप्यस्य बोध:।
अनुवाद - सुषुप्ति अवस्था में स्मृतिरूप कार्य की सहायता से वासना ज्ञात होती है। (स्मृतिरूप कार्य से वासना का अनुमान किया जाता है) यह अतिचंचल, जड़ और जाग्रदवस्था की चित्तवृत्तियों से जन्म लेती है तथा फल (कार्य) से इसका विनाश होता है (जैसे कर्मभोग से वासना का क्षय)। ऐसे वासनाओं के समूह को कलुषदृष्टि आलयविज्ञानवादियों के अनुरोध से स्वप्रकाश आत्मा के साम्राज्य में अभिषिक्त नहीं करना चाहिए, उसे आत्मा का स्थान नहीं देना चाहिए। वासना संस्काररूप है, आत्मा स्वप्रकाश और नित्य।
टिप्पणी - सुषुप्ति में जीव आनन्दमात्र का अनुभव करता है। उस समय देह, इन्द्रिय आदि क्रियाहीन होते हैं। सुषुप्ति के आनन्द का अनुभव 'सुखमहमस्वाप्सं न किञ्चिदवेदिषम्Ó रूप स्मरण से होता है। यह स्मरण उस समय वासना की सत्ता में भी प्रमाण है। अगर सुषुप्ति में वासना की स्थिति न होती तो उक्त स्मरण नहीं हो सकता था। यद्यपि सुषुप्ति में अनुभूत होने वाला सुख आत्मा का स्वरूप है तथापि उस समय वासनाओं की विद्यमानता से कोई वासनाओं को भी आत्मा न मान बैठे, इस दृष्टि से कवि ने वासनात्मवाद का खण्डन किया है।
।। १०१।।
स्थिरचितिसुखसत्तास्वर्णदीसूर्यकन्या-
कमलभवनजायाऽन्योन्ययोगप्रयागे।
सपदि निजमनस्त्वं मज्जयन्नात्मतीर्थे-
ऽनुभव सततसिद्धां मोक्षसाम्राज्यलक्ष्मीम्।।
अन्वय: - स्थिरचितिसुखसत्तास्वर्णदीसूर्यकन्याकमलभवनजायाऽन्योन्ययोगप्रयागे आत्मतीर्थे सपदि निजमन: मज्जयन् त्वं सततसिद्धां मोक्षसाम्राज्यलक्ष्मीम् अनुभव।
गङ्गा - सम्प्रति विलासिनमात्मतीर्थं निर्दिशति- स्थिरचितीति- स्थिरचितिसुखसत्तास्वर्णदीसूर्यकन्याकमलभवनजायाऽन्योन्ययोगप्रयागे, चिति: चित् च सुखमानन्दश्च सत्ता सच्चेति चितिसुखसत्ता:। स्थिराश्च ता: चितिसुखसत्ता: स्थिरचितिसुखसत्ता:। स्वर्णदी स्वर्गङ्गा च सूर्यकन्या यमुना च कमलभवनजाया सरस्वती चेति स्वर्णदीसूर्यकन्याकमलभवनजाया:। स्थिरचितिसुखसत्ता एव स्वर्णदीसूर्यकन्याकमलभवनजाया इति स्थिरचितिसुखसत्तास्वर्णदीसूर्यकन्या-कमलभवनजायास्तासाम् अन्योऽन्ययोग: एव प्रयाग:, मयूख्यंसकादित्वात् समास:। तादृशे आत्मतीर्थे आत्मरूपतीर्थे। आत्मन: सच्चिदानन्दरूपत्वात् प्रयागस्य च स्वर्णदीसूर्यकन्याकमलभवनजायानदीत्रयरूपत्वाद् उभयो: साम्यवर्णनम्। तादृशप्रयागरूप आत्मतीर्थे सपदि निजमन: मज्जयन् निमज्जयन्। प्रक्षालयन्निति यावत्। त्वं विलासी सततसिद्धां नित्यसिद्धां मोक्षसाम्राज्यलक्ष्मीं मोक्षरूपं यत्साम्राज्यं तस्य लक्ष्मीं सौभाग्यमनुभव। आत्मनो नित्यत्वं तत्सुखं तत्सत्तां चाङ्गीकृत्य सच्चिदानन्दघनरूपं ब्रह्मानुभवेत्यर्थ:। अन्यत्राऽपि त्रिवेणीतीर्थे मज्जिन्नात्मान: साम्राज्यमनुभवन्तीत्यागमिका:।
