।।श्रीहरि:।।
गोविन्दवैभवम्
(१)
विनय-प्रस्तावना
सो.- मन्दीभवदरविन्दमिन्दीवरबन्दीकरम्।
वन्देमहि गोविन्दचरणममन्दीकृतसुखम्।।१।।
मन्दीभवत् अरविन्दं यस्मात्, कमलविडम्बकमित्याशय:। इन्दीवरस्य नीलकमलस्य अपि बन्दीकरं विजेतारम्।।१।।
क.- पूर्वार्जितपुण्यैर्या कवित्वकला प्राप्ता, हन्त
विज्ञानां विवद्र्धितवान् विषयरुचिं तया
नृपनगरादिकं निबध्रन्नभिविश्य तया
दृश्यमिव दर्शितवान् मूर्तिमदिदंतया।
मञ्जुनाथ नानाविधकाव्यगुणैर्भव्या भवे-
न्नव्यापि च सूक्तिर्हरिहीना यदि, किं तया?
साम्प्रतमवेहि देवि वाणीयद्दयां विधेहि
वाणीमद्य पूतां करवाणीश्वरचिन्तया।।२।।
तया कवित्वकलया विज्ञानां विषयेषु रुचिं प्रीतिं वद्र्धितवान् विषयाभिमुखीं प्राबल्येन प्रवर्तितवान्। किञ्च अहम् अभिविश्य अभिनिवेश- (आग्रह-) पुरस्सरं नृप:, नगरम्, एतदादिकं वर्णयन् इदन्तया इदमस्तीतिरूपेण तेषां मूर्तिमत् दृश्यं दर्शितवान्, प्रत्यक्षां तेषां मूर्तिमिव अक्षरेषु निबद्धवानित्यर्थ:। हे वाणि! इयतीं दयां विधेहि यत् अद्य ईश्वरचिन्तया स्वीयां वाणीं पवित्रां करवाणि। प्रार्थनायां लोट्।।२।।
रूपककिरीटपरिणामपत्रपाश्यायुतां
काव्यलिङ्गकर्णिकाढ्यचूडामणिकोपमाम्
उत्प्रेक्षावतंसतुल्ययोगितातरणिभृतां
तद्गुणतरलहेतुहारतो मनोरमाम्।
श्लेषकरकङ्कणविरोधवलयानुगुणां
परिकरकाञ्चीसारनूपुरसुखक्रमाम्
मानस! मुकुन्दचरणारविन्दलग्नामये
मौनमभिनन्दयस्व सूक्तिसुन्दरीमिमाम्।।३।।
रूपकालङ्कार एव किरीटम्, परिणामालङ्कार एव पत्रपाश्या ललाटभूषणम्, 'बाँक’ इति व्रजभाषायां प्रसिद्धम्। ताभ्यां युक्ताम्। काव्यलिङ्गरूपकर्णिकया तालपत्रेण आढ्यां च, चूडामणि: उपमा यस्या: उपमारूपचूडामणिकाम् इत्याशय:, तां चेति समस्तयो: कर्मधारय:। उत्प्रेक्षैव अवतंस: कर्णपूर:, तुल्ययोगितैव तरणि:, कर्णभूषा 'तरौना’ इति भाषायां प्रसिद्ध:। ताभ्यां भृताम्। तद्गुणालंकार एव तरल: मध्यमणि: यस्मिन्नेवंविधेन हेत्वलंकाररूपेण हारेण मनोरमाम्। श्लेष एव करयो: कङ्कणस्थानीय: विरोधालंकारश्च वलयानुगुण: वलयसदृश: यस्या: ताम्। परिकररूपया काञ्च्या, सारालंकाररूपेण नूपुरेण च सुखकारक: क्रमो यस्यास्ताम्। अये मानस! इमाम् एवं प्रकारेण अलंकृताम् सूक्तिरूपां सुन्दरीं मुकुन्दचरणारविन्दलग्नाम् मौनं तूष्णीम् अभिनन्दयस्व। अलंकृतापि सूक्तिर्यदि भगवच्चरणारविन्दलग्रा भवेत् तदैवाभिनन्दनयोग्या, नान्यथेत्याशय:।।३।।
सदनसमाजसुहृत्सम्बन्धिषु दत्तं पुरा
श्रीपतिपदाब्जे मनोवित्तं विभजेऽधुना
मानसमिदं मे नृपश्रीनये निविष्टमभूत्
प्रीणये तदेतत् प्रभुपादपङ्कजेऽधुना।
लालसालवेन धनिकालयेषु लीनोऽभवं
निर्वृतिविहीनो गरुडध्वजं यजेऽधुना
धनिककुविन्दं प्राप्य कीदृशमविन्दं सुखं
पावनपदारविन्दं गोविन्दं भजेऽधुना।।४।।
पूर्वं हि मनोरूपं वित्तं सदनसमाजादिषु विभक्तमासीत्, अधुना तत् श्रीपतिचरणकमले विभजामि। ‘विभागपदेन’ अन्यत्र मनोयोगेऽपि शनै: शनैर्भगवदनुराग: प्रवर्तित: शनै: शनैर्भगवद्विषयकं भावं पुष्णातीति क्रम: सूचित:। इदं मे मन: पूर्वं नृपश्री: राजलक्ष्मी: तस्या: नये नीतौ मार्गे इति यावत्, राजलक्ष्म्या: संग्रहे वा निविष्टमासीत्। अधुना तदेतत् मन: प्रभुचरणकमले प्रीणयामि। धनिकरूपं कुविन्दं कौलिकम् प्राप्य न किञ्चित्सुखम् अविन्दं प्राप्नवम्, अत एवाधुना गोविन्दं भजे।।
चेतसा विचिन्तयामि चारुचित्रशालां चिरात्
पीलुपर्णशालां बहु मानये व्रजेऽधुना
भावितवान् भूरि नृपनिष्कुटेषु शीतलतां
शीतलतां वीक्षे द्रुमे यमुनाङ्गजेऽधुना।
सूक्तिभि: समर्थितवान् नानास्थले लोभात्पुरा
शोभां ब्रुवे कालिन्दीप्रतीरनीरजेऽधुना
धनिककुविन्दं प्राप्य कीदृशमविन्दं सुखं
पावनपदारविन्दं गोविन्दं भजेऽधुना।।५।।
चिरकालात् चेतसा चित्रशालां चिन्तयामि, अधुना व्रजे पीलुवृक्षाणां पर्णकुटीं बहुमानेन पश्यामि। बहुमूल्यां चित्रिताट्टालिकां त्यक्त्वा अधुना व्रजस्थितां पर्णकुटीं साधु मन्ये इत्याशय:। एवमग्रेऽपि। राज्ञां गृहारामेषु शीतलां लतां बहुतरमालोचितवान्, इदानीं यमुनामध्यरूढे द्रुमे वृक्षे शैत्यं पश्यामि। निष्कुटस्थितलतापेक्षया यमुनाजातो वृक्ष: शान्तिदायकत्वात् अधिकं शीतल: प्रतीयते इत्याशय:। लोभवशात् अन्येषु नानास्थलेषु पूर्वं निजसूक्तिभि: शोभां साधितवान्, इदानीं यमुनातीरगते नीरजे कमले शोभां वदामि।।५।।
कोऽप्ययं कुबेर इति कृपणमपीडितवान्
पीडितवान् सत्यमिति हृदि विलजेऽधुना
ललितलुलितलापैर्लालसालवान्धोऽभवं
वाग्विभवं नैक्षिषीति दोषमाभजेऽधुना।
काव्यगवीगुम्फं पुरा पङ्किलमकार्षं हन्त
तं किल पुनामि पयसीशपादजेऽधुना
धनिककुविन्दं प्राप्य कीदृशमविन्दं सुखं
पावनपदारविन्दं गोविन्दं भजेऽधुना।।६।।
कृपणमपि पुरुषम् 'अयं कोऽपि कुबेर:’ इति अयं ईडितवान् श्लाघितवान्। अतएव अहं सत्यं पीडितवान्, मया सत्यस्य हिंसा कृतेति अधुना हृदि विलज्जे। 'ओलजी ओलस्जी’ व्रीडायाम्। कविताकरणे ललितलुलितेत्यादिभि: लापैर्वचनै: उपलक्षित: अहं लालसाया लेशेनापि अन्ध: अभवम्, वाग्देव्या: वैभवम् अहं न अद्राक्षम् इत्यधुना दोषं स्वीकरोमि। अतएव वाण्या वैभवस्य दुरुपयोगं कुर्वन् लालसान्धोऽहं काव्यवाणीगुम्फं मलिनमकार्षम्, अद्य तं गुम्फम् ईशपादजे पयसि विष्णुचरणजले गोविन्दगुणगीतिगङ्गायाम् पुनामि।।६।।
मनसि निपीड्यसे प्रभूतपरितापाकुलो
दुर्जनप्रलापा अपि बाधन्ते मनागिमे
धावसि धनाढ्यगृहे कामं कणयाची भवन्
लालसापिशाचीजातपातकपचेलिमे।
हंहो सुखवाञ्छाव्यग्र! शंसतोऽपि शान्तिपथं
कथय कथं न वच: कर्णयो: करोषि मे
भृशमपमानदु:खदावानलदह्यमान
मानस! मुकुन्दपदमानसमुपेहि मे।।७।।
लालसापिशाचीसकाशाज्जातं यत्पातकं तेन पचेलिमे लालसापातकपरिपाकोन्मुखे धनाढ्यगृहे सुखवाञ्छाव्यग्र हे मानस! शान्तिपथं शंसत: सूचयत: अपि मे वच: कर्णयो: कथं न करोषि इति कथय। अपमानस्य दु:खरूपेण दावानलेन दह्यमान हे मम मानस! मुकुन्दचरणरूपं मानससरोवरम् उपेहि उपगच्छ। दह्यमानस्य यथा मानससरोवरं सुखाकरं तथा गोविन्दचरणरूपं सर: इत्यर्थ:।।७।।
क्षिपसि सुभाषितानि सूरिजनश्रव्याण्यहो
द्रव्यार्जनलालसोऽनभिज्ञेष्वधरोत्तरम्
भूमिगृहारामार्थेषु रात्रिंदिवमाहिण्डसे
मण्डयसे हन्त विमतान्यपि निरुत्तरम्।
उपरि तु मञ्जुनाथ साधुतां समर्थयसे
किमिति कदर्थयसेऽधीतं शास्त्रविस्तरम्
सूनुसुखसद्मेच्छयाऽऽच्छादय न छद्मेदृशं
गोविन्दाङ्घ्रिपद्मे मनो मोदय निरन्तरम्।।८।।
अर्जनलालस: त्वं सूरिजनश्राव्याणि सुभाषितानि अनभिज्ञेषु क्षिपसि। अनभिज्ञेषु मर्मस्पृक्सूक्तिश्रावणं केवलं इतस्तत: प्रक्षेपणमेवेति 'क्षिप्’ धातुना व्यज्यते। विरुद्धानि मतान्यपि निरुत्तरम् उत्तरम् अप्रदायैव समर्थयसे। सुतादीनामिच्छया ईदृशं कपटं न आच्छादय गोपय।।८।।
यस्यास्तीरसीमनि विभाति भूरिशान्ति: कापि
लभ्यतेऽथ विश्रान्तिर्यदन्तर्विधुतापदम्
स्पर्शतोऽपि यस्या: परिपूता: पुरुपापिनोऽपि
पूर्णपरितापिनोऽपि याता: सुखसम्पदम्।
पावनपरमहंसा: प्रीता यत्पुलिनपथे
पुण्यवन्नराणां या ह्युपेयते परं पदम्
किं क्रन्दामि मन्दतया, विन्दामि न केन मनाग्
गोविन्दाङ्घ्रिकञ्जमधुमन्दाकिनीमुन्मदम्।।९।।
यस्या: अङ्घ्रिकञ्जमधुमन्दाकिन्या: तीरे कापि (अनिर्वचनीया)। यदन्त: यस्या मन्दाकिन्या: अन्त: विधुतापदं दूरीकृतापत्ति यथा स्यात्तथा विश्रामो लभ्यते। हंसा योगिनो मरालाश्च। या हि मन्दाकिनीं पुण्यवतां नराणां परमं पदम् उपेयते स्वीक्रियते। तां गोविन्दचरणकमलजां मकरन्दमन्दाकिनीम् उन्मदम् उत् उच्चै: मद: हर्षो यस्मिंस्तथा किमिति न विन्दामि?।।९।।
(२)
मानस-निवेदना
दीव्यत्स्वपि दिग्गजेषु नि:स्पन्दो य आसीत्सदा
शैलमिमं दोष्णा यो दधार व्रजभीनुदम्
यस्य पदपङ्केरुहमञ्जुमकरन्दो बत
भूरिभक्तवृन्दोन्मदमादधात्यरुंतुदम्।
भक्तजनानन्दो यो हि हिन्दोलाधिरोहसुखै:
काङ्क्षति कलिन्दोद्भवतटिनीतटेऽम्बुदम्
मानसमिलिन्दोचितचारुचरणारविन्दो
गोविन्दो हसन्मुखारविन्दो दिशतान्मुदम्।।१०।।
य: गोवर्द्धनशैल: दिग्गजेषु दीव्यत्स्वपि क्रीडत्स्वपि नि:स्पन्द आसीत्, व्रजभीनुदं व्रजभयदूरीकारकम् इमं गोवर्द्धनशैलं य: दोष्णा भुजेन दधार। यस्य गोविन्दस्य पदकमलमकरन्द: अरुंतुदं मर्मस्पर्शि यथा स्यात्तथा भूरिभक्तवृन्दानाम् उन्मदं हर्षम् आदधाति। भक्तजनान् आनन्दयति य: स:, हिन्दोलाधिरोहणसुखकारणेन। सुखैरिति हेतौ तृतीया। कालिन्दीतटे अम्बुदं काङ्क्षति। य: कृष्णो दोलाधिरोहणसुखार्थं यमुनातटे मेघं वाञ्छति, मेधे वर्षत्येव तस्यानन्द इत्याशय:।।१०।।
यत्पदपयोजमधुबिन्दोर्माधुरीभि: सार्द्ध-
मिन्दोरपि साधुसुधास्यन्दो न धरेत माम्
येन पुरा पापिनोऽपनीता भवबन्धोषिता
दीनमिमं दोषैरेष किं वा प्रहरेत माम्।
मन्दोऽस्ययि मञ्जुनाथ किं दोलितचित्तो भासि
स्वच्छन्दोऽवगच्छन्निदं लोके विहरेत माम्
सर्वसुखसंदोहोपचायिचरणारविन्दो
गोविन्दो गभीरभवसिन्धोरुद्धरेत माम्।।११।।
