(४९)
उपसंहार:
संस्कृतभाषा
ययैवादौ सृष्टा नरजगति सभ्यत्वसरणि-
र्यदीयं साम्राज्यं क्वचन समये प्राज्यमभवत्।
यतोऽमू: सम्भूता जगदुदरसूता नरगिरो
गिरासौ गैर्वाणी जयति वरवाणीपरिवृढा।।१।।
सभ्यत्वसरणि: सृष्टा, सभ्यतामार्ग आविष्कृत:। जगदुदरसूता: जगन्मध्ये उत्पन्ना अमू: नरगिरो मानवानां भाषा यतो यस्या: सकाशादुत्पन्ना:।।१।।
प्रशस्यायां यस्यां स किल समभूद् दर्शनचयो
न कस्यांचिद् वाचि प्रभवति तुला यस्य जगति।
सवित्री शास्त्राणामहह महयित्री मतिमतां
सतामाविष्कत्र्री मनसि रमतां सा सुरगवी।।२।।
मतिमतां कौटिल्यार्थशाादिप्रणेतॄणां लोके सम्मानयित्री। नीत्याद्युपदेशेन सतां सज्जनानाम् उत्पादयित्री।।२।।
पुरा ब्रह्मा यस्यां सविधि वरिवस्यामरचयत्
ततो दिव्यज्ञानैर्मुनिभिरभिधानैरपि नुता।
पुराणोद्यद्व्यासोदितमतिविलासोत्सवभृता
सुराणां सा भाषा मतिमदभिलाषान् सफलयेत्।।३।।
वरिवस्यां सामादिवेदैरुपासनामरचयत्। मुनिभि: कर्तृभि: अभिधानै: नानानामभि स्तुता। पुराणेषु उद्यन्तो ये व्यासोदिता मतिविलासा: तज्जन्यैरुत्सवै: पूर्णा।।३।।
यया लोके वेदा: परिकलितभेदा: प्रकटता:
स्मृतीनां धात्री या प्रसवनकरी योपनिषदाम्।
समस्तत्रैलोक्ये ह्युपदिशति याऽऽध्यात्मिकपथं
स्फुरद्दिव्यज्योतिर्जगति जयतान्निर्जरगिरा।।४।।
परिकलितभेदा: ऋ ग्यजुरादिभेदसहिता:। या उपनिषदाम्।।४।।
विराजद्वाणीनामनवधिकवीनां रचनया
ययाकस्माद्विस्मापितमिदमहो शिक्षितजगत्।
चमत्काराढ्यानां सरसवचसामादिजननी
विनीयान्न: कामानधिकृतगवी संस्कृतगवी।।५।।
विराजन्ती शोभमाना वाणी येषां तेषाम्। शिक्षितजगत् सर्वेऽपि शिक्षिता लोका इत्यर्थ:। अधिकृता सर्वभाषासु श्रेष्ठाधिकारधारिणी गै: भाषा।।५।।
शुभार्थे शस्या या विबुधवरिवस्यासमुचिता
प्रशस्याया यस्या: पदमपि सुखं सौति जगताम्।
निधात्री धर्माणां सकलसुविधात्री दिविषदा-
मियं शर्वाणीव स्फुरतु सुरवाणी मनसि मे।।६।।
मङ्गलारम्भे 'सर्वमङ्गलमाङ्गल्येति’ शर्वाणी शस्या। परलोकादिषु शुभप्राप्त्यर्थं सुरवाण्यपि शस्या।।६।।
मौलिर्वेदोऽस्ति यस्या मुखमुपनिषद: कन्धरा धर्मशास्त्रं
वक्षो वेदान्तविद्या कलय कटितटं दर्शनानीतराणि।
जङ्घान्ये शासंघाश्चरणमथ नयो मण्डनं काव्यमेतत्
प्रत्यक्षं वीक्षसे चेत् कथमहह मृता सा हि गीर्वाणवाणी।।७।।
इतराणि दर्शनानि कटितटं कलय। नयो नीतिशास्त्रं चरणम्। प्रत्यक्षं मूर्तिदर्शनेऽपि वैदेशिका: कथमिमां मृतभाषेति व्यपदिशन्तीत्याशय:।।७।।
स्फुरन्निगमवाङ्मयै: स्फुटकिरीटशोभावती
पुराणरशनावती स्मृतिमनोज्ञमालावती।
इयं मुनिमनीषिणां हृदि सुखासने भास्वती
समस्तसुषमावती सुरसरस्वती सेव्यताम्।।८।।
निगमवाङ्मयै: वैदिकसाहित्येन। अष्टादशपुराणै: रशनावती। भास्वती देदीप्यमाना।।८।।
स्फुरन्निगमभास्वती वरविवेकिविद्वत्कला-
विलाससुषमावती सुमनसां सुखं तन्वती।
सनातनसुनीतिभृद्धृदयमन्दिरे जाग्रती
जयत्यमरभारती जगति सर्वधामोज्ज्वला।।९।।
विद्वत्कलाविलासेन सुषमावती। सुनीतिभृतां विदुषां हृदयमन्दिरे। सुमनसां देवानां पण्डितानां च। अमरभारती सरस्वती संस्कृतवाणी च।।९।।
चिरममरतां मत्र्यानां या तनोति निषेविता
सकलजगतामीशेनापि स्फुटं मुकुटे धृता।
जयति जगतीकल्याणार्थे दृढं दधती व्रतं
नवरसवती दिव्या स्रोतस्वती सुरभारती।।१०।।
दिव्या स्रोतस्वती गङ्गा। मत्र्यानाममरतासम्पादनादि उभयत्र समानम्। गङ्गा एकरसवती, सुरभारती तु शृङ्गारादिनवरसवतीति विशेष:।।१०।।
पदपरिगुम्फो वर्णमैत्रीमनुयाति यत्र
भाति जगज्जैत्री भावकल्पनकला तुरी
दासा इव वाचमनुगच्छन्त्यनुप्रासा यत्र
प्रमदविकासाद् याति मानसीयमातुरी।