अनुवाद - नित्यचिति, नित्यसुख तथा परमसत्तारूप गङ्गा, यमुना एवं सरस्वती का योग जहाँ है उस प्रयागरूप आत्मतीर्थ में शीघ्र ही अपने मन का प्रक्षालन कर तुम नित्यसिद्ध मोक्षरूप साम्राज्य लक्ष्मी का अनुभव करो।
टिप्पणी - आत्मा नित्य है तथा सच्चिदानन्दात्मक है। कवि ने रूपक के माध्यम से आत्मा और प्रयाग में साम्य प्रदर्शित किया है। सत्, चित् और आनन्द का परस्पर योग होने के कारण आत्मा प्रयागरूप त्रिवेणी संगम है। प्रयाग में जिस तरह गंगा, यमुना और सरस्वती का संगम होता है उसी तरह आत्मा में नित्यचिति, नित्यसुख और परमसत्ता का संगम है। बौद्धरूप विलासी से कवि का कथन है कि ऐसे आत्मरूप प्रयाग में अपने मन को प्रक्षालित कर तथा क्षणिकता के पक्षपात को छोड़कर तुम नित्यसिद्ध मोक्षरूप साम्राज्य लक्ष्मी का भोग करो।
।। १०२।।
अथ दुरभिनिवेशाच्छून्यमाध्यास्यसि त्वं
स्वरुचिजनितमिथ्यादृष्टिसंस्कारादाढ्र्यात्।
अविशयमवशोऽन्ते लप्स्यसे शून्यभावं
तदुपरम सचेता आत्मनाशं क इच्छेत्।।
अन्वय: - अथ स्वरुचिजनितमिथ्यादृष्टिसंसकारदाढ्र्यात् दुरभिनिवेशात् त्वं शून्यम् आध्यास्यसि (चेत्) अवश: अन्ते शून्यभावम् अविशयं लप्स्यसे। तत् उपरम्। क: सचेता: आत्मनाशम् इच्छेत्?
गङ्गा - अथ दुरभीति- अथ मम चितिसुखसत्ताविषयकं सिद्धान्तमनङ्गीकृत्य त्वं स्वरुचिजनितमिथ्यादृष्टिसंस्कारदाढ्र्यात् निजप्रीत्युत्पन्नमृषादृष्टिवासनाप्राबल्यात् दुरभिनिवेशात् दुराग्रहात् शून्यम् अभावमाध्यास्यसि आरोपयसि। चेत् अवश: वशरहित:। पक्षहीन इति यावत्। शून्यभावम् अभावमेव अविशयं नि:सन्देहं लप्स्यसेऽधिगमिष्यसि। तत् तस्मात् शून्यस्य ध्यानादुपरम। क: सचेता: बुद्धिमान् आत्मनाशं स्वविनाशम् इच्छेत्? न कोऽपीत्यर्थ:। पुरुषार्थप्राप्तावेव सचेतसां प्रयत्न:। न आत्मनाशे तत्पुरुषार्थप्राप्तिरिति भाव:।
अनुवाद - मेरे द्वारा निर्दिष्ट नित्यचिति के सुख सत्ता आदि को न मानकर यदि तुम अपनी रुचि से उत्पन्न मिथ्या दृष्टि के संस्कार की दृढ़ता से दुराग्रहवश शून्य को ही अध्यस्त करते हो तो अन्त में तुम वशहीन हो जाओगे और तुम्हें नि:सन्देह शून्यभाव की ही प्राप्ति होगी। इसलिए इस शून्य का अनुध्यान छोड़ो। कौन ऐसा बुद्धिमान् है जो आत्मनाश चाहता है। बुद्धिमान् लोग तो पुरुषार्थप्राप्ति के लिए प्रयास करते हैं। आत्मनाश पुरुषार्थ नहीं है।