यस्य गोविन्दस्य पदकमलमधुबिन्दो: माधुर्यै: सह इन्दो: सुधास्यन्दोऽपि माम् शोभाम् न धरेत् पदकमलस्य एकस्य मधुबिन्दोर्माधुर्येण सार्द्धं चन्द्रसुधानिर्झरस्यापि साम्यं नास्तीत्याशय:। येन पूर्वम् भवबन्धपतिता: पापिन: अपनीता: उद्धृता:, एष: अयं गोविन्द: दोषै: दोषकारणेन किं मां दीनं प्रहरेत् ताडयेत्? अपि तु नेत्याशय:। हे मञ्जुनाथ! त्वं मन्द: किं संशयितचित्तोऽसि? अहं तु इदम् अवगच्छन् लोके स्वच्छन्द: सन् अत्यन्तं विहरामि किं जानन्, तदाह- सर्वसुख-समूहस्य उपचायकं वर्द्धकं चरणारविन्दं यस्य स: गोविन्द: गभीरात् भवसागरात् माम् उद्धरेत।।११।।
गौणं गृणन् गोविन्दस्य गुम्फितगुणानुवाद-
मन्यग्राम्यगीतान्येव गायसि गुरुस्वरे
साधुस्वरमाधुरीमुपायसि पिकस्वरेषु
वेणुरवे विष्णोर्न तां विन्दसि विकस्वरे।
मञ्जुनाथ मधुरमुदीक्ष्य मोदमानो यासि
दृष्टिं न ददासि मुदा जातु जगदीश्वरे
साधारणसौख्यकृते मा धावस्व मूढ! मुधा
राधारमणङ्घ्रिकञ्जमाधारीकुरुष्व रे।।१२।।
गुम्फितं कवितया निबद्धं गोविन्दस्य गुणानुवादं गौणं यथा स्यात्तथा गृणन् गायन् त्वम् अन्यानि ग्राम्यगीतान्येव नायिकानगरवर्णनादीनि गुरुस्वरे महति स्वरे गायसि। कोकिलस्वरेषु उत्तमस्वरस्य माधुर्यम् उपायसि (लभसे जानासि वा)। विकस्वरे विकासशालिनि कृष्णस्य वंशीरवे तां माधुरीं न विन्दसि। मधुरं किञ्चिदपि वस्तु वीक्ष्य प्रसन्नस्त्वं तत्समीपे यासि, जगदीश्वरे (यो हि माधुर्याणां परा काष्ठा) तस्मिन् दृष्टिं न ददासि।।१२।।
मोदमयमञ्जुलतामेवमवलोक्य यस्य
मेदुरमृगाङ्कमञ्जिमानमप्यपासीथा:
उन्मीलन्महोत्पलेषु मूढ! मधु मार्गसि किम्
मेदिन्याममुष्यां माधुरीं तां न प्रशासीथा:।
मञ्जुनाथ माधुरीविमुग्धो महीमाहिण्डसे
मोहकमरीचिकायामधुनाप्युदासीथा:
माधुरीमभीप्ससि यदीह मञ्जिमाधुरीण
मानस! मुकुन्दमुखमाधुरीमुपासीथा:।।१३।।
यस्य मुखस्य मोदमयीं मञ्जुलतां वीक्ष्य सान्द्रस्निग्धस्य चन्द्रस्य सुन्दरतामपि अपासीथा: दूरीकुर्या:। हे मूढ! फुल्लमहाकमलेषु मकरन्दं किं मार्गसि अन्विष्यसि? अस्यां पृथिव्यां ताम् मुखगताम् माधुरीं न प्रशासीथा: न प्रशंसितुं प्राप्नुया:। आहिण्डसे निष्फलं भ्रमसि। मोहकमरीचिकाविषये अधुनापि उदासीथा: तटस्थो भवे:। मञ्जिमविषये आ समन्तात् धुरीण श्रेष्ठ हे मानस! यदि माधुरीं वाञ्छसि तर्हि मुकुन्दमुखमाधुरीं सेवेथा:।।१३।।
दीपितदिनादौ दलदिन्दीवरशोभाहारि
प्रणयिपुलिन्दी-जनजीवनमवेक्ष्यताम्
अमरविमार्गणीयमञ्जुमकरन्दभरै-
र्मुनिमधुपानां मनोमोहकमुदीक्ष्यताम्।
सविधमुपागतानां पूर्णपरितापहरं
दुर्मदैर्दुरापमिति सपदि समीक्ष्यताम्
विन्दसि किमन्यन्मम मानसमिलिन्द मनाक्
श्रीगोविन्दचारुचरणारविन्दमीक्ष्यताम्।।१४।।
यत् चरणारविन्दम् दीपितदिनादौ दीपिते मेघावरणादिशून्यतया प्रकाशशालिनि दिनस्य मुखभागे दलत: इन्दीवरस्य शोभाहारि। प्रणयिन: पुलिन्दीजनस्य गोपीजनस्य यत् जीवनभूतम् अवेक्ष्यतां विचार्यताम्। अमरैरपि प्राप्तुमन्वेषणीयै: मकरन्दसंदोहै:। यत् चरणरूपमरविन्दं समीपागतानां पूर्णतापहरम्, दुर्मदै: अभिमानिभि: च दुर्लभमिति विचार्यताम्।।१४।।
कुहनाकराले किल कृच्छ्रकलिकाले नृणां
भक्तिर्मुक्तिदात्री व्रजपाले निगमर्चेयम्
जानतोऽपि चैतज्जडबुद्धेर्जनिर्जीर्णाभव-
ज्जातु न विजीर्णा किन्तु जाठरी मदर्चेयम्।
भारति! भवद्विभूतित: स्याद्भावना मे मनाक्
येन यदुनायकमनोज्ञमूर्तिमर्चेयम्
चेतसि चरेच्च चिन्ताचक्राणि विमुच्य वाणि!
चारुचक्रपाणिचरणारविन्दचर्चेयम्।।१५।।
कुहनया कपटेन कराले कृच्छ्रेऽस्मिन् कलिकाले, व्रजपाले कृष्णे भक्ति: नृणां मुक्तिदात्री इति इयं निगमस्य ऋ चा वेदवाक्यम्। एतज्जानतोऽपि जडबुद्धेर्मे जनि: जीर्णा जन्म गतप्रायम्। किन्तु जाठरी जठरसम्बन्धिनी मम अर्चा इयं न विजीर्णा। हे सरस्वति! भवद्वैभवादेव मे, किञ्चिद्विचारो भवेत् येनाहं भगवन्मूर्तिम् पूजयेयम्। किञ्च हे वाणि! चिन्ताया: चक्राणि आवर्तान् विहाय मे चेतसि भगवच्चरणारविन्दचर्चा इयं चरेत्।।१५।।
नन्दादिव्रजौकसामभूत् स नूतनानन्दाय
पूतनां निमथ्रन् यो हि वक्षसि निषद्य ताम्
कंसं ध्वंसमानीयाथ येन शिशुपालोऽकारि
कालोदरगामी पुरा योऽगात्पारिषद्यताम्।
मुरमवमथ्रता व्यपोथि येन भौमासुर:
कौमारमहारि नृपकन्यानां विविद्यताम्
दर्पितदनुजवधूवीक्षणेषु वर्षागमो
गोविन्दो ममाद्य मनोहर्षायोपपद्यताम्।।१६।।
य: गोविन्द: पूतनाया वक्षसि निषद्य स्थित्वा तां पूतनाम् निमथ्रन् संहरन् नन्दादिव्रजवासिनां पूर्वतो नूतनहर्षायाभूत्। पुरा य: शिशुपाल: शापत: पूर्वं स्वस्य पारिषदताम् अगात् स: येन गोविन्देन मृत्यूदरशायी कृत:, इति विविद्यताम् ज्ञायताम्। भौमासुरबन्दीकृतानां नृपकन्यानां येन कौमारं दूरीकृतम् ता: परिणीतवानित्यर्थ:। दर्प: सञ्जातो येषां तेषां दनुजानां वधूलोचनेषु प्रावृट्सदृश:, पतिविरहे निरन्तरमश्रुवर्षाकारकत्वात्।।१६।।
मूद्रधनि मनोज्ञमणिमञ्जुलमुकुटधारी
कुन्तलकलापमनोहारी मुखपद्धतौ
चञ्चलानुकारी कटिदेशे भाति पीतपटो
मोदमुपयाति गोपनारीजनसंहतौ।
मञ्जुनाथ दारुणदवौघपरिहारी सतां
भक्तजनमानसविहारी साधुसंगतौ
मनसि मुनीनामपि मन्दमन्दचारी चिरात्
सोऽयं सुखकारी मे मुरारी रमतां मतौ।।१७।।
मनोज्ञै: सुन्दरै: मणिभिर्मञ्जुलं मुकुटं धारयति स: मुखपद्धतौ मुखदेशे कुन्तलसमूहेन मनोहर:। चञ्चलानुकारी विद्युत्सदृश:। सज्जनानां दारुणदु:खसमूहं परिहरति तच्छील:। साधुसंगतौ सत्सङ्गे सति भक्तजनानां मानसे विहरति तच्छील:। मुनीनामपि मनसि चिरात् अतियत्नोत्तरम् मन्दमन्दचारी शनै: शनैर्हृदये प्राप्तव्य: स मुरारि: मे बुद्धौ रमताम् प्रसन्नतया विहरतु। 'मुरारि: रमताम्’ अत्र रेफलोपदीर्घौ बोध्यौ।।१७।।
मुक्तामणिमण्डितमुकुटमधिमौलि भाति
श्रियमुपयाति कर्णकुण्डलमनायतम्
कण्ठे हीरहारावलिराविन्दति शोभामहो
सुषमावहोऽयं भाति पीतपटोऽव्याहतम्।
मञ्जुनाथ मञ्जुमिमां मूर्तिमवलोकयतो
हृदि समुदेति परितोष: कोऽप्यनाहतम्
मन्देतरशोभाशालिसुखदपदारविन्दे
राधिकागोविन्दे मनो रमतामनारतम्।।१८।।
मुक्तामणिभि: मण्डितं मुकुटं मौलौ भाति। अनायतं नातिदीर्घं कुण्डलम्। सुषमावह: शोभाकारक: पीतपट: अव्याहतम् अवारितं यथा स्यात्तथा, बाढमिति यावत् भाति। अवलोकयत: मम परितोष: अनाहतं निरन्तरं यथा स्यात्तथा उदेति। मन्देतर (अमन्द) शोभाशालिनी सुखदे पदारविन्दे यस्य तस्मिन्। श्रीराधिकायुक्ते गोविन्दे।।१८।।
(३)
रूप-माधुरी
आशिखानखम्
विलुलितकुन्तलेषु मुकुटमुदेति मुदे
सा काचिन्मुखश्रीर्वहेद्राकापतेरल्पताम्
कण्ठे वनमाला कर्णमध्ये कर्णपूरं भाति
केयूरं दधाति भुजे शोभावधूतल्पताम्।
पीताम्बरशोभिनी निवीता रत्नकाञ्ची किञ्च
पदयोरुदीता नूपुरश्रीर्यात्यनल्पताम्
मनसि मनोभुवोऽपि पूर्णपरिक्षोभावहा
श्रीगोविन्दशोभा मनोलोभायोपकल्पताम्।।१९।।
मुदे आनन्दाय मुकुटम् उदेति शोभते। राकापतेश्चन्द्रस्यापि अल्पतां न्यूनतां वहेत्। भुजे केयूरम् अङ्गद: शोभारूपाया: वध्वा: पर्यङ्कतां दधाति। शोभाया निवास इत्यर्थ:। पीताम्बरोपरिशोभिनी रत्नमण्डिता काञ्ची निवीता धारिता। पदयो: उदीता उद्भूता ('ईङ् गतौ’ क्त:) नूपुरशोभा अनल्पताम् अधिकताम् याति। सौन्दर्यातिशयात् कामदेवस्यापि क्षोभकारिणी गोविन्दशोभा।।१९।।
हंस इव कञ्जे हीरहंसको विभाति पदे
विद्युद्द्युतिशंसकोऽथ पीतपटो वीक्ष्यताम्
वक्षसि विशाला वनमाला मञ्जु राजतेऽथ
रत्नरुचिजालावहं कुण्डलमुदीक्ष्यताम्।
रोलम्बावलीव भाति बाढमलकावलीय-
मुपरि महार्हमणिमुकुटमपीक्ष्यताम्
सौभगेन साकं सतां सर्वसुखसाधा सदा
राधारमणस्य रूपमाधुरी निरीक्ष्यताम्।।२०।।
कमले यथा हंसस्तथा चरणे हीरकनिर्मित: पादकटको भाति। तदुपरि विद्युत्कान्तिसूचक:। रत्नरुचिजालावहम् रत्नानां कान्तिसमूहस्य धारकम्। रोलम्बो भ्रमर:। सौभाग्येन सह सज्जनानां सर्वसुखसाधिका सर्वसुखानां साध: साधनं यया सा।।२०।।
(४)
मन:प्रबोधना
मन्ये महिमानं यस्य गोवर्द्धनधारणेन
सव्रीडे मघोनि नमतीह नतापीडेऽहम्
पापिनोऽपि पूता: पुरा लब्ध्वा क्षणच्छायां यस्य
यायां किं न शान्तिं हृदि प्राप्तपूर्णपीडेऽहम्।
शुक इव गीर्णगिरा राजपदरूढोन्मदान्
मूढो वर्द्धयामि कियद् गूढो गृहनीडेऽहम्।
मानसमिलिन्दमोदिमञ्जुमकरन्दवहं
श्रीगोविन्दसुन्दरपदारविन्दमीडेऽहम्।।२१।।
गोवर्द्धनगिरिधारणेन सव्रीडे सलज्जे अतएव नतापीडे नम्रमुकुटे मघोनि इन्द्रे इह नमति सति अहं यस्य चरणारविन्दस्य महिमानं मन्ये जानामि। यस्य चरणस्य क्षणं छायां लब्ध्वा पापिनोऽपि पूता:। अत: प्राप्तपूर्णा पीडा येन ईदृशे हृदये अहं शान्तिं किं न यायाम्- अपि त्ववश्यं शान्तिं प्राप्नुयाम्। गृहरूपे नीडे गूढ: निलीन: मूढोऽहं शुक इव गीर्णया अभिभूतया वाण्या राजपदरूढान् अतएव उन्मादान् जनान् कियद् उत्कर्षयामि। मानसरूपभ्रमरस्य मोदकं मञ्जुं मकरन्दं वहति तादृशं गोविन्दस्य पदारविन्दम् ईडे स्तवीमि।।२१।।
साधनबलेन या विमुक्तेर्जिह्मजल्पनास्ति
कष्टकरकल्पना करालेऽस्मिन् कलौ कासौ?
