(४४)
दोहा-संदोह:
भीमभवाम्बुधिपरिगते यदि ते दया विभाति।
जगज्जीव जीवनतरिस्तर्हि पारमुपयाति।।१।।
त्रिविधतापतपनच्छटा विकटा चेदुदयेत।
पीतपटा श्यामलघटा तत्संकटाद्धरेत।।२।।
जगति पापपीनोऽपि किं दीनो व्यपदिश्येत?।
दीनदयालो! तव दया कथमु मयाऽऽमृश्येत।।३।।
भवगहने पवनेरिते दहनेऽयं निपतामि।
अवने मे करुणावने! कं भुवने कलयामि।।४।।
उदरकृते यदि जडमते! ध्रियते नटचर्यापि।
वयसि गते हरिहरकृते किं ह्रियते नामापि?।।५।।
जननावधि जननायकानभिसरसे रभसेन।
सपदि जगन्नायकमिमं किं नाश्रयसि रसेन?।।६।।
न खलु फल्गु घटनापरो भटनागरमाधेहि।
अलं मूढ! नटनाशतैर्नटनागरमादेहि।।७।।
अघतरुणा गुरुणाऽऽवृतं भवाँस्तु मां नेक्षेत।
करुणामय! तरुणापि ते करुणा किमुपेक्षेत?।।८।।
भवाम्बुधिगते (मयि)। जगत् जीवयतीति जगज्जीव: तत्सम्बुद्धि:। जीवनरूपा तरि: नौका।।१।। त्रिविधतापरूप: तपन: सूर्य: तस्यच्छटा दीप्ति: (आतप:)। श्यामलघटा (श्रीकृष्ण:) सूर्यातपहरणे मेघघटा प्रसिद्धा।।२।। य: पीनो जन: स दीन इति कथं व्यपदिश्येत (व्यवह्रियेत)। आमृश्येत स्पृश्येत (प्राप्येत)।।३।। पवनेन ईरिते प्रेरिते (प्रवर्द्धिते)। अयमहम्। हे करुणाया: अवने भूमे। अवने रक्षणे तदर्थं कं कलयामि अन्विष्यामि।।४।। हरे: हरस्य च कृते नामापि ह्रियते नाममात्रमपि परिह्रियते, भगवतो नामजपोऽपि न क्रियते?।।५।। जननायकान् समाजनेतॄन् राजादीन्।।६।। फल्गु. निरर्थकसंघटनातत्पर:। भटेषु नागरं चतुरं राजादिकं न खलु आधेहि स्वामित्वे स्थापय। नटानां नागरं श्रीकृष्णम्।।७।। गुरुणा महता अघ (पाप)- रूपेण तरुणा आच्छादितम्। भवान् पुराणपुरुष:, दृष्टौ मन्दता सम्भाव्यते किंतु तरुणा नववयस्का (सर्वदा उद्धारे अनलसा) करुणापि किम् उपेक्षेत? अपितु नोपेक्षेत। नववयस्काया दृष्टि: प्रबला भवति।।८।।
क्रूरकुकृतिकलुषाशयान् कुसृतिपरानपि पासि।
करुणावरुणालय! कथं मादृशमहह जहासि।।९।।
उन्मङ्क्तुं विवलन्नतलभवजलधौ मज्जामि।
नाथ! पुरा प्रोद्धृतगजं भुजं तमिह मृगयामि।।१०।।
जीवयसे जडजङ्गमानधमानुद्धरसीह।
विरुदमिदं किमु नाविदं? सविधं नैषि निरीह!।।११।।
नहि भुक्तिं मुक्तिं न खलु यदुनायक! याचामि।
भक्तिं तव पदसरसिजे देहि शरणमुपयामि।।१२।।
क: शमयति मम वेदनां क: कलयति हृद्गामि।
नाथ! त्वं कथयाधुना कथया कं व्यथयामि।।१३।।
भीमभवाम्बुधिमातरन्मा संशयमायाहि।
सलिलोपरि तारितशिलं ह्यविलम्बितमुपयाहि।।१४।।
करितो गुरुता नास्ति मे गिरितो गुरुता नैव।
गिरिधर तेन भुजेन मे भुजमुद्वह दययैव।।१५।।
कुकृतय:- कुत्सिता कृतिर्येषां ते। कुसृतिपरान् कुमार्गलग्नान्।।९।। उन्मङ्क्तुं विवलन् बहिर्निस्सर्तुं विचेष्टमान:। अतले अगाधे। प्रोद्घृत: गजेन्द्रो येन तम्।।१०।। हृद्गामि हृद्गतं दु:खम्। एवमसाध्यपरिस्थितौ आत्मकथया कं व्यथयामीति त्वं कथय।।१३।। भवसागरतरणे संशयं मा कुर्या: येन पर्वतशिला अपि तारितास्तस्य मनुष्यतारणं किं कठिनम्।।१४।। गिरिधर! येन गिरिरपि धारित: स त्वम्।।१५।।
गो. वै. १०-
विहारिविनयवर्णिका
निन्दतु जगदिह कुटिलतामेतां जह्यां नाथ।
सरलमनसि निवसन् व्यथां बहेभङ्गी नाथ!।।१६।।
जगत् कामं निन्दतु, अथ अथापि एतां कुटिलतां न जह्यां त्यजेयम्। यत: यदि मे मनसि कुटिलता न स्यात्, सरलता शुद्धचित्तता अवक्रता च स्यात् तर्हि त्रिषु स्थानेषु भङ्ग (वक्रता) शाली त्वं तत्र निवसन् व्यथां वहे: प्राप्नुया:। अवक्रे स्थाने अधिकरणे वक्रं वस्तु कथं पदं दध्यात्? अवक्रे कोषे वक्र: खड्गो न तिष्ठतीति प्रसिद्धम्। दोषस्यापि गुणत्वकल्पनाल्लेशालंकारो वाच्य:। कुटिलतया सर्वैस्त्यक्तस्य दीनदयालुतया त्वमेव नाथ:, इत्यादिव्र्यथङ्ग्य:।।१६।।
करौ कुबत जग, कुटिलता तजौं न, दीनदयाल।
दुखी होहुगे सरल हिय बसत, त्रिभंगी लाल।।१६।।
कस्य दुर्गतेर्बन्धुरसि को भवता समतारि?।
मुधा भ्रमसि यदुवर! मुदा मिथ्याविरुदमधारि।।१७।।
दु:खा गतिर्यस्य ईदृशस्य कस्य दीनस्य त्वं बन्धु:? क: पातकी भवता अतारि उद्धृत:। हे यदुवर! 'अहं दीनबन्धु: पतितोद्धरण:’ इति कीर्तिं भावयन् मुदा मोदेन मुधैव भ्रमसि। इदं विरुद्ध ंमिथ्यैव त्वया अधारि। 'ये पूर्वं भवता तारितास्ते न वास्तवे दीना: न वस्तुत: पातकिन:। अहं सत्यो दीन: पातकी च। अतएव विरुद्ध सत्यीकरणाय ममोद्धार आवश्यक:’ इत्यादिव्र्यङ्ग्योऽर्थ:।।१७।।
बंधु भये का दीन के, को तार्यो, यदुराय।
तूठे तूठे फिरत हो, झूँठे बिरद कहाय (बुलाय)।।१७।।
दीनरवे कियदाह्वयं न हरेऽवितुमागामि।
जगदीशोऽपि जगद्गुरुर्जगद्वायुनाऽऽक्रामि।।१८।।
दीनतापूर्णे स्वरे कियत् त्वाम् आह्वयम्, तथापि माम् अवितुं भवता न आगामि मम सहायो भवितुं भवान् न आगत:। जगतो गुरु:, जगत: स्वामी भवानपि जगतो वायुना प्रभावेण आक्रान्त:। 'गुरो: प्रभाव: शिष्ये, स्वामिनश्च सेवके भवति’ किन्तु इतो विपरीतमजनीति मन्दभाग्यस्य मेऽदृष्टम्। परं भवान् शरणागतेभ्योऽभयदानप्रतिज्ञाशाली 'सकृदेव प्रपन्नाय तवास्मीति च याचते। अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम।।’ अतएव सर्वसमर्थस्य ते नैवं स्यादित्यादि व्यङ्ग्यम्।।१८।।
कब कौ टेरत दीन रट, होत न स्याम सहाय।
तुमहूँ लागी जगत गुरु, जग नायक, जग बाय।।१८।।
प्रत्ययमिह यदि यदुपति: सम्पदमृतेऽपि पाति।
तह्र्येतामवगुणभृतां को मनसाप्युपयाति।।१९।।
सम्पदम् धनसम्पत्तिम् ऋ ते विनापि यदि यदुपतिर्मे प्रत्ययं प्रतीतिं विश्वासं रक्षति तर्हि अवगुणपूर्णां सम्पत्तिं मनसापि को ध्यायेत्, न कोऽपि। भाषाकिंवदन्ती, न संस्कृते प्रसिद्धा। सम्पत्तेरावश्यकता संसारे प्रत्ययस्थापनाय। यदि मे प्रत्ययं भगवान्निर्वाहयेत् तर्हि सम्पत्ते: काऽऽवश्यकता। अकिंचनसहायको भगवान् सर्वभावेन मे रक्षक इत्यादि व्यङ्ग्यम्।।१९।।
तौ अनेक औगुन भरिहि चाहे याहि बलाय।
जो पति संपति हू विना जदुपति राखे जाय।।१९।।
मादृशदुर्मुखविमुखतोऽप्यभिमुखतामाधाय।
निजकुकृतै: संकुचितमिह संकोचयसि चिराय।।२०।।
निजकुकृत्यै: पूर्वमेव संकुचितम् लज्जितम् माम् अनया रीत्या चिराय अत्यधिकं संकोचयसि यत् मादृशे दुर्मुखे पापकलङ्कवशाददर्शनीयमुखे तदुपर्यपि नित्यं विमुखे भवन्तं प्रति अननुकूले अपि अभिमुखतामनुकूलताम् आदधासि अभिमुखतामाधाय संकोचयसि इति छन्दोबन्धाद् भङ्ग्यन्तरम्। विमुखत: इति सार्वविभक्तिकस्तसि:। भक्त्यादिगुणानां का कथा, ये विमुखा: सन्ति तानपि त्वमुद्धरसीति धन्या ते दीनदयालुतेत्यादि व्यङ्ग्यम्।।२०।।
निज करनी सकुचेहि कत सकुचावत इहि चाल।
मोहू से नित बिमुख त्यौं सनमुख रहि गोपाल।।२०।।
निजनिजमतलग्रा वृथा न कलकलं कलयन्तु।
सर्वै: सेव्य: स यदुपतिरेकस्त इति विदन्तु।।२१।।
नानामत (सम्प्रदाय)- वादिनो व्यर्थं कलकलं कुर्वन्ति, येन केनापि प्रकारेण सर्वेषामपि सम्प्रदायानामेको व्रजराजकिशोर एव सेवनीय: इति ते जानन्तु।। 'भगवान् रुचिभेदेन नानाभावनाभिरुपासमानानपि उद्धरतीत्यादि’ व्यङ्ग्यम्।।२१।।
अपने-अपने मत लगे बादि मचावत सोर।
ज्यौं त्यौं सब कौं सेइबो एकै नंदकिसोर।।२१।।
यत्नशते विहितेऽपि क: कलयतु पृथगुपपाद्य।
मोहनरूपमिलन्मनोऽभूज्जललवणमिवाद्य।।२२।।
अनन्तयत्नैरपि 'इदं लवणम्’ इति उपपाद्य (उपपत्तिं दत्त्वा) पृथक् क: कलयतु? न कोऽपि समर्थ:। मोहनस्य भगवत: रूपे मिलित्वा मे मन: अद्य जलगतं लवणिमिव अभवत्। जले मिश्रितं तद्रूपतां गतं लवणं यथा पृथक् कर्तुं न शक्यते तथा मोहनशक्तिशालिनो भगवतो लावण्ये मिलित्वा मनोऽपि लवणगतिमगात्। लावण्ये मिलितस्य लवणगति: स्वभावसिद्धैव। मोहनस्य रूपेण मे मनो मिलित्वा तद्रूपमभूत्, कथं पृथक्कर्तुं शक्येत’ इत्यर्थ: (विहारिरत्नाकर:)।।२२।।
कीनेहूँ कोरिक जतन अब कहि काढै कौन।
मौ मन मोहनरूप मिलि पानी मैं कौ लौन।।२२।।
धर मालाक्षेपणिमिमां न परमुपायमवेहि।
संतर भवसागरमिमं हरिगुणतरिमादेहि।।२३।।
जपमालारूपां क्षेपणीं 'नौकादण्ड: क्षेपणी स्यात्’ धर गृहाण, अपरमुपायं न जानीहि। हरिगुणगानरूपां तरिं नौकाम् आदेहि अवलम्बस्व।।२३।।
पतवारी माला पकरि, और न कछू उपाउ।
तरि संसार पयोधि कौं, हरि नावैं करि नाउ।।२३।।
जगतो बोधयिता हरिर्नावाबुध्यते जातु।
दृशा दृश्यते जगदियं दृक् किं दृशमुपयातु।।२४।।
न अवाबुध्यत न अज्ञायत। यया दृशा चक्षुषा जगद् दृश्यते इयं सा दृक् किं दृष्टिमुपयातु? अपि तु न दृश्यत इत्यर्थ:।।२४।।
जगत जनायो जिहिं सकल सो हरि जाने नाहिं।
ज्यौं आँखिन सब देखिये, आँखि न देखी जाहिं।।२४।।
प्रलयकारि ववृषुर्भुशं घना नभसि समवेत्य।
गिरिं करेऽधाद् गिरिधरो हरन् हरेर्मदमेत्य।।२५।।
प्रलयकारि यथा स्यात्तथा। एत्य गोकुलवासिनां साम्मुख्यमुपेत्य हरे: इन्द्रस्य मदं हरन् गिरिम् अधात् अधरत्।।२५।।
प्रलय करन बरषन लगे जुरि जलधर इक साथ।
सुरपति गरब हर्यौ हरषि गिरिधर गिरि धरि हाथ।।२५।।
मोहमिहावह मोहने घनश्याममीक्षस्व।
विहर निकुञ्जविहारिणा गिरिधरमुरसि धरस्व।।२६।।
यदि ते मोहम् ममत्वं स्नेहम् कर्तुमिच्छा तर्हिं मोहने श्रीकृष्णे (मोहन इति भक्तकविपद्धत्या श्रीकृष्णे योगरूढम्) आवह कुरु (अन्ये पदार्था: पर्यन्ते वैरस्योत्पादका बन्धकाश्च, मोहनस्तु सर्वदा मोहन इति व्यङ्ग्यम्)। यदि सतृष्णदर्शनेच्छा तर्हि घनवच्छ्यामं श्रीकृष्णमीक्षस्व, [दर्शनसुखकरतया प्रसिद्धो मेघ:, तद्वत् कृष्णोऽपि सर्वेषां सुखकराणां मौलिभूत:]। निकुञ्जविहारशीलस्य नित्यो विहार: कदापि नोपराममेतीति तात्पर्यम्। गिरिधरो हि निजध्यायकस्य सर्वात्मना निर्वाहक:, येन हि गिरिं करे धृत्वा समग्रा व्रजवासिनो महेन्द्रकोपाद् रक्षिता इति तात्पर्यम्। सर्वानपि मानसेन्द्रियाभिलाषान् भगवत्येव समर्पय, अनन्यचेतसा लीयस्वेति चरमं व्यङ्ग्यम्।।२६।।
मन मोहन सों मोह करि, तू घनस्याम निहारि।
कुंजबिहारी सौं बिहरि, गिरिधारी उर धारि।।२६।।
स्वल्पगुणैस्तुष्यति पुरा प्रकृति: सा हि समापि।
अद्यश्वस्तनदानिता नाथ धृता भवतापि।।२७।।
भवान् पुरा स्वल्पैरपि गुणैरतुष्यत्, पुरायोगे लट्। सा प्रकृति: स्वभाव: समाप्ता कृता व्यस्मारि त्यक्ता। अद्यश्वस्तना: अद्य वा श्वो वा भवा: ये दातारस्तेषां भाव: भवतापि धृत:। पूर्वं भवान् दीनदयालुतया यत्किचिंद्गुणैरेव भक्तेषु कृपामकरोत्, अधुना बहुगुणशालित्वेऽपि कालविलम्बं करोषि ततश्च कृपाकरणाय बहुगुणशाल्यहमस्मीति निभृतं व्यज्यते। 'नाथ’ इति सम्बोधनेन 'जगत्स्वामिनस्ते गुणानभिलक्ष्य कृपाकरणं नोचितम्। एतद्धि वणिजामिव वस्तुपरिवर्तनम्, यद्धि अन्ये देवा अपि कुर्वन्ति। किन्तु भवान् निस्साधनेऽप्यनुग्रहं करोतीत्यादि।’ गूढं सूच्यते।।२७।।
थोरेहीं गुन रीझते, बिसराई बह बानि।
तुमहूँ कान्ह मनौ भए आज काल्हि के दानि।।२७।।
लक्षसहस्रण्यर्जयतु कोटिं कोऽपि दधातु।
सम्पत्तिर्मम यदुपतिर्हरन् विपत्तिं भातु।।२८।।
लक्षाणि च सहस्राणि च। दधातु गृहे स्थापयतु। विपत्तिपरिहाराय लोका धनसंग्रहं कुर्वन्ति किंतु तद्धनं सान्तम्, चौरादिभिर्हार्यं च। किन्तु मम सम्पत्तिभूतो हरिर्नित्य: सदा मे आपत्तिहरणे सज्जश्च। कष्टसंगृहीतो निधिरिव मे हरि: प्रेमास्पदमित्यादि ध्वन्यते।।२८।।
कोऊ कोटिक संग्रहौ, कोऊ लाख हजार।
मो संपति जदुपति सदा बिपति बिदारनहार।।२८।।
मोहनमूर्तेर्यदुपतेरद्भुतगतिराभाति ।
मनसि वसति तदपि स जगति प्रतिबिम्बितमुपयाति।।२९।।
मोहिनी मूर्तिर्यस्य तस्य। मनसि वसन्नपि स जगति प्रतिबिम्बनमुपयाति, जगद्वर्तिषु सर्वेषु पदार्थेषु निजप्रतिबिम्बं दर्शयति। य: पदार्थ: कस्यचिदन्त: प्रविष्टो भवति तस्य प्रतिबिम्बो बहिर्न प्रतिफलति, किंतु मानसस्य अन्तर्निवसतोऽपि हरे: प्रतिबिम्बो बहि: सर्वस्मिन्नपि जगति पतति, इत्येव अद्भुता गति:। मोहनमूर्तिरितिपदेन हरेस्तथा मोहिनी शक्तिर्यस्या: हृदयस्यान्त: स्थापनेन मानसं तथा मोहितं भवति यथा सर्वं जगत् श्यामसुन्दरमयमवलोकयति। तन्मयो भूत्वा भक्तो जगद्बन्धाद्विमुक्तो भवतीत्यादि व्यज्यते।।२९।।
मोहन मूरति स्याम की अति अद्भुत गति जोइ।
बसत सुचित अंतर तऊ प्रतिबिंबित जग होइ।।२९।।
भवसागरमिममुत्तरन् को हि पारमुपयाति।
स्त्रीछविछायाग्राहिणी मध्य एव गृति।।३०।।
सिंहिकानाम्नी काचिद् राक्षसी आत्मन उपरि गच्छतो यस्य कस्यचित्पक्ष्यादे: प्रतिबिम्बं छायाम् आदाय तद्द्वारैव तं पदार्थमाकृष्य भक्षयति स्म, या हि रामावतारे समुद्रं तरता हनुमता समापि। या: शोभा भवसागरमुत्तरन्तं मध्य एव गृति, ततश्च यो हि हनूमानिव संयतेन्द्रियो बलवांश्च भवेत् स एव तां पराजित्य पारगामी भवतीति सूच्यते। 'छविछायाग्राहिणी’। अत्र तुगागमो भाषानुरोधान्न कृत:। 'आगमशामनित्यमिति’ वा व्याकरणानन्यभक्तै: शरणीकरणीयम्।।३०।।
या भव पारावार कौं उलँघि पार को जाय।
तिय छबि छायाग्राहिनी ग्रहै बीचहीं आय।।३०।।
प्रलयरोपिकोपावृतं पुरुहूतं प्रलुलोप।
गोगोपीगोपालकान् गिरिधर एव जुगोप।।३१।।
प्रलयं रोपयति करोति ईदृशेन क्रोधेन आवृतम्। लुलोप लुप्तमकरोत्, पराजित्य द्रावयामास। तौदादिकाल्लुम्पतेर्लिट्। गिरिसदृशं दुरुद्धरं धृत्वापि ररक्षेति 'गिरिधर’ पदेन सूच्यते। ततश्च भक्तवत्सल: सर्वसमर्थश्च स एव सर्वात्मना सेव्य इति चरमं ध्वन्यते।।३१।।
लोपे कोपे इन्द्र लौं रोपे प्रलय अकाल।
गिरिधारी राखे सबैं गो, गोपी, गोपाल।।३१।।
नायमन्यसमय: सपदि तं नाविकमन्विष्य।
सागरपारं योऽनयत् प्रस्तरतरौ निवेश्य।।३२।।
अन्य: साधारण: अयं समयो नास्ति, अधुना भवसागरपारगमनाय तं कर्णधारमन्विष्य गवेषय, यो रामावतारे पाषाणरूपायां तरौ नौकायां निवेश्य वानरभल्लूकादीन् सागरपारमनयत्।।३२।।
यह विरिया१ नहिं और की तू करिया२ वह सोधि।
पाहन नाव चढाइ जिहिं कीने पार पयोधि।।३२।।
येन पतितततिरुदतरद्धृदि तदेव कलयाथ।
मम हि गुणागुणगणमिमं८ गणय न गोपीनाथ।।३३।।
हृदि कलितेन येन वस्तुना (दयारूपेण) पतितानां तति: समूह: उदतरद् भवसागरमुदलङ्घयत्, अथ तदेव हृदि कलय कुरु। यदि गुणावगुणानां गणनां करिष्यसि तर्हि अवगुणपूर्णस्य ममोद्धारोऽसम्भव:, किंतु दयामेव मनसि स्थापयेर्यद्वशात्पूर्वमधुना च पातकिनामुद्धारोऽभवद्भवेच्च। 'गोपीनाथ’ पदेन व्रजवासिनो यथा सर्वापद्भ्यो रक्षणपूर्वं दयया सर्वथा उद्धृतास्तथाहमपि वाञ्छामीति ध्वन्यते। 'इमम्’ इत्यनेन प्रत्यक्षो मेऽवगुणराशिरिति सूच्यते।।३३।।
