भट्टश्रीमथुरानाथशास्त्रिप्रणीतटीकादिग्रन्थानां परिचय:
साहित्यवैभव-जयपुरवैभवगोविन्दवैभवादिप्रबन्धप्रणयनप्राप्तप्रथिम्ना भट्टश्रीमथुरा-नाथशास्त्रिणा यथा साम्प्रतिकसंस्कृतसाहित्यस्य समुल्लासाय विरचिता विविधविधासंवलिता: काव्य-कथा-गीति-गजल-नाट्यादयो ग्रन्थास्तथैव शास्त्रसन्तते: सातत्यं सारल्येनाविष्कर्तुं प्राचीनकाव्यानां सम्यगर्थावबोधाय च तै: केचन टीकाग्रन्था: समीक्षाग्रन्थाश्चापि प्रणीता अभवन्। अथेह तेषां ग्रन्थानां वैशिष्ट्यं विज्ञापयितुं क्रमश: संक्षेपेण परिचय: पुरस्क्रियते।
१. रसगङ्गाधरसरला-
भारतीयकाव्यशास्त्रे पण्डितराजजगन्नाथेन नव्यन्यायशास्त्रीयपारिभाषिकपद-परिपूर्णपरिष्कारपद्धतिमवलम्ब्य प्रणीतो रसगङ्गाधराख्य: सन्दर्भ: सम्प्रत्यपि सुधीसमवाये पाण्डित्यनिकषत्वेन समादृतो वर्तते। अवच्छेदकावच्छिन्न-प्रतियोगिता-अनुयोगिता-विषयता-विषयिताप्रभृतिनव्यन्यायप्रसिद्धपदप्रयोगं समवाप्य साहित्यिका ग्रन्थस्याऽस्याऽध्ययने न तथा समुत्सहन्ते। ग्रन्थेऽस्मिन् भट्टश्रीनागेशप्रणीता मर्मप्रकाशाख्यैव काचन व्याख्या लभ्यते स्म। भट्टमहाभागै: समर्मप्रकाशव्याख्यस्य रसगङ्गाधरस्य स्वीयया सरलाख्यटीकया संवलितं संस्करणं निर्णयसागरमुद्रणालयात् प्रकाशमनायि। सेयं सरला ग्रन्थग्रन्थिभेदने तन्निगूढरहस्योद्बोधने च अध्येतॄणामुपकारिका। नागेशेनाऽस्या मतभेदोऽपि दृश्यते पदे पदे। निर्णयसागरमुद्रणालयात् गुरुमर्मप्रकाशसनाथितरसगङ्गाधरेण सह सरलाया: प्रकाशनं १९३९ तमे वर्षेऽभूत्। १९४५ वर्षं यावद् ग्रन्थस्याऽस्य षट्संस्करणानि प्रकाशितान्यभवन्निति महत्त्वमस्य स्वयमेव सिद्धम्।
रसगङ्गाधरपरिशीलने सरलाया वैशिष्ट्यं बहुभि: खलु मनीषिभि: पुरस्कृतम्। अथात्र राष्ट्रपतिसम्मानितानां विश्रुतवैदुषीकाणां पण्डितविश्वनाथमिश्रमहोदयानां तद्विषयकं मतमुपस्थाप्यते-
रसगङ्गाधरोपरि वर्तमानासु अनेक व्याख्यासु महाविदुषो नागेशभट्टस्य व्याख्या तथा विद्वद्वरस्य भट्टमथुरानाथशास्त्रिणश्च सरला व्याख्या चेति द्वे व्याख्ये स्त: महत्त्वपूर्णे। अद्यत्वे वर्तमानानां समासां व्याख्यानामाधारभूमि: सरलाव्याख्यैवेति शक्यते वक्तुम्। प्रथमाननेऽल्प-कलेवरापीयं द्वितीयानने वैशद्यमादधाना स्फोरयति रसगङ्गाधरीयं रहस्यं निपुणम्। क्वचिच्च निराकृतं नागेशाभिमतमप्यनया। ग्रन्थोऽयं गभीरतरो विवेच्यविषयाश्चाऽनेके तथापि कतिपयान्येव स्थलानि आनीयन्तेऽत्र विचारपदवीम्।
इदम्प्रथमतया तावद् विचार्यते काव्यलक्षणमेव। पण्डितराजोऽस्ति शब्दपर्याप्तकाव्य-तावादी। अतएव रमणीयार्थप्रतिपादक: शब्द: काव्यमिति लक्षणयाञ्चकाराऽसौ। अर्थनिष्ठा रमणीयता च लोकोत्तराह्लादजनकज्ञानगोचरतारूपा। लोकोत्तरत्वं चाह्लादगतश्चमत्कारत्वापरपर्यायोऽनुभवसाक्षिको जातिविशेष:। लोकोत्तराह्लादस्य कारणञ्च काव्यार्थस्य पुन: पुनरनुसन्धानात्मको भावनाविशेष एव। इत्थञ्च-चमत्कारजनकभावनाविषयार्थप्रतिपादकशब्दत्वं काव्यत्वमिति।
लक्षणस्यास्य पदकृत्यं स्पष्टयन् नागेशो लिखति यत् अस्मिन् लक्षणे शब्दपदमपहाय रमणीयार्थप्रतिपादक एव काव्यमित्येव यदि कथितं स्यात् तदा अनुरागस्य व्यञ्जको रमणीकटाक्षोऽपि काव्यत्वं यायात्। लक्षणेऽत्र प्रतिपादकशब्दं त्यक्त्वा यदि वाचकशब्दो लिखित: स्यात् तदाभिधेयार्थस्योपस्थापकस्य वाचकशब्दस्यैव काव्यत्वं स्यात्, अपगतञ्च स्यात् व्यङ्ग्यार्थप्रतिपादकस्य काव्यत्वम्। रमणीयता चार्थगतैवाऽभिप्रेताऽत्र। तेन तत्प्रतिपादकस्यैव शब्दस्य काव्यत्वं न तु रमणीयशब्दनिष्पादकस्य व्याकरणशास्त्रस्यापि काव्यत्वं कथञ्चन। लक्षणमिदं संघटयन्ती सरला वदति-चमत्कारजनिका या भावना तादृशभावनाया विषयीभूतो योऽर्थस्तत्प्रतिपादक: शब्द: काव्यम्। अस्मिन् काव्यलक्षणे ज्ञानपदमपहाय भावनापदनिवेशनमत एव कृतं यत् यस्मिन् कस्मिंश्चित् सरसपद्ये श्रुतिपथमागते सति उद्बोधकान्तरवशात् घटादयोऽप्यर्था: तत्र परापतन्तश्चेत् तद्वाचका घटादय: शब्दा अपि कथं न भजेरन् काव्यत्वम्? अतो लक्षणे भावनापदनिवेश:। ज्ञाने भासन्तां बाह्यार्था: किन्तु ज्ञानधारायां भावनायां तेषां भासनं तु नैव संभवति। भावनायामपि बाह्यार्था भासिष्यन्त एवेति चेदाग्रहस्तदा अपहाय प्रथमलक्षणं कृतं द्वितीयं काव्यलक्षणमित्थम् यत्प्रतिपादितार्थविषयकभावनात्वं चमत्कारजनक-तावच्छेदकं तत्त्वम्। लक्षणमिदं सरलायामेवं स्पष्टीकृतम्- येन यैर्वा शब्दैरुपस्थापितस्य (अर्थात् यादृशानुपूर्वीप्रतिपादितस्य) अर्थस्य भावनया (पुन: पुनरनुसन्धानेन) चेतसि चमत्कार-जननं भवति तादृशचमत्कारजनकताया अवच्छेदके तादृशानुपूर्वीमत्वमेव काव्यत्वं भवतीत्याशय:। एवं सति सकलयाऽनुपूर्व्या यत्र चमत्कारो नोत्पद्यते किन्तु धारावाहिकरूपेणान्यदपि (अचमत्कारोऽपि) प्रतीयते तत्स्थलस्य निरास:।
अत्र पण्डितराज: चमत्कारनिष्ठजन्यतानिरूपितजनकतावच्छेदकं भावनात्वं स्वीकुरुते यतो हि काव्यार्थविषयक-पुन:पुनरनुसन्धानात्मिकया भावनयैव चमत्कारो जन्यत इति भावनात्वमेव चमत्कारजनकतावच्छेदकं वाच्यम्, किन्तु सरला तु भवनया चमत्कारजननं स्वीकुर्वत्यपि चमत्कारजनकतावच्छेदकं शब्दानुपूर्वीमत्वमेव स्वीकरोतीति स्पष्टमेवाऽत्र विप्रतिषेध: पण्डितराजेन सह।
वस्तुत: पण्डितराजस्य काव्यलक्षणपरिष्कारे व्याख्यातॄणां द्विधा प्रवृत्ति: दृश्यते। सन्त्येके शब्दपर्याप्तकाव्यतावादिन:, इतरे च मम्मटानुयायिनो रसचन्द्रिकाकृदादयश्चेति। सरला तु प्रथमपङ्क्तौ तिष्ठति व्याख्याति च पण्डितराजोक्ततत्त्वानि सारल्येन।
एवं रसगङ्गाधरोक्ततत्त्वपरिष्कारे सरलाया: समुपकारस्तु विद्यत एव। इयं क्वचित् पाठभेदादिसंशोधनेऽपि प्रवर्तत इत्यपरोऽपि विशेष:।
२. कादम्बरीचषकम्-
भट्टमहाभागै: कादम्बर्यां निबद्धा चषकेत्याख्या टीका भानुचन्द्रगणि-सिद्धिचन्द्रगणिभ्यां प्रणीताया: कादम्बरीटीकायाष्टिप्पणीरूपा वर्तते। इयं खलु ग्रन्थ- ग्रन्थिभेदनपुरस्सरं पाठादिसंशोधने तन्निर्धारणे चापि प्रवर्तते। प्राचीनटीकाकाराणां भ्रान्तयोऽप्यत्र महाभागैरेभि: बहुत्र पुरस्कृता दृश्यन्ते।
सर्वप्रथमं टिप्पणीयं भानुचन्द्रगणिसिद्धिचन्द्रगणिभ्यां प्रणीतया टीकया सह मुम्बईनगर-स्थनिर्णयसागरमुद्रणालयात् प्रकाशितोऽभवत्। भट्टमहाभागै: कादम्बर्या: पाठसंशोधने निर्धारणे च संस्करणेऽस्मिन् सुमहान् प्रयासो विहित इति ग्रन्थदर्शनेन ज्ञातुं शक्नुवन्ति सुधिय:। ततोऽप्यधिकं टीकाकर्त्रो: प्रमादसंशोधने प्रयतितं महाभागैरेभिरिति पदे पदे तद्व्याख्यानं दृष्ट्वा ज्ञायते। अथ ग्रन्थस्याऽस्य सम्पादने भट्टमहाभागै: भूमिकायां निर्दिष्टा: केचन अनुभवा: प्रकाश्यन्ते-
श्रीभानुचन्द्रगणि-तच्छिष्यसिद्धचन्द्रगणिमहोदयाभ्यां विरचिता सेयं व्याख्या मोगलसम्राजोऽकबरस्य समये निरमीयत। यतो हीमौ अकबरसम्राजा सभाजिताविति ताभ्यामेव पुष्पिकायां स्वहस्तेन लिखितम्। गुरवे भानुचन्द्रगणिने सम्राजा महोपाध्यायपदमर्पितम्। महाभागेन चानेन 'शत्रुंजय’ करो मोचित:। शिष्योऽपि सम्राजा 'षुस्युदमा’ इत्युपपदेनालङ्कृत:। सेयं व्याख्या प्रत्येकपदस्य पर्यायप्रकटन एव व्यग्रा, कामं स पर्यायशब्द: 'इन्द्रस्य टीका बिडौजा:’ एव किं न भवेत्। एको य: शब्द: पर्यायत्वेनादौ परिगृहीत:, अन्तपर्यन्तमपि स एव पदे पदे व्यवह्रियते। यथा-ग्रन्थे यत्र यत्रापि सुखपदमायातं तत्र तत्र 'सातम्’ इत्यनेनैव व्याख्यातं महाभागेन। 'भ्रान्ति: आरेका, जरा विस्रसा, कुवलयं कुवेलम्’ इत्यादिरूपेणैव सर्वत्र व्याख्यातवानयम्। पर्यायशब्दनिवेशो हि जिज्ञासूनां सारल्येन बोधनायैव भवति। सरलस्यापि पर्यायपदनिवेश: करणीय एवेति न ब्रह्मवाक्यम्, किन्त्वेतस्योपरि न मनागपि दृष्टिनिक्षेपष्टीकाकर्तु:। स्नानप्रकरणे आगतं 'स्नान’ पदं कादम्बरीमारभमाणस्य कृते न वज्रसारं स्यात्, किन्तु स्नानपीठस्य पर्यायपदम् 'आप्लवनचतुष्किकाम्’ इत्येव कृत्वाऽयं कृती भवति। कुत्रचित्तु मूलपदं सवैंर्बोध्यं भवति, टीकाकर्तुर्व्याख्या तु ज्ञातमप्यर्थं भ्रमिचक्रे निपातयति। यथा 'इन्द्रगोपै: (वर्षाकीटै:)’ इत्यस्य व्याख्या 'अग्निरजोभि:’ इति। कोऽस्यार्थ इति हि विदन्तु विद्वांस एव। 'विन्ध्य: जलबालक:, निगड: अन्दुक:, मदन: जराभीरु:, धूमो दहनकेतन:, जानु नलकीलक:’ इत्यादिरूपेण कृता व्याख्या कियते उपकारायेति विमृशन्तु मनीषिण एव।
कुत्रचित्तु व्याख्यापाटवं तथा प्रकाशयति यथा कृतबुद्धिरपि वराको ग्रन्थस्वारस्यं विहाय व्याख्यापदानामर्थबोधायैव व्यग्रो भवति। नगरं 'द्रङ्गम्’ इति कृत्वा व्याख्याति। 'लता’ पदस्य हि सुप्रसिद्धोऽर्थ:। किन्तु टीकाकारस्तदर्थमाह- 'सरलवृक्ष:’। अत्र हि तन्नामको वृक्षविशेष: सर्वस्यैव बुद्धिनिष्ठो भवेत्। भूयस्सु स्थलेषु तु टीकाकारस्य व्याख्यामालोक्य क्षमाशीलस्यापि मानसमुद्वेलं भवति। 'निर्लक्षणा पाण्डुरपृष्ठा’, 'दावानलशङ्का वनवह्निद्वापर:’, 'वसन्त इव इष्य इव’, इत्यादिव्याख्या कस्य क्षोभाय न भवेत्?
