चतुर्थ शतकम्।
।। १।।
इत्थं निगद्य विरते वचनात्तदाऽलौ
भङ्गप्रसङ्गमनुचिन्त्य विषण्णचेता:।
स्वीयं विहारमपहाय विविक्तमीप्सन्
तत्र स्थितेन सुहृदा जगदे विलासी।।
अन्वय: - इत्थं निगद्य वचनात् अलौ विरते (सति) तदाभङ्गप्रसङ्गम् अनुचिन्त्य स्वीयं विहारम् अपहाय विविक्तम् ईप्सन् स्वीयं विहारम् विषण्णचेता: विलासी तत्र स्थितेन सुहृदा जगदे।
गङ्गा - इत्थमिति- इत्थं पूर्वोक्तप्रकारेण निगद्य कथयित्वा वचनात् कथनात् अलौ परमहंसप्रतीकभूते काव्यनायके भ्रमरे विरते विरामं स्वीकृते सति तदा तस्मिन् काले भङ्गप्रसङ्गं पराजयसन्दर्भम् अनुचिन्त्य विचार्य स्वीयं विहारं बौद्धमठम् अपहाय परित्यज्य विविक्तम् एकान्तमीप्सन् वाञ्छन् विषण्णचेता: खिन्नमना: विलासी तत्र मठे स्थितेन सुहृदा केनचिन्मित्रेण जगदे अचे। तादृशं विलासिनं कश्चित् सुहृद् प्रबोधयामासेत्यर्थ:। वसन्ततिलकवृत्तम्।
अनुवाद - पूर्वोक्त प्रकार से कह कर वह अलि चुप हो गया। उस समय अपनी पराजय का प्रसङ्ग जान कर दु:खी वह विलासी अपने मठ को छोड़ कर कहीं एकान्त में जाने लगा। तभी वहाँ उपस्थित उसके किसी मित्र ने कहा।
।। २।।
किं मित्र वित्रससि पत्रिदुरुक्तिमात्रा
दामन्त्रयाऽत्र तमथाऽर्चय चाऽतिमात्रम्।
सत्रायते न खलु कोऽपि तथाऽनुनीत:
स त्रायते गुरुभयादपि मुक्तशस्त्र:।।
अन्वय: - हे मित्र! पत्रिदुरुक्तिमात्रात् किं विप्रससि? तम् अत्र आमन्त्रय, अथ अतिमात्रम् अर्चय। तथा अनुनीत: खलु कोऽपि न सत्रायते। मुक्तशस्त्र: स: गुरुभयात् अपि त्रायते।
गङ्गा - सुहृदुक्तं विशदयति- किं मित्रेति- हे मित्र विलासिन्! पत्रिदुरुक्तिमात्रात्। 'पत्रिणौ शरपक्षिणौÓ इत्यमर:। पक्षिणोऽस्य भ्रमरस्य कुत्सितोक्तिमात्रात् किं वित्रससि त्रासमनुभवसि। अलिरयं पक्षी तत्राऽप्यस्य दुरुक्ति:। नाऽयं कश्चन आप्त इति नात्र त्रासावसर इत्यर्थ:। तमलिम् अत्र मठे आमन्त्रय, अथ च अतिमात्रम् अत्यधिकम् अर्चय पूजय। तथा तेन प्रकारेण पूजादिनाऽनुनीत: स्तुत: खलु कोऽपि न कत्रायते पापं चिकीर्षति। मुक्तशस्त्र: शस्त्ररहित: वचनमात्रशस्त्र: पूजित: स: गुरुभयात् गुरो: भयात् विशालाया भीतेर्वाऽपि त्रायते रक्षति। पूजित: सोऽस्मत्सिद्धान्तरक्षणमपि करिष्यतीति भाव:।
अनुवाद - हे मित्र विलासिन्। पक्षी की दुरुक्तिमात्र से तुम डर क्यों रहे हो? उसे यहाँ मठ में आमन्त्रित करो और उसकी अत्यधिक पूजा करो। उस प्रकार से पूजित कोई भी पाप नहीं करता। पूजा गया मुक्तशस्त्र वह गुरु के भय (अथवा विशाल भीति) से भी रक्षा करता है।
।। ३।।
यद्यस्मदर्पितवधूजनभुक्तमुक्त-
माध्वीकलेशमपि पास्यति दास्यमेष:।
नूनं प्रयास्यति निरस्य बुधाभिमानं
तद्दीयतामतिथये मधुपानपात्रम्।।
अन्वय: - यदि अस्मदर्पितवधूजनभुक्तमुक्तमाध्वीकलेशम् अपि पासयति (तर्हि) नूनम् एष: बुधाभिमानं परित्यज्य दासयं प्रयास्यति। तत् अतिथये मधुपानपात्रं दीयताम्।
गङ्गा - यद्यस्मदिति- पूजामिषेण आहूतोऽयमलि: यदि अस्मदर्पितवधूजनभुक्तमुक्तमाध्वीकलेशम् अस्माभि: समर्पितं तरुणीजनभोगावशिष्टं सुराबिन्दुमपि पास्यति तर्हि नूनं निश्चयेन एष अलि: बुधाभिमानं ज्ञानिगर्वं परित्यज्य दासयं दासभावं प्रयास्यति गमिष्यति। तत् तस्मात् अतिथये भ्रमराय मधुपानपात्रं सुरापानोपयोगिपात्रं चषकं दीयताम्। एतेन परतन्त्रभारते वैदेशिकानां नीतिरपि सङ्केतितो।
अनुवाद - यदि यह हमारे द्वारा दी गयी तरुणियों के पीने से अवशिष्ट सुरा का एक बूँद भी पी लेगा तो निश्चय ही बुधाभिमान को छोड़कर हमारा दास बन जायेगा। इसलिए इस अतिथि को सुरापान का पात्र (पैमाना) दो।
।। ४।।
यद्येष वन्यसुमनोमकरन्दबिन्दु-
सन्दोहतुन्दिलतया मधु नाभिनन्देत्।
उद्यानभूद्यदनवद्यसुगन्धिपुष्पै-
रामोद्यतामयमनेन पथा विनोद्य:।।
अन्वय: - एष यदि वन्यसुमनोमकरन्दबिन्दुतुन्दिलतया मधु न अभिनन्देत् (तर्हि) उद्यानभूद्यदनवद्यसुगन्धिपुष्पै: आमोद्यताम्। अयम् अनेन पथा विनोद्य:।
गङ्गा - यद्येष इति- एष अलिर्यदि वन्यसुमनोमकरन्दबिन्दुतुन्दिलतया वने जातानि यानि पुष्पाणि तेषां परागकणै: सन्तुष्टतया मधु सुरां न अभिनन्द्येत्, न इच्छेत् तर्हि उद्यानभूद्यदनवद्यसुगन्धिपुष्पै: उपवनभुवि उद्यन्ति विकसितानि यानि अनिन्द्यसुगन्धीनि पुष्पाणि तै: आमोद्यतां मोदोऽनुभूयताम्। अयमलि: अनेन मत्निर्दिष्टेन पथा मार्गेण विनोद्य: प्रसन्नतामनुभावयितुं योग्य इत्यर्थ:।
अनुवाद - यदि यह भ्रमर वन में उत्पन्न पुष्पों के मकरन्दकणों से तृप्त होने के कारण सुरा की इच्छा न करे तो इसे उपवनभूमि में खिल रहे ताजी सुगन्धि वाले पुष्पों से प्रसन्न करो। यह मेरे द्वारा निर्दिष्ट मार्ग से ही विनोदित करने योग्य है।
।। ५।।
सङ्गीतलोलुपतयाऽयमवाप्य भृङ्गी-
मङ्गीकरिष्यति कदाचन सङ्गतं न:।
रङ्गे नटीव तदियं मधुपाङ्गनैनं
गानेन रञ्जयतु मञ्जुलगुञ्जितेन।।
अन्वय: - सङ्गीतलोलुपतया भृङ्गीम् अवाप्य अयं कदाचन न: सङ्गतम् अङ्गीकरिष्यति। तत् इयं मधुपाङ्गना रङ्गे नटी एव मञ्जुलगुञ्जितेन गानेन रञ्जयतु।
गङ्गा - सङ्गीतेति- सङ्गीतलोलुपतया सङ्गीतलोलुभतया। भ्रमरस्य सङ्गीतप्रियता प्रसिद्धा। पीतमकरन्दरसोऽयं गाने लुब्ध: सन् भृङ्गीं भ्रमराङ्गनामवाप्य सम्प्राप्य अयमलि: कदाचन न: सङ्गतमङ्गीकरिष्यति। सहवसतिं स्वीकरिष्यति। तत् तस्मादियं मधुपाङ्गना एनं भ्रमरं रङ्गे रङ्गशालायां नटी इव मञ्जुलगुञ्जितेन गानेन सरागगुञ्जारवगीतेन रञ्जयतु, मोदयतु। मकरन्दं जीत्वा भृङ्गीगानलुब्धोऽयमिन्द्रियसुखसांभात् अस्मत्सङ्गतं स्वीकरिष्यतीति भ्रमरीयमेनं रञ्जयत्वित्यर्थ:।
अनुवाद - संगीत लोलुप होने के कारण भ्रमरी को पाकर यह हमारे साथ रह सकता है। इसलिए यह भ्रमरी अपने मंजुलगुंजन रूपी गान से इसका मनोरंजन करें।
।। ६।।
कान्तारसन्ततगतागतयातनाभि-
र्यद्वैष वाछचलहसाहसकण्ठशोषै:।
श्रान्तो नितान्तमवसीदति हन्त तेन
सन्तप्र्यतां शिशिरमारुततालवृन्तै:।।
अन्वय: - हन्त! एष कान्तारसन्ततगतागतयातनाभि: यद्वा वाछचलहसाहसकष्ठशोषै: श्रान्त: (सन्) नितान्तम् अवसीदति। तेन शिशिरमारुततालवृन्तै: सन्तप्र्यताम्।
गङ्गा - कान्तारेति- भ्रमरवशीकरणाय यद्वेत्यनेन साधनान्तरं निर्दिशति। पूर्वोक्तमनुचितं चेदित्यर्थ:। हन्त! इति खेदे। परमहंसो भ्रमर: कान्तारसन्ततगतागतयातनाभि:। कान्तारे दुर्गममार्गे महावने सन्ततं बहुबारं गतागतरूपा गमनागमनरूपा या यातनास्ताभि:। 'कान्तारोऽस्त्री महाख्ये बिले दुर्गममार्गेऽस्मिन् महावने बहुबारं गमनागमनं करोतीति तद्यातनया यद्वा अथवा वाछचलहसाहसकण्ठशोषै:, वाछचलहश्च साहसं च कण्ठशोश्च तै:। अस्मत्पक्षनिराकरणाय स्वपक्षसाधनाय चानेन वाग्युद्धं साहसं कण्ठशोषणं च कृतानि तै: श्रान्त: परिश्रान्त: सन् अवसीदति पीडामनुभवति। 'साहसं तु दमो दण्ड:Ó इत्यमर:। शोष: शोषणयक्ष्मणो:Ó इति हैम:। तेन हेतुना भ्रमरोऽयं शिशिरमारुततालवृन्तै: शीतलवायुतालदलै: सन्तप्र्यतां शीतलीक्रियताम्।
अनुवाद - हन्त! यह भ्रमर इस महा अरण्य में बार बार आवागमन करता रहा। उसकी यातना से अथवा वाछचलह, साहस और कण्ठशोष से यह अत्यधिक श्रान्त और पीडि़त है। इसलिए ठंडी बयार तथा ताड़पत्र के व्यजन से शीतलता प्रदान कर संतृप्त करो।
।। ७।।
अङ्गुष्ठमात्रतनुरम्बुजकोशबन्ध-
खिन्नो विशालनिलयार्थमिहोपयात:।
वश्यो भवेदयमवश्यमभीष्टलाभा-
त्तत्स्थाप्यतां सपदि राजतपञ्जरेऽस्मिन्।।
अन्वय: - अङ्गुष्ठमात्रतनु: (अयं) अम्बुजकोशबन्धखिन्न: (सन्) इह विशालनिलयार्थम् उपयात:। (अयम्) अभीष्टलाभात् अवश्यं वश्य: भवेत्। तत् सपदि अस्मिन् राजतपञ्जरे स्थाप्यताम्।
गङ्गा - अङ्गुष्ठेति- अङ्गुष्ठमात्रतनु:, अतिलघुशरीरोऽयं भ्रमर:। अम्बुजकोशबन्धखिन्न: कमलकुड्मलवासश्रान्त: सन् इह अस्मत्सविधे विशालनिलयार्थं विशदभवनप्रयोजनाय उपयात: सम्प्राप्त:। लघुशरीरोऽयं भ्रमर: कमलकोशेषु बद्ध: सन्निवसति। तत्र नाऽस्य हस्तपादं प्रसरतीति तेन दु:खेन पीडितोऽयं विशालभवनकामनयाऽत्रोपाजगाम। एतेन परतन्त्रभारतजनताया दशामपि सङ्केतयति। सोऽयं भ्रमर: अभीष्टलाभात् विशालभवनप्राप्ते: अवश्यं वश्य: वचनानुपालको भवेत्। तत् तस्मात् सपदि शीघ्रम् अस्मिन् पुरो विद्यमाने राजतपञ्जरे राजतधातुनिर्मिते पक्षिबन्धनगृहे स्थाप्यताम्।
अनुवाद - इसका शरीर अंगुष्ठमात्र है। यह कमलकोश के बन्धन से खिन्न है, अत: विशालभवन की प्राप्ति हेतु हमारे पास आया है। अभीष्ट लाभ से अवश्य ही यह हमारे वश में हो जायेगा। इसलिए इसे इस चाँदी के पिंजरे में स्थापित करो।
।। ८।।
तिर्यग्वचांसि न भवन्ति हि बुद्धिपूर्वं
किञ्चिद् घुणाक्षरनयेन मृषाऽमुनोक्तम्।
का तेन हानिरधुना सममानि तस्मा-
त्स्वच्छन्दतो वदतु यात्ववतिष्ठतां वा।।
अन्वय: - तिर्यग्वचांसि बुद्धिपूर्वं न हि भवन्ति। अमुनाघुणाक्षरनयेन किञ्चित् मृषा उक्तम्। तेन का हानि: सममानि। तस्मात् अधुना स्वच्छन्दत: वदतु, यातु अवतिष्ठतां वा।
गङ्गा - तिर्यग्वचांसीति- तिर्यग्वचांसि पक्षिवचनानि बुद्धिपूर्वं सुचिन्तितं यथा स्यात्तथा न हि भवन्ति। तानि तु अनुकृतिरूपाण्येव भवन्ति। तिर्यक् यथाश्रुतमेवोच्चारयति न तु स्वविवेकेनेत्यर्थ:। अमुना भ्रमरेण घुणाक्षरनयेन घुणकीटनिर्मिताक्षरन्यायेन। घुणनिर्मितान्यक्षराणि बुद्धिर्पूकाणि न भवन्ति। स काष्ठं खादन् गच्छति। तेन काचिदाकृतिर्भवति। किन्तु न तत्र भवति तस्य तात्पर्यम्। तथैव भ्रमरेणाऽनेन किञ्चित् मृषा उक्तम्। अस्य ज्ञानं नास्तीत्यर्थ:। तेन अस्य कथनेन का हानि: सममानि समबोधि न कापीत्यर्थ:। तस्मात् अधुना अयं वदतु, स्वपक्षं स्थापयतु, यातु गच्छतु, अवतिष्ठतां तिष्ठेद् वा।
अनुवाद - पक्षियों के वचन बुद्धिपूर्वक नहीं होते। वह जो सुनता है वही बोल देता है। इस भ्रमर घुणाक्षरन्याय से (तात्पर्यरहित होकर) कुछ गलत कहा है। उससे क्या हानि समझी गयी। इसलिए अब यह स्वच्छन्द बोले, या जाये अथवा यहीं रहे।
।। ९।।
अस्मद्विवक्षितविकल्पचयैकदेशो-
पन्याससौहृदलघूकृतकार्यभार:।
शेषोक्तिपूरणकृता परिबृंहणीयो
भृङ्गोऽयमत्रभवता न तु दूषणीय:।।
अन्वय: - शेषोक्तिपूरणकृता अत्रभवता अस्मद्विवक्षितविकल्पचयैक-देशोपन्याससोहृदलघूकृतकार्यभार: अयं भृङ्ग: परिबृंहणीय: न तु दूषणीय:।
गङ्गा - अस्मदिति- शेषोक्तिपूरणकृता स्वशास्त्रसम्बन्धिन्य: भ्रमरकथनशेषा या उक्तयस्तासां पूरणकारेण उद्यन्तोपस्थापकेन अत्रभवता विलासिना अस्मद्विवक्षितविकल्पचयैकदेशोपन्याससोहृदलघूकृतकार्यभार: अस्माभि: विवक्षित: कथयितुमिष्ठो यो विकल्पचय: विकल्पनां समूहहस्तस्य एकदेशोपन्यासरूपसौहृदेन लघूकृत: कार्यभार: दायित्वं येन तादृशोऽयं भृङ्ग: परिबृंहणीयो वर्धापनीयोऽभिनन्दनीयो वा न तु दूषणीय:। अनेन यत्किमप्युक्तं तेन अस्मत्कार्यभार एव सम्पादितोऽदिति तावानंश: शेषोक्तिपूरणकृता भवता वक्तव्यं न भविष्यति। अतोऽयं विलासिना भवता अभिनन्दनीय इत्यर्थ:।
अनुवाद - भ्रमर के द्वारा कही गयी उक्तियों से हमारे शास्त्र का जो कुछ कथन शेष रह गया है उसे आप (विलासी) ही पूरा करेंगे। अत: आप को हमारे द्वारा विवक्षित विकल्पों के समूह के एक देश के प्रतिपादनरूप सौहृद से हमारे दायित्व को कृत्का करने वाले इस भ्रमर का अभिनन्दन करना चाहिए। इसे दूषित नहीं करना चाहिए।
।। १०।।
आहूय वा सबहुमानमहंयुमेनं
वादाहवे सह मया सुहृदा सहासम्।
उक्त्वा विकल्पशतमल्पमतिं जय त्व-
मस्मान् जयेत्कथमयं हि सहायहीन:।।
अन्वय: - अहंयुम् एनमल्पमतिं वा सबहुमानं वादाहवे आहूय त्वं विकल्पशतम् उक्त्वा मया सुहृदा सहासं जय। अयं सहायहीन: हि अस्मान् कथं जयेत्।
गङ्गा - आहूयेति- अहंयुम्, अहमस्यास्तीति। अहङ्कारवन्तमित्यर्थ:। 'अहङ्कारवानहंयु:Ó इत्यमर:। एनमल्पमतिं भ्रमरं वा सबहुमानं सादरं वादाहवे वाग्युद्धे आहूय विकल्पशतं बहुपक्षम् उक्त्वा मया सुहृदा मित्रेण समं सहासं हासेन सहितं यथा स्यात् तथा जय। तर्केण एनं पराहृत्य खण्डितं स्वपक्षं साधयेत्यर्थ:। अयं सहायहीन: मित्रादिरहित: अस्मान् बहुसंख्यकान् कथं जयेत्। न कथमपीत्यर्थ:।
अनुवाद - अथवा अहंकारी इस अल्पमति भ्रमर को आदरपूर्वक वाग्युद्ध में बुलाओ। वहाँ तुम अपने शास्त्र के अनेक पक्षों को उपस्थापित करो और मुझ मित्र के साथ हासपूर्वक उसे जीतो। यह सहायताहीन हमें कैसे जीत सकता है?
।। ११।।
न त्वेष निष्ठुरगिरा परिभत्सनीय-
स्ताड्योऽथ वा कुटिलदण्डकशाग्रहस्तै:।
क्रुद्धो विदङ्क्ष्यति खलोऽयमनिष्टमेत-
दर्हद्विगर्हिततराऽपि च भूतहिंसा।।
अन्वय: -एष निष्ठुरगिरा अथ कुटिलदण्डकशाग्रहस्तै: परिभत्र्सनीय: ताड्य: वा न (अस्ति)। अयं खल: क्रुद्ध: (सन्) विदङ्क्ष्यति। एतत् अनिष्टम्। भूतहिंसा च अर्हद्विगर्हिततरा (अस्ति)।
गङ्गा - न त्वेष इति- एष भ्रमर निष्ठुरगिरा कठोरवचनेन अथ कुटिलदण्डकशाग्रहस्तै: कुटिलो वक्रश्चासौ दण्ड: कुटिलदण्ड:। कुटिलदण्डश्च कशा च कुटिलदण्डकशे। कुटिलदण्डकशे अग्रहस्ते येषां तै:। अथवा कुटिलदण्डश्च कशा च अग्रहस्तश्च तै:। वक्रदण्डताडनीचपेरादिभिरित्यर्थ:। परिभत्र्सनीय: निन्दनीय: न वा ताड्य:। अय: खल: दुष्ट: कु्रद्ध: सन् विदङ्क्ष्यति, विपूर्वकदंशधातोर्लृटि रूपम्। एतद् दंशनमनिष्टम्। वयं भ्रमरस्याऽस्य ताडनादौ न प्रभविष्याम इति दंशनमेतदस्माकं कृतेऽनिष्टमेव। यतो हि भूतहिंसा च प्राणिनां हिंसा अर्हद्विगर्हिततरा जिनेन विनिन्दिततरा। विद्यत इति शेष:। तस्मान्नाऽस्य ताडने मारणे वा नो गति: स्यादित्यर्थ:।
अनुवाद - इस भ्रमर की न तो कठोर वचनों से निन्दा करनी चाहिए और न ही टेढ़े दण्ड और कोड़ों से मारना ही चाहिए। कु्रद्ध होकर यह हमें डसेगा। किन्तु हम इसे ताडित नहीं कर सकते। अत: हमारे लिए यह अनिष्ट है। प्राणियों की हिंसा जिन के द्वारा निन्दित है, अत: इस भ्रमर को मारना ठीक नहीं।
।। १२।।
आकण्र्य कर्णसुभगं सुहृदुक्तमेत-
दाप्यायित: पुनरलिं विजिगीषमाण:।
नायं तदा तत्पदं प्रचलन् वदंश्च
कौपीनमप्यगणयद्गलितं विलासी।।
अन्वय: - सुहृदुक्तं कर्णसुभगम् एतत् आकण्र्य आप्यायित: पुन: अलिं विजिगीषमाण: ततपदं प्रचलन् वदन् च अयं विलासी गलितं कौपीनम् अपि न अगणयत्।
गङ्गा - आकण्र्येति- सुहृदुक्तं मित्रकथितं कर्णसुभगं श्रवणमधुरम् एतद्वचनम् आकण्र्य श्रुत्वा आप्यायित: सन्तुष्ट: बारत्रयं पराजितोऽपि पुन: चतुर्थबारम् अलिं भ्रमरं विजिगीषमाण: विजयेच्छु: सन् ततपदं शीघ्रं प्रचलन् गच्छन् वदन् उपदिशंश्च अयं विलासी गलितं पतितं कौपीनम् अधोवस्त्रमपि न अगणयत् न अबुध्यत। कौपीनरहित: स दिगम्बरोऽभवदित्यर्थ:। एतेन विलासिनो जैनमतानुयायित्वं सूचितम्। बौद्धरूपेण परास्त: स: सम्प्रति जैनमतमवालम्बत्।
अनुवाद - मित्र के द्वारा कहे गये श्रवणमधुर इन वचनों को सुन कर वह विलासी सन्तुष्ट हुआ। पूर्व में परास्त होकर भी वह पुन: उस भ्रमर को जोतने की इच्छा से जल्दी जल्दी चल पड़ा। इस शीघ्रगति से चलता हुआ तथा उपदेश देता हुआ वह अपने गिरे हुए कौपीन को भी नहीं जान पाया। कौपीन रहित वह विलासी दिगम्बर हो गया।
।। १३।।
मन्दाक्षरोचितशिरोनतिसभ्यसङ्घ-
मन्दाक्षरोचितनिषेधगिरोऽवीधर्य।
उच्चैर्विहस्य सुहृदा सह साग्रहस्तं
प्रोचे प्रसार्य गगने सहसाऽग्रहस्तम्।।
अन्वय: - मन्दाक्षरोचितशिरोनतिसभ्यसङ्घमन्दाक्षरोचितनिषेधगिर: अवधीये साग्रह सुहृदा सह तम् उच्चै: विहस्य सहसा अग्रहस्तं गगने प्रसार्य प्रोचे।
गङ्गा - मन्दाक्षेति- मन्दाक्षरोचितशिरोनतिसभ्यसङ्घमन्दाक्षरोचितनिषेधगिर: कौपीनपातात् मन्दाक्षेण लज्जया दोचिता शिरोनतिर्यैस्तादृशानां सभ्यानां सङ्घस्य मन्दाक्षरा: शनैरुक्ता: उचिताश्च या निषेधगिर: वादप्रतिषेधवाक्यानि तानि अवधीर्य तिरस्कृत्य साग्रह: आग्रहेण हठेन सहित:। सुहृदा पाश्र्वस्थमित्रेण सह उच्चै: विहस्य उपहासं कृत्वा सहसा अकस्मात् अग्रहस्तं दक्षिणहस्तं गगने आकाशे प्रसार्य प्रोत्थाय प्रोचे जगाद। ब्रुव: आत्मनेपदे कर्तरि लिटि रूपम्।
अनुवाद - वस्त्रहीन होने के कारण लज्जा से शिर झुकाना ही जिन्हें अच्छा लगता है ऐसे सभ्यों के समूह के वादप्रतिषेधवाक्यों को तिरस्कृत कर दिया। अपने मित्र के साथ आग्रहपूर्वक उस विलासी ने भ्रमर: का उपहास किया तथा फिर दाहिने हाथ को आकाश में फैला कर बोला।
।। १४।।
नेयं मतिस्तव विशुद्धिमती वयस्य
ब्रह्माप्रसिद्धमपि सत्यमतीव यस्य।
दृश्यं स्वसत्यमिति दर्शनमुच्यमानं
संसत्सु सिद्ध्यति न साधनमुच्यमानम्।।
अन्वय: - हे वयस्य! यस्य अप्रसिद्धम् अपि ब्रह्म अतीव सत्यं (तस्य) न (अस्ति)। दृश्यं तु असत्यं इति उच्यमानं साधनमुच्यमानं दर्शनं संसत्सु न सिद्धयति।
गङ्गा - नेयं मतिरिति- हे वयस्य! भ्रमर! यस्य तव अप्रसिद्धमपि अदृष्टमननुभूतमपि ब्रह्म अतीव सत्यं परमार्थत: सत्यम्, न तु प्रत्यक्षदृष्टं जगत्। वेदान्तनये ब्रह्म एव सत्यम्। इदं प्रत्यदृष्टं जगत्तु मिथ्यैव, तदेवेह आक्षिपन् वदति विलासी। तस्य अप्रसिद्धस्य ब्रह्मण: सत्यतास्वीकर्तुस्तव इयं ब्रह्मण: सत्यत्वविषयिणी मति: बुद्धि: विशुद्धिमती विशुद्धा विश्वासयोग्या न। अस्तीति शेष:। प्रत्यक्षानुभूतस्य निषेधादननुभूतस्य च विधेस्तवोक्तिर्न विशुद्धिमतीत्यर्थ:। दृश्यमनुभूयमानं पुरो विद्यमानं वा जगद्सत्यं मिथ्या। एतेन ब्रह्मसत्यं जगन्मिथ्येति वचनमाक्षिपति। इत्येवं प्रकारेण उच्यमानं प्रतिपाद्यमानं साधनमुच्यमानं साधनेन हेतुना त्यज्यमानं दर्शनं तव सिद्धान्त: संसत्सु विद्वत्सभासु न सिद्ध्यति। एतेन भवान् उपहासपात्रं भविष्यति।
अनुवाद - हे मित्र! तुम्हारे लिए तो अप्रसिद्ध भी ब्रह्म परम सत्य है। अत: तुम्हारी यह बुद्धि विशुद्ध नहीं है। हम इसे स्वीकार नहीं कर सकते। 'दृश्य जगत् असत्य हैÓ (ब्रह्मसत्यं जगन्मिथ्या) यह कहने वाला तथा साधन से त्यज्यमान तुम्हारा यह दर्शन सभाओं में सिद्ध नहीं होगा।
।। १५।।
विश्वासहेतुनिजवक्तृगुणानपेक्षे
विश्वासहे तु मम नास्ति रुचिर्हि वेदे।
निर्दोषजीववधसाधनयज्ञचेष्टा
नास्मादृशां हृदि कदापि नयज्ञ! चेष्टा।।
अन्वय: - विश्वासहेतुनिजवक्तृगणानपेक्षे विश्वासहे वेदे हि मम रुचि: नास्ति। हे नयज्ञ! निर्दोषजीववधसाधनयज्ञचेष्टा च अस्मादृशां हृदि कदापि न इष्टा।
गङ्गा - विश्वासेति- विश्वासहेतुनिजवक्तृगुणानपेक्षे विश्वासहेतवो ये निजवक्तु: स्वोच्चारयितु: गुणा आप्तत्वादयस्तेषु निरपेक्षे। वेदानामपौरुषेयत्वान्न तदुच्चारयितृगुणा अपेक्ष्यन्त इत्यर्थ:। तादृशे विश्वासहे बाधोपदेशेन प्रपञ्चमसहमाने वेदे मम दैगम्बरीं वृत्तिमभ्युपगतस्य मम विलासिन: रुचि: प्रीति: नास्ति। हे नयज्ञ! नीतिज्ञ! निर्दोषजीववधसाधनयज्ञचेष्टा निर्दोषाणां जीवानां वध: साधनं येषां तेषां यज्ञानां चेष्टा अनुष्ठानप्रवृत्तिश्च निर्दोषाणां जीवनां वध: साधनं तेषां यज्ञानां चेष्टा अनुष्ठानप्रवृत्तिश्च अस्मादृशां भूतदयाप्रधानानां जिनमतानुयायिनां हृदि हृदये कदापि न इष्टा न वाञ्छिता। वेदतत्प्रतिपाद्ययज्ञादिषु नास्माकं प्रीतिरित्यर्थ:।
अनुवाद - तुम वेद को अपौरुषेय मानते हो, अत: विश्वास के कारणभूत उसके वक्ता के आप्तत्व आदि गुणों की अपेक्षा नहीं करते। उनमें प्रपञ्च भी सह्य नहीं है। ऐसे वेद में मेरी रुचि नहीं है। हे नीतिज्ञ भ्रमर! निर्दोष जीवों का वध ही जिनका साधन है, ऐसे यज्ञों के अनुष्ठान के प्रति भी हमारे हृदय में कोई लालसा नहीं है। हम जिनमत के अनुयायी हैं। प्राणियों पर दया करना ही हमारा धर्म है।
।। १६।।
य: सर्वभूतहितमुज्झितपक्षपात-
मन्योन्यबाधविधुरं पुनरुक्तिमुक्तम्।
वक्त्यात्मनीनमपशब्दविहीनमल्पं
श्रद्धीयते स न तु तद्विपरीतवादी।।
अन्वय: - य: सर्वभूतहितम् उज्झितपक्षपाटम् अन्योन्यबाधविधुरं पुनरुक्तिमुक्तम् आत्मनीनम् अपशब्दविहीनम् अल्पं वक्ति स श्रद्धीयते न तु तद्विपरीतवादी।
गङ्गा - जिनोक्तिषु वेदापेक्षया सप्तभिर्विशेषणै: वैशिष्ट्यं वक्ति- यद् सर्वभूतेति- य: जिन: सर्वभूतहितं सर्वेषु प्राणिषु दयाम् 'अहिंसा परमो धर्मÓ इति उज्झितपक्षपातम्, त्यक्तविप्रशूद्रादिभेदम्, अन्योन्यबाधविधुरं परस्परविरोधरहितं, पुनरुक्तिमुक्तं पुनरुक्तिरहितम्, आत्मनीनम् आत्मने हितम्, अपशब्दविहीनं जर्फरीतर्फरीत्यादिशब्दरहितम् अल्पं स्वल्पं वक्ति उपदिशति स जिन: श्रद्धीयते उपास्यते न तु तद्विपरीतवादी वेद:। वेदे तु यज्ञादिषु पशुमारण नियमात् सर्वभूतहितं नास्ति। विप्रशूद्रादिषु भेदात् पक्षपातराहित्यं नास्ति। अन्योन्यबाधवैधुर्यं चापिनास्तीति सर्वमुत्तरश्लोकसप्तकेन प्रतिपादयिष्यति।
अनुवाद - जो जिन समस्त प्राणियों में दया (अहिंसा परम धर्म है) का उपदेश करता है। जो पक्षपातरहित, एक दूसरी उक्तियों के बाध से रहित, पुनरुक्ति से रहित, आत्महित, अपशब्दरहित और अल्प उपदेश करता है, हम उस जिन पर श्रद्धा करते हैं। उससे विपरीतवादी वेद हमारी श्रद्धा के विषय नहीं हैं। उपर्युक्त सातों विशेषताएं वेदों में नहीं हैं। जिनवचनों में ही इनकी प्राप्ति होती है।
।। १७।।
पादाऽर्पणेऽपि धरणौ सततावधान-
शिक्षोपदर्शितदयं जिनशासनं क्व।
क्रन्दत्पशुप्रसभमारणगर्हणीय-
यज्ञोपदेश्यकरुणं क्वच वेदवाक्यम्।।
अन्वय: - क्व धरणौ पादाऽर्पणे अपि सततावधानशिक्षोपदर्शितदयं जिनशासनं क्व च क्रन्दत्पशुप्रसभमारणगर्हणीययज्ञोपदेश्यकरुणं वेदवाक्यम्।
गङ्गा - उपर्युक्तसप्तविशेषाणानां क्रमश: वेदेऽभावं प्रतिपिपादयिषया प्रथमं वेदे सर्वभूतहितराहित्यं प्रदर्शयति- पादार्पणेति क्व धरणौ पृथिव्यां पादार्पणे चलने अपि सततावधानशिक्षोपदर्शितदयं सततं सर्वदा अवधानशिक्षया सावधानता शिक्षणेन उपदर्शिता दया यस्मिन् तत्। गमनकालेऽपि कस्यचिन्मरणं न स्यादिति भुवि सूक्ष्ममवेक्ष्य गन्तव्यमित्युपदेशेन अहिंसां शिक्षयज्जिनशासनम्, जिनस्योपदेश:, क्व च क्रन्दत्पशुप्रसभमारणगर्हणीययज्ञोपदेश्यकरुणं वेदवाक्यमृ, क्रन्दतां क्रन्दनं क्रियमाणानां पशूनां प्रसभं बलात् मारणेन गर्हणीया निन्दायोग्या ये याा अश्वमेधादयस्तेषामुपदेश्येन प्रतिपादनेन करुणं घृणापूरितं वेदवाक्यं वेदवचनम्। विद्यत इति शेष:। 'घृणा तु स्याज्जुगुप्सायां करुणायाम्Ó इति हैम:। एतेन वेदस्य हिंसोपदेशकता जिनवचनस्य च सर्वभूतहिताभावात् जिनवचनमेव श्रेष्ठम्।