।। १०३।।
यदि च चपलनानाभावनादीर्घशाखा-
प्लवननिरतचेता: कीशतां स्वीकरोषि।
क्षणगलदवलम्ब: प्रस्खलन्नन्तराले
निरयसुहृदि शून्ये त्वं पतिष्यस्यवश्यम्।।
अन्वय: - यदि च चपलनानाभावनादीर्घशाखाप्लवननिरतचेता: कीशतां स्वीकरोषि (तर्हि) क्षणगलदवलम्ब: अन्तराले प्रस्खलन् त्वम् अवश्यं निरयसुहृदि शून्ये पतिष्यसि।
गङ्गा - यदि च चपलेति- यदि पुनरपि चपलनानाभावनादीर्घशाखाप्लवननिरतचेता: चपलाया सर्वं क्षणिकं क्षणिकं, सर्वं दु:खं दु:खं, सर्वं स्वलक्षणं स्वलक्षणं, सर्वं शून्यं शून्यमिति नानाभावनारूपविशालशाखाकूर्दनसंलग्रचित्त: कीशतां वानरतां स्वीकरोषि। 'मर्कटो वानर: कीश:Ó इत्यमर:। तर्हि क्षणगलदवलम्ब: निमिषनिरस्ताश्रय:, सर्वं क्षणिकमिति कृत्वा भावनानामपि क्षणिकत्वाद्विनाश:। अन्तराले। 'अभ्यन्तरं त्वन्तरालम्Ó इत्यमर:। मध्ये प्रस्खलन् त्वमवश्यमेव निरयसुहृदि नरकमित्रे। 'स्यान्नारकस्तु नरको निरयो दुर्गति: स्त्रियाम्Ó इत्यमर:। शून्ये स्वाभीष्टे पतिष्यसि।
अनुवाद - यदि तुम चंचल नानाभावनारूपी दीर्घशाखाओं के प्लवन में मन लगाकर वानरता स्वीकार करते हो तो क्षण भर में तुम्हारा यह भावनारूपी अवलम्ब दूर हो जायेगा। क्योंकि तुम्हारे अनुसार जब सब कुछ क्षणिक है तो भावना भी क्षणिक ही होगी। उस भावनारूप अवलम्ब के छूट जाने से मध्य में ही प्रस्खलित होते हुए तुम नरकमित्र शून्य में गिरोगे।
टिप्पणी - कवि ने यहाँ 'नानाभावनाÓ कह कर बौद्धों को अभिमत चार भावनाओं- 'सर्वं क्षणिकं क्षणिकं, सर्वं दु:खं दु:खम्, सर्वं स्वलक्षणं स्वलक्षणम्Ó, तथा 'सर्वं शून्यं शून्यम्Ó का निर्देश किया है।
।। १०४।।
अभिदधदपि दु:खं धावसीष्टान्यवाप्तुं
प्रतिपदमनुमानं वक्षि सामान्यमुज्झन्।
क्षणिकमथ च शून्यं त्वं ब्रवीषि प्रपञ्चं
द्रढयसि च विहारं चेष्टितं ते विचित्रम्।।
अन्वय: - दु:खम् अभिदधत् अपि इष्टानि अवाप्तुं धावसि। प्रतिपदं सामान्यम् उज्झन् अनुमानं वक्षि। अथ त्वं क्षणिकं शून्यं प्रपञ्चं ब्रवीषि, विहारं च द्रढयसि। ते चेष्टितं विचित्रम् (अस्ति)।
गङ्गा - अभिदधदपीति- दु:खं 'सर्वं दु:खं दु:खम्Ó इत्यभिधदपि भावनां कुर्वन्नपि इष्टानि प्रियतराणि वस्तूनि प्रियाणि सुखानीति यावत्। अवाप्तुं धावसि। भिक्षार्थमिति शेष:। प्रतिपदं सामान्यं सत्ताम् उज्झन् परित्यजन् अनुमानं वक्षि, अनुमानप्रमाणं स्वीकरोषि। तच्चानुमानं सामान्येन विना न भवितुमर्हति। यतो हि धूमत्वेनैव धूमस्य वह्नित्वेन वह्निना