गैर्वाणीगुणैरेवात्र सूयते यश:पटोऽपि
शुष्कतार्किकाणां तिरोगच्छति वेमा तुरी
मानसमुपेतया यया चामृतमाचामन्ति
वाचामुपगुम्फनाय सा चातुरी चातुरी।।११।।
भावानां या कल्पनकला सैव तुरी तूलिका लेखनीति यावत्। प्रमोदस्य विकासात् इयं मानसी आतुरी मनस: आतुरता याति। गुणै: तन्तुभि: पट: सूयते उत्पाद्यते, इह तु जगत्प्रसिद्धै: संस्कृतभाषाया गुणै: यश:पट: सूयते। अतएव तार्किकाणां मते पटनिर्माणस्य साधनभूतास्तुरीवेमाद्या इह तिरोहिता भवन्ति। मानसमुपेतया यया चातुर्या अमृतमास्वादयन्ति।।११।।
तिमिरमपास्य ययैवादौ ज्ञानमाविष्कृतं
शासनमुपाहितं ययैव विबुधोत्सवाय
यस्या: सेवनेन कविलोका यान्त्यमरपदं
यामिह वदन्ति प्रभवित्रीमात्मशोधनाय।
वासौ सर्वमङ्गला न केवलमिहैव लोके
सेयं दिव्यलोकेष्वपि भूरिभव्यवैभवाय
लोकद्वयकल्याणी शुभावहाथ शर्वाणीव
सेयं सुरवाणी जनिं लेभे जगत: शिवाय।।१२।।
शर्वाणी पार्वती इव सुरवाणी, ततश्च सर्वमुभयसमन्वयि। विबुधानां देवानां पंडितानां च उत्सवाय शासनं दुष्टान् दमयित्वा लोकनियमनं यया भगवत्या कृतम्, शासनं शास्त्रं यया देववाण्या स्थापितम्। आत्मशोधनाय अन्त:करणपावनाय। सर्वमङ्गला तन्नाम्नी भवगती, सर्वाणि मङ्गलानि यस्या: सकाशात्सा वाणी। स्पष्टमन्यत्।।१२।।
पण्डितप्रशस्यपरिणद्धपदगुम्फवती
चित्तचमत्कारिलसदर्थतो यशस्वती
नृत्यद्वरवाणीमणिनूपुरनिनादनिभा
श्रवणमुपागतैव मह्यते महस्वती।
मञ्जुनाथ! मायामृगतृष्णामोहमूढानपि
प्राणिन: पुनाति या हि पावनपयस्वती
भासते सभासु समुल्लासितविलासरसा
गोविन्दानुरागरसात् सरसा सरस्वती।।१३।।
नृत्यद. सरस्वतीनूपुरनादवत् मनोहरा या श्रुतमात्रैव अभिनन्द्यते। महस्वती तेजस्वती। मायारूपा या मृगतृष्णा तस्या मोहेन मूढानपि। वाणी गोविन्दप्रेमरसादेव सरसा सती सभासु प्रशस्या भवतीत्यर्थ:।।१३।।
गीयतां गृहे गृहेऽद्य गुण्या गुणगीतिर्हरे-
र्नित्यं नगरेषु प्राच्यसभ्यता ह्युदीयताम्
दीयतां जनेन पुण्यसेवायामजस्रं मनो
धार्मिकजनोऽद्य विद्यावैभवे प्रचीयताम्।
चीयतां चतुर्दिग् धनधान्यधामलक्ष्मीरियं
भूरि भारतीयं यश: सर्वतो निधीयताम्
धीयतां मनस्सु देववाणी तत्त्वविज्ञैर्नरै:
काममनभिज्ञैरियं जातु प्रविगीयताम्।।१४।।
भारतस्य नगरेषु साम्प्रतं प्राच्यसभ्यता भारतीयसभ्यता उदीयताम्, संसर्गजा पाश्चात्यसभ्यता मा। प्राचीयतां वर्द्धताम्। भारतीयं भारतवर्षसम्बन्धि। निधीयतां स्थाप्यतां जनै:। कामं यथेच्छम्। विगीयतां निन्द्यताम्।।१४।।
इह सकलभाषाजन्मदा का? भास्वती सुरभारती
वद, वेदजननी का? जगत्योजस्वती सुरभारती।
अनुपमसरससाहित्यधनिका का? सती सुरभारती
वद, भारतानुगता भवेत् का भारती? सुरभारती।।१५।।
यावन्मात्रभाषाणां जन्मदात्री का? (प्रश्र:)। सुरभारती (उत्तरम्)। एवमग्रेऽपि। साहित्येन धनिका का? भारतस्य अनुरूपा भाषा का? उत्तरम्- सुरभारती। यत इदं भारतम्, सा भारती।।१५।।
नित्यं निजसेवकानाममरपदं ददाति
मानसं पुनाति या वै महितमहस्वती
लोकसमुद्धारायैव यद्धाराप्रवाहो भाति
पापपरिहारार्थे या प्रथितयशस्वती।
आदिजननीति जनाद् गौरवमुपेता या च
विष्णुपदस्पर्शोचितपावनपयस्वती
देशपरिपावनाय बाढमियमोजस्वती
निर्जरसरस्वतीव निर्जरसरस्वती।।१६।।
निर्जरनदी गङ्गा इव निर्जरसरस्वती संस्कृतभाषा। महितमहस्वती पूजनीयतेज:शालिनी। गङ्गाया धाराया: प्रवाह:, अमरवाण्या अविच्छिन्न: प्रसार: (सुव्यवस्थितत्वेन निस्संदेहतया मध्येऽवरोधाभावात्) दिव्यप्रभावतया आदिजननी (गङ्गा), भाषाणामुत्पादिका (संस्कृतभाषा)। गङ्गा विष्णुपदोद्भूतैव, संस्कृतभाषा अध्यात्मज्ञानप्रदतया भगवच्चरणप्रापिका। अन्यदुभयत्रापि स्पष्टम्।।१६।।