अनुवाद - कहाँ तो धरती पर पैर रखने पर भी सदैव सावधानता की शिक्षा देकर दया प्रदर्शित करने वाला जिनमुनि का उपदेश और कहाँ क्रन्दन कर रहे पशुओं के बलात् मारण से निन्दनीय यज्ञों के उपदेश से करुण वेदवाक्य। वेद में सभी प्राणियों के हित की चिन्ता न होने के कारण मुझ विलासी की उन पर श्रद्धा नहीं है। मैं सभी प्राणियों पर दया का उपदेश करने वाले जिनवचनों पर ही श्रद्धा करता हूँ।
।। १८।।
तुल्ये किलागसि वयस्यपि विप्रशूद्र-
भेदेन दण्डविधिलाघवगौरवे य:।
ब्रूते स्म सत्कृतिफ लेषु च वैपरीत्यं
वेद: कथं स वद हास्यति पक्षपातम्।।
अन्वय: - य: तुल्ये आगसि वयसि अपि विप्रशूद्रभेदेन दण्डविधिलाघवगौरवे सत्कृतिफलेषु च वैपरीत्यं ब्रूते स्म स किल वेद: पक्षपातं कथं हास्यति (इति) वद।
गङ्गा - वेदे पक्षपातदोषं प्रदर्शयन्नाह- तुल्ये किलेति- य: वेद: तुल्ये समे आगसि अपराधे वयसि आयुषि अपि विप्रशूद्रभेदेन ब्राह्मणाऽन्त्यजविवेकेन दण्डविधिलाघवगौरे दण्डविधानस्य लाघवे गौरवे सत्कृतिफलेषु सुकृतपरिणामेषु च वैपरीत्यं बू्रते स्म, ब्राह्मणानां कृते भिन्नो दण्ड: शूद्राणां च भिन्न:, एवमेव सुकृतफलेऽपि ब्राह्मणानां भिन्नं फलं शूद्राणां च भिन्नमिति विपरीतं फलं निर्धारयति स्म। किलेति निश्चयार्थकमव्ययम्। स वेद: निश्चयेन पक्षपातं स्वविपरीतस्वभावं कथ हास्यति त्यक्ष्यति इति वद कथयेति अलिं प्रच्छति। एवं वेदे पक्षपातदोष:।
अनुवाद - जो वेद समान अपराध करने पर समान वय के विप्र और शूद्र में दण्डविधि में लाघव और गौरव करते हुए विपरीत नियम करता है। ब्राह्मण को कम तथा शूद्र को अधिक दण्ड की व्यवस्था करता है। इसी प्रकार सुकर्म के फल में भी वह विपरीत निर्धारण करता है, वह वेद पक्षपात को कैसे छोड़ेगा, यह बताओ।
।। १९।।
त्वं षोडशिग्रहविधाननिषेधयुग्म-
मेकत्र दुष्टमतिरात्रमखे निशम्य।
श्रुत्वोदितानुदितहोमविगानपूजे
वेदे परस्परविरोधमवेह्यवार्यम्।।
अन्वय: - त्वम् एकत्र अतिरात्रमखे दुष्टं षोडशिग्रहविधाननिषेधयुग्मं निशम्य उदितानुदितहोमविगानपूजे श्रुत्वा वेदे अवार्यं परस्परविरोधम् अवेहि।
गङ्गा - वेदेऽन्योन्यबाधं प्रदर्शयति- त्वं षोडशीति- त्वम् अलि: एकत्र एकस्मिन्नेव स्थाने अतिरात्रमखे अतिरात्रयज्ञप्रतिपादनावसरे दुष्टं दोषपूर्णं षोडशिग्रहविधाननिषेधयुग्मं षोडशिग्रहे विधाननिषेधयो: युग्मं निशम्य श्रुत्वा। तथा च तत्र श्रुति: - 'अतिरात्रे षोडशिनं गृहणानि नातिरात्रे षोडशिनं गृहणाति।Ó अत्र सहैव विधाननिषेधयो: श्रुति:। अथ च उदितानुदितहोमविगानपूजे, उदितानुदितहोमयो: विरुद्धपूजे श्रुत्वा। तथा च तत्र श्रुति:- 'श्यावो वास्याहुतिमभ्यवहरतिÓ य उदिते जुहोति, शबलो वास्याहुतिमभ्यवहरति योऽनुदिते। अत्र उदितहोमे श्यावहोमस्य अनुदिते च शबलहोमस्य विधानादुभयत्र विरुद्धपूजा। अतस्त्वं तादृशे वेदे अवार्यम् अपरिहार्यं परस्परविरोधम् अन्योऽन्यबाधम् अवेहि जानीहि। जिनवचनेषु न तथा।
अनुवाद - तुम अतिरात्रयज्ञ के प्रसंग में एक ही जगह दोषपूर्ण षोडशिग्रह के विधान और निषेध के युगल को सुन कर तथा उदित और अनुदित होम की विरुद्ध पूजा को सुन कर वेद में अपरिहार्य परस्परविरोध जानो।
।। २०।।
क: पिष्टपेषणसमं पुनरुक्तिदोष-
मङ्गीकरिष्यति न चाप्स्यति सूरिगर्हाम्।
वेदे निशम्य नवधा ऽनवधानशंसि
त्वं विद्धि तत्त्वमसिवाक्यमुपेक्षणीयम्।।
अन्वय: - पिष्टपेषणसमं पुनरुक्तिदोषं क: अङ्गीकरिष्यति, सूरिगर्हां च न आप्स्यति। वेदे नवधा अनवधानशंसि निशम्य त्वं तत्त्वमसिवाक्यम् उपेक्षणीयं विद्धि।
गङ्गा - वेदे पुनरुक्तिदोषं प्रतिपादयति- क: पिष्टेति- पिष्टपेषणसमं पिष्टस्य चूर्णीभूतस्य पुन: पेषणं चूर्णीकरणमिव पुनरुकितदोषं कथितस्यैव पुन: पुन: कथनरूपं दोषं क: अङ्गीकरिष्यति, स्वीकरिष्यति? न कोऽपीत्यर्थ:। स्वीकृत्य च सूरिगर्हां विद्वन्निन्दिां च न आप्स्यति प्राप्स्यति। पुनरुक्तिदोषं स्वीकृत्य सर्वोऽपि विद्वद्भिर्निन्दनीयो भविष्यतीत्यर्थ:। वेदे न वधा नवप्रकारेण अनवधानशंसि वचनं श्रुत्वा त्वं तत्त्वमसिवाक्यं वेदान्तप्रसिद्धं तत्त्वमसीति मद्यवाक्यम् उपेक्षणीयं विद्धि जानीहि। छान्दोग्ये षष्ठप्रपाठके तत्त्वमसीति वाक्यस्य नवधाऽभ्यास एव विलासिनेह पुनरुक्तिरूपेणोपस्थापित:।
अनुवाद - पिसे हुए को पुन: पीसने के समान पुनरुक्तिदोष को कौन स्वीकार करेगा? इसे स्वीकार करके कौन विद्वानों की निन्दा को प्राप्त नहीं होगा। वेद में नौ प्रकार से अनवधनता को कहने वाले वचन को सुन कर तुम 'तत्त्वमसिÓ वाक्य को उपेक्षणीय समझो।
।। २१।।
सर्वस्वदानमपि विश्वजितीह सर्व-
स्वारक्रतौ च यजमानतनूनिपातम्।
को वा सुधीरुपदिशेद्विदधीत को वा
वेदस्तथोपदिशतीति स नादरार्ह:।।
अन्वय: - इह विश्वजिति अपि सर्वस्वदानं सर्वस्वारक्रतौ च यजमानतनूनिपातं को वा सुधी: उपदिशेत् को वा विदधीत। वेद: तथा उपदिशति इति स आदरार्ह: न (अस्ति)।
गङ्गा - सर्वस्वदानमिति- इह लोके विश्वजिति अपि तदाख्ययज्ञे अपि सर्वस्वदानम्। विश्वजितियज्ञे सर्वस्वदानं विहितमिति कीदृशोऽयं विश्वजित्? तथा च श्रुति: 'विश्वजिति सर्वस्वं ददातीतिÓ। सर्वस्वरारक्रतौ च यजमानतनूनिपातं यजमानस्य शरीरपातं निर्धारयति। मरणकामो ह्येतेन (सर्वस्वारक्रतुना) यजेत। आर्भवे स्तूयमान औदुम्बरीं दक्षिणेन देशेनाहतेन वाससा परिवेष्ट्य ब्राह्मणा: समापयत मे यज्ञमिति सम्प्रेष्याग्रिं विशतीति श्रुति:। एवं विश्वजिति सर्वस्वदानं सर्वस्वारक्रतौ च यजमानतनूनिपातं को वा सुधी: विद्वान् उपदिशेत् न कोऽपीत्यर्थ:। को वा निदधीत? न कोऽपि। वेद: तथा विश्वजित सर्वस्वदानं सर्वस्वारे च यजमानतनूनिपातमुपदिशतीति तत्र आत्मनीनाभावात् स आदरार्ह आदरयोग्यो न विद्यते।
अनुवाद - इस लोक में विश्वजित् यज्ञ में सर्वस्व के दान तथा सर्वस्वारक्रतु में यजमान के शरीर के निपातन का उपदेश कौन विद्वान् करेगा? और कौन उस कर्तव्य का पालन करेगा? वेद ऐसा उपदेश करता है, अत: उसमें आत्महित का अभाव होने से वह आदरार्ह नहीं है।
टिप्पणी- विश्वजित् यज्ञ में सर्वस्व दान करने का विधान है। श्रुति कहती है- विश्वजिति सर्वस्वं ददातीति। इस तरह मृत्युकाम के लिए सर्वस्वारक्रतु विहित है। इसमें यजमान के शरीर का निपात होता है। विलासी इन प्रकरणों से वेद में आत्महित का अभाव देखता है, अत: वेद उसके लिए आदरार्ह नहीं है।
।। २२।।
न व्याकृतावनुमत: किल जर्फ रीत्वि-
त्यादिप्रयोग उपलभ्यत एष वेदे।
तेनापशब्दशतदूषितवाक्यवक्त-
र्याचार्यता न हितकाङ्क्षिभिरर्पणीया।।
अन्वय: - व्याकृतौ 'जर्घरीतुÓ इत्यादिप्रयोग: न अनुमत:। एष वेदे उपलभ्यते। तेन हितकाङ्क्षिभि: अपशब्दशतदूषितवाक्यवक्तरि आचार्यता न अर्पणीया।
गङ्गा - वेदेऽपशब्दत्वदोषमुपपादयन्नाह- वक्त्यात्मेतिव्याकृतौ व्याकरणे। व्याक्रियन्ते व्युत्पाद्यन्ते शब्दा अनेनेति व्युत्पत्त्या व्याकरणं शब्दव्याकृतिशास्त्रम्। व्याकरणे 'जर्फरीतुÓ इत्यादिप्रयोग: न अनुमत:, तदसाधुत्वात्। वस्तुतो नैतादृशप्रयोगे प्रकृतिप्रत्ययविभाग: कर्तुं शक्यत इति व्याकरणदृष्ट्याऽसाधुत्वम्। तथापि वेदे एष 'जर्फरीतुÓ प्रयोगो लभ्यते। तेन अपशब्दशतदूषितवाक्यवक्तरि अपशब्दानां शतेन दूषितस्य दोषपूर्णस्य वाक्यस्य वक्तरि ईश्वरे परमात्मनि वा हितकाङ्क्षिभि: कल्याणेच्छुभि: आचार्यता न अर्पणीया, न देया। असाधुशब्दप्रयोग: यजमानं हिनस्तीति महाभाष्येऽप्युक्तम्-
दुष्ट: शब्द: स्वरतो वर्णतो वा
मिथ्या प्रयुक्तो न तमर्थ माह।
स वाग्वज्रो यजमानं हिनस्ति।
यथेन्द्रशत्रु: स्वरतोऽपराधात्।।
अत एव अपशब्दबाहुल्येन दुष्टं वेदरूपं वाक्यं यो वदति तस्मिन् परमेश्वरे हितेच्दुभि: आचार्यता न कथमपि दातुं शक्यते। तादृशाचार्येण यजमानस्यैव विनाशात्।
अनुवाद - व्याकरण में 'जर्फरीतुÓ इत्यादि प्रयोग अनुमत नहीं हैं। यह प्रयोग वेद में उपलब्ध होता है। इसलिए हित कीकामना करने वालों को अनेक अपशब्दों से दूषित वेदवाक्य को बोलने वाले के लिए 'आचार्यÓ पद का प्रयोग नहीं करना चाहिए।
टिप्पणी - वेद में अनेक ऐसे शब्द प्राप्त होते हैं जिनका प्रकृति- प्रत्यय विभाग संभव नहीं है। व्याकरणशास्त्र ऐसे शब्दों के प्रयोग की अनुमति नहीं देता। मुनि पतंजलि के अनुसार दुष्ट शब्द का प्रयोग यजमान को नष्ट कर देता है। जैनमतावलम्बी विलासी का तर्क है कि 'जर्फरीतुÓ जैसे अनेक अपशब्दों से दूषित वेदवाक्य का वक्ता जो परमेश्वर है उसे 'आचार्यÓ नहीं कहा जाना चाहिए। उसके अनुसार वेद अपशब्द है।
।। २३।।
संक्षिप्तवाग्भवति शिष्यजनावधान-
तात्पर्यवेदनपरीक्षणधारणार्हा।
शाखासहस्रगहने श्रुतिकानने तु
नापातबुद्धिरपि सम्भवतीतरत् क्व।।
अन्वय: - संक्षिप्तवाक् शिष्यजनावधानतात्पर्यवेदनपरीक्षणधारणार्हा भवति। शाखासहस्रगहने श्रुतिकानने तु आपातबुद्धि: अपि न सम्भवति। इतरत् क्व (सम्भवति)।
गङ्गा - संक्षिप्तवागिति- संक्षिप्तवाक् संक्षेपेण कथिता वाणी न तु बहुविस्तरेण प्रतिपादिता। शिष्यजनावधानतात्पर्यवेदनपरीक्षणधारणार्हा, शिष्यजनानाम् उपदेश्यानाम् अवधानं च तात्पर्यवेदनं च परीक्षणं च वाणीं सर्वथाऽवगन्तुं पारयन्ति शिष्या इत्यर्थ:। शाखासहस्रगहने शाखानां सहस्रै: गहने सघने, असंख्यशाखासघने श्रुतिकानने वेदाख्येऽरण्ये तु न जायते। इतरत् तद्भिन्नं पूर्णं ज्ञानं क्व भवेत्? न क्वापीत्यर्थ:।
अनुवाद - संक्षिप्त वाणी शिष्य जनों के अवधान, तात्पर्यवेदन, परीक्षण और धारण के योग्य होती है। असंख्यशाखाओं से परिपूर्ण श्रुतिनामक अरण्य में तो आपातबुद्धि भी नहीं होती, उससे भिन्न पूर्णबुद्धि कहाँ होगी?
।। २४।।
प्रामाण्यमर्दयति दूषणसप्तभङ्गी
वेदेष्वियं न सुवचा जिनशासनेषु।
संक्षिप्तसारसकृदुक्तजनानुकूल-
साधारणात्महितशुद्धपदोज्ज्वलेषु।।
अन्वय: - दूषणसप्तभङ्गी वेदेषु प्रामाण्यम् अर्दयति। इयं संक्षिप्तसारसकृदुक्तजनानुकूल-साधारणात्महितशुद्धपदोज्ज्वलेषु जिनशासनेषु न सुवचा।
गङ्गा - प्रामाण्यमिति- दूषणसप्तभङ्गी उपर्युक्त सप्तदोषसमुच्चय: वेदानां सर्वहितराहित्यादि: वेदेषु प्रामाण्यम् अर्दयति विनाशयति। इयं दूषणसप्तभङ्गी संक्षिप्तसारसकृदुक्तजनानुकूलसाधारणात्महितशुद्धपदोज्ज्वलेषु। एतेन पुनरपि वेदेषु दोषा: प्रदर्शिता:। जिनशासनानि संक्षिप्तानि सन्ति वेदा: पुन: बहुशाखा:, जिनशासनानि सारवन्ति न बाधयुक्ता:, सकृदुक्तानि न पुन: पुनरुक्तानि, जनानुकूलानि न च केषाञ्चिदेव, साधारणानि न तु असाधारणानि, आत्महितसाधकानि न तु आत्महितरहितानि, शुद्धपदानि न तु जर्फरीतुप्रभृत्यपशब्दयुक्तानि। एतैर्निर्मलेषु जिनशासनेषु नैते दोषा सुवचा:। एते तु वेदमात्र एव लभ्यन्त इत्यर्थ:।
अनुवाद -ऊपर प्रदर्शित दोषों की सप्तभङ्गी वेदों के प्रामाण्य को नष्ट करती है। यह सप्तभङ्गी वेदों के प्रामाण्य को नष्ट करती है। यह सप्तभङ्गी संक्षिप्त, सारवान्, पुनरुक्ति से रहित, लोगों के अनुकूल, साधारण, आत्महितसाधक और शुद्धपदों से उज्ज्वल जिनमुनि के शासनों के लिए उचित नहीं हैं।
।। २५।।
स्यादस्ति कार्यकरणेन समस्तवस्तु
स्यान्नास्ति तच्च विलयात्परतश्च बाधात्।
स्यादस्ति नास्ति च तयो: कथने क्रमेण
तत्स्यादवाच्यमुभयोर्युगपद्विरोधात्।।
अन्वय: - कार्यकरणेन समस्तवस्तु स्यात् अस्ति। तच्च विलयात् परत: बाधात् च स्यात् नास्ति। तयो: क्रमेण कथने स्यात् अस्ति नास्ति च। उभयो: युगपत् विरोधात् तत् अवाच्यं स्यात्।
गङ्गा - जैनानां सप्तभङ्गीनयमवतारयन्नाह- स्यादस्तीति- कार्यकरणेन कार्यसम्पादनेन समस्तवस्तु सर्वोऽपि पदार्थ: स्यादस्ति, अस्तित्वेन सम्भाव्यते। आपणस्थरूप्यं भूषणादिकरणाच्छङ्काविषं च मरणादिकार्यकरणात् अस्तित्वेन सम्भाव्यते। स्थादस्तीत्यनेन वस्तुनो विधानरूपा प्रथमा भङ्गी प्रतिपादिता। तच्च विलयात् परत: बाधात् च, तत् आवणस्थरूप्यं नाशादारोपितं च बाधान्नास्तित्वेन सम्भाव्यत इति द्वितीया भङ्गी। तयो: क्रमेण कथने स्यात् असित नास्ति च, पर्यायेण अस्तित्वनास्तित्वयोर्विवक्षणे तृतीया भङ्गी। उभयो: युगपत् विरोधात् तत् अवाच्यं स्यात्, एककालेऽस्तित्वनास्तित्वयो: कथयितुमशक्यत्वात् अनिर्वाच्यत्वे चतुर्थी भङ्गी। सप्तभङ्गीषु चतसृणामत्रोपदेश:। तिसृणां परस्मिन् श्लोके। जैनानां नये सप्तभङ्गीसिद्धान्तोऽयं स्वीकृतो विद्यते। १. स्यादस्ति, २. स्यान्नास्ति, ३. स्यादस्ति च नास्ति च, ४.स्यादवक्तव्य:, ५. स्यादस्ति चावक्तव्य:, ६. स्यान्नास्ति चावक्तव्य:, ७. स्यादस्ति च नास्ति चावक्तव्य:। भङ्गीशब्दोऽत्र समुच्चयवाचक: भणितिभङ्गीवाचको वा। अत्र 'स्यात्Ó शब्द: सापेक्षताया अनेकान्तताया वा द्योतक:। कस्यचिदपि वस्तुन: सत्ता सर्वत्र न भवितुमर्हति। देशकालवर्णादौ क्वचित्तस्य विरोधो भवत्येव। अतो जैनानां नये विधिनिषेधात्मक: परामर्शो भवति वस्तुन:। यथा वसन्र्तौ कस्मिन्नप्युद्यानविशेषे विद्यमानं पुष्पं द्रव्यत्वात् सर्वत्र न भवति। सर्वस्मिन् देशे सर्वेषु कालेषु सर्वेषु वर्णेषु तन्नास्तीति। अतो जैना: पदार्थानामनिश्चयावस्थां निर्दिशन्ति। सा च भवति विधिनिषेधरूपा। अयमेव तेषामनेकान्तवाद:। अन्येषु दर्शनेष्वेकान्तवाद: स्वीकृत:।
अनुवाद - (प्रथम भङ्गी) भूषण आदि कार्यों को उत्पन्न करने के कारण बाजार में स्थित चाँदी का अस्तित्व सम्भावित है। इसी प्रकार मरणकार्य सम्पन्न करने के कारण शंकाविष का अस्तित्व भी सम्भावित है। (द्वितीय भङ्गी) आपणस्थ रजत विलय हो जाने से तथा आरोपित बाध होने से अस्तित्व रूप से सम्भावित नही है। (तृतीय भङ्गी) अस्तित्व और अनस्तित्व के क्रमश: विवक्षित होने के कारण आपणस्थ रजत अस्तित्व रूप में सम्भाावित भी है और नहीं भी है। (चतुर्थ भङ्गी) आपणस्थ रजत का एककाल में कथन सम्भव न होने के कारण आपणस्थ रजत अनिर्वचनीय है।
टिप्पणी - भारतीय दर्शन में जैनदर्शन के अतिरिक्त सभी दर्शन एकान्तवादी हैं। जैनदर्शन अनेकान्तवादी है। उसके अनुसार कोई भी वस्तु पूर्णरूप से ज्ञात नहीं होती। उसके अनेक पक्ष होते हैं, अत: सब का ज्ञान एक साथ संभव नहीं होता। मनुष्य का ज्ञान अपूर्ण है क्योंकि वह अपूर्ण जीव है। अपनी इसी सापेक्षता और अनेकान्तता को द्योतित करने के लिए जैनदर्शन 'स्यात्Ó शब्द का प्रयोग करता है। इस दर्शन में ज्ञान की सात अवस्थाएं हैं। उन्हें ही सप्तभङ्गीनय कहा जाता है। सर्वत्र सम्भावनात्मक 'स्यात्Ó शब्द का प्रयोग करने के कारण इसे स्याद्वाद नाम से भी अभिहित किया जाता है। उनका यह सप्तभङ्गी नय निम्नवत् है-
१. स्यादस्ति- वस्तु का अस्तित्व सम्भावित है। २. स्यान्नास्ति वस्तु का अस्तित्व सम्भावित नहीं है। ३. स्यादस्ति च नास्ति च- वस्तु का अस्तित्व सम्भावित है और नहीं भी है। ५. स्यादस्ति चावक्तव्य: - वस्तु का अस्तित्व है किन्तु अनिर्वचनीय है। ६. स्यान्नास्ति चावक्तव्य: - वस्तु अस्तित्व नहीं है और वह अनिर्वचनीय है। ७. स्यादस्ति च नास्ति चावक्तव्य: - वस्तु का अस्तित्व है, नहीं है और अनिर्वचनीय है।
ऊपर इनमें से चार भंगियों का कथन किया गया है। 'स्यादस्तिÓ से वस्तु के अस्तित्व की सम्भावना की गयी है। सम्भावना इस अर्थ में कि आपणस्थ रजत एक देश, एककाल, एक आभूषण आदि में तो है पर अन्यत्र उसका अभाव है। कोई भी वस्तु सार्वत्रिक नहीं हो सकती। इसीलिए जैनदर्शन विधि और निषेध दोनो का परामर्श करता है। उसके यहाँ अस्तित्व और अभाव दोनो ही विधि निषेधात्मक है। आगे शेष तीन भङ्गियों का कथन करते हैं।
।। २६।।
स्यादस्त्यवाच्यमिह सत्त्वनिरुक्त्यशक्ते:
स्यान्नास्त्यवाच्यमनिरूप्यनितान्तबाधम्।
स्यादस्ति नास्त्यवचनीन्यमिदं तु सत्ताऽ-
सत्तासमुच्चयविवक्षणत: समस्तम्।।
अन्वय: - इह सत्त्वनिरुक्त्यशक्ते: स्यात् अवाच्यम् अस्ति। अनिरूप्यनितान्तबाधं 'स्यात् न अस्तिÓ अवाच्यं (च अस्ति) स्यात् अस्ति न अस्ति अवचनीयं (च अस्ति)। इदं समस्तं तु सत्ताऽसत्तासमुच्चयविवक्षणत: (भवति)।
गङ्गा - स्यादस्त्येति- इह सत्त्वनिरुक्त्यशक्ते: स्यात् अवाच्यम् अस्ति, कालत्रयाऽबाध्यत्वस्य कुत्रापि निर्वक्तुमशक्यत्वात् सत्त्वस्य अनिर्वक्तव्यरूपत्वम्। सेयं पञ्चमी भङ्गी। अनिरूप्यनितान्तबाधं, बाधस्य एकान्ततो निर्वक्तुमशक्यतया, स्यात् अवाच्यं नास्ति, असत्त्वस्याऽपि अनिर्वाच्यत्वमिति। सेयं षष्ठी भङ्गी। स्यात् अस्ति, न अस्ति अवचनीयम्, सत्त्वासत्त्वयोरेककालेऽनिर्वाच्यत्वम् आश्रित्य तदवचनीयत्वम्। सेयं सप्तमी भङ्गी। इदं सर्वं सप्तमभङ्गे प्रतिपादितं सर्वासु भङ्गीषु सम्भवति। अत आह- सत्ताऽसत्तासमुच्चयविवक्षणत:, यद्यद्विवक्षितं तत्सर्वस्य विवक्षणात् सत्ताऽभावयो: समुच्चयस्य सहैव विवक्षणात् सम्भवति। न तु उभयो: पृथक् पृथगुपदेश इत्यर्थ:। सप्तभङ्गीनयोक्तमेतत्सर्वं सर्वदर्शनसङ्ग्रहे संक्षिप्य प्रतिपादितम्-
तद्विधानविवक्षायां स्यादस्तीति गतिर्भवेत्।
स्यान्नास्तीति प्रयोग: स्यात् तन्निषेधे विवक्षिते।।
क्रमेणोभयवाञ्छायां प्रयोग: समुदायभाक्।
युगपत्तद्विवक्षायां स्यादवाच्यमशक्तित:।।
आद्यावाच्यविवक्षायां पञ्चमो भङ्ग इष्यते।
अन्त्यावाच्यविवक्षायां षष्ठभङ्गसमुद्भव:।।
समुच्चयेन युक्तश्च सप्तमो भङ्ग उच्यते।।
तदिदं स्याच्छब्दो जैननये निपातस्तिङन्तप्रतिरूपकोऽनेकान्तद्योतक इति ध्येयम्। विस्तरस्त्वाकरग्रन्थेषु द्रष्टव्य:।
अनुवाद - इस पंचम भङ्गी में पदार्थ की निरुक्तिशक्ति का अभाव माना जाता है। अत: यह कहा जाता है कि 'स्यात्Ó अनिर्वाच्य है। बाध का एकान्तत: निर्वचन सम्भव नहीं होता। इसलिए (छठी भङ्गी में यह कहा जाता है कि) 'स्यात्Ó नहीं है और अवर्णनीय है। 'स्यात्Ó किसी प्रकार है, नहीं है और अवचनीय है, यह सातवीं भङ्गी है। जैनों के मत में यह सातवीं भङ्गी सत्ता और अभााव के समुच्चय की विवक्षा से सम्भव होती है।
टिप्पणी - जैनों ने 'स्यादस्ति चावक्तव्य:Ó कहकर पाँचवी भङ्गी का प्रदर्शन किया है। इसमें वस्तु विद्यमान होकर भी अवर्णनीय होती है। छठी भङ्गी में 'स्यात्Ó का अभाव और अवर्णनीयता दोनो ही विवक्षित होते हैं। अत: जैन उसे 'स्यान्नास्ति चावक्तव्य:Ó कह कर उद्धृत करते हैं। सप्तमी भङ्गी में समस्त भङ्गियों का समुच्चय विवक्षित होता है। अत: उसे 'स्यादस्ति च नास्ति चावक्तव्य:Ó वाक्य से उद्धृत किया जाता है।
जैनों का यह स्याद्वाद अनेकान्तवाद का द्योतक है। इस दर्शन में किसी वस्तु का विधान अभीष्ट होने पर 'स्यादस्तिÓ कहा जाता है। किसी वस्तु का निषेध अभीष्ट होने पर 'स्यान्नास्तिÓ कहा जाता है। सत्ता और अभाव दोनो का समुदाय विवक्षित होने पर तीसरी भङ्गी का सहारा लेकर 'स्यादस्ति च नास्ति चÓ कहा जाता है। विरोध होने से ऐसा कहना सम्भव न होने पर चतुर्थभङ्गी बनती है- स्यादवक्तव्य:। प्रथमभङ्गी के साथ अवाच्य की विवक्षा से पाँचवीं भङ्गी बनती है- स्यादस्ति चावक्तव्य:। दूसरी भङ्गी से अवाच्य के मिलने से 'स्यान्नास्ति चावक्तव्यम्Ó रूप छठी भङ्गी बनती है। इन सभी के समुच्चय से सातवीं भङ्गी बनती है। उसमें सत्ता असत्ता और अवर्णनीयता तीनों ही अनुषक्त होती हैं- स्यादस्ति च नास्ति चावक्तव्य:। अनुषक्त होती हैं- स्यादस्ति च नास्ति चावक्तव्य:।
कवि ने इन सातों भङ्गियों का दो श्लोकों में संक्षिप्त कथन किया है। जैन दर्शन के प्रसिद्ध ग्रन्थों में इस सिद्धान्त की विशद चर्चा उपलब्ध होती है।
।। २७।।
सम्भाव्यते सकलमीदृशसप्तभङ्ग्या
निश्चीयते न किमपीति कुतो विरोध:।
अर्हन्मतस्य परदार्शनिकै: कदाऽपि
तस्मादुपास्स्व मतमेतदपक्षपातम्।।
अन्वय: - ईदृशसप्तभङ्ग्या सकलं सम्भाव्यते, न किमपि निश्चीयते इति अर्हन्मतस्य परदार्शनिकै: कदा अपि विरोध: कुत:? तस्मात् अपक्षपातम् एतत् मतम् उपास्स्व।
गङ्गा - सम्भाव्यत इति- ईदृशसप्तभङ्ग्या, उपरि प्रतिपादितया स्यादस्ति स्यान्नास्तीत्यादिरूपसप्तभङ्गनयेन जैनदार्शनिकै: सकलं सम्भाव्यते। तत्र स्यात्पदस्य सम्भावनार्थकत्वात् सत्ताऽसत्तादि केवलं सम्भाव्यते न किमपि निश्चीयते। 'स्यादस्तिÓ इत्यत्र अस्तिताऽपि सम्भावनायामेव 'स्यान्नास्तिÓ इत्यत्र अभावश्चापि तथैव। एवमन्त्राऽप्यूह्यम्। अतोऽत्र सर्वत्र सम्भावनाविवक्षणात् अर्हन्मतस्य परदार्शनिकै: कदापि विरोध: कुत:? न कोऽपि विरोध इत्यर्थ:। तस्मात् विरोधरहितत्वात् अपक्षपातं पक्षपातरहितमेतज्जैनमतम् उपास्स्व अनुसर। सर्वेषामपि सम्भावनाया विवक्षित त्वादित्यर्थ:। यद्वा अपक्षपातमिति क्रियाविशेषणम्। एतन्मतम् अपक्षपातं यथा स्यात्तथा उपास्स्वेत्यर्थ:।
अनुवाद - जैन दर्शन में उपर्युक्त सप्तभङ्गी के द्वारा समस्त पदार्थों की सम्भावना की जाती है। यहाँ किसी का निश्चयात्मक निर्धारण नहीं किया जाता। इसलिए अर्हन्मत का दूसरे दार्शनिकों से कभी भी मतभेद क्यों होगा? अत: तुम पक्षपातरहित होकर इस मत की उपासना करो।
।। २८।।
सम्यक् चरित्रमतिदर्शननष्टबन्धो
मुक्तो जिन: करुणयेदमुवाच शास्त्रम्।
सर्वज्ञ एष सकलावरणप्रहाणात्
त्रैलोक्यपूजितपद: परमेश्वर: स:।।
अन्वय: - सम्यक्चरित्रमतिदर्शननष्टबन्ध: मुक्त: जिन: करुणया इदं शास्त्रम् उवाच। सकलावरणप्रहाणात् एष सर्वज्ञ:। स (एव) यैलोक्यपूजितपद: परमेश्वर: (अस्ति)।
गङ्गा - सम्यक्चरित्रेति- सम्यक्चरित्रमतिदर्शननष्टबन्ध:, चरित्रं च मति: ज्ञानं च दर्शनं चेति चरित्रमतिदर्शनानि, सम्यक् च तानि चरित्रमतिदर्शनानि, तै: नष्ट: विनष्टो बन्ध: सांसारिकमोहो यस्य स:। मुक्त इत्यर्थ:। जैननये सम्यक् चरित्रं सम्यग् ज्ञानं सम्यग् दर्शनं चेति त्रितयं रत्नत्रयपदवेदनीयम्। एतान्येव मोक्षमार्ग:। तथा च सूत्रम्- 'सम्यग्दर्शनज्ञानचरित्राणि मोक्षमार्ग: (तत्त्वार्थसूत्रम्, १.१)।Ó तत्त्वार्थे श्रद्धानं सम्यग्दर्शनम्। येन स्वभावेन जीवादय: पदार्था: व्यवस्थितास्तेन स्वभावेन मोहसंशयरहितत्वेनावगम: सम्यग्ज्ञानम्।
यथावस्थिततत्त्वानां संक्षेपाद्विस्तरेण वा।
योऽवबोधस्तमत्राहु: सम्यग्ज्ञानं मनीषिण:।। (स.द.सं.)