काव्ये च साहित्ये च टीकाकारमहोदयस्य कियत्पाण्डित्यमिति त्वग्रे निवेदयिष्यामि, किन्तु पर्यायशब्दान्वेषणे सर्वमपि वैदुष्यमेव नि:शेषयतीति तु प्रत्येकमार्मिकस्यैवाऽवगतं भवेत्। 'निष्पतन्तीम्’ इत्यस्य टीकां करोति 'अध:संयोगफलिकां क्रियां कुर्वन्तीम्’। 'श्वसन्ती’ इत्यस्यार्थमाह 'एतनं गृह्णन्ती’। 'एतनं गृह्णन्ती’ इत्यस्यार्थ एतस्मिन्काले किमु सहसैवोदयेत्? परं सर्वस्यापि पदस्य यत्किञ्चित्पर्यायपदमवश्यं निवेश्यम्। पर्यायस्थापनेनैव टीका सुटीका भवतीति महोदयस्यास्य विचार:। किन्तु पर्यायनिरपेक्षस्य पदस्य बलात्पर्यायसंनिवेशे कुत्रचित्कुत्र-चित्कीदृशोऽनर्थ: संभवतीति तु नास्य महाभागस्य विचारशक्तिरपि।
सूक्ष्ममीक्ष्यतां तावत्-गद्यकाव्यं हि कवीनां कृतित्वपरीक्षायै निकषो नाम। गद्य-काव्येष्वपि 'कथा’-काव्यमतिमनोहरम्, यद्धि वर्तमानकालिक 'उपन्यास (Novel)’ स्थापनीयम्। तत्रापि- वाचयतामाहाररुचिमपि तिरोदधत्तदिदं काव्यमस्ति यस्य लेखको मार्मिकाणां शिरोमणि: श्रीमान्बाण:। तस्यैव काव्यस्य नायिकाया: सौन्दर्यसारसंघटिताया देवाङ्गनाया: (कादम्बर्या:) सौन्दर्यवर्णने महोदयोऽयं 'नाभिम्’ व्यपदिशति 'तुन्दकूपीम्’ इति! तुन्दपदं हि प्रचण्डोदराया: कस्याश्चित्पम्फुल्यमानमुदरं सूचयत् (यत: प्रफुल्लोदस्तुन्दिल इत्युच्यते) गहनान्धकारितं महान्तं नाभीगर्तं चेतसि चित्रयतीति मन्ये न वक्तव्यं भवेन्मार्मिकाणां कृते। किन्तु सर्वतो निमीलितनयनोऽयं न किञ्चित्पश्यति। येन केनापि रूपेण पर्यायपदस्थापनायैव सहस्रनयन: सन् सोऽयं जागरूक:। अन्यदपि व्याख्यानं दृश्यताम्- 'तडिद्भि: ऐरावतीभि:’, 'शुष्काणि वानानि’, 'पिपासा उदन्या’, 'वल्कलोपान्तेन चोचाञ्चलेन’। वल्कलोपान्तमित्यस्य योऽर्थं न ज्ञातवान् तदर्थं ह्येषां व्याख्याऽ-पेक्षिता, तस्य कृते चोचाञ्चलमिति किं सुखबोध्यं भवेत्? प्रसिद्धाऽप्रसिद्धयोरन्तरं न विदन्नेव किं 'निरन्तरव्याख्या’कारो भवति?
टीकाकारमहाभागस्य व्याकरणज्ञानमप्यलौकिकम्। कर्म-कर्तृवाच्ययो: सर्वत्रापि निरर्गलं प्रयोग:। 'कृतान्तमुखकुहरादिव विनिर्गतमात्मानं मन्यमान: (अहम्)’ इत्यत्र 'मन्यमान:’ इति कर्तृवाच्यक्रियाया: 'ज्ञायमान:’ (पृ ७४) इति व्याख्या। एवं प्राय: सर्वत्रैव। आत्मनेपद-परस्मैपदव्यत्यया: पदे पदे। 'व्रजमानानीव’ संचरमाणानीव’ (तृतीयान्तयोगं विनापि)। 'निमज्जप्रानम्’ 'कम्पति सति’ 'उत्पश्यमान:’ (पृ. ७५) 'अजनिषम्’ इत्यादीनि स्थाने स्थाने। लिङ्गव्यत्यया: प्रतिपदम्- 'बाहुवल्ल्यालिङ्गनान्’ 'दन्तक्षतान्’ 'कर्णावतंसानि’ 'त्यज्यमानासु सत्सु’, 'श्वेतायमानासु सत्सु’ (पृ. ५४७)। ध्वनिशब्दस्य, 'रक्तिमा’ इत्यादि इमनिच्प्रत्ययान्तानां च प्राय: स्त्रीत्वमेव प्रयुक्तम्। 'पुस्तकान् शास्त्रान्’ (२०५)। 'अप्रापम्, अप्रार्थयत,’ इत्याद्यपि बहुत्र। शिष्या इत्यस्य लोकोत्तरा व्याख्या 'शिष्यिणी’ इति (पृ. २२०)। 'पराभवितस्य’ 'रुदनम्’ (पृ. ६८२) 'कार्यताम्’ इत्येतस्य व्याख्या 'काराय्यताम् इत्यादि ('कराइये’ इति 'हिन्दीं दृष्ट्वा’) (पृ. ६६३)।
एवं कादम्बरीग्रन्थस्य टीकासम्पादने भट्टमहाभागैर्यो हि प्रयासो विहित: स तेषां कथनेनाऽनेन ज्ञातुं शक्यते। वस्तुत: भट्टमहोदयानां टिप्पणीं विना टीकाया अस्या एकमपि पदं ज्ञातुं न शक्यते। महाभागैरेभि: पदे पदे टीकाकारस्य व्याख्याने संशोधनपूर्वकं ग्रन्थस्य शुद्धपाठा अपि निर्दिष्टा: सन्ति। बहुत्र 'इति नोचितम्’ 'इति उचित: पाठ:’ इत्येवं निर्दिशद्भि: ग्रन्थस्य टीकायाश्च संशोधनमकारि भट्टमहोदयैरत्र। तत्सर्वं ग्रन्थं दृष्ट्वा ज्ञातुं शक्नुवन्ति सुधिय:।
३. संस्कृतगाथासप्तशती-
हालकृताया गाथासप्तशत्या: संस्कृतानुवादरूपोऽयं ग्रन्थ:। गाथानामर्थबोधार्थं भट्टमहाभागैरत्र सर्वङ्कषानाम्नी टीकाऽपि लिखिताऽभूत्। अयं ग्रन्थ: १९३३ वर्षे निर्णयसागर-मुद्रणालयात् प्रकाशित:।
४. शिलालेखललन्तिका-
भट्टमहाभागै: नैकेषां शिलालेखानां सङ्कलनं सम्पादनं च कृत्वा ग्रन्थेऽस्मिन् प्रकाशनं कृतमभूत्। अयमपि ग्रन्थ: १९४१ ई. वर्षे मुम्बईनगरस्य निर्णयसागरमुद्रणालयात् प्रकाशितोऽभवत्।
महाभागैरेभि: कानिचित् पाठ्यपुस्तकान्यपि लिखितान्यभवन्। तेषु सुलभसंस्कृतम् संस्कृतसुबोधिनी चेति द्वौ पाठ्यग्रन्थावस्माभिर्दृष्टौ। कविकलानिधि-श्रीकृष्णभट्टस्य ईश्वरविलासमहाकाव्ये विलासिनीटीका श्रीमद्भि: प्रणीताऽभवत्। टीकयाऽनया सनाथितस्य ईश्वरविलासमहाकाव्यस्य प्रकाशनं १९५८ ई. वर्षे राजस्थान-प्राच्यविद्याप्रतिष्ठानत: समभूत्। ग्रन्थस्याऽस्य पुन: प्रकाशनं २००६ तमे वर्षे जयपुरस्थजगदीशसंस्कृतपुस्तकालयात् हिन्दी-व्याख्यया सह सञ्जातमस्ति। कविकलानिधे: पद्यमुक्तावल्यां वृत्तमुक्तावल्यां चापि भट्टमहाभागै: टीका लिखिता। एतेषां टीकया सह ग्रन्थयोरनयो: क्रमश: १९५९ तमे तथा च १९६२ ई वर्षे राजस्थानप्राच्य-विद्याप्रतिष्ठानात् प्रकाशनं समभवत्।
भट्टमहाभागानां जीवनं साहित्यं चोपजीव्य बहुभि: खलु विद्वद्भि: ग्रन्था: प्रणीता अभवन्। नैकेऽनुसन्धित्सवश्छात्रा महाभागानामेतेषां साहित्ये शोधोपाधिमपि लब्धवन्त:। जिज्ञासूनां शोधार्थिनां समुपकाराय केचन प्रमुखा ग्रन्था अत्र निर्दिश्यन्ते।
१. मञ्जुनाथगौरवम्-
गङ्गाधरभट्टमहोदयानां सम्पादकत्वे भट्टमहोदयानां जीवनं साहित्यं चाश्रित्य लिखितानां निबन्धानां सङ्कलनरूपोऽयं ग्रन्थ: १९९० तम ई. वर्षे राजस्थानसंस्कृतअकादमीत: प्रकाशनमवाप।
२. श्रीमथुरानाथशास्त्रिण: कृतित्वसमीक्षणम्-
डॉ. प्रभाकरशास्त्रिणां सम्पादकत्वेऽस्य प्रकाशनं १९९५ ई. वर्षे राजस्थान- संस्कृतअकदमीतोऽभवत्।
३. मञ्जुनाथगद्यगौरवम्-
आचार्यराधावल्लभत्रिपाठिप्रवर्तिताया: प्रख्याग्रन्थमालाया: षष्ठ: स्पन्द: मञ्जुनाथग्रन्थ-गौरवमिति नाम्ना डॉ. रमाकान्तपाण्डेयस्य सम्पादकत्वे २००४ ई. वर्षे नवदेहलीस्थप्रतिभा-प्रकाशनेन प्रकशतामानीत:। अत्र भट्टमहोदयानां प्रमुखा गद्यरचना: सङ्कलिता: सन्ति।
४. मञ्जुनाथवाग्वैजयन्ती-
शिमलानगरस्थभारतीय-उच्च-अध्ययन-संस्थानम् इत्याख्याया: संस्थाया: सहकारेण मञ्जुनाथस्मृतिसंस्थानम् २००४ ई. वर्षस्य अप्रैलमासे (३-४-दिनाङ्कयो:) ''संस्कृत वाङ्मय में भट्टश्रीमथुरानाथशास्त्री’ इत्यस्मिन् विषये राष्ट्रियसंगोष्ठीं समायोजयत्। अत्र देशस्य विभिन्नेभ्य: प्रान्तेभ्य: समागतानां विदुषां व्याख्यानानि समभवन्। देवर्षि-कलानाथशास्त्रिणां सम्पादकत्वे प्रकाशितेऽस्मिन् ग्रन्थे तान्येव व्याख्यानानि भट्टमहोदयानां साहित्यसमीक्षणपराणि प्रकाशितानि सन्ति।
जयपुरात् प्रकाश्यमानाया भारतीपत्रिकाया भट्टमथुरानाथशास्त्रिस्मृतिविशेषाङ्केऽथ च स्वरमङ्गलाया भट्टजन्मशताब्दीविशेषाङ्के भट्टमहोदयानां साहित्यादिसमीक्षणे काचिदभिनवा दिगुन्मीलिता सहृदयमनीषिभि:। विविधेषु विश्वविद्यालयेषु भट्टमहोदयानां साहित्यमाश्रित्य शोधकार्याण्यभवन् भवन्ति चाद्यापीति तत्सर्वं विव्दद्भिर्गवेषणीयमिति शम्।