भूरिभवबन्धविनिकन्दनस्य शक्तिरहो
नीतबहुयूपे यागरूपेऽप्यप्रभौ कासौ?
मञ्जुनाथ दूरमन्यसाधनानि मुञ्चे: सखे
चेतनाद्य संचेतति ते प्रमावनौ कासौ?
पारं भवसिन्धोरनिबन्धनेन नूनं नये-
न्नन्दनन्दनेति नामनिष्कीर्तननौकासौ।।२२।।
सत्कर्मादिसाधनबलेन मोक्षस्य या जिह्मा कुटिला जल्पना कथनम् अस्ति, कराले अस्मिन् कलौ असौ कष्टकरकल्पना का? कलिकाले इयं कष्टकल्पना अकिंचित्करीत्यर्थ:। नीतबहुयूपे बहुतरयज्ञस्तम्भसहिते अपि अप्रभौ भवबन्धच्छेदनासमर्थे यागरूपे असौ खङ्गे बहुजन्मबन्धच्छेदनस्य का शक्ति:? अपि तु न काचित्। यज्ञरूप: खङ्गो भवबन्धच्छेदने अशक्त इत्याशय:। प्रमावनौ यथार्थज्ञानस्य भूमिभूते ते तव असौ प्राणे अद्य का चेतना बुद्धि: संचेतति? 'यथार्थज्ञानभूमौ ते आत्मनि ज्ञानादिभिरन्यसाधनैर्मुक्तिर्भवेत्’ इति केयं बुद्धिर्जातेत्याशय:। नन्दनन्दनेत्यादि नामसंकीर्तनरूपा नौका अप्रतिबन्धेन भवसिन्धो: पारं नयेत्।।२२।।
मञ्जुनाथ पार्थिवपुरादिकं प्रशंसस्येव
निर्भरनृशंस! निम्ननामान्यपि नित्यं शंस
केशव कलिन्दजाविहारिन् कृष्ण केलिकन्द
कैटभनिकन्द बलकीलितकरालकंस।
वासुदेव वृन्दावनवासिन् वनमालिन् विधो
वेणुवाद्यशालिन् विश्वरूप वृष्णिजावतंस
मारवदमन्द मुरलीधर मुराभिकन्द
माधव मुकुन्द मुनिमानसमनोज्ञहंस।।२३।।
केलिकन्द आनन्दकन्देत्यर्थ:। विधो विष्णो! वृष्णिजावतंस यादवेषु भूषणायित। मारवदमन्द कामदेववत् सुन्दर। मुनिमानसरूपस्य मानसस्य सरोवरस्य हंस।।२३।।
माधुर्यातिमुग्धमुनिमानसमिलिन्दे यत्र
मोदमधिविन्देदिन्दिरापि लग्रलालसम्
साभिलाषमाश्रितममन्दमकरन्देच्छया
वृन्दारकवृन्देनापि यस्य पदसारसम्।
मञ्जुनाथ जीवसि जनानां स्तुतिनिन्दे गृण-
न्नुत्तरं तु किं देक्ष्यसि देवाग्रे ससाहसम्
गोविन्दे गिरापतिगवेष्यचरणारविन्दे
मन्युमील्यमानमभिनन्देन्मम मानसम्।।२४।।
यत्र पादसारसे लग्ना लालसा यस्मिन् कर्मणि साभिलाषम्, इन्दिरा लक्ष्मी: अपि मोदं प्राप्नुयात्। सारसम् कमलम्। देवाग्रे भगवत्समक्षम् (अन्ते) साहसमवलम्ब्य किमुत्तरं देक्ष्यसि दास्यसि? मन्युना दु:खेन मील्यमानं दूयमानं मानसम् अभिनन्देत् हृष्येत्।।२४।।
(५)
सौन्दर्य-सुषमा
(भ्रूकुटी)
यस्या: क्षणवल्गनेन गोपीनिवहाय निजे
चापे शररोपी स्मरोऽसूयेद् गृहराजते
यस्या: किंचिदञ्चनेन वञ्चितहृत्पङ्केरुहा
लेभे शर्म पर्यङ्केऽपि रुक्मिणी न राजते।
शक्तिं भ्रुवो मञ्जुनाथ मोहिनीमुदीरयामि
मोहिनीस्वरूपे मृडो मुह्येद् व्रजराज! ते
मानिनीसमाजमौलिमुकुटीकृताज्ञा हरे!
भु्रकुटीच्छलेन कामसुकुटी विराजते।।२५।।
यस्या: भ्रुकुट्या: क्षणं वल्गनेन चलनेन गृहराजते गृहे शोभमानाय (शत्रन्तस्य चतुर्थी) गोपीनिवहाय स्वचापे शररोपी शरसंधायक: स्मर: असूयेत् कुप्येत् (क्रुधद्रुहेति चतुर्थी)। अञ्जनेन चलनेन। राजते रजतनिर्मिते पर्यङ्के। हे मञ्जुनाथ ते भ्रुकुट्या: शक्तिं मोहनशीलां वदामि, यत: हे व्रजराज! ते मोहिनीस्वरूपे मृड: शिव: मुह्येत्। मोहिनीरूपे त्वद्भ्रुकुटिचलनेन शिवोऽपि मोहितस्ततस्ते भ्रुव: शक्तिं मोहनशीलां वदामीत्याशय:। मानयुक्तानामपि महिलानां समाजेन मौले: मुकुटवद् भूषणीकृता आज्ञा यस्या: सा, कामस्य सु सुभगा कुटी निवासस्थानम्। 'राजते’ पदस्य चतुर्धा निर्वाह: प्रेक्ष्य:।।२५।।
(लोचने)
मध्यगमिलिन्दमपि मन्दीभवेत् कुन्दमिह
दीनमिदमिन्दीवरमुपमां न विन्दते
लज्जितमिव मज्जति पयस्सु मीनयुग्ममहो
हीनकान्ति खञ्जनमिथुनमवकन्दते।
दनुजकुलानि विकलानि ययो: शोणरुचा
कोणमप्यवाप्य ययोर्मुक्तिरपि वन्दते
मञ्जुमृगरोचनेऽप्यलभ्यरुचिरोचनेन
लोचने कुरङ्गमदमोचने मुकुन्द ते।।२६।।
मध्यगतो मिलिन्दो यस्य ईदृशमपि कुन्दपुष्पं ययोर्लोचनयोरग्रे मन्दीभवेत्। श्वेतं कुन्दं मध्ये भ्रमरश्च कनीनिकास्थानीय:, तथापि इदं नेत्राग्रे पराजितं भवतीत्याशय:। इन्दीवरमपि उपमां साम्यम् न लभते अवकन्दते पराजितत्वात्क्रन्दति। क्रोधवशात् ययो: (नेत्रयो:) शोणकान्त्या दैत्यकुलानि व्याकुलानि भवन्ति। ययोर्नेत्रयो: कोणपाते मुक्तिरपि मनुष्यं चन्दते। भगवत्कृपापाङ्गेन मुक्तिरपि मनुष्यस्य वशगा भवतीत्याशय:। श्यामवर्णे मृगरोचने कस्तूर्याम् अपि अलभ्यया रुच्या कान्त्या रोचनेन शोभया। मृगरोचनतोऽप्यधिकश्यामशोभाकारणात् हरिणगर्वमोचने ते लोचने।।२६।।
(वंशीरव:)
निर्भरं निशम्य गृहे प्रणयिपुलिन्दीगणो
मन्दीकृतमोहो जहौ कान्तादिककामनाम्
यं श्रुत्वैव कालिन्दीयकच्छे व्रजधेनवोऽपि
नि:स्पृहं नियच्छेयु: स्वभोज्यादिकभावनाम्।
मञ्जुनाथ मूच्र्छनासनाथो व्यश्रुवानो व्योम्नि
यो वै वनमालिन् वितनोति सुखसाधनाम्
नाथ! तदयं शीलितहर्षस्तव वंशीरवो
निभृतनिरंशीकुरुतान्मे भववासनाम्।।२७।।
यं रवं निशम्य गोपीगणो निजवल्लभादिकामनां त्यक्तवान्। स्वभोज्यादे: तृण-भक्षण-जलपानादे: भावनां नियच्छेयु: निरुन्ध्यु:। मूच्र्छनाभि: स्वरसंतानविशेषै: सनाथ: व्यश्नुवान: व्याप्नुवन् य: रव: शीलित: (लोकानां) हर्ष: प्रमोदनम् येन स:। निभृतं यथा यथा निरंशीकुरुतात् नि:शेषीकुरुतात्।।२७।।
आशंसा
भक्तभविकाय व्रजभूमौ यो विहारमयन्
दीनानुज्जहार स हि कृष्ण: केलिकारी मे
यो वै गोपशावानवति स्म दीप्तदावानला-
च्चिन्तयेत्स किं न भवचिन्तां चित्तचारी मे?
मञ्जुनाथ कस्माद् विमनायसे विमूढतया
दैन्यमवयाति स हि गोवर्द्धनधारी मे
नीरदानुहारी पापपुञ्जपरिहारी वृन्दा-
विपिनविहारी स हि भूयाद् भयहारी मे।।२८।।
भक्तानां भविकाय कल्याणाय विहारम् अयन् गच्छन्, विहरन्निति यावत्। मे केलिकारी आनन्दकारी गोपशावान् गोपबालाकान्। स चित्तचारी नित्यं मनसि वसन्नपि मे भवजनितचिन्तां किं न चिन्तयेत्? अपि त्ववश्यं विचारयेदित्यर्थ:। अवयाति जानाति। नीरदम् अनुहरति अनुकरोति स:।।२८।।
गोवत्सापहारात्स स्वयं भूमनि दाढ्र्यमयन्
लज्जित: स्वयम्भूरप्यपप्तत् पदसारसे
साक्षाल्लोकलक्ष्मी: पादसंवाहनशीलाभव-
च्छेषोपरि यस्मिन् स्वापलीलालवलालसे।
मञ्जुनाथ लीलयैव नन्दाङ्गनचारी यो हि
कल्मषापहारी नृणां कीर्तनकथारसे
स्वेच्छयावतंसीकृतचारुबर्हिपिच्छो मम
कंसकुलध्वंसी सोऽनिशं सीदतु मानसे।।२९।।
गोवत्सानामपहरणात् (हेतो:) भूमनि महत्त्वे स्वयं दृढतां गच्छन् अत एवं लज्जित: स्वयम्भू: ब्रह्मापि यस्य पदसारसे पदकमले अपप्तत् पपात्। यस्मिन् (कृष्णे) शेषस्योपरि स्वापलीलालवलालसे शयनेच्छांशवशीभूते सति लोकलक्ष्मी: पादसंवाहनशीला अभवत्। कीर्तनकथारसे कीर्तनकथाया आनन्दे भवति सति य: नृणां कल्मषापहारक:। सीदतु तिष्ठतु।।२९।।
(७)
कारुण्यम्
गाढोन्मदगोत्रभिदो गर्वं गञ्जयिष्यन् भवान्
ग्रावपतिगोवर्द्धनमग्रहीन्न किंतमाम्
गोकुलानि गोपान् गजगामिनीश्च गोपितवान्
गालितवान् गीर्वाणेशगौरवगतिं समाम्।
गोपायसि गाढमनुग्राही गजराजं गुरो!