संसरणकर्मोच्छित्तावुद्यतस्य श्रद्दधानस्य ज्ञानवत: पापगमनकारणक्रियानिवृत्ति: सम्यक्चारित्रम्।
सर्वथावद्ययोगानां त्यागश्चारित्रमुच्यते।
कीर्तितं तदहिंसादिव्रतभेदेन पञ्चधा।।
अहिंसासूनृतास्तेयब्रह्मचर्या परिग्रहा:।। (स.द.सं.)
एते: सम्यग्दर्शनादिभिर्विनष्टबन्धो मुक्त: जिनस्तदाख्यो मुनि: करुणया प्राणिषु दयया इदं जिनशास्त्रम् उवाच उपदिदेश। सकलावरणप्रहाणात्, तत्त्वानां यथावज्ज्ञानात् एष जिन: सर्वज्ञ:, सर्ववित्। स एव त्रैलोक्यपूजितपद: सर्वत्रादृत: परमेश्वर:। तद्भिन्नो न कश्चन परमात्मेत्यर्थ:। सम्यग्दर्शनादिविशेषनिरूपणं तु तत्तत्प्रसङ्गेष्वाकरग्रन्थेषु द्रष्टव्यम्।
हेमचन्द्राचार्येण अर्हत: परमेश्वरतोक्ता-
सर्वज्ञो जितरागादि दोषस्त्रैलोक्यपूजित:।
यथास्थितार्थवादी च देवोऽर्हन्परमेश्वर:।।
(स.द.सं.)
सोऽयमर्हन्नेव विवसनै: परमात्मेतिस्तूयते। कविनेह छन्दोऽनुरोधात् सम्यक्चरित्रमतिदर्शनेति क्रमो निर्दिष्ट:। जैननये तु सम्यग्दर्शनज्ञानचरित्राणीति क्रमोऽनुसृत:। प्रथमं सम्यग्दर्शनं, तेन सम्यग्ज्ञानं ततश्च सम्यक्चरित्रम्। अयमेव क्रमोऽत्रापि स्वीकरणीय:।
अनुवाद - सम्यक् चरित्र , सम्यग्ज्ञान और सम्यग्दर्शन से जिसका बन्ध नष्ट हो गया है, ऐसे मुक्त जिन मुनि ने सांसारिक प्राणियों पर करुणा करके इस शास्त्र का उपदेश किया है। तत्त्वों के यथावत् ज्ञान से यह जिन सर्वज्ञ है। अत: वही त्रैलोक्य में समादृत परमेश्वर है। इसके अतिरिक्त अन्य कोई परमेश्वर नामक सत्ता नहीं है।
टिप्पणी - कवि ने यहाँ 'सम्यक्चरित्रमतिदर्शननष्टबन्ध:Ó से जैन दर्शन में अभिमत सम्यग्दर्शन, सम्यग्ज्ञान और सम्यक्चरित्र रूप तीन तत्त्वों का उल्लेख किया है। इन्हें इस दर्शन में 'रत्नत्रयÓ शब्द से भी कहा जाता है। जैनमतानुयायी इन्हीं को मोक्षमार्ग कहते हैं (सम्यग्दर्शनज्ञानचरित्राणि मोक्षमार्ग:)। संसार में जीव आदि पदार्थों की जिस रूप में व्यवस्था है, अर्हत् ने उसी रूप में उनके तात्त्विक अर्थ का प्रतिपादन किया है (तत्त्वार्थे श्रद्धानं सम्यग्दर्शनम्)।
जिस स्वभाव से जीव आदि पदार्थव्यवस्थित हैं, उसी रूप में मोह तथा संयम से रहित होकर उन्हें जानना ही सम्यग्ज्ञान है। मति, श्रुत, अवधि, मन:पर्याय और केवल भेद से यह पाँच प्रकार का है।
संसार के कर्मों के नष्ट हो जाने पर पाप के नाश के लिए श्रद्धावान् तथा ज्ञानवान् पुरुष का पाप में ले जाने वाली क्रियाओं से निवृत्त हो जाना ही सम्यक् चरित्र है। अहिंसाव्रत, सत्यव्रत, ब्रह्मचर्यव्रत और अपरिग्रहव्रत भेद से यह सम्यक् चरित्र पाँच प्रकार का है। इनका विशद विवेचन सर्वदर्शनसंग्रह आदि ग्रन्थों में देखना चाहिए।
।। २९।।
पातालभूगगनसर्वपथीनजीवा:
स्वादृष्टयत्नसहिता निजभोग्यभागान्।
उत्पादयन्त्वलमशेषकृतेश्वरेण
क्लृप्तेन सिध्यति फ ले नहि कल्प्यतेऽन्यत्।।
अन्वय: - स्वादृष्टयत्नसहिता: पातालभूगगनसर्वपथीनजीवा: निजभोग्यभागान् उत्पादयन्तु। अशेषकृता क्लृप्तेन ईश्वरेण अलम्। सिद्ध्यति फले अन्यत् नहि कल्प्यते।
गङ्गा - ईश्वरस्य कर्तृत्वं निराकुर्वन्नाह- पातालेति- स्वादृष्टयत्नसहिता: स्वीयेन अदृष्टजन्येन यत्नेन समन्विता न तु ईश्वरप्रदत्तशुभाशुभकर्मफलेन। पातालभूगगनसर्वपथीनजीवा: पातालं भुवभाकाशं सर्वपथांश्च ये व्याप्नुवन्ति तादृशा जीवा:। निजभोग्यभागान् स्वभोग्यां शान् उत्पादयन्तु। ते स्वयमेव स्वकृतकर्मफलं प्राप्नुवन्तु। न त्वीश्वरस्तन्नियन्तेत्यर्थ:। क्लृप्तेन पूर्णेन। सर्वव्यापिना नित्येन, अशेषकृता समेषामेक एव कर्ता, स चेश्वर:। क्षित्यङ्कुरादिकं सकर्तृकमित्यादिरूपेण साधितेन सर्वनिर्मात्रा ईश्वरेण अलम्। न तस्यावश्यकता। समेषां सामथ्र्येन सिद्ध्यति फले अन्यत् परमात्मतत्त्वं न हि कल्प्यते। तथात्वे समेषां वैयथ्र्यप्रसङ्गात्। तथा चोद्धृतं सर्वदर्शनसङ्ग्रहे-
कर्ता न तावदिह कोऽपि यथेच्छया वा
दृष्टोऽन्यथा कटकृतावपि तत्प्रसङ्ग:।
कार्यं किमत्र भवताऽपि च तक्षकाद्यै-
राहत्य च त्रिभुवनं पुरुष: करोति।।
एतेन नेश्वरोऽपेक्ष्यते। जगत्कर्तृत्वमपि न तस्येति सिद्धम्।
अनुवाद - अपने अदृष्ट यत्न से युक्त पाताल, पृथ्वी, आकाश और समस्त मार्गों में व्याप्त जीव अपने भोग्य भाग का उत्पादन करें। उसके लिए शुभाशुभफल के नियन्ता के रूप में सबके निर्माता, पूर्ण, सर्वव्यापी नित्य ईश्वर की सत्ता मानने की आवश्यकता नहीं है। सबके सामथ्र्य से सिद्ध हो रहे फल पर अन्य की कल्पना नहीं की जाती।
।। ३०।।
देहेन्द्रियौघमनसां भवदुक्तयुक्त्या
चैतन्यबाधनमुपैमि परोऽस्तु जीव:।
नानात्वमत्र नियतं सुखदु:खबद्ध-
मुक्तव्यवस्थितिरसम्भविनी तदैक्ये।।
अन्वय: - भवदुक्तयुक्त्या देहेन्द्रियौघमनसां चैतन्यबाधनम् उपैमि। जीव: पर: अस्तु। अत्र नानात्वं नियतम्। तदैक्ये सुखदु:खबद्धमुक्तव्यवस्थिति: असम्भविनी।
गङ्गा - जीवस्यानेकत्वं निरूपयति- देहेन्द्रियौघेति- भवदुक्तयुक्त्या पूर्वं बौद्धसिद्धान्तनिरसनप्रसङ्गे भवता उक्तया युक्तया तर्केण देहेन्द्रियौघमनसां शरीरस्य चक्षुरादीन्द्रियसमूहस्य मनसश्च चैतन्यबाधनम् अचेतनत्वम् उपैमि स्वीकरोमि। शरीरं चक्षु:प्रभृतीन्द्रियाणि मनश्च चैतन्यं नेति स्वीकारे न मम काऽपि विप्रतिपत्ति:। जीव: पर: देहेन्द्रियमनोभिन्नो भवतु। किन्तु जीवविषये नानात्वम् अनेकत्वं नियतं निर्धारितम्। यथा भवान् जीवरूपात्मन एकत्वं स्वीकरोति न तथाऽहम्। तदैक्ये तस्य जीवस्य ऐक्ये एकत्वकल्पने विभुत्वस्वीकृतावित्यर्थ:। सुखदु:खबद्ध: सांसारिक: स चावरणप्रहाणान्मुक्त इति व्यवस्था असम्भविनी, न सम्भवेत्। यदि नाम एक एव जीव: सर्वव्यापी सर्वगस्तर्हि तस्य बद्धमुक्तव्यवस्थाया अप्रसङ्ग इत्यर्थ:। संसारे कश्चन सुखदु:खादिबद्धोऽपरश्च मुक्तो वीतरागी दृश्यत इति जीवस्यैक्ये सेयं व्यवस्था कथं सम्पद्येदिति न मया तदैक्यं कल्पयत् इति भाव:। तदेतत्सर्वं स्पष्टीकृतं सर्वदर्शनसङ्ग्रहे-
सकलजीवसाधारणं चैतन्यम्। उपशम- क्षयक्षयोपशमवशात् औपशमिक-क्षयात्मक-क्षायौपशमिकभावेन कर्मोदयवशात् कलुषान्याकारेण च परिणतजीवपर्यायविवक्षायां जीवस्वरूपं भवति। तथा चोक्तमन्यत्र-
तत्र जीवा द्विविधा: संसारिणो मुक्ताश्च। भवाद् भवान्तरप्राप्तिमन्त: संसारिण:। भवान्तरप्राप्तिविधुरा मुक्ता:।
अनुवाद - पूर्व में तुमने जिस युक्ति से शरीरादि की अचेतनता प्रतिपादित किया था उसे मैं भी स्वीकार करता हूँ। इसीलिए शरीर, इन्द्रियसमूह और मन को मैं चेतन नहीं मानता। जीव इन शरीर आदि से भिन्न है। किन्तु मैं जीव के एकत्व को नहीं मानता। उसकी एकता मानने पर सुखदु:ख से बद्ध और मुक्त जीव की व्यवस्था सम्भव नहीं हो सकेगी। जब जीव एक ही होगा तो उसे सांसारिक और मुक्त कैसे मान सकेंगे। अत: मैं जीव का नानात्व स्वीकार करता हूँ।
टिप्पणी - जैन दर्शन शरीरेन्द्रिय और मन को चेतन नहीं मानता। उसके मत में भी जीव ही चेतन है। किन्तु वह जीव की एकता को स्वीकार नहीं करता। उसके मत में जीव दो प्रकार के हैं- सांसारिक और मुक्त। सांसारिक जीव के अनेक भेद हैं। बार बार जन्म लेकर मृत्यु को प्राप्त होने वाले जीव सांसारिक हैं तथा भवान्तरप्राप्ति से रहित जीव मुक्त कोटि में आता है।
।। ३१।।
देहाद्बहिर्न हि सुखादि कदाऽपि दृष्टं
तेनाऽस्तु देहपरिमाणक एव जीव:
बन्धोऽस्य सम्भवति देहमितत्व एव
मोक्षोऽपि वा स्वतनुयोगवियोगभेदात्।।
अन्वय: - सुखादि देहात् बहि: कदाऽपि न दृष्टम्। तेन जीव: देहपरिमाणक एव अस्तु। देहमितत्वे एव अस्य बन्ध:, स्वतनुयोगवियोगभेदात् मोक्ष: अपि वा सम्भवति।
गङ्गा - जीवस्य देहपरिमाणतां निर्धारयन्नाह- देहादिति- सुखादि, आदिना दु:खस्य ग्रहणम्। देहात् शरीरात् बहि: कापि न दृष्टम्। देहबद्ध एव जीव: सुखाद्यनुभवतीत्यर्थ:। अत एव अयं जीव: देहपरिमाणक एव अस्तु। कीटशरीरगतजीवस्तच्छरीरपरिमाणको गजशरीरगतश्च तत्परिमाणक इति जीव: शरीरपरिमाण एव भवतीत्याशय:। एतेन वैदिकसम्प्रदाये स्वीकृतयात्मनो विभुत्वं सर्वगतत्वं च निराकृतम्। देहमितत्वे शरीरपरिमाणत्वे एव असय जीवस्य बन्ध: सांसारिकभोगप्रपञ्चो भवति। स्वतनुयोगवियोगभेदात्, निजशरीरसम्बन्धविमुक्तरूपभेदात् तस्य मोक्ष: सम्भवति। शरीरान्मुक्तो जीवो मोक्षसुखमनुभवतीति शरीरपरिमाणत्वमस्य सिद्धमेव। अपिना सम्यग्दर्शनादिभिरेव मोक्षप्राप्तिं निरदेशि। तदभावे पुनर्जनममरणप्रसङ्ग इति भाव:।
अनुवाद - सुख आदि का अनुभव देह के बाहर नहीं होता। अत: जीव देह परिमाण ही हो। देहपरिमाण होने से ही इसका बन्धन होता है। अपने शरीर से इसका वियोगरूप भेद हो जाने से यह मोक्ष भी प्राप्त कर सकता है। सम्यग्दर्शन आदि मोक्षमार्ग के आचरण से ही शरीर से छूट कर जीव मोक्ष प्राप्त करता है।
।। ३२।।
तस्मिन् विभौ तु सतताखिलकाययोगा-
दापद्यते सततबन्धनदुष्प्रसङ्ग:।
देहान् मृषेति मनुषे यदि तर्हि मोक्षे
सिद्धे मुधा किमनुतिष्ठसि साधनानि।।
अन्वय: - तस्मिन् विभौ तु सतताखिलकाययोगात् सततबन्धनदुष्प्रसङ्ग: आपद्यते। यदि देहान् मृषा इति मनुषे तर्हि मोक्षे सिद्धे मुधा साधनानि किम् अनुतिष्ठसि?
गङ्गा - आत्मनो विभुत्वं खण्डयति- तस्मिन्निति- तस्मिन् जीवे विभौ सर्वव्यापके तु सतताखिलकाययोगात् निरन्तरं समग्रशरीरसम्बन्धात्। जीवस्य विभुत्वे सर्वव्यापकत्वात् कस्माच्चिच्छरीराद्विमुक्तोऽपि न स मुक्तो भवितुमर्हति। अत एव तस्य सततबन्धनदुष्प्रसङ्ग आपद्यते। स सदैव शरीरबद्ध एव स्यात्। आस्तिकसम्प्रदायेषु आत्मनो नित्यत्वं विभुत्वं चाङ्गीकृतम्। जैनास्तथा न स्वीकुर्वन्ति। तद्विभुत्वे एकस्माच्छरीरान्मुक्तोऽपि स्वविभुस्वभावादन्येन शरीरेण बद्ध: स्यादिति न तस्य मोक्षप्रसङ्ग इति भाव:। एतत्परिहाराय त्वमलि: देहान् मृषा मनुषे चेत्, जीव एव सर्वस्वभूतो न तु शरीर इति वदसि चेदिति भाव:। तथापि न तवाऽभीष्टसिद्धि:। देहस्य मृषाकल्पनं मोक्षस्यावश्यकत्वाभावात् ते मोक्षसाधनं मुधा व्यर्थमेव स्यात्। अतो देहस्य मृषाकल्पनं नोचितमिति भाव:।
अनुवाद - उस जीव को विभु मान लेने से सदैव उसका किसी न किसी शरीर से योग रहेगा। अत: एक शरीर से मुक्त होकर भी वह किसी न किसी शरीर से हमेशा ही बँधा रहेगा। कभी उसकी मुक्ति ही नहीं हो पायेगी। यदि कहो कि देह मृषा है, तब तो मोक्ष स्वयं सिद्ध हो जायेगा। ऐसे में तुम्हारे द्वारा कल्पित मोक्षसाधनों के अनुष्ठान व्यर्थ हो जाएंगें।
।। ३३।।
अस्मन्मते तनुमितो निजपुण्यपाप-
देहादिभारभृदपारभवाब्धिमग्न:।
सम्यक्चरित्रमतिदर्शनलुप्तभारो
जीव: प्रयात्यनिशमूध्र्वमियं विमुक्ति:।।
अन्वय: - अस्मन्मते तनुमित: निजपुण्यपापदेहादिभारभृदपारभवाब्धिमग्न: सम्यक्चरित्रमतिदर्शनलुप्तभार: जीव: अनिशम् ऊध्र्वं प्रयाति। इयं विमुक्ति: (अस्ति)।
गङ्गा - अस्मन्मत इति - अस्मन्मते जैनसिद्धान्ते तनुमित: शरीरपरिणाम:, निजपुण्यपापदेहादिभारभृदपारभवाब्धिमग्न: स्वपुण्यपापशरीरादिभारपूर्णो योऽपारो भवाब्धि: जन्ममरणक्रियायुक्त: संसारसमुद्रस्तस्मिन् मग्नो जीव: सम्यक्चरित्रमतिदर्शनलुप्तभार:, सम्यग्दर्शनज्ञानचारित्राणि पूर्वं व्याख्यातानि मोक्षकारणमिति जैननय:। संसरणकर्मोच्छित्तावुद्यतस्य श्रद्दधानस्य ज्ञानवत: पापगमनकरणाक्रियानिवृत्ति: सम्यक् चारित्रम्। येन रूपेण जीवाद्यर्थो व्यवस्थितस्तेन रूपेणाऽर्हता प्रतिपादिते तत्त्वार्थे विपरीताभिनिवेशरहितत्वाद्यपरपर्यायं श्रद्दधानं सम्यग्दर्शनम्। येन स्वभावेन जीवादय: पदार्था: व्यवस्थितास्तेन स्वभावेन मोहसंशयरहितत्वेनाऽवगम: सम्यग्ज्ञानम्। तै: सम्यक्चरित्रादिभि: लुप्तभार: हृतबनध: जीव: अनिशं सततम् ऊध्र्वं प्रयाति। अर्हन्मते इयमेव विमुक्तिर्मोक्ष:।
अनुवाद - हमारे मत में जीव देहपरिमाण होता है। वह अपने पाप, पुण्य और शरीर आदि के भार से परिपूर्ण अपार भवसागर में मग्न रहता है। सम्यक्चारित्र, सम्यक्ज्ञान और सम्यक् दर्शन से उसका यह भार दूर हो जाता है और यह जीव सतत ऊध्र्व गमन करता है। जैन मत में जीव का यह ऊध्र्वगमन ही मुक्ति है।
टिप्पणी - जैनदर्शन में जीव का ऊध्र्वगमन ही बन्ध कारणों का निरोध (संवर) हो जाने से अभिनव कर्मों का अभाव हो जाता है। निर्जरा के सम्पर्क से पूर्व उपार्जित कर्म भी विनष्ट हो जाते हैं। इस प्रकार जीव कर्मों की अस्यन्तिक मुक्ति प्राप्त कर ऊध्र्व गमन करता है। यही उसका मोक्ष है- बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षणं मोक्ष: (तत्त्वार्थसूत्र, १०.२)। तदनन्तरमूध्र्वं गच्छत्यालोकान्तात् (वहीं, १०.५)। इस मोक्ष का कारण सम्यग्दर्शन, सम्यक् ज्ञान और सम्यक् चारित्र हैं। इनकी व्याख्या पूर्व में की गयी है।
।। ३४।।
भैक्षाशिता विवसनत्वमसङ्गता च
त्वां सूचयन्ति यतिमार्हतदर्शनज्ञम्।
तस्मान्मुधा विवदसे मतिलेशमत्तो
ज्ञेयावशेषमधिगच्छ सखेऽद्य मत्त:।।
अन्वय: - भैक्षाशिता विवसनत्वम् असङ्गता च त्वाम् आर्हतदर्शनज्ञं यतिं सूचयन्ति। तस्मात् मतिलेशमत्त: मुधा विवदसे। हे सखे! अद्य मत्त: ज्ञेयावशेषम् अधिगच्छ।
गङ्गा - भैक्षाशितेति- भैक्षाशिता भिक्षाभोजनता विवसनत्वं वसनरहितत्वम्। स्वल्पवस्त्रत्वमत्र विवसनत्वेनोत्प्रेक्षितम्। असङ्गता च त्वाम् अलिम् आर्हतदर्शनज्ञं यतिं सूचयन्ति। त्वमपि स्वाचारेण आर्हतमतोपासक इव लक्ष्यस इत्यर्थ:। तस्मात् आर्हतसिद्धान्तज्ञत्वात् मतिलेशमत्त: स्वल्पज्ञानेन अहङ्कृत: मुधा व्यर्थं विवदसे। हे सखे! भ्रमर! अद्य मत्त: विलासिन: ज्ञेयावशेषं ज्ञातुं यदवशिष्टं तदवगच्छ जानीहि। तेन ते भ्रमोऽज्ञानं वा स्वयमेव दूरी भविष्यति।
अनुवाद - तुम भिक्षा में प्राप्त अन्न का भोजन करते हो, वसनरहित और असंरा ही। तुम्हारा यह आचरण बता रहा है कि तुम आर्हतदर्शन में निपुण यति हो। इसलिए थोड़े ज्ञान से मत्त होकर व्यर्थ ही विवाद कर रहे हो। हे मित्र भ्रमर! आज तुम मुझसे जानने योग्य अवशिष्ट तत्त्वों को सीखो।
।। ३५।।
इत्थं तथागतपथागतवेदनिन्दा-
सर्वेश्वराऽऽदरविरोधवचो निशम्य।
सोत्कम्पसर्वतनुरप्युदितानुकम्प-
स्तं प्रत्युवाच शमपूर्वकमेव भृङ्ग:।।
अन्वय: - इत्थं तथागतपथागतवेदनिन्दासर्वेश्वराऽऽदरविरोधवच: निशम्य सोत्कम्पसर्वतनु: अपि उदितानुकम्प: भृङ्ग: शमपूर्वकम् एव तं प्रत्युवाच।
गङ्गा - इत्थं तथागतेति- इत्थं पूर्वोक्तप्रकारेण तथागतपथागतवेदनिन्दासर्वेश्वराऽऽदरविरोधवच:, तथागतस्य जिनस्य पथा, सम्प्रदायेन मार्गेण वा आगतं वेदनिन्दारूपं सर्वेश्वरस्य परमात्मन: आदरविरोधवच: स्वीकृति विरोधिवचनं निशम्य श्रुत्वा सोत्कम्पसर्वतनु: कोपात् शोकात् वा कम्पितसमग्रगात्र: अपि उदितानुकम्प: उदित: उत्पन्न: अनुकम्पायस्थ स तादृशो भृङ्ग: काव्यनायकोऽलि: शमपूर्वकं शान्त्या एव तं प्रत्युवाच। तत्सिद्धान्तखण्डनाय सन्नद्धो बभूवेत्यर्थ:।
अनुवाद - इस प्रकार जिन के मार्ग से आये हुए वेद निन्दा रूप परमेश्वर के विरोधी वचनों को सुनकर अलि का शरीर शोक या क्रोध से काँप उठा। तथापि अनुकम्पापूर्ण वह भृंग शान्तिपूर्वक उस विलासी का खण्डन करने को उद्यत हो गया।
।। ३६।।
हा हन्त सन्तमसन्ततवासघूक!
नानाविकल्पमयदुर्मतजञ्जपूक!
प्रामाणिको नहि वदन् विरमेद्विकल्पेऽ
- प्रामाणिकोक्तिरपराध्यति वादकाले।।
अन्वय: - हा हन्त! हे सन्तमससन्ततवासघूक: नानाविकल्पमयदुर्मतजञ्जपूक! प्रामाणिक: वदन् विकल्पे नहि विरमेत्। वादकाले अप्रामाणिकोक्ति: अपराध्यति।
गङ्गा - हा हन्तेति- हा हन्तेति खेदे सन्तमससन्ततवासघूक! गाटान्धकारनिरन्तरनिवासोलूक! 'विष्वक् सन्तमसम्Ó इत्यमर:। उलूकस्य अन्धकारवासप्रियत्वात् जैनस्याऽप्यनिश्चयसिद्धान्तकृत्त्वाद् घूकत्वारोप:। नानाविकल्पमयदुर्मतजञ्जपूक!, स्यादस्ति नास्तिप्रभृतिरूपेण विविधपक्षयुक्तदुष्टसिद्धान्तोपासक! प्रामाणिक: वदन् स्वसिद्धान्तं कथयन् विकल्पे नहि विरमेत् प्रमाणै: एकतरपक्षनिश्चयस्यैव वादिना चिकीर्षितत्वात्। वादकाले शास्त्रार्थोपस्थापनसमये अप्रामाणिककोक्ति: अपराध्यति, अप्रामाणिकस्य प्रमाणहीनस्य उक्ति: कथनं प्रमाणहीनम् अग्राह्यमिति कृत्वा अपराध्यति गहणयोग्यं न भवति।
अनुवाद - हा हन्त! हे गाढ़ अन्धकार में सदैव निवास करने वाले उलूक! 'स्यादस्ति नास्तिÓ इत्यादि अनेक विकल्पों से युक्त दुर्मत को जपने वाले! प्रामाणिक बात करते हुए किसी विकल्प में विराम नहीं लिया करते। वह प्रमाणों से किसी एक पक्ष को निर्धारित किया करता है। शास्त्रार्थ के चिन्तन के समय प्रमाणहीन उक्ति ग्रहणयोग्य नहीं होती।
।। ३७।।
वस्तुस्थितिप्रमितिरेव हि मानकृत्यं
न त्वस्ति वस्तु युगपत्सदसद्द्विरूपम्।
वस्तुन्यसद्द्विविधरूपमतिर्भ्रम: स्या-
त्तां दोष एव जनयेन्न कदा ऽपि मानम्।।
अन्वय: - हि वस्तुस्थितिप्रमिति: एव मानकृत्यं (भवति)। वस्तु युगपत् सदसद्द्विरूपं तु न अस्ति। वस्तुनि असद्द्विविधरूपमति: भ्रम: स्यात्। तां दोष: एव जनयेत्। कदापि मानं न (जनयेत्)।
गङ्गा - प्रामाणिक इति- हीति निश्चयार्थकमव्ययम्। वस्तुस्थितिप्रमिति: वस्तुन: पदार्थस्य स्थिति: सत्ताप्रमिति: प्रमा एव मानकृत्यं मानस्य प्रभावस्य कृत्यं कर्म भवति। मानेनैव वस्तुन: स्थिति: निर्धार्यते, तस्य सत्त्वमसत्त्वं वा प्रमाणीक्रियत इत्यर्थ:। त्वं पुन: स्यादस्ति च नास्ति च अस्ति च अवक्तव्यं चेति विविधविकल्पै: वस्तुस्थितिं वदसि। किमपि वस्तु युगपत् सहैव सदसद्द्विरूपं न भवति। वस्तुन: सहैव सत्ताऽसत्ते न सम्भवत:। त्वं तु सहैव तथा स्वीकरोषि। वस्तुनि असद्द्विरूपमति: मृषा द्विविधज्ञानं भ्रम: स्यात्। रज्जु: सर्पो वेति नानाविकल्पात्मकं ज्ञानं भ्रम एव भवितुमर्हति न तु प्रामाणिकं ज्ञानम्। ताम् असद्द्विविधरूपां मतिं दोष एव जनयेन्नतु मानं प्रमाणं तां कदापि जनयेत्। अतश्च नानातु मानं प्रमाणं तां कदापि जनयेत्। अतश्च नानाविकल्पात्मकं तव ज्ञानं प्रमाणं न भवितुमर्हतीत्यर्थ:।
अनुवाद - निश्चय ही वस्तु की स्थिति (सत्ता या अभाव) का ज्ञान ही प्रमाण का कार्य होता है। कोई भी वस्तु एक साथ सत् और असत्, दो रूपों में नहीं होती। वस्तु में मृषा द्विविधान ही भ्रम कहलाता है। ऐसे नानाविकल्पात्मक ज्ञान को दोष ही उत्पन्न करता है। कभी भी प्रमाण ऐसा ज्ञान नहीं उत्पन्न करता। अत: तुम्हारा वस्तु में अनेक सम्भावनाओं को मानना उचित नहीं।
।। ३८।।
अन्योन्यबाधकमसत्त्वमथापि सत्त्व-
मेकत्रवक्षि युपद्यदि संशय: स:।
यत्सर्वसंशयनिवर्ति तदेव शास्त्रं
संशाययेत्तदपि चेत् शरणं किमन्यत्।।
अन्वय: - अथ यदि अन्योन्यबाधकं सत्त्वम् असत्त्वम् अपि युगपत् एकत्र वक्षि, स: संशय: (अस्ति)। यत् सर्वसंशयनिवर्ति तदेव शास्त्रं (भवति)। तदपि संशाययेत् चेत्, किम् अन्यत् शरणं (भवेत्)?
गङ्गा - अन्योन्येति- अथेति प्रश्ने। यदि च त्वं विलासी जैनमतमनुसृत्य 'स्यादस्ति नास्तिÓ इत्यादिरूपेण अन्योन्यबाधकं सत्त्वं सत्ताम् असत्त्वम् अभावं च युगपत् एकत्र एकस्मिन्नेव स्थले वक्षि उपदिशसि, स: संशय: अस्ति। शास्त्रं तु संशयोत्पादकं न भवति। यत् सर्वसंशयनिवर्ति समेषां सत्ताऽसत्ताविषयकसंशयानां निवर्तकं तदेव शास्त्रं वक्तुं शक्यते। तदपि संशयनिवर्तकं तच्छास्त्रमपि संशाययेत् चेत्, संशयनिवारणे किमन्यत् शरणं भवेत्? न किमपीत्यर्थ:।
अनुवाद - यदि तुम एक दूसरे के बाधक सत्ता और अभाव को भी एक साथ एक ही स्थल पर बताते हो ('स्यादस्ति नास्तिÓ कहकर सत्ता और अभाव को एकत्र निरूपित करते हो) तब तो वह संशय ही है। जो शास्त्र सभी के संशयों को दूर करता है, वही अगर संशय को उत्पन्न करेगा तब संशय को दूर करने के लिए किसकी शरण में जाया जा सकेगा?