वेदा:
सर्गादौ निसर्गात्स्वयमेव प्रादुरासन् पुरा
शब्दब्रह्मरूपा येऽभिरूपा विनिगद्यन्ताम्
मानवसमाजे यै: प्रबोधज्योतिराविष्कृतं
सभ्यताप्रणालीं येन२ जग्मुर्निरवद्यं ताम्।
माहात्म्येन येषामार्यजातेर्मौलिरुन्नतोऽस्ति
तन्मे विनयोऽस्ति बुधैरेते३ प्रतिपद्यन्ताम्
दूरीकृतदारुणदुरन्तप रखेदा इमे
वन्दनीयवेदा भवभेदायोपपद्यन्ताम्४।।१७।।
१. सुन्दरा:। २. ज्ञानज्योतिषा तां सभ्यतापद्धतिं निरवद्यं निर्दोषं यथा स्यात् तथा जग्मु: (मानवा:)। ३. वेदा: प्रतिपद्यन्तां शरणीक्रियन्ताम्। ४. भवस्य संसरणस्य भङ्गाय।।१७।।
कल्पादौ स्फुरतां य एष जगतां जीवातवे१ जज्ञिवान्
भूतानां भविकाय२ य: प्रथितवांस्तांस्तान् विधिप्रस्तवान्।
विज्ञानोच्चयवानशेषशुभवान् विद्याभिरुद्द्योतवान्
संवित्सौभगवान्३ स वेदभगवान् भूय: समुज्जृम्भताम्।।१८।।
चञ्चन्तोऽतिचिरं४ चतुर्मुखमुखाच्चित्रं चतुर्दिक्षु ये
चातुर्वण्र्यमिदं चतुर्युगचये५ संचारयन्तेऽन्वहम्।
चित्ते चिन्तयतां चतुर्भुजभुजावद्६ ये चतुर्वर्गदा
वेदांस्तांश्चतुरो विचारचतुरो नार्चेत कश्चेतसा?।।१९।।
यैरादौ भुवनेषु पावनतमं तज्ज्योतिराविष्कृतं
यस्याग्रे७ स्वयमेव सर्वजगतां मूर्द्धा नतो जायते।
सर्वस्यौषधय: प्रबोधनिधय: पीयूषपाथोधय८-
स्ते वेदा: सकलाभिनन्द्यविधय:९ प्रोद्यन्तु न: सिद्धय:१०।।२०।।
मखे येषां मन्त्रैर्विधिविहित तन्त्रैर्नियमिता:११
सुरेशाद्या: सर्वे त्वरितमुपतिष्ठन्त्यभिमुखम्।
पुनन्तो विश्वानि प्रतिपदमवन्तो जगदिदं
क्षमन्तां ते वेदा दुरितभयभेदाय१२ भवताम्।।२१।।
छन्द: पादौ तु यस्या:, नयनमकलुषं ज्योतिषां, घ्राणमस्या:
शिक्षा, कल्पस्तु हस्तौ, मुखमिदमुदितं विस्तृतं शब्दशास्त्रम्।
यस्या: श्रोत्रं निरुक्तम्, त्रिभुवनमभवद् भासितं यद्विभासा
श्रीविष्णोर्वेदनाम्नी जयति विजयजस्रग्धरा१३ मूर्तिरेषा।।२२।।
१. जीवनौषधाय जातवान्। २. प्राणिनां कल्याणाय यो विधिशााणां प्रस्तवान् प्रकरणानि प्रथितवान् प्रख्यापितवान्। ३. विज्ञानसौभाग्यशाली। ४. ब्रह्मणो मुखान्निस्सृत्य चञ्चन्त: प्रकाशमाना:। ५. कृतयुगद्वापरादिषु ये चातुर्वण्र्यं ब्राह्मणक्षत्रियादिजातिसमुदायम् संचारयन्ति प्रचारयन्ति। ६. चतुर्भुजस्य विष्णो: चतस्र: भुजा: यथा चिन्तयतां (स्मरणकतर्ॄणाम्) धर्मार्थादिपुरुषार्थचतुष्टयदास्तथा इमेऽपीत्यर्थ:। ७. वैदिकविज्ञानज्योतिष:। ८. सागरा:। ९. सकलैरभिनन्दनीयानि विधिशास्त्राणि येषां ते। १०. अस्माकं सिद्धिरूपा: प्रोद्यन्तु प्रकृष्टमुदयं लभन्ताम्।। ११. विधिविहितानि तन्त्राणि उपाया येषु तै: (मन्त्रै:)। १२. पापभयदूरीकरणाय क्षमन्तां समर्था भवन्तु।। १३. विजयजां (विजयलब्धाम्) स्रजं धारयति विज्ञानविषये त्रिभुवने सर्वेषां विजेत्री।।१९-२२।।
दर्शनानि
मानवसमाजे सत्यमार्गमुपादिक्षन् यानि
ज्योतिर्जननानि जनजीवने विमृश्यन्ताम्
मानुषातिशायिनो विचारान् विमृशन्तो यत्र
चित्रमुपयन्तो बुधा वैदेशिका: स्पृश्यन्ताम्।
आर्यसभ्यताया: स्फुरद्विजयपताकासमा-
न्यतुलितराकाभाणि परमं प्रकृष्यन्ताम्
तत्त्वानां विमर्शनानि गूढतलस्पर्शनानि
पुण्यपरामर्शनानि दर्शनानि दृश्यन्ताम्।।२३।।
जनजीवने जनानां जीवनचर्यायां प्रकाशजनकानि। यत्र येषां दर्शनानां विषये मनुष्यबुद्धेरतिशायिन: अलौकिकान् विचारान् विमृशन्त: विचारयन्त: चित्रमाश्चर्यमुपगच्छन्त: वैदेशिका: मैक्समूलरादयो बुधा: पंडिता: स्पृश्यन्तां परिचीयन्ताम्। अतुलिता राकाया: पूर्णिमाया: भा इव भा येषां तानि। पुण्य: परामर्शो येषां तानि।।२३।।