-रमाकान्तपाण्डेय:
भट्ट-श्रीमथुरानाथशास्त्रिणां जीवनं साहित्यसेवा च
वंश: पूर्वजाश्च -भट्टश्रीमथुरानाथशास्त्रिणो जन्म राजस्थान-वासिनाम् उत्तरभारते निवसतामान्ध्राभिजनानां विद्वद्ब्राह्मणानां कुले जयपुरेऽभूत्। प्रायश्चतुष्पञ्चशताब्दीत: पूर्वं विभिन्नैर्हेतुभिर्दक्षिणदिग्देशाद् बहूनि विद्वत्कुलानि सामूहिक-रूपेणोत्तर-भारतं प्रति प्रव्रजनमत्र विभिन्नेषु प्रान्तेषु प्रवासं च प्रारेभिरे। वल्लभाचार्यप्रभृतीनां वैष्णवाचार्याणां भक्तिधारा-प्रवाह-प्रचारोद्देश्यकेषु प्रवासेषु, वाराणस्यादिविद्याकेन्द्रेषु शास्त्रार्थाद्युद्देश्यकेषु पर्यटनेषु च सहचारित्वमापन्नानि बहूनि ब्राह्मणकुलानि समागच्छन्नुत्तर-भारते, अत्र च राजसम्मानादिना प्रश्रयं प्राप्य स्थायिरूपेण निवासं चक्रिरे। स्वयं वल्लभाचार्य आन्ध्राभिजनोऽ-भूदुत्तर-भारते च न्यवसत्। एवंविध एव तैलङ्गब्राह्मणानां कृष्णयजुर्वेदान्तर्गत-तैत्तिरीयशाखाध्यायिनां वंश एको मोगलकाले आन्ध्रप्रदेशादुत्तर-भारते समाययौ यस्य मूलपुरुषो बावीजी दीक्षितोऽभूत्। आङ्गिरस-आयास्य-गौतमेति त्रिप्रवरान्विते गौतमसगोत्रे वंशेऽस्मिन् बहव: परिनिष्ठिता विद्वांसोऽभूवन्। 'देवर्षि’ इति अवटङ्कधरोऽयं वंशो 'देवलपल्ली’ 'देवरकोंड’ इत्याख्याद् वा प्रदेशान्निर्गत इति बहूनां धारणा, अत एव संस्कृत्य 'देवर्षि’ इत्यभिजनाभिधानं समभूत इति तेषामाशय:। अन्ये तु दक्षिणभारतात् काशीं, काशीत: प्रयागं, प्रयागाद् रीवाँ नगरं च गत्वा तत्र राजसम्मानस्वरूपं 'दिवरिखिया’ इत्याख्यं ग्रामं बान्धवनरेशाद् गोपालसिंहात् प्राप्तवान्। पूर्वपुरुषो मण्डलदीक्षित इति तमिमं 'देवरिख’ ग्रामं व्यपदिश्य संस्कृतं नाम 'देवर्षि’ इत्यवटङ्कस्य समभूदिति कथयन्ति।
भवतु तावत्किमपि कारणं, किन्तु देवर्षि इत्यवटङ्कधरोऽयं परिवार: काश्यां, प्रयागे, रीवांनगरे, अनूपशहरे च निवासं विधाय कवित्वख्यातिवशाद् विभिन्नै: राजवंशै: कुलपरम्परया सम्मानितो राजस्थानप्रान्ते बुन्दीनगरं प्राप यत्र ग्रामादिसम्पत्ति- प्रदानसम्मानेन वासित:। बून्दीपतेर्बुधसिंहस्य राजभाषाया रत्नं देवर्षिश्रीकृष्णभट्ट: कविकलानिधि: संस्कृत-प्राकृताऽपभ्रंशव्रजभाषादीनां तलस्पर्शी विद्वान् विश्रुत: कविरलङ्कारशास्त्री चाऽभूद् यस्यैतिहासिकानि 'ईश्वरविलास’ प्रभृतिकाव्यानि, 'पद्य-मुक्तावली’ प्रभृतिमुक्तकसङ्ग्रहा:, 'वृत्तमुक्तावली’ प्रभृति छन्द:शास्त्रग्रन्था: संस्कृते, 'अलंकारकलानिधि’ 'शृंगार रसमाधुरी’ प्रभृतयो रीतिग्रन्थाश्च व्रजभाषायां प्रकाशिता:। प्रायो विंशतितोऽप्यधिका रचना अप्रकाशिता विविधेषु ग्रन्थागारेषूपलभ्यन्ते।
सोऽयं श्रीकृष्णभट्टो बून्दीपतेर्बुधसिंहस्य राजसभातो (बून्दीनरेशाद् याचनापुर:-सरं) जयपुरनरेशेन तत्संस्थापकेन सवाईजयसिंहेनाऽऽनीतस्तेनानुष्ठितेऽश्वमेधमखे सक्रियां भूमिकां निरवहत्, राजाज्ञया बहून् ग्रन्थांश्च प्रणिनाय। सवाईजयसिंहेन 'कविकलानिधि’ रित्युपाधिना सम्मानित: सोऽयं मनीषी जयपुरनगरे एवं सप्तदश्यां शताब्द्यां (१६७५-१७६१ ई.) स्थायिरूपेण प्रत्यष्ठिपत् स्वकीयं परिवारम्। तदनु वंशेऽस्मिन् बहवो विद्वत्कवय: समभूवन् येषु श्रीकृष्णभट्टतनयो वाणी-भारतीत्याद्युपनामधारी श्रीद्वारकानाथभट्ट: संस्कृत-व्रजभाषादीनां विख्यात: कविरासीत्। जगदीशभट्ट-वासुदेवभट्ट-मण्डनभट्टादयो बहवो वंशजा अस्य राजकवयो मनीषिणो लेखकाश्चाभूवन्।
शिक्षा-
मण्डनभट्टो जयपुरराजवंशेन प्रभूतं सम्मानित: कविरासीत्। अस्यैव कुले श्रीलक्ष्मीनाथ-भट्ट-सुतस्य श्री द्वारकानाथभट्टस्य पत्नी श्रीजानकीदेवी मथुरानाथं संवत् १९४६ वैक्रमे वर्षे आषाढ-कृष्ण-सप्तम्यां (१८८९ई०) प्रासौत्। एतत्पिता द्वारकानाथभट्ट: सांसारिकव्यवहारविमुख: आध्यात्मिकप्रवृत्तिपर: श्रीमद्भागवतादिवाचने जप-पूजादिषु चाधिकां रुचिमन्वभूत्। पितामह: श्रीलक्ष्मीनाथ एव परिवारे प्रबन्धादिषु प्रमुखोऽभूत्। संस्कृतवैदुष्यपरम्परापरिपूतेऽप्यस्मिन् कुले ''राजवृत्तिसम्मानादि (तदानीन्तन) राजभाषायामुर्दूभाषायामधिकं लभ्यते’’ इति धारणाऽऽसीत्। अत: शिशोर्मथुरानाथस्य शिक्षा उर्दूभाषायां भवतु येन सोऽयं न्यायालयादिषु सम्मानितं किञ्चित्पदमधि-गच्छेदित्यासीदेतत्पितामहस्य वाञ्छा। किन्तु स्वभाविकी रुचिरस्य शिशो: संस्कृतेऽभूत्। एवं च यत्किञ्चिदुर्दूभाषां पठित्वा कुलपरम्परापरिगतानि संस्कृत-पुस्तकान्यनेन रुचिवशात् पठितुमारब्धानि। तदनु प्राथमिककक्षासु शिक्षायै सोऽयं जयपुरीये महाराज-संस्कृत-कॉलेजे प्रवेशित:।
तत्र प्रवेशिकाध्यापकै: पं. काशीनाथशास्त्रिप्रभृतिभि: संस्कृतव्याकरणे लघुकौमुद्यादिषु भृशं सपरिश्रममध्यापितोऽसौ स्वल्पीयस्येव वध्यसि प्रवेशिका-परीक्षामुदतरत्। प्रवेशिकापरीक्षायामार्हन्तीं प्राप्तवन्तमेनं साहित्य-न्याय-व्याकरणेति शास्त्रत्रयस्य विद्वांसोऽध्यापका: स्वस्वविषयं पठितुं प्रैरिरन्। बहुविध-विचारानन्तरं निर्धारितं यदयं साहित्यव्याकरणेति शास्त्रद्वयं समकालमेव पठतु। तदानीं विषयविभाजनं, परीक्षाप्रणाली च नूतनतया प्रवर्तिताऽभूत् कतिपयवर्षपूर्वमेवाति-कठोरा अभूवन् नियमास्तथापि तत्कालीनेन शिक्षासञ्चालकेन श्रीसञ्जीवनगङ्गोपाध्यायेन विषयद्वयं पठितुं विशेषानुमतिरस्मै प्रदत्ता। साहित्याध्यापका: नांगल्याभिजना: श्री गोपीनाथदाधीचा: व्याकरणाध्यापका: राजगुरुहरिदत्तझाममहाभागाश्चाभूवन्नस्याऽध्यापका:। सोऽयं साहित्योपाध्याय-परीक्षां १९०१ ई. वर्षे व्याकरणोपाध्यायपरीक्षां च १९०३ ई० वर्षे समुदतरत्। साहित्यव्याकरणयो: प्रत्येकं वर्षत्रयव्यापी सोऽयं पाठ्यक्रमो वर्षषट्कमग्रहीष्यत्, विशेषानुमतिर्यदि नाऽलप्स्यत।
तदनु व्याकरणशास्त्रिपरीक्षाऽनेन सर्वप्राथम्यं लब्ध्वा प्रथमश्रेण्या १९०७ ई० वत्सरे समुत्तीर्णा। महाभाष्य-शेखर-मनोरमादि-विमर्शग्रन्थेषु सुबहु परिश्रम्य कॉलेजाध्यक्षाणां पं. लक्ष्मीनाथशास्त्रिणां शिष्यत्वे, न केवलं कॉलेजे एव, अपितु तेषां गृहेऽपि निरन्तरमध्ययनेनाऽनेका रात्रीरतिवाह्य, कष्टशतं सोढ्वा, गृहवाससुखानि परित्यज्य च 'गुरुकुलक्लिष्टेन’ छात्रेणाऽनेन सपरिश्रममस्यां साफल्यं लब्धमभूत्। काशीस्था म.म.पं. शिवकुमारमिश्रप्रभृतयो भारतविश्रुता विद्वांसस्तदा परीक्षका अभूवन्। आसीत्तदा सेयं परिपाटी यत्प्रौढिम्न: पूर्णत: परीक्षिकास्वमूषु परीक्षासु ससम्मानमुत्तरतां परीक्षार्थिनां प्रमाणपत्रेषु परीक्षका: स्वहस्ताक्षराण्यकुर्वन्, बहुधा च स्वकीन्याभिमतान्यपि व्यलिखन्। एतस्य प्रमाणपत्रे परीक्षकेण ''लेखपटुरयं बटु:’’ इति टिप्पणी प्रत्ताऽभूत्।
एतस्मात् पूर्वं १९०६ ई० वत्सरे पंजाब-विश्विविद्यालयीयायां सर्वोच्चायां शास्त्रिपरीक्षायामयं प्रथमश्रेण्यां सर्वस्मिन्नपि विश्वविद्यालये प्राथम्यमलभत्। १९०९ ई. वर्षे पं. श्रीकृष्णशास्त्रिद्राविडस्य शिष्यरूपेणाऽयं महाराजसंस्कृतकॉलेजीयच्छात्रत्वेन साहित्याचार्य-परीक्षायां साफल्यमभजत्। समीक्षा-चक्रवर्ति-श्रीमधुसूदन-ओझामहाभागादप्ययं वेद-ब्राह्मणोपनिषद्-दर्शनग्रन्थानध्यगीष्ट।