।। ३९।।
निर्णेतुमक्षमतया विविधागमार्थो-
च्छिष्टैकदेशलघुसंग्रहमात्रकारी।
आचार्यलक्षणविहीनतया न मान्य:
संशायकोक्त्युपनमद्वृजिनो जिनो न:।।
अन्वय: - विविधागमार्थोच्छिष्टैकदेशलघुसङ्ग्रहमात्रकारी संशायकोक्त्युपनमदवृजिन: जिन: निर्णेतुम् अक्षमतया आचार्यलक्षणविहीनतया (च) न: मान्य: न (अस्ति)।
गङ्गा - निर्णेतुमिति- विविधागमार्थोच्छिष्टैकदेशलघुसङ्ग्रहमात्रकारी विविधानाम् अनेकेषाम् आगमार्थानां शास्त्रतत्त्वानाम् उच्छिष्टं यो हि एकदेशस्तस्य संक्षिप्तसङ्ग्रहमात्रकर्ता न तु व्याख्याता न वा व्यवस्थापक:। संशायकोक्त्युपनमद्वृजिम: संशयोत्पादककथनोपनमत्कलेश:। 'क्लेशेऽपि वृजिन:Ó इत्यमर:। जिन: अर्हन्मुनि: निर्णेतुम् अक्षमतया तत्त्वानां स्वरूपनिर्णये शक्तिहीनतया आचार्यलक्षणहीनतया आचार्ययोग्यलक्षणराहित्येन च न: अस्तिमानां मान्य: आदरास्पदं न अस्ति। निश्चयोत्पादनमेव आचार्यस्य कार्यम्। जिने न तथात्वमिति स न अस्माभिराचार्यबुद्ध्या पूज्यत इत्यर्थ:।
अनुवाद - जिन ने अनेक आगमार्थों के उच्छिष्ट एकदेशों का संग्रहमात्र किया है। वह संशय उत्पन्न करने वाली उक्तियों से दु:ख देने वाला है। ऐसा यह जिन मुनि निर्णय लेने में अक्षम होने के कारण तथा आचार्यलक्षण से रहित होने के कारण हमारे आदर का पात्र नहीं है।
।। ४०।।
स्याद्वादसिद्ध्युपगमे स्वमतस्य हानि-
स्तत्र प्रमाणकथनेऽपि स एव दोष:।
साध्यप्रमाणविशये तु कथं प्रवृत्ति:
सेष्टा सदा मतिमतोऽध्यवसायपूर्वा।।
अन्वय: - स्याद्वादसिद्धुपगमे स्वमतस्य हानि: (अस्ति)। तत्र प्रमाणकथने अपि स एव दोष: (विद्यते)। साध्यप्रमाणविशये तु कथं प्रवृत्ति: (स्यात्) सा सदा मतिमत: अध्यवसायपूर्वा इष्टा।
गङ्गा - स्याद्वादेति- स्याद्वादसिद्धुपगमे जैनाभिमत स्याद्वादस्य सिद्धे: स्वीकारे स्वमतस्य स्वसिद्धान्तस्य हानि: अस्ति। तत्र स्याद्वादे प्रमाणकथने प्रमाणनिर्धारणे अपि स एव दोष:, स्वमतस्य हानिरस्तीत्यर्थ:। साध्यप्रमाणविशये साध्यस्य प्रमाणे संशये सति। यथा 'स्यादस्ति नास्ति, स्यादस्ति च अवक्तव्यं चÓ इत्यादौ साध्यवस्तुन: संशये तु कस्यचित् विदुष: कथं प्रवृत्तिर्भवितुमर्हति। न कथमपीति भाव:। यतो हि मतिमतां स प्रवृत्ति: सदैव अध्यवसायपूर्वा प्रयोजनपूर्विका इष्टा भवति। अनध्यवसायपूर्वा न विदुषां प्रवृत्तिर्भवतीति तात्पर्यम्।
अनुवाद - स्याद्वाद की सिद्धि को स्वीकार करने पर अपने ही सिद्धान्त की हानि है। उसमें प्रमाणनिर्धारण में भी वही दोष है। साध्यप्रमाण के संशयित होने पर विद्वानों की प्रवृत्ति कैसे हो सकती है। विद्वानों की वह प्रवृत्ति सदैव अध्यवसाय पूर्वक होती है। अनध्यवसाय पूर्वक प्रवृत्ति विद्वानों को इष्ट नहीं होती।
।। ४१।।
द्वित्रेतरेतरविरुद्धसशङ्कवाक्या-
वृत्त्येकसारमपि शास्त्रमिति प्रवक्तु:।
नीराजयन्तु वदनं कृतहस्तताला
जैनाङ्गना बहुलगोमयदीपिकाभि:।।
अन्वय: - द्वित्रेतरेतरविरुद्धसशङ्कवाक्यावृत्त्येकसारम् अपि 'शास्त्रम्Ó इति प्रवक्तु: वदनं कृतहस्तताला: जैनाङ्गना: बहुलगोमयदीपिकाभि: नीराजयन्तु।
गङ्गा - द्वित्रेतरेतरेति- द्वित्रेतरेतरविरुद्धसशङ्कवाक्यावृत्त्येकसारम्, 'स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति, स्यादवक्तव्य:, स्यादस्ति च अवक्तव्य:, स्यान्नास्ति च अवक्तव्य:, स्यादस्ति च नास्ति च अवक्तव्य:Ó इत्येतेषु सप्तभङ्गेषु अस्तित्वनास्तित्वयो: परस्परविरुद्धत्वात् तयोरपि सम्भाव्यमानतामात्रतया सशङ्कत्वात् सप्तभङ्ग्या: सत्त्वासम्भावनाऽनिर्वचनीयत्वबोधकपदचतुष्टयवृत्त्येकनिष्पन्नस्वरूपत्वान्न तच्छास्त्रत्वम्। तथापि तादृशवाक्यं शास्त्रमिति प्रवक्तुर्जिनस्य वदनं मुखं कृतहस्तताला: कृत: सम्पादितो हस्ततालो याभिस्ता: जैनाङ्गना: जैनवध्व: बहुलगोमयदीपिकाभि: बहुलाया गोविशेषस्य गोमयेन दीपिकाभिश्च नीराजयन्तु आरार्तिक्येन सम्भावयन्तु। न कश्चिद् विद्वान् तदुक्तिं श्रद्दधतीति भाव:।
अनुवाद - पहले, दूसरे, तीसरे और चौथे (स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति, स्यादवक्तव्य:) विरुद्ध और संशययुक्त वाक्यों की आवृत्ति से तुम्हारे शास्त्र में एकरूपता निष्पन्न होती है। वस्तुत: यह शास्त्र ही नहीं है। जैनवधुएं इसे शास्त्र कहने वाले जिन मुनि के वदन की ताली बजाकर बहुला गौ के गोबर और दीपक से आरती उतारें।
।। ४२।।
जीवस्त्वयैव कृतहान्यकृतागमाभ्यां
भीतेन नित्य उदितोऽस्य तनूमितत्वे।
मातङ्गकीटवपुषोरनयो: शरीर-
व्यत्यास आपतति सम्भवपूत्र्यभाव:।।
अन्वय: - त्वया एव कृतहान्यकृतागमाभ्यां भीतेन जीव: नित्य उदित:। अस्य तनूमितत्वे मातङ्गकीरवपुषो: अनयो: व्यत्यास: आपतति। पूत्र्यभाव: च सम्भवति।
गङ्गा - जीवस्त्वयेति- त्वया जैनमतावलम्बिना विलासिना एव कृतहान्यकृतागमाभ्यां, कृतस्य सम्पादितकर्मणो हानिरभाव: कृतहानिश्च अकृतस्य असम्पादितकर्मण: आगम: अकृतागमश्च, ताभ्यां भीतेन जीव: नित्य: उदित: कथित:। जीवस्याऽनित्यत्वे कृतहानिरकृतागमश्चापतेत्। तथात्वे पूर्वक्षण उत्पन्नजीव: कर्म कृत्वा विनश्येत् तदुत्तरक्षणोत्पन्नश्च कृतहानिरुत्तरक्षणोत्पन्नस्य च अकृतागम:। तद्भीत्या त्वया जीवस्य नित्यत्वमुक्तम्। अस्य जीवस्य तनूमितत्वे देहपरिमाणे मातङ्गकीरवपुषो: हस्तिपतङ्गशरीरयो: अनयो: व्यत्यास: क्रमविरोध: आपतति। अथ च पूत्र्यभाव: सम्भवति। गजशरीरपरिमितो जीव: कीटशरीरे न सम्भवेत् कीटमितश्च गजशरीरं न व्याप्नुयात्। जीवस्य सङ्कोचविस्तृतिकथास्वीकारे तदनित्यवप्रसङ्गोऽपि प्रसजति। तेन त्वया स्वीकृतजीवनित्यत्वस्यापि व्युच्छेद:।
अनुवाद - तुमने ही कृतहानि और अकृतागम के भय से जीव को नित्य माना है। जीव की अनित्यता या क्षणिकता मानने पर प्रथमक्षण में उत्पन्न जीव कर्म तो करेगा किन्तु वह फलभोक्ता नहीं हो सकेगा। इस प्रकार उसकी कृतहानि होगी। द्वितीयक्षणोत्पन्न जीव फलभोग तो करेगा किन्तु कर्म नहीं कर सकेगा। उसे प्रथम क्षण में उत्पन्न जीव के कृत कर्म का फन मिल जायेगा। अत: अकृतागम की आपत्ति होगी। इस अव्यवस्था के निराकरण हेतु तुमने स्वयं जीव को नित्य कहा है। इस जीव को देहपरिमाण मान लेने से हाथी और कीट का शरीर धारण करने वाले जीवों में क्रम विरोध उत्पन्न होगा। साथ ही पूत्र्यभाव भी प्रसक्त होगा। क्योंकि गजपरिमितजीव कीट के शरीर में सम्भव नहीं हो सकता और कीट परिमाण जीव गज शरीर को व्याप्त नहीं कर सकता। इस संकोचविस्तार से जीव में विनाशिता भी उत्पन्न होगी।
।। ४३।।
सङ्कोचविस्तृतिकथाऽत्र वृथा तथात्वेऽ-
स्यापद्यतेऽवयविताऽथ विनाशिता च।
क्वापीक्ष्यतेऽवयविनोरुभयोर्न चैक-
देशस्थितिस्तदलमेभिरसत्प्रलापै:।।
अन्वय: - अत्र सङ्कोचविस्तृतिकथा वृथा (अस्ति)। तथात्वे अस्य अवयविता अथ विनाशिता च आपद्यते। उभयो: अवयविनो: एकदेशस्थिति: क्वापि न ईक्ष्यते। तत् एभि: असत्प्रलापै: अलम्।
गङ्गा - सङ्कोचविस्तृतिकथेति- अत्र जीवे सङ्कोचविस्तृतिकथा कीटजीवे मातङ्गयोनौ विस्तृति:, मातङ्गजीवे कीटयोनौ च सङ्कोच: इति सङ्कोचविस्तृतिकथा विषयेऽस्मिन् वृथा एव। तथात्वे सङ्कोचविस्तृतिकल्पने अस्य अवयविता अवयवशालिता विनाशिता च आपद्यते। जीवो न कदापि विनश्यति। यदि नाम तत्र जनसानुसारेण सङ्कोचविस्तर: कल्प्यते तर्हि तदवयवित्वमापद्येत तेन च विनाशित्वमपि ध्रुवम्। अवयविनो विनाशशालित्वं ध्रुवम्। अथ च न केनापि उभयो: जीवशरीरयो: अवयविनो: एकदेशस्थिति: एकस्मिन् देशे स्थिति: कुत्रापि न दृश्यते। तत् तस्मात् एभि: जीवस्य देहपरिमाणादिभि: असत्प्रलापै: अलम्। न जीवस्य देहमितत्वं वक्तुं शक्यते। अवयविद्वयस्यैकावकाशे स्थित्यदर्शनेन शरीरतत्परिमित जीवयो: एकावकाशे स्थितेरसम्भव इत्यर्थ:।
अनुवाद - इस जीव में उन उन योनियों के अनुसार संकोच और विस्तार की कल्पना तो व्यर्थ है। ऐसा मानने से इस जीव को अवयवी और विनाशी मानना पड़ेगा। दो अवयवियों की एकदेश में स्थिति कभी भी नहीं देखी जाती। इसलिए इन झूठे प्रलापों को बन्द करो।
।। ४४।।
कस्मात्तप:क्षतसवासनकर्मजालो
जीव: प्रयात्युपरि किं भयमत्र वासे।
कर्मस्वसस्त्विह परत्र च नास्ति बन्ध:
कर्मस्थितौ तु गगनेऽप्यनिवार्य एष:।।
अन्वय: - तप:क्षतसवासनकर्मजालो जीव: कस्मात् उपरि प्रयाति? अत्र वासे किं भयम्? कर्मसु असत्सु इह परत्र च बन्ध: न अस्ति। कर्मस्थितौ तु एष गगने अपि अनिवार्य: (भवति)।
गङ्गा - कस्मादिति- तप:क्षतसवासनकर्मजाल:, वासनया संस्कारेण सहित: कर्मण: जालं सवासनकर्मजालम्। तपसा क्षतं विनष्टं सवासनकर्मजालं यस्य स जीव: कस्माद् हेतो: उपरि प्रयाति? एतेन 'तदनन्तरमध्र्वं गच्छत्यालोकान्तात्Ó (त.सू १०.५) इति जैनसिद्धान्तो निराकृत:। तथात्वे अत्र संसारे वासे किं भयम्? कर्ममुक्तो जीवोऽत्रैव भवतु। कमसु असत्सु कर्मणोऽभावे इह संसारे परत्र लोकान्तरे च बन्ध: न अस्ति। कर्मस्थितौ कर्मणां विद्यमानतायाम् एष बन्ध: गने अपि अनिवार्य:। एतेन तत्त्वार्थसूत्रकृता 'बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षणं मोक्ष:Ó (१०.२) इति यदुक्तं तन्निराकृतम्। कर्मनाशे जीवस्य संसारे निवासेऽपि न कापि क्षति:, तत्राऽपि बन्धाभावात्।त्वया कर्मनाशे यदूध्र्वगमनं जीवस्य सिद्धान्तितं तन्नो चितम्। कर्मसंस्थितौ तु गगनेऽपि बन्धस्याऽनिवार्यता स्यादेवेति त्वदुक्तं सर्वं परास्तमिति भाव:।
अनुवाद - तपस्या से जिसकी वासनाएं और कर्मसमूह नष्ट हो गये हैं, जो कर्मबन्धन से मुक्त हो गया है, वह जीव ऊपर क्यों जाता है। संसार में रहे से उसे क्या भय है। यदि उसके कर्म नष्ट हो गये हैं तो उसके संसार में या लोकान्तर में रहने में कोई बन्धन नहीं है। वह सर्वत्र मुक्त ही रहेगा। अगर उसके कर्म विद्यमान हैं तब तो यह बन्धन आकाश (लोकान्तर) में भी अनिवार्य ही होगा। अत: मोक्षावस्था में जीव के ऊध्र्वगमन की तुम्हारी कल्पना व्यर्थ है।
।। ४५।।
सार्वज्ञ्यमागमभवं तव चागमोऽपि
सार्वज्ञ्यमूल इतरेतरसंश्रयं तत्।
बीजाङ्कुरोपमितिरत्र गुरुत्वदूष्या
लघ्वी तु वेदसकलेश्वरनित्यतैव।।
अन्वय: - सार्वज्ञ्यम् आगमभवं (भवति)। तव आगम: अपि सार्वज्ञ्यमूल: (इति) तत् इतरेतरसंश्रयं (विद्यते)। अत्र बीजाङ्कुरोपमिति: तु गुरुत्वदूष्या (अस्ति)। वेदसकलेश्वरनित्यता एव लघ्वी।
गङ्गा - सार्वज्ञ्यमिति- सार्वज्ञ्यम् आगमभवं भवति। आगमं पठित्वा कश्चन सर्वज्ञतां प्राप्नोतीति भाव:। तव विलासिनोऽर्हन्मतानुयायिन: आगम: सार्वज्ञ्यमूल: वर्तते। सर्वज्ञेन जिनेन तदुक्तं वर्तत इत्यर्थ:। एवं सर्वज्ञत्वे आगमानां कारणता आगमोत्पत्तौ च सर्वज्ञकारणतेति तत् तस्मात् सार्वज्ञ्यं तदागममूलत्वं च इतोतासंश्रयं विद्यते सार्वज्ञ्ये आगममूलत्वम् आगमस्य च सार्वज्ञमूलत्वीमत्युभयं परस्पराश्रितं विद्यते। अत: बीजाङ्कुरोपमिति: यथा बीजादङ्कुरोत्पत्तिरङ्कुराद् वृक्षस्तत: फलं ततश्च पुनर्बीजमिति उपमिति: गुरुत्वदूष्या गौरवदोषेण दूषिताऽस्ति। वेदसकलेश्वरनित्यता वेदानां सकलेश्वरता नित्यता चैव लघ्वी। वेद एव सर्वप्रधानो नित्यश्चेति कल्पन एव लाघवमित्यर्थ:।
अनुवाद - सर्वज्ञता आगमों से प्राप्त होती है। तुम्हारे आगमों को मूल भी सर्वज्ञ है। इसलिए सर्वज्ञता और आगम परस्पर एक दूसरे पर आश्रित हैं। अगर बीजाङ्कुर से उपमित करके तुम यह सिद्ध करो कि बीज अंकुर पर और अंकुर बीज पर आश्रित होते हैं, तो तुम्हारी यह कल्पना गौरवग्रस्त है। वस्तुत: वेद की सर्वप्रधानता और नित्यता मानने में ही लाघव है।
।। ४६।।
सार्वज्ञ्यमागमकृतं कृतकां च मुक्तिं
व्रूषे जिने तदुदयात्प्रथमं य एव।
संसारचक्रपरिचालनशक्तिशाली
सर्वेश्वर: सकलवित्स सदा विमुक्त:।।
अन्वय: - जिने आगमकृतं सार्वज्ञ्यं कृतकां मुक्तिं च ब्रूषे। तदुदयात् प्रथमं य: संसारचक्रपरिचालनशक्तिशाली सकलवित् सदा विमुक्त:, स एव सर्वेश्वर: (अस्ति)।
गङ्गा - सार्वज्ञ्यमिति- जिने जैनशास्त्रप्रणेतरि मुनौ आगमकृतं वेदसिद्धं सार्वज्ञ्यं कृतकां कृत्रिमां मुक्तिं च ब्रूषे वदसि। वस्तुतो न स सर्वज्ञ: तस्मिन् वेदानामेव सर्वज्ञताया: सत्त्वात्। तथैव स मुक्तोऽपि नास्ति, तस्मिन् कृत्रिममुक्ते: सत्त्वात्। तदुदयात् जिनस्योत्पत्ते: प्रथमं पूर्वं य: संसारचक्रपरिचालनशक्तिशाली, संसाररूपस्य चक्रस्य परिचालने यस्य शक्तिमत्ता वर्तते सकलवित् सर्ववेत्ता, सदा विमुक्त: स एव सर्वेश्वरोऽस्ति न तु जिन:।
जिनोत्पत्ते: पूर्वं य एव धर्माधर्मबोधकवेदोपदेष्टा स एवेश्वर:। न च तत: पूर्वं जिनान्तराभ्युपगमेन निर्वाह:, अनवस्था प्रसङ्गात्। नित्यसर्वज्ञेश्वरस्वीकारेण निर्वाहे बीजाङ्कुरन्यायेन तत्स्वीकृतेरयुक्तत्वात्।
अनुवाद - तुम जिन में आगमकृत सार्वज्ञ्य और कृत्रिम मुक्ति की बात कर रहे हो। उस जिन की उत्पत्ति से पूर्व संसाररूपी चक्र को चलाने में जो शक्तिशाली रहा, जो सर्ववेत्ता है तथा सदा विमुक्त है, वही सर्वेश्वर है। जिन मुनि में ये गुण नहीं हो सकते।
।। ४७।।
दृष्ट्वैकचेतननिदेशवशां प्रवृत्तिं
कार्ये लघावपि गृहे बहुचेतनानाम्।
ब्रह्माण्डनिर्मितिमनेककृतामपीच्छ-
न्नेकं समस्तविभुमीश्वरमाश्रयस्व।।
अन्वय: - गृहे लघौ अपि कार्ये बहुचेतनानाम् एकचेतननिदेशवशां प्रवृत्तिं दृष्ट्वा ब्रह्माण्डनिर्मितम् अनेककृताम् अपि इच्छन् समस्तविभुम् एकम् ईश्वरम् आश्रयस्व।
गङ्गा - दृष्ट्वैकचेतनेति- गृहे स्वभवने लघौ अपि कार्ये बहुचेतनानां गृहसदस्यानाम् एकचेतननिदेशवशां गृहस्वामिन आदेशवशां प्रवृत्तिं दृष्ट्वा त्वं ब्रह्माण्डनिर्मितिमनेककृतामपीच्छन् स्वीकुर्वन् समस्तबिभुं सर्वव्यापि एकमीश्वरं सर्ववेत्तारं सर्वेशम् आश्रयस्व उपास्स्व। एककार्यानुकूलाऽनेकचेतनप्रवृत्ति:, एकचेतनाभिप्रायज्ञानप्रयोज्या गृहानुकूलतक्षादिप्रवृत्तिवदितीश्वरसिद्धिरित्यर्थ:।
अनुवाद - घट में छोटे से भी कार्य में अनेक चेतनों की प्रवृत्ति गृहस्वामी रूप एकचेतन के आदेश पर आश्रित होती है। तुम इसे देख कर ब्रह्माण्ड निर्माण को अनेककृत मान कर भी सर्वव्यापक एक ईश्वर को स्वीकार करो।
।। ४८।।
कुर्वन्तु काश्चन यथास्वरुचि प्रवृत्ती-
रेकाऽपि कापि परभीतिकृता प्रवृत्ति:।
दृष्टा कुटुम्बनगरस्थितचेतनेषु
यद्भीतिजाऽखिलकृति: परमेश्वर: स:।।
अन्वय: - यथास्वरुचि काश्चन प्रवृत्ती: कुर्वन्तु। कुटुम्बनगरस्थितचेतनेषु कापि एका अपि परभीतिकृता प्रवृत्ति: दृष्टा। यद्भीतिजा अखिलकृति:, स: परमेश्वर: (अस्ति)।
गङ्गा - कुर्वन्त्विति- लोके जना यथास्वरुचि स्वरुचिमनतिक्रम्य। यथेच्छं काश्चन प्रवृत्ती: कुर्वन्तु, लोकव्यवहारान् सम्पादयन्तु नाम। कुटुम्बनगरस्थितचेतनेषु परिवारपुरादिषु निवसत्सु प्राणिषु कापि एका अपि परभीतिकृता प्रवृत्ति: दृष्टा। परस्य राजगृहस्वामिभयेन कामपि प्रवृत्ति स्वरुचिमनुसृत्य न करोति तदनुसारेण करोति। यद्भीतिजा यस्य भीतेर्भयाज्जन्या अखिलकृति: समग्रोऽपि लोकव्यवहार:, स एव परमेश्वर:।
अत्रेदं तात्पर्यम्- बहुचेतनसमवेता परस्परहितानुकूला परस्परानिष्ठप्रतिकूला वा एकजातीया प्रवृत्तिरेकचेतनभीति प्रयोज्या। कुटुम्बस्वामिराजभीतिप्रयोज्यकुटुम्बनगरान्तर्गतबहुजनप्रवृत्तिवत्। अत्र च भीषाऽस्माद्वात: पर्वत इत्यादिश्रुतिरनुग्राहिका।
अनुवाद - सभी लोग अपनी रुचि के अनुसार व्यवहार करते रहें, यथेच्छ कार्यों में प्रवृत्त होते रहें। कुटुम्ब और नगर में रहने वाले लोगों में कोई एक प्रवृत्ति गृहस्वामी या राजा के भय से देखी जाती है। जिसके भय से समस्त कृतियाँ होती हैं, वही परमेश्वर है।
।। ४९।।
यत्तारतम्यसहितं क्वचिदस्य दृष्टा
विश्रान्तिरत्र परिमाणमुदाहृति: स्यात्।
ज्ञानं तथाऽस्य सकलातिशयान्वितस्य
विश्रान्तिभूमिरुचित: परमेश एव।।
अन्वय: - क्वचित् यत् तारतम्यसहितं ज्ञानं (भवति) तथा अस्य क्वचित् विश्रान्ति: दृष्टा, अत्र परिमाणम् उदाहृति: स्यात् । तथा सकलातिशयान्वितस्य अस्य विश्रान्तिभूमि: परमेश्वर:एव उचित:।
गङ्गा - यत्तारतम्येति- क्वचित् कुत्रचिच्चेतने यत् तारतम्यसहितं न्यूनाधिक्यसहितं ज्ञानं वर्तते तथा अस्य ज्ञानस्य क्वचित् विश्रान्ति: विश्राम:। पर्यवसानमिति यावत्। दृष्टा। अत्र विश्रान्तौ अथवा तारतम्यसहिते ज्ञाने परिमाणं परिमितत्वम् उदाहृति: उदाहरणं स्यात्, भवितुमर्हति। एवं सकलातिशयान्वितस्य सकलै: अतिशयै: अन्वितस्य युक्तस्य अस्य ज्ञानस्य विश्रान्तिभूमि: पर्यवसानस्य अन्तिम आधार: परमेश्वर: परमात्मा एव उचित:। स एव तथात्वेन स्वीकारयोग्य इत्यर्थ:। यत्र क्वचित्तारतम्यसहितं ज्ञानं विश्रान्तमिव प्रतीयते तत्र तज्ज्ञानं वस्तुत: परिमितमेव भवति किन्तु सकलातिशयान्वितस्य महतोऽपि महत्तरस्य ज्ञानस्य आश्रय: परमेश्वर:। एवं सकलज्ञानाश्रयत्वेन परमेश एव स्वीकार्य इति भाव:।
अनुवाद - कहीं जो तारतम्य सहित (न्यूनाधिक्ययुक्त) ज्ञान देखा जाता है और इस ज्ञान की कहीं विश्रान्ति देखी जाती है। यह विश्रान्ति परिमितता (परिमाणता) का उदाहरण है। इस प्रकार सकल अतिशयों से विशिष्ट इस ज्ञान का (सभी ज्ञानों की) विश्रान्ति का अन्तिम आधार परमेश्वर को ही मानना उचित है।
।। ५०।।
तन्नित्यमिष्टमुपपत्तिमदन्यथाऽस्य
हेत्वन्तरानुसरणे त्वनवस्थिति: स्यात्।
नित्यं गतातिशयमीश इदं दधान:
साधारणं सकलकार्यविधौ निदानम्।।
अन्वय: - तत् नित्यम् इष्टम् उपपत्तिमत् (विद्यते)। अन्यथा अस्य हेत्वन्तरानुसरणे तु अनवस्थिति: स्यात्। नित्यं गतातिशयम् इदं दधान: ईश: सकलकार्यविधौ साधारणं निदानं (भवति)।
गङ्गा - तन्नित्यमिष्टेति- तत् ब्रह्म नित्यमिष्टं मित्यरूपेण वाञ्छितमिति उपपत्तिमद् युक्तियुक्तमेव विद्यते। अन्यथा अस्य परेशस्य हेत्वन्तरानुसरणे कारणन्तरान्वेषणे अनवस्थितिरनवस्थादोष: स्यात्, उपपद्येत। हेतुहेत्वन्तरकल्पनाऽनवस्था स्यादिति भाव:। नित्यं गतातिशयं निरतिशयम् इदं ज्ञानं दधान: ईश: परमेश: सकलकार्यविधौ समस्तकार्यसम्पादने साधारणं निमित्तं निदानं कारणं भवति। नित्ये निरतिशयज्ञानवान् परेश एव समेषां निमित्तकारणमिति न तदतिरिक्तहेत्वन्वेषणं युक्तमिति भाव:।
अनुवाद - वह ब्रह्म नित्य और युक्तियुक्त है। इसके हेत्वन्तर के अन्वेषण से अनवस्था होगी। हेत्वन्तर की परम्परा प्रसृत होगी। नित्य, निरतिशय ज्ञान को धारण करने वाला यह ईश्वर ही समस्त कार्य विधानों में निमित्तकारण होता है। तुम्हारे द्वारा की गयी अनेक कारणों की कल्पना उचित नहीं है।
।। ५१।।
स्वस्वर्जिताशुभशुभावहकर्मभेदा-
त्प्राप्नोति जीवनिवह: फ लभेदमद्धा।
आन्ध्येन पङ्गुसदृशाक्षमकर्मवृन्दा-
धिष्ठानताऽऽदृतनिदानगुणो महेश:।।
अन्वय: - अद्धा स्वस्वार्जिताशुभशुभावहकर्मभेदात् जीवनिवह: फलभेदं प्राप्नोति। आन्ध्येन पङ्गुसदृशाक्षमकर्मवृन्दाधिष्ठानताऽऽदृतनिदानगुण: (अस्ति)।
गङ्गा - स्वस्वेति- अद्धा सत्यम्। स्वस्वार्जिताशुभशुभावहकर्मभेदात् स्वस्वार्जितानां शुभशुभावहकर्मणां भेदात् जीवनिवह: जीवसमूह: फलभेदं प्राप्नोति। अशुभकर्मभेदात् अशुभं कर्म प्राप्रोति शुभकर्मसम्पादनेन च शुभफलं प्राप्नोति। आन्ध्येन चेतनारहितत्वेन पङ्गुसदृशाक्षमकर्मवृन्दाधिष्ठानताऽऽदृतनिदानगुण: कर्मणां पङ्गुसदृशं यदक्षमकर्मवृन्दानामधिष्ठानता तयाऽधिष्ठानतया आहत: निदानगुणो यस्य स तादृशो महेश: विद्यते। अचेतनत्वात् कर्मणां चेतनाधिष्ठानं विना कार्योत्पादनसामथ्र्यं न स्यात्। अत: पङ्गुसमाना कर्मणां या अक्षमाकर्मसमूहानाम् आधारताऽस्ति तया आधारतया यस्य कारणतागुण: समर्चितो वर्तते स एव परमेश:। यथा सर्वेषु हेतुषु सत्स्वपि जलधरवृष्ट्यभावे कृषि: निष्फलैव भवतीति जलधरस्तत्र निमित्तकारणं सिद्ध्यति। तथैव कर्मवृन्देषु सत्स्वपि तेषां फलजननेऽक्षमत्वात् तन्निमित्तकारणतया परमेश एव स्वीक्रियत इति भाव:।
अनुवाद - वस्तुत: अपने अपने द्वारा अर्जित शुभ और अशुभ कर्मों के भेद से जीव फल भेद को प्राप्त करता है। कर्मों के अचेतन होने के कारण वह कार्योत्पादन में समर्थ नहीं हो सकता। पंगु के समान अक्षम कर्मसमूहों की अधिष्ठानता से जिसकी निमित्त कारणता समादृत है, वही महेश है।
।। ५२।।
क्षेत्री लभेत यदि कर्षणबीजवाप-
दाक्ष्यप्रमादवशत: फ लसिद्ध्यसिद्धी।
दोषोऽत्र नैव जलदस्य तथेश्वरस्य
वैषम्यनिर्घृणतयोर्न तत: प्रसङ्ग:।।