प्रसङ्गत: 'काशी’
एकत: सभासु यत्र भाति सुरभारतीय-
मन्यतस्तु सेयं सुरतटिनी विराजते
एकतोऽन्नपूर्णाविश्वनाथवैभवं विभाति
परतोऽथ यत्र विद्यावैभवं प्रकाशते।
चित्रं चिरकालादैतिहासिकमहत्त्वभृता
विद्वद्गणसंवृता जगत्सु निकषायते
नूनमियमेकत्रैव राशीकृतपुण्यत्रया
विप्रै: सुप्रकाशीकृता काशी भूरि भासते।।२४।।
निकषायते पाण्डित्यस्वर्णपरीक्षणाय निकष इवाचरति।।२४।।
प्रार्थना
न्यस्यते न वल्गद्वर्णमैत्रीमृते किंचित् पदं
ज्योत्स्नाजालजैत्री यत्र कान्ति: कमनीयासौ
प्रोल्लसद्विलासा: स्वयं सज्जन्त्यनुप्रासा यत्र
चित्तसमुल्लासानुगा शैली मननीयासौ।
श्रीगोविन्दचारुचरणारविन्दचर्चा वशा-
दर्चामधिगम्य माननीयैर्महनीयासौ
प्रस्फुरत्प्रसादा सहकारमञ्जुमञ्जरीव
पुण्या पद्यपञ्जरी रसज्ञै रसनीयासौ।।२५।।
यत्र पद्यपञ्जर्याम् वर्णमैत्रीं विना किमपि पदं न न्यस्यते। ज्योत्स्नासमूहतोऽप्यधिका यत्र कान्ति: (प्रकाश:, प्रयुज्यमानपदेषु लोकोत्तरशोभारूपमौज्ज्वल्यं च)। गोविन्दचरणचर्चावशाद् अस्यां पूज्यभावं प्राप्य महापुरुषै: इयं पञ्जरी आदरणीया। प्रस्फुरन् प्रसाद: लोकोल्लासनम् तन्नामक: काव्यगुणश्च यस्यामेवंविधा पद्यपञ्जरी (समूह:), आम्रमञ्जरीव रसनीया। रसज्ञैरित्यनेन आम्रमञ्जर्या यथा भ्रमरादय: केचिदेव रसवेदनाधिकारिणस्तथा अस्या अपि केचिद्विरला एव मार्मिका इति सूच्यते।।२५।।
* * *
मुक्तककाव्यानि
प्रकृतिपर्यवेक्षणम्
(सुजन-दुर्जनसङ्कीर्तनम्)
वहते न कलङ्कलङ्घनं सहते न प्रतिपक्षसंक्षयम्।
सुजनो विधुनोति तां श्रियं शशिनोऽप्येष नितान्तकान्तिमान्।।१।।
परित: पिहितोऽपि दुर्जनै: सुजनस्तान् स्वगुणैरनर्घयेत्।
अपि निम्बकदम्बनिह्नुत: सकलांश्चन्दनयेद्धि चन्दन:।।२।।
न विमुञ्चति दुर्जनो निजामिह निर्हेतुकवैरकारिताम्।
सुजनोऽपि च नो विमुञ्चते निजनिर्मायपरोपकारिताम्।।३।।
सुजनो हि परीक्षणे विपत्प्रतिपन्नोऽपि तनोति पुण्यताम्।
निकषे कषितं च निर्दयं कनकं काञ्चन भासमर्पयेत्।।४।।
अधिकाधिकमुज्ज्वलं वहन् ननु रूपं भवति प्रिय: सताम्।
मुकुर: किल भूतिमर्दित: सुजनो दुर्जनदुर्वचोऽर्दित:।।५।।
कटुकूटवचोनिपीडित: सुजनो दुर्नहनै: सुदुर्जनै:।
न भिनत्ति निसर्गसौरभं घनघृष्टो हरिचन्दनो यथा।।६।।
प्रियमावहते हि विच्छलं सुजनो हन्त न लक्षितोऽपि सन्।
मधुरं रसमुद्गिरत्यसौ तिमिरेऽप्यारसिता हि शर्करा।।७।।
परित: परितापितोऽपि सन् सुजनो नोज्झति शीलमात्मन:।
रुचिमावहते समुज्ज्वलां कमनीय: कनकाञ्चलो यथा।।८।।
श्लो. १. कलङ्कात् अपवादात् लङ्घनं तिरस्कारम्। प्रतिपक्षात् शत्रो: संक्षयं हानिम्। चन्द्रपक्षे- प्रतिपक्षं प्रत्येकपक्षे संक्षयं कलाहानिम्।
२. अनर्घयेत् निर्दोषान् कुर्यात्।
४. काञ्चन भासम्-अनिर्वचनीयां कान्तिम्। सुवर्णपक्षे-सुवर्णकान्तिम्।
५. दुर्नहनै:-दुर्दमै:।
६. रुचिम्-उत्तमामिच्छाम्। कनकपक्षे-कान्तिम्। कनकाञ्चल:-कनकखण्ड:।
अपि दुर्जनजालकीलित: सुजनोऽनक्ति महत्त्वमात्मन:।
अशुचौ भवनेऽपि शारद: शशभृद् व्यञ्जयते निजां रुचम्।।९।।
परिताम्यति नो, न गर्हते, वहते नाऽपि रुषं, न बाधते।
अपि दुर्जनदुर्विचेष्टितै: सुजन: स्वे हृदये हृणीयते।।१०।।
('वर्णिका’ रूपेण व्रजभाषाप्रसिद्धेन 'कुण्डलिया’ छन्दसा)
सज्जनमैत्री सन्ततं स्नेहभरं पुष्णाति।
क्रमशो वृद्धिमुपागता दोषानपि मुष्णाति।।
दोषानपि मुष्णाति निर्गुणे गुणमाधत्ते।
निर्वेदं निर्वास्य मनसि सम्मोदं दत्ते।
सत्कार्येषूत्साहवद्र्धिनी जडताजैत्री।
स्नेहसार-विश्रम्भसन्तता सज्जनमैत्री।।११।।
दुर्जनमैत्री पूर्वत: प्रीतिं प्रकटयतीव।