व्याप्तिग्रहो भवति। न तु धूमव्यक्ते: वह्निव्यक्त्या। तथा सति महानसीयधूमेन पर्वतीयवह्नेरनुमानस्य संशयस्य वाऽसम्भवात्। तत्तु सामान्यलक्षणप्रत्त्यासत्त्या भवति। तव मते सामान्याभावात् कथं सामान्यलक्षणप्रत्त्यासत्तिरिति भाव:। अथ त्वं क्षणिकं शून्यं क्षणविनाशि यच्छून्यं तत् प्रपञ्चं सविस्तरं ब्रवीषि। क्षणिकस्य न विस्तरावसर इत्यर्थ:। विहारं द्रढयसि स्वमठं दृढीकरोषि। ते चेष्टितम् आचरणं विचित्रमस्ति। कथने करणे च भेदादित्यर्थ:।
अनुवाद - तुम 'सब कुछ दु:ख हैÓ यह कहते हो और प्रिय सुख साधनों को जुटाने के लिए दौड़ते हो। प्रतिपद सामान्य का खंडन करते हो और अनुमानप्रमाण मानते हो। क्षणिक शून्य का विस्तार करते हो और अपने मठों को मजबूत बनाते हो। तुम्हारा आचरण विचित्र है। कथनी और करनी में बहुत बड़ा अन्तर है।
टिप्पणी - 'प्रतिपदमनुमानं वक्षि सामान्यमुज्झन्Ó से कवि ने अनुमान में सामान्य की अनिवार्यता का प्रतिपादन किया है। अनुमानप्रमाण सामान्य के विना नहीं हो सकता। क्योंकि धूमत्व सामान्य से ही धूम का तथा वह्नित्व सामान्य से ही वह्नि का व्याप्तिग्रह होता है। धूमव्यक्ति का वह्नि व्यक्ति से व्याप्तिग्रह नहीं होता। व्यक्तिरूप से व्याप्तिग्रह मानने पर महानसीयधूम से पर्वतीय वह्नि का अनुमान या तद्विषयक संशय ही नहीं होगा। यह अनुमान सामान्यलक्षणप्रत्त्यासत्ति से होता है। तुम्हारे मत में सामान्य का अभाव होने से सामान्यलक्षणप्रत्यासत्ति कैसे होगी?
।। १०५।।
अपि च न सुलभस्ते द्वादशस्वेन्द्रियार्चो-
चितिविषयसमीहासंयतस्याऽवकाश:।
तदनुसर विविक्तं भावनां कामपीच्छन्
विविदिषितमहं ते तत्र वक्ष्ये क्रमेण।।
अन्वय:- अपि च, ते द्वादशेन्द्रियार्चोचितिविषयसमीहासंयतस्य अवकाश: न सुलभ:। तत् काम् अपि भावनाम् इच्छन् विविक्तम् अनुसर। अत्र अहं ते विविदिषितं क्रमेण वक्ष्ये।
गङ्गा - अपि चेति- अपि च, निष्कर्षतया मम वचनं शृणु। ते विलासिनो बौद्धस्य द्वादशेन्द्रियार्चोचितिविषयसमीहासंयतस्य, द्वादशानां मनोबुद्धिसहितज्ञानकर्मेन्द्रियाणां तत्तद्विषयभोगसम्पादनेन या अर्चा पूजा तस्या: या उचिति:, औचित्यमिति यावत्। स एव विषयो वर्तते यस्या: तया समीहया चेष्टया संयतस्य बुद्धस्य अवकाश: न सुलभ:, अवसर एव नोपलब्ध:। प्रतिक्षणमिन्द्रियार्चनव्यापृतत्वादित्यर्थ:। तत् तस्मात् कामप्यपूर्वां भावनामिच्छन् विविक्तमेकान्तं विहारमिन्द्रियार्चां च परित्यज्य अनुसर अनुगच्छ। 'विविक्तं पूतविजनौÓ इत्यमर:। अत्र विविक्ते अहमलि: ते विविदिषितं ज्ञातुमिष्टं क्रमेण गुरुसेवादिभि: परमपुरुषार्थप्राप्तिं यावत् यथाक्रमं वक्ष्ये कथयिष्यामि।