गृघ्रगुहगणिकास्वपीह गाहसे क्षमाम्
गहनगभीरभवगर्तगृह्यमाणमिमं
श्रीगोविन्द! गीतगुणगरिमन्न गर्ह माम्।।३०।।
अत्यन्तोन्मदस्य गोत्रभिद: इन्द्रस्य। ग्रावपतिं गिरिराजं गोवर्द्धनं भवान् किंतमाम् किम् न अग्रहीत्? अपि त्ववश्यमग्रहीदित्यर्थ:। गजगामिनी: गोपस्त्रिय:। गीर्वाणेशस्य इन्द्रस्य समां सर्वां गौरवगतिं गौरवसरणिम् गालितवान् ध्वस्तवान् गलधातोर्णिजन्तात् क्तवतु:। गाढमनुग्राही सुभृशं दयाकारी गहनेन कलिलतया दुर्निर्गमेन गभीरेण च भवगतेन गृह्यमाणं निगडितम् इमं माम्। गीतं गुणगरिमा यस्य तत्संबुद्धौ, हे गोविन्द! मां न गर्ह निन्द, किंतु दयया उद्धरेत्यर्थ:।।३०।।
माधव मुकुन्द मधुसूदन मुरारे हरे
दामोदर देव दनुजारे न जहाहि माम्
कीर्तिसुताकान्त कंसकालियविमर्दिन् कृष्ण
कैटभनिकन्दिन् कमलापतेऽनुयाहि माम्।
गोपीनाथ गोकुलेश गौर गरुडध्वज हे
श्रीगोविन्द गोवर्द्धनधारिन्नवयाहि माम्
पीताम्बर पद्मनाभ पूतनानुकम्पिन् प्रभो
पुण्डरीकनेत्र भवभोगात् परिपाहि माम्।।३१।।
माम् अवयाहि जानीहि।।३१।।
वृन्दावनमेत्य नित्यनन्दाङ्गनवासी यो हि
भूरिभक्तवृन्दानामसाधयत् सहायताम्
गोपप्रमदालिं दीप्तमदनामपास्य ययौ
कालिन्दीतटेऽस्या: परिचेतुं वीतमायताम्।
मञ्जुनाथ नित्यं मुनिमानिनामलभ्योऽप्यभूद्-
यो वै सुखलभ्यो भूरिभक्त्या गुणं गायताम्
नीलजलदालीसममञ्जुमूर्तिशाली सदा
सोऽयं वनमाली प्रतिपाली मम जायताम्।।३२।।
नित्यं नन्दाङ्गने नन्दगृहे वसति तच्छील:। कालिन्दीतटे उद्दीप्तकामां गोपप्रमदालिं गोपीमण्डलीम् अपास्य विहाय अस्या: गोपीमण्डल्या: वीतमायतां निष्कटपतां परिचेतुं परीक्षितुं ययौ अन्तर्दधौ। आत्मानं मुनिं मन्यमानानां साधकानां नित्यम् अलभ्योऽपि य: भक्त्या गुणं गायतां भक्तानां सुखलभ्य: अभूत् प्रतिपाली प्रतिपालक:, पातेर्णिनि:।।३२।।
नीरधौ निमज्जन्तं जुगोप गजराजं यो हि
येन गुहराजं प्रति दत्ता दृग् विमायिनी
करुणा कृताभून्महामलिनेऽप्यजामिलेऽपि
गृध्रे दुरिताविलेऽपि यत्कृपा ह्युपायिनी।
पूतनापि पूता पुण्यकणिकापि नासीद्यत्र
गणिकापि क्लृप्ता कापि दैवतातिशायिनी
निस्सहायनिर्बलनिरीहजनाधारे मम
देवकीकुमारे रतिरास्तामनपायिनी।।३३।।
विमायिनी निष्कपटा दृक् कृपादृष्टि:। दुरितै: आविले मलिने गृध्रेऽपि, यस्य कृपा हि उपायिनी उपगन्त्री। दैवतातिशायिनी देवेभ्योऽपि उत्कृष्टा। क्लृप्ता कृता। अनपायिनी अव्यया रति: प्रीति: अस्तु।।३३।।
(८)
जीवन-सन्ध्या
ज्ञानमक्षराणां किंचिदासीद्दयया ते पुरा
जीवनप्रभाते यतो ज्योतिरुद्भवेद् विभो!
तदनु कवित्वकला प्रौढिग्र्रन्थनिर्माणादि
यस्मात्साधुसम्मानादि सर्वं सम्भवेद्विभो!
साम्प्रतं त्वजानन्नुपरामसमयं मे जना:
किं मे लोकरञ्जनादिदम्भै: सम्भवेद्विभो!
केवलं पदाब्जे तव नित्यमिदं संध्यायामि
जीवनस्य संध्या मम वन्ध्या न भवेद्विभो।।३४।।
जीवनस्य प्रभाते आरम्भे यतो ज्योति: प्रकाश: कर्तव्याकर्तव्यबोध: उद्भवेत् तादृशम् अक्षराणां ज्ञानं ते कृपयाभवत्। यस्मात् काव्यकलाप्रौढताग्रन्थनिर्माणादिकर्तव्यात्। जना मे उपरामस्य कार्यविश्रमस्य समयमजानन्। अहं कदाचिन्न जाने किंतु जना मां कार्यतो विश्रामस्य योग्यमजानन्। लोकरञ्जनादिरूपैर्दम्भै: पाखण्डै:। संध्यायामि ध्यानं कृत्वा निवेदयामि।।३४।।
(९)
मन:-प्रमोद:
दीनोद्धारहेतोर्यो हि भूमिमभ्युपेतोऽभवत्
तस्यैव च चेतो वद दीनान् वर्जयेत किम्?
येन परिपूता: पुरा विमुखविरोधिनोऽपि
दीनोद्धरणोऽपि स कठोरतां श्रयेत किम्?
आपामरमेष पर्यचायि कृपासिन्धुरिति
सोऽयं दीनबन्धुरिति विरुदं हरेत किम्?
कर्मपराधीनां मम दृष्ट्वापि च दीनां दशां
दीनानां दयालुर्मयि दीने न दयेत किम्।।३५।।
तस्यैव दीनोद्धारकस्य चेत: किं दीनान् वर्जयेत दूरीकुर्यात् न कुर्यादित्यर्थ:। विमुखविरोधिन: अजामिलपूतनादय:। एष: कृपाया: सिन्धुरिति आपामरं पर्यचायि परिचित:। विरुद्धं निजमहिमानम् हरेत त्यजेत्किम्, अपि तु न त्यजेत्। कर्मपराधीनां कर्मणां कारणात्परतन्त्राम्, दीनां दशाम्। दीने मयि किं न दयेत? अपि तु अवश्यं दया कुर्यात्।।३५।।
नित्यं निगमागमनिरूपितस्वरूपमपि
वाचं न स्पृशन्तं मनोनीतं श्रयसे न किम्?
लीलयैव लोकसृष्टिमाविर्भावयन्तं पुन-
स्तामेतां भरन्तं संहरन्तं बुध्यसे न किम्।
गूढं विलसन्तं दृढभक्त्यानुसरन्तं स्वयं
दिव्यद्युतिमन्तं तं ह्यनन्तं कवसे न किम्
सकलचराचरादिचक्रं चालयन्तं चिरा-
च्चेतसि चरन्तं भगवन्तं भजसे न किम्।।३६।।
वेदादिभिर्वर्णितमपि वाचं न स्पृशन्तं वागगोचरम्। मनोनीतं मनोद्वारा ध्यातम्। तामेतां सृष्टिम्। सर्वत्र गूढं वर्तमानमपि भक्तिबलात् स्वयं भक्ताननुसरन्तम्। कवसे कविताभिर्वर्णयसि।।३६।।
पश्य पय:पान एव पूतना प्रयाता दिवं
१धातापि च पात्रीकृतो विस्मयप्रतोदानाम्
कालियफणालिरुपयाता यस्य नृत्यपदं
जाता यमुनापि खनिर्नित्यं निर्विषोदानाम्।२
दावानलपाता३ यो हि पाता४ गोपगोष्ठगवां
विपिने विधाता वेणुवादनविनोदानाम्
पुलिने पुलिन्दीनां५ प्रसादसंविधाता स हि
रासरङ्गराता६ सम्प्रदाता मे प्रमोदानाम्।।३७।।
१. वत्सादीन् हरन् ब्रह्मापि नानाविस्मयरूपाणां प्रतोदानां तीक्ष्णलोहाग्रचालनदण्डानाम् (हार्दिकपीडाजननात्) पात्रीकृत:। २. यमुना निर्विषाणां जलानां खनि: आकर: जाता। ३. पानकर्ता। ४. रक्षक:। ५. आभीरयोषितां प्रसादस्य प्रसन्नताया: संविधानकर्ता। ६. रासक्रीडाया: रङ्गस्थलस्य राता लोके प्रख्यापक:।।३७।।
घोरसङ्कटेषु परिपाता यो निरीहनृणां
सम्मुखेऽभियाता हेलयैव दुष्टदुर्हृदाम्१
लोकपरित्राता दीर्घदैत्यदुरुपद्रवेभ्यो
दाता दीनदुर्गतेभ्यो लक्ष्मीणां निरापदाम्।
भुवनभरेऽस्मिन् नित्यनिर्मातावतारान्२ बहून्
ध्याता दीनदु:खान्यभिवीक्ष्य धरां३ निर्मदाम्
धाता धर्मसेतो: संविधाता जगन्नाटकस्य
विश्वेषां विधाता मे निधाता सर्वसम्पदाम्।।३८।।
१. दुष्टानां क्रूरहृदयानां च सम्मुखे निर्भयमाक्रमिता। २. अवतारान् निर्माता, अवताराणां कर्ता, तृन्। ३. दीनां धरां वीक्ष्य दीनजनानां दु:खानि ध्याता, दु:खानां विचारक: तृन्।।३८।।
(१०)
सान्त्वना
(देवघनाक्षरी)
कुत्रचन कर्मसु प्रवृत्तिमनुमोदयसे१
क्वचन निवृत्तिमुपदिशसि मनसि मनसि
रात्रिंदिवं गेहधनधान्यसुखलिप्सापर:v
सर्वं जगन्मिथ्येति प्रगल्भसे वचसि वचसि।
मञ्जुनाथ जाने तव शास्त्रकथाकन्थामिमां
चेतयसे किं मां स्वयं मुह्यसि रहसि रहसि
नूनमवधानं देहि संदेहे न मज्ज मनाक्
गोविन्दे निरस्तसर्वसंदेहो भवसि भवसि।।३९।।
१. अहरह: संध्यामुपासीत, कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समा: इत्यादिना। २. कर्माणि बन्धकराणि अतएव तेभ्यो निवर्तेत इति मनसि मनसि प्रत्येकजनस्य मनसि उपदिशसि। अहर्निशं स्वयं गृहादिसुखलालसोऽपि, आदित: जगदिदं मिथ्येति प्रत्येकवचने प्रगल्भसे धाष्ट्र्र्यं दर्शयसि रहसि रहसि प्रत्येकगुह्यस्थले स्वयं मुग्धो भवसि, मां च चेतयसे प्रबोधयसि। गोविन्दं प्राप्य ते सर्वेऽपि संदेहा निरस्ता: स्यु:। निरस्तसन्देहो भवसि, पुनर्भवसि इति दाढ्र्यसूचनाय।।३९।।
(११)
प्रार्थना
जानीमस्तमेतमिति वेदज्ञा विदन्ति हृदा
यज्ञा: स्वस्य घोषयन्ति यत्प्राप्तावुपायताम्
सोऽस्माभिर्निबोध्य इति वेदान्तिप्रगल्भगिरो
यान्ति मुदं योगिनो वदन्तो यदभिज्ञताम्।
यत्प्राप्तेर्वहन्ति मदं तन्त्रमन्त्रसक्ता बुधा:
किंतु सर्वमेतन्मुधा यस्य विनोदारताम्
सर्वजगन्मोहनैकमायामन्त्रशाली महा-
नद्भुतेन्द्रजाली वनमाली प्रतिभासताम्।।४०।।
'तमेतं भगवन्तं वयं जानीम:’ इति वेदज्ञा हृदयेन जानन्ति, वस्तुतस्तु नैवमित्यर्थ:। यज्ञा: यस्य भगवत: प्राप्तौ स्वस्य उपायतां घोषयन्ति, यज्ञैर्भगवान् लभ्य इति। वेदान्तिनां प्रगल्भा: साहसपूर्णा: गिर:, न तेऽपि बुध्यन्ते। यस्य ब्रह्मण: अभिज्ञतां ज्ञातृताम्। यस्य उदारतां दयालुतां विना उपर्युक्तं सर्वे मुधा। स एव स्वयं यदा कृपां दर्शयति तदैव वेदादिभिरपि गम्य: 'यमेवैष वृणुते तेन लभ्य:’। अस्माभिज्र्ञात:, अस्माभिर्लब्ध इति सर्वजगतां मोहने एक: अद्वितीयो मायामन्त्रसम्पन्न:। प्रतिभासतां न: प्रकाशताम्।।४०।।
प्रेमविवशो यो न विषेहे हन्त दीनां दशां
नन्दप्रभृतीनां सुतस्नेहात् स्मरतां सदा
दीनपालकेन बत येन विनिवर्तितानि
सर्वसंकटानि भक्तिभावाद् भजतां सदा।
यो वै रघुवंशे लोकरक्षणाय रेमे पुरा
सोऽद्य धृतक्षेमे हृदये मे वर्ततां सदा
बाणीकृतरोषदृशा द्राणीकृतदैत्यगणो
वाणीविसरे मे चक्रपाणी रमतां सदा।।४१।।
पुत्रस्नेहात् स्मरतां नन्दप्रभृतीनां दीनां दशाम्। धृतं क्षेमं कल्याणं येन ईदृशे मम हृदये। बाणत्वेन प्रयुक्तया कोपदृष्ट्या, पलायितीकृता: द्राविता इत्यर्थ: दैत्यगणा: येन स:। चक्रपार्णिमे वाणीविसरे वाचां प्रवाहे रमताम्। चक्रपाणि: रमताम्, रेफलोपदीर्घौ।।४१।।
भूमिवलयं तं दुष्टदैत्यैर्भारवन्तं वीक्ष्य
लोकेऽवतरन्तं शक्तिमन्तं शीलयामहे
शकटं हरन्तं पावयन्तं पूतनां तामथ
दावाग्रिं पिबन्तं बलवन्तं चिन्तयामहे।
कालियफणासु नृत्यवन्तं विहरन्तं वने
कंसमुद्धरन्तं केशवं तं कामयामहे
सर्वतो लसन्तं विलसन्तं व्रजगोपिकासु
पीताम्बरवन्तं भगवन्तं भावयामहे।।४२।।
शीलयामहे, सेवामहे। पावयन्तं पवित्रां कुर्वन्तम्। भावयामहे निरन्तरं ध्यायाम:।।४२।।
दूरीकृतदानवेषु मानवेषु जन्माभवत्
तत्रापि च जाति: शान्तिशीलशरणा प्रभो!