कीजै चित सोई, तरे जिहिं पतितन के साथ।
मेरे गुण औगुन गननि गनौ न गोपीनाथ।।३३।।
यत्र यत्र तिष्ठन् हरि: सुभगशिरोमणिरैक्षि।
गतेऽपि तस्मिन् स्थलमिदं दृशं हरत् समवैक्षि।।३४।।
यस्मिन् यस्मिन् स्थाने तिष्ठन् हरि: ऐक्षि ईक्षित: (ईक्षते: कर्मणि लुङ्)। सुभगानां सुन्दराणां शिरोमणि:। तस्मिन् (हरौ) मथुरां गतेऽपि। तत् स्थानं क्षणकालाय दृष्टिम् आकर्षत् समवैक्षि विलोकितम्। हरे: सुभगतामाहात्म्यात्तस्य स्थितिस्थलमपि तथा रमणीयं भवति यथा तद्दर्शनाय स्वतो दृष्टिराकृष्टा भवति।।३४।।
१. बिरिया=बार। (बिहारीरत्नाकर)। २. करिया=कर्ण (नौकादण्ड, अतएव नौकाचालक कर्णधार)। उसका धारण करने वाला 'केवट’ भी करिया।
जहाँ जहाँ ठाढ़ौ लख्यौ स्याम सुभग सिरमौर।
बिनहूं उन छिन गहि रहत दृगनि अजौं वह ठौर।।३४।।
वारसहस्रण्ययि हरे! विनतिमिमां कलयेय।
यथा तथा बत निर्वहन् राजसभां सेवेय।।३५।।
सहस्रवारान् इमां विनतिं नम्रतापूर्विकां प्रार्थनां करोमि यद् येन केनापि प्रकारेण भवतो राजसभायां (दरबारे) निर्वाहं कुर्वन् पतित: स्यां न तु ततो बहिर्भूत:। नाहं मुक्तिं दिव्यलोकादिकं वा वाञ्छामि किंतु भवतश्चरणतलपतित एव सर्वदा स्याम्, कामं मे पातकविचारेण भवतोऽनुग्रहस्य पूर्णत्वाभावादादरोऽनादरो वा भवेदिति तात्पर्यम्।।३५।।
हरि! कीजति बिनती यहै तुम सौं बार हजार।
जिहिं तिहिं भाँति डर्यो रहौं पर्यौ रहौं दरबार।।३५।।
सो.- त्यज तीर्थान्यनुरागमय हरिराधातनुरुचौ।
प्रतिपदमयति प्रयाग इह व्रजकेलिनिकुञ्जपथि।।३६।।
तीर्थानि त्यज, हरिराधयोस्तनुरुचौ शरीरकान्त्याम् अनुरागम् अय प्राप्नुहि (कुरु)। ययो: (हरिराधिकयो:) व्रजस्य केलि (बिहार)- निकुञ्जानां पथि मार्गे प्रतिपदम् (प्रत्येकचरणे) प्रयागतीर्थम् अयति प्राप्नोति (भवति)। अन्यतीर्थोपगमनस्य परिश्रमं मुधा किं कुरुषे, श्रीकृष्णराधिकयो: श्रीअङ्गानां कान्त्यामेव अनुरज्य, राधाकृष्णावेव सेवस्वेत्यर्थ:। व्रजभूमौ निकुञ्जकेल्या: समये ययो: प्रतिपदविन्यासे तीर्थराज: प्रयाग: स्वयमुपगच्छति। श्रीकृष्णराधिकयोध्र्यानपूर्वकमनुरागे कृते व्रजस्य प्रत्येकपदे प्रयागराजोपगमनस्य फलं प्राप्यते, किं मुधा एकैकतीर्थसेवनश्रमेणेति सूच्यते। किञ्च-हरेश्छवि: श्यामा सा यमुना, राधाया गौराच्छविर्गङ्गा। तयोरनुरागश्च मध्ये सरस्वती (कविसमये अनुरागस्य सरस्वत्याश्च रक्तवर्णत्वात्)। ततश्च प्रयागस्य त्रिवेणी स्वयमेषा उपस्थिता, किं मुधा तत्र तत्र चरणचङ्क्रमणश्रमेणेति गूढं ध्वन्यते।।३६।।
तजि तीरथ हरि राधिका तन दुति कर अनुराग।
जिहिं ब्रज केलि निकुञ्ज मग पग पग होत प्रयाग।।३६।।
दो.- हृत्स्नानागारं वहे तापत्रयात् प्रताप्य।
इदमुपेत्य कुहचिद्धरि: स्विद्यति पुलकमवाप्य।।३७।।
आध्यात्मिकाधिदैविकाधिभौतिकेति तापत्रयात् प्रताप्य इदं हृदयरूपं स्नानागारं वहे रक्षामि। (हरेरागमनाय मया सज्जीकृतम्)। यदि कदाचिद् हरि: इत: समुपगच्छेत्तर्हि इदं स्नानागारं उपेत्य प्राप्य उष्णतावशात् पुलकं रोमाञ्चं प्राप्य कदाचिद् हरि: स्विद्यति ('पसीजैं’- हिन्दी) अर्थात् मयि करुणाद्र्रो भवेत्। अतिकठोरपुरुषस्य स्वेदनेन 'पसीजना’, शिथिलीभाव: मृदुभावो लक्ष्यते भाषायाम्। तदनुसारेण- 'मम हृदयं पूर्णतया नानासंतापै: संतप्तम्, अत एव यवनसम्राजां स्नानागारे ('हम्माम’) इव कदाचिद्धरिश्चेत् प्रविशेत् (अर्थात् यदि मम ध्यानवशाच्चेतसि संचरेत्) तर्हि तप्तस्य मे दीनतां दृष्ट्वा कदाचिन्मयि करुणाद्र्र: सन् ममोद्धारं कुर्यादिति गूढं ध्वन्यते।।३७।।
मैं तपाय त्रयताप सौं राख्यौ हियौ हमाम।
मति कबहुँक आयें यहाँ पुलकि पसीजैं स्याम।।३७।।
समयात् प्रकृतिविपर्यये क: शीलं न जहाति।
करुणां करुणाकृज्जहौ कुमतिकलावुपयाति।।३८।।
समयात् समयस्य परिवर्तनेन प्रकृते: स्वभावस्य परिवर्तने सति क: पुरुषो निजमाचरणं न त्यजति। (यत:) कुत्सितमतिशालिनि कलिकाले उपयाति आगच्छति सति करुणाकरो हरिरपि करुणां जहौ तत्याज। हरि: सर्वदा करुणाकर इति प्रथित:, किंतु साम्प्रतं मम दुर्दशां दृष्ट्वापि न मय्यनुकम्पां करोति। अतएव कलिसमयवशाद् हरेरपि स्वभावपरिवर्तनं जातमित्यर्थ:। अनेनोपालम्भेन 'हे हरे! नाहमधिकं कालविलम्बं सहे साम्प्रतं निजदयास्वभावाद्दयैव मयि करणीयेति’ ध्वन्यते।।३८।।’
समै पलट पलटै प्रकृति, को न तजै निज चाल।
भौ अकरुन करुना करौ इहिं कपूत कलिकाल।।३८।।
यथा भवेयं स्यां तथा नाथ निजाचरितेन।
अतिकठिनं मम तारणं किं गोपाल हठेन।।३९।।
हे नाथ! निजेनाचरितेन अहं यथा भवितुं योग्य: स्यां तथा भविष्यामि। निजाचरितानां शुभाशुभं फलमहं स्वयं भोक्ष्ये इत्यर्थ:। मम तारणम् उद्धरणम् (कर्मबन्धनाद्विमोक्ष:) अतिकठिनम्। अतएव मम तारणे हठं मा कुरु [मम पातकानि तादृशानि येषामग्रे पूर्वपातकिनां पातकानि अतिसामान्यानि। अतएव तत्तारणमात्राभ्यासिनो भवत: सकाशान्मम तारणमहं दुष्करं मन्ये। प्रणयभाजनं श्रीमानस्मिन् कर्मणि महान्तं श्रममनुभवेदित्यपि मम नेच्छा। ततश्च यदि मे तारणेच्छा तर्हि महापातकिनो ममोद्धारे महदवधेयमिति ध्वन्यते]।।३९।।
ज्यौं ह्वैहौं, त्यौं होंउगौ हौं हरि अपनी चाल।
हठ न करौ, अति कठिन है मो तारिबौ गुपाल।।३९।।
भूरि कृतज्ञो नाथ मम सम्यक् सुदृशाकारि।
भवता भवतारण! कृतिर्यन्मम सूक्ष्ममधारि।।४०।।
हे भवतारण हे संसारोद्धारक! मम कृति: ममाचरणं यद् यदि भवता सूक्ष्मतया अधारि अवधारितं दृष्टम्, तर्हि हे नाथ! भवता मम सुदशा सम्यक् अकारि! ममोद्धार: सम्यग् व्यधायि इति काकु:। एतत्परिश्रमार्थम् अहं भवत: कृतज्ञ: कृतज्ञतया भवतो निर्मञ्छनतामगाम्। ['मैं तुम्हारी बलिहारी गया’ इति हिंदीशैली]। सेयं विपरीतलक्षणा। 'यदि भवता ममाचरणं दृष्टं तर्हि तस्यातिहीनतया मम अतिदुर्दशा भवताकारि’ इति लक्ष्योऽर्थ:। यदि ममोद्धरणमभीष्टं तर्हि ममाचरणोपरि दृष्टिर्न देया, 'भवतारण’ विरुदेन भवता दयावशादेवमेवोद्धार: कर्तव्य इति व्यङ्ग्यम्।।४०।।
तौ बलियै, भलियै बनी, नागर नंदकिसोर।
जो तुम नीकैं कै लख्यौ मो करनी की ओर।।४०।।
सो.- देहि नाथ मे मुक्तिमधमसमूहे यामदा:।
बन्धे चेदनुरक्तिरथ बधान ते गुणगणै:।।४१।।
हे सर्वसमर्थ (अधमोद्धारक)! यथा अनेकेभ्योऽधमेभ्य: पूर्वम् अदा: दत्तवान् तां मुक्तिं मह्यमपि देहि। चेत् मम बन्धने एव भवत: संतोषस्तर्हि ते गुणगणैर्बधान। सगुणस्वरूपस्योपासनायां मां योजयेत्यर्थ:। [बन्धने गुणस्य (रज्ज्वा:) अपेक्षा अतएव ते गुणैर्मां बद्धं कुरु इति श्लेषोऽपि]।।४१।।
मोहू दीजै मोष, ज्यौं अनेक अधमन दियो।
जो बाँधैं ही तोष, तौ बाँधौ अपने गुनन।।४१।।
दो.- स्पर्द्धा बद्धा त्वयि च मयि कोऽभिजयेदधुनाथ।
निजनिजविरुदनिवाहने द्वावपि निरतौ नाथ।।४२।।
हे नाथ! त्वयि मयि च (तव मम च मध्ये) स्पद्र्धां बद्धा दृढीभूता। अथ, अधुना दृश्यताम्, को जयेत्, द्वयोर्मध्ये को विजयशाली भवति। निजनिजविरुदस्य निजनिजपूर्वप्रशस्ते: लज्जानिर्वाहे त्वम् अहं चेति द्वावपि तत्परौ। मम विरुदं पतित: अधम: इत्यादि। अतएवाहं निजनामरक्षार्थं पतितकर्तव्यानि न त्यजेयम्। भवतो विरुदं 'पतितपावन:’ इति, अतएव भवानपि मम पातकानि संनाश्य मां पावयितुं प्रयतेथा:। अतएवाधुना द्रष्टव्यम्- पराजिततया पातकादहं विरतो भवामि, अथवा दुष्करमिति कृत्वा ममोद्धरणाद्भवान् उपरतो भवतीति। यदि सत्यो भवान् पतितोद्धारकस्तर्हि पूर्णपातकिनोऽपि ममोद्धार: कर्तव्य एवेति व्यङ्ग्यम्।।४२।।
मोहि तुम्हें बाढी बहस, को जीतै जदुराज।
अपने अपने बिरद की दुहू निबाहन लाज।।४२।।
(४५)
सोरठासमुदय:
काव्यकल्पनाकारु कृपयतु मयि तेज: किमपि।
मनसि चकासतु चारुचरणसरोरुहरेणव:।।१।।
व्रजजगतीजीवातुरातुरहृदयरसायनम् ।
मम हि शर्म निर्मातु मातुलहृदि शूलं किमपि।।२।।
यादवकुलावतंस विबुधवंशवारिधिविधो।
मुनिजनमानसहंस कंसनिकन्दन पाहि माम्।।३।।
सुहृदो मेऽपसरन्तु सन्तु सुखं विमुखा: परे।
किंतु नाथ न हरन्तु गन्तुकाममेता दृश:।।४।।
कामं मां क्लिश्नन्तु भवतापा: पापानुगा:।
अङ्के मां कलयन्तु पङ्केरुहसरसा दृश:।।५।।
यच्छसि यदुवर यर्हि गर्हितगुहसदृशेऽपि शम्।
दीने दिशसि न तर्हि बर्हिपक्षधारिन् दृशम्?।।६।।
स्वैरमिदं मे देहि देहिषु दूषितमपि पदम्।
एकमिदं प्रविधेहि धेहि दयादृष्टेर्लवम्।।७।।
अधमतमेषु निषीद सीदति किं ते मानसम्।
मञ्जुनाथ न विषीद यदि सिध्यति पत्यु: कृपा।।८।।
जिह्वायां तव नाम चरणरेणुरूषितमुर:।
वसतिरपि व्रजधाम धन्यानामन्ते भवति।।९।।
कपटैर्जन्म जगाम, कामपि सुकृतिं न कृतवान्।
किंत्वन्ते तव नाम जपति जिह्वया जय्यसौ।।१०।।
काव्यकल्पनायां कारुशिल्पि तेज: सरस्वती। कृपयतु कृपां करोतु।।१।। जीवातुर्जीवनौषधम्। मातुल: कंस:।।२।। विबुधा देवास्तेषां वंशोन्नायक!।।३।। गन्तुकामं परलोकं गन्तुमिच्छन्तम् मुमूर्षुम् एतास्तव दृश: न परिहरन्तु।।४।। पङ्केरुहवत् सुभगा: भगवतो दृष्टय:।।५।। यर्हि यदा गुहो व्याधराज:। तर्हि दीने न दिशसि? अपि त्ववश्यं दिशसि, काकु:।।६।। पदं स्थानं (जन्म)।।७।। मानसं किं सीदति खिद्यते, खेदो न योग्य:। यदि स्वामिनो दया भवति।।८।। रूषितं लिप्तम्।।९।। अन्ते चेत्तव नाम जयति असौ जयी।।१०।।
भ्रान्तं भवविगमाय न श्रान्तं क्षणमेकमपि।
यान्तं त्वदुपगमाय तान्तं किं विरुजसि विभो।।११।।
निगमगेयगुणधाम कामकोटिलज्जकवदन।
मञ्जुलमेघश्याम मामपनय पथतोऽपनय।।१२।।
वाचं विनियच्छामि कामं भ्रामय मां भवे।
किंतु यत्र गच्छामि तत्र नाथ ते स्यामहम्।।१३।।
सोऽयं सुचिरायाथ कथमुत्पथगामी भवेत्।
अन्तर्यामी नाथ! लब्ध: स्वामी चेद् भवान्।।१४।।
दुर्गतदु:खनिकन्द कन्दति मन्दोऽयं चिरात्।
किं दयसे न मुकुन्द कुन्दविनिन्दिकया दृशा।।१५।।
गोपगृहेभ्यो येन नीतं नवनीतं पुरा।
तेन चित्रचरितेन भुवि नीता गीताद्भुतम्।।१६।।
यदि मधुरिमलवलेहि मञ्जुनाथ मानसमिदम्।
तर्हि दृशं विनिधेहि मधुसूदन मुखपङ्कजे।।१७।।
सत्सङ्गो ह्यविराममखिलकामनानां लय:।
धन्यानां धृतिधाम तव नामस्मृतिरन्तिमा।।१८।।
मयि साम्मुख्यसमेतमेतदेव दयतां भवान्।
मरणे मम विहरेत चेतसि ते चरणे रति:।।१९।।
भवस्य संसारस्य विगमाय निवृत्तये। त्वदुपगमाय त्वत्प्राप्तये यान्तं गच्छन्तम्, तान्तं खिन्नम् (इमं दीनम्) किं विरुजसि (दर्शनमदत्त्वा किं पीडयसि)।।११।। कोटि: कोटिसंख्या। अपनयपथत: दुर्नीतिमार्गात्।।१२।। विनियच्छामि रुणध्मि, किंचिदपि न वदामीत्यर्थ:।।१३।। सोऽयं (ते भक्त:)।।१४।। कन्दति क्रन्दति, दृशा किं न दयसे दृष्टिदानद्वारा दयां किं न करोषि?।।१५।। भुवि नयनेन गीताया दिव्यत्वम्।।१६।। मधुरिम्णो माधुर्यस्य लवं लेढि (आस्वादयति) तच्छीलम्।।१७।। अन्ते तव नामस्मरणं धन्यानां भाग्यवतामेव धृतिधाम धैर्याधायकं भवतीत्यर्थ:।।१८।। मयि मां प्रति सम्मुखतां कृत्वा (मदनुकूलो भूत्वेत्यर्थ:)।।१९।।
कस्य सविधमुपयामि यामिकजनविनियन्त्रित:।
कस्य सदसि याचामि वाचा दुर्गतदीनया।।२०।।
दुर्दिवसेषु दयेत को दारुणदुरिताविले।
कस्य सदयमुदयेत दीनदु:खदमनोद्यम:।।२१।।
निस्साधननिकृतेषु केन कारुणिकता कृता।
जात्यादिभिरधमेषु कस्य सुधावृष्टिर्भवति।।२२।।
लभते कस्य द्वारि परितापी पापी शमम्।
अभयसत्रमाधारि केन सर्वजगत: कृते।।२३।।
पद्भ्यां कोऽभिससार ग्राहग्रस्तं गजपतिम्।
लज्जां कोऽभिजहार द्रुपदसुताया नृपसदसि।।२४।।
आयु: समं समाप्य भुवि नीतो वीतोऽसुभि:।
यन्नामामृतमाप्य चिरममरीभवति ध्रुवम्।।२५।।
नहि जहाति यो जातु जगति जिह्मगानपि जनान्।
स ममोद्धारी भातु बर्हिपक्षधारी सदा।।२६।।
गो. वै. ११-
गरुडध्वज गोविन्द गोपीजनजीवननिधे।
मधुमुरहरण मुकुन्द माधव मुरलीधर हरे।।२७।।
दनुजदर्पपरिहार दामोदर दुर्जनदमन।
राधाप्राणाधार पीताम्बर नीरजनयन।।२८।।
कविकलया कलयामि यामिह रचनामञ्जरीम्।
तामेतां निदधामि दामोदरपदपङ्कजे।।२९।।
यामिकजनै: द्वारपालै: विनियन्त्रित: अवरुद्ध: अहं राजादे: कस्य समीपं गच्छामि? राजादे: समीपे गमनस्यैवावसरो न भवतीत्याशय:। दुर्गता दुरवस्थापन्ना (गद्गदा)।।२०।। दुर्दिवसेषु संकटदिनेषु। दारुणै: प्रचण्डपापै: आविले मलिने (पापिनि जने)।।२१।। निस्साधनाश्च निकृता: तिरस्कृता: च। जात्यादि. गणिका-गुहगृध्रादिषु।।२२।। शमं शान्तिम्। अभयसत्रम्- 'सकृदेव प्रपन्नाय तवास्मीति च याचते। अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम’।।२३।। अभिजहार ह्रियमाणां प्रत्याजहार (परावर्तयामास)।।२७।। समं सर्वम्। असुभि: प्राणै: वीत: रहित: (मृत:)।।२५।। जिह्मगान् वक्रगामिन: (पूतनाशिशुपालादीन्)।।२६।। दनुज.- दर्पं परिहरतीति दर्पपरिहार: (अण्)।।२८।।
(४५)
अमृतध्वनि:
नन्दन् नन्दनिकेतने विन्दन्नखिलसुखानि।
नन्दयतान्नन्दात्मजो भिन्दन् दनुजकुलानि।।
भिन्दन् दनुजनिवृन्दं नगमुपखिन्दन् नखरे।
छिन्दन् भवभयमिन्दन् जगति विरुन्धन् समरे।।
स्पन्दद्भ्रमरममन्दद्रुमभवचन्दच्चन्दन ।
चन्द्रद्युतिमपि निन्दद्वदन विनन्दन्नन्दन।।१।।
दनुजनि (दैत्य) वृन्दं भिन्दन् नाशयन्। नखरे नगं पर्वतम् उपखिन्दन् परिघ्रन् आघट्टयन्निति यावत्, 'खिद परिघाते’ तुदादि:। जगति इन्दन् परमसमर्थो भवन्, 'इदि परमैश्वर्ये’। समरे (द्रोहिण:) विरुन्धन् आक्रामन्। स्पन्दन्त: सौगन्ध्यवशात् किंचिच्चलन्त: भ्रमरा यस्मिन्नेवं यथा स्यात् तथा अमन्दद्रुमभव: अतएव चन्दन् आह्लादयन् चन्दन: अङ्गरागो यस्य, तत्सम्बुद्धौ। 'स्पदि किंचिच्चलने’ अनुदात्तेत्त्वाद्विकल्पेनात्मनेपदम्। विनन्दन्त: मोदमाना: नन्दना: सूनवो यस्य तत्सम्बुद्धौ।।१।।
नृत्यन्मुरहरमनुसरन्नारीनूपुरनादि ।
रासमध्यमासीत् तदा गुञ्जन्मुरजह्रादि।।
गुञ्जन्मुरजमुदञ्जन्निनदमखञ्जन्नवरति ।
पुष्यन्मदमतितुष्यन् हरिरविदुष्यन् विहरति।।
चञ्चन्नयनमुदञ्चत्करुणममुञ्चन्निह चर।
नित्यं विहर न भृत्यं परिहर नृत्यन्मुरहर।।२।।
गुञ्जन् प्रतिध्वनिं प्रसारयन् मुरजो यस्मिन् यथा स्यात् तथा। उदञ्जन् उच्चैव्र्यक्तीभवन् निनदो यस्मिन् यथा स्यात् तथा। अखञ्जन्ती न खञ्जा गतिविकला भवन्ती नवरतिर्यस्मिन् यथा तथा। पुष्यन् मद: प्रमदो यस्मिन् यथा स्यात् तथा, अतितुष्यन् हरि: अविदुष्यन् कावैकृत्यमनुपगच्छन् (मदनविजयित्वात्) विहरति। चञ्चन्ती वात्सल्यवशाद् भक्तेषु गतिशीले नयने यस्मिन् यथा स्यात् तथा। उदञ्चत्करुणम् उदञ्चन्ती प्रस्फुरन्ती करुणा यस्मिन् यथा स्यात् तथा) भक्तं (माम्) अमुञ्चन् दूरे न कुर्वन् इह रासे चर। अन्यत् स्पष्टम्।।२।।