अन्वय: - क्षेत्री यदि कर्षणबीजवापदाक्ष्यप्रमादवशत: फलसिद्ध्यसिद्धी लभेत, अत्र जलदस्य दोष: न एव। तथा ईश्वरस्य वैषम्यनिर्घृणतयो: तत: प्रसङ्ग: न भवति।
गङ्गा - क्षेत्रीति- क्षेत्री कृषक: यदि कर्षणबीजवापदाक्ष्यप्रमादवशत: कर्षणं च बीजवापश्च कर्षणबीजवापौ। दाक्ष्यं च प्रमादश्च दाक्ष्यप्रमादौ। कर्षणबीजवापयो: दाक्ष्यप्रमादौ तयो: वशत: कारणात्। कर्षणे दाक्ष्यवशत: बीजवापे च प्रमादवशत इति यथासङ्ख्यमन्वय:। दाक्ष्येण कृष्टेऽपि क्षेत्रे बीजवापे प्रमादात् कृषको यदि फल्सिद्ध्यसिद्धी फलस्य सिद्धिमसिद्धिं च लभते। कर्षणरूपफलसिद्धावपि बीजवापे प्रमादात् सस्यप्राप्तिरूपफलासिद्धिं लभेत चेत् अत्र जलदस्य मेघस्य दोष: नैव भवति। तत्तु तस्य तादृशकर्मण एव फलम्। तथा मनुष्येण दाक्ष्यप्रमादवशत: कृतकर्मफलाप्राप्तौ ईश्वरस्य वैषम्यनिर्घृणतयो: विषमतानिष्करुणतयो: प्रसङ्ग: न भवति। तत्तु तेन तथा सम्पादितकर्मण एव फलं न त्वीश्वरप्रदत्तमिति नात्रेश्वरो विषमो निष्करुणो वा गणयीयो भवतीति भाव:।
अनुवाद - किसान यदि खेत जेतने और बीज बोने में क्रमश: दक्षता और प्रमाद के कारण फल की सिद्धि और असिद्धि प्राप्त करता है। तो इसमें बादल का कोई दोष नहीं होता। वह कृषक के तथा कृतकर्म का ही फल होता है। इसी प्रकार ईश्वर की विषमता और निष्करुणता का प्रसंग नहीं आता। अपने कर्मों का दक्षतापूर्वक निर्वाह करने वाला यदि किसी प्रमाद के कारण फल प्राप्त नहीं करता तो इसमें ईश्वर का कोई दोष नहीं होता।
।। ५३।।
अन्येषु हेतुषु तु सत्वस्वपि कष्र्टचेष्टा
स्यान्निष्फ ला जलधरो यदि न प्रवर्षेत्।
साधारणो जलधर: किल तेन हेतु:
सा रीतिरप्रतिहता परमेश्वरे ऽपि।।
अन्वय: - अन्येषु हेतुषु सत्सु अपि यदि जलधर: न प्रवर्षेत् (तर्हि) कष्र्टचेष्टा निष्फला स्यात्। तेन किल जलधर: साधारण: हेतु: (अस्ति)। सा रीति: परमेश्वरे अपि अप्रतिहता (वर्तते)।
गङ्गा - अन्येष्विति- अन्येषु भूमिहलबीजादिषु हेतुषु कारणेषु सत्सु अपि विद्यमानेष्वपि यदि जलधरो न प्रवर्षेत्, मेघो वृष्टिं न कुर्यात् तर्हि कष्र्टचेष्टा कृषकस्य चेष्टा प्रवृत्तिर्निष्फला एव स्यात्। कृषक: किमपि फलन्नलभेतेत्यर्थ:। तेन हेतुना किल निश्चयेन जलधर: मेघ: साधारणो हेतु: सामान्यं कारणम्। सा रीतिर्नियम: परमेश्वरे ब्रह्मण्यप्यप्रतिहता वर्तते। अतस्त्वया ब्रह्मणो जगत्कारणत्वं यन्निराकृतं तन्नोचितमिति भाव:। वस्तुतो जगत्कारणत्वं तस्मिन् परमेश्वर एव वर्तते। जलधरो यथा सामान्यो हेतु: कृषिफलस्य तथैव परेशोऽपि जगत्कारणम्। एतेन् 'किञ्च किमेक: कत्र्ता साध्यते, किं वाऽनेके? प्रथमे प्रसादादौ व्यभिचार:। स्थापत्यादीनां बहूनां पुरुषाणां तत्र कर्तृत्वोपलम्भात्। द्वितीये बहूनां विश्वनिर्मातृत्वे तेषु मिथो वैमत्यसम्भावनाया अनिवार्यत्वादेकैकस्य वस्तुतोऽन्यान्यरूपतया सर्वमसमञ्जसमापद्येत्। सर्वेषां सामथ्र्यसाम्येनैकेनैव सकलजगदुत्पत्तिसिद्धौ इतरवैयथ्र्यं चÓ इति सर्वदर्शनसङ्ग्रहे जैनाभिमतेश्वरकारणत्वखण्डनं यन्निर्दिष्टं, तादृशसिद्धान्ता अपाकृता इति ध्येयम्।
अनुवाद - अन्य हेतुओं के विद्यमान रहने पर भी यदि बादल न बरसे तो कृषक की सारी चेष्टाएं व्यथ हो जाएंगी। इस कारण बादल सामान्य कारण है। यही नियम परमेश्वर में भी अप्रतिहत है।
।। ५४।।
जीवो न वेत्ति सकलं स्वमपीह कर्म
दूरे परस्य कथमेष ततोऽधितिष्ठेत्।
सर्वज्ञतां तदुचितां हि वहन् परेशोऽ-
धिष्ठानताभरसहोऽल्पमतिर्न जीव:।।
अन्वय: - इह जीव: स्वम् अपि सकलं कर्म न वेत्ति, परस्य दूरे (अस्तु)। तत: एष कथम् अधितिष्ठेत्? तदुचितां सर्वज्ञतां वहन् परेश: अधिष्ठानताभरसह: (भवति) न तु अल्पमति: जीव:।
गङ्गा - जीवो नेति- इह संसारे जीव: स्वं स्वकीयम् अपि सकलं कर्म न वेत्ति, न जानाति। परस्य अन्येन विहितस्य कथा तावत् दूरे आस्ताम्। वराको जीव: स्वकीयमेव कर्म न जानाति का कथाऽन्यस्य कर्मणो ज्ञानस्येत्यर्थ:। एतेन जीवस्याऽल्पज्ञता निरदेशि। तत: तस्मात् अल्पज्ञत्वात् एष जीव: कथम् अधितिष्ठेत्, स्वपरकर्माणि जानीयात्। तज्ज्ञातृत्वे सत्येवाऽधिष्ठानसम्भवात्। तदुचिताम् अधिष्ठानयोग्यां सर्वज्ञतां वहन् धारयन् परेश: परमेश्वर एव अधिष्ठानताभरसह:, आश्रयताभारसहनयोग्यो भवति। अल्पमति जीवो न तथा भवितुमर्हतीत्यर्थ:। अधिष्ठाता सन्निधिमात्रेण सर्वकर्मद्रष्टा सर्वकर्मकर्ता सर्वत उदासीन: परमात्मा। तथा चोक्तं श्रीमद्भगवद्गीतायाम्-
एको देव: सर्वभूतेषु गूढ:
सर्वव्यापी सर्वभूतान्तरात्मा।
कर्माध्यक्ष: सर्वभूताधिवास:
साक्षी चेता केवलो निर्गुणश्च।।
सर्वेषां व्यवसायाव्यवसायात्मकानां गुणपरिणामरूपाणां भावानां स्वामिवदाक्रमणं सर्वभावाधिष्ठातृत्वम्। तेषामेव शान्तोदिताव्यपदेश्यधार्मित्वेन स्थितानां विवेकज्ञानं सर्वज्ञत्वम्। जीवे तथात्वाभावन्न तदधिष्ठानत्वमित्यर्थ:।
अनुवाद - इस संसार में जीव अपने ही समस्त कर्मों को नहीं जानता। दूसरे के कर्मों की तो बात ही दूर है। अत: अल्पज्ञ होने के कारण यह जीव सबका अधिष्ठान कैसे हो सकता है। उस अधिष्ठानता के योग्य सर्वज्ञता को धारण करने वाला परमात्मा ही अधिष्ठानता के भार को सहन करने योग्य है। अल्पमति जीव उसके योग्य नहीं है।
।। ५५।।
इत्युक्तयुक्तिनिवहै: परमेशसिद्धौ
तस्य प्रपञ्चहितसाधनमार्गदर्शी।
आदेश एव किल वेदपदाभिधेयो
नोल्लङ्घ्य एष तदधीनहितार्थिजीवै:।।
अन्वय: - इत्युक्तयुक्तिनिवहै: परमेशसिद्धौ प्रपञ्चहितसाधनमार्गदर्शी वेदपदाभिधेय: किल तस्य आदेश एव। तदधीनहितार्थिजीवै: एष न उल्लङ्घ्य:।
गङ्गा - इत्युक्तेति- इत्युक्तयुक्तिनिवहै: एवं पूर्वोक्तप्रकारेण उक्ता: कथिता: सप्रमाणं साधिता ये युक्तिनिवहा: तर्कसमूहास्तै: परमेशसिद्धौ परमात्न: सिद्धौ सत्यां प्रपञ्चहितसाधनमार्गदर्शी प्रपञ्चे सांसारिकजन्ममरणविस्तरे हितसाधनस्य मोक्षोपायस्य मार्गदर्शी पथप्रदर्शक: वेदपदाभिधेय: वेदशब्दोक्त: किल तस्य आदेश: आज्ञा। तत्र विहितकर्मानुपालमेन जीव: कल्याणमाप्नोतीति तदधीन हितार्थि जीवै: परमात्माश्रितै: हितकामिभि: जीवै: एष वेदपदाभिधेय: परमेशादेशो न उल्लङ्घ्योऽपि तु सर्वथा पालनीय एव। तस्यादेशावहेलनया जीवो न कल्याणभुग् भवतीत्यर्थ:।
अनुवाद - इस प्रकार कहे गये तर्कों के समूह से परमात्मा की सिद्धि होती है। संसार में हित साधन का मार्गदर्शक जो वेद पद से कहा जाता है, वह उस परमात्मा का आदेश है। अत: उस परमात्मा के अधीन रहने वाले, हितकामी जीवों को उस वेद का उल्लङ्घन नहीं करना चाहिए।
।। ५६।।
अस्तेयसत्यहितवागपरिग्रहाऽहिं-
साब्रह्मचर्यनियमस्य महाव्रतत्वम्।
आघोषितं श्रुतिषु नार्हदुपज्ञमेत-
च्चौर्येण दर्शनमभूषयदात्मन: स:।।
अन्वय: - अस्तेयसत्यहितवागपरिग्रहाहिंसाब्रह्मचर्यनियमस्य महाव्रतत्वं श्रुतिषु आद्योषितम्। एतत् अर्हदुपज्ञं न (अस्ति)। स: चौर्येण आत्मन: दर्शनम् अभूषयत्।
गङ्गा - अस्तेयेति- अस्तेयसत्यहितवागपरिग्रहाहिंसाब्रह्मचर्यनियमस्य अस्तेयं च सत्यहितवाक् च अपरिग्रहश्च अहिंसा च ब्रह्मचर्यं चेति अहिंसाऽस्तेयसूनृतब्रह्मचर्यापरिग्रहनियमस्य महाव्रतत्वं श्रुतिषु वेदेषु आघोषितं सम्यक्तया प्रतिपादितम्। सम्यक् चारित्रेऽहिंसादीनां महाव्रतत्वं जैनैर्यन्निर्दिष्टं तत् श्रुतिसमर्थितमेव। नैतदर्हदुपज्ञम् अर्हता प्रथमं ज्ञातम्। स: अर्हन् चौर्येण। वेदार्थस्येति शेष:। अत्मन: दर्शनं जिनसिद्धान्तम् अभूषयत्। जैनै: सम्यक्चारित्रे 'अहिंसासूनृतास्तेयब्रह्मचर्यापरिग्रहाÓ ये महाव्रतत्वेन स्वीकृतास्ते वेदप्रोक्ता एव। न तु तदुद्भावितेत्यर्थ:। सर्वदर्शनसङ्ग्रहे महाव्रतानामेतेषां लक्षणमुक्तम्-
न यत्प्रभादयोगेन जीवितव्यपरोपणम्।
चराणां स्थावराणां च तदहिंसाव्रतं मतम्।।
प्रियं पथ्यं वचस्तथ्यं सूनृतं व्रतमुच्यते।
तत्तथ्यमपि नो तथ्यमप्रियं चाहितं च यत्।।
अनादानमदत्तस्यास्तेयव्रतमुदीरितम्।
बाह्या: प्राणा: नृणामर्थो हरता तं हता हि ते।।
दिव्यौदरिककामानां कृतानुमतकारितै:।
मनोवाक्कायतस्त्यागो ब्रह्माष्टादशधा मतम्।।
सर्वभावेषु मूच्र्छायास्त्याग: स्यादपरिग्रह:।
यदसत्स्वपि जायेत मूच्र्छया चित्तविप्लव:।।
अत्र सतहितवागित्यनेन कविना सत्यमुक्तम्। अस्तेयादीनां स्वरूपमिदं श्रुतिष्वपि बहुत्र प्रतिपादितमेवेति न तज्जैनोपज्ञत्वमित्यर्थ:।
अनुवाद - अस्तेय, सत्य और सुखद वाक्, अपरिग्रह, अहिंसा, और ब्रह्मचर्य नियम को श्रुतियों में भी महाव्रत कहा गया है। यह प्रथमत: अर्हन् के द्वारा नहीं जाने गये। उसने चोरी करके अपने दर्शन को अलंकृत किया है।
।। ५७।।
उच्चाधिकारीभिरपीह सुदुष्करं त-
त्सर्वैरशक्यमिति सर्वसमानदर्शी।
मन्दाधिकारिबहुले जगति क्रमेण
सिद्ध्यै व्यधाद्विविधयागविधीन् महेश:।।
अन्वय: - तत् इह उच्चाधिकारिभि: अपि सुदुष्करम् इति सर्वसमानदर्शी महेश: मन्दाधिकारिबहुले जगति क्रमेण सिद्धै विविधयागविधीन् व्यधात्।
गङ्गा - उच्चाधिकारीति- तत् सत्याहिंसादिमहाव्रतम् उच्चाधिकारिभि: यमनियमादिप्रवीणैरधीतसकलशास्त्रै: योगिभिरपि सुदुष्करं दु:खेन कर्तुं योग्यम्। उच्चाधिकारिणोऽपि तद्यथानियमपालने न प्रभवन्तीत्यर्थ:। इति हेतो: सर्वसमानदर्शी सर्वत्र समद्रष्टा महेश: परमात्मा मन्दाधिकारिबहुले मन्दा नियमपालनेऽनिपुणा अधिकारिणो व्रतानुष्ठातारो बहुला यस्मिन् तादृशे जगति संसारे क्रमेश क्रमश: सिद्ध्यै प्रथमं कर्मकाण्डेनाऽनन्तरं च योगेन सिद्धिप्राप्त्यै विविधयागविधीन् नानायज्ञनियमान् व्यधाद् अकरोत्। विविधयागान् कृत्वा स महाव्रताचरणं जानाति। अनन्तरं च महाव्रतानुतिष्ठतीति महाव्रतक्रमसिद्धै यागानां विधानमित्यर्थ:।
अनुवाद - इस संसार में सत्य अहिंसा आदि रूप महाव्रत उच्च अधिकारियों के लिए भी सुदुष्कर है। महान् योगी भी उसका अच्छी प्रकार से अनुष्ठान नहीं कर सकते। अत: सबको समान रूप से देखने वाले परमात्मा ने अनिपुण अधिकारियों से परिपूर्ण इस संसार में क्रमश: सिद्धि प्राप्त करने के लिए अनेक यागविधियों का नियम किया। इन यागविधियों से महाव्रत का अभ्यास कर अधिकारी सत्य आदि के पालन में समर्थ होता है।
।। ५८।।
आप्तो भिषग् हि कटुकौषधपानरुष्टं
बालं प्रपाययति तद् गुडजिव्हिकाभि:।
युक्त्या ऽनुसृत्य रुचिमस्य तथेश्वरो ऽपि
रागिव्रजोपकृतये विदधाति यागान्।।
अन्वय: - हि आप्तो भिषक् कटुकौषधपानरुष्टं बालम् अस्य रुचिम् अनुसृत्य युक्त्या गुडजिह्विकाभि: तत् प्रपाययति। तथा ईश्वर: अपि रागिव्रजोपकृतये यागान् विदधाति।
गङ्गा - आप्तो भिषगिति- हि निश्चयेन, आप्तो दक्ष: भिषक् वैद्य:। 'रोगहार्यगदङ्कारो भिषग्वैद्यौ चिकित्सकेÓ इत्यमर:। कटुकौषधपानरुष्टं कटुकौषधस्य पानेन रुष्टं बालं शिशुम् अस्य बालस्य रुचिम् अनुसृत्य युक्त्या उपायेन गुडजिह्विकाभि: गुडादिमधुरपदार्थै: तत् औषधं प्रपाययति। न तु बालोऽयमौषधं पातुं न वाञ्छतीति कृत्वा ततो विरतो भवति। तथैव ईश्वर: अपि रागिव्रजोपकृतये रागिणां सांसारिकाणां व्रज: समूह:। 'व्रजो गोष्ठाध्ववृन्देषुÓ इति मेदिनी। तस्योपकृतये कल्याणाय यागान् विदधाति। अतस्तेषु हिंसाजनितदोषसत्त्वेऽपीष्टापत्तिरित्यर्थ:।
अनुवाद - निश्चय ही निपुणवैद्य कड़वी दवा के पीने से नाराज बालक की रुचि का अनुसरण करता है और युक्ति पूर्वक गुडजिह्विका से उस बालक को औषधि पिलाता है। इसी प्रकार ईश्वर भी सांसारिकों के उपकार के लिए यज्ञों का विधान करता है। अत: उन यागों में हिंसाजनित दोष होने के बाद भी इष्ट की प्राप्ति होती है।
।। ५९।।
त्वच्छास्त्र एव निपतेयुरमी अवार्या
वैषम्यनिष्करुणताजडताख्यदोषा:।
रागाभिभूतजनतासमुपेक्षणे वा
तत्कृत्यशक्यकटुसंयमबोधने वा।।
अन्वय: - रागाभिभूतजनतासमुपेक्षणे वा तत्कृत्यशक्यकटुसंयम बोधने वा त्वच्छास्त्र एव अभी अवार्या वैषम्यनिष्करुणताजडताख्यदोषा: निपतेयु:।
गङ्गा - वेदाक्तौ वैषम्यादिदोषाभावं प्रति पादयति- त्वच्छास्त्रेति- रागाभिभूतजनतासमुपेक्षणे रागेण अनुरागेण अभिभूताया: पराहताया जनताया: समुपेक्षणं वञ्चनं तस्मिन् वा, तत्कृत्यशक्यकटुसंयमबोधने वा, तस्या जनताया: कृत्येन शक्या: सम्पादनयोग्या ये कटुसंयमा: कठिनधर्मनियमा विवसनत्वादय: तेषां बोधने उपदेशे अमी अवार्या: वैषम्यनिष्करुणताजडताख्यदोषा: वैषम्यं विषमता, अनभ्यास एव सत्याहिंसादीनामुपदेशात् विषमता। निष्करुणता नानाकठिनव्रतोपदेशात् निष्करुणता विवसनतया च जडता। त एते विषमतानिष्करुणतादयो दोषास्त्वच्छास्त्र एव जिनोपदिष्टशास्त्र एव निपतेयुर्न मम शास्त्र इत्यर्थ:।
अनुवाद - राग से अभिभूत जनता की उपेक्षा से, उसके कृत्यकर्म के रूप में कठिन संयम के बोधन से तुम्हारे शास्त्र में ही ये अवार्य विषमता, निष्करुणता और जड़ता नामक दोष आ पड़ेगी। हमारे शास्त्र में इन दोषों की सम्भावना नहीं है।
।। ६०।।
दण्डार्हणे गुरुलघू गुणतारतम्य-
द्रष्टु: प्रभोस्तु गुण एव न पक्षपात:।
दण्डाल्पता न दमयेत्खलमल्पपूजा
नोत्साहयेच्च गुणिनं गुणवृद्ध्युपाये।।
अन्वय: - दण्डार्हणे गुरुलघू गुणतारतम्यद्रष्टु: प्रभो: तु गुण एव (भवति) न (तु) पक्षपात:। दण्डाल्पता खलं न दमयेत्। गुणवृद्ध्युपाये अल्पपूजा च गुणिनं न उत्साहयेत्।
गङ्गा - दण्डार्हण इति- दण्डार्हणे दण्डश्च अर्हणं च दण्डार्हणे। दण्ड: सपर्य चेत्यर्थ:। 'सपर्याञ्र्चाऽर्हणा: समाÓ इत्यमर:। गुरूलघू गौरवलाघवे गुणतारतम्यद्रष्टु: गुणानुपातनिर्धारयितु: प्रभो: स्वामिन: तु गुण एव भवति न पक्षपात:। दण्डाल्पता दण्डस्य अपराधिनो नियमनोपायस्य अल्पता न्यूनता खलं दुर्जनं दमयेत्, न विनाशयेत्। तथैव गुणवृद्ध्युपाये गुणानां वृद्धे: साधने अल्पपूजा स्वल्पसमर्चा पुरस्कृतिदित्यर्थ:। गुणिनं गुणोपेतं विद्वांसं न उत्साहयेत्। अत: उभयत्र तारताम्यमावश्यकमिति भाव:। सोऽयं प्रभोर्गुण: कौटिल्यार्थशास्त्रादौ प्रतिपादित:।
अनुवाद - दण्ड और पुरस्कार में गौरव लाघव करना गुण के तारतम्यद्रष्टा स्वामी का गुण ही होता है। वहाँ उसका पक्षपात नहीं होता। दण्ड की अल्पता से दुष्ट का दमन नहीं हो सकता। इसी प्रकार गुण की वृद्धि के उपाय में अल्प पुरस्कार उस गुणी विद्वान् को उत्साहित नहीं कर सकता।
।। ६१।।
माद्येत्खलो गुरुतरार्चनया कुलीनो
दण्डे महीयसि कृते भृशुमुद्विजेत्।
यायाद्विपर्ययमनेन च लोकयात्राऽऽ-
यत्यां शुभं विदधदेष न पक्षपात:।।
अन्वय: - गुरुतरार्चनया खल: माद्येत्। महीयसि दण्डे कृते कुलीन: भृशम् उद्विजेत। अनेन च लोकयात्रा विपर्ययं यायात्। आयत्यां शुभं विदधत् एष पक्षपात: न (अस्ति)।
गङ्गा - वेदोक्तिपक्षपातदोषं निराकरोति- माद्येदिति- गुरुतराचार्यनया महत्या पूजया खल: दुष्ट: माद्येत् मदान्वितो भवेत्। महीयसि विशाले दण्डे कृते कुलीनो गुणी भृशमत्यधिकम् उद्विजेत, उद्वेगं गच्छेत्। अनेन गुरुतरार्चनेन महीयसा दण्डेन च लोकयात्रा विपर्ययं विरुद्धं यायात्। आयत्याम् उत्तरकाले च शुभं कल्याणं विदधत् तारतम्यद्रष्टु: प्रभो: दण्ड: पुरस्कारो वा पक्षपात: न अस्ति। स तु तस्य गुण एव। स्मृतिकारैरपि अपराधानुसारिदण्डे निर्दिष्ट:। अतो न प्रभोस्तथा विधानं तत्पक्षपाताय कल्पत इत्यर्थ:।
अनुवाद - बड़ी अर्चना पाकर दुष्ट मदान्वित हो सकता है। महान् दण्ड का विधान कर देने से कुलीन अत्यधिक उद्विग्न हो सकता है। इससे लोकयात्रा भी उलट सकती है। बाद में शुभफल देने वाला गौरव-लाघवयुक्त राजा का विचार उसका पक्षपात नहीं कहा जा सकता।
।। ६२।।
भूमिं मुहु: कृषति य: स लभेत पुष्टं
धान्यं कृशं त्वलस इत्यतिरात्रयागे।
यष्टा ग्रहग्रहणहानिकृतप्रकर्ष-
काश्र्यं फ लं समधिगच्छतु को विरोध:।।
अन्वय: - य: मुहु: भूमिं कृषति स पुष्टम् अलस: (च) कृशं धान्यं लभेत इति अतिरात्रयागे यष्टा ग्रहग्रहणहानिकृतप्रकर्षकाश्र्यं फलं समधिगच्छतु। (तत्र) क: विरोध:?
गङ्गा - वेदे परस्परविरोधशङ्कां दूरीकुर्वन्नाह- भूमिं मुहुरिति- य: कृषक: मुहु: भूयोभूय: भूमिं कृषति कृषियोग्यां निर्माति स पुष्टमथ च अलस: भूमिकर्षणे शिथिल: च कृषक: कृशं स्वल्पं फलं लभेत। इति एवमेव अतिरात्रयागे यष्टा ग्रहग्रहणहानिकृतप्रकर्षकाश्र्यं ग्रह: ग्रहणं च ग्रहणहानिरग्रहणं च, ताभ्यां कृतं सम्पादितं प्रकर्षकाश्र्यं पुष्टं कृषं च फलं तदधिगच्छतु प्राप्नोतु। तत्र को विरोध:। न कोऽपीत्यर्थ:। ग्रहणेन प्रकर्षं ग्रहणाभावे च कृशं फलमिति विवेक:। एतेन 'त्वं षोडशिग्रहÓ इत्यादिना पूर्वं प्रदर्शितमतिरात्रयागस्य विरोधा निराकृत:। तत्र षोडशिग्रहणेन फलाधिक्यं तदग्रहणेन च फलनैयून्यमिति ग्रहणाऽग्रहणेन कश्चन विरोध इति तात्पर्यम्।
अनुवाद - जो किसान बार बार खेत जोतता है वह पुष्ट धान्य प्राप्त करता है। भूमिकर्षण में आलस्य करने वाले आलसी को कमजोर फल की प्राप्ति होती है। इसी प्रकार अतिरात्रयाग में याजक षोडशी के ग्रहण से प्रकृष्टफल को प्राप्त करता है, उसका ग्रहण न करने पर उसे कृशफल की प्राप्ति होती है। इसमें विरोध क्या है? अधिक फल की कामना करने वाला अतिरात्र में षोडशी का ग्रहण करे। कम फल चाहने वाला उसका ग्रहण न करे।
।। ६३।।
आवश्यकत्वमलसाशुकृतोर्विवक्षु-
र्होमोदितानुदितकालयुगं विधाय।
एकं प्ररोचयितुमन्यमधिक्षिपन्ती
तात्पर्यतो न लभते श्रुतिवाग्विरोधम्।।
अन्वय: - अलसाशुकृतो: आवश्यकत्वं विवक्षु: होमोदितानुदितकालयुगं विधाय एकं प्ररोचयितुम् अन्यम् अधिक्षिपन्ती श्रुतिवाक् तात्पर्यत: विरोधं न लभते।
गङ्गा - पूर्वोक्तश्रुतिवचनविरोधशङ्कां परिहरन्नाह- आवश्यकत्वमिति- अलसश्च आशुकृच्च अलसाशुकृतौ तयो: आवश्यकत्वं होमकर्मणोऽवश्यकर्तव्यत्वं विवसु: दिदिक्षु: श्रुति: होमोदितानुदितकालयुगं विधाय होमस्य हवे: उदितानुदितकालयो: उदयास्तसमययो: युगं युग्मं विधाय एकम् उदिते यो जुहोति तं प्ररोचयितुं कर्मणि प्रवर्तयितुम् अन्यम् अनुदिते होतारम् अधिक्षिपन्ती श्रुतिवाक् 'श्यावो वास्याहुतिमभ्यवहरति योऽनुदितेÓ इत्यादि वेदवचनं तात्पर्यतोऽभिप्रायात् विरोधं न लभते, न प्राप्नोति। यत्पर: शब्द: स शब्दार्थ इति न्यायात् परनिन्दायां श्रुतितात्पर्याभावान्न तत्र विरोध:। परिगृहीतत्यागे निन्दोपपत्तेश्चेत्यपि बोध्यम्। एतेन 'श्रुत्वोदितानुदितेÓत्यादिपद्ये पूर्वं प्रदर्शितो वेदवचनविरोधो निराकृत:। उदिते विहिते होमकर्मणि अलसो न तत्सम्पादने प्रभवेदिति अनुमितेऽपि तदुपदेश इत्यर्थ:।
अनुवाद - श्रुति मे यज्ञ अवश्यकर्तव्य माना गया है। आलसी तथा शीघ्र कार्यसम्पन्न करने वाले को उस होम कर्म की आवश्यकर्तव्यता बताने के लिए ही वहाँ होम काल के उदित और अनुदितकालविभाग किए गए हैं। इस कालविभाग से एक को कर्म में प्रवृत्त करने के लिए दूसरे पर आक्षेप करती हुई श्रुति तात्पर्यत: विरोध को प्राप्त नहीं करती।
।। ६४।।
मन्देषु विस्मरणशालिषु बोधनीये-
ष्वावृत्तिरेव दृढसंस्कृतिकृत् प्रसिद्धा।
अभ्यस्यते च विपरीतमतार्दनाय
तत्पौनरुक्त्यमिह भूषणमेव वेदे।।
अन्वय: - मन्देषु विस्मरणशालिषु बोधनीयेषु आवृत्ति: एव दृढसंस्कृतिकृत् प्रसिद्धा (अस्ति)। विपरीतमतार्दनाय च अभ्यस्ते। तत् इह वेदे पौनरुक्त्यं भूषणम् एव (अस्ति)।
गङ्गा - वेदे पूर्वोक्तपौनरुक्त्यदोषं निराकरोति- मन्देष्विति- मन्देषु अल्पबुद्धिषु विस्मरणशालिषु बोधनीयेषु बोधनयोग्येषु शिष्येषु आवृत्ति: पुन: पुनरभ्यास शिष्ये संस्कारत्वेन स्थापयतीत्यर्थ:। अथ च ये विज्ञास्तैरपि स्वविषयक: विपरीतमतार्दनाय विरोधिमतनिराकरणाय अभ्यस्यते। तत् तस्मात् इह वेदे पौनरुक्त्यं पुन: पुनरुक्ति: भूषणमलङ्करणमेव विद्यते, न तु दोष:। अतो न छान्दोग्ये षष्ठप्रपाठके तत्त्वमसीति वाक्यस्य नवधाऽभ्यासो दोषाय भवति। स तु शिष्यसंस्काराय विपरीतमतार्दनाय च पुनरुक्त इति तत्र तव दोषोद्भावना निर्मूलैव।
अनुवाद - मन्द, विस्मरणशील बोधनीय शिष्यों में आवृत्ति से दृढ़तर संस्कार उत्पन्न होता है। विज्ञ लोग विपरीत मत को परास्त करने के लिए भी अपने विषय का पुन: पुन: अभ्यास करते हैं। इसलिए वेद में पुनरुक्ति भूषण ही है, दोष नहीं।
।। ६५।।
कूटाहवाधिककराहृतभूरिवित्त-
सत्यानुतप्तनृपचित्तविशोधनाय।
चेद्विश्वजित्यखिलदानमुवाच वेद-
स्तन्नात्मनीनमिति को विवदेत मूर्ख:।।
अन्वय: - वेद: कूराहवाऽधिककराहृतभूरिवित्तसत्यानुतप्तनृपचित्तविशोधनाय विश्वजिति अखिलदानम् उवाच चेत्, तत् आत्मनीनं न (अस्ति) इति क: मूर्ख: विवदेत?