अध्ययन-समकालमेव सम्पादनस्य साहित्यरचनायाश्च या प्रवृत्तिरस्मिन् परिलक्षिताऽभूत्तां विशदीकृत्य साहित्यसर्जनाया या भागीरथी भट्टमहोदयेन अजस्रं प्रवाहिता तस्या: परिचयोऽनुपदमेव प्रदीयते। अत्र तज्जीवनयात्राया: संक्षिप्तमितिवृत्तमुल्लिख्यते पूर्वम्। सुन्दरलालभट्टस्य राजसम्मानिते ग्राम-सम्पत्तिस्वामिनि चाधिष्ठाने उत्तराधिकारित्वेन सुन्दरलालभट्टेन दत्तकपुत्रत्वेन गृहीत: सोऽयं भूसम्पत्ते: प्रबन्धं, प्रतिष्ठानोपरि यद् ऋणमुपचितमभूत्तस्य परिशोधनं च कृत्वा वित्तीयां स्थितिं दाढर्यं नीतवान्। ओरछा- (मध्यप्रदेश) राजगुरो: श्रीरघुनाथदेवदाऊजू महाभागस्य सुतया सावित्रीदेव्या सहाऽस्य विवाह: १९०९ई० वत्सरे समजायत। तिस्र: सन्ततयोऽपि समभूवन् किन्तु शैशव एव निधनं प्रयाता:। ततोऽजयगढ़ (मध्यप्रदेश) स्थस्य पं. नारायणरावस्य पुत्र्या मथुरादेव्या: पाणिग्रहणमनेन कृतं किन्तु कालगत्या मथुरादेवी वर्षावधावेव स्वर्गमारूढा। तदनु १९२२ ई० वत्सरे जयपुरसन्निकटस्थस्य महापुराग्रामस्य निवासिन: पं. शिवानन्द-गोस्वामिवंशजस्य पं. श्री गोपीकृष्णगोस्वामिन: सुतया रामादेव्या सहाऽस्य विवाह: समजायत। विवाहबन्धनमिदं चिरस्थायि प्रतिपन्नम्। १९३४ ई० वर्षे कलानाथनामानं सुतं, १९३७ वर्षे जयानाम्नीं कन्यां, १९४० वर्षे विजयानाम्नीं कन्यां, १९४५ वर्षे च कमलानाथनामानं सुतमियं रामादेवी प्रासौत्।
अध्यापनं राज्यसेवा च-
साहित्याचार्य-परीक्षामुत्तीर्य महाराजसंस्कृतकॉलेजे प्राध्यापकपदे सेवामारब्धुमयं प्रोत्साहितो वयस्यै:। संस्कृतरत्नाकरादिमासिकपत्रेषु लेखकत्वेन सम्पादकत्वेन चास्य साहित्यसेवा तदानीं प्रसिद्धिं प्रारभमाणाऽभूत्। प्रतिभाऽप्यस्य सुविदिताऽऽसीत् किन्तु तदानीन्तनेन महाराज-संस्कृतकॉलेजाध्यक्षेण महामहोपाध्याय- पं. दुर्गाप्रसादद्विवेदेन पं. गोपीनाथधर्माधिकारिनामा विद्वानेक: प्राध्यापक-पदे नियुयुजे। एवं हि कालेजस्यास्य सेवापराङ्मुखोऽयं संस्कृत-हिन्द्यादिभाषासु काव्यादिरचनां कृत्वा हिन्दी-संस्कृताध्येतॄन् स्वगृहेऽध्याप्य च साहित्यजगत: शिक्षाजगतश्च सेवां कर्तुमारेभे।
भूसम्पत्ते: स्वामी राजसम्मानित-प्रतिष्ठानस्य चोत्तराधिकारी सोऽयमभूदिति कृत्वा नैवंविधानां तदानीन्तनानां विदुषां सम्मुखे आजीविकायास्तादृशी समस्याऽभूत्।
तदैव १९२४ ई. वर्षे जयपुरमहाराजस्य श्रीमानसिंहस्य प्रथमो विवाहमहोत्सवो जोधपुर-नगरे समायोजितोऽभूत्। समारोहेऽस्मिन् सोऽयं तत्र सङ्गतेन तत्कालीन-शिक्षा-सञ्चालकेन श्रीश्यामसुन्दरशर्मणा (यो ह्यस्याभिन्नं मित्रं परस्तात् समजायत, यश्चैतस्य मृत्योर्दिनद्वयात् पूर्वमेव दिवमारूढ:) समनुरुद्धो यत्संस्कृतकॉलेजे साहित्याध्यापकपदमयं स्वीकुर्यादिति। एतत्फलस्वरूपं २६/१/२४ दिवसेऽयं म.म. दुर्गाप्रसादद्विवेदानामध्यक्षत्वकाले एव तत्राऽध्यापकपदं जग्राह। तदानीं जयपुरे आङ्गलशिक्षापद्धत्यनुसारं सामान्यशिक्षाप्रकारस्य विश्रुतो महाविद्यालयो महाराजासंस्कृतकॉलेज इति नाम्ना प्रचलति स्म, यत्र संस्कृत-विषयोऽपि शिक्ष्यते स्म। अत्र संस्कृतप्राध्यापकपदे पं. मधुसूदन ओझा, पं. वीरेश्वरशास्त्री, पं. बदरीनाथशास्त्री, पं. सूर्यनारायणाचार्य इत्यादयो विद्वांसोऽधितस्थिवांस: आसन्। १९२५ई० वर्षे एव कालेजेऽस्मिन् प्राध्यापकस्यावश्यकतामनुभूय पं. श्यामसुन्दरशर्मणाऽयं तत्र नियुक्त:। अस्मिन् कॉलेजे १९३१ वर्ष-पर्यन्तमयं छात्रान् सरलया पद्धत्या संस्कृतं पाठयामास। प्राथमिक-संस्कृत-शिक्षण-पुस्तकानां लेखनायाऽस्मै सोऽयं प्रसङ्ग एव प्रेरणामदात्।
एतदनन्तरं जयपुर-राज्याश्रितानां संस्कृतपाठशालानां निरीक्षकपदे सोऽयं राज्यशासनेन समाकारितो यत्र १९३१ वर्षात् १९३४ वर्षपर्यन्तमयं कार्यमकरोत्। तदानीं संस्कृत-कॉलेजे महामहो-पाध्यायगिरिधरशर्मचतुर्वेदा: कालेजाध्यक्षपदे, साहित्यविभागाध्यक्षपदे च पं. श्री बिहारीलालशर्मण: (डबलाचार्य इति प्रथिता:) कार्यं कुर्वाणा आसन्। बिहारीलालशर्मणां निधनोत्तरं भट्टमहोदय: साहित्यविभागाध्यक्षपदे २५/०२/१९३४ दिनाङ्कात् न्ययोज्यत यत्राऽयं ई. १९४२ वर्षावधि कार्यं कृत्वा सेवानिवृत्तोऽभूत्। नाऽऽसीदेतस्मात् पूर्वं देशीय-राज्यशासनेषु तादृशं कठोरमेकरूपं सेवानिवृत्तेर्बन्धनम्। न वा राजकीयेष्वभिलेखेषु जन्मतिथे: प्रमाणनस्य सुदृढाऽभूत् परम्परा।
१९४२ ई० वर्षे सोऽयं भट्टमहोदय: केवलं ५३ वर्षदेशीय एवाऽभूत् किन्तु संयोगवशाद् राज्यसेवाऽभिलेखे कदाचन प्रारम्भे जन्मवर्षं संवत् १९४४ इति समभूल्लेखितम् (संवत १९४६ इति स्थाने) अतो यदा ५५ वर्ष-वयस्कानां राज्यसेवकानां सेवानिवृत्तिदृशा निर्धारणं क्रियमाणमभूत्तदाऽन्यै: सह भट्टमहोदयस्यापि सेवानिवृत्ति: क्रियतामिति विचार: समसूच्यत। भट्टमहोदयेन जन्मतिथि-संशोधनाय, सेवाया अवधिवृद्धये (एक्सटेंशन) वा न जात्वपि प्रयतितम्। सोऽयं बहुधा कथयति स्म ''मया सेवायै न कदापि प्रार्थनापत्रं प्रदत्तम्, स्वयं राज्याधिकारिभिरेव मम साहित्यसेवागुणानां बहुमानरूपेणाऽहं सेवायां गृहीत:। एवं हि यदा ते सेवानिवृत्तेरादेशान् दित्सवस्तर्हि किमित्यहं तद्विरोधे प्रयत्नान् कुर्याम्?’’ इति।
एवं त्रिपञ्चाशद्वर्षीये वयसि भट्टमहाभागो राजकीयसेवातो निवृत्तोऽभूत्, न तु साहित्य-सेवात:। प्रत्युत सेवानिवृत्तेरनन्तरं सर्जनात्मककार्येषु समधिकं व्यापृति: सञ्जाता। सेवासमकालमपि सम्पादनकार्येषु, काव्यरचनायां, हिन्दी-व्रजभाषादिसाहित्यसेवायां, ग्रन्थानां सम्पादन-टीकालेखनादिकार्येषु चाऽयं सर्वदैव व्यापृत एवाऽस्थात्।
महाराजाकॉलेजे पाश्चात्यशिक्षाक्रमे प्रवृत्तांश्छात्रान् सरलया पद्धत्या संस्कृतं पाठयितुमनेन 'संस्कृत-सुबोधिनी’ नामकं पाठ्यपुस्तकमलेखि, पुस्तकमिदं स्वयं तेन प्राकाशि। संस्कृतकॉलेजे शास्त्रिपरीक्षां दित्सूंश्छात्रान् कादम्बरीं पाठयताऽनेन तस्या: सम्पादनं विधाय 'चषक’ नाम्नी टीका व्यलेखि, साहित्याचार्यश्रेण्याश्छात्रान् ''रसगङ्गाधरं’’ पाठयन्नयं तस्य मुद्रितपाठं भृशमशुद्धं प्राप्य तस्य संस्करणं सम्पादनं च विधाय 'सरला’ नाम्नी टीकामलिखत्। शिलालेखानां सङ्कलनं कृत्वा ''शिलालेख-ललन्तिका’’ नामकं पुस्तकं सम्पादयामास। पुस्तकत्रयमिदं निर्णयसागरमुद्रणालयेन मुम्बईस्थेन प्राकाशि। एवं पाठनसहयोगीनि पुस्तकानि प्रणेतुं प्रेरणाऽस्मै राज्यसेवाप्रसङ्गेनैव प्राप्ता। किन्तु सेवानिवृत्तेरनन्तरं विविधासु समितिषु, संस्थासु च सक्रियां भूमिकां निर्वहताऽनेन भूयसी साहित्यसेवा विहिता, स्वयमनेके ग्रन्था: प्रणीता: प्रकाशिता अपि। सर्वेषामेषां विवरणमग्रे प्रदास्यते।
जीवनयात्रा -