(४६)
हरिगीतिकादिछन्द: संदर्भ:
हरिगीतिका
वृन्दारकानतमौलिगतमन्दारवनगन्धावहा
मज्जन्मनुजवृन्दाय या सायुज्यसुखसंधावहा।
मन्दाय मे मन्दारवन्मन्दान्यसुखपरिपाकिनी
वन्दारुभवबन्धापहा गोविन्दपदमन्दाकिनी।।१।।
देवानाम् आनतमौलिगतानां मन्दारपुष्पाणां श्रेष्ठगन्धं धारयति सा। स्नानं कुर्वते जनसमूहाय भगवत: सायुज्यसुखसंधानकारिणी। प्रणमतां भवबन्धच्छेदिनी गोविन्दचरणरूपा स्वर्गङ्गा। मूढाय मह्यं कल्पवृक्षवत् अमन्दसुखपरिपाकयुक्ता (भवतु)।।१।।
मरहटा
अयि दीनदु:खहर सकलसौख्यकर दयया दृशमिह देहि
करुणावरुणालय जनितजनाभय सपदि सदयमवधेहि।
पदपङ्कजसद्मनि संनतसङ्गिनि पतितमेतमवयाहि
अयि दीननाथ तव मञ्जुनाथमिममुद्धर न किल जहाहि।।२।।
अस्मिन् दीने दयया दृष्टिं देहि। जनितं जनानां भक्तानाम् अभयं येन तत्सम्बुद्धौ। सपदि शीघ्रम्, अवधेहि अवहितो भव। सामान्यपातकी नास्मि, अतएव अवहित: सन्नुद्धारे प्रवर्तस्व। महापातकित्वं ध्वन्यते। संनतानां प्रणतानां सङ्गिनि सहायके तव पदपङ्कजरूपे गृहे पतितम् एतं (माम्) अवयाहि जानीहि। उद्धर, न जहाहि (त्यज)।।२।।
चवपैया
अयि सुखलवलालस प्रियसख मानस
मम मतिरिह यदि नेया।
तह्र्यलमभिरामे कीलितकामे
रामे मतिरुपधेया।।
यत्राहितचापे दनुजदुरापे
देवा दर्पमविन्दन्।
ते कुपितकपीशा नद्धनदीशा
रावणविभवमभिन्दन्।।३।।
मम सम्मतिर्यदि ग्राह्या तर्हि अलं सुन्दरे, अतएव नियन्त्रितकामदेवे रामचन्द्रे बुद्धि: योजनीया। दनुजै: दैत्यै: पराक्रमद्वारा दुष्प्रापे यस्मिन् देवा दर्पम् अगच्छन्। रामशौर्ये देवानां गर्व आसीदित्यर्थ:। नद्ध: सेतुना बद्ध: नदीश: समुद्रो यैस्ते कुपिता: कपीशा: वानरश्रेष्ठा: रावणोत्कर्षम् अचूर्णयन्।।३।।
पद्धरि
श्रीकृष्णचन्द्र व्रजपतिकिशोर
राधामुखेन्दुचञ्चलचकोर।
अयि सकलसूरिगुणनीयगाथ
मम मनसि सर्वदा विहर नाथ।।४।।
राधामुखचन्द्राग्रे चकोर! सकलसूरिभि: कविभि: गुणनीया आवर्तनीया कथा यस्य तत्सम्बुद्धौ।।४।।
खेलत्कलिन्दजाकूलगामि
गोविन्दचरणनलिनं नमामि।
मकरन्दबिन्दुमधिगम्य यस्य
मुदमेति मनो मुनिमधुकरस्य।।५।।
कलिन्दजाया: यमुनाया: कूलगतं चरणकमलम्। यन्मकरन्दस्य बिन्दुमपि प्राप्य मुनिरूपस्य भ्रमरस्य मानसम् आनन्दति।।५।।
उल्लाना
सकलजगज्जीवननिधे!
मयि विधेहि करुणां विधे!।
चरणतले पतितं सुतं
न किमवसे दयया द्रुतम्।।६।।
सकलजगतां जीवननिधिरूप! हे विधायक भगवन्!।।६।।
(४७)
गीतिगोपुरम्
प्रभातगीति:*
विनयमयत मानसेन नन्दगोपबाले।
विनयमयत. ।।१।।
चपलारुचिडम्बरेण परिहितपीताम्बरेण।
वपुषा घनसुन्दरेण नन्दितव्रजबाले।।२।। विनय.।।
कुण्डलमिह गण्डलम्बि चञ्चति चपलाविडम्बि।
कमलोपमचरणचुम्बिलम्बितवनमाले।।३।। विनय.।।
उरसि कुसुममादधाति शिरसि मुकुटमाविभाति।
यमुनापुलिनानि याति तिलकार्चितभाले।।४।। विनय.।।
दानवकुलमिदमगाहि येनाहितततिरदाहि।
प्रणयं मनसानुयाहि तस्मिन् व्रजपाले।।५।। विनय.।।
क्रीडति कृष्णेऽनुरहसि राधामुखमुग्धमनसि।
कालियफणनृत्यसदसि यमुनार्पितताले।।६।। विनय.।।
पृथिवीभरभर्जनाय दुर्मदनृपतर्जनाय।
पाण्डवहितसर्जनाय कौरवकुलकाले।।७।। विनय.।।
दुर्मदमदमीलनाय निजपणपरिशीलनाय।
कल्किनि कटुकीलनाय करधृतकरवाले।।८।। विनय.।।
निगमागमगीतगाथ देहि दृशं दीननाथ।
दययोद्धर मञ्जुनाथमस्मिन् भवजाले।।९।। विनय.।।
विनयं नम्रतां (भाषानुसारं सादरप्रार्थनाम्) अयत कुरुत इत्यर्थ:।।१।। चपला (विद्युद्) वत् रुचिडम्बर: कान्तिसमूहो यस्य ईदृशेन परिहितेन धारितेन पीताम्बरेण, तथा घन (मेघ) सुन्दरेेण वपुषा च आनन्द्रिता व्रजबाला (िय:) न ईदृशे (नन्दगोपबाले)।।२।। चपलाविडम्बि विद्युत्तिरस्कारकम्। चरणचुम्बिनी लम्बिता वनमाला यस्य तस्मिन्।।३।। य: कुसुमम् आदधाति धारयति। य: यमुनापुलिनानि याति तस्मिन् अथवा याति गमनं कुर्वति (शतृ) तस्मिन्।।४।। येन दानवकुलम् अगाहि अमाथि (अनाशि) कर्मणि लुङ्।।५।। अनुरहसि एकान्ते क्रीडति क्रीडनं कुर्वति कृष्णे। कालियफणानामुपरि नृत्यस्य यत् सद: सभा तस्मिन् यमुनया अर्पितास्ताला यस्मै,
* 'प्रभाती’ प्रभृतिशैल्या बहुभि: प्रकारैरस्या गानम्- 'ठुमुक चलत रामचंद्र बाजत पैजनियाँ’ इत्यादिवत्।
कालियदमनसमये तटपाषाणशिलासु यो जलस्यास्फालनशब्द: तद्धि नृत्यसमये हरिप्रियया यमुनया तालदानं कृतमित्याशय:।।६।। दुर्मदानां मदस्य मीलनाय मुद्रणाय (लोपाय), निजप्रणस्व (यदा यदा धर्मग्लानये दुष्टा विजृम्भन्ते तदाहं धर्मरक्षां करोमीति) रक्षणाय तथा कटूनां (लोकाऽहितकारिणां नृपाणाम्) कीलनाय दमनाय करधृतकरवाले कल्किनि कल्किरूपधारिणि नन्दगोपबाले।।८।।
देशमल्लार-रागेण
जय जय गणनायक वरदायक!
जय जय. ।।१।।
दु:खहरण सुखकरण गणाधिप, जय जय सिद्धिविधायक।।
जय. जय.।।२।।
प्रथमनमस्कृत सकलसुरैरपि शरणापन्नसहायक।।
जय जय.।।३।।
लम्बोदर शिखिवाहनसोदर! निजजनशुभपरिचायक।।
जय जय.।।४।।
सिन्धुरवदन सदन सम्पत्ते: सिद्धिसुखामृतपायक।।
जय जय.।।५।।
एकदन्त विपदन्तविधायक विघ्रविहिंसनसायक।।
जय जय.।।६।।
मञ्जुनाथमिममाशु सनाथय, सकरुण सिद्धविनायक।।
जय जय.।।७।।
शिखिवाहनस्य स्वामिकार्तिकेयस्य सहोदरभ्रात:! निज (भक्त) जनेभ्य: शुभपरिचयदायक! सिन्धुर (गज) वदन! सिद्धिनाम्न्या: प्रियतमाया: सुखरूपस्यामृतस्य पायक! विघ्रानां विहिंसने दूरीकरणे सायक बाणसदृश!।
दादरा
मम दैन्यं न जानासि नाथ किमु मुहुरावेदये।
पराधीन्यं न जानासि नाथ किमु मुहुरावेदये।।१।।
भवत्पदाब्जमुपादेयमस्ति भक्तानाम्।
न किंचिदन्यदितो रोचतेऽनुरक्तानाम्।।
क्षयिष्णु नाकसुखं भाति बुद्धिरिक्तानाम्।
त्वमेव दिव्यनिधि: स्नेहरसासिक्तानाम्।।
अयि कुत्राधुना यासि नाथ! किमु मुहुरावे.।।२।।
अजामिलादिमहापापिनो दिवं याता:।
त्वया प्रभूतदयासागरेण निध्याता:।।
इत: परेऽपि किमन्ये प्रभो! न विख्याता:।
तवेह ये करुणापात्रतामुपायाता:।।
अपि मामेव हातासि नाथ! किमु मुहुरावे.।।३।।
भ्रमामि भूरि भृतो भावनाभिमानेऽहम्।
न जातु मोदमये त्वद्गुणानुगानेऽहम्।।
भवन्तमेव विभो रक्षकं विजानेऽहम्।
ऋ ते भवन्तमवन्तं परं न जानेऽहम्।।
वद किं मे विधातासि नाथ? किमु मुहुरावेद.।।४।।
भवन्निकेतमहं नाथ समागच्छामि।
पदाम्बुजस्य तले मस्तकं नियच्छामि।।
कृपाकटाक्षलवं नाथ किंचिदिच्छामि।
कदा लभेय तमित्याकुलं विपृच्छामि।।
शृणु वाक्यानि मे मञ्जुनाथ! किमु मुहुरावे.।।५।।
परस्य आधीन्यं अधीनतां [न जानासि] वारं वारं किम्-निवेदयामि। त्वया निध्याता: विलोकिता: तव ये दयापात्रतामुपायाता:, ईदृशा: किम् एभ्य: अजामिलादिभ्य: अन्ये न विख्याता:? अपितु बहव:। हे नाथ! किं मामेव हातासि त्यक्तासि (त्यक्ष्यसि, भविष्यति लुट्)? भावनाया: अभिमाने भृत: भ्रमामि। त्वद्गुणगाने मोदं न अये न प्राप्नोमि। परमेवं मम स्पष्टे दोषेऽपि भवन्तमेव रक्षकं जानामि। भवन्तम् ऋ ते (विना) परं अन्यं अवन्तं रक्षन्तम् (रक्षकम्) न जाने। हे नाथ! मे किं विधातासि कर्तासि (करिष्यसि), वद।।४।। निगच्छामि स्थापयामि। तं (कृपालवम्) कदा लभेय (प्राप्नुयाम्) इति आकुलं यथा तथा पृच्छामि।।५।।
लावनी
रासलीलायां मदनविजय:
जयति जगदानन्दनकारी। माधवो मनसिजमदहारी।।
गोपिकाजनजीवनधारी। सकलनिजभक्तभीतिहारी।।
निखिलजगदालम्बनकारी। जयति हरिरुन्मदपरिहारी।।१।।
जयति जगदानन्दनकारी। माधवो मनसिजमदहारी।।
दो.- व्रजवामाकामानसौ पूरयितुं विजहार।
तदिह दिव्ययमुनातटे रन्तुं मनश्चकार।।
कारणं विना प्रणयकारी। माधवो मनसि.।।२।।
शरदि वियदासीदतिविमलम्। चकाशे शशधररुचिरमलम्।।
कुमुदकरमुकुलितनवकमलम्। लसति कालिन्दीकूलमलम्।।
दो.- शशधरकरनिकरैरियं रजनी शुशुभे भूरि।
v परित: प्रमदभरैरिदं सकलं भुवनमपूरि।।
पूरित: प्रमदैर्गिरिधारी। माधवो.।।३।।
गोपिकाकामान् पूरयितुम्। मनोभवदर्पं दूरयितुम्।।
रसे हृदयानि विनोदयितुम्। वेणुमारेभे वादयितुम्।।
दो.- मञ्जुमुरलिकानादमिममुपगतमात्मगृहेषु।
संनिशम्य गोपीगणो गतवान् वनकुञ्जेषु।।
येषु रेमे स मनोहारी। माधवो.।।४।।
इह हि गोपीषु सपरिहासम्। ततो व्यातेने स हि रासम्।।
विदित्वा मनसिजमदवासम्। तिरोऽभूत्सोऽयं सविलासम्।।
दो.- हरिमवीक्ष्य वामा इमा: कामाकुलमनसो हि।
तरुवीथीषु विचिन्वते दर्पो दूरमरोहि।।
मोहित: कुसुमचापधारी। माधवो.।।५।।
तदनु हरिविरहाकुलहृदया। दृगम्बुजपूरितबाष्पचया।।
वधूततिरुञ्झितहरिविचया। प्रतेपे निहितहरिप्रणया।।
दो.- हरिचरितानुकरणपरा भृशमनुरागभरेण।
व्रजवनिता दयितानुगां जगु: कीर्तिमचिरेण।।
येन हरिरुदयति भयहारी। माधवो.।।६।।
अहह निजभक्तदयाशाली। आविरासीदिह वनमाली।।
प्रसन्ना रेमे प्रमदाली। पुलककुलकलितगण्डपाली।।
दो.- मनसिजमदमद्र्दनमिमं मुररिपुमयसि न केन।
रात्रिंदिवमिममनुभजेर्मञ्जुनाथ हृदयेन।।
येन स हि दुष्कृतविनिवारी। माधवो.।।७।।
रासलीलाव्याजेन स्मरस्य गर्वो योऽपकृतस्तत्कथा भागवतस्थानुसंधेया। निखिलस्य जगत: आलम्बनकारी आश्रयदाता। उन्मदान् जनान् परिहरति दमयति तच्छील:। अनेन गर्वितस्य कामस्य अग्रे भावी पराजय: सूच्यते।।१।। निष्कारणं स्वार्थं विना प्रणयकारी।।२।। रासलीलासमये विरोधिन: कामस्य पूर्णोद्दीपनसामग्री शरदाविर्भावादिकं वण्र्यते- अमलं यथा तथा शशधरस्य रुचि: कान्तिश्चकाशे। कुमुदस्य चन्द्रस्य करैर्मुकुलितानि नवकमलानि यस्मिन्नीदृशं कालिन्दीकूलम् अलं यथा तथा लसति। प्रमदो हर्ष:।।३।। रसे आत्मलीलारसे भक्तानां हृदयानि विनोदयितुं सुखयितुम्। अनेन। भगवदवतारस्य भक्तोद्धार: प्रयोजनं सूचितम्।।४।। व्यातेने चकार। राससमये प्रणयासक्तं हरिमनुमाय मनसिजस्य मदनिवासो गर्वोदयो जात:, तं विदित्वा हरिस्तिरोऽभूत् अन्तर्हितोऽभवत्। तरुवीथीषु वामा: िय: हरिं विचिन्वते। दर्प: दूरम् अरोहि, स्थापित:, गर्वो दूरीकृत इत्यर्थ:। रोहयते: कर्मणि लुङ्। एतं हरे: प्रभावं दृष्ट्वा कुसुमचापधारी काम: मोहित:।।५।। उज्झित: त्यक्त: हरेर्विचय: अन्वेषणम् यया सा, हरिप्रणयासक्ता वधूतति: (गोपीमण्डली) प्रतेपे, किमित्यस्माभिर्गर्वो विहित इत्यनुतापं चक्रे। दयितस्य श्रीकृष्णस्य अनुगतां तत्सम्बन्धिनीम् कीर्तिं जगु: (भगवद्गुणगानं चक्रु:)।।६।। प्रमदानाम् आलि: पङ्क्ति:। केन न अयसि किमिति शरणं न गच्छसि? हे मञ्जुनाथ! इमं श्रीकृष्णं हृदयेन अनुभजे:, स्मर, सेवस्व।।७।।
नाटकीयगीति:
नटवर गिरिधर जगदभिराम मामपि तारयस्व हे।। नटवर.।।
शारदशीतकिरणसुन्दरमुख
नयनयुगलजनितानतजनसुख।
चरणशरणगतभक्तदुरितमिह वारयस्व हे।। नटवर.।।
प्राणाधार मुनिनुतचार जनिसुखसार
कलिमलहार हृतभूभार गुणकूपार मङ्गलकार।
दुरितकृदपि तव सेवक इत्यवधारयस्व हे।। नटवर.।।२।।
शरत्कालिक: शीतकिरण: चन्द्र:, तद्वत् सुन्दरमुख! नयनयुगलेन जनितं प्रणतानां जनानां सुखं येन (कृष्णेन) तत्सम्बोधनम्।। मुनिभि: नुत: स्तुत: चार: चरितं यस्य तत्सम्बुद्धौ। जने: जन्मन: सुखस्य सारभूत! हृतो भूमेर्भारो येन। गुणानां कूपार सागर!।।
वैवाहिकगीतिवत्*
जयति नवरासविहारी। अहो भक्तजनदुरितनिवारी।।
असुरनिकरपरिपीड्यमानवसुधाभरहारी रे।। जयति नव.।।१।।
बलसूदनमदनिदमनकारी। कालियसर्पदर्पपरिहारी।।
सुरपतिपीडितनिजजनपालनगिरिवरधारी रे।। जयति नव.।।२।।
* 'कृष्ण कूं गावैं गारी।’ हाँ सखी बरसानेवारी।। इति गीतिवत्।
सुरभितनववनमालाधारी। ललितलुलितनवकुन्तलभारी।।
स्मरशरपरवशहृदयनवव्रजनार्यभिसारी रे।। जयति नव.।।३।।
यमुनाविपुलपुलिनसंचारी। नानाविधनवकौतुककारी।।
चरणकमलमकरन्दमञ्जुमथुरावनचारी रे।। जयति नव.।।४।।
बलसूदनस्य इन्द्रस्य मददमनकारी। सुरपतिना इन्द्रेण पीडितानां निजजनानां पालनार्थं गिरिवरस्य धारक:।।२।। विलुलित: मृदु: कुन्तल (केश) भारो यस्य।।३।। मकरन्देन मञ्जुनि मनोहरे मथुरावने मधुवने चरति तच्छील:। 'मञ्जु-मथुरा’ आभ्यां कर्तुर्नाममुद्रापि।।४।।
देशमल्लाररागेण
जय जय नन्दतनय करुणामय। जय जय.।।
निजजनदुरितनिकरपरिभञ्जन! भवभयमाशु विनाशय।।१।।
यमुनाकूलकदम्बविलम्बितहिन्दोलनमुदिताशय।।२।।
व्रजवनितावृतगोपकिशोरीभूषितललितलतालय।।३।।
सरसरसितजलदालिगलितजलबिन्दुजनितमदनोदय।।४।।
चपलाचलितचकितनववनितालिङ्गनसंजनिताभय।।५।।
तव चरणाहितनिखिलमनोरथमञ्जुनाथमपि मानय।।६।।
कदम्बवृक्षे लम्बितेन हिन्दोलनेन मुदिताशय प्रसन्नचित्त।।२।। गोपकिशोर्या श्रीराधया भूषित: लतालय: कुञ्जगृहं यस्य तत्सम्बुद्धौ।।३।। सरसं रसितं गर्जितं यस्या:, ईदृश्या: जलदाल्या: मेघमालाया: गलितैर्जलबिन्दुभिर्जनित: कामोदयो यस्य।।४।। चपलाया: विद्युत: चलनेन चकितानां वनितानाम् आलिङ्गने संजनितम् अभयं येन।।५।।
नाटकीयगीति:
जय जय जगदीश मुरारे! जय करुणाकर कंसारे।।
भवता कलिता नरलीला। वसुधाभरविशमनशीला।
चिरसदय सतामुद्धारे। ।। जय जय.।।१।।
व्रजगोपवधूष्वविकारम्। रासं कृतवानसि सारम्।
अयि जितदुर्मद दनुजारे! ।। जय जय.।।२।।
स्वामिन् न च याचे नाकम्। दिव्याभिस्तनुभि: साकम्।
मम शरणं भव संसारे। ।। जय. जय०।।३।।
वसुधाभारस्य दूरीकरणशीला नरलीला भवता कलिता कृता। अतएव सताम् उद्धारे चिरकालात्सदय!।।१।। गोपवधूषु अविकारं मदनविकाररहितं यथा स्यात् तथा। जिता: दुर्मदा: मत्ता: कंसादयो येन तत्सम्बुद्धौ।।२।। नाकं स्वर्गम्। दिव्याभि: तनुभि: अमरयोनिभि: साकं सह, अर्थात् देवेषु जन्मापि न याचे।।३।।
नाटकीयगीति:
जयति दुरितहारी लसद्गिरिधारी। जयति.।।
मञ्जुवदन कुञ्जसदन कञ्चचरण रञ्जयन् जनम्।
जयति दुरितहारी लसद् गिरिधारी।।१।।
त्वयाद्य हर्षिता: स्वसेवका: कृता:।
खलास्तु धर्षिता मदिताश्च देवता:।।२।।
जय जय देव।
लोचनचन्दिर कौशलमन्दिर मन्मथसुन्दर नीतिनिधे।
जय जय भयहर धर्मधुरन्धर करुणाकर कृतविबुधविधे।
विबुधेश! शुभवेष!! मृदुकेश!!! जयति दुरितहारी।।३।।
अयि कंसनिकन्दन निकटमेहि।
तव करुणादृशमिह मयि निधेहि।।
गोपवधूचेतोहारी। जयति दुरितहारी लसद्गिरिधारी।।४।।
कुञ्ज: सदनं विहारगृहं यस्य तत्सम्बुद्धौ।।१।। मदिता: हर्षिता: कृता:।।२।। कृता: विबुधानां देवानां विधय: (रक्षाकार्याणि) येन तत्सम्बुद्धौ।।३।।
मरुप्रसिद्ध 'माँड’ रागेण
जय जय राधिकापते!