अनुवाद - और भी, द्वादश इन्द्रियों को उनके अनुसार भोग देने के लिए उचितविषय की चेष्टा में संयत (भोग की सामग्री को जुटाने में व्यापृत) तुझ विलासी को कोई अवकाश ही सुलभ नहीं है। इसलिए किसी अपूर्व भावना को लेकर एकान्त का अनुसरण करो। यहाँ मैं तुम्हें जानने योग्य विषयों का क्रमश: कथन करूँगा।
टिप्पणी - यहाँ द्वादशेन्द्रिय शब्द से पाँच ज्ञानेन्द्रियाँ, पाँच कर्मेन्द्रियाँ तथा मन और बुद्धि का कथन किया गया है। बौद्ध परोक्ष देवताओं की पूजा में विश्वास नहीं करते। इन्द्रियतृप्ति ही उनके लिए देवपूजा है। पूर्वमें कवि ने इस प्रसंग का कथन किया है।
।। १०६।।
मम मतमयमात्माऽन्योन्यतादात्म्यभाजां
धु्रवचितिसुखसत्ताव्यापितानां समष्टि:।
स्फु रति सततमेतच्छादकानाद्यविद्या-
युतविषयसमष्ट्युत्सारणादेव मुक्ति:।।
अन्वय: - अयम् आत्मा अन्योन्यतादात्म्यभाजां ध्रुवचितिसुखसत्ताव्यापितानां समष्टि: अस्ति। एतच्छादकानाद्यविद्यायुतविषयसमष्ट्युत्सारणात् एव मुक्ति: सततं स्फुरति (इति) मम मतम्।
गङ्गा - मम मतमिति- अयं नित्यशुद्धबुद्धस्वभाव आत्मा अन्योन्यतादात्म्यभाजाम् अन्योऽन्यं परस्परं तादात्म्यं भजन्त इति तेषां प्राणिनाम्। एक एव आत्मा सर्वेषु प्राणिषु व्याप्त इति प्राणिनां परस्परं तादात्म्यम्। ध्रुवचितिसुखसत्ताव्यापितानां नित्यचेतनानन्दभावपूरितानां समष्टि: अस्ति। एतच्छादकानाद्यविद्यायुतविषय-समष्ट्युत्सारणात् एतस्य आत्मनश्छादिका या अनाद्यविद्या माया अज्ञानं वेति यावत्। तया अनाद्यविद्यया युता या विषयसमष्टिस्तस्या उत्सारणात् बाधात्। कारणेन सह कार्यस्य बाधादित्यर्थ:। मुक्ति: परमपुरुषार्थरूपो मोक्ष: सततं स्फुरतीति मम अले: मतं सिद्धान्त:।
वेदान्तशास्त्रे आत्मन एकत्वं बहुत्र प्रतिपादितम्। स नित्य: सच्चिदानन्दस्वरूप: सर्वानुगामी च वर्तत इत्येकेनैवात्मना व्याप्तत्वात् सर्वेषु प्राणिषु तादात्म्यम्। कठोपनिषदात्मैकत्वं प्रतिपादयन्त्याह-
अग्निर्यथैको भुवनप्रविष्टो
रूपं रूपं प्रतिरूपो बभूव।
एकस्तथा सर्वभूतान्तरात्मा
रूपं रूपं प्रतिरूपं बहिश्च।।२.५.८।।
अतश्चाऽयमात्मा परस्परतादात्म्यभाजां ध्रुवचितिसुखसत्ताव्यापितानां समष्टि: कथित: कविना। तदिदमात्मैक्यं रामायणेऽपि हनूमन्मुखात् प्रतिपादितम्-
देहदृष्ट्या तु दासोऽहं जीवदृष्ट्या त्वदंशक:।
आत्मदृष्ट्या त्वमेवाहमिति मे निश्चला मति:।।