सोऽयं प्रारम्भादेव राजकीयभूसम्पत्तिभोगी आसीदिति वेतनादिराय: केवलं गौणरूपेण, द्वैतीयकं सहायकं वाऽऽयस्रोतोऽस्याभूत्। इदमेव कारणं यत्सेवानिवृत्तिस्तदानीमार्थिक-सन्तुलनमस्य न जात्वपि विषमीकर्तुमक्षमत। निवृत्तिवेतन-(पेंशन) मस्मै द्वाचत्वारिंशद् - रूप्यकात्मकं जयपुरराज्येन निर्धारितम्। ''मदीयस्यैकस्य भृत्यस्य मासिकवेतनाय पर्याप्तं भवतीति सुमहद् योगदानमस्य सोऽयं परिहासे कथयति स्म।’’ भूसम्पत्तेरायेन सोऽयं नगरसीमायामेकं भवनमक्रीणात्, नवीनायां वसतौ भवनं निर्मापयामास, पुत्र्यो: पुत्रस्य च विवाहसमारोहानायोजयामास।
अखिलभारतीय-हिन्दी-साहित्य-सम्मेलनस्य द्वात्रिंशत्तमेऽधिवेशने स्वागतमन्त्रित्वेन जयपुरे सुमहान्तं हिन्द्या: साहित्यकं समारोहं १९४४ ई. वर्षे, अ.भा. संस्कृत-साहित्य-सम्मेलनस्याष्टादशेऽ-धिवेशनेऽखिलभारतीय-कविसंम्मेलनसभापतित्वेन संस्कृतविदुषां सुमहानां सम्मलेन १९४५ वत्सरे च सोऽयं सफलयास। १९४३ ई.वत्सरे महात्मागान्धिने समर्पितेऽभिनन्दनग्रन्थेऽस्य संस्कृत-काव्यबद्ध: सम्मानाञ्जलिरस्य स्वातन्त्र्य-सङ्ग्रामेण सहानुभूतिं प्रमाणयति। भारतस्य स्वातन्त्र्यानन्तरं जयपुरादि-राज्यानि भारतीय-सङ्घे सममिलन्, अनुपदमेव भूसम्पत्ति- (जागीर) धारकाणां ''जागीरा’’ख्या सम्पत्तिरपि राजसात्कृता सर्वकारेण, किन्तु नेदमपि दृढ-सेवाव्रतिनोऽस्य जीवने विचलनमापादयामास यतो ह्यस्य जीवनं तपोनिष्ठानां, संयमिनां, नि:स्पृहाणां मुनीनामिव सरलमाडम्बरहीनं चाऽभूत् प्रारम्भादेव। सोऽयं स्ववस्त्राणि स्वयं प्रक्षालयति स्म, प्रतिदिनं भ्रमणाय प्रयाति स्म, प्रतिदिनं संस्कृते किंचन लेख्यमेवेति व्रतमपि निसर्गतो धारयति स्म।
एतस्यैवेयं परिणतिर्यदनेन संस्कृते लिखितानां पृष्ठानां गणनाऽपि कर्तुमद्य न पार्यते। प्रभूतानामेतल्लिखितानां ग्रन्थानां, सम्पादितानां पत्रिकाणां, लेखानां, कथानामन्यासां च रचनानां पृष्ठसंख्या लक्षादप्यधिका सम्भवेदिति स्फुटं प्रतीयते। विविधभाषाऽभिज्ञोऽयं भारतीये शास्त्रीयसङ्गीते सुभृशं रुचिशीलोऽभूत्। आकाशवाण्या: प्रमुखसङ्गीताधिकारिणा ठाकुरजयदेवसिंहेनाऽनुरुद्धोऽयं 'ध्रुपद’ शैल्यां गीतान्यप्यलिखत्, गजल, ठुमरी-प्रभृतिशैलीषु गेयपदानि त्वयमाबाल्यं प्रणयति स्मैव। सुदृढ-घटितगात्रस्यास्य व्यायामे रुचि: शैशवकालादेवाऽभूत्। जलसन्तरणं विशेषत उच्चस्थलेभ्यो जले कूर्दन-निमज्जनोन्मज्जनादिक्रीडासु (डाइव) चाप्यस्य कौशलं वार्धक्येऽपि जनान् विस्मापयति स्म। इदमेवाऽभूत् कारणं यन्मधुमेहादयो रोगा नैनमस्पृशन्। सप्ततिवर्षायुषं ऊर्ध्वं हृदयरोगस्य लक्षणानि समुदभवन्। तथापि विविधकार्येषु लेखने च व्यापृतोऽयं न विश्रमं स्पृहयति स्म। यद्यपि नायं ग्रामान्तरस्य नगरान्तरस्य वा यात्राभिरोचयति स्म, तथापि सम्मेलनेषु, इतरेषु च समारोहेषु, व्याख्यानादे: कवितापाठस्य वा कृतेऽयं प्रमुख-साहित्यिकसंस्थाभि: सर्वकारैर्विश्वविद्यालयैश्चाऽऽमन्त्र्यते स्म, प्रयाति स्म च कतिधा तद्विधेषु प्रसङ्गेषु। कविसम्मेलनेषु तु प्रायश एवायं सभापतिपदमारोढुमामन्त्र्यते स्म।
एवं निरन्तरं साहित्य-सेवाव्यापृतस्याऽस्य निधनं ७५ वर्षावस्थायां जयपुरे हृदयाभिघात-वशात् ४ जून १९६४ दिनाङ्के समभूत्। सर्वकारेण, राज्यपालादिभि:, पत्रपत्रिकाभि: समग्रस्यापि देशस्य विद्वद्भिश्चाऽस्य निधनं साहित्यजगतोऽपूरणीया क्षतिरुदघोष्यत, शोकप्रस्तावा: पारिता: श्रद्धाञ्जलिविशेषाङ्कोऽपि 'भारती’ संस्कृतमासिकेन प्राकाश्यत।
साहित्य-सर्जना-
प्राय: पञ्चसप्ततिवर्षात्मके समग्रेऽप्यायुषि भट्टमथुरानाथशास्त्रिणाऽविरतं संस्कृत-साहित्यसेवाव्रतं निरूढम्। कैशोरे वयसि हिन्दी-उर्दू-वङ्गभाषा-गुर्जरभाषादीनां ज्ञानमासाद्य तासां साहित्यमप्यनेनाऽधीतं, तत्र च यद् वैशिष्ट्यमनुभूतं तस्याऽवतारणा संस्कृतेऽपि कथं भवेदित्यस्य विशेषत: प्रयत्नोऽनेनाऽक्रियत।
तस्मिन् हि काले काव्य-जगति व्रजभाषाया महत्त्वमक्षुण्णमासीत्। अभूत् सेयं भाषा प्राय: समग्रस्यापि भारतस्य काव्यभाषात्वेन प्रतिष्ठिता पञ्चशताब्दीर्यावन्मध्यकालीनेतिहासे। कबीरदासस्य तुलसीदासस्य च समयादारभ्य रीतिकालं यावत् (प्राय: पञ्चदशीं शताब्दीमारभ्यैकोनविंशीं यावत्!) प्रमुखै: कविभिरस्यां सुललिता काव्यरचना व्यधायि। एतस्या: प्रमुखं छन्दोऽभूद् 'घनाक्षरी’ त्याख्यं यत् 'मनहरण’, कवित्त इत्यादि संज्ञाभिरप्यभिधीयते। अस्मिन् छन्दसि अन्त्यानुप्रासस्य, लयबद्धाया-श्छन्दोगते:, दण्डक-सहजस्य विस्तारस्य च यश्चमत्कार: स काव्यमञ्चेषु कविसम्मेलनेषु च श्रोतृणां हृदयान्यावर्जयति स्म, अत एव छन्द इदं कवित्वस्य निकषायमाणममन्यत, तत एव 'कवित्त’ इत्याख्याऽस्य प्रथिता।
भट्टमहोदयस्य पूर्वजा: संस्कृत-प्राकृतादिवद् व्रजभाषाया अपि सुकवयोऽभूवन्। तेषां परम्परामनुसरताऽनेनाऽपि व्रजभाषायां काव्यरचना प्रारब्धा किन्तु तस्या लालित्यं संस्कृतेऽवतारयितुं व्रजभाषाछन्द:सु संस्कृतकवितामप्ययमारेभे। उर्दू - प्रचलितासु 'गजल’ गीतिषु प्रयुज्यमानानां वृत्तानां बन्धेऽपि संस्कृत-गीतिरनेनाऽवतारिता। तस्मिन् समये प्रथितासु ठुमरी-दादरा-प्रभृति-शैलीषु सरल-गेय-लयेषु चापि गीतयोऽनेन निबद्धा:। सर्वेणानेन सर्जना-व्यापारेणाऽस्य प्रतिपिपादयिषितमभूद् यत् संस्कृतमद्यापि जीविता भाषा, न मृता। जानन्ति काव्य-मर्मज्ञा यत् कविसम्मेलनेषु मुशायराख्यसभासु च गीतयो गजल-गीतयश्च श्रोतॄन् कथमाप्याययन्ति। शैल्यामस्यां निबद्धा गीतयो विशेषतश्च घनाक्षरीच्छन्दोबद्धा सानुप्रासा सुरम्या च कविता यदाऽनेन जयपुरीयविद्वत्सभासु श्राविता श्रोतृमण्डल्यामलौकिकमिव किञ्चित् कार्मणं प्रसारितवती तदा तत्कालीनैरधिकारिभि:, म.म.पं. गिरधरशर्मप्रभृतिभिर्विद्वद्भिश्चायं घनाक्षरीच्छन्द:सु काव्यरचनायै प्रोत्साहित:।
एतस्यैव परिणामोऽभूत् ''मञ्जुकवितानिकुञ्ज’’ इत्याख्याया: काव्यशृङ्खलाया: प्रणयनं यस्यां ''मञ्जुनाथ’’इति नाम्नाऽयं काव्यसङ्कलनत्रयम् प्रकाशयामास। ''साहित्यवैभवम्’’ इत्याख्ये संग्रहे रसालङ्कारादिघटिता ऋतुवर्णन-नवरसवर्णन-प्रेम-गीति-नीति-अन्योक्ति-प्रभृतिविषयिणी कविता १९३० ई. वत्सरे निर्णय-सागरमुद्रणालये मुद्रापयित्वाऽनेन प्रकाशिता। जयपुरनगरस्य तद्राजवंशस्य नागरिकाणामुद्यानानामन्येषां च स्थलानां वर्णनपरा काव्यरचना १९४७ ई. वर्षे 'जयपुरवैभवा’ ख्यग्रन्थे प्राकाशि। भक्तिरचनानां संग्रह: १९५७ ई. वर्षे 'गोविन्दवैभव’ नाम्ना गोरखपुरस्थेन गीता प्रेसेन प्रकाशित:। एषु काव्येषु व्रजभाषाच्छन्दसां प्रयोगस्त्वभूदेव, उर्दूच्छन्दसां संस्कृतच्छन्दसामपि सर्वेषां नर्कुटकाश्वघाटी-मन्दाक्रान्ता-शिखरिण्यादीनां प्रचुर: प्रयोगोऽस्ति। १९५७ ई. वर्षे गोविन्दवैभवं यदा प्रकाश्यमानमासीत्, अनेनाऽयं स्वकीयश्चरम: कविताग्रन्थ इति घोषितमुक्तं च यदाजीवनमहं नरवर्णनादिषु, शृङ्गारवीरादिरसनिबन्धने च स्ववाणीं व्यापारयन्नभूवम्। सम्प्रति गोविन्दगुणवर्णनेन पावितां वाणीं नाहं नरकथयाऽऽविलीकरिष्यामि। तत आरभ्याऽनेन गद्य एव लेखनी व्यापारिता, नैकमपि पद्यं लिखितम्। एवं विविध-विषयक-काव्यरचनया, नवीनच्छन्दसां संस्कृतेऽवतारणया चाऽस्य कवित्वयश: सर्वत्र प्रथितं, कविशिरोमण्यादय उपाधयश्च संस्कृत-संस्थाभिरदीयन्त। काव्यरचनाऽतिरिक्तेऽपि विविधे क्षेत्रेऽस्य साहित्यसर्जना सुभृशमुल्लेखनीया।