जय नटनागर सौभगसागर हे रमापते।।
दो.- योजितयोगसमाधयो मुनयो यामुपयान्ति।
त्वद्भक्तास्त्वत्सेवया तां पदवीमनुयान्ति।। जय.।।१।।
कण्टकसंकुलमपि यदा काननमिदमुपयासि।
मम हृदयावनिमिह पुनर्नागर! किमिति जहासि।। जय.।।२।।
दृप्यत्सुरपतिमदभरं हृतवानसि रभसेन।
त्वं शरणं करुणानिधे। कलितोऽनेन जनेन।। जय.।।३।।
कालियफणधरशिरसि यद्वितरसि लयसंचारि।
तदिह चरणसरसीरुहं शरणं दुरितनिवारि।। जय.।।४।।
यदा कण्टकाकीर्णं वनमेव अटसि तदा कोमलां हृदयभूमिं किमिति जहासि त्यजसि इति चातुर्यसूचकेन नागरपदेनाक्षिप्यते।।२।। 'लय’ पूर्वकं संचरति तच्छीलम्। दुरितं निवारयति तच्छीलं च।।४।।
उर्दूभाषाचत्वर:
('गजल’)
(१)
नन्दनन्दन हे मुकुन्द मनोऽरविन्दमुपेहि मे।
एतदभ्युदितानुरागमिलन्मरन्दमवेहि मे।।१।।
कण्टकाकुलितानि यासि वनानि गोपरिचारणे।
कंजलोचन कोमलं क्षणमेव मानसमेहि मे।।२।।
घूर्णमानमनारतं धनदुर्मदेषु जनेष्वलम्।
मानसं विमनायते बत लालसालवलेहि मे।।३।।
मन्यसे करपल्लवं कमलालयाकरकीलितम्।
त्वत्पदाम्बुजमेव मौलितटे ततो विनिधेहि मे।।४।।
आगमेषु च शासनेषु मतान्तरेषु निरन्तरम्।
मोहितोऽस्मि परिभ्रमन्नधुना समक्षमुदेहि मे।।५।।
मायया परिमुह्य सम्प्रति संततं विचराम्यहम्।
सान्त्वनं तु दयावतार दयादृशैव विधेहि मे।।६।।
मञ्जुनाथनिवेदनं क्षणमात्रमेव निशम्यताम्।
किंचिदञ्चितलोचनं करुणादृशं तव देहि मे।।७।।
मम मनोरूपम् अरविन्दम् उपेहि, कमलमेतदासनरूपेण ते ददामीत्यर्थ:। एतत् मन:-कमलम् अभ्युदितो योऽनुराग: स एव मिलन् मकरन्दो यस्मिन् तादृशम् अवेहि जानीहि। त्वत्प्रेम्णा समकरन्दमिदं जानीहि।।१।। यदा कण्टकयुक्तानि वनानि यासि तदा कोमलं मे मानसं क्षणकालार्थमेव समागच्छ।।२।। घूर्णमानं भ्रमत्। लालसालवं लेढि आस्वादयति तच्छीलम्। सदा लालसाव्याकुलमित्यर्थ:।।३।। करपल्लवं लक्ष्म्या: करेण अवरुद्धं मन्यसे तर्हि मे मस्तके ते पदकमलमेव निधेहि।।४।। आगमेषु वेदादिषु, शासनेषु वेदान्तादिशास्त्रेषु, मतान्तरेषु सम्प्रदायेषु। उदेहि उत्+आ+इहि।।५।। किंचित् अञ्चितलोचनं (प्रहितनयनं यथा स्यात् तथा)।।७।।
(२)
भगवन्! दयादृगेषा मयि दीयतां दयालो!
अधुनावहेलना मे न विधीयतां दयालो।।१।।
सुकृतीति को न पायात्पुरुषं सुरोऽपरोऽपि।
अयमद्य पापकारी परिचीयतां दयालो।।२।।
करितो न पीनकायो गिरितो गुरुर्न चाहम्।
दुरितोपरोधतो मे न निलीयतां दयालो।।३।।
कति तारिता भवेयुर्भवतापराधिनोऽलम्।
अपि दीनदुष्कृतोऽयं न विहीयतां दयालो।।४।।
विषयाटवीषु बाढं भ्रमितोऽतिदु:खितोऽहम्।
अयि नाथ! वेदना मे व्यपनीयतां दयालो।।५।।
अहमस्मि सार्वभौमो निखिलाघकारकाणाम्।
भवताद्य भूरि भूमन्नवधीयतां दयालो।।६।।
भ्रमता भृशं भवेऽस्मिन्नयि नाथ! वीक्षितोऽसि।
अधुना तु मे समीपान्न निलीयतां दयालो।।७।।
कृपया ममावनाय व्यवसीयतामुताहो।
करुणार्णवेति नाम व्यपनीयतां दयालो।।८।।
निगमैस्तवावबोधे कियदङ्ग गीयते स्म।
अयि मञ्जुनाथवाचा कति गीयतां दयालो।।९।।
एषा सुप्रसिद्धा ते दयादृक् मयि दीयताम्।।१।। अपर: त्वदन्य: क: सुर: अपि 'सुकृती’ (अयं पुण्यवान्) इति विचार्य पुरुषं न पायात्? अपितु पुण्यवन्तं सर्वं एव देवगणो रक्षेत् परं हे दयालो! अयं मादृश: पापकारी अद्य परिचीयताम्। पुण्यवतामुद्धारस्तु कृत एव, किंतु अद्य अस्य पापिनोऽपि परिचय: प्राप्यताम्।।२।। करित: गजेन्द्रात् पीनशरीरो नास्मि। गिरित: गोवर्द्धनपर्वताद् गुरुश्च नाहम्। अतएव मे पापोपरोधकारणात् न निलीयतां।।३।। विहीयतां त्यज्यताम्।।४।। भूमन् पृथिवीनाथ!।।६।। मम रक्षणाय व्यवसीयतां निश्चय: क्रियताम्, उताहो आहोस्वित् करुणार्णवेति दयासागरेति नाम दूरीक्रियताम्।।८।। तव बोधार्थं निगमैर्वेदादिभि: कियद् गीतम्।।९।।
(३)
व्रजराज गोकुलेन्दो जय कीर्तिजादृगिन्दो!।
परिपाहि दीनलोकानपि सर्वसौख्यसिन्धो।।१।।
भवदाश्रयं दधाना वयमद्य मोदमाना:।
करुणावलोकलेशं वितराशु दीनबन्धो।।२।।
किमु सर्वसंकटेभ्यो यमुनातटे तदानीम्।
व्रजवासिनोऽविता नो? वद दैत्यवृन्दकन्दो।।३।।
वसुधासुधानिधीशे करुणामहोदधीशे।
त्वयि को न वानुरज्येद् गुणरम्यरत्नसिन्धो।।४।।
तव माययाधिरूढो मूढो भ्रमामि कामम्।
अधरीकरोषि किं मामपि विश्ववृत्तविन्दो।।५।।
सुदिनं समीयतां मे बहुभाग्यमीयतां मे।
भव लोचनातिथिस्त्वं व्रजभूमिभालविन्दो!।।६।।
विजहासि लोकलोभाद्धरिपादपद्मशोभाम्।
अयि मञ्जुनाथ धिक् त्वामपयाहि ब्रह्मबन्धो।।७।।
कीर्तिजाया: राधिकाया: (राधामातु: कीर्तिरिति नाम) दृशो: इन्दुरूप!।।१।। व्रजवासिन: न अविता: (रक्षिता:) इति काकु:। अपि त्ववश्यं रक्षिता:। दैत्यवृन्दानां कन्दो शोषक!।।३।। वसुधाया: सुधानिधीशे चन्द्रे, करुणाया: महोदधीशे महासागरे त्वयि।।४।। विश्वस्य वृत्तान्तं विन्दति (प्राप्नोति, जानाति) तत्सम्बुद्धौ, हे अन्तर्यामिन् मां किम् अधरीकरोषि धिक्करोषि।।५।। मम सुदिनं समीयतां प्राप्नोतु, महाभाग्यम् ईयताम् आगच्छतु ('ईङ्’ गतौ)। हे व्रजभूमेर्भालबिन्दु (तिलक)- सदृश! त्वं लोचनातिथिर्भव। तव लोचनातिथित्वं मम सुदिनप्राप्ति:, महाभाग्यं चेत्याशय:।।६।। हे ब्रह्मबन्धो ब्राह्मणाधम! अपयाहि दूरं गच्छ।।७।।
(४)
अये पद्मेऽङ्घ्रिपद्मे मे मन: स्यात्।
भवत्पादाग्रलग्रोऽयं जन: स्यात्।।१।।
त्वदग्रे दृश्यते देवोऽपि याचन्।
कियत्कीटायितोऽयं निर्धन: स्यात्।।२।।
कथं विन्देय पद्मे! ते प्रसादम्।
न चन्द्रं लब्धुमीशो वामन: स्यात्।।३।।
न वित्तै: शक्नुते शक्रोऽपि लब्धुम्।
कुतस्तोषाय दीनोऽकिंचन: स्यात्।।४।।
कृपादृक्कोणतस्तुष्येन्मनो मे।
न किं वा चातकप्रीत्यै घन: स्यात्।।५।।
भजेद् बीजं स्वहृत्पद्मान्तरे य:।
स वै पद्मालये! पद्मासन: स्यात्।।६।।
कथं वै मञ्जुनाथं नेक्षसे त्वम्?
दयादृष्टिं विना सिद्धिर्न न: स्यात्।।७।।
हे पद्मे लक्ष्मि! तव अङ्घ्रिपद्मे चरणकमले मे मन: स्यात्।।१।। वत्या: अग्रे देवोऽपि याचमानो दृश्यते तर्हि मादृश: कीटायित: कियत् (क्रियाविशेषणम्) स्यात्।।२।। अकिंचन: सर्वथा निर्धन:।।४।। य: जन: भवद्बीजम् श्रीम् इति स्वहृदयकमलान्तरे भजेत् जपेत् स पद्मासन: ब्रह्मा भवेत्।।६।।
(५)
नन्दसूनो! किं विधूनोष्यद्य माम्।
दीनमेनं मुञ्चसे हा किंतमाम्।।१।।
श्रीपतेस्ते का भवेद्दीने दया।
सर्वदोत्सङ्गे निधत्से यद् रमाम्।।२।।
राजभोगान् न्यस्य शाकै: प्रीयसे।
को न विन्ते ते कृपां भिन्नक्रमाम्।।३।।
किं विपृच्छस्यद्य मे वाचालताम्।
कल्पये वाचं विदां वाचंयमाम्।।४।।
त्वन्मुखाग्रे दृश्यते दीन: शशी।
चेतसा कश्चिन्तयेच्चन्द्रोपमाम् ।।५।।
तावकानां त्वत्स्मृतौ या जायते।
मूच्र्छनां मन्येय तां संवित्समाम्।।६।।
मञ्जुनाथप्रार्थने चेन्नेक्षसे।
नि:स्पृहो याचामि कस्माद् वा क्षमाम्।।७।।
विधूनोषि दु:खं ददासीत्याशय:। किंतमाम् किमर्थम्।।१।। निधत्से धारयसि।।२।। दुर्योधनस्य राजभोगान् अपास्य विदुरस्य शाकै: प्रसन्नो भवसि, अतएव ते कृपां लोकतो भिन्नमार्गां को न विन्ते विचारयति।।३।। अद्य मे वाचालतां किं पृच्छसि, विदुषां वाणीं वाचंयमां भाषणाद्विरताम् कुर्वे।।४।। चन्द्रस्य उपमाम् (सादृश्यम्)।।५।। त्वदीयानां भक्तानां विरहावस्थायां तव स्मरणे या मूच्र्छा भवति तां चेतना-सदृशीं जाने।।६।। प्रार्थनायामपि त्वं न पश्यसि, तर्हि अहमपि मानवशात्तटस्थो भवामि। कस्मात् कारणात् त्वत्त: क्षमां याचे।।७।।
(६)
भो विभो दयादृगियं दीनदुर्बले देया।
वेदना ममाद्य घना देव दूरमाधेया।।१।।
साम्प्रतं विधो वामे रक्षकोऽस्ति को वा मे?