सोऽयमात्माऽनाद्यविद्ययाऽज्ञानेन वाच्छादितो भवति। इयमविद्यैवावरणशक्ति:। सच्चिदानन्दस्वरूपस्यावरणादेवाऽविद्येयमावरणशक्तिरित्युच्यते। अस्या: सविषयानाद्यविद्याया उत्सारणादेव जीवस्य मुक्ति:- मोक्षोऽविद्यानिवृत्ति: अतो न ते शून्यस्योपासनया मुक्तिरिति भाव: (वृ.उ.शां.भा. १.४.१७)।
अनुवाद - यह आत्मा परस्पर अभिन्न, नित्य चेतन, उसके सुख और सत्ता से व्याप्त प्राणियों की समष्टि हैं। अनादि अविद्या इस आत्मा की आच्छादक है। अनादि अविद्या सहित विषय की समष्टि के उत्सारण से ही मुक्ति सदा स्फुरित होती है, यह मेरा मत है।
टिप्पणी - एक आत्मा ही समस्त प्राणियों में व्याप्त है। उसी सच्चिदानन्दरूप आत्मा की सुख और सत्ता सब में प्रतिष्ठित है। अत: कवि ने प्राणियों में परस्पर तादात्म्य माना है तथा आत्मा को उनकी समष्टि कहा है। यह आत्मा जब अनादि अविद्या तथा उसके विषय रूप अपने आच्छादकों से रहित हो जाता है तभी मुक्ति स्फुरित होती है। अर्थात् यह मुक्त कहलाता है। यह मुक्ति ज्ञान से ही सम्भव है। मैं शान्त, सच्चिदानन्द ब्रह्म ही हूँ। असद् रूप देह नहीं हूँ, इस प्रकार का तात्त्विक अनुभव ही यहाँ ज्ञानपद वाच्य है। अपरोक्षानुभूति में इस तथ्य का उल्लेख हुआ है-
ब्रह्म वाऽहं मम सम: शान्त: सच्चिदानन्दलक्षण:।
नाऽहं देहोऽसद्रूपो ज्ञानमित्युच्यते बुधै:।।२४।।
यह ज्ञान ही मुक्ति है। इसी की अनुभूति जीवात्मा की मुक्ति है।
।। १०७।।
इति कथितमिदानीं वत्स! सिद्धान्तमात्रं
श्रुतिमतमविचाल्यं लौल्यहीनो जुषस्व।
कृतगुरुवरिवस्यो वेत्स्यसीहोपपत्तिं
न तु तदवसरोऽस्मिन्बौद्धभङ्गाधिकारे।।
अन्वय: - हे वत्स! इति इदानीं सिद्धान्तमात्रं कथितम्। लौल्यहीन: अविचाल्यं श्रुतिमतं जुषस्व। कृतगुरुवरिवस्य: इह उपपत्तिं वेत्स्यसि। अस्मिन् बौद्धभङ्गाधिकारे तु तदवसर: न (अस्ति)।
गङ्गा - इति कथितमिति- हे वत्स! विलासिन्! वत्सेत्यनेन वेदान्तसिद्धान्ते तस्य बालत्वं बोधयति। इति एवम्प्रकारेण सिद्धान्तमात्रं वेदान्तशास्त्रोक्तसिद्धान्तमात्रं कथितमुक्तम्। निदर्शनमेतत्तल्लक्षणानां न तु सम्यक्प्रतिपादनम्। लौल्यहीनश्चाञ्चल्यरहित: इन्द्रियार्चनं परित्यज्य त्वम् अविचाल्यं कूटस्थं श्रुतिमतं श्रुतिसिद्धान्तं, श्रुत्या मतं ब्रह्मतत्त्वं वा जुषस्व सेवस्व। कृतगुरुवरिवस्य: सम्पादितगुरुसमर्चन:। 'वरिवस्या तु शुश्रूषा परिचर्याप्युपासनाÓ इत्यमर:। 'आचार्याद्धैव विदिता विद्या साधिष्ठं प्रापयतिÓ 'आचार्यवान् पुरुषो वेदÓ इति छान्दोग्येन गुरुसेवयैव ब्रह्मविद्यालाभ:। 'श्रोत्रियोऽवृजिनकोऽपापहत:Ó इति वृहदारण्यकेऽपि ब्रह्मविज्ञानाय गुरोरुपासना निरदेशि। इह अस्मिन् सिद्धान्ते उपपत्तिमुपायं वेत्स्यसि ज्ञास्यसि। परमतत्त्वज्ञानोपायं प्राप्स्यसीत्यर्थ:। अस्मिन् बौद्धभङ्गाधिकारे बौद्धानां खण्डनप्रसङ्गे तदवसर: उपपत्तिप्रतिपादनस्य तु नास्ति। अत एव गुरो: समीपं गत्वा श्रुतिसिद्धान्तं सेवस्व।