सूचितचरमिदं यत् संस्कृताध्ययनेन समकालमेव व्रजभाषासाहित्यस्य हिन्दीभाषाया:, बङ्गभाषाया:, आङ्ग्लभाषायाश्चाप्यध्ययनमनेन स्वकीयरुचिवशाद् विहितम्। आसीत्तदा जयपुरनगरे व्रजभाषाकवीनां राजसम्मानितानां कवीश्वराणां च भूयान् समुदाय:। तत्प्रेरणया 'कविमण्डल’ इत्याख्या हिन्दी-कवि-संस्था तदानीं प्रचलति स्म यस्या: सक्रिय: कार्यकर्ताऽभूदयम्। हिन्दीसाहित्य रात्रिपाठशाला-नाम्नीं सायङ्कालीनां पाठशालामप्यसौ स्थापयामास यस्यां छात्रा: हिन्दी-साहित्यमपठन्, हिन्दीसाहित्य-सम्मेलन (प्रयाग)स्य प्रथमा-विशारद-साहित्य-रत्नादि-परीक्षासु च प्राविशन्।
पत्रकारता-
संस्कृत-साहित्यसेवा त्वनेन छात्रावस्थात एव प्रारब्धाऽभूत्। जयपुरीयो महाराजसंस्कृत-कालेजस्तदानीं भारतविश्रुतं वैदुष्यकेन्द्रमभूद्यत्र विविधशास्त्र-निष्णाता विद्वांसोऽध्यापकपदमलमकुर्वन्। छात्रा अपि तदानीं भूरि- प्रतिभाशालिनोऽभूवन्। एवंविधे प्रतिभोद्दीपके वातावरणे कालेजीयै: कतिपयै:प्रतिभाशालिभिश्छात्रै: ''संस्कृत-चन्द्रिका’’ ऽऽख्याया: संस्कृतसाहित्यपत्रिकाया: साहित्यरचनारुचिप्रेरितै: १९०४ ई. वत्सरे निश्चितं यज्जयपुरादपि संस्कृतस्य मासिकपत्रं किञ्चित्प्रकाशमेतु। एतस्याऽभूत्परिणामो यत् ''संस्कृतरत्नाकर’’ नामकं मासिकपत्रं जयपुरात्प्राकाश्यत येन संस्कृत-पत्रकारताया इतिहासे नवीनस्य युगस्यावतारणा कृता।
व्यतियाति काले पत्रमिदमखिलभारतवर्षीय - संस्कृतसाहित्यसम्मेलनस्य मुखपत्रत्वेन स्वीकृतिमलभत। तदिदं प्रायोऽर्धशताब्दीं यावज्जयपुरात् प्राकाश्यत, तत: काशीत: कानपुरतश्च प्रकाशं लब्ध्वा दिल्लीनगरीं मुख्यालयत्वेन प्रापत्। एतस्य संस्थापकेषु युवकेषु म.म. गिरधरशर्मा चतुर्वेदी, राजगुरु पं. चन्द्रदत ओझा, व्याकरणाचार्य: सूर्यनारायणशर्मा भट्टश्रीमथुरानाथ: शास्त्री च प्रमुखा अभूवन्। सर्वेऽप्येते विद्वांसस्तदानीं कालेजीयच्छात्रा: स्नातका वा अभूवन्। सर्वप्रथमोऽस्याङ्को ''जयपुर-विद्वन्मण्डल- द्वारा सम्पादित’’ इति मुद्रिताक्षरोऽभूत् किन्त्वस्य सम्पादने 'सम्पादकीय’ लेखने च प्रमुखतया सोऽयं किशोरो भट्टमथुरानाथ एव प्रामुख्येन प्रवृत्तोऽभूत्। प्रथमं सम्पादकीयमप्ययमलिखित्। परस्तात् सहकारि-सम्पादकत्वेन लेखांष्टिप्पणीश्चालिखत्। तदनु प्रभूतं कालं प्रधान-सम्पादकोऽस्थात्। प्राय: पञ्चाशद्वर्षावधावस्मिन् द्वि: पर्यायद्वये, पत्रमिदं प्राकाशि। प्राय: सर्वस्मिन्नप्यस्मिन्नवधौ मथुरानाथशास्त्री सम्पादकरूपेणाऽनेन सह सम्बद्धोऽस्थात्। अनेन प्रसङ्गेनाऽयं संस्कृतपत्रकारतायां युगप्रवर्तनमिवाऽकरोत्। वङ्गभाषायां निपुणेन, तत्साहित्याध्येत्राऽनेन तदानीं वङ्गभाषाया: ''प्रवासि’’ - प्रभृतीनां विश्वप्रथितानां मासिकपत्राणां, डॉ. रामानन्दचट्टोपाध्यायप्रभृतीनां सम्पादकाचार्याणां च शैलीं संस्कृतेऽवतार्यानेके नूतना: स्तम्भा, विधा:, सरण्यश्च संस्कृते समारब्धा:। 'विनोद-वाटिका’ इति शीर्षकेण व्यङ्ग्यविनोदानां (चुटकुले), ''संवादा: सम्पादकाभिप्रायाश्च’’ इति शीर्षकेण सामयिकघटनानां तत्सम्बन्धे सम्पादकीयटिप्पणीनां वङ्गमासिकपत्र- 'प्रवासि’ सम्पादकादिभि: प्रचालितस्य 'कष्टिपाथर’ (निकष) स्तम्भस्याऽनुरूपमेव 'साहित्यकुसुमवाटिका’ शीर्षकेण नूतनसाहित्य-समालोचनस्य च स्तम्भानयं नियतीकृतवान्, लघुकथा:, यात्रावृत्तानि (रिपोर्ताज), काल्पनिककथा: (फंतासी), एकाङ्कनाटकानि, ललितनिबन्धान्, शोधलेखान्, लघूपन्यासान् (धारावाहिकरूपेण), अन्याश्च विविधा नूतनविधा: समावेश्य पत्रस्याऽस्य माध्यमेन सोऽयं संस्कृतपत्रकारतायां नवीनानि कीर्तिमानान्यरयचत्।
आदर्शरमणी, अनादृता, असमसाहसम् इत्यादयो बहव: संस्कृतोपन्यासा वङ्गभाषीयोपन्यास-शैली-प्रेरितेनाऽनेन लिखिता: पत्रेऽस्मिन् धारावाहिक-शृङ्खलासु प्राकाश्यन्त। बहवो लेखका: प्रेरिता: स्थापिताश्चानेन, पत्रस्याऽस्य बहवो विशेषाङ्का: विषय-विशेषमवलम्ब्य प्रभूतं साहित्यं प्रस्तुवन्त: प्रकाशमभजन्। वेदाङ्क: (विद्यावाचस्पति-श्रीमधुसूदनओझा-महाभागाय समर्पितो वेदविद्याविवेचनपर:) आयुर्वेदाङ्क: (स्वामिलक्ष्मीराम-भिषगाचार्याय समर्पित:), शिक्षाङ्क: (शिक्षापरिष्काराय प्रकाशित:), दर्शनाङ्क: (म.म.पं. गिरिधरशर्मणे समर्पित:) इत्यादयो विशेषाङ्का ऐतिहासिकं महत्त्वं दधति। इत्थं हि सन् १९०४ वर्षादारभ्य ई. १९४९ वर्षपर्यन्तं, यदवधीदं पत्रं जयपुरात्प्राकाश्यत, सोऽयं सम्पादकत्वमस्य निरवहत्। (कतिपयं कालं व्याकरणाचार्या: पं. सूर्यनारायणशर्माणोऽपि सम्पादकत्व-मन्वतिष्ठन्)। १९५० ई. वर्षात्काशीं प्रति प्रस्थितवत्यस्मिन् पत्रे १९५२ ई. वत्सरे जयपुरात् प्रकाश्यमानाया 'भारती’ संस्कृतमासिक-पत्रिकाया: सम्पादनमनेनाऽऽरब्धं यन्मृत्युपर्यन्तं निर्व्यूढम्।
अनुवादा: -
विविधभाषागतस्य साहित्यस्य संस्कृतेऽनुवादमाध्यमेनावतारणाऽप्यस्य प्रमुखमवदानम्। प्राकृतभाषाया: प्रसिद्धस्य मुक्तकसंग्रहस्य 'गाथासप्तशतीति’ ख्यातस्य हालकविविरचितस्य वाचनं कुर्वाणेनाऽनेनाऽनुभूतं यत्प्राकृतमिदानीं न तावत् परिचितमिति प्राकृतगाथास्त्वरितमेव न हृदयङ्गमा जायन्ते। यदि तासां संस्कृते समच्छन्दोऽनुवाद: स्यात्तर्हि सजीवता सुभृशमनुभूयेत। एतस्याऽभूत् फलं यत्सर्वासामपि गाथानां संस्कृते निबन्धनं कृत्वा, आलोचनात्मक-तुलनात्मक-विवेचनपरकया-भूमिकया सह ''संस्कृत-गाथा-सप्तशती’’ति शीर्षकेण तामिमां कृतिमसौ निर्णयसागरमुद्रणालयात् प्रकाशयामास। अस्या व्यङ्गय-सर्वङ्कषानाम्नी टीकामप्ययमलिखत् या सहैव प्राकाशि १९३३ ई. वर्षे।
व्रजभाषाकवे: विहारिण: सप्तशतीमप्ययमनूदितवान् संस्कृते दोहाच्छन्द:स्वेव। एवंविधानि संस्कृतदोहाच्छदांसि बहूनि 'विहारिविलास’ इति शीर्षकान्त: 'साहित्यवैभव’ काव्ये प्रकाशितानि सुबहु चर्चितान्यभूवन्। वङ्ग-भाषाया बहूनामुपन्यासानां हिन्दीकथाकाराणां प्रेमचन्द-प्रभृतीनां बह्वीनां लघुकथानां, वङ्गीयानां गल्पानां (लघुकथानाम्) निबन्धानामन्यासु च विधासु विलिखितस्य प्रभूतस्य साहित्यस्यानुवादा अनेन विहिता:। एवंविधसाहित्यस्यच्छायां गृहीत्वा तदनुहारिण्यां शैल्यां संस्कृते तद्विधा रचना विधायानेन संस्कृतेऽभिव्यक्तिविधानां विस्तारं चाऽऽनायितुं प्रयतितम्।
संस्कृत-भाषाया जीवितत्वख्यापनम्-
एवं हि सर्जनात्मकलेखनेन पत्रकारतया च संस्कृते नूतनं जीवनं सञ्चारियितुमस्य प्रयासा: सोद्देश्या अभूवन्। तदानीं हि संस्कृते विदुषां वर्गद्वयमभूत्। एको वर्गोऽभूत् पाश्चात्यशोधपरम्पराप्रभावितानां विदुषां ये संस्कृतमन्यान्यप्राच्यभाषावत् क्लासिकलभाषां मत्वा तस्यामनुसन्धानस्य प्राच्यविद्याशोधस्य च क्षेत्रमेवाऽपश्यन्, आङ्ग्लभाषामाध्यमेन, इतर-भाषासु वा तस्या दर्शनानां शास्त्राणां प्राचीन-साहित्यस्य गवेषणामनुवादान् विवेचनां चैव फलप्रदाममन्यन्त। इतरो वर्गोऽभूत्तेषां विदुषां ये संस्कृतं मातृभाषावद् भाषन्ते स्म, जीवितां जाग्रतीं च भाषाममन्यन्त, तस्यां मौलिकं सर्जनात्मकं च लेखनमनवरतं प्रचाल्यान्यान्याऽऽधुनिक-भारतीयभाषावत्तामप्याधुनिकीं भाषां मत्वा तस्यां पत्रपत्रिकाणां प्रसारं, कविसम्मेलनाऽऽदीनामायोजनं च सार्थकमनुभवन्ति स्म, जीवितभाषावत् प्रतिष्ठापयितुं च तामाजीवनं प्रायतन्त। भट्टमहोदया अस्यैव वर्गस्य विद्वांसोऽभूवन्।