याचना मदीयेयं मानसे न किं नेया?।।२।।
दोषमेक्ष्य देवा मे दूरतोऽद्य धावन्ते।
दीननाथ हन्त दया किं त्वयापि नोपेया?।।३।।
त्वत्कृपामुपाश्रयतां चेद् गुणा गवेष्यन्ते।
दीनबन्धुता तव किं नाथ मादृशैर्गेया।।४।।
शीघ्रता प्रसिद्धा ते दीनदु:खदाहार्थम्।
मन्दता मदर्थमहो नाथ नाद्य निर्मेया।।५।।
भ्रामयेदजस्रमियं सर्वतोऽद्य संसारे।
दैवदुर्लिपिर्निहिता मामकीनभाले या।।६।।
द्रोहमोहमानमदा मामहो विबाधन्ते।
एकतोऽयमेकोऽहम्, सा च वाहिनी जेया।।७।।
मायिकप्रपञ्चेऽस्मिन् नाथ नद्धनेत्रोऽहम्।
तावकी कया विधया रूपमाधुरी पेया।।८।।
दृश्यते दया यदि नो दीनहीनलोकेऽस्मिन्।
विश्रुता तदा भवता दीनबन्धुता हेया।।९।।
कर्ममोहितोऽद्य भृशं कीदृशं नु नृत्यामि।
मञ्जुनाथनाट्येऽस्मिन् दीननाथ दृग् देया।।१०।।
घना निबिडा मे वेदना दूरमाधेया दूरीकर्तव्या।।१।। विधौ विधातरि वामे प्रतिकूले।।२।। मम दोषम् आ ईक्ष्य। किं त्वयापि दया न उपेया अवलम्बितव्या? अपि त्ववश्यं कर्तव्या।।३।। तव कृपाम् अवलम्बमानानां दीनानां यदि गुणा: अन्विष्यन्ते तर्हि तव दीनबन्धुता कस्माद् गेया।।४।। दु:खदाहार्थं दु:खानां नाशार्थम्। मन्दता न निर्मेया कर्तव्या।।५।। एकस्मिन् पक्षे एक: अहम्, अग्रतस्तु द्रोहमोहादीनां सेना जेतव्या।।७।। मायाप्रपञ्चे निरुद्धनेत्र: अहम्, आभ्यां नेत्राभ्यां तव रूपमाधुर्यं केन विधिना साभिलाषमास्वाद्यम्।।८।। कर्मवशाद् नानाप्रकारैश्चेष्टां करोमि अस्मिन् नाट्ये कृपादृष्टि: कर्तव्या।।१०।।
(७)
कीर्तये कालिन्दि मातस्त्वामहम्।
शङ्कित: शरणं पुर: प्रायामहम्।।१।।
त्वं हि चेदवधीरयस्ययि देवि माम्।
कं परं शरणं सुरं यायामहम्।।२।।
त्वत्तरङ्गै: सङ्गमङ्गे चेद् दहे।
भूतिमत्त्रिदिवावनौ भायामहम्।।३।।
निर्मलं यदि ते जलं मौलौ वहे।
संतरेयं त्वत्पतेर्मायामहम्।।४।।
पातक! प्रोत्सर्प दूरम्, नैषि चेत्।
मज्जये कालिन्दिधारायामहम्।।५।।
गोपने यमुने! न मे समुपेक्ष्यताम्।
पीडित: पतितोऽस्मि मृत्स्नायामहम्।।६।।
मानुमासीर्मञ्जुनाथं निर्बलम्।
त्वत्तटे प्रायां तरुच्छायामहम्।।७।।
(पापै:) शङ्कित: सन् त्वां शरणं प्रायाम् आयासिषम् (आगत:)।।१।। चेत् अवधीरयसि तिरस्करोषि।।२।। यदि तव तरङ्गै: अङ्गे संगमं प्राप्नोमि तर्हि वैभववत्यां देवभूमौ स्वर्गे अहं भायां शोभितो भवेयम्।।३।। त्वत्पते: श्रीकृष्णस्य।।४।। हे पातक! मत्सकाशाद् दूरमपसर्प! यदि दूरं न एषि (गच्छसि) तर्हि त्वां कालिन्दीधारायां मज्जयामि ब्रोडयामि।।५।। गोपने रक्षणे न उपेक्षा क्रियताम्। मृत्स्नायां मृत्तिकायाम्।।६।। निर्बलं मा अनुमासी: मा जानीहि। तव तटे तरूणां छायाम् अहं प्रायाम् आगमम्। त्वत्तटागमनेन निर्बलता गता, अहमात्मबलसम्पन्नो जात:।।७।।
(८)
भूतेश भवत्पादयुगं भूरि भजेयम्।
हे भर्ग! भवन्मूर्तिमबन्धाय यजेयम्।।१।।
विन्दामि महादु:खमहं मोहमहाब्धौ।
आख्याहि दयानीरनिधे! कुत्र व्रजेयम्।।२।।
दीयेत दयादृष्टिलवो मह्यमयं चेत्।
कुर्वीत कथं नाम मनोमोहमजेयम्।।३।।
पुत्रादिपरीवारजनैर्वित्तमुपात्तम्।
हा हन्त! मनोदु:खमिदं कं विभजेयम्।।४।।
दीनेषु दयावश्यमपश्यं न सुरं तम्।
हे नाथ भवातङ्कविभङ्गाय भजे यम्।।५।।
त्वन्मौलिगता देवधुनी पापमपोहेत्।
चेत: परितापं व्यपनीयान्नगजेयम्।।६।।
विन्दामि पदाम्भोजयुगं ते शरणं चेत्।
मन्ये न तदा देव! मनोमोहमजेयम्।।७।।
त्वं देहि दयादृष्टिमये मञ्जुलनाथे।
वाञ्छाद्य महेशान मनाङ् मानसजेयम्।।८।।
अबन्धाय मोक्षाय भवन्मूर्तिं यजेयं पूजयेयम्।।१।। इयम् अजा माया मनोमोहं कथं कुर्वीत।।३।। परिवारजैर्मम धनम् उपात्तं विभक्तम्। किंतु इदं मनसो दु:खं कस्मै विभक्तं कुर्याम्?।।४।। दयाया वश्यं वशीभूतं तं सुरं न अपश्यं यं भवदु:खदूरीकरणाय अहं भजे।।५।। इयं नगजा पार्वती चित्तस्य संतापं व्यपनीयात् दूरीक्रियात् इति आशिष्यते।।६।। मनसो मोहं मूढताम् अजेयं न जेतुं शक्यम् न मन्ये, अपि तु मया स जेयो भवेत्।।७।। मानसजा इयं वाञ्छा।।८।।
(९)
भारती मे भवाय बोभूयात्।
मानसे मे सुखानि सा सूयात्।।१।।
शेमुषीं मे विशोध्य विज्ञानै:।
मानसं मे विमोहमालूयात्।।२।।
किं विशङ्कां करोषि चेतो मे!
त्वामियं देवता गिरां पूयात्।।३।।
लालसासौ ममाद्य चित्तस्था।
शारदा मे प्रमोदमाहूयात्।।४।।
शारदासौ सरोजपीठस्था।
मानसं मे प्रमादमाधूयात्।।५।।
त्वं कृपां चेत् करोषि मातर्मे।
नो कृतान्ताद् बिभेमि सासूयात्।।६।।
मौनमेया न मञ्जुनाथेऽस्मिन्।
गीतिभिस्त्वां परस्तु क: स्तूयात्।।७।।
भारती सरस्वती। भवाय कल्याणाय।।१।। शेमुषीं बुद्धिम्। आ लूयात् छिद्यात् (इति आशी:)।।२।। गिरां देवता सरस्वती पूयात् पवित्रं क्रियात् इत्याशी:।।३।। प्रमोदम् आहूयात् (प्रमोदस्य आह्वानं क्रियात्), प्रमोदमानयेदित्याशय:।।४।। सासूयात् असूयासहितात् यमात्।।६।। मौनं न आ+इया:, मा गच्छे:।।७।।
(१०)
दया तवेह मामये मुकुन्द! नन्दयेन्न किम्?
पदारविन्दमेतकन्मनो मिलिन्दयेन्न किम्।।१।।
कथं तरामि यन्त्रणां दुरन्तचिन्तयानया।
निपीडितस्य मोहनो मनोऽभिनन्दयेन्न किम्।।२।।
भुवोऽतिभारमुद्धरन् जहार य: सदापदम्।
विमोहमेष माययाधिकं निकन्दयेन्न किम्।।३।।
भृशं भ्रमामि वासनावशोऽविशोच्य दुर्नयम्।
भवद्दया तु दुर्गतेर्गतिं विमन्दयेन्न किम्।।४।।
भवान् हि तापहारको न वारको ममापदाम्।
इयं ममावधीरणा प्रभोऽद्य निन्दयेन्न किम्।।५।।
दयालवोऽपि लीलया त्वया चिकीष्र्यतेऽपि चेत्।
अखर्वगर्वतत्परैर्नरै: प्रवन्दयेन्न किम्।।६।।
वचोऽद्य मञ्जुनाथ ते न चेत्प्ररोचते विदाम्।
चराचरेशचेतसोऽपि चारु चन्दयेन्न किम्।।७।।
अये मुकुन्द! तव दया मामिह किं न नन्दयेत्, अपि त्ववश्यमानन्दयेत्। एतकद् एतत् ते पदारविन्दं किं मां मिलिन्दं भ्रमरं न कुर्यात्? तत्करोतीति णिच्।।१।। 'यन्त्रणां कथं तरामि’ अनया चिन्तया पीडितस्य मे मन: मोहन: (श्रीकृष्ण:) किं न अभिनन्दयेत्?।।२।। सताम् आपदम्, सदा आपदं वा मायया अधिकीभूतं मोहं किं न निकन्दयेत् नाशयेत्।।३।। दुर्नयं दुर्नीतिम् अविशोच्य अविचार्य। दुर्गते: गतिं मां प्रति आगमनस्य शक्तिं किं मन्दां न कुर्यात्?।।४।। तापहारकोऽपि भवान् मम आपदां वारक: निवारक: न जात:, इति इयं मम अवधीरणा तिरस्कार: किं भवन्तं लोके न निन्दितं कुर्यात्?।।५।। त्वया चेत् लीलयैव दयाया लेश: चिकीष्र्यते कर्तुम् इष्यते, तर्हि गर्वितनरै: तेषां द्वारा किं मां वन्दनीयं न ककुर्यात्?।।६।। ते वच: विदुषां न रोचते चेत्, तर्हि चराचरनायकस्य चेतस: अपि चित्तमपि, (कर्मत्वेनाविवक्षया षष्ठी) किं न चन्दयेत् आह्लादयेत्? अपि त्ववश्यं प्रमोदयेत्।।७।।)
अयि चित्त! चिरेण विचिन्तयतोऽपि च चञ्चलता न गता न गता।
अपि नाम निरन्तरयत्नशतैस्तव निष्ठुरता न गता न गता।।१।।
कियदिच्छसि निर्भरशान्तिसुखं न नियच्छसि पादमथाभिमुखम्।
अयि गच्छसि साधुपथाद्विमुखं तव निष्क्रियता न गता न गता।।२।।
क्षणमेव विमुह्यसि वामदृशा, न फलं परिपश्यसि दूरदृशा।
विमृशामि सखे! यदि तत्त्वदृशा, तव कामुकता न गता न गता।।३।।
न हि साधुजनै: सह संरमसे, न फलं विमलं त्वमिहावहसे।
चपलाय सखे यशसे यतसे, तव दुर्मदता न गता न गता।।४।।
अभिनन्दसि शागतं न मतम्, न हि विन्दसि संततमात्महितम्।
बत निन्दसि लोकमतं विमतम्, तव मत्सरता न गता न गता।।५।।
न हि दीनजनान् परितोषयसे, बहु घोषयसे निजदानरुचिम्।
अयि चित्त सखे तव लोलुपतानृतकीर्तिवितानगता न गता।।६।।
भगवद्गुणगीतिषु नाद्रियसे, ह्रियसे मधुगायकगीतिगणे।
जरसा विरसापि तवोत्सुकता मधुरस्वरतानगता न गता।।७।।
तव विस्वरगीतिमिहार्पयसे न विलोकयसे विविधान् विबुधान्।
अधुनापि च मञ्जुलनाथ मनाक् तव दुर्मुखता न गता न गता।।८।।
अयि चित्त! चिरकालाद् विचारं कुर्वत: अपि तव चपलता न गता न गता (न गतेति द्विरुक्त्या निश्चयातिशय: सूच्यते। एवमग्रेऽपि)।।१।। शान्ते: सुखं तु कियद् वाञ्छसि, किंतु तदर्थम् अभिमुखं पादं न स्थापयसि, अर्थात् यत्नकरणार्थम् अग्रे न चलसि। निष्क्रियता अकर्मण्यता।।२।। वामदृशा वामलोचनया िया क्षणे एव मुग्धो भवसि।।३।। चपलाय अस्थिराय कियत्कालं स्थायिने यशसे। दुर्मदता मत्तता।।४।। विमतं तव प्रतिकूलं लोकमतं त्वं निन्दसि। तव मात्सर्यम्।।५।। दानरुचिं दानशीलताम् घोषयसे लोकेषु प्रख्यापयसि। अनृतो मिथ्या य: कीर्तिवितान: यश: कलाप: तत्सम्बन्धिनी ते लोलुपता न गता। अतियत्नेऽपि ते कृत्रिमकीर्तिलालसा न यातेत्याशय:।।६।। नाद्रियसे न आदरं करोषि। मधुरे गायकानां गीतिगणे ह्रियसे आकृष्यसे। वृद्धावस्थया विरसीकृतापि, मथुरो य: स्वरसंतान: तद्गता तव उत्सुकता उत्कण्ठा न गता।।७।। विस्वरां विरूपस्वरयुक्ताम् गीतिम् अर्पयसे निवेदयसि।।८।।
(१२)
अये पद्मालये! मातर्दयात: पाहि दीनं माम्।
क्षणं वीक्षस्व संसारेऽद्य निस्सारे निलीनं माम्।।१।।
तवालम्बादहं बालोऽधुना लोकं सुखं मन्ये।
त्वमेवोपेक्षसे कस्मादकस्माद्धैर्यहीनं माम्।।२।।
अनन्तैर्दु:खसंवर्तैर्निकामं खिन्नचित्तोऽहम्।
दृशं सौख्यस्पृशं मातर्दिशन्ती पाह्यधीनं माम्।।३।।
न जानन्मार्गमेतं ते दुरन्तेऽस्मिन् भवेऽभ्राम्यम्।
इदानीं त्वद्दयाधारे नयागारे नवीनं माम्।।४।।
भवाब्धौ निर्भरासङ्गैस्तरङ्गैभ्र्रान्तवान् बाढम्।
न जाले पातयेर्मातर्विदित्वा मूढमीनं माम्।।५।।
नृपा: प्राप्याधिकारं ते निकारं वित्सु विन्दन्ते।
न कुर्वीथा: कृपाम्भोधे! कलौ कस्याप्यधीनं माम्।।६।।
सुसूक्ष्मं जीवने मातर्न मे पुण्यं परीक्षेथा:।
निरीक्षेथा: क्षणं मात: प्रपुष्यत्पापपीनं माम्।।७।।
अनन्तेऽस्मिन् विधानेऽहं न जाने तथ्यमीमांसाम्।
त्वमेवाख्याहि कर्तव्यं कृपाब्धे मामकीनं माम्।।८।।
न लज्जेयं भवेत् किं ते? निमज्जेन्मञ्जुनाथश्चेत्।
अये मातर्नयेथास्त्वत्पदाब्जे तावकीनं माम्।।९।।
दु:खसंवर्तै: दु:खपूरस्य उपप्लवै:। सौख्यस्पृशं सौख्यस्पर्शिनीम्, सुखदामित्यर्थ:। अधीनं मां पाहि।।३।। तव मार्गं न जानन् अस्मिन् भवे संसारे अभ्रमम्। इदानीं तव दयाया आधारो यत्र ईदृशे अर्थात् त्वद्दयया प्राप्ये आगारे गृहे नवीनं मां नय। नवीनो हि मार्गं न जानीयात्, अतएव त्वमेव मां त्वत्कृपालभ्ये स्थाने प्रापयेत्याशय:।।४।। निर्भर: आसङ्ग: आश्लेषो येषाम् अर्थात् अतिनिबिडै: तरङ्गै:। मां मूढं मीनं विदित्वा जाले न पातये:।।५।। नृपा: तव लक्ष्म्या: अधिकारं प्राप्य विद्वत्सु निकारं तिरस्कारं विन्दन्ते दर्शयन्ति।।६।। मम जीवने अतिसूक्ष्ममपि पुण्यं न परीक्षेथा:। सूक्ष्मवस्तुदर्शने तव क्लेशो भवेत्। अतएव पुष्यद्भि: पीनै: पातकै: पीनं पुष्टं मां निरीक्षेथा:। तव दृष्टिदाने च ममोद्धार:।।७।। इदं कर्तव्यम्, इदं कर्तव्यम्, इति अनन्ते विधिप्रपञ्चे अहं तथ्यमीमांसां सत्यनिर्णयं न जाने। मामकीनं मदीयं कर्तव्यं त्वमेव आज्ञापय।।८।। तावकीन: त्वदीय इति ख्यात: मञ्जुनाथो यदि भवसागरे निमज्जेत् तर्हि ते लज्जा किं न भवेत्?।।९।।
(१३)
दोहाच्छन्दोभिरपि सेयं गीति: प्रसिद्धा
अये पद्मालये! मातर्दयात: पाहि दीनं माम्।
क्षणं वीक्षस्व संसारेऽद्य निस्सारे निलीनं माम्।।१।।
दो.-मुग्धेन्दीवरसुन्दरे नयने सिन्धुकुमारि!