अनुवाद - हे बालबुद्धि विलासिन्! इस प्रकार से इस समय यहाँ सिद्धान्तमात्र का कथन किया गया है। चंचलता छोड़कर, इन्द्रियों की तृप्ति आदि का परित्याग कर तुम अविचाली श्रुतिमत का सेवन करो। गुरु की पूजा से तुम परमतत्त्व के ज्ञान का उपाय जान सकोगे। इस बौद्धभंगाधिकार में उस उपपत्ति के प्रतिपादन का अवसर नहीं है।
।। १०८।।
अलिरिति विशदोक्त्या साधु धिक्कृत्य बौद्धं
चिरमरमत मौनी निर्विकल्पे समाधौ।
विवसनमतयुक्त्या तं जिगीषन् विलासी
पुनरपि तमवोचत् त्यक्तविज्ञानवाद:।।
इत्यलिविलासिसंलापे खण्डकाव्ये तृतीयं शतकम्।।
अन्वय: - अलि: इति विशदोक्त्या बौद्धं साधु धिछचृत्य मौनी (सन्) निर्विकल्पे समाधौ चिरम् अरमत्। त्यक्तविज्ञानवाद: विलासी विवसनमतयुक्त्या तं जिगीषन् पुन: अपि तम् अवोचत्।
गङ्गा - अलिरितीति- अलि: ब्रह्मवित्प्रतीकभूतो भ्रमर: स्वीयया उपर्युक्तया विशदोक्त्या विशदया गभीरया उक्त्या वाचा बौद्धं तद्रूपं विलासिनं साधु सम्यक् प्रकारेण धिक्कृत्य तिरस्कृत्य। तस्य क्षणिकतासिद्धान्तं निराकृत्येति यावत्। मौनी मौनं भजमान: निर्विकल्पे समाधौ चिरं चिरकालम् अरमत, रमणम् अकरोत्। निर्विकल्पकसमाधिमाश्रित्य शान्तिमलभतेत्यर्थ:। त्यक्तविज्ञानवाद: तन्मताश्रयेण पराजितत्वात् त्यक्तो विज्ञानवाद: बौद्धमतं येन स:। तादृशो विलासी विवसनमतयुक्त्या विवसनानां दिगम्बरार्हतानां मतस्य युक्त्या: तर्कै: तम् अलिं जिगीषन् जेतुमिच्छन् पुन: पराजितोऽपि पुनर्विजयसमीहया अवोचत् अवदत्। चार्वाकबौद्धमताश्रयेण द्वि: पराजितोऽपि पुनर्दिगम्बरमतयुक्त्या विजयलिप्सुरवददित्यनेन चतुर्थशतकस्य वण्र्यविषय: सूचित:।
।। इति विद्यावतीसुतरमाकान्तविरचितायां म.म. गङ्गाधरशास्त्रि-कृतालिविलासिसंलापगङ्गाटीकायां तृतीयं शतकम्।।
अनुवाद - इस प्रकार अपनी विशद् उक्ति से बौद्धरूप विलासी का अच्छी प्रकार से खंडन रके अलि मौन हो गया। उसने चिरकाल तक निर्विकल्पकसमाधि में रमण किया। विज्ञानवाद को छोड़कर विलासी दिगम्बरों के मत से उसे जीतने की इच्छा से उस अलि से पुन: बोला।
।। इति विद्यावतीसुतरमाकान्तपाण्डेयकृते हिन्द्यनुवादे तृतीयं शतकम्।।