अत एवाऽसकृत्ते एवंविधा: स्थितीरन्वभवन् यदा पूर्वमुल्लिखितस्य वर्गस्य शोधविद्वद्भि: संस्कृतभाषा केवलं प्राचीना भाषा व्यपदिष्टा, तस्यां नूतन-साहित्य-निर्माणमकिञ्चित्करमिव च प्रतिपिपादयिषितम्। एंवविधासु स्थितिषु साऽऽटोपं, विविधै: प्रमाणै: प्रत्यक्षमनुभावितैश्च चमत्कारैरेते संस्कृतामाधुनिकभाषावत् जीवितां साधयन्ति स्म, एवंविधानि बहून्यान्दोलनानि च परिचालयन्ति स्म यै: संस्कृतभाषा पूर्णतो जीविता सिध्येत्।
एवंविधेषु प्रयत्नेष्वेकोऽभून्नूतनविधासु, नूतनच्छन्दस्सु नूतनविषयेषु च साहित्यसर्जना, अपरोऽभूद्विविधनवयुगीन-साहित्यस्य विभिन्न-भाषाभ्य: संस्कृतेऽनुवाद:, इतरश्च संस्कृतेऽभिव्यक्ति-पद्धतीनां विस्तार:।
सन् १९३० वत्सरे वाराणस्यां सञ्चजातेऽखिल-भारतीय-संस्कृत-साहित्य-सम्मेलनस्याऽ-धिवेशनेऽनेन प्रदर्शितं यदेकं वाक्यं संस्कृते कथं पर:शतं प्रकारैर्वक्तुं शक्यते। एतेषु कतिपयानि वाक्यानि नवम्बर १९३९ मासस्य ''सुप्रभातम्’’ (वाराणसी) इत्याख्ये मासिकपत्रे 'संस्कृतभाषाया महत्त्वम्’ 'इति शीर्षकान्तर्गतं प्रकाशितान्यपि। एतदतिरिक्तं तै: पत्र-पत्रिकासु लेखमालामाध्यमेन, विदुषामभिमतानि सङ्कलय्य तानि च प्रकाश्य प्रत्यक्षमेकमान्दोलनमपि प्राचाल्यत यत्र 'किं संस्कृतभाषा मृतभाषा?’ इति प्रश्नमुद्भाव्य तस्या जीवितत्वमख्याप्यत। संस्कृतरत्नाकर (जयपुर) मासिकपत्रे (वर्षम् १२ अंक: ४, वर्षम् १४ अंक:९) ''गन्धर्वसेनस्य स्वर्गयात्रा’’ इति शीर्षकेणैतद्विषयकं लेखमेकं लिखित्वा संस्कृतस्य मृतभाषात्वप्रवादस्य नि:सारतामेते स्फुटीचक्रु:।
वाराणस्या: शोधमासिके ''सारस्वती सुषमा’’ इत्याख्ये (सप्तम-वर्षस्य) द्वितीयेऽङ्के ''अपि नाम सेयमव्यावहारिकी’’ इति शीर्षकेण संस्कृतभाषाया जीवितभाषात्वमेते साधयामासु:।
एवं हि संस्कृते सर्जनात्मकस्य लेखनस्य, पत्रकारताया नूतनविधानामन्येषामभिव्यक्ति-प्रकाराणां च संस्कृतेऽवतारणस्यैकमुद्देश्य-मिदमप्यभूदेषां दृष्टौ, यदनेन संस्कृतभाषा विश्वस्य भारतस्य चाऽन्याया-ऽधुनिकभाषाणां समष्टौ जीविताया आधुनिक्याश्च भाषाया रूपे प्रतिष्ठितं स्थानं लभेतेति।
सम्पादनं टीकालेखनं च-
पत्रसम्पादनेन साहित्यिक-पत्रकारताक्षेत्रे भट्टमहोदयैर्नवीन-युगावतारणा यथा विहिता, तथैव प्राचीनग्रन्थपरिष्कारे, सम्पादने, भूमिकालेखने, टिप्पणादिलेखने चापि सुमहत्परिश्रान्तम्। पूर्वमुल्लिखितं कादम्बर्या: सम्पादनं 'चषक’ -टिप्पणीलेखनं रसगंगाधरस्य पाठपरिष्कार:, ''सरला’’ टीकालेखनं, तदतिरिक्तं गीतगोविन्दस्य सम्पादनं पादटिप्पणीलेखनं चानेन निर्णयसागर-मुद्रणालयानुरोधेन विहितम्। ग्रन्थत्रयमिदं तस्मादेव मुद्रणालयात् प्रकाशितं, संस्कृतविद्वत्सु बहूनि वर्षाणि लोकप्रियं सुप्रसृतं चाभूत्। सेवानिवृत्त्यनन्तरमनेन, स्वपूर्वजेन श्रीकृष्णभट्टेन लिखितस्यैतिहासिक-महाकाव्यस्य ''ईश्वरविलास’’ नामकस्य दुर्लभा पाण्डुलिपि: पुणेस्थभाण्डारकरशोधप्रतिष्ठानादधिगत्य सम्पादिता, विस्तृतभूमिकया, ऐतिहासिक-टिप्पणीभि:, स्वनिर्मितया ''विलासिनी’’ टीकया च सह राजस्थान-प्राच्य-विद्या-प्रतिष्ठानात् (जोधपुरात्) प्रकाशिता। तदिदं महाकाव्यं राष्ट्रिय-संस्कृत-संस्थानस्य जयपुर-परिसरे साहित्यविभागीयप्राध्यापकेन डॉ० रमाकान्तपाण्डेयेन हिन्दीभाषायामनूद्य २००७ ई. जयपुरात् प्रकाशितमभवत्। यत्र भट्टमहाभागानां विलोसिनी टीकाऽपि संयाजिताऽदिति। श्रीकृष्णभट्टलिखिताया: पद्यमुक्तावल्या: (मुक्तकसङ्ग्रहस्य) टीका ''गुणगुम्फनिका’’ -ऽनेन लिखिता, ग्रन्थस्य सम्पादनं भूमिकया सह कृतं, ग्रन्थश्चायमपि राजस्थान-प्राच्य-विद्या-प्रतिष्ठानात्, प्रकाशित:। श्रीकृष्णभट्टस्य छन्द: शास्त्रग्रन्थो वृत्तमुक्तावल्याख्योऽपि पुणेस्थभाण्डार-करशोधसंस्थानादानाय्य सभूमिकोऽनेन राजस्थान-प्राच्य-विद्या-प्रतिष्ठानात् प्राकाशि। शिलालेखरूपेण च यानि दानपत्राणि प्राचीनैर्नरेशै: सुललितसंस्कृतभाषायां विलेखितानि, तेषामध्ययनं संस्कृतपाठ्यक्रमे समावेशितमभूद्विभिन्नै राज्यै:। एवंविधस्याऽध्ययनस्य कृते पाठ्यपुस्तकरूपेण कतिपयशिलालेखादीनां सङ्कलनं, सम्पादनं, टिप्पणीलेखनं च विधाय 'शिलालेखललन्तिका’ नाम्नाऽयं ग्रन्थो निर्णयसागरात्प्राकाशि भट्टमहोदयैरिति पूर्वं सूचितमेव।
नाट्यकृतय: -
काव्यलेखनेऽस्य नैपुण्यं तु विश्रुतमेव, अनेन महाराजसंस्कृतकॉलेजे साहित्य-विभागाध्यक्ष-पदमधितिष्ठता 'उत्तररामचरित’ नाटकस्य मञ्चोपयोगि रूपान्तरणं विधाय तस्य नाटकस्य कालेजीयनाट्य-संघद्वारा रामप्रकाशाख्ये प्रेक्षागृहे मञ्चावतारणे सुमहद् योगदानमनुष्ठितम्, मध्ये मध्ये स्वनिर्मिता: संस्कृतगीतयोऽन्तर्वेशिताश्च (१९३१ ई. वर्षे)। ततश्च महाभारत-कथामाधारीकृत 'पाण्डव-विजया’ख्य-नाटकस्य मञ्चोपयुक्ता पटकथा विविधप्राचीन-नाटकानामाधारेण रचिता, १९४० ई. वर्षे तस्मिन्नेव नाट्यगृहे मञ्चिता च। जयपुरे आकाशवाणीकेन्द्रस्य प्रारम्भादनन्तरं तदधिकारिभिरनुरुद्धोऽसौ ''मञ्जुला’’ख्यं ध्वनिनाट्यं लिलेख। प्रसारितमिदं जयपुरीयाऽऽकाशवाणीकेन्द्रात् १६/१/५७ दिनाङ्के ८/८/५८ दिनाङ्के च तेदेतदपि मञ्जुनाथगद्यगौरवम्’ इत्याख्ये ग्रन्थे प्रकाशितम्।
गद्य-रचना: -
संस्कृत-गद्येऽप्यस्य लेखनं विपुलमस्ति। शताधिका: संस्कृतलघुकथा:, दशाधिका उपन्यासा:, बहवो ललिता-निबन्धा:, काल्पनिककथा: (फन्तासी), व्यङ्गयलेखा:, यात्रावृत्तानि, रूपककथा: (एलेगरी), प्रतीक-कथा, विनोदा (चुटकुले) अन्यासु च विधासु लिखिता: सर्जनात्मकरचना गणनातीता एव। शोधलेखा: समालोचनात्मकलेखा:, साहित्यालोचनटिप्पण्य:, सामयिक-टिप्पणानि, समाचारसारादयश्चापि भूरिशो व्यलेख्यन्ताऽनेन। वाराणसी-जयपुर-दिल्ली प्रभृतिकेन्द्रेभ्य: प्रकाशितेषु सर्वेष्वपि पत्रेष्वस्यैवंविधा रचना: प्राकाश्यन्त यासां सूची सुदुष्करा साङ्गोपाङ्गत्वेन निर्मातुम्। तथापि बहुभि: शोधार्थिभिरेवं-विधरचनासु बह्वीनां सूचीकरणस्य प्रयत्ना: सन्त्यनुष्ठिता:। तत एवैवंविधा सूची शक्येत द्रष्टुम्।
हिन्दी रचना: -
हिन्दीभाषायामप्यनेन बहवो ग्रन्था:, लेखा:, लघुकथा:, कविताश्चालिख्यन्त। वाल्मीकीये रामायणे विभीषण-शरणागति-प्रसङ्गमवलम्ब्य सुरुचिरं विवेचनात्मकं नूतनमेव पन्थानमनुसरत् पुस्तकं 'शरणागतिरहस्य’ नाम्नाऽऽनेन लिखितं यद् गीताप्रेसात् (गोरखपुर) प्रकाशितं लोकप्रियमभूत्। 'सरस्वती’- 'माधुरी’-'कल्याण’-जयभूमि-राष्ट्रभाषा-प्रभृति-पत्र-पत्रिकासु लिखिता अस्य लेखा लघुकथाश्च हिन्दीजगत्यप्येनं सुविदितमकार्षु:। विविधेष्वभिनन्दन-ग्रन्थेषु तत्सम्पादका एनमुपसृत्य विविधविषयकान् लेखानस्य गृहीत्वा प्रकाशितवन्त:।