स्वार्थविभङ्गे कुत्रचित् स्नेहं विघटयतीव।।
स्नेहं विघटयतीव बहि: सद्भावं भजते।
मुखमात्रे मधुरत्वमेति हृदि कल्मषमयते।।
असमक्षे मित्रस्य गुह्यमपवादानेत्री।
स्वार्थमात्रसाराऽस्ति सखेऽसौ दुर्जनमैत्री।।१२।।
१. अनक्ति-प्रकटयति।
२. हृणीयते-लज्जते।
* * *
समस्यापूर्तय:
यत् प्रशस्तिरपहस्तिताशुभा वस्तुतस्तुदति विघ्रविस्तरम्।
तत्समस्तशुभकर्मसु स्तुतं वस्तु हस्तिमुखमस्तु न: श्रियै।।१।।
न नरता भविता मुखवैकृतान्न हरितापि च पुच्छविनाकृता।
उभयतो विपरीतविचेष्टितो नरहरिर्न हरिर्न नर: स्मृत:।।२।।
विक्राम्यन्नपि वीरेषु कूटादुद्विजते१ बली।
दन्तिनामन्त्रहृद् यन्त्रमृगात्२ सिंह: पलायते।।३।।
देशे गोवंशनाशस्य प्रचलेच्चेदयं क्रम:।
कालेन कियतापि स्यात् तक्रं शक्रस्य दुर्लभम्।।४।।
हिमपातेन वातेन शीते नीते प्रचण्डताम्।
तिष्ठतां हम्र्यपृष्ठेऽस्मिन् चित्रं चन्द्रायते रवि:।।५।।
विद्युद्दीपकृतोद्द्योतं पोतं वीक्ष्य पयोनिधौ।
विशोकैर्विविदे लोकै: समुद्रादग्रिरुत्थित:।।६।।
प्रावृषि प्रेक्ष्यते प्रायो न चन्द्र इति मन्महे।
द्वादशस्वपि मासेषु तिथयो दश पूर्णिमा:।।७।।
मासद्वयवियोगे ते शशाङ्कमुखि! वीक्षिता:।
द्वादशस्वपि मासेषु तिथयो दश पूर्णिमा:।।८।।
ग्रीष्मावकाशमुल्लङ्व्य३ यान्ति चन्द्राननां विना।
द्वादशस्वपि मासेषु तिथयो दश पूर्णिमा:।।९।।
१. कूटम् = त्रह्वठ्ठश्चश2स्रद्गह्म्
२. यन्त्रमृगात् = क्रद्बद्घद्यद्ग रूपान्मृगात्।
३. ग्रीष्मावकाश:=। अध्यापनकार्यात् प्रवसत:, केवलं ग्रीष्मावकाशे स्वगृहात् प्रत्यागच्छत: कस्यचिदुक्तिरियम्।
देशे पूर्वा पत्नी, वृता युरोपेऽपरा, तत: किं स्यात्।
पाल्यं पाणिनिवचनं, विप्रतिषेधे परं कार्यम्।।१०।।
चिरस्य वैरी मम चन्दिरोऽसौ सम्यग् जितो भूमिकया तवैव।
इति प्रसन्ना तरुणि! त्वदास्यचन्द्रोदये नृत्यति चक्रवाकी।।११।।
निशम्य नूनं भवतोऽभियानं भूमीन्द्रधौरेय! विपक्षलक्ष्मी:।
कथं न वित्रस्यतु? किं वराकी चन्द्रोदये नृत्यति चक्रवाकी।।१२।।
मान्य: समाजे१ न कथं महौजा: स्वामी दयानन्दमहोदयोऽयम्।
येनार्पित: प्रोज्झितपत्रलेखे सिन्दूरबिन्दुर्विधवाललाटे।।१४।।
करसरोरुहशायि-विपाण्डुरच्छविमुखेन्दुरलं बत नि:श्वसन्।
नयति धर्मदिनं विरही स दृक्कुवलयं कलयन् जलयन्त्रवत्।।१५।।
आचञ्चत्सुमनोऽञ्चितस्य२ विलसत्सुग्रीवमुन्मीलतो
लोकानुत्सवकारिणो विभवतोलङ्कायसङ्काशिन:।
नित्यं पुण्यजनानुषङ्गसुखिनो वोढु: सुनीलश्रियां
श्रीरामस्य, दशाननस्य, कबरीभारस्य चैक: क्रम:।।१६।।
गङ्गातीरे प्रहेष्यन्नपरिचितपुरस्थानकं कञ्चिदारात्
कश्चिद् बी. ए.- पदाढ्य: क्रमसममलिखन्मार्गगस्थानचित्रम्।
तद् दत्त्वा तस्य हस्ते क्रममिममभवद् बोधयन् मार्गमेनं
सूच्यग्रे कूपषट्कं तदुपरि नगरी तत्र गङ्गाप्रवाह:।।१७।।
अपि पिशुन! यथेच्छं चापलं दर्शयेस्त्वं
न किल तव कुचक्रे मादृशां धर्षणा स्यात्।
१. 'आर्यसमाजे’ विधवानां विवाहो विहित:।
२. श्रीरामस्य, दशाननस्य, कबरीभारस्य च पक्षे विशेषणानि श्लेषविधयाऽन्वयन्ते। श्रीराम:-चञ्चद्भिर्देवैरञ्चित:, सुग्रीवसख:, लोकानन्दक:, लङ्काया अभिषेणक:, सज्जनसेवित:, नल-नीलादिवानरै: शोभमान:। दशानन:- कम्पमानैर्देवैर्भियाऽञ्चित:, अनेकाभिग्र्रीवाभिर्विलसन् लोकानां खेदकर:, लङ्कापुरीसमीपस्थ:, पुण्यजनै: (रक्षोभि:) अनुगत:, सुनीलादिपरिजनै: सेव्य:। कबरीभार:-सुन्दरै: कुसुमै: शृङ्गारित: ग्रीवायां विलसन्, उत्सवकर: विभवेन कायस्यालङ्कारक: सौभाग्यशालिभि: सेव्य:, कृष्णवर्णशोभाधर:।
समयगतिमहिम्ना दुर्बलत्वेऽपि किं वा
मशकदशनमध्ये दन्तिन: सञ्चरन्ति।।१८।।