विद्याविपुलेऽस्मिन् राजमान्यकुले मान्यताभूद्
यत्र नाश्रयेत दृप्तदृष्टिररुणा प्रभो।
सर्वविधं सौख्यं यथा लौकिकं मे दत्तं तथा
पारलौकिकं च त्वया कल्पतरुणा प्रभो
कोऽन्यो मयि तन्यात्सदा स्तन्यावधि रक्षाकृपां
वत्सलताजन्या तव धन्या करुणा प्रभो।।४३।।
दानवा हिंसका: पुरुषा:, मानवा: किल बुद्धिमाहात्म्याद् हिंसकपुरुषेभ्यो रक्षिता: शान्ति: शुचिचरित्रं च शरणं यस्या: ईदृशी जातिब्र्राह्मणाख्या। मदवशात् अरुणा दृप्ता गर्विता दृष्टिर्यत्र न पतेत्, माननीयताकारणात् अधिकारिणामपि मदगर्विता दृष्टिर्न पतेदित्याशय:। स्तन्यावधि स्तनदुग्धपानमारभ्य।।४३।।
(३)
भगवान् हयग्रीव:
(अनङ्गशेखर:)
क्रियापरेषु शासनेष्वियाय यन्मतिर्भ्रमं
भियाढ्ययापि वादिनां धिया न संव्रियामहे
न या विवेकवत्र्मनि प्रयाति गर्वसंश्रया
तयापि भूभुजां श्रिया न विक्रियां भजामहे।
श्रयाय तत्त्वसम्पदां चयाय चारुसंविदां
भयाय भूरिदुर्धियां दयालुमाद्रियामहे
जयाय जिह्मवादिनां नयाय निह्नवस्पृशां
दयादृशां समीहया हयाननं श्रयामहे।।४४।।
बन्धककर्ममात्रबोधकेषु शास्त्रेषु येषां वादिनाम् मतिभ्र्रमम् इयाय प्राप। भयशालिन्या वादिनां तया बुद्ध्यापि न संव्रियामहे संवृता आच्छादिता न भवाम:। गर्वयुक्ता या भूभुजां राज्ञाम् श्री: विवेकमार्गे न याति तयापि विकारं न प्राप्नुम:। तत्त्वभूतानां विज्ञानादिसम्पदाम्। आश्रयणाय। चारुसंविदाम् उत्तमानां बुद्धीनां चयाय संचयनाय। दयालुम् हयाननम्। जिह्मानां कुटिलानां वादिनाम्। निह्नवस्पृशां सत्यापलापपराणां नयाय नीतिबोधनाय।।४४।।
नूनमुदयन्ते रसनिर्भरमनोज्ञा गिरो
विमुखविरोधिनो निरीक्ष्य स्वयमेजन्ते
कीर्तिमावहन्ते काव्यकोविदकवीनां गणे
तेषामङ्गणेषु सर्वसम्पद: समेधन्ते।
नानानिगमागमनिबद्धनित्यवाङ्मयजं
जगति भजन्ते ज्ञानशेवधिमनन्तं ते
लोकेऽस्मिँल्लभन्ते ते हि नित्यनिरुपाख्यं यशो
हयवदनाख्यं ब्रह्म येऽनिशं निषेवन्ते।।४५।।
रसनिर्भरा: रसपरिपूर्णा: मनोज्ञाश्च। स्वयम् एजन्ते कम्पते। नित्यवाङ्मयम् वेदा:। शेवधिर्निधि:। नित्यं निरुपाख्यं निरूपमम्।।४५।।
उन्मीलत्प्रसन्नमुखमुद्यन्मणिसद्मान्तरे
पद्मासनासीनमृजुकायतमाशासेऽहम्
हस्तेष्वक्षमालाज्ञानमुद्रापुस्तकानि तमो-
विद्रावकशङ्खमावहन्तमनायासेऽहम्।
निगमविलासावनिं नासापुटनि:श्वसितै-
र्यत्पन्नखभासा साधुसूरिषु समासेऽहम्
वाचामधिपेन समासेव्यपादपङ्केरुह-
मुक्तीनां विकासे हयवदनमुपासेऽहम्।।४६।।
उद्यत: प्रकाशमानस्य मणिसद्मन: रत्नगृहस्यान्तरे पद्मासनेन आसीनम्। ऋ जुक: सरल आयतश्च तम्, ध्यानमुद्रायां मेरुदण्डस्य ऋ जुस्थापनात्। ईदृशं हयास्यम् आशास्यत्वेन अभिप्रैमि। तमसो दूरीकारकं शङ्खं च धारयन्तम्। अनायासे सहजाभिलाषेण सर्वं साधयन्तमित्याशय:। श्वासपवनैर्वेदस्योत्पादकम्। यत्पादनखकान्त्या (कृपया) पण्डितेषु अहं समासे (तिष्ठामि)।।४६।।
(१३)
श्रीधन्वन्तरि:
प्रत्यक्षं विभाति पाणिपङ्केरुहे यस्य सुधा
सोऽयं वसुधाया: किं न रोगराशिशोषी स्यात्
चक्रादिकचिह्नांश्चतुर्बाहून्निदधानो ह्यसौ
दानोचितचारुचतुर्वर्गपरिपोषी स्यात्।
मञ्जुनाथ नित्यं निर्जराणाममरत्वकरो
दुरितहरोऽसौ मानवीयामयमोषी स्यात्
रोगाम्बुधिमग्ने जने तन्वंस्तरितुल्यदयां
धन्वन्तरिरेष नृणां नन्वन्तरतोषी स्यात्।।४७।।
दानाय उचितो य: चतुर्वर्ग: धर्मादिपुरुषार्थचतुष्टयम् तस्य परिपोषकर:। चतुर्बाहुधारकोऽसौ भगवानवश्यं चतुर्वर्गपरिपोषकर: स्यादित्याशय:। मानवीया: मानवसम्बन्धिनो ये आमया आधयो व्याधयश्च तेषां मोषक: हारक:। रुजापीडितं लोकं दयां कृत्वा नौकावत् रोगाम्बुधेस्तारयन्नित्यर्थ:। ननु निश्चयेन अन्त: करणसंतोषक:।।४७।।
विषयविलासै: सर्वमायुर्मे व्यतीतं हन्त
तदपि न भीतं मां नु किं मर्षयसे मुधा
भोगेष्वपि भग्रो भूरि कायिककदर्यतया
मायिकमरीचिकाभि: किं मोहयसे मुधा।
दीननाथ जाने दयां दर्शयसि दीनजने
सर्वतोऽपि हीनजने किं तर्कयसे मुधा
नो चेत् प्रभवामि भवच्चरणावलम्बनाय
विषयविडम्बनाय किं जीवयसे मुधा।।४८।।
मां किं मर्षयसे, अनुकम्पावशात् मे अपचारान् किं सहसे इत्याशय:। कायिककदर्यतया शारीरिकदुर्बलतया। सर्वेभ्योऽपि हीने मयि दयाप्रकाशनसमये किं मुधा तर्कनां करोषि? त्वं प्रभु:, अतएव त्वच्चरणावलम्बने मे शक्तिर्यदि न स्यात्तर्हि विषयाणां विडम्बनायै मां मा जीवय। समापय मे जीवनकालम्।।४८।।
निबिडघनौघैव्र्याप्तमेतद् व्योम सर्वतोऽपि
वहति समन्ततोऽपि वात्या पांसुपीनेयम्
अस्तमुपयातो मन्दभाग्यैर्मम भास्करोऽपि
दृश्यते न दूरतोऽपि वेला जललीनेयम्।
जानन्नपि किं पश्यसि निस्सम्भ्रमं दीननाथ
तरला तरिर्मे पश्य नाविकविहीनेयम्
दीनस्यास्य कालरजनौ का गतिरन्या भवेद्
भवसलिलौका जीर्णनौका त्वदधीनेयम्।।४९।।
घनौघै: मेघघटाभि:। पांसुपीना धूलिव्याप्ता। जललीना वेला, जलतरङ्गान्तर्हितं तटं न दृश्यते इत्याशय:। कालरात्रौ मम का दशा भवेत्? अतएव भवसलिलम् ओक: यस्या: भवार्णवपतिता इयं जीर्णा नौका भवदधीना।।४९।।
कुत्रचिन्निरुक्तो नाथ! नित्यनिराकारो भवान्
साकारोऽथ कुत्रचिद् गृहीतो वाक्यविस्तरे
कुत्रचित्तटस्थ: क्वाप्यजल्पि जगत्कर्ता भवान्
कुत्रचिदगम्य: क्वचिद् गम्यश्चित्तमन्दिरे।
नूनं वेदवाणीष्वपि दाढ्र्यं करवाणि कथं
दुर्धराणि वाक्यान्यपि केन त्वयि संचरे
अर्वाचामुदेतु बत का चालीकशक्तिस्त्वयि
प्राचामपि प्राचामुच्चवाचामप्यगोचरे।।५०।।
कुत्रचित् कस्मिंश्चन वेदवाक्ये निरुक्तो निरूपित:। कुत्रचिद् वाक्यसमूहे साकारो गृहीत:। सांख्यादिषु तटस्थ: उदासीनतया क्रियाशून्य: अजल्पि। अगम्य: अबोध्य:। भक्तिभावनया चित्तमन्दिरे ग्राह्य:। वेदवाक्यान्यपि दुर्धराणि दु:खेन ग्रहीतुम् बोद्धुम् शक्यानि। अतएव केन उपायेन भवन्तं प्राप्नोमि। समस्तृतीयायुक्तादित्यात्मनेपदम्। प्राचामपि प्राचां पुरातनानामपि पुरातनानां (महर्षीणाम्) उदारवाणीनामगोचरे त्वयि अर्वाचाम् एतत्कालिकपुरुषाणां का वा आलीका शक्ति: उदेतु? त्वां बोद्धुं न कापि नवीनानां शक्तिरित्याशय:।।५०।।
रात्रिन्दिवं दारुणदुरन्तचिन्तयाहं वृतो
भुवने भ्रमामि कोऽपि दैन्यं न्यक्करोतु किम्?
जानन्नपि नित्यं कर्मबन्धे गूढमापतामि
मूढमनुजस्य कोऽपि दु:खं विधुनोतु किम्?