गङ्गा - विश्वजिति राज्ञ: सर्वस्वदानं समर्थयन्नाह- कूटाहवेति- वेद: कूटाहवाधिककराहृतभूरिवित्तसत्यानुतप्तनृपचित्तविशोधनाय, कूटाहव: कपटयुद्धं च अधिकराहृतं रक्षादिमिषेण प्रजाभ्योऽधिककरग्रहणं च भूरिवित्तं च सत्यं च तै: अनुतप्तस्य नृपस्य राज्ञश्चित्तस्य विशोधनाय शुद्धये। 'आहव: सङ्गरे यज्ञेÓ इति हैम:। विश्वजिति तन्नामके यज्ञे अखिलदानं राज्ञ: सर्वस्वदानम् उवाच निर्धारयामास चेत्, तत् सर्वस्वदानम् आत्मनीनम् आत्मने हितजनकं नास्ति इति क: मूर्ख: विवदेत? न कोऽपीत्यर्थ:। विश्वजिति सर्वस्वदानं राज्ञश्चित्तशोधनाय भवतीति तदात्मनीनमेवेति भाव:। एतेन पूर्वं सर्वस्वदानमिति इत्यादिना वेदस्य आत्मनो हिताऽजनकत्वं यदुक्तं तन्निराकृतम्। विश्वजिति सर्वस्वदानमपि राज्ञ: कल्याणायैवोपदिष्टमित्यर्थ:। गर्हितमार्गेणाऽर्जितधनस्य त्याग एव पारलौकिकहितस्योभय सम्प्रतिपन्नत्वादिति भाव:।
।। ६६।।
एकान्तविप्रहननादिमहाघनाश-
मीप्सन् तदप्रकटयन् श्रुतिवित् स्वशुद्ध्यै।
सुत्वा जुहोतु निजदेहमपायि सर्व-
स्वारक्रतौ प्रवयसो ऽस्त्वथ वैष पन्था:।।
अन्वय: - एकान्तविप्रहननादिमहाघनाशम् ईप्सन् तत् अप्रकटयन् श्रुतिवित् स्वशुद्ध्यै अपायि निजदेहं सुत्वा सर्वस्वारक्रतौ जुहोतु। अथ वा प्रवयस: एष पन्था: (अस्ति)।
गङ्गा - सर्वस्वारक्रतौ यजमानतनूनिपातस्याऽदोषतां निरूपयति- एकान्तेति- एकान्तविप्रहननादिमहाघनाशम् नितान्तब्राह्मणवधादिमहापापविनाशम् ईप्सन् वाञ्छन् तत् पापम् अप्रकटयन् अकथयन् श्रुतिवित् वेदवेत्ता स्वशुद्ध्यै आत्मन: पवित्रतायै अपायि विनाशि निजदेहं सुत्वा सवनं कृत्वा सर्वस्वारक्रतौ तन्नामके यज्ञे जुहोतु त्यजतु। अथ वा तथात्वाभावे प्रवयस: कर्माशक्तस्य एष पन्था: अस्ति। अयं सर्वस्वारकतु: एकाहयागेषु परिगणित:। क्वचित् शुनकर्णस्तोमनाम्नाऽप्यस्य व्यवहार:। 'मरणकामस्य सर्वस्वार:Ó (का.श्रौ. २२.६.१) इत्यनेन मरणकामायैवाऽयं विहित:। कर्माशक्तस्य भृग्वग्निपातादीनां शास्त्रानुमतत्वादिति भाव:।
अनुवाद - अत्यधिक विप्रवध आदि महापापों का विनाश चाहने वाला, अपने पापों को प्रकट न करता हुआ, वेदवेत्ता विनाशशाली अपने देह का सवन करके सर्वस्वार क्रतु में हवन करे। अथवा कर्माशक्त वृद्ध के लिए यह मार्ग है। मरणकाम के लिए ही इस क्रतु का विधान है। मरणकाम के लिए विहित होने के कारण यह यज्ञ दूष्य नहीं है।
।। ६७।।
एषा दिगेव कथिता न तु सर्वमद्य
शक्यं प्रवक्तुमतिविस्तृतशास्त्रगम्यम्।
श्रद्धास्यते यदि तदा तव जैमिनीयं
वैयासिकञ्च वदितास्मि मतं क्रमेण।।
अन्वय: - एषा दिक् एव कथिता। अतिविस्तृतशास्त्रगम्यं तु अद्य प्रवक्तुं न शक्यम्। यदि श्रद्धास्यते, तदा क्रमेण तव जैमिनीयं वैयासिकं च मतं वदितास्मि।
गङ्गा - एषेति- एषा पूर्वप्रतिपादनरीत्या दिक् एव कथिता दिङ्मात्रं निर्दिष्टं न तु विदन्तर:। अतिविस्तृतशास्त्रगम्यं तु अद्य अस्मिन् काले वक्तुं न शक्यम्, एकैकस्मिन्नपि विषये महत: प्रपञ्चस्यावश्यकत्वात्। यदि त्वया विलासिना श्रद्धास्यते तदा क्रमेण क्रमशोऽग्रे जैमिनीय मतं मीमांसाशास्त्रं वैयासिकं वेदान्तशास्त्रं, पूर्वोत्तरमीमांसासिद्धान्तं वदितास्मि। यथाकालं तव श्रद्धानुसारेण प्रतिपादयिष्यत इत्यर्थ:।
अनुवाद - यह केवल शास्त्रों का दिङ्निर्देश मात्र है। अतिविस्तृत शास्त्रतत्त्वों का कथन आज सम्भव नहीं है। यदि चाहोगे तो क्रमश: में तुम्हारे लिए मीमांसा और वेदान्त शास्त्रों का कथन करूँगा।
।। ६८।।
सर्वं न वैदिकवचो ऽधिकरोति सर्वान्
लालाटिक: श्रुतिगिरामखिलोऽनुकम्प्य:।
वीक्ष्याधिकारमुपयोजय वेदवाक्यं
तेनापयात्यहितवादविरोधशङ्का।।
अन्वय: - सर्वं वैदिकवच: सर्वान् न अधिकरोति अखिल: लालाटिक: श्रुतिगिराम् अनुकम्प्य:। अधिकारं वीक्ष्य वेदवाक्यम् उपयोजय। तेन अहितवादविरोधशङ्का अपयाति।
गङ्गा - सर्वं नेति- सर्वं वैदिकवच: श्रुतिवचनं सर्वान् जनान् न अधिकरोति अधिकारं प्रयच्छति। य: यस्मिन्नधिकृतस्तं तस्मिन्नेव योजयतीत्यर्थ:। अखिल: समग्र: लालाटिक: तन्मुखप्रेक्षी। तदधीन इति यावत्। श्रुतिगिरां वेदवचसाम् अनुकम्प्य: कृपापात्रं विद्यते। वर्णानुसारिव्यवस्थया सर्वान् स्वस्वकर्मसु योजयति वेदवचनमित्यर्थ:। अत एव स्वस्य अधिकारं वीक्ष्य वेदवाक्यमुपयोजय। तदुपयोगाय सन्नद्धो भव। नाऽनधिकारचेष्टाऽत्र अनुमन्यते। तेन अधिकारानुसारेण उपयोजनया अहितवादविरोधशङ्का अहितस्य पक्षपातस्य विरोधस्य च शङ्का अपयति दूरीभवति। एतादृशशङ्कावसरस्तु अनधिकारचेष्टयैव सम्भवति।
अनुवाद - सभी वैदिकवचन सबके लिए अधिकृत नहीं हैं। जिसका अधिकार जहाँ है, वैदिक वचन उसे वहीं अधिकृत करते हैं। सभी मुखप्रेक्षी लोग वैदिकवचनों के अनुकम्प्य हैं। वह किसी एक वेदवाक्य का उपयोग करो। इससे तुम्हारे मन में हो रही अहित, पक्षपात और विरोध की शङ्का स्वयं दूर हो जाएगी।
।। ६९।।
नव्या कृतिर्भवतु पाणिनिसूत्रनिघ्ना
न व्याकृति: श्रुतिवचोनियमाय शक्ता।
श्रौतं पदं तु मुनिनैव पृषोदरादौ
शिष्टोपदिष्टमिति साधुतयाऽनुमेने।।
अन्वय: - नव्या कृति: पाणिनिसूत्रनिघ्ना भवतु। व्याकृति: श्रुतिवचोनियमाय न शक्ता (अस्ति)। मुनिना एव श्रौतं पदं तु पषोदरादौ शिष्टोपदिष्टम् इति साधुतया अनुमेने।
गङ्गा - नव्या कृतिरिति- नव्या कृतिरभिनवेन केनचित् पुरुषेण लिखिता कृति: पाणिनिसूत्रनिघ्ना पाणिनिसूत्राश्रिता भवतु, न अपौरुषेयाणि वेदवचनानि तदाश्रितानि। 'अधीनो निघ्न आयत्तÓ इत्यमर:। व्याकृति: व्याकरणशास्त्रं श्रुतिवचोनियमाय वेदवचनसाधुत्वासाधुत्वनिरूपणाय न शक्ता अस्ति। अत एव मुनिना पाणिनिना एव श्रौतं श्रुतिसम्बन्धिपदं पृषोदरादौ गणे शिष्टोपदिष्टं साक्षात् परमेश्वरेण प्रयुकतमिति कृत्वा साधुतया अनुमेने। अत: सामान्यपुरुषकृतवचनानां साधुत्वासाधुत्वनियमनायैव पाणिनिना व्याकरणं प्रणीतं न तु वेदवचनानामित्यर्थ:। अनेन त्वया पूर्वं जर्फरीत्वित्यादिप्रयोगदृष्ट्या वेदवचने समुत्पादितदोषो निरस्त:।
अनुवाद - नई कृति पाणिनि सूत्रों के अधीन होती हैं। व्याकरण श्रुतिवचनों के नियम में समर्थ नहीं है। इसलिए मुनि पाणिनि ने श्रौत पदों को पृषोदरादि गण में शिष्टोपदिष्ट होने के कारण साधु माना है। अत: तुम्हारे द्वारा वेदवचनों में व्याकरणसंस्कारहीन कह कर जो दोष कहा गया था, वह स्वयं निरस्त है।
।। ७०।।
स्तोकं वुबोधयिषुरल्पमति: शिशुर्वा
संक्षेपमाश्रयतु वाचि तथा न वेद:।
वर्णाश्रमेतरहिताहितबोधनाय
बद्धोद्यमो वदति यद्बहु तन्न दुष्टम्।।
अन्वय: - स्तोकं बुबोधयिषु: अल्पमति: शिशु: वा वाचि सक्षेपम् आश्रयतु। वेद: तथा न (अस्ति)। वर्णाश्रमेतरहिताहितबोधनाय बद्धोद्यम: यत् बहु वदति तत् दुष्टं न (अस्ति)।
गङ्गा - वेदानां विस्तृतिरूपदोषं निराकुर्वन्नाह- स्तोकमिति- स्तोकं स्वल्पं बुबोधयिषु: बोधनेच्छु: अल्पमति: शिशु: वा वाचिसंक्षेपम् आश्रयतु। परमेश्वरस्य नि:श्वासभूत: सर्वज्ञानमूलो वेद: तथा संक्षिप्तवाक् न अस्ति। स तु सर्वं विषयं विस्तरेण प्रतिपादयति। वर्णाश्रमेतरहिताहितबोधनाय वर्णाश्रमेतराणां वर्णाश्रमभिन्नानां हिताहितबोधनाय कल्याणाऽकल्याणप्रतिपादनाय बद्धोद्यमो यत् बहु वदति विस्तरेण प्रतिपादयति तत् दुष्टं नास्ति। तादृश प्रतिपादनं तस्य स्वभाव एवेति न विस्तरस्तद्दोषाय कल्पत इति भाव:।
अनुवाद - स्वल्प बोध कराने का इच्छुक अल्पमति या शिशु अपनी वाणी में संक्षेपेण करे। वेद ऐसा नहीं है। वह सभी विषयों का प्रतिपादन विस्तार से करता है। वेद वर्णाश्रम से इतर हित और अहित का बोध कराने के लिए बद्धपरिकर है। इसके लिए यदि वह विस्तार से प्रतिपादन करता है तो वह उसका दोष नहीं है।
।। ७१।।
शाखासहस्रगहने श्रुतिकल्पवृक्षे
स्वस्वोपयुक्तमधिगत्य गुरुप्रसादात्।
तन्मात्रमाचर शुभं धु्रवमाप्स्यसि त्वं
वेदेऽखिलेऽनधिगतेऽपि न काऽपि हानि:।।
अन्वय: - शाखासहस्रगहने श्रुतिकल्पवृक्षे गुरुप्रसादात् स्वस्वोपयुक्तम् अधिगत्य तन्मात्रम् आचर। त्वं धु्रवं शुभम् आप्स्यसि। अखिले वेदे अनधिगते अपि न कापि हानि: (भवति)।
गङ्गा - शाखासहस्रेति- शाखासहस्रगहने, शाखानां शाकलवाष्कलादिवेदशाखानां सहस्रमसङ्ख्यं तैर्गहने सघने, सर्वत आच्छादिते श्रुतिकल्पवृक्षे श्रुतिर्वेद एव कल्पवृक्ष: कामप्रदो देवतरुस्तस्मिन् सति गुरुप्रसादात् गुरोरुपासनया स्वस्वोपयुक्तं निजनिजकर्मोपयोगि तत्त्वमधिगत्य सम्प्राप्य तन्मात्रम् अधिगतमात्रम् आचर व्यवहर। सर्वाधिगतेर्न किमपि प्रयोजनम्। अधिगतमात्रस्य आचरणेन त्वं ध्रुवं निश्चयेन शुभं कल्याणम् आप्स्यसि प्राप्स्यसि। अखिले वेदे अनधिगते अप्राप्तेऽपि न काऽपि हानिस्तन्मात्राचरणे कल्याणप्राप्तेदित्यर्थ:। अतो न समग्रशाखाऽध्ययनस्यावश्यकतेति भाव:। यावदधीतं तदाचरणेनैव शुभोदयात्।
अनुवाद - असंख्य शाखाओं से सघन वेदरूप कल्पवृक्ष से गुरु की कृपा से अपने अपने लिए उपयोगी तत्त्वों को प्राप्त करो और उस प्राप्तमात्र का आचरण करो। इससे निश्चय ही तुम्हें कल्याण की प्राप्ति होगी। समग्र वेद की प्राप्ति से भी कोई हानि नहीं है। अत: तुम्हें इसके विस्तार से भयभीत होने की आवश्यकता नहीं।
।। ७२।।
निर्हेतुको न कृतक: सुखदु:खभेद:
पुण्यैनसी इह निदानतया तवेष्टे।
आदेशने ऽस्य सकलस्य भवे ह्यनादौ
नित्या श्रुति: शरणमाधुनिकं न शास्त्रम्।।
अन्वय: - सुखदु:खभेद: निर्हेतुक: कृतक: (वा) न (विद्यते)। इह पुण्यैनसी निदानतया तव इष्टे (स्त:)। हि अनादौ भवे अस्य सकलस्य आदेशने नित्या श्रुति: शरणं न आधुनिकं शास्त्रम्।
गङ्गा - निर्हेतुक इति- सुखदु:खभेद: आनन्दक्लेशप्योर्भिन्नता निर्हेतुको हेतुरहित: कृतक: कृत्रिमोऽनित्यो वा न अस्ति। तत्र कश्चन हेतुरवश्यं विद्यत एव। अतश्च पुण्यैनसी पुण्यं च एन: अपराध: पापं चेति पुण्यैनसी। 'एन: पापापराधयो:Ó इति कोश:। अनयो: सुखदु:खयो: निदानतया कारणतया तव इष्टे स्त:। पुण्येन सुखं पापेन च दु:खं जायत इति सुखदु:खयो: कारणतया पापपुण्ये त्वमपि स्वीकरोषि। हि निश्चयेन अनादौ आदिरहिते भवे संसारे अस्य सकलस्य सुखदु:खभेदस्य आदेशने आज्ञापने नित्या श्रुति: एव शरणम्। आधुनिकं त्व शास्त्रं तस्मिन्न समर्थ इति जिनवचनं परित्यज्य श्रुतिमनुसरेति भाव:।
अनुवाद - सुख और दु:ख का भेद निर्हेतुक अथवा कृत्रिम नहीं है। इस विषय में निदान के रूप में तुम्हें भी पाप और पुण्य इष्ट हैं। पुण्य से सुख और पाप से दु:ख की प्राप्ति तुम भी मानते हो। इस अनादि संसार में इस समस्त सुखदु:ख के भेद के आदेश में नित्यश्रुति ही शरण है। तुम्हारा आधुनिक शास्त्र नहीं।
।। ७३।।
इत्युद्धृता श्रुतिषु दूषणसप्तभङ्गी
त्वत्प्रीतये त्वदुदितेन पथैव तावत्।
उत्सर्गबाधकबलाबलचिन्तया तु
ज्ञेयं गुरूँश्चिरमुपास्य रहस्यमस्य।।
अन्वय: - इति श्रुतिषु दूषणसप्तभङ्गी तावत् त्वत्प्रीतये त्वदुरितेन पथा एव उद्धृता। गुरून् चिरम् उपास्य उत्सर्गबाधकबलाबलचिन्तया तु अस्य रहस्यं ज्ञेयम्।
गङ्गा - इत्युद्धृतेति- इति एवम्प्रकारेण श्रुतिषु वेदेषु दूषणसप्तभङ्गी त्वया पूर्वमुद्भाविता: ये सप्तश्रुतिदोषास्तेषां दूषणानां सप्तानां भङ्गी भङ्गिमा। सौन्दर्यमिति यावत्। अज्ञानेन यत् त्वं दोषतया स्वीकरोषि तदेव श्रुतेर्वैशिष्ट्यमिति भाव:। तावत् त्वत्प्रीतये तव जैनमतानुयायिनो विलासिन आनन्दाय त्वदुदितेन त्वत्कथितेन मार्गेण एव उद्धृता स्थापिता। त्वयोत्थापिता दोषास्त्वन्मार्गेणैव निराकृता इत्यर्थ:। गुरून् श्रुतितत्त्वदक्षान् उपास्य पूजयित्वा उत्सर्गबाधकबलाबलचिन्तया तु सामान्यविशेषयो: सबलतां निर्बलतां च विचार्य तेन अस्य श्रुते: रहस्यं तत्त्वं ज्ञेयम्। गूरूपासनां विना न त्वं श्रुतिरहस्यं ज्ञातुं शक्नोषीत्यर्थ:।
अनुवाद - इस प्रकार तुम्हारे द्वारा पूर्व में उठाए गए सातों दोषों की भंगिमा यहाँ तुम्हारी प्रसन्नता के लिए, तुम्हारे द्वारा कहे गए मार्ग से ही उद्धृत की गयी है। गुरुजनों की चिरकाल तक उपासना करके उत्सर्ग और बाधक के बलाबल का विचार करके ही तुम श्रुति का रहस्य जान सकते हो।
।। ७४।।
किञ्चित्तु तत्त्वमधुनोपदिशामि तुभ्यं
येनाशु नाशितविपर्ययसंशयस्त्वम्।
विश्वस्य वैदिकवचस्मु निजेष्टसिद्ध्यै
चेष्टिप्यसे क्रमश एव विमोक्ष्यसे च।।
अन्वय: - अधुना तु किञ्चित् तत्त्वं तुभ्यम् उपदिशामि। येन नाशितविपर्ययसंशय: त्वं वैदिकवचस्सु विश्वस्य निजेष्टसिद्ध्यै आशु चेष्टिष्यसे क्रमश: एव विमोक्ष्यसे च।
गङ्गा - किञ्चित्त्विति- अधुना त्वदुत्थापितं श्रुतिदूषणं निरस्य किञ्चित् श्रुतितत्त्वं तुभ्यं विलासिने उपदिशामि कथयामि। येन ममोपदेशेन नाशितविपर्ययसंशय: विपर्ययश्च संशयश्चेति विपर्ययसंशयौ, नाशितौ श्रुतिविषयकौ विपर्ययसंशयौ यस्य स:। ज्ञातश्रुतिस्वरूपस्त्वं वैदिकवचस्सु श्रुतिवचनेषु विश्वस्य विश्वासं कृत्वा निजेष्टसिद्ध्यै आशु शीघ्रं चेष्टिष्यसे चेष्टावता भूयसे। क्रमश: एव ममोपदिष्टाचरणात् विमोक्ष्यसे च मुक्तेन भूयसे च। श्रुतिप्रतिपादितमोक्षस्त्वया साक्षात्करिष्यत इत्यर्थ:।
अनुवाद - अब तुम्हें श्रुति का स्वरूप ज्ञात हो चुका है। अत: अब मैं तुम्हें श्रुतिप्रतिपादित कतिपय तत्त्वों का उपदेश दूँगा। जिससे तुम्हारे श्रुतिविषयक संशय और विपर्यय का विनाश होगा और श्रुतिवचनों पर विश्वास करके अपनी इष्टसिद्धि के लिए शीघ्र ही चेष्टा करोगे। जिससे तुम्हें मुक्ति भी प्राप्त होगी।
।। ७५।।
जन्मस्थितिप्रलयकारणमस्य विश्व-
स्यैकं हि नित्यमखिलज्ञमुपेहि तत्त्वम्।
नित्यत्वमस्य जहतामनवस्थिति: स्या-
त्सर्वज्ञता त्वखिलकर्तृतयाऽभ्युपेया।।
अन्वय: - अस्य विश्वस्य जन्मस्थिति प्रलयकारणम् एकं नित्यम् अखिलज्ञं तत्त्वम् उपेहि। अस्य नित्यत्वं जहताम् अनवस्थिति: स्यात्। सर्वज्ञता तु अखिलकर्तृतया अभ्युपेया।
गङ्गा - जन्मस्थितीति- अस्य विश्वस्य ब्रह्माण्डस्य जन्मस्थितिप्रलयकारणं जन्म उत्पत्तिश्च स्थिति: सत्ता च प्रलयो विनाशश्चेति तत्कारणम् एकं नित्यं त्रिकालाबाधितम् अखिलज्ञं सर्वज्ञं तत्त्वं ब्रह्म उपेहि जानीहि। अस्य जगज्जन्मस्थितिप्रलयकारणस्य नित्यत्वं जहतां परित्यजताम् अनवस्थितिरनवस्था स्यात्। सर्वज्ञता सर्ववेतृता तु अखिलकर्तृतया सर्वकारणतया अभ्युपेयाऽवगन्तव्या न पुन: कृतकसर्वज्ञतेति। अतश्च सर्वशक्तियुक्तपरादेवता एव अखिलकर्तृतया सर्वज्ञ:। तथा च श्रुति:सर्वकर्मा सर्वकाम: सर्वगन्ध: सर्वरस: (छा. ३.१४.४) अतश्च त्वया स एव सर्वज्ञ उपास्य इति भाव:।
अनुवाद - इस विश्व की उत्पत्ति, सत्ता और प्रलय का कारण एक, नित्य और अखिलज्ञतत्त्व समझो। इस तत्त्व की नित्यता न मानने वाले महान् अनवस्था दोष में पड़ जाते हैं। सर्वज्ञता तो अखिलकर्तृता से ही समझी जानी चाहिए। अनित्य और कृत्रिम सर्वज्ञता स्वीकार योग्य नहीं।
।। ७६।।
जन्येऽत्र हेत्वनुसृतौ नियताऽनवस्थो
पादानवीक्षणमृते च न कर्तृताऽस्य।
अन्योपयोगविरहादथ लाघवाच्चा-
प्यन्यत्र मानविलायाच्च तदेकमिष्टम्।।
अन्वय: - अत्र जन्ये हेत्वनुसृतौ अनवस्थोपादानवीक्षणम् ऋते च अस्य कर्तृता न नियता। अन्योपयोग विरहात् लाघवात् च अन्यत्र मानविलयात् च तत् एकम् इष्टम्।
गङ्गा - जन्येऽत्रेति- अत्र संसारस्य जन्मस्थित्यादौ जन्येऽनित्ये हेत्वनुसृतौ कारणतानिर्धारणे अनवस्थोपादानवीक्षणम् ऋते च अनवस्थाया इत्याख्यदोषस्य उपादानं प्रसक्ति: तद्वीक्षणं विना अस्य जन्यस्य कर्तृता संसारजन्मादिहेतुता न नियता न स्वीकृता। जन्यस्य हेतुत्वनिर्धारणेऽनवस्थाप्रसक्तेर्न तत्कर्तृत्वं स्वीकर्तुं शक्यत इत्यर्थ:। अन्योपयोगविरहात् सृष्ट्युत्पत्तौ अन्यस्य कस्यचित् उपयोगस्य विरहात् अभावात्। परमेश्वर: सृष्ट्युत्पत्तौ न कारणान्तरमपेक्षते। स तु अभिन्ननिमित्तोपादानं सृष्टेरिति नाऽत्राऽनवस्थापत्तिरिति श्रुतिषु प्रतिपादितम्। जन्माद्यस्य यत: (ब्र.सू. १.१.२) इत्यनेन ब्रह्मैव जगतो जन्मस्थितिलयहेतु:। इदं च ब्रह्म जगतो निमित्तकारणं तथा उपादानकारणम्। जगतो विश्वप्रपञ्चस्य कार्यजातस्य कर्तृत्वेन ब्रह्म निमित्तकारणम्, मायायां परिणाम्युपादनत्वेऽपि मायाया अधिष्ठानत्वेन स्वाधिष्ठानं विना माया न किञ्चित् कर्तुं प्रभवति इति हेतो: मायाधिष्ठानं ब्रह्म उपादानकारणम्। एवं प्रकारेण एकमेव ब्रह्म विश्वप्रपञ्चस्य निमित्तकारणमुपादानकारणमतोऽभिन्ननिमित्तोपादानकारणम्।
अतश्च तत्र अन्योपयोगविरह: सिद्ध:। लाघवात् अन्यस्य तत्त्वस्य कारणत्वकल्पने गौरवात्। अन्यत्र मानविलयात् प्रमाणाभावात् तत् ब्रह्म एकमिष्टम्। तदेव जतातो जन्मस्थितिप्रलयकारणमिति न कश्चन कृतको जन्मो वा हेतुरत्र कल्प्यते।
अनुवाद - संसार के जन्म, स्थिति और लय में किसी अनित्य की हेतुता मानने से अनवस्थादोष आता है। अनवस्था के उपादान का निरीक्षण करने से किसी अनित्य तत्त्व की जगत्कारणता नियत नहीं हो पाती। अन्य किसी उपादान के उपयोग का विरह होने के कारण, लाघव होने के कारण तथा अन्य कर्ता में प्रमाण न होने के कारण वह एक, नित्य ही जगत् के कारण के रूप में इष्ट है। श्रुतियों में उसी की जगत्कारणता, अभिन्नजगत् की उत्पत्ति, स्थिति और प्रलय में कारण है।
।। ७७।।
तद् ब्रह्म नित्यसुखसत्त्वचिदम्बुराशे-
स्तस्य प्रकाशसुखसत्त्वयुजस्तरङ्गा:।
जीवा अनादिनिजकर्मजमूत्र्तिभाजो-
ऽन्योन्यं पृथक्स्थितिभृतोऽपि ततो न भिन्ना:।।
अन्वय: - तद् ब्रह्म। नित्यसुखसत्त्वचिदम्बुराशे: तस्य प्रकाशसुखसत्त्वयुज: तरङ्गा: (सन्ति)। अनादिनिजकर्मजमूर्तिभाज: अन्योन्यं पृथक् स्थितिभृत: अपि जीवा: तत: भिन्ना: न (सन्ति)।
गङ्गा - तद् ब्रह्मेति- जगदुत्पत्तिस्थितिप्रलयकारणत्वेन इष्टं यदेकं तत्त्वं तद् ब्रह्म। तदेवब्रह्मपदेनोच्यत इत्यर्थ:। तच्चेदं ब्रह्म सच्चिदानन्दस्वरूपं विद्यते। नित्यसुखसत्त्वचिदम्बुराशे:, त्रिकालाबाधितसच्चिदानन्दसमुद्रस्य तस्य ब्रह्मण: प्रकाशसुखसत्त्वयुज: प्रकाशयुक्ता: सुखयुक्ता: सत्त्वयुक्ताश्च तरङ्गा: सन्ति। नित्य: सर्वज्ञ: सर्वगत: नित्यतृप्तो नित्यशुद्धबुद्धयुक्तस्वभावो विज्ञानमानन्दं ब्रह्म। तच्च चिद्रूपमिति श्रुतिषु बहुत्र ब्रह्मण: नित्यसच्चिदानन्दरूपता प्रत्यपादि। स चाऽयं तादृशनित्यताप्रभृतीनां समुद्र इति तत्तरङ्गा अपि तादृशा एव। अनादिनिजकर्मजमूर्तिभाज: अनादिनिजकर्मजन्यां मूर्तिं स्वरूपं योनिं भजत इति अनादिनिजकर्मजमूर्तिभाक्। ते तद्भाजोऽन्योन्यं परस्परं पृथक्स्थितिभृत: तत्तच्छरीरे पृथक् पृथक् स्थिता जीवा: तत: ब्रह्मणो भिन्ना न सन्ति। तेऽपि तद्रूपा एव। ब्रह्मैव जीवो नापर इत्यर्थ:। कर्मण: कर्तृत्वं सुखदु:खयोश्च भोक्तृत्वमस्मिन्नेव जीवे सम्भवति। जाग्रत्स्वप्नसुषुप्तिषु तिसृष्ववस्थासु जीवोऽवतिष्ठते। स्थूलसूक्ष्मकारणशरीराभिमान्ययं जीव: क्रमशो विश्वतैजसप्राज्ञसंज्ञां लभते। अविद्यावशीभूतो जीवो देहेन्द्रियै: सह तादात्म्यमधिगम्य शारीरकैन्द्रियिकमानसिकसुखदु:खानां भोक्ता भवति। अविद्यापगमे ब्रह्मसाक्षात्कारे जाते स्वस्वरूपं ब्रह्मत्वमधिगच्छति। आनन्दात्मकब्रह्मावाप्तिरेव जीवस्य मोक्ष:।
अतो न जीवो ब्रह्मभिन्न:। स तु तद्रूप एव। कर्मफलभोगायैव तस्य नानायोनिषु भ्रमणमित्यर्थ:।
अनुवाद - जगत् की उत्पत्ति, स्थिति और प्रलय के कारण के रूप में अभीष्ट जो एक तत्त्व है, वही ब्रह्म है। वह सच्चिदानन्द समुद्र रूप है। उसकी तरङ्गे भी प्रकाश (चित्) सत्त्व (सत्) और सुख (आनन्द) से युक्त हैं। अपने अनादि कर्म से जन्य शरीर को धारण करने वाले, पृथक् पृथक् स्थित रहने वाले जीव उस ब्रह्म से भिन्न नहीं है। जीव भी ब्रह्मरूप है।
टिप्पणी - वेदान्तशास्त्र में जीव को ब्रह्म से भिन्न नहीं माना गया। ब्रह्म ही देहेन्द्रिय, मन एवं बुद्धि आदि को उपाधियों से परिच्छिन्न होकर शरीरधारी जीव कहलाता है (पर एवात्मा देहेन्द्रियमनोबुद्ध्युपाधिभि: परिच्छिद्यमानो बालै: शारीर इत्युपचर्यते)। अत: ब्रह्म और जीव अभिन्न हैं। जैसे घट आदि उपाधियों के कारण अपरिच्छिन्न आकाश घटाकाश आदि के रूप में परिच्छिन्न अवभासित होता है वैसे ही अनवच्छिन्न परमात्मा देहेन्द्रियमनोबुद्धि उपाधियों से परिच्छिद्यमान सा होकर शारीर (जीव) कहलाता है। ब्रह्मबिन्दूपनिषद् (१२) में इस तथ्य को इस प्रकार स्पष्ट किया गया है-