नृपतिभवनघूकैरेतकैर्जञ्जपूकै-
र्नवनयनिगृहीतान् देशनेतॄन्१ निरीक्ष्य।
सुचिरमुचितवक्ता वक्तुमीशीत नूनं
मशकदशनमध्ये दन्तिन: सञ्चरन्ति।।१९।।*
गुरुभिरभिहतोऽपि प्रेमतो नाऽपठस्त्वं
पठनसमयमेनं क्रीडयाऽयापयस्त्वम्।
पठितशिशुपरीक्षाऽऽसन्दिकाऽऽसादिनस्ते
किमिह मुखविकारैरद्य दैन्यावतारै:।।२०।।
घोरश्यामाङ्गभासामथ दुरितकृतश्यामताऽऽधिक्यधाम्नां
दैत्यानां देहवर्णप्रतिफलनमिलत्कज्जलश्यामलत्वै:।
शत्रूणां पापकृष्णक्षतजकवलनान्नीतनैल्याद् दुरन्तै-
र्दन्तैर्जम्बूफलाभै: परिहरतु भयं पातु मां भद्रकाली।।२१।।
पिता पञ्चास्यो यं स्ववसुतनुभि: सार्द्धमय चा-
ऽऽष्ट धात्र्योऽथ भ्राता रसमितमुखो यं हि ददृशु:।
यमेनं गङ्गा भैरवयुगलमैक्षन्त, तदयं
गणेशो न: पायान्नवतिनयनै: पीवरतनु:।।२२।।
बाढं मार्दववानपि प्रणयवान् लोके समाजग्मिवान्
न च्छायां क्षणमाप्तवानिह दिवा दीव्यन् कलावानिव।
१. भारतस्वातन्त्र्यसमरसमये वैदेशिकानां पिशुनै: कृतानामपचाराणां कारणान्निगडितान् गान्धिप्रमुखान् देशनेतॄनुद्दिश्य।
* यदा अहं बाल आसं, तदा मदीये जन्मस्थले तिरुवारूर्-नाम्नि जगन्नाथ इति युवा आन्ध्रदेशादागतो वश्यवाक् कवि: प्रायोऽस्मद्गृह एव वसन्नासीत्। 'अष्टावधाने’ कुशल: स कदाचिदष्टावधानप्रदर्शने समस्यामेतामेव दत्त:, एतमेव चाशयमादाय पूरितवान् श्लोकम्- ''सकलसुकरवाक्या देशसंरक्षणार्थे करधृतवरदीक्षा गान्धिमुख्या महान्त:। कुटिलहृदयहूणाधीशराज्याभिधाने मशकदशनमध्ये दन्तिन: सञ्चरन्ति।।’’ इति।। डॉ. वेङ्कट-राघवन् महाभागै: टिप्पणी प्रकाशिता ''संस्कृतप्रतिभा’’ या स्तस्मिन्नङ्के तत्सम्पादकत्वेन यस्मिन् 'समस्यासन्दोह’ शीर्षकेण पद्यानीमानि प्रकाशमभजन्।
रात्रौ निद्रितवान् कथञ्चन सुखस्वप्नान् हि यान् दृष्टवान्
प्रातर्लोपितवानिमान् कुहकवान् भास्वान्नभस्वानिव।।२३।।
नव्ये युगेऽत्र परित: प्रसृते प्रजानां
तन्त्रे विलोपितपुरातनराजतन्त्रे।
हा हन्त! भारतनभोऽङ्गणमध्यदेशे
नक्षत्रराजिरिव राजति राजप–ि:।।२४।।
चित्रं चमत्कारकचारुचर्यश्चोलेन्द्रचूडासु चरेच्चिराय।
चिराच्चिरत्नैरपि चिन्त्यमानश्चकास्ति चेच्चेतसि चन्द्रचूड:।।२५।।
सभ्यै: सञ्चितसौहृद: सुकृतिनां सम्यक् पदं सम्पद:
सर्वेषामपि सांयुगीनसुधियां सद्य: समुत्साहद:।
सान्द्रस्निग्धसमासद: सुमनसां सिध्यत्स्वयंसंमद:
सोऽयं संप्रति सेव्यतां सहृदयै: सङ्घ: सतां सौख्यद:।।२६।।
सम्मूच्र्छत्सहकारसौरभसुख: सोल्लाससौगन्धिक:
शृङ्गारोत्सुकसुन्दरीसमुदये सज्जत्सिताम्भोरुह:।
स्फूर्जत्सुन्दरसिन्दुवारसरल: सत्सल्लकीसर्जक:
सेव्योऽसौ सुरभौ स्रवत्सुमनसां सङ्घ: सतां सौख्यद:।।२७।।
नोपैषि कविभूपालान्वाचालान्बहु मन्यसे।
न किं परीक्षसे राजन्! रत्नं रत्नं तृणं तृणम्।।२८।।
यथोपकुरुतेऽनघ्र्यं तथैवावसरेऽधमम्।
तस्मात्सञ्चिनुयात्सर्वं रत्नं रत्नं तृणं तृणम्।।२९।।
वक्तुर्मञ्चोपरि परिगतान् दीर्घदीर्घैर्निबन्धै:
कालक्षेप्तॄन् सदसि जनता मादृशान् क्रोशतीयम्।
ये तु स्निह्यत्सरसवचसो मानसं मोदयन्ते
तेषां सूक्तीर्वदतु न पिपासन्ति सन्त: कियन्त:।।३०।।
गुणलवमुपयन्तस्तीव्रगर्वं वहन्त:
स्वमनसि कवयन्त: सन्ति नो मादृशा: के।
निरवधि गुणवन्त: प्रश्रयं दर्शयन्त:
कविसदसि लसन्त: सन्ति सन्त: कियन्त:।।३१।।
मलयमारुतकम्पितमाधवीमधुसमाहृतमन्मथविभ्रमा।
अतितमामिह मूच्र्छति मानिनीष्वनुपमा सुषमा कुसुमाकरे।।३२।।
पुष्यत्पद्माकरे भ्राम्यद्भ्रमरौघसुखाकरे।
नन्दत्सुधाकरे साधु सुषमा कुसुमाकरे।।३३।।
व्रजकुलयुवतीनां मज्जतीनां व्रतान्ते
तटगतपटभारं कृष्ण किं नीतवांस्त्वम्।
निशमय शिशिरेऽपि प्रेक्ष्य पुंसो ह्रियेयं