सर्वमहं मानसेन सत्यमिदं जाने नाथ
किंतु भवानेवास्योत्तरं मे वितनोतु किम्
शरणागतोऽपि यदि गुरुणाऽऽमयेन धृत:
करुणानिधान! तव करुणा करोतु किम्?।।५१।।
मम दैन्यं कोऽपि किं न्यक्करोतु दूरीकरोतु। किन्तु वक्ष्यमाणस्य प्रश्रस्य भवानेव मे किमुत्तरं दद्यात्? स चायं प्रश्रो यत्- 'शरणा.’। गुरुणा आमयेन सांसारिकरोगेण।।५१।।
(१४)
दैन्यनिवेदनम्
विपिने निपत्य भृशं भ्रान्तो मन्दमायारतो
दूरदूरतोऽपि सुखच्छाया न निभाल्यते
हेलयावकृष्टो बाढमिन्द्रियैरितस्ततोऽयं
धावन् व्यथितोऽपि पुन: पशुरिव काल्यते।
नियतिनियोगात् कर्मभोगाननुभावयसे
चालयसे जीवजगत् प्रभुतां प्रपाल्य ते
किंतु किणस्कन्धो भवबन्धोषितो जीर्णवृषो
ब्रूहि दीनबन्धो! कर्मचक्रे कियच्चाल्यते।।५२।।
विपिने भवाटव्याम् मन्दा दुष्टा या माया अविद्या तद्रत: अयं जीर्णवृषो भृशं भ्रान्त: भ्रमणदु:खमनुभूतवान्। निभाल्यते दृश्यते। धावनेन व्यथायुक्तोऽपि यज्ञियपशुरिव पुन: काल्यते प्रेर्यते। हे दीनबन्धो! त्वं नियते: अदृष्टस्य अनुरोधात् यस्य जीवस्य यादृक् अदृष्टं तद्वशात् ते प्रभुतां स्वामित्वं प्रपाल्य पालयन् इदं जीवजगत् परिचालयसे। प्रभुस्त्वं यस्य जीवस्य यादृग् अदृष्टं तदनुसारं तत्तत्कर्मभोगाननुभावयन् सर्वमिदं जीवजातं परिचालयसीत्यर्थ:। एवं च जगच्चक्रे भ्रमणं यद्यपि स्वाभाविकं तथापि- भारवहनजाता: किणा: क्षतचिह्नानि स्कन्धे यस्य, भवबन्धे च पतित: सोऽयं वृद्धो वृषभ: चक्रे कियत् परिचाल्यते। वृद्धत्वान्मुमूर्षो: अस्य चक्रभ्रमणे अधुना का शक्ति:, अतएव दयावशात् सोऽयं विमोचनीय एवेत्याशय:।।५२।।
प्रत्यक्षं प्रवृत्तिर्बत शास्त्रविपरीते पथि
जानीते जनोऽयं मम कुटिलकुकार्यताम्
गूढं दुश्चरामि भग्रविश्रम्भो जनेषु विभो!
सोऽयं मम दम्भो नाथ मनसि विचार्यताम्।
पातकनिकेतने न चास्ति गुणगन्धो मयि
निस्सहायबन्धो! कथमाशा हृदि धार्यताम्
कियन्महापापी पूर्वपापिनामपेक्षयेति
पातकपरीक्षयैव तार्यते चेत् तार्यताम्।।५३।।
कुटिलतां कुकार्यतां च। भग्रविश्वासोऽहं जनेषु गुप्तं यथा तथा दुराचरणं करोमि सोऽयं दम्भ: उपरित: साधुताडम्बर: मनसि नाथेनैव भवता विचार्यताम् उद्धारयोग्यता सर्वथापि नास्तीत्याशय:। पूर्वोद्धृतानां पापिनामपेक्षया अयं कियत्परिमाणपातकशाली इति पातकपरीक्षाकौतुकेनैव यदि त्वं मां तारयसि तर्हि तार्यतामयं जन: अन्यथा नास्ति मे सर्वथा तादृशी योग्यतेत्याशय:।।५३।।
सेवकस्तवेति कथं वक्तुं प्रभवामि१ विभो!
शरणं तवेति वचो वक्तुं क्व कपालो२ मे
दीनदुर्गतोऽहमिति किं वाच्यं दयानिधये३
त्वन्नामाश्रयोऽहमिति वक्तुं नाद्य कालो मे।
पाप: केन साहसेन याचे दयाभिक्षामहं
'रक्षाजामिलादिवत्’५ प्रवक्तुं किमु भालो मे
किमिव निवेदयामि लब्धुं ते दयाद्र्रदृशं
तदिदं त्वमेव दरं६ दर्शय दयालो! मे।।५४।।
१. भवत्सेवायोग्यत्वाभावात्। २. शरणागतियोग्यभाग्याभावात्। ३. दयासागर: प्रार्थनां विनैव सर्वं जानीयात्। ४. तव नामस्मरणमेव मे आश्रय इति विमुखस्य मे वक्तुं नाद्य काल:, अग्रे स्याच्चेदन्या वार्ता। ५. 'अजामिलादिपूर्वपातकिवत् मामपि रक्ष’ इति कथयितुं किमु में भाल: भाग्यम्? तथाविधयोग्यताभावान्नास्ति तादृग् भाग्यमित्याशय:। ६. किञ्चित्।।५४।।
मनसि कदाचिन्नात्मचिन्ता पदमादधाति
शास्त्रं नोपयाति नित्यनिर्भरमगाधि माम्
कुर्वे मन्दकर्मा कथं शास्त्रोदितकर्माण्यहं
भ्रंशयति भक्तेरपि लोकप्रेम बाधि माम्।
किमधिकमीरयामि मङ्क्षु मन्त्रजापेष्वपि
स्थिरता दुरापेयं दुनोति द्रवदाधि माम्
नाथमवलोके लुप्तसाधनबलोऽपि केन
नूनं नरलोकेऽखिललोकेश्वर! शाधि माम्।।५५।।
आत्मचिन्तनं न मनसि तिष्ठति। नित्यगहनम्, अगाधि दुग्र्राह्यं शास्त्रं मां प्रति न प्राप्नोति। अगाधि इति स्थायि-हारि-इतिवत्केवलात् णिनि:। बाधि बाधकं लौकिकं प्रेम भक्ते: सकाशादपि मां भ्रंशयति निपातयति। मन्त्रजपसमयेऽपि दुरापा दुर्लभा इयं मन:स्थिरता द्रवन् आधि: मानसव्यथा यस्मिन् कर्मणि यथा स्यात्तथा मां दुनोति पीडयति। मन्त्रजपेष्वपि मन:स्थिरता न, तस्मिन् समये नानाविधा मानसव्यथाश्चेतसि यातायातं कुर्वन्तीति मे मन:क्लेश:। एवं च आत्मचिन्तादीनां भवद्दर्शनसाधनानां बलं मे लुप्तम्। ततश्च केनोपायेन नाथ त्वामवलोके इति त्वमेव मामनुशाधि।।५५।।
विषयविलासैर्विप्रलभ्य पथि लुण्ठितोऽस्मि
कुण्ठितोऽस्मि काम्यकर्मबन्धैर्लोभलीनोऽयम्
अश्रान्तं भ्रमामि नावयामि रागवश्यतया
किं पश्यसि भूरि भवमार्गों मे नवीनोऽयम्।
नाथ! तवास्मीति बत यो हि सकृदुच्चारयेत्
तं वै तारयेयमिति भावस्तावकीनोऽयम्
किं पुन: पराङ्मुखोऽसि पङ्गुपराधीनोपरि
सर्वोपायहीनो द्वारि दुस्सीदति दीनोऽयम्।।५६।।
विप्रलभ्य प्रतार्थं मार्गे चलन्नहं लुण्ठित: अपहृत:, सर्वं सुकृतमपहृतमित्याशय:। लोभलीन: अयमहं काम्यै: कर्मबन्धै: कुण्ठितो मूर्खीकृत:। नावयामि भ्रमन्नपि संसारभ्रमिं नावगच्छामि। भवमार्गोऽयं मे भूरि नवीन:। भाव: अभिप्राय:। दुस्सीदति दु:खेन सीदति।।५६।।
यद्यपि धनस्य लोभलालसां परित्यजामि
भुवने भजामि शान्तिशीलनेऽद्वितीयताम्
किन्तु हृदि चिन्तयामि चारुचित्रबन्धैरिह
कविताप्रबन्धैर्मार्मिकेषु महनीयताम्।
इत्थमहोरात्रं यशोलिप्सालवलीनस्यास्य
दीनस्यार्थनाऽसौ नाथ सफला विधीयताम्
चारुचमत्कुर्वन्नवकाव्यकलोल्लासनाय
कीर्तिवासनापि तवोपासनासु लीयताम्।।५७।।
शान्तिपरिशीलनेऽयमद्वितीय इति कीर्तिं भजामि। धनलोभं परित्यज्यापि- चारुर्विचित्रश्च बन्ध: गुम्फ: येषु एवं विधै: काव्यप्रबन्धै: कवितामर्मज्ञेषु पूजनीयतां हृदि चिन्तयामि। ततश्च यशोलिप्सालवमात्रेऽपि लीनस्य अस्य दीनस्य मम प्रार्थना एवं सफला क्रियतां यत् काव्यकलाया उल्लासनाय या कीर्तेर्वासना सा तवाराधनासु सम्मिलतु। अर्थात् तवोपासनापरेषु काव्यनिर्माणेष्वेव मे कीर्तिलालसा पूर्यतामित्याशय:।।५७।।
अविदितयामं याति फल्गुकृतौ कालो मम
किमिह कृपालो! विस्तरेण वर्णयामि ते
भूपभवनेषु भृशमाशापाशबद्धो यामि
मार्गयामि मानं महिमानं विस्मरामि ते।
विषमभवेऽस्मिन् भवेद्भाग्यं किं तदेतदपि
देव दीनदुर्गतदयालो! दर्शयामि ते
भवदवलोकनादुदीर्णघनस्नेहं येन
पुलकितदेहं चरणेऽहं विलुठामि ते।।५८।।
फल्गुकृतौ निरर्थककार्ये। मानं सम्मानं मार्गयामि अन्विष्यामि, इतस्तत: सम्मानप्राप्तये पर्यटामि, किन्तु वास्तवगौरवप्राप्तेरुपायं ते महिमानं माहात्म्यं गुणगानं विस्मरामि। हे दीनदरिद्रेषु दयालो! विषमसंसारे किं मे एतदपि भाग्यं भवेत्, अहं त्वां दर्शयामि। किं तद् भाग्यमित्याह, येन यद्भाग्यकारणाद् उद्वेलितस्नेहं तथा पुलकितदेहं ते चरणे अहं विलुठामि।।५८।।
रात्रिन्दिवं देहधनधामसुखलिप्सापरो
यत्कार्यं करोमि किल तत्ते किमावेद्यताम्
तर्कणां तनोमि तन्त्रमन्त्रोदितकर्तव्येषु
निभृतमकर्तव्येषु साधयाम्यभेद्यताम्।
शनै: शनैरित्थं सञ्चितानि दुरितानि मया
तदिह दयायै स्वयं स्वामी किमु खेद्यताम्
सोऽहं सङ्कुचामि पुण्यपुञ्जपरमात्मान्तिके
पुञ्जीभूतपाप्मा कथमात्मा मे निवेद्यताम्।।५९।।
तत्कार्यं ते किम् आवेद्यतां, निरर्थककार्यनिवेदनं व्यर्थमेवेत्यर्थ:। अकर्तव्येषु सांसारिककार्येषु अभेद्यतां सत्यतां समर्थयामि, बुद्धिकल्पनाबलेन। तत् तस्माद् इह अस्मिन् स्वहस्तोपार्जितभवसङ्कटे दयायै दयां दर्शयितुम् स्वयं स्वाम्येन न तु कश्चन तत्सेवकोऽपि किमु खेद्यतां खेदं प्राप्यताम्? स्वामिने परिश्रमदानं नोचितमित्यर्थ:। पुण्यपुञ्जरूपस्य परमात्मन: समीपे राशीभूतपातक: मे आत्मा कथं निवेद्यताम्, आत्मनिवेदनेऽपि मत्साहसं नास्तीत्याशय:।।५९।।
शय्योत्थायमेव धनिकालयेषु धावं धाव-
मनिशमशान्तिमेव निर्भरमिहादधे
चक्षुषो: समक्षमहमुत्थानं निपातं नृणां
नित्यमवलोके बत लोके दूरदुर्विधे।
अहह तथापि साधुसङ्गकथाहीनं वृथा-
यत्नैर्विनिलीनं ग्रहे लोभलालसाभिधे
सर्वतो निरुद्धगतिमभितो विरुद्धकृति-
मुद्धतमबुद्धिमिममुद्धर दयानिधे।।६०।।