एक एव हि भूतात्मा भूते भूते व्यवस्थित:।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत्।।
कवि ने इन्हीं तथ्यों को ध्यान में रखकर जीव को ब्रह्म से अभिन्न कहा और जैन सिद्धान्त का खण्डन किया है।
।। ७८।।
देहेन्द्रियौघमनसां स्थितिरेव मूर्ति-
र्बन्ध: स एव हि चितो विलयोऽस्य मोक्ष:।
आद्यं विभावयति शश्वदनाद्यविद्या
मोक्षं व्यनक्ति विमला चितिरित्यवेहि।।
अन्वय: - देहेन्द्रियौघमनसां स्थिति: एव मूर्ति:। स एव हि चित: बन्ध:। अस्य विलय: मोक्ष:। शश्वदनाद्यविद्या आद्यं विभावयति। विमला चिति: मोक्षं व्यनक्ति इति अवेहि।
गङ्गा - देहेन्द्रियौघेति- देहेन्द्रियौघमनसां देहश्च इन्द्रियौघ: इन्द्रियसमूहश्च मनश्च तेषां स्थिति: सत्ता एव मूत्र्ति: आकार:। स्वरूपमिति यावत्। एतै: परिच्छिन्न: परब्रह्म जीवपदवाच्यं भवति। अविद्यावशीभूतो जीवो देहेन्द्रियै: सहतादात्म्यमधिगम्य शारीरकैन्द्रियिकमानसिकसुखदु:खानां भोक्ता भवति। स एव चित: जीवस्य बन्ध: सुखदु:खभोक्तृत्वहेतु:। अस्य बन्धस्य विलय एव तस्य जीवस्य मोक्ष:। शश्वदनाद्यविद्या नित्या या आदिरहिता अविद्या सा आद्यं बन्धं विभावयति। अविद्यापगमे ब्रह्मसाक्षात्कारे विमला निर्मला चिति: मोक्षं जीवस्य मुक्तिं, सच्चिदानन्दात्मकब्रह्मप्राप्तिं व्यनक्ति प्रकटयति। इति तत्त्वम् अवेहि जानीहीति विलासिनं प्रत्युक्ति:। तदिदं तथ्यं विद्यारण्येन निर्दिष्टम्-
यथा मुञ्जादिषीकैवमात्मा युक्त्या समुद्धृत:।
शरीरतृतीयाद् घोरै: परं ब्रह्मैव जायते।।
अविद्याविनाशे स जीव: स्वस्वरूपतां प्राप्नोतीति भाव:।
अनुवाद - देह, इन्द्रियसमूह और मन की स्थिति ही उस जीव की मूर्ति है। वही उस चित् (जीव) का बन्धन है। इस बन्धन का विलय ही मोक्ष है। शश्वत् अनादि अविद्या बन्ध का कारण है। निर्मल चित् मोक्ष को व्यक्त करती है, तुम यह समझो।
।। ७९।।
अस्त्वन्यदेतदुपपाद्यमितो विदूरेऽ-
द्य प्रस्तुतं तव हितं कथयामि वत्स।
आविद्यकैस्तनुमनोऽक्षगणैर्निबद्धा
जीवा मिथ: परचितश्च विदन्ति भेदम्।।
अन्वय: - हे वत्स! एतत् उपपाद्यम् इत: विदूरे अस्तु। अद्य अन्यत् प्रस्तुतं तव हितं कथयामि। आविद्यकै: तनुमनोऽक्षगणै: निबद्धा: मिथ: परिचिता: च जीवा भेदं विदन्ति।
गङ्गा - अस्त्वन्यदिति- हे वत्स! विलासिन्! एतत् उपपाद्यं ब्रह्ममोक्षविषयक: संवाद: इत: विदूरे परम् अस्तु। अद्य अधुना अन्यत् प्रस्तुतं तव हितं हितकरं कथयामि। आविद्यकै: अविद्यासम्बन्धिभि: तनुमनोऽक्षराणै: शरीरमनइन्द्रियै: निबद्धा आच्छादिता मिथ: परिचिता एकरूपा जीवा भेदं विदन्ति प्राप्नुवन्ति। तदेतत्तथ्यं प्रतिपादितं शङ्करासचार्येण- 'पर एवात्मा देहेन्द्रियमनांबुद्ध्युपाधिभि: परिच्छिद्यमानो बालै: शरीर इत्युपचर्यतेÓ। (ब्र.सू. शां.भा. १.२.६)
अनुवाद - हे वत्स! विलासिन्! यह चर्चा आज यहीं तक हो। अब मैं दूसरे विषय का प्रतिपादन करता हूँ जो तुम्हारे लिए हितकारी होगा। अविद्या सम्बन्धी शरीर, मन और इन्द्रियसमूहों से बँधे हुए परस्पर एकरूप होकर भी जीव भिन्नता को प्राप्त करते हैं। देह, इन्द्रिय, मन, बुद्धि आदि उपाधियों से परिच्छिन्न परब्रह्म ही बालबुद्धिजनों के द्वारा जीव कहा जाता है।
।। ८०।।
तेन भ्रमेण सततावृतचित्प्रकाशा
देहं मनोऽक्षगणमात्मतया विदन्त:।
तत्तर्पणैकनिरता नियतप्रकाशं
चित्तत्त्वमल्पपरिमाणमुदाहरन्ति।।
अन्वय: - तेन भ्रमेण सततावृतचित्प्रकाशा: तत्तर्पणैकनिरता: देहं मन: अक्षगणं (च) आत्मतया विदन्त: नित्यप्रकाशं चित्तत्त्वम् अल्पपरिमाणम् उदाहरन्ति।
गङ्गा - तेन भ्रमेणेति तेन भ्रमेण, जीवेन्द्रियसततावृतचित्प्रकाशा: सततं सर्वदा आवृतम् आच्छादितं चित्प्रकाश: चैतन्यज्ञानं येषां ते जैनमतावलम्बिन इत्यर्थ:। तत्तर्पणैकनिरता: देहेन्द्रियोपासनतत्परास्ते देहं शरीरं मन: अक्षगणम् इन्द्रियसमूहं च आत्मतया आत्मरूपेण विसृजानन्त: नित्यप्रकाशं चित्ततत्त्वं चैतन्यं विभुम् अल्पपरिमाणम् उदाहरन्ति। वस्तुतौ नित्यो विभुश्च आत्माऽल्पपरिमाणो भवितुं नार्हति। स तु सर्वगो नित्यश्चेति न तत्सङ्कोच विस्तरो वा निर्धारयितुं शक्यते। सङ्कोचविस्तारादिधर्मस्तु इन्द्रियाद्यनित्यतत्त्वानामेव भवति। न तु चित्तत्त्वस्येत्यर्थ:।
अनुवाद - जीव और इन्द्रियों के भेद करने में वे लोग असमर्थ हैं। क्योंकि उन्हें चित्तत्त्व का ज्ञान ही नहीं है। अत: भ्रमवश इन्द्रियों के तर्पण में संलग्न रहने वाले ये जैन मतानुयायी देह, मन और इन्द्रियों को आत्मा समझते हैं। इसी कारण वे नित्यप्रकाश चित्तत्त्व को अल्पपरिमाण बताते हैं।
।। ८१।।
तां भ्रान्तिमेव सहठं परिनिष्ठितेति
वाक्वौशलै: प्रतिसभं प्रतिपादयन्त:।
तत्संस्कृतेर्दृढतया विवशा: पतन्ति
तेऽन्धे तमस्यथ परानपि पातयन्ति।।
अन्वय: - तां भ्रान्तिम् एव सहठं 'परिनिष्ठिताÓ इति प्रतिसभं वाक्कौशलै: प्रतिपादयन्त: तत्संस्कृते: दृढतया विवशा: ते अन्धे तमसि पतन्ति, अथ परान् अपि पातयन्ति।
गङ्गा - तां भ्रान्तिमिति- तां जीवेन्द्रियादि विषयां स्वां भ्रान्तिं भ्रममेव सहठं हठेन सहितम्। बलादिति यावत्। 'परिनिष्ठिताÓ सुनिश्चिता प्रमात्मिका इति प्रतिसभं प्रतिविद्वत्समवायं वाक्कौशलै: वचनचातुर्येण प्रतिपादयन्त: तेऽल्पज्ञ: तत्संस्कृते: तस्या भ्रान्ते: संस्कारेण दृढतयाऽतिशयेन विवशा: सन्त: ते अन्धे अज्ञानरूपे तमसि अन्धकारे पतन्ति। अथ च अपरान् अपि स्वानुयायिन: पातयन्ति। अतो नैतेषां मतं स्वीकृतियोग्यमित्यर्थ:।
अनुवाद - ये लोग प्रत्येक सभा में जीवेन्द्रियादि विषयक अपनी उसी भ्रान्ति का बलपूर्वक प्रतिपादन करते हैं और वचनचातुरी से उसी को परिनिष्ठित ज्ञान मानते हैं। उस भ्रान्ति के संस्कार से अतिशय विवश होकर ये अन्धे अन्धकार में गिर रहे हैं और दूसरों को भी उसी में गिरा रहे हैं।
।। ८२।।
श्रुत्वेतरे गुरुकुलेषु चिदात्मतत्त्वं
शाब्दप्रमैककृत्यतया पुरेव।
देहाद्यभीष्टघटनानिरता उपास्ती-
स्तन्वन्ति मन्दमथ वा जहति प्रमादात्।।
अन्वय: - इतरे गुरुकुलेषु चिदात्मतत्त्वं श्रुत्वा शाब्दप्रमैककृतकृत्यतया पुरा इव देहाद्यभीष्टघटनानिरता: उपस्ती: मन्दं तन्वन्ति अथवा प्रमादात् जहति।
गङ्गा - श्रुत्वेतर इति- इतरे केचन गुरुकुलेषु श्रौतिन: गुरो: सकाशात् चिदात्मतत्त्वं श्रुत्वा, तस्य शाब्दं ज्ञानं प्राप्य शाब्दप्रमैककृतकृत्यतया वेदज्ञानमात्रेण कृतकृत्यतामनुभवन्त: पुरा इव चित्तत्त्वस्य शब्दज्ञानात् पूर्वमिव देहाद्यभीष्टघटनानिरता: शरीरादीनियानि अभीष्टानि तेषां घटनायां भोगपदार्थोपार्जने निरता: संलग्ना: उपस्ती: उपासना:। ब्रह्मचिन्तनमिति यावत्। मन्दं यथा स्यात्तथा तन्वन्ति विस्तारयन्ति। न तु तन्निष्ठा: सन्त उपासन्त इत्यर्थ:। अथवा चित्तत्त्वस्य शाब्दज्ञानमात्रं बहुमन्वानास्ते प्रमादात् उपास्तीस्त्यजन्ति। एतादृशशाब्दबोधशालिनोऽपि फलभाग् न भवन्ति। तस्य शाब्दज्ञानान्तरं तादृशाचरणमप्यावश्यकमिति भाव:।
अनुवाद - कुछ लोग गुरुकुलों में जाकर श्रौती गुरु से चिदात्मतत्त्व का श्रवण करते हैं। वे लोग शाब्दप्रमा से (वेदज्ञान) ही कृतकृत्यता का अनुभव करते हैं और पूर्व की भाँति (जब चिदात्म का ज्ञान नहीं था) देहादि अभीष्ट घटनाओं (भोग्यपदार्थों के संग्रह) में लग जाते हैं तथा थोड़ी ही उपासना करते है। शब्दज्ञान को ही सर्वस्व मान कर उपासना को छोड़ देते हैं। ऐसे उपासना से विरत लोग कभी भी फल के भागी नहीं बनते। चिदात्मतत्त्व का वास्तविक ज्ञान उपासना से ही सम्भव है।
।। ८३।।
भ्रान्तिर्न नश्यति परोक्षधियाऽपरोक्षाऽ-
नादिश्च संस्कृतिरिमां मुहुरातनोति।
तेनाल्पताकुमतिसंकुचितात्मभावो
जीवो भवेऽनुभवति प्रलयोदयौ स्वौ।।
अन्वय: - परोक्षधिया अपरोक्षा भ्रान्ति: न नश्यति। अनादि: संस्कृति: च इमां मुहु: आतनोति। तेन अल्पताकुमतिसङ्कुचितात्मभाव: जीव: भवे स्वौ प्रलयोदयौ अनुभवति।
गङ्गा - भ्रान्तिर्नेति- परोक्षधिया अप्रत्यक्षज्ञानेन अपरोक्षा प्रत्यक्षाभ्रान्ति: न नश्यति। येन सर्वज्ञेन जीवेऽल्पपरिमाणता प्रतिपादिता वस्तुतो न चित्तत्त्वं तेनाऽनुभूतम्। न वा वेदादिशब्दप्रामाण्यं स स्वीकरोतीति कथं परोक्षबुद्ध्या अपरोक्षाया भ्रान्तेर्विनाश: स्यात्। अनादि: संस्कृति: आदिरहित: संस्कार: इमां भ्रानितं मुहु: वारम्वारम् आतनोति विस्तारयति। तेन हेतुना अल्पताकुमतिसङ्कुचितात्मभाव: अल्पता शरीरपरिमाण एव कुमतिरित्यल्पताकुमति:। तया अल्पताकुमत्या सङ्कुचितो विनष्ट: आत्मभाव: ब्रह्मरूपता यस्य तादृशो जीव: भवे संसारे स्वौ स्वकीयौ प्रलयोदयौ अनुभवति। जन्ममरणभावं प्राप्नोतीत्यर्थ:।
अनुवाद - परोक्षज्ञान से अपरोक्ष भ्रान्ति कभी विनष्ट नहीं होती। अनादि संस्कार इस भ्रान्ति को बार बार फैलाते हैं। अत: अल्पता रूपी कुबुद्धि से विनष्ट आत्मभाव वाला जीव संसार में जन्म और मरण का अनुभव करता है।
।। ८४।।
एवं स्थिते प्रयततामिह मोक्षमाणो
भूमस्वचिन्तनविधौ चिरकालयोगात्।
साक्षात्कृते विमलसर्वगचित्प्रकाशे
कर्तव्यमस्य न हि किञ्चन शिष्यतेऽत्र।।
अन्वय: - इह एवं स्थिते मोक्षमाण: भूमस्वचिन्तनविधौ प्रयतताम्। चिरकालयोगात् विमलसर्वगचित्प्रकाशे साक्षात्कृते हि अत्र अस्य किञ्चन कर्तव्यं न शिष्यते।
गङ्गा - एवं स्थित इति- इह अस्मिन् प्रसङ्गे एवं जीवेन्द्रिययो: भेदे ब्रह्मणा च तदैक्ये स्थिते मोक्षमाण: मुमुक्षु: जीव: भूमस्वचिन्तनविधौ, 'यो वै भूमा तदमृतं यदल्पं तन्मत्र्यमिति श्रुत्युक्तस्वरूपचिन्तने प्रयतताम्। चिरकालयोगात् चिरकालं यावत् तत्स्वरूपस्य चिन्तनात् विमलसर्वगचित्प्रकाशे विमल: स्वप्रकाश: सर्वगो विभुर्यं चित्प्रकाश: तस्मिन् साक्षात्कृते हि निश्चयेन अत्र संसारे अस्य मोक्षमाणस्य जीवस्य किञ्चन कर्तव्यं न शिष्यते। तं चित्प्रकाशं साक्षात्कृत्य स मुक्तो भवतीत्यर्थ:।Ó
अनुवाद - इस प्रसंग में जीव और इन्द्रियों का भेद स्पष्ट हो गया है। यहाँ यह भी स्पष्ट हो गया है कि जीव ब्रह्मरूप है। चिरकाल तक चिन्तन करने से शुद्धबुद्धस्वभाव चित्प्रकाश का साक्षात्कार हो जाने पर इस संसार में मोक्षमाण जीव के लिए कुछ भी करणीय नहीं बचता। वह मुक्त हो जाता है।
।। ८५।।
कर्तव्यमस्ति यदि किञ्चन तर्हि मत्वाऽ-
विद्यानुवृत्तिमजहत्तदुपास्तिमेष:।
तच्चिन्तनाय नियतं स्वतनूपयोगं
जानन्नवत्वनतियत्नमिमामसक्त:।।
अन्वय: - यदि किञ्चन कर्तव्यम् अस्ति, तर्हि अविद्यानुवृत्तिं मत्वा एष: असक्त: तदुपास्तिम् अजहत् स्वतनूपयोगं तच्चिन्तनाय नियतं जानन् इमाम् अनतियत्नम् अवतु।
गङ्गा - कर्तव्यमिति- यद्यपि विमलसर्वगचित्प्रकाशे साक्षात्कृते किञ्चन कर्म न शिष्यते तथापि यदि किञ्चन कर्तव्यं कर्म अस्ति, स किमपि कर्तुं वाञ्छति तर्हि अविद्यानुवृत्तिम् अविद्याया अज्ञानस्य अनुवृत्तिं पुन: पुन: आगमनं मत्वा एष असक्त: आसक्तिरहित उपासक: तदुपास्तिं चिदुपासनाम् अजहत् अपरित्यजन् स्वतनूपयोगं स्वशरीरोपयोगं तच्चिन्तनाय चित्तत्त्वस्य चिन्तमाय जानन् इमां तनुम् अनहितयत्नम् अधिकयत्नं विना अवतु रक्षतु। भोग्यपदार्थान् एकत्रीकृत्य पुनस्तनुसेवननिरतो योगी पुनर्भवे पततीत्यर्थ:।
अनुवाद - यदि उसका कोई कर्तव्य है तो अविद्या की अनुवृत्ति मान कर यह उपासक आसक्ति रहित होकर चित्तत्त्व की उपासना करे। उपासना का परित्याग न करे। अपने शरीर का उपयोग उस परमतत्त्व के चिन्तन हेतु समझे और इस शरीर की रक्षा में बहुत यत्न न करे। शरीर की रक्षा हेतु भोग्यपदार्थों के संग्रह में लग कर वह पुन: भ्रष्ट हो सकता है।
।। ८६।।
नोपासनास्ववसरो यदि देहचित्ता-
क्षाभ्यस्तबाह्यविषयार्जनरक्षणाद्यै:।
रागी विहाय स निरर्थकमोक्षचर्चां
सांसारिके प्रयततां स्वसुखप्रकर्षे।।
अन्वय: - यदि देहचित्ताक्षाभ्यस्तबाह्यविषयर्जनरक्षणाद्यै: उपासनासु अवसर: न (अस्ति तर्हि) स रागी निरर्थकमोक्षचर्चां विहाय सांसारिके स्वसुखप्रकर्षे प्रयतताम्।
गङ्गा - नोपासनेति- यदि देहचित्ताक्षाभ्यस्तबाह्यविषयार्जनरक्षणाद्यै: देह: शरीरं च चित्तं मनश्च अक्षा इन्द्रियाणि चेति देहचित्ताक्षा:। तै: देहचित्ताक्षै: अभ्यस्ता आस्वादिता ये बाह्यविषया: सांसारिकसुखानि तेषामर्जनं प्राप्ति च रक्षणं च। ते आदौ येषां तै:। सांसारिकसुखसाधनार्जनरक्षणाद्यैरित्यर्थ:। उपासनासु तप:समाधिषु अवसर: काल: न अस्ति तर्हि स रागी रागवान् पुरुष: निरर्थकमोक्षचर्चां विहाय सांसारिके स्वसुखप्रकर्षे धनधान्यादिसङ्ग्रहे प्रयतताम्। न समाधौ तपसि वा तत्प्रयासोऽपेक्ष्यते।
अनुवाद - यदि शरीर, मन और इन्द्रियों के द्वारा आस्वादित बाह्यविषयों के अर्जन और रक्षण आदि में लगे रहने के कारण उपासना का अवसर नहीं है तो उस रागी को निरर्थकमोक्ष की चर्चा छोड़ देनी चाहिए तथा अपने सांसारिक सुख के प्रकर्ष में प्रयत्न करना चाहिए।
।। ८७।।
तत्रैहलौकिकसुखार्थिषु दण्डनीति-
वार्तेति शास्त्रयुगलं गुरुणोपदेश्यम्।
य: पारलौकिकमभीप्सति शर्म धर्मं
त्रय्या प्रबोधयति तं कृपया महेश:।।
अन्वय: - तत्र ऐहलौकिकसुखार्थिषु गुरुणा दण्डनीति: वार्ता इति शास्त्रयुगलम् उपदेश्यम्। य: पारलौकिकं शर्म अभीप्सति, महेश: तं कृपया त्रय्या धर्मं प्रबोधयति।
गङ्गा - तत्रैहलौकिकेति- तत्र ऐहलौकिकपारलौकिकसुखार्थिनो: गुरुणा ऐहलौकिकसुखार्थिषु सांसारिकभोगार्थिषु दण्डनीति: राजविद्या, वार्ता कृषिसंवादिविद्या इति शास्त्रयुगलं लोकसुखोपयोगिशास्त्रद्वयमुपदेश्यं पाठनीयम्। 'आन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयो:Ó इत्यमर:। दण्डो नीयते बोध्यतेऽनयेति दण्डनीति:। सेयं राज्ञां कृतेऽनिवार्या। 'वार्ता कृष्याद्युदन्तयो:Ó इति विश्व:। य: पारलौकिकं शर्म आध्यात्मिकं सुखम् अभीप्सति वाञ्छति, महेश: परमेश्वर: तं कृपया त्रय्या वेदत्रयेण धर्मं करणीयमकरणीयं च प्रबोधयत्युपभिरेव करणीयं न तु भवादृशै: संसारलोलुपैरित्यर्थ:।
अनुवाद - लोक में दो प्रकार के सुखार्थी हैं- सांसारिक सुख को चाहने वाले तथा पारलौकिक सुखको चाहने वाले। सांसारिक सुख चाहने वालों को गुरु को दण्डनीति (राजविद्या) तथा वार्ता (कृषिविद्या, सेवाविद्या) का उपदेश करना चाहिए। जो आध्यात्मिक सुख चाहता है, परमेश्वर कृपापूर्वक उन्हें वेदत्रयी के माध्यम से धर्म की शिक्षा देता है।
।। ८८।।
आन्वीक्षकी तु परिपुष्यति दण्डनीतिं
वार्तां त्रयीं च तदियं त्रितयाङ्गभूता।
सैकाकिनी श्रममनर्थकशुष्कतर्कै:
सूतेऽथ वा नृपसभासु जयप्रमोदौ।।
अन्वय: - आन्वीक्षिकी तु दण्डनीतिं वार्तां त्रयीं च परिपुष्यति। तत् इयं त्रितयाङ्गभूता। एकाकिनी सा अनर्थकशुष्कतर्कै: श्रमम् अथवा नृपसभासु जयप्रमोदौ सूते।
गङ्गा - आन्वीक्षिकी तु- आन्वीक्षिकी प्रत्यक्षागमाश्रितमनुमानं सा अन्वीक्षा। प्रत्यक्षागमाभ्यामीक्षितस्य अनु ईक्षणम् अन्वीक्षा। तया प्रवर्तत इति आन्वीक्षिकी न्यायविद्या। सेयमान्वीक्षिकी तु दण्डनीतिं राजविद्यां वार्तां कृषिसेवादिविद्यां त्रयीं वेदत्रयींच परिपुष्यति। सेयमान्वीक्षिकी न्यायविद्या प्रमाणादिभि: पदार्थैर्विभज्यमाना प्रदीपवत् सर्वविद्यानां भवति प्रकाशत्वात्। तथा चोक्तं वात्स्यायनेन-
प्रदीप: सर्वविद्यानामुपाय: सर्वकर्मणम्।
आश्रय: सर्वधर्माणां विद्योद्देशे परीक्षिता।।
दण्डनीतिं वार्तां त्रयीं चेयमुपकरोतीति हेतोरियं त्रितयाङ्गभूता, एतेषां त्रयाणामपि अङ्गभूताऽस्ति। एकाकिनी दण्डनीत्यादिरहिता सा आन्वीक्षिकी अनर्थकशुष्कतर्कै: श्रमं श्रान्तिम् अथवा नृपसभासु जयप्रमोदौ विजयानन्दौ सूते जनयति। एकाकिन्या अस्या न कश्चन उपयोग इत्यर्थ:। दण्डनीत्याद्यङ्गभूता सती यं शास्त्रतत्त्वं प्रकाशयति।
अनुवाद - आन्वीक्षिकी (न्यायविद्या) दण्डनीति, वार्ता और त्रयी (ऋग्, यजु:, साम) को परिपुष्ट करती है। इसलिए यह इन तीनों की अङ्गभूत है। अकेली आन्वीक्षिकी निरर्थक सूखे तर्कों से श्रान्त करती है। अथवा राजसभाओं में जय और आनन्द प्रदान करती है।
।। ८९।।
आमुष्मिकैहिकविनाशिसुखार्थिभिस्तु
वार्ता त्रयी च समयं प्रविभज्य सेव्या।
त्रय्यन्तचिन्तनमुपेक्ष्य न मोक्षमाण
आवश्यकाधिकनिमेषमपि क्षिपेत।।
अन्वय: - आमुष्मिकैहिकविनाशिसुखार्थिभि: तु समयं प्रविभज्य वार्ता त्रयी च सेव्या। मोक्षमाण: त्रय्यन्तचिन्तनम् उपेक्ष्य आवश्यकाधिकनिमेषम् अपि न क्षिपेत्।
गङ्गा - आमुष्मिकैहिकेति- आमुष्मिकैहिकविनाशिसुखार्थिभि: आमुष्मिकं च ऐहिकं च आमुष्मिकैहिके। तयो: विनाशिन: सुखस्य अर्थिभि:। एतेन आमुष्मिकस्य पारलौकिकसुखस्यापि सांसारिकसुखवदसारता प्रत्ययादि। उभयोरपि विनाशित्वात्। पारलौकिकसांसारिकविनाशिसुखेप्सुभि: तु समयं प्रविभज्य कालविभागं कृत्वा वार्ता कृषिसेवादिविद्या त्रयी वेदत्रयी च सेवया पठनीया। यथा वार्तया तथैव त्रय्याऽपि नानायागादियरणेन एतादृशसुखस्य लाभ इत्यर्थ:। किन्तु मोक्षमाण: मुमुक्षु: त्रय्यन्तचिन्तनं वेदान्तनिर्दिष्टमद्वैतमुपेक्ष्य आवश्यकताधिकनिमेषम्, अनावश्यकमेकं निमेषमपि न क्षिपेत। सर्वदा तत्रोक्ततत्त्वचिन्तनपरायणो भवेत्। तेनैव मोक्षाख्याऽविनाशिसुखस्य लाभ इति भाव:।
अनुवाद - पारलौकिक और सांसारिक विनाशशाली सुख को चाहने वालों को काल का विभाग करके वार्ता और वेदत्रयी का सेवन करना चाहिए। कृषि और सेवा तथा वेदत्रयी से इस सुख की प्राप्ति होती है। किन्तु मुमुक्षुको वेदान्त शास्त्र मेंकहे गये तत्त्वोंकी उपेक्षा करके एक क्षण भी नहीं बिताना चाहिए। वेदान्तोक्त तत्त्वों के चिन्तन से ही मोक्ष प्राप्ति होती है।
।। ९०।।
वाञ्छन्निहत्यसुखमल्पमपि प्रयत्नै:
स्वर्गं न कामयत इत्यतिदम्भ एष:।
तस्मादपक्वकरण: श्रुतिवत्र्मनैव
कर्माचरत्वनुगुणं विहितं हितं तत्।।
अन्वय: - प्रयत्नै: इहत्यसुखं वाञ्छन् अल्पम् अपि स्वर्गं न कामयते इति एष: अतिदम्भ: (अस्ति)। तस्मात् अपक्वकरण: श्रुतिवत्र्मना एव विहितं तत् हितम् अनुगुणं कर्म आचरतु।
गङ्गा - वाञ्छन्निहेति- प्रयत्नै: प्रयत्नान् विधाय, विविधै:, प्रयासैरित्यर्थ:। इहत्यसुखं सांसारिकसुखं वाञ्छन् ईप्सन्। इहशब्दात् त्यपि। अत्रत्यलोकसम्बन्धीत्यर्थ:। अल्पं स्वल्पमपि स्वर्गं स्वर्गसुखं न कामयते न इच्छति इति एष अतिदम्भ:, महान् पाखण्ड:। 'दम्भ: कल्के कैतवे चÓ इति हैम:। सर्वे स्वर्गसुखं वाञ्छन्त्येव। तस्मात् कारणात् अपक्वकरण: रागोपहतेन्द्रिय: स: श्रुतिवत्र्मना एव वेदमार्गेणैव विहितं निर्धारितं तत् हितं स्वर्गप्रदम् अनुगुणम् अनुरूपं कर्म आचरतु सम्पादयतु। तेनैव स्वर्गस्य लाभादित्यर्थ:।
अनुवाद - नाना प्रकार के प्रयत्नों का अनुष्ठान कर के सांसारिक सुखों को चाहने वाला स्वल्प भी स्वर्ग की कामना नहीं करता यह कहना हो महान् पाखण्ड है। इसलिए रागोपहतेन्द्रिय वह वेदोक्त मार्ग से ही विहित उस हितकारी और अनुरूप कर्म का आचरण करे।
।। ९१।।
साम्राज्यमात्मदुरवापमवेक्ष्य को वा
नेच्छेत्स्वशक्यसुखकृद्वसुधाधिकारम्।
रागे मुहु: स्फु रति मोक्षसुखे निराश:
स्वग्र्यं मखादि कुरुते यदि कोऽत्र दोष:।।
अन्वय: - आत्मदुरवापं साम्राज्यम् अवेक्ष्य क: वा स्वशक्यसुखकृद्वसुधाधिकारं न इच्छेत्? मुहु: रागे स्फुरति मोक्षसुखे निराश: यदि स्वग्र्यं मखादि कुरुते (तर्हि) अत्र क: दोष:?
गङ्गा - साम्राज्यमिति- आत्मदुरवापम् आत्मना स्वयं दु:खेन आप्तुं योग्यं साम्राज्यं निखिलभूमण्डलाधिकारम् अवेक्ष्य दृष्ट्वा को वा जन: स्वशक्यसुखकृद्वसुधाधिकारं स्वशक्यं स्वसामथ्र्येन प्राप्तुं योग्यं सुखकृच्च वसुधाया: स्वल्पभूभागस्य अधिकारं न इच्छेत्? अवश्यमिच्छेदेवेत्यर्थ:। मुहु: वारम्वारं रागेऽनुरागे स्फुरति सति, रागस्य सांसारिकसुखस्य मोक्षसुखबाधकत्वात् तत्र मोक्षसुखे निराश: यदि सुखलाभाय स्वग्र्यं स्वर्गसुखप्रदं मखादि कुरुते तर्हि अत्र को दोष:। न कोऽपीत्यर्थ:।
अनुवाद - अपने से साम्राज्य को दुरवाप देख कर कौन ऐसा है जो स्वयं प्राप्त करने योग्य सुखकारी पृथ्वी के अधिकार को नहीं चाहेगा? वारम्वार अनुराग के स्फुरित होने के कारण मोक्ष सुख से निराश कोई व्यक्ति यदि स्वर्गप्रद यज्ञ आदि का सम्पादन करता है तो इसमें दोष क्या है?