यदि धत्से दारिद्र्यमपि तत्र न चान्तिकचारि।।
गलत्कणयाचनालीनं विजीनं पाहि दीनं माम्।।२।।
दृप्यद्धनपतिदुर्वचननिचयनचिरनिर्वेदि ।
मम मानसमिदमिन्दिरे! बत बहुतरपरिखेदि।।
त्वमेवाख्याहि पन्थानं भवारण्याध्वनीनं माम्।।३।।
तव पदसरसिजरजसि यदि मानसमिदमुपयाति।
सततमितरचिन्तनमपि प्राय: सपदि न भाति।।
अये मथुरापते: कान्ते! त्वमन्ते पाहि दीनं माम्।।४।।
तत्र दारिद्र्यं समीपचारि समीपगतमपि न भवति। विजीनम्, क्षतावस्थं वृद्धमिति यावत्।।२।। दृश्यन्तो गर्विष्ठा: ये धनिका: तेषां दुर्वचननिचयेन नचिरं तत्कालं वैराग्ययुक्तम्। नचिरेत्यत्र नशब्देन समास:, न तु नञ्।।३।। तर्हि इतरेषां देवधनिकादीनां चिन्तनमपि न भाति।।४।।
(१४)
भो विभो! मम मानसे सा मञ्जुमूर्तिरुदेतु ते।
दीनदु:खनिबर्हणी या सा दया समुदेतु ते।।१।।
हन्त मे भ्रमसंततं हृदयं विषीदति संततम्।
किंचिदञ्चतु लोचनं मयि मीलिताखिलहेतु ते।।२।।
आश्रयोऽसि निराश्रयाणामुच्छ्रयोऽसि सुसम्पदाम्।
आलयोऽसि हि संविदामवदानमन्तरमेतु ते।।३।।
दुस्तरं भवसागरं समवाप्य मज्जति मानसम्।
पारमेतदुपेयतामुपयत् पदाम्बुजसेतु ते।।४।।
तारिता भवता भवेयुरजामिलप्रमुखा: सुखम्।
पातकी बत तादृशोऽहमियं दयापि बिभेतु ते।।५।।
ज्ञानमस्ति न मे, समेति न चापि कापि विचारणा।
संदधामि पदावलम्बनमंहसो जयकेतु ते।।६।।
न स्मरत्यथ नो नमस्यति नो गृणाति न सेवते।
हे दयाम्बुनिधे! तदेषा भावना न समेतु ते।।७।।
स्थानमेकमुदीर्यसे सुरभारतीसेवाजुषाम्।
मञ्जुनाथनिवेदनं बत संनिधौ समुदेतु ते।।८।।
मम मानसे सा प्रसिद्धा ते मञ्जु (मनोहर) मूर्ति: उदेतु। ते मानसे च दीनदु:खनाशिनां दया उदेतु। निबर्हणीति लेखनी-रमणीत्यादिवत्।।१।। भ्रमेण संततं व्याप्तम्। मीलिताखिलहेतु कारणापेक्षाशून्यम् (स्वाभाविकदयात एव) ते लोचनं मयि किंचित् अञ्चतु उपयातु।।२।। सम्पत्तीनां त्वम् उच्छ्रय: पराकाष्ठा असि। संविदां ज्ञानानाम् आलय: स्थानम्। ते अवदानं बलं मे अन्तरं मानसं प्राप्नोतु।।३।। उपयत् प्राप्नुवत् ते पदाम्बुजमेव सेतुर्यस्मै तद् एतद् मानसं (मम) भवसागरपारम् उपेयतां प्राप्नोतु।।४।। अंहस: पापस्य विजये केतु (ध्वज) सदृशम्।।६।। नो गृणाति (गायति गुणान्)। एष विचारोऽपि मा आगच्छतु।।७।। संस्कृतसेविनां त्वमेव एकं स्थानम् उदीर्यसे प्रोच्यसे।।८।।
(१५)
अयि व्रजराज! मुञ्चसे किं माम्?।
पदपतितं न वीक्षसे किं माम्।।१।।
अवति शिशुं दयालुरन्योऽपि।
भवपतितं निरीक्षसे किं माम्।।२।।
तव भुवने दयालुता ख्याता।
अपि दुरितैरुपेक्षसे किं माम्।।३।।
सुबहु मयास्ति वेदना सोढा।
भवगहनै: परीक्षसे किं माम्।।४।।
यदि पशवोऽपि तारिता भवता।
न यदुपतेऽवलम्बसे किं माम्।।५।।
प्रकटय मे सुमञ्जुमूर्तिं ते।
नयनसुखान्निबर्हसे किं माम्।।६।।
चरणसरोजमञ्जुलामोदै: ।
प्रमदयसे न मानसे किं माम्।।७।।
अधमतमोऽपि मञ्जुनाथोऽयम्।
त्वदनुचरं न मन्यसे किं माम्।।८।।
अन्य: मार्गे गच्छन् तटस्थोऽपि शिशुं रक्षति। मां केवलं निरीक्षसे, किमिति न त्रायसे इत्याशय:।।२।। भवगहनै: संसारजालै:।।४।। पशव: गजेन्द्र-व्रजगवीप्रभृतय:।।५।। निबर्हसे वञ्चयसि।।६।। मानसे मां किमिति न प्रमोदयसे।।७।। मां किं त्वं विदीर्णहृदयं वाञ्छसि? मम हृदयस्फोटदशा संनिहितेत्याशय:।।८।। मञ्जु: (सुन्दर:, त्वम्) नाथो यस्य, तथा च त्वत्स्वामिकोऽहं त्वद्दयायोग्य:।।९।।
(१६)
'गजेन्द्रमोक्ष:’
हे गजेन्द्रदयानिधे! गुणवारिधे! द्रुतमीयताम्।
विजहासि किं करुणाम्बुधे! सविधेऽद्य नाथ समीयताम्।।१।।
गजराज एष मनोहरे विजहार दिव्यसरोवरे।
सह संस्फुरत्प्रमदच्छटां करिणीघटामुपनीय ताम्।।२।।
करकीर्णपङ्गजरेणुभि: स करेणुभिर्विहरंश्चिरम्।
ह्रदमध्यमेष गतो ह्यभूदनुभूय तद्रमणीयताम्।।३।।
पयसीह कोऽपि दुरुद्धरो मकरोऽङ्घ्रिमस्य समाक्षिपत्।
अथ तौ महामकरद्विपौ दधतुर्मिथो दमनीयताम्।।४।।
मकरो महाप्रबलो जले स बलेन दन्तिनमाहरत्।
करुणां दशामुपगच्छता करिणाथ किं नु विधीयताम्?।।५।।
सुहृदोऽथ भीतहृदोऽद्रवन् करिणीषु किंकरणीयता।
अवशोऽधुना भृशगद्गदो द्विरदो दधौ भवदीयताम्।।६।।
हृदि चिन्तयंश्चरणोत्पलं कमलं करेण विनिक्षिपन्।
करुणं जुहाव जगत्पते! त्वरितेन नाथ समीयताम्।।७।।
अयि नाथ! यामि जलान्तरे मकरेण निर्मथितोऽन्तरे।
अयि हे परेश! करेण मे ह्यवलम्बनं प्रतिदीयताम्।।८।।
गजपुङ्गवस्य सवेदनं करुणं निशम्य निवेदनम्।
निजलोकतस्त्वरितोऽभ्यया द्विरदेऽवयान् दयनीयताम्।।९।।
अयि नाथ! सम्प्रति पश्य मां विषमामवेहि दशामिमाम्।
पतितस्य किं नु भवार्णवे करलम्बनं न विधीयताम्।।१०।।
मथितोऽस्मि वासनयाऽनया व्यथितोऽस्मि नाथ निरन्तरम्।
अधुना तु कंजरुचिस्पृशा करुणादृशा परिचीयताम्।।११।।
अयि दीनमेनमवेर्हरे! बत मञ्जुनाथशिरोऽन्तरे।
करपल्लवस्तु न चेत् क्षणं पदपल्लवोऽपि निधीयताम्।।१२।।
गजेन्द्रोपरि दयाया: सागर! ईयताम् आगम्यताम्।।१।। संस्फुरन्ती प्रमदच्छटा हर्षच्छवि: यस्या: तादृशीं करिणीघटां करेणुसमूहं सह संनीय।।२।। करेण शुण्डया कीर्णा: क्षिप्ता: पङ्कजपरागा याभि:। तस्य हृदस्य रमणीयतामनुभूय।।३।। गजस्य दमनीय: अभिभवनीय: मकर:, मकरेण दमनीयो गज इति मिथो दमनीयताम्।।४।। आहरत् आकर्षत्।।५।। किं करणीयं यासां तद्भाव: किंकर्तव्यता विमूढता। भवदीयतां पूर्वजन्मनो भवदीयभक्तताम्, शरणागतिमित्यर्थ:।।६।। सवेदनं वेदनासहितम्। द्विरदे गजे दयायोग्यताम् अवयान् जानन् अभ्यया: आगतोऽभू:।।९।। करेण आलम्बनं न विधीयताम्? अपि तु अवश्यं क्रियताम्।।१०।। विषयवासनया। कंजरुचिस्पृशा कमलशोभाधारिण्या दृष्ट्या।।११।। दीनम् एनं मञ्जुनाथम् अवे: रक्षे:। शिरस: अन्तरे मस्तकस्योपरि।।१२।।
(१७)
भूयात् प्रभोऽधुना तु दया दीनदुर्जने।
किं वा विलम्बसे मम सौभाग्यसर्जने।।१।।
नानाविधैर्न धैर्यमहो तापसंचयै:।
दह्ये दयानिधान भृशं भूरिभर्जने।।२।।
पश्याग्रतोऽयमेति यमो मां विकर्षयन्।
हा हन्त! याति धैर्यमिदं तीव्रतर्जने।।३।।
संतोषमाप्य चित्तमिदं शान्तिमेतु मे।
संतापितो भ्रमामि सदा सम्पदर्जने।।४।।
भ्राम्यामि मूढ एष महाघोरसंकटे।
कस्मादुपेक्षसेऽद्य ममोन्मार्गवर्जने।।५।।
वीक्षस्व दीन एष कियत् क्रन्दते चिरात्।
कस्माच्छृणोषि नाथ विपद्घोरगर्जने।।६।।
संतापितस्य दीनदशां किं न वीक्षसे।
यातासि किं प्रसादमसूनां विसर्जने?।।७।।
हे नाथ! मञ्जुनाथमिमं न्यक्करोषि किम्।
सैषोऽस्ति चक्रवर्तिसमो दुष्टदुर्जने।।८।।
गो. वै. १४
दीने सत्यपि दुर्जने (मयि)।।१।। सांसारिकेऽस्मिन् संतापजनितभर्जने दह्ये दग्धो भवामि।।२।। मम उन्मार्गाद् वर्जने निवारणे कस्मात् उपेक्षां करोषि?।।५।। मम विपत्तीनां घोरं गर्जनं भवति, तस्य कोलाहले मम क्रन्दनं कस्मात् शृणुया: इत्याशय:।।६।। मम असूनां प्राणानाम् विसर्जने निर्गमने एव किं प्रसन्नतां यातासि यास्यसि?।।७।। दुष्टे दुर्जने च लोके अयं चक्रवर्तिसदृश: (महापापी), अतएव चक्रवर्तिनस्तिरस्कारो नोचित:।।८।।
(१८)
अये कामये नाथ किंचिद्दृशं ते।
क्षणं देहि दीनेऽनुकम्पालवं ते।।१।।
अहो मे बहो: कालतो लालसेयम्।
कदाऽऽलोकयेयं पदाम्भोरुहं ते।।२।।
क्षणं वीक्ष्यतां नाथ दीना दशा मे।
धरायां विलोठामि हा सम्मुखं ते।।३।।
न किं वैद्य! संवीक्षसे रुग्णमेतम्।
वराकश्चिरादागतोऽयं गृहं ते।।४।।
चिरं चिन्तया किं तयाहं न दूये।
प्रभो! हन्ति या दीनमेनं जनं ते।।५।।
प्रभो भासि सर्वस्य चित्तान्तराले।
किमालेखये दु:खमेतच्चिरं ते।।६।।
बलं धर्मकर्मादि केषांचन स्यात्।
अलं केवलं मेऽनुकम्पाबलं ते।।७।।
यमाद् दुर्यमाद् रक्षणं दूरमास्ताम्।
प्रभो! प्रार्थयेऽहं क्षणं वीक्षणं ते।।८।।
कथं वा हरेऽहं हरे! मन्दकर्मा।
सरोजप्रभामोचनं लोचनं ते।।९।।
लभेताञ्जसा मूढचेता नु मादृक्?
लभन्ते बुधा: संविदन्ते पदं ते।।१०।।
अहं पातकी ख्यातकीर्तिर्जनानाम्।
परं किं दयाब्धेर्दयायाल्लयं ते।।११।।
प्रभु: पातकान्येक्ष्य चित्रायितोऽभूत्।
अये मञ्जुनाथ! प्रभावो ह्ययं ते।।१२।।
लालसा इयम्।।२।। हे वैद्य (हे भगवन्) एवं रुग्णं (माम्)।।४।। एतद् दु:खं ते किम् आलेखयेयं सूचयेयम् इत्याशय:। आलेखये इति णिजन्तादात्मनेपदे लट् उत्तमपुरुषैकवचनम्।।६।। दुष्करो यम: (यमनं दमनम्) यस्य तस्माद् यमात्।।८।। हे हरे! मन्दकर्मा अहं ते लोचनं कथं हरे (मदभिमुखं कथमाकर्षयेयम्)।।९।। मूढो मादृशस्ते पदम् अञ्जसा सहजम् नु किम् लभेत? नैवेत्यर्थ:। बुधा: संविदन्ते तत्त्वज्ञानस्यान्ते ते पदं लभन्ते।।१०।। अहं प्रसिद्ध: पातकी अस्मि, परं दयासागरस्य ते दया किं लयम् अयात् याता? अपि तु न लुप्ता।।११।। प्रभुस्ते पातकानि दृष्ट्वा चकितोऽभूत्, अयं ते प्रभाव:। धन्योऽसि।।१२।।
(२९)
मानुगृöासि न किं पासि विभो दीनं माम्?।
किं न जानन्नपि जानासि विभो दीनं माम्।।१।।
पश्य मे दीनदशामद्य दयालो! किंचित्।
किं प्रगल्भोऽपि न पुष्णासि विभो दीनं माम्।।२।।
कर्मबन्धेन निबद्धोऽस्मि महामूढोऽहम्।
किं पुनर्मोहतो बध्रासि विभो दीनं माम्।।३।।
नावलम्बं ददसे किं विलम्बं कुरुषे।
किं न कारुण्यतो गृöासि विभो दीनं माम्।।४।।
हन्त संतापयुतो भूरि रमे संसारे।
किं मुधा मायया मथ्रासि विभो दीनं माम्।।५।।
कोऽसि कुत्रासि कथं लभ्यसेऽहं नो जाने।
तत्त्वमिदं किं न समाख्यासि विभो दीनं माम्।।६।।
दर्शनं नो ददसे वैषयिकैर्मोहयसे।
मूढमालक्ष्य विमुष्णासि विभो दीनं माम्।।७।।
पादमुद्राङ्कनतो मौलिमिमं मुद्रय मे।
किं विमोहेन विमृद्नासि विभो दीनं माम्।।८।।
मूर्तिमेतां मधुरां किं न हरे दर्शयसे।
दीननाथोऽपि न किं यासि विभो दीनं माम्।।९।।
ज्ञानशून्योऽपि चिरादद्य गुणान् गायति ते।
मञ्जुनाथोऽपि, न विजहासि विभो दीनं माम्।।१०।।
किं न अनुगृöासि अनुग्रहं करोषि? किं न पासि। सर्वज्ञतया सर्वं जानन्नपि मां किं न जानासि।१।। प्रगल्भश्चतुर:।।२।। ददसे 'दद दाने’। गृöासि स्वीकरोषि।।४।। संतापयुक्तोऽपि संसारे रमे सुखमनुभवामि।।५।। वैषयिकै: विषयसम्बन्धिभि: प्रपञ्चै:। विमुष्णासि वञ्चयसि।।७।। तव चरणं संस्थाप्य तच्चिह्नेन मे मस्तकं चिह्नितं कुरु। विमृद्नासि मर्दयसि।।८।। किं न यासि रक्षणार्थं मां किं नोपगच्छसि?।।९।। मञ्जुनाथश्चिराद् ज्ञानशून्योऽपि अद्य ते गुणान् गायति। अत एव दयालुस्त्वमपि तं न त्यजसि।।१०।।
(२०)
भवाटवी
अहो कं वाऽऽश्रयेयं दीनबन्धो।
स्वदु:खं कं वदेयं दीनबन्धो!।।१।।
महाघोरे घनेऽहं काननेऽस्मिन्।
वद त्वं कं भजेयं दीनबन्धो!।।२।।
वनाग्रि: सर्वतो मे संवृतोऽयम्।
अहो कुत्र द्रवेयं दीनबन्धो?।।३।।
पथि श्रान्तो नितान्तोत्पीडितोऽहम्।
कथं शान्तिं वहेयं दीनबन्धो।।४।।
प्रभो! भ्राम्यामि दिङ्मूढोऽतिवेलम्।
कथं मार्गं जुषेयं दीनबन्धो!।।५।।
अहो वन्यद्विपो मामेति हन्तुम्।
वटेऽस्मिन्नापटेयं दीनबन्धो!।।६।।
द्रुतं शाखां प्रगृह्याऽऽलम्बितोऽहम्।
परं कूपस्तलेऽयं दीनबन्धो।।७।।
अध: कूपो द्विपोऽयं सम्मुखे मे।
कथं शाखां त्यजेयं दीनबन्धो!।।८।।
परं क्षौद्रस्य वृक्षाद् बिन्दवो मे।
मुखे ह्यायान्त्यमेयं दीनबन्धो।।९।।
इमां शाखामपीमौ मूषकौ द्वौ।
लुनीत: किं चरेयं दीनबन्धो।।१०।।
क्व भो गच्छामि कुर्वे किं प्रभो मे।
त्वमेवाख्याह्युपेयं दीनबन्धो।।११।।
विहाय त्वां कमन्यं मञ्जुनाथम्।
वटेऽस्मिन्नारटेयं दीनबन्धो!।।१२।।
घने परस्परं वृक्षाणामाश्लेषेण निबिडे।।२।। पथि श्रान्त: मार्ग-चलनेन खिन्न:।।४।। पूर्वादयो दिश: का इति दिग्भ्रमान्मोहयुक्त:। अतिवलं निरन्तरम्। जुषेयं प्राप्नुयाम्।।५।। वटवृक्षे आपटेयम् आगच्छेयम्।।६।। शीघ्रं शाखां गृहीत्वा लम्बित:। वृक्षस्य अधस्तात् कूप:।।७।। परं कूपहस्तिभयात् वृक्षशाखां कथं त्यजेयम्?।।८।। परं वटवृक्षे 'मधुचक्र’ स्रुतस्य क्षौद्रस्य मधुन: बिन्दवो मम मुखे अमेयं अपरिमितं यथा स्यात् तथा आयान्ति इति लोभ:।।९।। उपरि दर्शनेन ज्ञातं यद् अवलम्बिताम् इमां शाखां शुक्लकृष्णौ द्वौ मूषकौ निरन्तरं छिन्त:। दाष्र्टान्ति के तु जीवस्य आयु: कालरूपां शाखां दिनरात्रिरूपौ शुक्लकृष्णौ द्वौ मूषकौ अनवरतं कर्तयत:।।१०।। उपेयम् उपगन्तव्यं शरणं त्वमेव आख्याहि।।११।। मञ्जुं त्वां नाथं विहाय जीवनरूपेऽस्मिन् वटवृक्षे कम् आरटेयम् आह्वयेयम्।।१२।।
(२१)
भ्रमन्तं भूरि संसारे मुरारे! पाहि दीनं माम्।
पदाब्जे ते विलोठन्तं द्रुतं संयाहि दीनं माम्।।१।।
मुहु: क्लिश्राति चिन्तासौ समन्तादाकुलीभूतम्।
ततोऽपि व्रीडयत्येषा महत्त्वाशा हि दीनं माम्।।२।।
न दूये दुर्जनालापै: पराभूये न संतापै:।
चिरायोपेक्षणं ते बाधते संदाहि दीनं माम्।।३।।
न भाग्यं तादृशं यत् ते विलोके रूपसौभाग्यम्।
धिनोति ध्यानसौख्यं ते सुधासंवादि दीनं माम्।।४।।
न दैन्याद् दूयते चित्तं न वित्तं स्तूयते भूरि।
अधैर्यं किंतु संधत्ते सदा संनाहि दीनं माम्।।५।।
अविश्रान्तं प्रतीक्षातो नितान्तं श्रान्तचित्तोऽहम्।
दयालो! दृक्सुधासारैर्नवं निर्माहि दीनं माम्।।६।।
श्रुतीनां भूरिभूतीनां विकल्पैर्दिग्विमूढोऽहम्।
कथंकारं विलोके त्वां मनागाख्याहि दीनं माम्।।७।।
कृपापीयूषलेशार्थे प्रयस्यन् दूयमानोऽहम्।
निलीनं द्वारदेशे ते न प्रत्याख्याहि दीनं माम्।।८।।
दयामालम्ब्य ते भूमन्! सनाथो मञ्जुनाथोऽहम्।
इदानीं त्वद्वशोऽहं पाहि मा वा पाहि दीनं माम्।।९।।
संयाहि रक्षणार्थम् आगच्छ।।१।। व्रीडयति लज्जितं करोति।।२।। पराभूये पराजित: (पराभूत:) भवामि। संदाहि हृदयदाहकम्।।३।। सुधासंवाहि अमृतप्रवाहकं ते ध्यानसुखमेव मां धिनोति प्रीणयति।।४।। वित्तं भूरि न स्तूयते न अभिनन्द्यते, वित्तार्थमेव बहुलं प्रयासो न क्रयत इत्याशय:। परं संनाहि सदा संनद्धं (सज्जम्) अधैर्यं मां संधत्ते आश्रयति। त्वं मम कामवस्थां करिष्यसीति अधैर्यं सदा मे तिष्ठतीति भाव:।।५।। दृष्टिसुधावर्षणेन दीनं मां नवीनं कुरु, संसारभ्रमणपरिश्रमं छिन्धि, इत्याशय:।।६।। भूरिशाखानां वेदानां विकल्पै: 'केन मार्गेण गच्छेयम्’ इति किंकर्तव्यविमूढ:।।७।। प्रयस्यन्, प्रयासं कुर्वन्। न प्रत्याख्याहि निषेधं मा कुरु।।८।।
(२२)
दयालो! किमालोकसे नि:स्पृहम्।
चिरं व्याकुलो हन्त लोठाम्यहम्।।१।।
न किं वीक्षसे नाथ! दीनाननम्।
चिरं चिन्तया हन्त दैन्यावहम्।।२।।
खरैरश्रुपूरैर्निरुद्धे दृशौ।
कथं नाम शोके विलोके त्वहम्।।३।।
सुहृत्-सूनु-सम्बन्धिनोऽप्यद्य माम्।
विमुञ्चन्ति भूमौ गतं निस्सहम्।।४।।
न कंचित्सहायं विलोके विभो!
क्व भो दर्शयिष्यामि चित्ताग्रहम्।।५।।
मतेर्दीनबन्धो! न गन्धोऽस्ति मे।
सदा मन्दकर्माणि कुर्वेऽन्वहम्।।६।।
कथं पुण्यमन्वेषये जीवने।
इदं दुष्कृतानन्तदावेऽदहम्।।७।।
इदानीं प्रभो मञ्जुनाथो धृतिम्।
दयालोस्तवैवाद्य हस्तेऽवहम्।।८।।
नि:स्पृहम् तटस्थ: सन् किं पश्यसि, रक्षां किं न करोषि?।।१।। दैन्यावहम् दीनतासूचकम्।।२।। खरै: शोकवर्द्धकत्वात् निष्ठुरै:।।३।। निस्सहं स्पर्शमात्रस्यापि असहनम्, मुमूर्षुमिति यावत्।।४।। यदा कश्चित् सहायक एव नास्ति तदा चित्तस्य आग्रहम् अभिनिवेशं कुत्र दर्शयिष्यामि? न कुत्रापीत्यर्थ:।।५।। मम बुद्धेर्लेशोऽपि नास्ति, अत एव बुद्धिशून्य: प्रतिदिनं मन्दकर्माणि करोमि।।६।। इदं पुण्यं पापरूपे अनन्ते दावे वनाग्रौ अदहम्।।७।। इदानीं मञ्जुनाथोद्धारस्तव हस्ते एवास्ति।।८।।
(२३)
हंहो मुकुन्द मामहो दीनं न पासि किम्?।
दीनं दयानिधे तवाधीनं जहासि किम्?।।१।।
आकण्ठमग्रमेनमहो मोहसागरे।
हित्वा दयावतार विदूरे प्रयासि किम्।।२।।
बद्धोऽस्मि पूर्वमेव पुराकर्मबन्धनै:।
तस्योपरि प्रभोऽद्य विमोहं ददासि किम्।।३।।
भ्रान्तो भ्रमामि भूरि विभो कर्मकानने।
मायामरीचिकां पुनर्मूढे दधासि किम्।।४।।
चित्तेन चिन्तयैव चिरादर्तिराचिता।
प्रेमाम्मयेन नाथ न चेमां लुनासि किम्।।५।।
नेमां रुणत्सि मोहिनी मायास्ति सम्मुखे।
कूपान्तिकेऽन्धमेनमपास्यापयासि किम्।।६।।
चित्तान्तरे जनस्य निवासं करोषि चेत्।
चित्तस्य वेदनां तदा मे नावयासि किम्।।७।।
पश्याद्य दयादृष्टये द्वारे लुठामि ते।
पश्यन्नपि प्रभोऽद्य न पश्यन्निवासि किम्।।८।।
तापेन भूरि तापितो लोठामि भूतले।
हंहो दयानिधान! दयां नोपयासि किम्?।।९।।
दीनोऽपि तावकोऽस्मि विहीनोऽपि साधनै:।
मामद्य मञ्जुनाथ विमोहै: प्रमासि किम्।।१०।।
मोहसागरे आकण्ठं मग्नम् एनं मां हित्वा त्यक्त्वा।।२।। पुराकर्म०- पूर्वं कृतानां कर्मणां बन्धनै:।।३।। भ्रान्तो भ्रमामि कर्तव्येषु भ्रमयुक्तोऽहं कर्मवने भ्रमामि। मायारूपां मरीचिकां मृगतृष्णाम्।।४।। चित्तेन चिन्ताद्वारा चिरात् अर्ति: पीडा संचिता, इमां प्रेमवर्षया किं न छिनत्सि।।५।। कूपसमीपे अन्धम् एनं माम् अपास्य त्यक्त्वा किमिति गच्छसि? माया कूपसदृशीत्यर्थ:।।६।। अवयासि जानासि।।७।। साधनै: हीन: दीन: अपि अहं त्वदीय: अस्मि। विमोहै: मां किं प्रमासि? विमोहानुत्पाद्य तेषां द्वारा मां किं परीक्षसे।।१०।।
(२४)
दोषं ददासि चेद् विभो! चित्तं तदा व्यकारि किम्?।
पुण्यं परीक्षसे प्रभो! बुद्धिर्न सा व्यतारि किम्?।।१।।
जाने प्रभो! त्वदिच्छया लोकोऽखिलं विचेष्टते।
हंहो दयानिधे तदा दोषो मम व्यचारि किम्।।२।।
स्वामिन्! ममैनसामहो संख्यां कथं करिष्यसे?