शय्यात: उत्थायैव (वीप्सायां णमुल्)। आदधे धारयामि। दूरदुर्विधे-दूरम् अत्यन्तं दुर्विधा दुर्दशा यस्य तस्मिन्। लोभलिप्सारूपे ग्रहे आग्रहे अभिनिवेशे लीनं लग्नम्। निरुद्धा गति: प्रसारो यस्य। विरुद्धा धर्मसदाचारादिभ्यो विपरीता कृति: कार्यं यस्य। उद्धतम् अबुद्धिम्।।६०।।
(१५)
छायावाद:
वाति विश्वतोऽपि घोरनिर्घोषी प्रचण्डमरुद्
भूरिरयरोषी वर्द्धतेऽब्धिरुत्तरोत्तरम्
यातो रविरस्तं कालजलदावलिप्तं वियद्
गुप्तं गमनीयवत्र्म लुप्तं धैर्यमान्तरम्।
पर्वतवितुङ्गा: सङ्ग्रसन्तेऽमी तरङ्गा: पुन:
पोतं निरुद्योतं भयाद् भ्रमति निरन्तरम्
सम्प्रति भवन्तमेकमाधारं प्रधारयामि
हंहो कर्णधार! तव धारय भुजे भरम्।।६१।।
पश्चिमादिदेशेभ्य: प्रचारकोलाहलमुखरं विज्ञानं तथा प्रसृतं येन हि दृढश्रद्धालूनामपि हृदयमितस्ततो बलाद्विक्षिप्यते। अब्धि:.- सर्वतो निमज्जका: सांसारिकप्रपञ्चा उत्तरोत्तरं वृद्ध्युन्मुखा:। यातो रवि.- मार्गप्रकाशका गुरव: शाणि च मत्कृते लुप्तप्रायाणि। सर्वतोऽन्धकार:। आत्मकल्याणमार्गच्छन्न:। अतएव निराशस्य हृदयस्य धैर्यं तिरोहितम्। पर्व.- महामहान्तो लोभनीयविषया मामाकर्षन्ति। इतो मत्समीपे अज्ञानदूरीकारको न कश्चित्प्रबोध:। अतएव किंकर्तव्यविमूढतया इतस्ततो भ्रमामि। सम्प्रति ममोद्धारभारो भवदायत्त एव।।६१।।
(१६)
सप्तवारा:
नित्यं रविवारे रवितनयातटस्थो लसे-
च्चारुचन्द्रवारे बर्हिचन्द्रकचकासी भातु
भूरि भौमवारे भवेद् भौमासुरहारी सखा
बुद्धिं बुधवारे बलभद्रानुजो मेऽनुयातु।
गाढं गुणयामि गुरुवारे गोपगोपीपतिं
श्याम: शुक्रवारे शौरिरेष शनिवारे पातु
संसारे ह्यपारे भ्रमन्नेतदेव याचे प्रभो
ध्यानं ते मुरारे! सप्तवारेष्वपि मा जहातु।।६२।।
बर्हिचन्द्रका: मयूरपिच्छाग्रभागा:, तै: चकासी शोभमान:। गुणयामि गुणकीर्तनद्वारा भजामि। वारंवारं कीर्तयामि वा।।६२।।
(१७)
द्वादशमासा:
चैत्रे चित्रचर्यो वरवैशाखे विशाखासखो
ज्येष्ठे जलक्रीडो भृशमाषाढे चलन् वनाय
श्रावणे तु हिन्दोलानुलासी भ्रमन् भाद्रपदे
ह्याश्विने च चन्द्रिकाचकासी चित्तरञ्जनाय।
कार्तिके सुरासबन्धी मार्गे मृगनाभिगन्धी
पौषे पुष्टिवश्यो व्रजन् माघे व्रतिकावनाय
फाल्गुनेऽनुरज्यन् रङ्गहोलिकाविलासे हरि-
द्र्वादशसु मासेष्वस्तु दासेऽप्सितपूरणाय।।६३।।
चित्रचर्य: वसन्तवैभवादद्भुतचरित्र:। विशाखा श्रीराधिकाया: सखी। चन्द्रिकाचकासी शरच्चन्द्रिकाया शोभमान:। सुरासम्बन्धी शोभनां रासक्रीडां बध्नाति करोति। मृगनाभि: कस्तूरी तद्गन्धशाली। पुष्टिवश: पुष्टि: अनुग्रहभक्ति: तद्वश्य:।। व्रतिकावनाय माघव्रतधारिणीनां व्रजकुमारीणां मनोरथपूरणाय।।६३।।
(१८)
षड्ऋतव:
सरसवसन्ते फुल्लमल्लिकाविलासी गुरु-
ग्रीष्मे यमुनाम्भ:केलिभासी हृदयेऽनुयातु
प्रावृषि कदम्बमाल्यहारी रमणीषु लसन्
शरदि सुरम्यरासकारी प्रमदं दधातु।
हेमन्तेऽथ गोष्ठान्तर्हसन्तीमुपसेवमानो
शिशिरे दधानोऽमन्दकुन्दस्रजमुत्पृणातु
वृन्दावनमञ्जुलनिकुञ्जपुञ्जचारी चिरं
सर्वर्तुषु सोऽयं सुखकारी गिरिधारी पातु।।६४।।
हसन्ती शीतनिवारणाय अङ्गारधानिका, वविशेष: तूूलभृता 'मिर्जई’, हसन्ती गोपिका वा। उत्पृणातु प्रीणयतु।।६४।।
(१९)
नामसङ्कीर्तनम्
कृष्णं कीर्तयामि व्रजवल्लभं विभावयामि
गोविन्दं गृणामि नन्दसूनुं नन्दयाम्यहम्
श्रीपतिं श्रयामि चक्रपाणिं चिन्तयामि चिरं
पद्मापतिं पूजयामि शौरिं शीलयाम्यहम्।
यज्ञेशं यजामि वर्णयामि गिरा विश्वपतिं
मानयामि माधवं रमेशं राधयाम्यहम्
भूतिदं भजामि भूतभावनं निभालयामि
भक्तेशं भणामि भगवन्तं भावयाम्यहम्।।६५।।
गृणामि गायामीत्यर्थ:। शीलयामि मननविषयीकरोमि। निभालयामि पश्यामि।।६५।।
(२०)
नवधा भक्ति:
श्रीपते: शृणोमि गुणान् कृष्णकथां कीर्तयामि
सीतापते: स्मेरमुखं सस्पृहं स्मराम्यहम्
सेवे पादपङ्केरुहं देवेन्द्रावलेपहन:
काममेतदेवेच्छामि शौरिमर्चयाम्यहम्।
वन्दे नन्दसूनुमभिनन्देयं च दास्यं तस्य
सीरभृत्सखास्तु निजमात्मानं ददाम्यहम्
दैत्यानामराते! मम भाग्यसुप्रभाते भवे-
न्नूनं नवधा ते भक्तिरिति वरयाम्यहम्।।६६।।
स्मेरं मन्दहासयुक्तं मुखम्। देवेन्द्रस्य शक्रस्य अवलेपं गर्वं हन्ति तस्य (क्विप्)। सीरभृत् हलधारी बलभद्र: मे सखा अस्तु, ततश्च अनुजे श्रीकृष्णे स्वत एव सख्यं भवेदेवेति तात्पर्यम्। दैत्यानाम् अराते शत्रो! वरयामि वरं याचामि। अत्र 'श्रवणं कीर्तनं विष्णो’रित्यादिर्नवधा भक्ति: क्रमेण सूचितेति रत्नावली।।६६।।
(२१)
विश्वात्मा
सूर्ये सन्निविश्य भूरि भुवनानि भासयसे
पाताले प्रविश्य सर्वलोकानवष्टम्भसे
दशसु दिशासु दिव्यभूतिभिर्विभासितमां
भूमिमिमां विश्वम्भर सर्वदावलम्बसे।
स्तूयसेऽथ सर्वैरिह सर्वस्थलशायी विभो!
नूनं जलशायीति त्वमेव किल कीत्र्यसे
दृश्यसे यतो यतोऽपि तत्त्वतस्ततस्ततोऽपि
सर्वतोऽपि सर्वात्मा त्वमेव समवेक्ष्यसे।।६७।।
सूर्ये.- 'ध्येय: सदा सवितृमण्डलमध्यवर्ती नारायण: सरसिजासनसन्निविष्ट: इति।’ अवष्टम्भसे अवष्टम्भकशक्तिरूपेण सर्वान् लोकान् धारयसि। दिव्यभूतिभि:.- ये लोकपाला इन्द्रादयस्ते सर्वेऽपि तवैवांशकलारूपा विभूतय:। भूमिम् अवलम्बसे विश्वभरणसामथ्र्यशाली त्वमेव भूम्यै अवलम्बनं ददासीत्यर्थ:। सर्वस्थल.-'जले विष्णु: स्थले विष्णुर्विष्णु: पर्वतमस्तके’ इत्यादिना। 'जलशायी विश्वरूपो मुकुन्द:’ इत्यमर:।।६७।।
त्वामेवाभितोषयति सोऽयं शिवसेवी जनो
देवीसेवकेऽपि दयां तामेवावलम्बसे
नूनं नरसिंहहयग्रीवदत्तवेङ्कटादि-
नामभि: प्रकीर्तयतस्त्वं वै परित्रायसे।
नानाविधयागैर्यजतोऽपि फलै: पूरयसे
करुणारसेन तापसेऽपि सदा दयसे
भावनानुसारं साधकेच्छापरिपूर्तिकरो
नानानाममूर्तिधरो भक्ताननुकम्पसे।।६८।।
शिवोपासनातत्परो जन: त्वामेव परितोषयति। यां कृपां कृष्णोपासके धारयसि, तामेव दयां देवी (शक्ति) सेवकेऽपि अवलम्बसे स्वीकरोषि। दत्त: दत्तात्रेय:। वेङ्कटपदेन दक्षिणापथप्रसिद्धवि_लरङ्गेशादयोऽन्यान्येऽपि भगवद्विग्रहा: सूच्यन्ते। नरसिंहप्रभृतिनामजपेन (करणभूतेन) त्वामेव कीर्तयत: तवैव कीर्तनकारकान् भक्तान् त्वमेव रक्षसि। यजत: यागद्वारा भवदुपासकान् अपि। फलै:- अभीष्टफलप्रदानेन पूरितान् कृतार्थान् करोषि। तापसे तपश्चर्याकारकेऽपि दयसे दयां करोषि। भावनानुसारमिति.- साधक: स्वभावनानुसारं यादृशैर्नामभि: यां मूर्तिं ध्यायति त्वं तादृशमूर्तिधर एव सन् तस्येच्छापरिपूर्तिं कृत्वा भक्तेषु दयां करोषीत्यर्थ:।।६८।।
(२२)
श्यामघन-प्रार्थना
वियति विजृम्भमाणविद्युच्छटाविस्फुरितां
श्यामघटामाविष्कृत्य धीरतां न धर्षय मे
घोरघोरगर्जनेन तर्जयन् वियोगिजनान्
विरहविवर्द्धनेन मा मा मनस्तर्षय मे।
मन्दमन्दबिन्दुक्रमधीरैर्यमुनान्तचरै:
शिशिरसमीरैरिह तप्तं वपु: स्पर्शय मे
दर्शयसि काममविरामदु:खमेव कथं
हंहो घन श्याम! घनश्याममिह दर्शय मे।।६९।।
आकाशे विजृम्भमाणया परितो विवर्द्धमानया विद्युच्छटया (तडित्कान्त्या) विस्फुरितां चमत्कुर्वतीं श्यामघटाम्। मम धैर्यं न विलोपय। मम मन: मा तर्षय तृष्णा (उत्कण्ठा)-तुरं मा कुरु। मन्दमन्दो यो बिन्दुनिपतनस्य क्रम: तेन धीरै:। विन्दवो मन्दमन्देन क्रमेण निपतन्तीति पवनानां धीरता सूच्यते इत्याशय:। यमुनासमीपचारिभि: शीतलपवनै: मम वपु: स्पर्शय, यतो हि तद् विरहतापात्संतप्तम्। समीरा: वपु: स्पृशन्ति, तान् घन: प्रेरयति इति घन: समीरै: वपु: स्पर्शयति इति णिच्। तस्य लोटो मध्यमपुरुषस्यैकवचनम्। हे श्याम मेघ! अविरामं दु:खमेव कथं दर्शयसि हन्त घनवत् श्यामं श्रीकृष्णमपि तु मह्यं दर्शयं। तमपि उत्कण्ठयित्वा मम समीपागमनार्थं प्रेरयेत्यर्थ:।।६९।।
(२३)
संसाराद् वैराग्यम्
क.- आसंस्तेऽपि पार्थिवा: पृथिव्यां बलभारभृतो
व्याप्नुते स्म येषामनुभावतो भयं न किम्?
श्रेष्ठिनो वदान्या भूरिजाता लोकमान्या: पुन-
र्याता रूपशालिनो धरायामुदयं न किम्?
मञ्जुनाथ पुंसां हन्त कोऽयमभिमानोऽधुना
नश्वरे शरीरे वेत्सि विधिसमयं न किम्?