प्रविशति जलमध्ये शीतभीता मृगाक्षी।।३४।।
अन्त्याक्षरीं समारभ्य दध्म: सूक्तिझरीं मिथ:।
एतदेव हि बालानामस्माकं१ युद्धमुद्धतम्।।३५।।
अन्यथा तु कथामात्रे वृथाकलहकारिणाम्।
गुरुवाक्येष्वरालानां२ बालानां युद्धमुद्धतम्।।३६।।
नवे वयसि विस्तरादुदरदेवपूजापरा:
स्तुवन्ति परमादरादिह विदेशिभाषां नरा:।
अहो परिणते वयस्यपि शुभोचिते हन्त तै-
र्न किं भुवनभास्वती सुरसरस्वती सेव्यताम्।।३७।।
स्फुरन्निगमवाङ्मयै: स्फुट-किरीटशोभावती
पुराणरशनावती स्मृतिमनोज्ञमालावती।
इयं मुनिमनीषिणां हृदि सुखासने भास्वती
समस्तसुषमावती सुरसरस्वती सेव्यताम्।।३८।।
पणान् परिगणय्य ये तदनु सेवनं कुर्वते
इयं भृतकपद्धतिर्भवतु भूपभाजाऽन्तिके।
१. अध्ययनशीलानां बालानां युद्धमपि काव्यस्पर्धादिपूर्णं भवति।
२. गुरुजनानां वाक्येषु अरालानां कौटिल्यं प्रदर्शयताम्।
अये द्विजपुरन्दरा:, न किल वेतनाऽऽशावशा- दियं तु जननीव न: सुरसरस्वती सेव्यताम्।।३९।।
दिव्या वाक् संस्कृताऽसौ गुणगणमहिता सभ्यतामूलभूता
सेव्याऽसौ भारतीयैरिति बत शतधा संलपाम: सभायाम्।
क्षन्तव्यं किन्तु हन्त! स्वगृहशिशुजने पत्रलेखे कथाऽऽदौ
तामेतां संलपन्त: सदसि वदत न: सन्ति सन्त: कियन्त:।।४०।।
जने जने तुष्यतु भारतीयं गृहे गृहे पुष्यतु भारतीयम्।
विज्ञानमुन्मीलतु भारतीयं यश: पुनभ्र्राजतु भारतीयम्।।४१।।
रसैस्तर्पयित्वा मनो मोदयन्ती मिलन्मञ्जुमाधुर्यमेदस्वतीव।
अलङ्कारशोभावती रम्यरीतिर्जगज्जाग्रती भास्वती भारतीयम्।।४२।।
निसर्गनििंशमकाण्डकोपिनं खलं श्रुतैर्यो विनिनीषते जन:।
असंशयं तेन विधातुमिष्यते हुताशनश्चन्दनपङ्कशीतल:।।४३।।
सततविततदोरैव्र्यातता व्योम्नि पौरैरहह पतगिकाऽसौ१ वीक्ष्यतां वेश्मपृष्ठे।
सकुतुकमलमेतत्प्रेक्षकैरेवमूचे भ्रमति गगनमध्ये कच्छपी पक्षहीना।।४४।।
नेत्रे खञ्जनगञ्जनां मुखमिदं राकेन्दुसंह्रेषणां
कण्ठ: कम्बुविडम्बनां मृदुपदे पकेरुहोत्तर्जनाम्।
अङ्गान्युन्मदमालतीमलिननं गात्रत्विषो यौवनं
कुर्वाते कुरुते करोति कुरुत: कुर्वन्त्यलं कुर्वते।।४५।।
शूलं मूलाद्विहिंस्तात्सुखमुपनयताद् विव्यताद्विद्विषो मे
भद्रक्षेमप्रभावानिह दधतुतमां किल्विषं मे गृणीतात्।
ऐश्वर्यं संविधत्ताद् भयमपदहतादित्थमीडे भजेऽहं
शूली शम्भु: पिनाकी शिवभवपशुपा: शर्व ईशश्च भर्ग:।।४६।।
श्रीकण्ठ: कृत्तिवासा: प्रमथपतिरुमावल्लभो व्योमकेशो
भूतेशो वामदेव: शिशुशशिमुकुट: शङ्कर: शूलपाणि:।
१. पत्रनिर्मित-''पतङ्गा’’ख्य (्यद्बह्लद्ग) - लेखनकं दोरकबद्धं वायुवेगादुड्डाय्य भारतीया: क्रीडन्ति। तामिमां पतगिकां निरीक्ष्योक्तिरियम्।
सर्वज्ञो नीलकण्ठस्त्रिपुररिपुरहिर्बुध्न्य उग्रोऽष्टमूर्ति: शूली शम्भु: पिनाकी शिवभवपशुपा: शर्व ईशश्च भर्ग:।।४७।।
यैर्विज्ञैर्गुणगुम्फिता मधुमयी वाणी प्रमाणीकृता
यैर्वा देशहिताय सम्प्रकटिता लोकेऽद्भुता वीरता।
तानेतानितिहास एव किमयं ब्रूतेऽन्तरात्माऽपि नो
येऽन्ये विस्मृतिसागरे निपतिता: ते के? न जानीमहे।।४८।।
त्वत्सेवितां भारति! भारतेऽस्मिन्नितोऽधिका दीनदशापि का स्यात्।
दुष्टानुपास्यापि यदेव लब्धं शाकाय वा स्याल्लवणाय वा स्यात्।।४९।।
वैद्येन्द्र! षण्मासमहान्तरेऽस्मिन् न जातु जिह्वालवणेन लीढा।
तदेव पथ्यं१ मम कथ्यतां यत् शाकाय वा स्याल्लवणाय वा स्यात्।।५०।।
आस्यात्प्रवृत्ताखिलशास्त्रलास्या विदोऽपि काश्या न किमद्य हास्या:।
येषामुपास्यापि२ शठस्य दास्यात् शाकाय वा स्याल्लवणाय वा स्यात्।।५१।।
जपानकचमूपतिर्लघुनिषङ्गिसिङ्गापुरे३
प्रचण्डबलविक्रमं ब्रिटिशसिंहमाहन्ति चेत्।