।। ९२।।
योऽत्रालसोऽस्थिरमतिश्च जहाति कर्मो-
पास्ती विरक्तिविदितात्मकताभिनीत्या।
घ्नन्त्यात्मचोरमिममात्महनं द्विमार्गी-
भ्रष्टं स्वदुर्गतिजसंस्कृतयोऽतिमात्रम्।।
अन्वय: - अत्र य: अलस: अस्थिरमति: च विरक्तिविदितात्मकताभिनीत्या कर्मोपास्ती जहाति इमम् आत्मचोरम् आत्महनं द्विमार्गीभुष्टं स्वदुर्मतिजसंस्कृतय: अतिमात्रं घ्नन्ति।
गङ्गा - योऽत्रालस इति- अत्र स्वग्र्यमखादिसम्पादने य: अलस: आलस्ययुक्त:, अस्थिरमति: नास्तिकत्वात् चञ्चलबुद्धि: च विद्यते। अथ च विरक्तिविदितात्मकताभिनीत्या, आत्मा एव आत्मक:। विरक्त्या वैराग्येण विदित आत्मको येन स विरक्तिविदितात्मक:। तस्य भावस्तत्ता। तस्या अभिनीत्या अभिनयेन। मिथ्यानाटनेनेति यावत्। कर्मोपास्ती कर्म यागादि च उपास्तिरुपासना च ते जहाति परित्यजति। इमम् आत्मचोरम् आत्मतत्त्वस्य चौरम् आत्महनम् आत्मघातिनं द्विमार्गीर्भटम् आस्तिकनास्तिकमार्गपतितम्। अत्र वैराग्यं वैदिकं कर्म। तत् स: स्वीकरोति किन्तु नास्तिकत्वात् आत्मतत्त्वं विभुं न स्वीकरोतीति तस्य द्विमार्ग भ्रष्टत्वम्। तादृशं तं स्वदुर्मतिजसंस्कृतय: निजकुत्सितबुद्धिजन्यसंस्कारा: अतिमात्रम् अतिशयेन घ्नन्ति विनाशयन्ति। तथा चात्मचोरविषये बहुत्रोक्तम्-
योऽन्यथा सन्ततमात्मानमन्यथा प्रतिपद्यते।
किं तेन न कृतं पापं चोरेणात्मापहारिणा।।
इति महाभारते। अत्रोपनिषदपि ब्रूते-
असुर्या नाम ते लोका अन्धेन तमसा वृता:।
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जना:।।
क्वचिदन्यत्रापि प्रतिपादितम्-
कर्मब्रह्मोभयभ्रष्टं ब्रह्मास्मीति च वादिनम्।
ज्ञानकर्मपरिक्षीणं तं त्यजेदन्त्यजं यथा।।
एतादृशात्मघातिन: स्वसंस्कारेणैव विनश्यन्तीत्यर्थ:।
अनुवाद - स्वर्गप्रद यज्ञ आदि के सम्पादन में जो आलसी और अस्थिरमति है, वैराग्य से आत्मज्ञानी होने का अभिनय करता है तथा कर्म और उपासना को छोड़ देता है। उस आत्मचोर, आत्मघाती तथा दो मार्गों में पतित व्यक्ति को उसकी कुबुद्धि से जन्य संस्कार अतिशय विनाश प्रदान करते हैं।
।। ९३।।
दानव्रतश्रुतिजपाध्वरतीर्थसेवा-
सम्पन्ननाकसुखभोगतयाऽतितृप्त:।
तन्नाशदर्शनविरक्तमतिश्चिरेण
कश्चिद्विपश्चिदिह मोक्षपथेऽधिकारी।।
अन्वय: - दानव्रतश्रुतिजपाध्वरतीर्थसेवासम्पन्ननाकसुखभोगतया अतितृप्त: चिरेण तन्नाशदर्शनविरक्तमति: कश्चित् विपश्चित् इह मोक्ष्यथे अधिकारी भवति।
गङ्गा - दानव्रतेति- दानव्रतश्रुतिजपाध्वरतीर्थसेवासम्पन्ननाकसुखभोगतया दानं च व्रतं च श्रुतिश्च जपश्च अध्वरो यज्ञश्च तीर्थसेवा चेत्येतै: सम्पन्न सिद्ध नाकसुखभोगता स्वर्गसुखानुभवता तया अतितृप्त: सम्यक् परितुष्ट:। यस्य संसारे न किञ्चिदपि प्राप्तुं समीहा वर्तत इत्यर्थ:। चिरेण चिरकालेन तन्नाशदर्शनविरक्तमति: तस्य सांसारिकभोगस्य नाशदर्शनेन विरक्ता सांसारिकभोगाद् दूरीभूता मतिर्यस्य स:, न तु पुन: पुन: संसारसुखलोलुप इत्यर्थ:। तादृश: कश्चित् विपश्चित् ज्ञातसंसारानित्यत्वस्वभाव: इह मोक्षपथे मोक्षमार्गे गन्तुमधिकारी भवति। यस्य इदानीमपि सांसारिकविषयभोगाभिरुचिर्न सोऽत्राधिकारीत्यर्थ:।
अनुवाद - दान, व्रत, श्रुति, जप, यज्ञ और तीर्थसेवा से सम्पन्न होने वाले स्वर्गसुख के भोग सेजो अतितृप्त हो चुका है, जिसे पुन: सांसारिक भोगों की लालसा नहीं है, तथा चिरकाल से उस सांसारिकभोग के विनाश को देखकर जिसकी बुद्धि विरक्त हो चुकी है, वही कोई संसार की अनित्यता को जानने वाला विद्वान् इस मोक्ष मार्ग का अधिकारी है। सांसारिक भोग के लोलुप इसके अधिकारी नहीं है।
।। ९४।।
तस्मात्स्ववृत्तिमनिगूह्य निजाधिकार-
मालोच्य दुष्पथमपास्य भृशानुतप्त:।
त्रैविद्यपर्षदमथात्मविदं गुरुं वा
नम्र: प्रसाद्य चर तद्वचसा स्वधर्मम्।।
अन्वय: - तस्मात् भृशानुतप्त: स्ववृत्तिम् अनिगूह्य निजाधिकारम् आलोच्य दुष्पथम् अपास्य त्रैविद्यपर्षदम् अथ आत्मविदं वा गुरुं नम्र: प्रसाद्य तद्वचसा स्वधर्मं चर।
गङ्गा - तस्मादिति- तस्मात् कारणात् भृशानुतप्त: ज्ञातसंसारानित्यत्वभाव: स्ववृत्तिं निजचित्तव्यापारम् अनिगूह्य स्पष्टं प्रदश्र्य। येन गुरुस्तत्स्वभावं जानीयात्। न तु मिथ्या प्रदश्र्य निजाधिकारं मोक्षमार्गगममाधिकारं समीक्ष्य। मोक्षमार्गगमनयोग्यतां परीक्ष्येत्यर्थ:। दुष्पथं नास्तिकनिर्दिष्टमार्गम् अपास्य परित्यज्य त्रैविद्यपर्षदं वेदत्रयनिपुणम् अथ च आत्मविदम् आत्मतत्त्ववेत्तारं वा गुरुं नम्र: भक्त्या विनम्र: सन् प्रसाद्य तद्वचसा गुरोर्वचनेन स्वधर्मं चर। निजमार्गस्यानुसरणं कुर्वित्यर्थ:। एतेन गुरोर्महत्त्वमपि प्रदर्शितुम्।
अनुवाद - इसलिए सांसारिक अनित्यता से अत्यधिक अनुतप्त होकर अपनी चित्तवृत्तियों को बिना छिपाये हुए, बिनाकिसी मिथ्या प्रदर्शन के, अपने अधिकार की समीक्षा करके, नास्तिक मार्ग का परित्याग करके, तीनों वेदों में निपुण अथवा आत्मज्ञानी गूढ को भक्तिपूर्वक प्रसन्न करके, उस गुरु के निर्देशानुसार अपने धर्म का आचरण करो।
।। ९५।।
विद्वांसमेहि शरणं सुचिरं परीक्ष्य
निश्चित्य रागमददम्भनिवृत्तिमस्य।
दृष्टा: शठा हि सरलान्बहु वञ्चयन्त:
सन्ति स्वभावसदयाश्च महानुभावा:।।
अन्वय: - सुचिरं परीक्ष्य अस्य रागमददम्भनिवृत्तिं च निश्चित्य विद्वांसं शरणम् एहि। हि सरलान् बहुवञ्चयन्त: शठा: दृष्टा:। महानुभावा: च स्वभावसदया: सन्ति।
गङ्गा - विद्वांसमेहीति- सुचिरं सम्यक्तया परीक्ष्य गुणदोषाणां परीक्षणं कृत्वा अस्य विदुष: रागमददम्भनिवृत्तिं च निश्चित्य रागोऽनुरागश्च मदश्च दम्भश्च तेषां निवृत्तिं राहित्यं च निश्चित्य। नाऽयं नायं रागमददम्भवानिति सम्यक् ज्ञात्वा विद्वांसं शरणमेहि। तं गुरुत्वेन स्वीकुरुतात्। हि निश्चयेन, सरलाम् ऋजुबुद्धीन्, भक्तहृदयानिति यावत्। बहुवञ्चयन्त:, बहुप्रकारेण लुण्ठन्त: शठा: धूर्ता: केचन नास्तिका दृष्टा:। महानुभावा: महाशया: च केचन स्वभावसदया: स्वभावेन करुणापूर्णा: भक्तहितचिन्तका: सन्ति।
अनुवाद - अच्छी प्रकार से परीक्षण करके तथा इसकी राग, मद और दम्भ की निवृत्ति को निश्चितरूप से जानकर इस विद्वान् की शरण में जाना चाहिए। निश्चय ही भक्तहृदयों को ठगते हुए अनेक शठ देखे गये हैं। कुछ ही महाशय स्वभाव से दयापूर्ण होते हैं और भक्त के हित को ध्यान में रखते हैं।
।। ९६।।
आमन्त्रितो रहसि साप्तपदीनरीत्या
वत्स त्वया कृशधिया भृशनिन्दितोऽपि।
प्रादीदृशं तव हितं परतस्त्वमेव
सम्यग्विचार्य यदभीप्ससि तत्कुरुष्व।।
अन्वय: - हे वत्स! त्वया साप्तपदीनरीत्या रहसि आमन्त्रित: कृशधिया भृशनिन्दित: अपि तव हितं प्रादीदृशम्। परत: त्वम् एव सम्यक् विचार्य यत् अभीप्ससि तत् कुरुष्व।
गङ्गा - आमन्त्रित इति- हे वत्स! विलासिन्! त्वया साप्तपदीनरीत्या सख्यभावेन रहसि एकान्ते आमन्त्रित:, कृशधिया दुर्बलमत्या भृशनिन्दित: बहुनिन्दां प्रापित: अपि अहमलि: तव हितं कल्याणमार्गं प्रादीदृशम्, भूयोभूयोऽपश्यम्। भृशमुपदिष्टवानस्मीत्यर्थ:। परतोऽनन्तरं त्वमेव सम्यक् विचार्यतव हिताहितं समीक्ष्य यत् अभीप्ससि वाञ्छसि तत् कुरुष्व सम्पादय तत्र न मम कश्चन आग्रह इत्यर्थ:।
अनुवाद - हे वत्स! विलासिन्! तुमने मुझे सख्यभाव से एकान्त में बुलाया। तुम्हारे द्वारा अपनी दुर्मति से मेरी खूब निन्दा भी की गयी। तथापि मैंने तुम्हें तुम्हारे हित का उपदेश किया। अब तुम स्वयं विचार करके जो चाहते हो वह करो। उसके प्रति मेरा कोई आग्रह नहीं है।
।। ९७।।
श्रुत्वाऽलिवाचमहिताग्रहरागरोषा-
स्पृष्टां प्रकृष्टकरुणामृतसेकपुष्टाम्।
उत्सृज्य नास्तिकमतं प्रणिपत्य भूय:
सन्त्रासगद्गदपदं व्यलपद्विलासी।।
अन्वय: - अहिग्रहरागरोषाऽस्पृष्टां प्रकृष्टकरुणामृतसेकपुष्टाम् अलिवाचं श्रुत्वा विलासी नास्तिकमतम् उत्सृज्य भूय: प्रणिपत्य सन्त्रासगद्गदपदं व्यलपत्।
गङ्गा - श्रुत्वाऽलिवाचमिति- अहिताग्रहरागरोषास्पृष्टम् अहितम् अकल्याणं च आग्रहश्च रागश्चरोषश्चेत्येर्तै: अस्पृष्टाम्। एतत्संस्पर्शशून्याम्। दु:खहठमोहक्रोधरहितामित्यर्थ:। प्रकृष्टकरुणामृतसेकपुष्टाम्, करुणा दया एव अमृतं करुणामृतम्। प्रकृष्टमुत्कृष्टं यत् करुणामृतं तस्य सेकेन पुष्टां हृद्याम्। उत्कृष्टदयासुधाविन्दुहृद्याभित्यर्थ:। अलिवाचम् अलेभ्र्रमरस्य उपर्युक्तं वचनं श्रुत्वा विलासी नास्तिकमतं चार्वाकबौद्धजैनमतम् उत्सृज्य त्यक्त्वा भूय: बहुधा प्रणिपत्य विनम्रतया नमस्कृत्य सन्त्रासगद्गदपदं सन्त्रासेन भयेन गद्गदपदमव्यक्तपदं यथा स्यात् तथा व्यलपत्, विलापमकरोत्। स्वाकृत्ये पाश्चात्ताषमकरोदित्यर्थ:।
अनुवाद - अकल्याण, आग्रह, राग और रोष से अस्पृष्ट, उत्तम करुणा रूपी अमृत के सेक से पुष्ट अलि के वचनों को सुन कर विलासी ने नास्तिक मत को छोड़ दिया। वह बार बार प्रणाम करके भय से अव्यक्त शब्दों में विलाप करने लगा।
।। ९८।।
तात प्रसीद विषहस्व ममापराधं
त्रिर्निर्जितोऽहमथ वा प्रतिबोधितोऽस्मि।
दीर्घानुवृत्तवितथाभिनिवेशशुद्ध्यै
त्वामेव पूर्णकरुणं शरणं प्रपद्ये।।
अन्वय: - हे तात! प्रसीद। मम अपराधं विषहस्व। अहं त्रि: निर्जित:, अथ वा प्रतिबोधित: अस्मि। दीर्घानुवृत्तवितषाभिनिवेशशुद्ध्यै पूर्णकरुणं त्वाम् एव शरणं प्रपद्ये।
गङ्गा - दीर्घानुवृत्तेति- हे तात! अले! प्रसीद प्रसन्नो भव। मम अपराधं नास्तिकमताश्रयणरूपं विषहस्व श्रमस्व। अहं त्वया ब्रह्मोपासकेन त्रि: वारत्रयं निर्जित:, पराजित:। देहात्मवादमाश्रित्य चार्वाकीभूय त्वया परास्त:। शून्यवादमाश्रित्य बौद्धरूपेऽपि त्वया निर्जित:। सम्प्रति जैनमताश्रितोऽहं पुन: त्वया विजित इति तवैव शास्त्रं वस्तुतो विश्वासयोग्यं न नास्तिकानामिति। अथवा नास्तिकतर्कान् स्वशास्त्राश्रयेण खण्डयता त्वयाऽलिनाऽहं प्रतिबोधितोऽस्मि। न मम पन्था: समुचित इत्यवबोधितोऽस्मि। अत: दीर्घानुवृत्तवितथानिवेशशुद्ध्यै, दीर्घकालाद् अनुवृत्तो य: वितथेऽसत्ये आसमन्तात् निवेश: नास्तिकमतोपासानायामाग्रहस्तस्य शुद्ध्यै पूर्णकरुणं दयासिन्धुं त्वाम् अलिनमेव शरणं प्रपद्ये। त्वदतिरिक्तं न मे किमपि शरणमिति भाव:। एतेन विलसिनाऽलिर्गुरुत्वेन वृत इत्यपि सूचयति।
अनुवाद - हे तात! मुझ पर प्रसन्न होओ। मेरा अपराध क्षमा करो। मैं तुम्हारे द्वारा तीन बार जीता गया। अथवा तुमने मुझे तीन बार समझाया है। चार्वाक मत का आश्रय लेकर उपस्थित होने पर तुमने देहात्मवाद का निराकरण किया। बौद्धमतों का निराकरण किया और अब जैन मत का खण्डन करके तुमने परमसत्ता का बोध कराया। दीर्घकाल से झूठा आग्रह रहा है। अत: उसकी शुद्धि के लिए मैं पूर्णकरुण तुझ अलि की ही शरण में हूँ।
।। ९९।।
मत्वा ऽप्रयाससुलभौ सुखभोगमोक्षौ
चार्वाकबौद्धमुनिजैनमताश्रयेण।
दुर्वादिवञ्चितमना बहु हन्त हेत्वा-
भासैरदूदुषमहं श्रुतिवाक्वपरेशौ।।
अन्वय: - हन्त! दुर्वादिवञ्चितमना: अहं चार्वाकबौद्धमुनिजैनमताश्रयेण सुखभोगमोक्षौ अप्रयाससुलभौ मत्वा हेत्वाभासै: श्रुतिवाक्यरेशौ अदूदुषम्।
गङ्गा - मत्वाऽप्रयासेति- हन्तेति खेदे। दुर्वादिवञ्चितमना: दुर्वादिभिर्नास्तिकै: वञ्चितं मनो यस्य सोऽहं विलासी चार्वाकबौद्धमुनिजैनमताश्रयेण चार्वाकश्च बौद्धमुनिश्च जैनश्चेति तेषां मतानां विचाराणामाश्रयेण साहाय्येन सुखभोगमोक्षौ सुखभोग: सच्चिदानन्दानुभवश्च मोक्ष: परमपुरुषार्थश्च तावुभावपि अप्रयाससुलभौ प्रयासेन तपसा विना संसा एव सुलभौ मत्वा हेत्वाभासै: हेतुदोषै:, न तु वास्तविककारणै:, श्रुतिवाक्परेशौ वेदपरमात्मानौ अदूदुष भूयोभूयोऽतिशयेन वा दूषितवान्। तयो: सत्तां निराकृतवान्। सम्प्रति त्वद्वचनबोधितत-त्वस्य मे अयमेव पाश्चात्ताप इति भाव:।
अनुवाद - खेद है कि दुर्वादी नास्तिकों ने मेरे मन को वंचित कर दिया। मैंने चार्वाक, बौद्धमुनियों (योगाचार, वैभाषिक, माध्यमिक और सौत्रान्तिक) तथा जैन मत का आश्रय लेकर सच्चिदानन्द तथा मोक्ष को तपस्या आदि के विना सुलभ बताया और हेत्वाभासों से श्रुतिवचनों तथा परमेश्वर को दूषित किया।
।। १००।।
अद्य त्वया तु दयया सुदृढोपपत्ती:
श्रौते मतेऽप्यथ च नास्तिकवाददोषान्।
हृद्यं स्फु टं च वदता निरयाद्भ्रमाख्या-
त्सन्तारितोऽस्मि भगवन् शतशो नमस्ते।।
अन्वय: - अद्य त्वया तु दयया श्रौते मते सुदृशेपपत्ती: अथ च नास्तिकवाददोषान् हृद्यं स्फुटं च वदता भ्रमाख्यात् निरयात् सन्तारित: अस्मि। हे भगवन्! ते शतश: नम:।
गङ्गा - ज्ञातश्रुतितत्त्वो विलासी अलिं स्तुवन्नाह- अद्य त्वयेति- अद्य जैनदर्शननिरसनप्रसङ्गे त्वया अलिना दयया कृपां कृत्वा श्रौते मते वैदिकसिद्धान्ते सुदृढोपपत्ती: सुदृढा: निराकर्तुमशक्या या उपपत्तयस्ता:। प्रमाणानीत्यर्थ:। अथ च नास्तिकवाददोषान् नास्तिकानां चार्वाकादीनां वादेषु ये दोषास्तान् हृद्यं मनोहरं स्फुटं च यथा स्यात्तथा वदता उपदिशता भ्रमाख्यात् भ्रान्तिनामकात् निरयात् नरकात् सन्तारतोऽस्मि पारं नीतोऽस्मि। हे भगवन् अले! ते तुभ्यं शतश: नम: अस्तु। अहं ते शरणागतोऽस्मीति भाव:। एतेन विलासि: सर्वथा नास्तिकमतपरित्यागं सूचयति।
अनुवाद - आज तुमने दयापूर्वक श्रौत मत में सुदृढ़ प्रमाणों तथा नास्तिक मतों के दोषों का मनोहर और स्पष्ट रूप से कथन किया। जिसको तुमने मुझे भ्रमनामक नरक से पार कर दिया। हे भगवन् भ्रमर! तुम्हें मेरे सैकड़ों नमस्कार हैं।
।। १०१।।
नान्या गतिर्मम भवन्तमपास्य दास्य-
मङ्गीकरोम्युपदिशोचितशुद्धिमार्गम्।
भीतो रुदन्निति विलप्य चिरं पुरोऽले:
साष्टाङ्गपातमलुठद्धरणौ विलासी।।
अन्वय: - भवन्तम् अपास्य मम अन्या गति: न (अस्ति)। (अहं तव) दास्यम् अङ्गीकरोमि। उचितशुद्धिमार्गम् उपदिश। इति चिरम् अले: पुर: निलप्य रुदन्। भीत: विलासी धरणौ साष्टाङ्गपातम् अलुठत्।
गङ्गा - नान्या गतिरिति- भवन्तं गुरुरूपिणम् अलिम् अपास्य परित्यज्य मम अन्या गतिर्नास्ति। भवन्तं परित्यज्य न कोऽपि मां श्रौतमार्गोक्ततत्त्वानि हृद्यतयोपदेष्टुं शक्ष्यतीत्यशय:। अतोऽहं तव दास्यमङ्गीकरोमि। अधुनात्वमुचितशुद्धिमार्गमुपदिश। केन मार्गेणाऽहं कृतनास्तिकमताश्रय: शुद्धो भवामीति वद। इति एवम्प्रकारेण चिरं चिरकालम् अले: पुर: समक्षं विलप्य विलापं कृत्वा। पाश्चात्तापं कुर्वन्नित्यर्थ:। रुदन् भीत:, पापमताश्रितस्य न पापिनो मे मुक्तिरिति भति:। विलासी धारणौ साष्टाङ्गपातम् साष्टाङ्गं प्रणमन् अलुठत् अपतत्। येन केनापि प्रकारेण त्वया मम मुक्तिमार्गो निर्देश्य इति प्रार्थयत इत्यर्थ:।
अनुवाद - आपको छोड़ कर मेरी कोई गति नहीं है। मैं तुम्हारी दासता स्वीकार करता हूँ। मुझे उचित शुद्धिमार्ग का उपदेश दो। इस प्रकार चिरकाल तक अलि के सामने विलाप करके रोता हुआ, अपनी मुक्ति प्राप्ति से भीत विलासी साष्टाङ्गप्रणाम करता हुआ धरती पर लोटने लगा।
।। १०२।।
आलोकायतमोहितं त्वमनयान्न्यक्कृत्य दुर्दर्शनं
मत्या नित्यचित: स्थिरोऽधिकरणे धिक्कृत्य बौद्धान् बलात्।
सद्भावाश्रयशून्यशून्यवचसा निन्द्यान् वृतात्माल्पता-
नर्हन्नव्यमतं श्रितान् जहदथेशादेशवश्यो भव।।
अन्वय: - त्वम् अनया मत्या आलोकायतमोहितं वा दुर्दर्शनं न्यक्कृत्य नित्यचित: अधिकरणे स्थिर: सद्भाश्रयशून्यशून्यवचसा निन्द्यत् बौद्धान् बलात् धिक्कृत्य अथ वृतात्माल्पतान् अर्हन्नव्यमतं (वृतात्माल्पतानर्हं नव्यमतं) श्रितान् जहत् ईशादेशवश्य: भव।
गङ्गा - आलोकायतेति- त्वं विलासी अनया मदुपदिष्टया मत्या श्रौतबुद्ध्या आलोकायतमोहितम्, तम: अज्ञानम्, आलोकाय प्रकाशाय अहितम् अकल्याणकरम्। यद्वा 'आÓ इति पीडायामव्ययम्। अनयात् अनीत्या लोकायतानां चार्वाकाणां मया मित्या ऊहितं तर्कितं दुर्दर्शनम्। 'माÓ इति मितिवाचकं पदं दर्शनेषु प्रसिद्धम्। अनया मदुपरिष्टया श्रौतविषयिण्या नित्यचित: नित्यज्ञानात्मन: मत्या न्यक्कृत्य तिरस्कृत्य अधिकरणे भावरूपाधारे स्थिर: स्थित:। तत्साधनकृत्यर्थ:। अथवा अधिकरणे अधिके दार्शनिकवादरूपे रणे स्थिर: अपलायमानो वा। सद्भावाश्रयशून्यशून्यवचसा सन् भावरूपो य आश्रयस्तेन शून्यं रहितं यत् शून्यं बौद्धाभिमताभावतत्त्वं तत्कथनेन। भावरूपाधिकरणरहिताभावमात्रतत्तवताकथनेन हेतुना निन्द्या ये सुगतमतानुयायिनस्तान् बौद्धान् बलात् धिक्कृत्य। अथवा सद्भावो मैत्री तद्रूपाश्रयविकलेन निर्हेतुकवचनेनेति वा। अथ्थ च वृतात्मालपतान् वृतयाऽङ्गीकृतया आत्माल्पतया आत्मन: कायपरिमाणकतयाऽनर्हं नव्यमतं जिनोत्पादितं नवीनप्रस्थानं श्रितान् आश्रितान्। जहत्, (नाभ्यस्ताच्छतुरिति (पा. ७.१.७८) नुमो निषेधाद्रूपम्। परित्यजन्नित्यर्थ:। वृतात्माल्पतान् अर्हतो जिनस्य नवीनं मतमाश्रितान् परित्यजन् वा। ईशादेशवश्य: श्रुत्युक्तमार्गावलम्बी भव। सर्वान् पूर्वपक्षतयोक्तान् चार्वाकादिसिद्धान्तान् परित्यज्य वेदोक्तमनुसर इति सार:। सर्गान्ते छन्द:परिवर्तननियममनुसन्नन्ते। 'शार्दूलविक्रीडितंÓ प्रयुनक्ति।
अनुवाद - तुम मेरे द्वारा उपदिष्ट बुद्धि से पीडाप्रद लोकायतां के ज्ञान से ऊहित चार्वाक रूप दुर्दर्शन को छोड़ दो। नित्यज्ञानात्मक परमात्मा के ज्ञान से सत्तारूप अधिकरण में स्थिर होकर सत्ता के आश्रय से रहित शून्यवचन (शून्यवाद) के कारण निन्दनीय बौद्धों का बलपूर्वक धिक्कार करो। तदनन्तर आत्मा की अल्पता (शरीरपरिमाणता) का प्रतिपादन करने वाले जिन के नव्यमत का आश्रय लेने वाले जैनों को छोड़कर ईश्वर के आदेशरूप वेदों का अनुगमन करो।
टिप्पणी - प्रस्तुत पद्य में कवि ने अनेक अर्थों का सन्निवेश किया है। 'आलोकायतमोहितम्Ó पद 'आलोकाय तमोहितंÓ तथा आ 'लोकायतमोहितम्Ó दो प्रकार से व्युत्पादित किया जा सकता है। प्रथम व्युत्पत्ति के अनुसार इसका अर्थ 'ज्ञान के लिए जो अकल्याणकारी अज्ञान हैÓ किया जा सकता है। दूसरी व्युत्पत्ति के अनुसार 'आÓ पीडावचाक अव्यय है। तथा लोकायत शब्द चार्वाकदर्शन का वाचक है। 'माÓ शब्द ज्ञान का तथा 'ऊहितÓ शब्द तर्क का वाचक है। 'अधिकरणेÓ शब्द भी आधार का तथा 'अधिके रणेÓ जैसा सप्तमी समास मानने पर दार्शनिक वाग्युद्ध का वाचक है। 'वृतात्माल्पतानर्हन्नव्यमतम्Ó भी दो प्रकार से व्युत्पन्न किया जा सकता है। प्रथम 'वृतात्माल्पतान् अर्हन्नव्यमतं श्रितान्Ó का 'आत्मा की कायपरिमाणता का वरण करने वाले अर्हत् के मत का आश्रय करने वालेÓ अर्थ किया जा सकता है। दूसरे 'वृतात्माल्पतानर्हम्Ó का आत्मा की अल्पता को स्वीकार करने से अनर्हÓ अर्थ किया जा सकता है। इसी प्रकार अन्य अर्थ भी सम्भव हैं।
।। १०३।।
तथागतपथागताहितकथावितीर्णप्रथा
व्यथावहकुसंस्कृती: सुवितथा यथा मंस्यसे।
तथाऽऽचर सखेऽन्यथा तव वृथा शरीरं भवे-
दथाऽऽप्नुहि मनोरथान् रहसि मन्मथारिं श्रयन्।।
अन्वय: - हे सखे! तथागतपथागताहितकथा वितीर्णप्रथा व्यथावहकुसंस्कृती: यथा सुवितथा: मंस्यसे, तथा आचर। अथ रहसि मन्मथारिं श्रयन् मनोरथान् आप्नुहि। अन्यथा तव शरीरं वृथा भवेत्।
गङ्गा - तथागतेति- हे सखे! हे मित्र! तथागतपथागताहितकथावितीर्णप्रथा:, तथागतस्य सुगतस्य पथा मार्गेण आगता प्राप्ता या अहितकथाया: वितीर्णा अर्पिता: प्रथा: परम्परा:, बुद्धोपदेशप्राप्ताकल्याणकारिपरम्परा इत्यर्थ:। व्यथावहकुसंस्कृती: पीडाप्रदकुसंस्काररूपा:। यथा येन प्रकारेण सुवितथा: परित्यागयोग्या: मंस्यसे स्वीकरिष्यसे तथा आचर, आचरणं कुरु। वेदोक्तमार्गमनुसरेत्यर्थ:। अथ च रहसि एकान्ते मन्मथारिं भगवन्तं शिवं श्रयन् भजमान: मनोरथान् कामान् धर्मार्थकामादिप्राप्तिपुरस्सरं मोक्षम् आप्रुहि प्राप्रुहि। अन्यथा तव शरीरं वृथा निरर्थकं भवेत्। पृथ्वीच्छन्द:।
अनुवाद - हे सखे! तथागत (बुद्ध) के मार्ग से आयी अहितकथा को अर्पण करने वाली प्रथाओं और पीडा प्रदान करने वाली कुसंस्कृतियों को तुम जिस प्रकार से गलत मान सको वैसा आचरण करो। एकान्त में भगवान् शिव का भजन करते हुए मनोरथों को प्राप्त करो। अन्यथा तुम्हारा शरीर व्यर्थ हो जाएगा।
।। १०४।।
त्वं चार्वाकलयन्निशम्य गदितं देहात्मवादं त्यजन्
मुञ्चन् दूषितहेतुशून्यवचने श्रद्धां च बौद्धेरिते।
जैनान् हीनतमानपास्य कुधियोद्यत्सप्तभङ्गीनये
मालिन्यं तनुचेतसोर्नुद चिरं सच्छ्रौततीर्थाश्रयात्।।
अन्वय: - अये! त्वं गदितं चार्वाकलयं निशम्य देहात्मवादं त्यजन्, बौद्धेरिते दूषितहेतुशून्यवचने श्रद्धां मुञ्चन्, कुधियोद्यत्सप्तभङ्गीन् हीनमतान् जैनान् अपास्य, चिरं सच्छ्रौततीर्थाश्रयात् तनुचेतसो: मालिन्यं नुद।
गङ्गा - त्वं चार्वाकेति- अये! इति सम्बोधने। हे विलासिन्नित्यर्थ:। त्वं गदितं द्वितीयशतके मया प्रतिपादितं चार्वाकलयं चार्वाकमतस्य निराकरणं निशम्य श्रुत्वा पुन: पुनरभ्यस्य देहात्मवादं चार्वाकसिद्धान्तितं त्यजन् परित्यजन्। अथवा गदितं मदुक्तं निशम्य चारु यथा तथा आकलयन् विचारयन्। बौद्धेरिते बौद्धै: प्रेरिते, प्रतिष्ठापिते। दूषितहेतुशून्यवचने, दूषिता हेतवो यस्य तादृशस्य शून्यस्य वचने शून्यवादे। यद्वा दूषितं हेतुशून्यं यद्वचनं तस्मिन्। श्रद्धां मुञ्चन् परित्यजन्। कुधियोद्यत्सप्तभङ्गीन् कुबुद्ध्या उद्यन्तीसप्तभङ्गिर्येषां तान् हीनमतान् हीनमपुष्टं मतं येषां तान् जैनान्। अथवा सप्तभङ्गीन् कुधिय: अल्पमतन् द्यत् खण्डयत् मोहकत्वादिति मालिन्यविशेषणम्। अपास्य परित्यज्य। चिरं चिरकालं यावत् सच्छ्रौततीर्थाश्रयात् श्रुतिसम्बन्धिसच्छास्प्राणाम् ऋषिसेविततीर्थजलानां तीर्थानां च आश्रयात् तनुचेतसो: शरीरमनसो: मालिन्यं नुद दूरीकुरु। तेनैव परमपुरुषार्थप्राप्तियोग्यतालाभादित्यर्थ:। शार्दूलविक्रीडितं वृत्तम्।
अनुवाद - हे विलासिन्! मेरे द्वारा कहे गये चार्वाकसिद्धान्त का खण्डन सुनो और देहात्मवाद का परित्याग करो। बौद्धों के द्वारा स्थापित दुष्ट हेतुओं से युक्त शून्यसिद्धान्त में श्रद्धा का त्याग करो। कुबुद्धि से उत्पन्न सप्तभङ्गी का आश्रय लेने वाले हीनमत जैनों का खण्डन करो। चिरकाल तक श्रुतिसम्बन्धी शास्त्रों, ऋषिसेवितजलों और तीर्थों का आश्रय लेकर शरीर और मन की मलिनता को दूर करो।
।। १०५।।
भ्रमन्दूरे तिष्ठन्नपि तव पवित्रेण तपसा
विनिश्चित्य क्षीणं कलुषमखिलं शीघ्रमुदित:।
अहङ्कार्यासाद्यं प्रथममुपदिश्यास्थिरसुखं
क्रमात्साक्षात्कारावृतिमपहरिष्येऽलमधुना।।
अन्वय: - दूरे तिष्ठन् अपि तव अखिलं कलुषं श्रमं (च) क्षीणं विनिश्चित्य शीघ्रम् उदित: प्रथमम् अहङ्कार्यासाद्यम् अस्थिरसुखम् उपदिश्य, क्रमात् पवित्रेण तपसा साक्षात्कारावृतिम् आहरिष्ये। अधुना अलम्।
गङ्गा - भ्रमन्दूर इति- दूरे तिष्ठन् त्वत्तो दूरे भवन्नपि तव विलासिन: अखिलं समग्रं कलुषमज्ञानं श्रमं श्रान्ति: क्षीणं विनिश्चित्य ज्ञात्वा शीघ्रम् उदित आविर्भूत: अहं प्रथमम् अहङ्कार्यासायम् अहङ्कारिभि: सरागै: आसाद्यं प्राप्यम् अस्थिरसुखं सांसारिकसुखमुपदिश्य। यद्वा 'अहम्Ó इति पृथक् पदम्। कार्येण मनिजैमिनीयाभिमतेन अपूर्वेण प्राप्यमिति वाऽर्थ:। क्रमात् क्रमश: पवित्रेण तपसा पवित्रया तपश्चर्यया साक्षात्कारावृतिं साक्षात्कारस्य ब्रह्मण आवृतिमज्ञानम् अपहरिष्ये दूरीकरिष्ये। यद्वा भ्रमन्नित्यलिविशेषणं वा। शीघ्रमुदित: द्रुतं तुष्ट इत्यर्थ:। साक्षात्कारावृतिं कारायां बन्धनात्नये आवृतिमवरोधं साक्षात् अपहरिष्ये इति वाऽर्थ:।
अनुवाद - दूर रहता हुआ भी जब मैं तुम्हारे सम्पूर्ण कलुष तथा भ्रम को क्षीण जान लूँगा तब शीघ्र ही प्रकट होकर पहले तुम्हें अहङ्कारियों के द्वारा प्राप्य अस्थिरसुख का उपदेश करूँगा। क्रमश: पवित्र तपस्या के माध्यम से ब्रह्म साक्षात्कार में आवरणभूत अज्ञान का हरण करूँगा। इस समय इतना ही पर्याप्त है।
अथवा भ्रमर स्वभाव के कारण इधर उधर घूमता हुआ भी, दूर रहता हुआ भी तुम्हारे समस्त कलुषों को दूर जान कर मैं शीघ्र संतुष्ट होऊँगा। अहंकारियों के द्वारा आसाद्य सांसारिक सुख का आदेश करके मैं पवित्र तपस्या से बन्धगृह के अवरोध को साक्षात् दूर करूँगा।
।। १०६।।
आश्वास्यपङ्कजगलन्मकरन्दमित्रै-
राश्वास्य सान्त्ववचनैरिति तं ततोऽलि:।
स्वच्छन्दमच्छसलिलां तटिनीमगच्छ-
त्तं चान्वगच्छदुदयच्छमधीर्विलासी।।
।। इत्यलिविलासिसंलापे खण्डकाव्ये चतुर्थशतकम्।।
अन्वय: - आस्यपङ्कजगलन्मकरन्दमित्रै: सान्त्ववचनै: आशु तम् आश्वास्य अलि: तत: अच्छसलिलां तटिनीं स्वच्छन्दम् अगच्छत्। तं च उदयच्छमधीर्विलासी अन्वगच्छत्।
गङ्गा - आश्वास्येति- आस्यपङ्कजगलन्मकरन्दमित्रै: मुखरूपकमलपतत्परागसदृशै: सान्त्ववचनै: सान्त्वनाप्रदशब्दै: आशु शीघ्रं तम् विलासिनम् आश्वास्य अलि: तत: तस्मात् स्थानात् काव्यनायको भ्रमर: अच्छसलिलां निर्मतोयां तटिनीं गङ्गां स्वच्छन्दं यथा स्यात्तथा अगच्छत्। तं च अलिम् उदयच्छमधीर्विलासी आविर्भवत्कल्याणबुद्धि: विलासी अन्नगच्छत्, अन्वसरत्।
।।इति विद्यावतीसुतरमाकान्तविरचितायां म.म. गङ्गाधरशास्त्रि-कृतालिविलासिसंलापगङ्गाटीकायां चतुर्थशतकम्।।
अनुवाद - मुखरूपी कमल से गिर रहे मकरन्द के समान सान्त्वनावचनों से शीघ्र ही उस विलासी को आश्वस्त करके वह अलि वहाँ से स्वच्छन्द होकर निर्मलसलिला गङ्गा की ओर चला गया। उदित रही कल्याणबुद्धि वाले विलासी ने उसका अनुगमन किया।
।। इति विद्यावतीसुतरमाकान्तपाण्डेयकृते हिन्द्यनुवादे चतुर्थशतकम्।।