सेयं परार्द्धपूरिणी पूर्वं प्रभो! ह्यकारि किम्।।३।।
पूर्वं त्वजामिलादयस्त्रातास्त्वया दयावशात्।
अस्मत्कृते दयानिधे! सेयं दया न्यवारि किम्।।४।।
पापीति मां कथं त्यजेर्वादं भजे दयानिधे!
पृच्छाम्यहम्-'पुरा त्वया पापी न वोदधारि किम्?’।।५।।
माहं विशेषलम्पटो बाढं पटो! परीक्ष्यताम्।
किंतु प्रलोभनै: प्रभो! ज्ञानं मम त्वहारि किम्।।६।।
स्वामी स मञ्जुनाथ ते स्तोकं न दोषमीक्षते।
पुण्यै: प्रसन्नताथ चेद् दानं दयानुसारि किम्?।।७।।
'त्वं पापान्याचरसि’ इति मह्यं त्वं दोषं ददासि, तर्हि हृदि स्थितेन त्वया मम चित्तं किं व्यकारि विकृतं कृतम्। सा बुद्धि: पुण्यानुसारिणी किं न व्यतारि अदायि?।।१।। मम दोष: किं व्यचारि कथं विचारित:।।२।। एनसां पापानाम्। सेयं संख्या परार्द्धपूरिणी परार्द्धपर्यन्ता किमिति अकारि? मम दोषा: परार्द्धसंख्यातोऽप्यधिका:, अतएव अग्रे संख्याभावात् परिमाणं कथं भवेदित्याशय:।।३।। न्यवारि निवारिता, त्यक्ता।।४।। पापीति कृत्वा मां कथं त्यजसि? हे दयानिधे! अस्मिन् विषये वादं भजे करोमि, अतएव पृच्छामि- 'किं त्वया कश्चित् पापी न उदधारि उद्धृत:। यदि पूर्वं पापी उद्धृतस्तर्हि अहं किमर्थं त्यक्तो भवितुमर्हामि?।।५।। हे पटो! चतुर बाढं परीक्षा क्रियताम्- अहम् अतिलम्पटो लुब्ध: नास्मि। प्रलोभनै: मम ज्ञानं तु अहारि। प्रलोभनानि दत्त्वा मम ज्ञानस्यापहरणं कृतम्। अत एव मम लम्पटताप्रवृत्तिदर्शनम्।।६।। स स्वामी स्तोकमपि दोषं न ईक्षते। यत: यदि पुण्यै: प्रसन्नता तर्हि दयानुसारि दानं किं जातम्। पुण्याभावेऽपि यदि कृपा भवेत् तदैव दयादानमित्याशय:।।७।।
(२५)
हरे! संतरेद् भाग्यनौका ममेयम्।
क्षणं क्षेपणी स्याद् दया चेत् तवेयम्।।१।।
भवाब्धिस्तु कल्लोलमालाकुलोऽयम्।
महाजर्जरा नाथ! नौका ममेयम्।।२।।
ततोऽप्यद्य विद्योतते नैव भास्वान्।
घटा चोत्कटा व्योम्नि विस्फूर्जितेयम्।।३।।
न पश्यामि मार्गं निरुद्धोऽन्धकारे।
विचारेण हीनातिदीना दशेयम्।।४।।
महासागरे दुस्तरे वाति वायौ।
मिमङ्क्षुस्तरिर्दोलते चञ्चलेयम्।।५।।
भ्रमीणां भ्रमिर्भूरि भीतिं विधत्ते।
न जाने कदानेन लीयेत सेयम्।।६।।
इदानीं न मे शक्तिरस्या: प्रवाहे।
क्षणादेव हे देव मग्रो भवेयम्।।७।।
न वीक्षेऽधुना त्वां विना रक्षकं मे।
यदन्त:स्थितं त्वां किमावेदयेयम्।।८।।
इदानीं तु हे नाथ नेत्रे निबद्धे।
निरुद्धेयमत्रैव नौ:, किं चरेयम्?।।९।।
दृशा मञ्जुनाथं क्षणं वीक्षसे चेत्।
निमग्रोऽपि कामं हरे संतरेयम्।।१०।।
क्षणार्थं तव दया यदि क्षेपणी नौकादण्ड: स्यात् तर्हि मम भाग्यरूपा नौका संतरेत्।।१।। विस्फूर्जिता विजृम्भिता।।३।। विचारेण हीना, विचारमपि कर्तुं मे सामथ्र्यं नास्ति।।४।। मिमङ्क्षु: मज्जनाशङ्काग्रस्ता तरिर्दोलते आलोडिता भवति। आशङ्कायां सन्।।५।। भ्रमीणां जलावर्तानाम् भ्रमि: भ्रमणम्। अनेन (आवर्तभ्रमणेन) न जाने सेयं तरि: कदा लीना भवेत्।।६।। चरेयं करोमि।।९।। यदि तव दयादृष्टिर्भवेत् तर्हि तदिदं मे जलं निमज्जनं संतरणं भवेदित्याशय:।।१०।।
(२६)
उपेक्षयालं जहासि कालम्, द्रुतं न किं पासि भो विभो माम्।
सुधामये! कामयेऽनुकम्पां मुधावजानासि भो विभो माम्।।१।।
तवावलम्बेन निर्भयोऽहम्, न वा विलम्बेन लाभमीक्षे।
समन्ततो व्याधिसंततोऽहम्, कुतो न गृöासि भो विभो माम्।।२।।
अयेऽवलोकस्व बन्धबाधाम्, ममापराधांस्तु मानुमासी:।
दयाब्धिराकर्णितो मया त्वम्, कथं विमृद्गासि भो विभो माम्।।३।।
निरन्तरं बाधते विचिन्ता दुरन्तसंतापसंकुलं माम्।
किरन्तमश्रूणि दु:खदूनं कथं न पुष्णासि भो विभो माम्।।४।।
त्रिलोकलक्ष्मीललाममूर्तिर्विलोकनीयोऽसि लोकपालै:।
अकिंचनं माययानया ते कथं नु मुष्णासि भो विभो माम्।।५।।
भ्रमन्ननेकासु भूमिकासु श्रमं कियन्नाथ धारयेऽहम्।
न पारये, हन्त पालयेथा:, कियद् विमथ्रासि भो विभो माम्।।६।।
क्व यामि, किं वाऽऽचरामि, कीदृग् भवामि, कस्मै निवेदयामि।
कथं विलोठामि ते पदाब्जे न किं त्वमाख्यासि भो विभो माम्।।७।।
विशीर्यते देहसंधिबन्धो, न दीनबन्धो! सहे निवोढुम्।
न चेतना चेष्टतेऽधुना किं न वानुगृöासि भो विभो माम्।।८।।
न कोऽपि मार्गावबोधको मे, भवन्निकेतं वदेत् तु को मे?
व्यथाशतैराकुलं किलेमं वृथा निगृöासि भो विभो माम्।।९।।
सुमञ्जुना ते गुणेन भूमन्! स मञ्जुनाथोऽद्य निर्भयोऽयम्।
विना भवन्तं न वेद्म्यवन्तम्, पुनर्न किं पासि भो विभो माम्।।१०।।
उपेक्षां मा कुरु, कालं जहासि मे उद्धारकालं वृथैव यापयसि। 'अये हरे! अहम् अनुकम्पां सुधाम् दयारूपम्, अमृतम् (व्यस्तरूपकम्) कामये वाञ्छामि। व्यर्थमेव माम् अवजानासि तिरस्करोषि।।१।। गृöासि स्वीकरोषि।।२।। मम सांसारिकबन्धनानां बाधाम् अवलोकस्व। मम अपराधानाम् अनुमानं मा कुरु ['सांसारिकी इयती अस्य पीडा, अत एव अनेन पापानि अपि बहूनि कृतानि’ इति]। विमृद्नासि अपराधदण्डदाने मर्दयसि।।३।। पुष्णासि रक्षसीति यावत्।।४।। अकिंचनं दीनम् मां मायया कथं मुष्णासि प्रतारयसि। लोकपालैरपि समये दर्शनीयस्य ते इदं नोचितमित्यर्थ:।।५।। अनेकासु भूमिकासु अनेकेषु जन्मसु इत्याशय:। परिश्रमं कियत् (क्रियाविशेषणम्) धारयामि।।६।। अङ्गानां संधिबन्धो विशीर्यते, मम देहो विशीर्णप्राय इत्याशय:। मम चेतना न चेष्टते, मम चैतन्यं नास्तीत्याशय:। किं न अनुगृöासि अनुग्रहं करोषि।।८।। निगृöासि दमयसि।।९।। गुणेन दयागुणेन। स: अयं मञ्जुनाथ:। भवन्तं विना अन्यम् अवन्तम् रक्षकम् न जानामि।।१०।।
(२७)
अयि नाथ दयादृष्टिं तव देहि दयालो! मे।
विदधासि तिरस्कारं किल केन कृपालो मे।।१।।
भ्रान्तोऽस्मि भृशं भूमन्! भ्रमभूरिभवारण्ये।
अधुना तु वनान्तेऽस्मिन् भव नाथ! निभालो मे।।२।।
मम मन्दकृतिस्तोमो बत बीजमभूत् पूर्वम्।
कृतकर्मतरु: सोऽयम्, अधुना तु विशालो मे।।३।।
अयि नाथ! गजेन्द्रेऽभूद् भवदीयदया पूर्वम्।
अधुना तु दयासिन्धो! वद केन करालो मे।।४।।
लोठामि भृशं भूमौ दीनोऽयमहं त्वग्रे।
निद्रासि कथंकारं ननु शेषशयालो! मे।।५।।
विदधासि दयादृष्टिं यदि किंचिदपि स्वामिन्।
न हि नाथ! भयं किंचित् कलयेदपि कालो मे।।६।।
यदि कष्टमये काले न करोषि करालम्बम्।
तव भूरिकृपालोकै: किमकारि कपालो मे?।।७।।
भृशमन्यजनप्रीत्यै सुरशाखिचयोऽप्यास्ताम्।
व्रजभूमिभवो भूत्यै भवतात्स तमालो मे।।८।।
अयि नाथ! न नाथेऽन्यत्, परमस्तु भवच्चित्ते।
बत मञ्जुलनाथोऽयं चपलोऽपि च बालो मे।।९।।
हे कृपालो! मे तिरस्कारं केन विदधासि।।१।। भ्रमबहुले भवरूपे अरण्ये। हे नाथ! मे निभाल: (निभालयतीति निभाल:, निरीक्षक:) भव।।२।। मम मन्द (निषिद्ध) कर्मसमूह: पूर्वं बीजरूपे अभूत्। अधुना मे कृतकर्मरूप: तरु: विशालो जात:। बीजरूपेण स्थितं मन्दकृत्यं विशालवृक्षरूपे परिणतमित्यर्थ:।।३।। मे मदर्थं केन कराल: क्रूर: असि।।४।। अयमहं दीनस्तु भूमौ लुठामि, हे मम शेषशायिन्! त्वं कथं निद्रासि? एवं कष्ट-करुणकाले निद्रा ते किं उचिता?।।५।। काल: साक्षात् यम: अपि।।६।। यदि कष्टसमयेऽपि मम करावलम्बनं न करोषि, तर्हि तव कृपाकटाक्षै: किम्।।७।। अन्यजनानां प्रीतये कल्पवृक्षसमूह: भवतु। मम तु भूत्यै (कल्याणाय) व्रजभूमिजात: तमालवृक्ष: श्रीकृष्ण: अस्तु, इति आशी:। रूपकातिशयोक्ति:।।८।। नाथे आशासे, याचामि। मञ्जुनाथ: चपल: अपि मे बाल: शिशु: अस्ति इति भवच्चित्ते अस्तु।।९।।
(२८)
नवप्रचलितगीति:
भयभीतमेनमालोक्य स मामविता भविता वनमाली मे।
भृशमन्धकारिभवभीतिपथे सविता भविता वनमाली मे।।१।।
भ्राम्यामि भूरि संतापभृतो भुवनेषु नेह मिलितो ह्यविता।
तप्तस्य भूरिकारुण्यसुधास्रविता भविता वनमाली मे।।२।।
ननु कस्य पुरो वाचाभरेण याचामि दैन्यचिन्ताकरेण।
संसारघोरसंतापलेशलविता भविता वनमाली मे।।३।।
धनगर्वमत्तधनिकालयेषु लिप्साभरेण घनपङ्किलोऽस्मि।
कारुण्यपूरपीयूषभरात् पविता भविता वनमाली मे।।४।।
यदि मञ्जुनाथसूक्तिर्न मता कविताप्रबन्धमाधुर्यविदाम्।
कीर्तिप्रसारसौभाग्यसारसविता भविता वनमाली मे।।५।।
एनं मां भयभीतम् आलोक्य स: दयालुत्वेन प्रसिद्ध: वनमाली मे अविता रक्षक: भविता भविष्यति [अद्य न चेत् तर्हि मम दीनतामालोच्य श्व: अवश्यं रक्षको भविष्यतीति व्यञ्जनाय अनद्यतनभविष्यति लुट्]। अन्धकारयुक्ते भव (संसार) भयपूर्णे मार्गे वनमाली मे सविता सूर्य: भविष्यति। भवमार्गे श्रीकृष्ण एव मम मार्गदर्शको भविष्यतीत्याशय:।।१।। हि अविता रक्षक:। तप्तस्य मम कृते कारुण्यरूपाया: सुधाया: स्रविता स्रावक:, वर्षक:।।२।। दैन्यचिन्ताजनकेन वाणीभरेण कस्य जनस्य पुर: अग्रे याचामि। संसारतापलेशस्य लविता छेदक:, नाशक:।।३।। घनं यथा स्यात् तथा पङ्किल: अतिकलुष: अस्मि। पविता पावक:, शोधक:।।४।। न मता न सम्मता तर्हि वनमाली मे कीर्तिप्रसाररूपस्य सौभाग्यसारस्य सविता उत्पादक: भविता।।५।।
(२९)
भगवान् शंकर:
अये गिरीन्द्रनन्दिनीश! नन्दयस्व माम्।
अये शशाङ्कशोभिभाल! पालयस्व माम्।।१।।
जाता नितान्ततान्तता संतापितस्य मे।
पीयूषपूरयोषत: संतोषयस्व माम्।।२।।
याचे न चेतसा भवन्तमीहितान्तरम्।
दृशा दयास्पृशा तु तत् सम्भावयस्व माम्।।३।।
यदा पशुर्विशाम्पते! भवताधिरुह्यते।
तदा पदाग्रदानत: सम्मानयस्व माम्।।४।।
भवान् भवानुकीर्तने ख्यातिलोचन:।
एकेन लोचनेन तु प्रनिभालयस्व माम्।।५।।
जाने भवन्तमद्रिजाजाने! ममाश्रयम्।
मा मा निराशतां प्रदा: परिवारयस्व माम्।।६।।
चित्तेन अहम् ईहितान्तरम् अन्यद् ईहितं वाञ्छितम् न याचे।।३।। पशु: नन्दीश्वरो वृषभ:।।४।। हे भव! कीर्तनकथायां भवान् त्रिलोचन: प्रसिद्ध:। प्रनिभालयस्व विलोकय।।५।। मह्यं निराशतां मा प्रदेहि मां निराशं मा कुरु, मां परिवारयस्व निजं परिवारं 'सेवकं’ कुरु।।६।।
(३०)
अहो शम्भो! भवेत्किं भो ममैवार्थे विलम्बोऽयम्?।
समुद्धारेच्छया नूनं पुरारे! तेऽवलम्बोऽयम्।।१।।
कियद् भ्राम्यामि भो भूमन्! भवेऽस्मिन् भूरि भीतोऽहम्।
अहो भूतेश! किं कुर्वे, भवाध्वा भूरिलम्बोऽयम्।।२।।
मनोमोहाय जायन्ते जगद्वस्तूनि पर्यन्ते।
अहो मे लोलुपस्याग्रे धृतोऽभूत् किं करम्भोऽयम्।।३।।
बहिर्जानन्ति मां सन्तं हृदन्तं केऽपि नेक्षन्ते।
अहो किं दर्शयेदग्रे दुरन्तं दुष्टदम्भोऽयम्।।४।।
विभो! वीक्षस्व चिन्तासौ न किं तावद् दुरन्ता मे।
अहो लग्रो हृदन्ते मे न कृन्तेत् किं कलम्बोऽयम्।।५।।
अहो भूतेश! भुक्तेभ्यो न भोगेभ्यो विरज्येऽहम्।
कथं मुञ्चेन्मुखायातं तृषार्तो मिष्टमम्भोऽयम्।।६।।
सुखं मोदेत मेदिन्यां सनाथो मञ्जुनाथोऽयम्।
भवेद् भूतेश! भावत्को दयालेशोऽ*वलम्बोऽयम्।।७।।
निश्चितं समुद्धारस्येच्छया अयं ते अवलम्ब: आश्रय: कृतोऽभूत्।।१।। भवस्य अध्वा मार्ग: अतिदीर्घ:।।२।। पर्यन्ते अवसाने मोहाय भवन्ति। करम्भो दधिमिश्रसक्तु:।।३।। हृदन्तं हृदयपर्यन्तम्। अयं दम्भ: बाह्याडम्बर: किं दुरन्तम् दुष्परिणामं दर्शयेत्।।४।। हृदन्ते लग्र: कलम्ब: बाण: किं न कृन्तेत्। इयं चिन्ता बाणसदृशीत्याशय:।।५।। तृषार्त: मुखागतं मिष्टम् अम्भ: जलं कथं मुञ्चेत्।।६।। दयालेश: अवलम्ब: बलं भवेत्। पाठान्तरे तु अद्य भवदीय: दयालेशो भवेत् तर्हि मञ्जुनाथ: सनाथ: सन् मोदेत।।७।।
(३१)
वन्ददामहे महेशपदाम्भोजमुज्ज्वलम्।
सेवामहे महेशपदाम्भोजमुज्ज्वलम्।।१।।
संतापितस्य तापहरं किंचिदस्ति चेत्।
बुध्यामहे महेशपदाम्भोजमुज्ज्वलम्।।२।।
* 'द्य शम्भोऽयम्’ इति पाठान्तरम्।
लीयेत लाभलोभलवोऽप्यन्तरस्य चेत्।
विन्दामहे महेशपदाम्भोजमुज्ज्वलम्।।३।।
यायाद् यमोऽपि मौनमहो नम्रमौलि चेत्।
अर्चामहे महेशपदाम्भोजमुज्ज्वलम्।।४।।
संसारसागरस्य महापोतमाततम्।
श्लाघामहे महेशपदाम्भोजमुज्ज्वलम्।।५।।
एतावदेव देव! सदाभ्यर्थयामहे।
पश्याम हे महेश! पदाम्भोजमुज्ज्वलम्।।६।।
गर्वोद्धुरं कदापि न याचामहे नरम्।
याचामहे महेशपदाम्भोजमुज्ज्वलम्।।७।।
काव्येषु मञ्जुनाथ! न न: स्पर्द्धया फलम्।
वीक्षामहे महेशपदाम्भोजमुज्ज्वलम्।।८।।
तापहरं यदि किंचिदस्ति, तर्हि तत् शिवचरणकमलं बुध्यामहे जानीम:।।२।। यदि शिवचरणं विन्दामहे प्राप्नुम: तर्हि चित्तस्य लोभलेश: अपि लुप्येत।।३।। नतमस्तकं यथा स्यात् तथा यमोऽपि मौनं यायाद् यदि वयं शिवचरणम् अर्चाम:।।४।। आततं विस्तृतम्।।५।। एतत् अर्थयामहे याचाम: यत् हे महेश! ते पदाम्भोजं पश्याम (प्रार्थनायां लोट्)।।६।। नरं (नरात्, अविवक्षायां द्वितीया) न याचामहे, अपि तु पदाम्भोजम् पदकमलात् अभीष्टं याचाम:।।७।।
(३२)
हे गणेयगुणावधे करुणानिधे ह्यवधीयताम्।
दृष्टिरुज्ज्वलभारते तव भारते विनिधीयताम्।।१।।
एष भूवलये विशेषविधोऽस्ति देशवरश्चिरात्।
सर्वसभ्यसमाज एष विमाति यद्रमणीयताम्।।२।।
किं नु कोऽपि निदर्शयेद् बत देशमीदृशमुन्नतम्।
यस्य वाङ्मयमावहेन्निगमागमैस्तुलनीयताम्।।३।।
यत्र कुङ्कुमकेसरा: कलयन्ति कामपि सुच्छविम्।
देश ईदृश ईक्ष्यते किमिहापरोऽपि विचीयताम्।।४।।
रत्नराशिरलुण्ठि लुण्ठनतत्परैर्बहुधा परै:।
किंतु साम्प्रतमप्यसौ वहते परं महनीयताम्।।५।।
कूटनीतिनियन्त्रणै: परतन्त्रता नाभूद् यदा।
देश एष दधौ तदा तव देव! दुर्दमनीयताम्।।६।।
अस्य खड्गतले बलेन परै: शिरो नमितं पुरा।
काममद्य कठोरनीतिपरै: परैर्बत जीयताम्।।७।।
किंतु सभ्यवरा:! समेत्य भवद्भिरेव विचार्यताम्।
एकतामवलम्ब्य कार्यपथे यथावदुदीयताम्।।८।।
वक्तृतां परिहाय सम्प्रति कर्तृतां कलयेम चेत्।
उन्नति: स्वयमावृणीत मनागिदं परिचीयताम्।।९।।
निर्मले यमुनातटे निकटे कदम्बमहीरुहाम्।
अत्र वै विहरन् हरिर्विदधे महाकमनीयताम्।।१०।।
किंतु सैव विहारभूरपहारभूर्जनिताधुना।
हेलयापि दयानिधान! दयादृगत्र विधीयताम्।।११।।
तावकीं करुणामुपेत्य न वेत्त्यसौ हृदि वेदनाम्।
धार्मिकेषु दयावता भवता द्रुतं समुदीयताम्।।१२।।
गीयते निगमागमैर्गुणगौरवं तव सर्वदा।
नाथ! सम्प्रति मञ्जुनाथगिरा कियद् बत गीयताम्।।१३।।
गणनीयानां गुणानाम् अवधि (पराकाष्ठा) सदृश! 'गणनीयं तु गणेयम्’ इत्यमर:। उज्ज्वलायां भायां कान्तौ रते, सत्कार्यकरणेन कीर्तिसम्पादके इत्याशय:। तव भारते भवदीये भारते दृष्टि: स्थाप्यताम्।।१।। विशेषविध:, नानाविधविशेषतानां कारणात् सर्वेभ्यो विशिष्ट:। विभाति जानाति।।२।। कुङ्कुमस्य कश्मीरजस्य केसरा: किञ्जल्का:। सुच्छविं शोभाम्।।४।। परै: अन्यदेशीयै:, अलुण्ठि लुण्ठिता। धनिकतया सत्करणीयताम्।।५।। हे देव! तदा एष तव देश: दुर्दमनीयताम् अजेयतां दधौ।।६।। अद्य परैर्जीयताम्, अद्य वैदेशिका विजयशालिनो भवेयु:।।७।। &&& वक्तृतां वचनव्यापारं प्रति कर्तृतां विहाय, कार्यं प्रति कर्तृभावं चेत् कलयामस्तर्हि उन्नति: स्वयं वरणं कुर्यादित्याशय:।।९।। अपहारस्य विलुण्ठनस्य भूमि:।।११।। असौ देश: तावकीं दयामुपेत्य हृदये वेदनां न वेत्ति अनुभवति।।१२।।
(३३)
अये स्वामिन्! समायातो व्यथातो द्वारि दीनोऽयम्।
कृपापीयूषलेशार्थं पदाब्जे ते निलीनोऽयम्।।१।। अये स्वामिन्.