तदेवमवपूरिताऽनवधृता समस्याऽप्यसौ
करीरकुहरे करी परिलुनाति पञ्चाननम्।।५२।।
नवीनकालेऽप्यनवीतमानसो न हीनवृत्तिं प्रलयेऽपि शीलयेत्।
मनस्विनोऽसून् ददते बताञ्जसा मलीमसामाददते न पद्धतिम्।।५३।।
निरन्तरं सन्तमसान्धमानसा न साधुमालोकवहं सहन्त्यहो।
दिवोऽङ्गणद्योतकृते कलावते मलीमसाऽमा१ ददते न पद्धतिम्।।५४।।
माकन्देषु मिलन्मधुव्रतचयैर्दत्तं मरन्दे मनो मूच्र्छन्तो मलयानिला: प्रतिदिशं सन्तोषमातन्वते।
१. षड्भिर्मासै रुग्णस्य शाकलवणादि भोक्तुं प्रतिषिद्धस्य रोगिणो याञ्चेयम्।
२. विदुषामुपास्या संस्कृतभारती वैदेशिकदास्यकारणान्नाधुनाऽर्थकरी, संस्कृतविद्वांसोऽल्पवेतनभोगिन इति शोचमानस्य कवेरुद्गार:।
३. द्वितीयविश्वयुद्ध (स्द्गष्शठ्ठस्र ङ्खशह्म्द्यस्र ङ्खड्डह्म्) समये सिंगापुररणाङ्गणे जापानीयसैन्यै: पराभूतानि ब्रिटिश्-सैन्यानि श्रुत्वा निबद्धं पद्यमिदम्।
मोदन्ते नलिनीषु मत्तमधुपा: गुञ्जां श्रयन्ते पिका: शोभन्तेऽद्य लसल्लवङ्गलतिका वासन्तिका वासरा:।।५५।।
निरुन्धन्नाम्नायं सुजनसमुदायं परिहरन्
पदस्थानां पुंसां वचननिचयो वल्गति बुधान्।
परं स्पष्टं दृष्टं भवति यदयं पञ्जरजुषां
समक्षे सिंहानां शिव शिव शिवानां कलकल:।।५६।।
यदुच्छिष्टं मुक्त्वा मनसि महदिष्टं सुखमगु-
र्यदीयच्छायायामनिशमिह या मोदमगमत्।
मृगाधीशेष्वेषु प्रचलितुमनीशेषु जरसा
समक्षे सिंहानां शिव शिव शिवानां कलकल:।।५७।।
त्वां व्योमेव जना विदन्ति विततं त्वय्यापतन्त्यापगा-
स्त्वं रत्नाकरतां दधासि वसुधा त्वय्येव संलीयते।
किन्तु श्रान्त-पिपासु-पान्थसविधे सर्वेयमुक्तिर्मुधा
पाथोधिर्जलधि: पयोधिरुदधिर्वारान्निधिर्वारिधि:।।५८।।
समस्तभूमण्डलमण्डनायिता: श्रुतिस्मृतिग्रन्थगणा यतोऽभवन्।
गिरां तु तादृङ् महिमा पुनर्भवे पुनर्भवेद् भारत! पूर्ववत् स न:।।५९।।
ननन्द या ह्यार्यवसुन्धरा पुरा मुकुन्दमेध्याङ्घ्रिसरोजसम्पदा।
प्रबन्धबन्दीकृतविक्रमामिमां स नन्दयेत्सम्प्रति नन्दनन्दन:।।६०।।
वासन्तिकी विकसिता हसिताम्बुजालिर्मल्ली मनस्विदलिता ललिता रसाला:।
कूजन्त्यमी परभृता:, सुखिताऽद्य भूमिर्भूयाद्वसन्ततिलका जगत: शिवाय।।६१।।
किं वा केवलभारतेऽत्र! भुवनेऽप्युज्जृम्भते देववाक्
क्रीडन्तीं कविकौशलेषु पुरत: प्रत्यक्षमीक्षस्व ताम्।
इत्थं सङ्गदितोऽपि शङ्खवदहो जल्पन् मृतां भारतीं
योद्धुं धावति यो, विरोद्धुमथ चेत् कस्तं निरोद्धुं क्षम:।।६२।।
१. मलिना अमा अमावास्या कलावते चन्द्राय मार्गं न ददाति।
मोदन्तेऽम्बुजिनीषु मत्तमधुपा: स्वैरं रमन्ते पिका: आलिङ्गन्ति लतास्तरून् प्रमुदिता माद्यन्त्यमी मारुता:।
इत्युद्याति मदे सुधारक! सखे! रोद्धुं क्षमस्त्वं नरान्
बोद्धुं यस्तु मदो हृदैव सुशक: कस्तं निरोद्भुं क्षम:।।६३।।
कालेऽत्र कालेजसमाप्तशिक्षै: प्रतीक्ष्यते केवलपारणैव।
हंहो, सदा स्वोदरपूरणार्था कीत्र्या कथं कल्पलतेव विद्या।।६४।।
कामान्प्रसूतेऽथ हिते नियुङ्क्ते सतां मते वर्तयते च नित्यम्।
सुखं विधत्ते तनुते सुकीर्तिं मतेह सत्कल्पलतेव विद्या।।६५।।
अस्ति, स्त:, सन्त्युपमितिकृते भूतले सूपमाना:
कन्दर्पोऽसौ, त्रिदशभिषजौ तौ च तेऽन्ये च देवा:।
किन्तु क्षोणीतलमुपगते भूपते! त्वय्युदीते
सोऽयं तौ ते त्वदुपमितये नास्ति न स्तो न सन्ति।।६६।।
युरोपयुद्धे रणदुर्मदस्य का वा कथा जर्मनभूमिपस्य।
विमानमारुह्य सुसज्जशस्त्रं स खे च१ केऽहन् युगपन्नृशंस:।।६७।।
१. जर्मनसेनापतयो द्वितीये विश्वयुद्धे खे (व्योम्नि), के (जले) च युगपद् गतिशीलानां जलचारि-व्योमयानानां प्रयोगमकार्षु:, तद्गतशस्त्रैश्चा- घ्रन्।
* * *