आयाता धरायामद्ययावद् भूरिसंख्या नरा-
स्ते किल धरायामेव याता विलयं न किम्?।।७०।।
येषाम् अनुभावत: प्रभावात् भयं किं न व्याप्नुते स्म, अपि तु लोकेषु भयं व्याप्तमभूत्, बलभारधारका: पार्थिवा: राजान: तेऽपि पृथिव्यामासन्। वदान्या: दानशीला:। लोकै: मान्या: विद्वांस: (धरायाम्) भूरि जाता:। रूपशालिन: पुरुषाश्च धरायाम् उदयं किं न याता:? अपितु बहव उत्पन्ना:। विधे: (विधातु: दैवस्य) समयं मर्यादां किं न जानासि? विलयं विलोपम्।।७०।।
बाल्यादेव विषयमरीचिकासु संरमसे
पाल्याभूत् प्रणाली कर्मगहनाऽप्यमुष्य ते
दारा धनधामपरिवारास्तव बन्धकरा
हन्त तदमीभिस्तव समयो विमुष्यते।
मञ्जुनाथ मन्ये उपदेशास्तव सर्वे वृथा
यद् वै कामलाभलवलेशात् परितुष्यते
कामनामजस्रमयि! धेहि सखे! तावत् सुखं
'रामनाम सत्य’मिति यावन्न विघुष्यते।।७१।।
विषयरूपासु मरीचिकासु (मृगतृष्णासु) रमसे। तदुपरि नानाविधै: कर्मभि: गहना (बन्धनकारिणी) प्रणाली (इयं लोकपद्धति:) अमुष्य (अस्य) ते (तव) पालनीया अभूत्। विषयासक्तस्तु आसी: एव, तदुपरि कर्मभिर्बन्धकर: प्रवृत्तिमार्ग: सेवनीयोऽभूदित्याशय:। अमीभि: एतै: तव समय: विमुष्यते अपह्रियते याप्यते यस्मात् त्वया कामनालाभस्य लवलेशात् लवस्यापि लेशात् संतुष्यते। हे सखे! कामनां त्वं तावत्कालं धेहि धारय यावत् तव शववाहिभि: 'रामनाम सत्यम्’ इति न विघुष्यते। ततश्च स्वल्पसमयार्थं कामनाभि: किमिति कदर्थितो भवसि इति गूढं सूच्यते।।७१।।
(२४)
शनै: शनैर्भगवति रति:
कुटिलकुतर्कभरकर्कशनिशितशरै-
र्निर्दय! भवसि यदि हृदयविदारी मे
दुर्भरकुटुम्बभरजर्जरशरीरभृतो-
ऽप्यहह निरर्थमसि तात! तापकारी मे।
मञ्जुनाथ नापरो विलोक्यते नृलोकतले
तापं यो विलोपयन् भवेद्धि भयहारी मे
केवलमखिललोकचित्तान्तरचारी सैष
बर्हिपक्षधारी ननु तर्हि पक्षधारी मे।।७२।।
हे निर्दय! कुटिलकुतर्कसमूहरूपै: कर्कशै: निशितै: तीक्ष्णै: बाणै: यदि मम हृदयविदारको भवसि। दु:खेन पूरयितुं शक्येन कुटुम्बभारेण जर्जरशरीरधारकस्य। शरीरं बिभर्तीति क्विप्, तत: षष्ठी। अपि मे यदि व्यर्थमेव संतापदायकोऽसि। तर्हि मनुष्यलोके अन्य: कोऽपि न दृश्यते यो मे संतापं दूरीकुर्वन् सन् मम सर्वविधभयहारको भवेत्। लोकानां हृदयान्त:स्थित: अन्तर्यामी स एव मयूरपिच्छधारी एव केवलं मम पक्षपोषकोऽस्ति। 'सोऽचि लोप’ इति सुलोपात् 'सैष’ इति।।७२।।
सेवसे रसेन किमु सम्पदभिमानिनोऽमून्
स्वामी किल निखिलनृलोकभयहारी मे
भ्रमसि विलासिनीविलासरसलालसया
नन्दति हृदन्तरेऽत्र नन्दधेनुचारी मे।
मञ्जुनाथ नाथसि किमन्यमयि! दीनगिरा
सकलसुराधिपतिरस्ति सुखकारी मे
शरणमुपैषि यदि धरणिधुरीणमये
बर्हिपक्षधारी ननु तर्हि पक्षधारी मे।।७३।।
सम्पत्ते: अभिमानयुक्तान् अमून् इमान् लोकान् आनन्देन प्रेम्णा किं सेवसे? सकलमनुष्यलोकानां भयहारक: हरि: मम स्वामी। विलासरसस्य लालसया इच्छया मम हृदन्तरे हृदयमध्यभागे नन्दराजस्य धेनुचारक: श्रीकृष्ण: नन्दति क्रीडति। हे मञ्जुनाथ! अन्धं पुरुषं दीनवाण्यां किं नाथसि याचसि? सकलदेवेश: भगवान् मम सुखकारक:। त्वं यदि धरणे: पृथिव्या: भारधारकं राजादिकम् आश्रयसि तर्हि।।७३।।
(२५)
भगवत: कारुण्यप्रार्थना
विषयविलासलवलालसमिदं मे मनो
मीलति प्रमोदं नाथ! नैतन्नयसे न किम्?
दारुणदुरन्ता पश्य चिन्ता परिपीडयते
सन्तापितमेनं दीनमलमवसे न किम्।
मञ्जुनाथ किं वा बहुविकलविलापशतै-
र्मञ्जुना दृगन्तेनानुकम्पामयसे न किम्?
गिरिवरधारण समस्तसुखकारण हे
दीनदु:खदारण दयालो दयसे न किम्।।७४।।
विषयविलासानां लेशेऽपि लालसायुक्तं मम मन: सम्प्रति मीलति खेदान्मुकुलितं भवति, एतत् मन: प्रमोदं किं न नयसे? सन्तापितम् एनं दीनं माम् अलं यथा स्यात् तथा किं न अवसे रक्षसि? बहुविकलताजनितै: विलापशतै: किं फलम्? मञ्जुना कृपामधुरेण दृगन्तेन नेत्रकोणेन दयां किं न करोषि? समस्तसुखानां कारणहेतुभूत!।।७४।।
लोका: कलयन्ति वैरमनिशमहेतु मया
शोकाकुलमेतं मुधा रुजसि दयानिधे!
रोगदिग्धदेहो नाहमाविन्दामि विषयसुखं
मुक्त्वा दु:खगेहोषितं व्रजसि दयानिधे।
पश्यसि न मञ्जुनाथ किं वा मम दीनदशां
मादृशां सुखाशां बत भजसि दयानिधे!
चिन्ताव्याधिवेदना: समन्ताद् व्यथयन्ति विभो!
किं तावद्दयार्हमिमं त्यजसि दयानिधे।।७५।।
लोका: मया सह अनिशं सर्वदा अहेतु निष्कारणं वैरं कुर्वन्ति। अतएव शोकव्याकुलम् एतम् माम् व्यर्थं रुजसि पीडयसि। रोगै: व्याप्त-शरीर: विषयसुखमपि नाहं प्राप्नोमि। दु:खरूपे गेहे स्थाने उषितं पतितं मां त्यक्त्वा व्रजसि? दयानिधेस्तव दु:खपतितस्य मम त्यागो नोचित इत्यर्थ:। मादृशाम् (क्विप्) लोकानां सुखविषयामाशां त्वमेव भजसि। मत्सदृशलोकानां सुखस्याशा त्वदधीनैवेत्याशय:। दयानिधे इत्यनेन दयासागरस्य दयनीयजनपरित्यागो नोचित इति सूच्यते। चिन्ताव्याधिवेदना येन क्रमेण चतुर्थचरणे प्रोक्ता तेनैव क्रमेण तासां वर्णनमित्यालोचनीयम्। लोका: वैरं कलयन्तीति प्रथमे चिन्ता। रोगकारणात्सुखं नाप्नोमीति व्याधि:, मम दीनदशां किमिति न पश्यसीत्यादिना वेदना। इति यथासंख्यमपि सूचितम्।।७५।।
(२६)
श्रीशिव:
अयि भुवनानां सकलानामभयङ्कर हे
करुणां कुरुष्व मयि शङ्कर जगत्पते
नानाविधतापपरितापितं तु दीनतमं
विभवविहीनमिममुद्धर जगत्पते।
वैभवं ते मञ्जुनाथ वाचामपि दूरेभवं
नश्वरं न याचाम्यविनश्वर जगत्पते
विषमयमेतद्दुरितामयमखिलमेव
शमय शशाङ्कशोभिशेखर जगत्पते।।७६।।
सकलानां लोकानाम् अभयं करोति तच्छील! विभवेन धनसम्पत्यादिना, पुण्यवैभवेन च हीनम्, इमम् माम्। हे मञ्जुनाथ (शिव!) ते वैभवं महिमा वाचामपि दूरेभवम्, वागपि तत्र प्राप्तुं न प्रभवतीत्याशय:। अथवा मञ्जुनाथस्यास्य वाचां दूरगतम्। एष मञ्जुनाथस्ते महिमानं न वक्तुं शक्नोति। अविनश्वर अव्यय शाश्वत अहं भवत्सकाशात् नश्वरं सांसारिकं पुत्रकलत्रादिकं न याचे। किं वाञ्छसि, तदाह 'हे चन्द्रशेखर! विषवत् अतिभयङ्करम् एतं दुरितरूपम् विषयेभ्यो जातं कश्मलरूपम् आमयं रोगम् अखिलमेव शमय दूरीकुरु।।७६।।’
(२७)
शङ्करात्कारुण्यप्रार्थना
केन पथा यामि तद्धि जाने बत नाद्यावधि
हे गिरिजाजाने! सानुकम्पमुपयाहि माम्
त्वयि दयमाने दीनलोकोऽपि प्रयाति सुख-
मेतावता ज्ञानेनैव हृष्टमवयाहि माम्।
किं मे निवेदयाम्यवस्थां त्रिपुरान्तक ते
तापयते दु:खं हन्त गुरु परिणाहि माम्
विषयविलासरसरङ्गाकुलं नित्यमेव
दुरितानुषङ्गादयि गङ्गाधर! पाहि माम्।।७७।।
'केन मार्गेण गच्छामि’ तद्धि अद्यावधि न जाने। सानुकम्पं सदयम् उपयाहि मम रक्षणार्थमागच्छेत्याशय:। हृष्टं प्रसन्नम् अवयाहि जानीहि। गुरु गभीरम्, परिणाहि विशालं दु:खं मां तापयते पीडयति। परिणाहो विशालता। विषयाणां विलासरसरङ्गै: आकुलं व्यग्रमतिं मां दुरितस्य अनुषङ्गात् पातकसम्बन्धात् पाहि रक्ष।।७७।।
कर्पूरावदाते सर्वसुषमानुयाते यस्य
वपुषि बिभर्ति नागराजिराभरणताम्
तरुणशशाङ्कशोभमाननिटिलस्य यस्य
कण्ठे क्ष्वेडचिह्नं याति मृगमदसमताम्।
रञ्जने समस्तभुवनानामपि ताण्डवेन
पापपुञ्जभञ्जने जनानामभिनमताम्
जाह्नवीतरङ्गचयसंगतकपद्र्दधरे
मानसमनङ्गदर्पदमनेऽभिरमताम्।।७८।।
सुषमानुयाते सर्वशोभानुगते। निटिलो भाल:। क्ष्वेडचिह्नं विषचिह्नम्। ताण्डवेन समस्तभुवनानां रञ्जने प्रीणके। तरङ्गचयेन तरङ्गसमूहेन संगतो मिलितो य: कपद्र्द:, तद्धारके।।७८।।
(२८)
सरस्वती
करुणावलोकलेशमञ्जसाधिगम्य जना
मह्यन्ते महीपै: कृतमानना निरन्तरम्
शारदशशाङ्कशोभिसुघटितदेहलता
जडतां निहन्ति यार्थसाधना निरन्तरम्।
मञ्जुनाथ वीणागुणरणननियुक्तकरा
तिमिरहरा या कमलासना निरन्तरम्
विद्वदवतंसपरिशंसितगभीरगुणा
शंसतु शुभानि हंसवाहना निरन्तरम्।।७९।।
करुणादृष्टिलवम्, अञ्जसा शीघ्रम्। सुघटिता शोभनाकारा देहलता यस्या: सा। अर्थसाधिका। वीणागुणानां तन्त्रीणां रणने वादने नियुक्तौ करौ यस्या:। शुभानि शंसतु सूचयतु ददातु।।७९।।
(२९)
चरणम्
यस्य हि रजोऽधिभालमालिम्पन्ति देवा अपि
के वा वयमस्य महिमानं श्लाघितास्महे
यस्य स्मृतिमात्रतोऽवबुद्धभूरिभावा वयं
कविताकलायां न हि जातुचिदुदास्महे।
मञ्जुनाथ कुण्डलिकलितमञ्जुमञ्जीरक-
मेतत्सूक्तिसञ्जीवकमाराधयितास्महे
इन्दीवरशोभाभरहरणमुदूढभूरि-
करुणमुदारं चारुचरणमुपास्महे।।८०।।
यस्य चरणस्य रज: धूलिम्। अधिभालं भाले ललाटे। अस्य चरणस्य माहात्म्यं वयं के श्लाघितास्महे, किं प्रशंसिष्याम इत्यर्थ:। अवबुद्धभूरिभावा: जागृतनवनवभावा:। कवित्वशिल्पे कदाचिदपि न उदास्महे, न उदासीना भवाम:। कुण्डलिभि: कलिता मञ्जव: मनोहरा: मञ्जीरा: नूपुरा: यस्मिन्। सूक्तीनां संजीवकम् जीवनदायकम्। उदूढाधारि भूरिकरुणा येन तत्। उदारं वरदाने वदान्यम्, दानशीलं चरणम्।।८०।।