शतं शाखा विलोक्यन्ते त्वमेवाख्याहि मार्गं ते।
भवे भूय: परिभ्रान्तोऽधुना श्रान्तोऽध्वनीनोऽयम्।।२।। अये.
दया दीनेषु ते ख्याता परिज्ञाता ममापीयम्।
दयालो! हन्त भालो मे तवेदानीमधीनोऽयम्।।३।। अये.
नितान्तं चिन्तया खिन्नो रतिं नो जीवने प्रापम्।
व्यथाभोगेऽपि नोत्तापी प्रभो पापी नवीनोऽयम्।।४।। अये.
तवालोकेन लोकेऽस्मिन् विलोके सुस्थितं सर्वम्।
कियज्जीवेज्जलाधीनो विना तोयेन मीनोऽयम्।।५।। अये.
भवेदिन्द्रोऽनुयाता मे विधाताप्यघ्र्यदाता स्यात्।
क्षणं चेन्मन्यसे चित्तेऽतिदीनो मामकीनोऽयम्।।६।। अये.
लघीयान् कोऽपि पापी ते न चापीक्षापथं गच्छेत्।
कथं न प्रेक्षणं यायात् पुरस्तात् पापपीनोऽयम्।।७।। अये.
प्रतीतिं कोऽपि किं यायाद् दयाया: सागरे देवे।
दयालेशाय चेत् ताम्ये तपस्वी तावकीनोऽयम्।।८।। अये.
प्रभो काचिन्न चिन्ता स्यात् समन्तात् सम्पदं मन्ये।
कृपापाङ्गोऽद्य ते स्वामिन् भवेच्चेत् सम्मुखीनोऽयम्।।९।। अये.
कृपालोकेन ते स्वामिन् सनाथे मञ्जुनाथेऽस्मिन्।
न किं कौतूहलात् कामं कृपां कुर्यात् कुलीनोऽयम्।।१०।। अये.।।
व्यथात: व्यथाया: पीडाया: कारणात्।।१।। इयं दया ममापि परिज्ञाता। मम भाल: भाग्यम्।।३।। जीवने रतिं सुखम् न प्रापम्। व्यथानुभवेऽपि नोत्तापी न उद्विग्र:, अत एवायं पापी नवीन:।।४।। अघ्र्यदाता आदरकर्ता इत्यर्थ: 'अयं मामकीन:।’ इत्येव यदि क्षणकालार्थं निजचेतसि मह्यं स्थानं ददासि।।६।। लघु: पापी कदाचिद् दृष्टिपथं न गच्छेत्, किंतु पापेन पीन:, सोऽपि पुरस्तात् अग्रे एव तिष्ठन् ते प्रेक्षणपथं न गच्छेत्? अपितु गच्छेदेव।।७।। त्वदीयो जनो दयाया लेशार्थमपि चेत् खिद्येत तर्हि ते दयासागरत्वं कथं प्रतीयेत इत्यर्थ:।।८।। त्वत्कृपाकटाक्षेण सनाथे कुलीनजन: अवश्यं कृपां कुर्यादित्यर्थ:।।१०।।
(३४)
गोविन्दमार्तबन्धुमिमं विन्दसे न किम्।
पादारविन्दमस्य सखे! वन्दसे न किम्।।१।। गोविन्द.
प्राप्यापि दीनदु:खहरं राधिकावरम्।
संतप्यसे मुधैव रसे सेवसे न किम्।।२।। गोविन्द.
दुर्दान्तदीर्घदु:खदवासौ भवाटवी।
भूरि भ्रमन्निहापि सखे दूयसे न किम्।।३।। गोविन्द.
खेलत्कलिन्दनन्दिनीतीरे त्रितापहम्।
एतं तमालशालमिहालम्बसे न किम्।।४।। गोविन्द.
संसारमतीसारमिमं प्राप्य पीड्यसे।
एतस्य भङ्गभेषजं निषेवसे न किम्।।५।। गोविन्द.
ताम्यामि ते विलोकनाय नाथ निर्भरम्।
अन्त:स्थितोऽपि भावमिमं बुध्यसे न किम्।।६।। गोविन्द.
हा हन्त तवोपेक्षयैव मे सुदुर्दशा।
प्राणात्ययेऽपि नाथ मम प्रीयसे न किम्।।७।। गोविन्द.
दूरात् प्रपन्नमार्तमिमं मां जहासि चेत्।
नाथ! त्वमेव पश्य प्रणं लङ्घसे न किम्।।८।। गोविन्द.
संसारतापतापितो लोठामि भूतले।
संतापमुषा नाथ दृशा वीक्षसे न किम्।।९।। गोविन्द.
भीतिं भजामि भूरिभयाढ्ये भवाम्बुधौ।
हे नाथ मञ्जुनाथमिमं त्रायसे न किम्।।१०।। गोविन्दमार्त.।।
आर्तानां दु:खितानां बन्धुं सहायकम्। किं न विन्दसे प्राप्नोषि शरणं गच्छसि।।१।। राधिकावरं श्रीकृष्णं प्राप्यापि मुधैव संतप्यसे, रसे भक्तिरसे (मग्र: सन्) किं न सेवसे।।२।। दीर्घं दु:खमेव दवो वनाग्रिर्यस्यां सा।।३।। तमालशालं (वृक्षम्) श्रीकृष्णं किं न आलम्बसे शरणं गच्छसि।।४।। संसाररूपम् अतीसारं तन्नामकं रोगम्। भङ्गस्य नाशस्य भेषजम् औषधम् श्रीकृष्णरूपम्। अतीसारस्य भेषजं 'भङ्ग:’ भङ्गा, (मातुलानी) प्रसिद्धैवेत्यप्यर्थ:।।५।। ताम्यामि दु:खितो भवामि।।६।। तव प्रणो 'य: कोऽप्यात्र्तो मामुपगच्छेत् तमहं रक्षेयम् [सकृदेव प्रपन्नाय तवास्मीति च याचते। अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम।।] इति।।१०।।
(३५)
अयि नाथ कथं रुद्धा दीनेषु दया सेयम्।
अपि किं सुधामयूखाल्लुप्येत सुधा सेयम्?।।१।।
संसारघोरतापात् तीव्रं वितापितोऽहम्।
अयि देव दयासिन्धो मम पश्य दशा सेयम्।।२।।
दु:खं भयं शुचं वा किं किं तवालपेयम्?।
अयि नाथ नोपशाम्येद् दु:खस्य कथा सेयम्?।।३।।
हे नाथ नेत्रकोणो दासेऽपि दीयते चेत्।
चित्तस्य चिराद् रूढा मुच्येत पिपासेयम्।।४।।
निस्साधनावलम्बं परिमुच्य ते पदाब्जम्।
दीनोऽद्य दीनबन्धो वद कुत्र यियासेयम्?।।५।।
इयती कृपा विधेया दासेऽत्र मञ्जुनाथे।
चरितामृतातिरिक्तं किंचिन्न पिपासेयम्।।६।।
सुधामयूखात् चन्द्रात्।।१।। पिपासा इयम्।।४।। यियासेयं यातुमिच्छेयम् सन्नन्ताल्लिङ्।।५।। पिपासेयं पातुमिच्छेयम्, लिङ्।।६।।
(३६)
कृपालो! कालकौटिल्याद् दया दीनेषु लुप्ता किम्।
अजस्रं जाग्रती सेयं मदर्थायैव सुप्ता किम्।।१।।
त्रिलोकीमण्डले भूमन्! दया ते विश्वविख्याता।
महन्मे पातकं दृष्ट्वा घृणातो हन्त गुप्ता किम्।।२।।
श्रुतं किं वा व्रतं किं वा दृढामासक्तिमाधत्ते।
समन्ताद् बन्धमाधातुं मया बीजालिरुप्ता किम्।।३।।
असंख्या: पापिन: पूर्वं त्वयैवोत्तारिता: श्रीमन्।
युगेऽस्मिन् दीनसंतारे दया ते हन्त तृप्ता किम्।।४।।
भवेऽस्मिन् भ्राम्यता भूरि प्रतीतं किं सखे सौख्यम्।
मतिर्नाद्यापि निर्विण्णा ततस्तापोपतप्ता किम्।।५।।
शतांशस्यापि तुल्यो मे पुरा किं पातकी दृष्ट:।
तदा साधारणोद्धाराद् दया ते देव! दृप्ता किम्।।६।।
युगेऽस्मिन् भारतीया गौ: समन्तात् पूरिता दु:खै:।
दयालोस्ते दयादृष्टिं न कर्षेत् तापतप्ता किम्।।७।।
युगेऽमुष्मिन् कदर्याणां समीपे कास्ति लाभाशा।
अये मे चित्त! वृत्तिस्ते मुधा लोभोपलिप्ता किम्।।८।।
प्रशस्तं मार्गमुल्लङ्घ्य प्रयस्यन्त्युत्पथं गन्तुम्।
अमीषां नव्यनेतॄणां मतिर्दैवेन शप्ता किम्।।९।।
पुराणा एव दुर्दान्ता न शेकुश्चेत् सुखं लब्धुम्।
तदा सम्पूर्णवृद्धेषु प्रगल्भेताद्य नप्ता किम्।।१०।।
न मग्रा श्रीपतिध्याने न लग्रा तद्गुणोद्गाने।
मतिस्ते मञ्जुनाथेयं मुधा मत्तावलिप्ता किम्।।११।।
कालस्य कलियुगस्य कौटिल्याद् दौरात्म्यात्। सेयम् दया मत्प्रयोजनसाधनायैव किं सुप्ता?।।१।। शाज्ञानं किं स्यात्, व्रतनियमादिकं वा किं स्यात् मम सांसारिकविषयेषु आसक्तिं स्थापयति। तत: किं बन्धनं कर्तुं मया बीजपङ्क्ते: वाप: कृत:?।।३।। अस्मिन् युगे दीनानामुद्धारात् किं तृप्ता जाता?।।४।। किं सौख्यं प्रतीतम्, अनुभूतम्? अपि तु नानुभूतमित्यर्थ:। अद्यापि तत: संसारात् तापोपतप्ता सती मतिर्न निर्वेदं प्राप्ता?।।५।। साधारणानां सामान्यपातकिनाम् उद्धारादेव दृप्ता गर्विता जाता?।।६।। गौ: भारतीया भूमि:। 'गौरिला कुम्भिनी क्षमा’ इत्यमर:। गोपदेन दयायोग्यत्वातिशय:।।७।। लोभेन लिप्सया उपलिप्ता व्याप्ता।।८।। शासनस्वीकारेऽपि सनातनधर्मिजनतां 'हिन्दूकोडबिल’, 'अस्पृश्यानां मन्दिरप्रवेशादि’ कार्यै: खेदयन्तीति- ऐक्यं दूरीकर्तुं दैवस्यैव सोऽयमभिशाप इत्यर्थ:। प्रशस्तं मार्गं त्यक्त्वा उन्मार्गं गन्तुं प्रयासं कुर्वन्ति।।९।। प्राचीना उच्छृङ्खला वेनादय: यथामनीषितं स्वेच्छां साधयितुं चेत् न प्राभवन् तर्हि (तदा) वृद्धानां पितामहादीनाम् अग्रे नप्ता पौत्र: समर्थो भवेत्? पितामहादिषु असफलेषु सत्सु पौत्र: कथं सफल: स्यात्? अपि तु न इत्याशय:।।१०।। तस्य श्रीपते: गुणानां गाने अवलिप्ता गर्विता।।११।।
श्लोका:
(४८)
दर्पान्धीकृतचेतसोऽखिलजगज्जङ्घालदुस्साहसा:
संरुन्धन्ति वसुन्धरामिह महादैत्या: प्रकृत्या खला:।
तेऽपि त्वद्भु्रकुटीविलासविहता: क्षुभ्यन्ति पादानता:
संसाराभयदानदक्षिण विभो गोविन्द तुभ्यं नम:।।१।।
अखिलजगति जङ्घालम् उत्कृष्टजङ्घायुक्तम् दृढमित्यर्थ: (लच्) दुस्साहसं येषां तेऽपि महादैत्या: भ्रूविलासविहता: अतएव चरणयोरानता: सन्त: क्षोभं गच्छन्ति।।१।।
संदृप्यद्दितिसुतदर्पधर्षिणी सद्-
भक्तानाममृतरसप्रवर्षिणीयम्।
गोविन्द! भ्रुकुटिलता प्रहर्षिणी ते
सम्मोहं दिशतु दयाभिमर्षिणी न:।।२।।
न: अस्मदर्थे दयाभिमर्षिणी दयासंसर्गिणी ते भ्रूलता।।२।।
प्रोल्लासाय दिवौकसां दितिसुतत्रासाय लीलाकथा-
विन्यासाय समस्तभावुकमनस्संविद्विकासाय च।
दिव्याभिस्तनुभि: सदावतरत: सम्बिभ्रत: काश्यपीं
त्रैलोक्याधिपते! चिरं विजयते गोविन्द ते वैभवम्।।३।।
मनस: संवित् चेतना, तस्या उज्जृम्भणाय। तनुभि: मूर्तिभि: (एतद्द्वारा एताभि: सह वा)। काश्यपीं पृथ्वीम्।।३।।
विश्वं चैतदशेषमेव किमपि भ्रूवल्लरीवेल्लना-
न्नानाधापि विचेष्टते विधिमुखैर्देवै: कृतप्रश्रय:।
भक्तानामभयाय योऽवतरति प्रायो धरित्रीतले
गोविन्दाय सदा समस्तजगदानन्दाय तुभ्यं नम:।।४।।
यस्य किंचिद् भ्रूलतासंचलनात् अशेषमेव एतद् विश्वं नानाप्रकारै: चेष्टां करोति। य: ब्रह्मादिभिर्देवै: कृताश्रय:।।४।।
यत्कोपाक्तदृगञ्चलेन सुमहादृप्ता: सुरेशादय-
श्चर्यां वैनयिकीं पुरा रुचिरया रीत्या समध्यापिता:।
तस्याग्रे तव वैभवस्तवभरप्रस्तावनासाहसं
संत्यज्य क्षणमानमामि चरणे कर्णे गुणान् वर्तये।।५।।
यस्य तव कोपाक्तेन दृक्प्रान्तेन कत्र्रा महागर्विष्ठा इन्द्रादय: सुन्दररीत्या (न तु क्रोधप्रकाशनेन) विनयसम्बन्धिनीं चर्याम् विनीतचर्यामिति यावत् शिक्षिता:। तस्य तव अग्रे ते वैभवस्तुतिप्रपञ्चप्रस्तावनारूपं साहसं त्यक्त्वा तव चरणे आनतो भवामि तव गुणांश्च कर्णे आवर्तयामि।।५।।
येनेदं जगदिच्छया विरचितं येनेदमापूरितं
येनेदं रघुरामचन्द्रसदृशैर्भूपै: सनाथीकृतम्।
लोकानां स्थितये सतां विधृतये योऽवातरत् स स्वयं
सत्सेवोचितपादपद्मविभवो देवो जगद् रक्षतात्।।६।।
येन देवेन भगवता रघुरामसदृशैर्भूपालैर्जगत् इदं सनाथीकृतं नाथवद् विहितम्। सतां विधृतये धारणाय य: स्वयमवातरत् स:।।६।।
दृप्यद्धिरण्यकशिपोरुपकण्ठसीम्रि
संदर्शितोग्रनखरप्रखरक्रमस्य।
गोविन्द ते धृतवतो नरसिंहमूर्तिं
तेजोमयं किमपि वैभवमाविरस्तु।।७।।
उपकण्ठसीम्नि कण्ठसमीपदेशे (उरसि) संदर्शित: प्रकाशित: उग्रनखानां प्रखर: क्रम: येन तस्य। नरसिंहरूपं धृतवतस्ते तेजोमयं वैभवं प्रकाशताम्।।७।।
नितान्तं गूढानां निगमवचनानामनुगमं
न मन्दोऽहं जाने बहुविधविधानेषु धृतधी:।
चतुर्दिक् चिन्ताभिव्र्यपगतसुखं यत्नविमुखं
मनो मे गोविन्दे सकलसुखकन्देऽभिरमताम्।।८।।
अनुगमं लक्ष्येषु समन्वयम्। बहुविधविधानेषु नानाविधेषु विधिशाेषु धृतधी: दत्तमति:।।८।।
त्वदाधारादाप्ता किमपि कविता तत्परिचया-
दवाचां च प्राचां वचनरचना चाप्यनुकृता।
अये मे वाग्ब्रह्मन्निदमनुनये त्वन्तसमये
दयालुर्गोविन्दो धृतदृगरविन्दो मयि भवेत्।।९।।
अवाचां नवीनानाम्। अनुनये प्रार्थये। धृतदृगरविन्द: अर्थात् गोविन्दो मयि दयां कृत्वा दृष्टिलेशं दद्यादिति भाव:।।९।।