समाजे सम्मान: -
इदमभूत्स्वाभाविकं यदस्य सुदीर्घायै संस्कृतसैवायै परितुष्यद्भिर्विद्वद्भि:, संस्थाभि:, सर्वकारैश्च विविध-सम्मानोपाधिप्रदानद्वारा, सदस्यताप्रदानद्वारा चास्य सम्मानं क्रियेत। अत: सेवाकाले एवायं वाराणस्यादिविविधविद्याकेन्द्राणां परीक्षक:, प्रमुख-वक्ता, समारोहाणामध्यक्षो, मुख्यातिथिर्वा निर्धार्य समामन्त्रित: सादरम्। वाराणस्यां सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य स्थापनानन्तरं तस्य दीक्षान्तसमारोहावसरे समायोजितस्याखिल-भारतीय-कविसम्मेलनस्या-ध्यक्षपदे, अखिलभारतीय-संस्कृत-साहित्यसम्मेलनेन समायोज्यमानानां कविसम्मेलनानामध्यक्षपदे, राजस्थान-संस्कृत-साहित्य-सम्मेलनस्य बीकानेरनगरेऽधिविष्टस्य द्वितीयाधिवेशनस्याध्यक्षपदे (१९५०ई.), विविधानामन्येषां समारोहाणां चाध्यक्षपदेऽसकृदयं सानुरोधं प्रतिष्ठापितोऽभूत्। राजस्थान-सर्वकारेण स्थापिताया: (सन् १९५७ ई.) साहित्य-अकादम्या: संस्थापकसदस्योऽयमभूत्। राजस्थान-राज्येन संस्कृत-शिक्षाया: नीतिनिर्धारणाय नियुक्ताया विशेषज्ञसमिते: संस्कृत-मण्डलस्य च सदस्योऽयमभूत् (१९५२-१९६२)। बड़ौदा-विश्वविद्यालयेन रससिद्धान्तानां काव्यसिद्धान्तानां च विषये व्याख्यानानि विधातुमयमामन्त्रितोऽभूत् (१९५६ई.)। उज्जयिन्यां कालिदाससमारोहस्य परम्परां प्रारब्धवती कालिदास-समितिरेनं सदस्यं निर्माय समारोहावसरे समायोज्यमानानां कविसम्मेलनानामध्यक्षं च विधाय स्वगौरवमेधितवती। तस्या: प्रमुख: श्रीसूर्यनारायणव्यासस्त्वेनम् ''अभिवनकालिदास’’ पदेनैव सम्बोधयति स्म।
सन् १९३६ ई. वत्सरे जयपुरेऽधिविष्टेन (पञ्चविंशाधिवेशने) अखिलभारतीय-संस्कृत-साहित्य-सम्मेलनेनास्मै कविशिरोमणि: इत्युपाधि:, वाराणसीस्थ-भारतधर्म-महामण्डलेन साहित्यवारि-धित्युपाधि:, बम्बईस्थ-वेल्लनाटीय-तैलङ्गसभया ''कविसार्वभौम’’ इत्युपाधिश्चास्मै स्वर्णपदक-सम्मानोत्तरीयादिभि: सह सादरमुपायनीकृत:। १९६१ वत्सरे यदा राजस्थान-सर्वकारेण संस्कृतविदुषां कृते पुरस्कारयोजना प्रारभ्यत, तदा सर्वप्रथममस्मै त्रिसहस्रमुद्रात्मकं पुरस्कारं प्रदाय योजनाया अस्या: शुभारम्भो विहित:। बह्वीभि: संस्थाभिर्मरणोत्तरमस्मै सम्माना: प्रदत्ता:।
नि:स्पृहता -
पूर्वमुल्लिखितमेव यद् भट्टमहोदयो जयपुर-राज्येन प्रदत्ताया: प्रभूतभूसम्पत्ते: स्वामी आसीदिति नानेनार्थकष्टमनुभूतं यौवने। बाल्ये तु सुमहतीमार्थिकीं विपत्तिं सोढ्वा, स्वमतिबलेन विविधान् सङ्कटानुत्तीर्य स्वकीयं राजसम्मानितं संस्थानमनेन कथं सङ्कटादुद्धृतमित्यस्य वर्णनमनेन 'साहित्यवैभव’ काव्ये कृतमस्ति। द्वारकानाथभट्टस्य सुतोऽयं यदा सुन्दरलालभट्टस्य दत्तकोऽभूत्तदानेन ज्ञातं यत् समग्राऽपि भूसम्पत्ति: पूर्वजै: बन्धकतया उत्तमर्णानामधिकारे निक्षिप्ताऽस्ति, न कोऽप्याय:, ऋणं वर्धते यतस्तस्य कुसीदमनुदिनं प्रवर्धते। नि:सन्तानं दिवङ्गतेन श्री सुन्दरलालेन, अन्यैश्च स्वेच्छाचरणा-नुरागिभिरनवधानिभि: पूर्वजै: स्वकीयकार्यार्थं विभिन्नेभ्यो जनेभ्य: ऋणानि गृहीतान्यभूवन्, तस्यायं परिणामोऽभूत्। प्रबन्धका भ्रष्टाचरण-परवशा मध्ये सुबहु वित्तं भुञ्जते स्म। अनेन सर्वापि व्यवस्था कैशोर्यादेव सावधानं परीक्षिता, प्रबन्धो निजसात्कृत:, भूसम्पत्तिर्बन्धकत्वान्मोचिता, ऋणं परिशोधितम्, आय: संवर्धित:। एवं प्रायस्त्रिंशद्वर्षात्मके वयस्ययं स्व-निर्भर ऋणमुक्तश्चाजायत। तदनन्तरमधिके-नोत्साहेन साहित्यसेवापर: समजायत।
एवं च साहित्यसेवात: पुस्तकलेखनादिकार्येभ्यश्च नायं कदापि किञ्चन लिप्सुरभूत्। एतस्य परिणामोऽपि तथाविध एवाभूत्। विपुलग्रन्थ-लेखकेनाऽप्यनेन नैकमपि रूप्यकं कस्मादपि प्रकाशकाद् 'रॉयल्टी’ रूपेणाधिगतम्। निर्णयसागर-मुद्रणालय: सम्पादनस्य नाममात्रं किञ्चन पारिश्रमिकं प्रारम्भ एव ददाति स्म, न स्वामिस्वं (रॉयल्टीं) निर्धारयति स्म। राजकीयपाठ्यपुस्तक-मण्डलेन यत् संस्कृतपाठ्यपुस्तकमनेन लेखितम्, तस्य पारिश्रमिक-रूपेण सकृदेकश: कश्चन राशिरवश्यमस्मै प्रदत्तोऽभूत्, 'संस्कृतसुधा’ -ख्यपाठ्यपुस्तकस्य लाभस्तु य: कोऽप्यभूत्, मध्यस्थव्यक्तिभि: सानन्दं भुक्त:।
परिवेश: परिसरश्च-
यस्मिन् युगे भट्टमहाभागैराजन्म संस्कृतसेवाव्रतं निरूढं तद् युगमेवंविधानां नि: स्वार्थ-सरस्वती-सेवकानामेवाऽभूत्। अनवरतसाहित्य-सर्जनासत्रमेतदेभिर्न कस्मैचिल्लाभलोभाय, न वा यशोलिप्सया, न च कस्यचन बन्धनेन प्रेरणया वा परिचालितम्, आसीत्सा काचनान्त:प्रेरणैव यया खल्वेभिर्निश्चितमासीत् यत् प्रतिदिनं संस्कृते किञ्चन लेखनं विना भोजनं नैव करणीयम्। वाराणस्यां जयपुरेऽन्येषु च संस्कृतविद्याकेन्द्रेष्वभूवंस्तदानीमेवंविधा एव नि:स्वार्थसंस्कृत-सेवका मनीषिणो येषां पुण्यान्यद्यास्माभिरुपभुज्यन्ते। भट्टमहाभागानां ज्येष्ठतनुजत्वसौभाग्येन ममाऽप्यभूदवसरस्तदानीन्त-नानामेवंविधानां मनीषिणां दर्शनस्य, तेषां वैदुष्य-सुरभितासु चर्चागोष्ठीषु प्रवेशस्य, यासु न राजनीतिर्न व्यवसायो, न वाऽन्यविधं किञ्चन वस्तुजातमभूच्चर्चाविषय:, संस्कृतसम्बन्धिन्यश्चर्चा:, शास्त्रसन्दर्भ-संवलिता एव विनोदा:, काव्यालापसन्दानिता: परिहासा: एवंविधा एव व्यासङ्गास्तेषां समवाये, जलविहारोपवनविहारादिषु सर्वविधेषूत्सवावसरेषु चाभूवन्नित्यमधुना स्मरामि। कथं युगमेवेदानीं विपरिवृत्तम्। आस्तां तावत्।
भट्टमहोदयानां सुहृत्परिकरे जयपुरीया: स्वामिलक्ष्मीराममहाभागा आयुर्वेदमार्तण्डा:, म.म.पं. गिरिधरशर्माण:, पं. चन्द्रधरगुलेरिणोऽनुजा: पं. सोमदेवगुलेरिण:, राजगुरु-चन्द्रदत्तमैथिला:, पं. सूर्यनारायणशर्माण:, प्रशासका: श्री श्यामसुन्दरपुरोहिता:, वेदविज्ञा: पं. मोतीलालशर्माण:, पं. गिरिजाप्रसादद्विवेदा:, कलिकातास्था: (शेखावाट्यभिजना:) श्रीझाबरमल्लशर्माण:, पुणेस्था: डॉ. पी.के. गोडेमहोदया:, बम्बईस्था गोस्वामिगोकुलनाथा: पं. पुरुषोत्तमचतुर्वेदाश्च, वाराणसेया नारायणशास्त्रिखिस्तेमहोदया:, रायकृष्णदासमहोदयाश्च, वाङ्गा असितकुमारहालदारा: (प्रसिद्धाश्चित्रकारा ये जयपुरीयकला-कालेजस्याध्यक्षा अप्यूभूवन्) दाक्षिणात्या: पं. पट्टाभिरामशास्त्रिण:, झालरापाटनस्था नवरत्नगिरिधरशर्माण: अन्ये च विभिन्नेषु प्रान्तेषु स्थिता विद्वांस: परिगणयितुं शक्यन्ते। पं. चन्द्रधरगुलेरि-णाऽस्य कवित्वचर्चा मित्रत्वेन बहुत्र कृताऽभूत् (''पुरानी हिन्दी’’ पृ. १६, नागरी प्रचारिणी, काशी)।
एतेषां शिष्येषु, स्व. गणेशरामशर्माण:, स्व. पं. वृद्धिचन्द्रशास्त्रिण:, स्व. वैद्यमुकुन्ददेवा:, पं. गोपालनारायणबहुरा, स्व. दीनानाथ त्रिवेदी मधुप:, उद्योगपति: स्व. श्री कन्हैयालालतिवाडी, प्रशासका: श्री शेरसिंह-द्वारकानाथपुरोहितप्रभृतय: शिक्षका: स्व. श्रीराधागोविन्दशर्मप्रभृतय:, जननेतार: श्रीसिद्धराजढड्ढा-पूर्णचन्द्रजैन-जवाहरलालजैन-युगलकिशोरचतुर्वेद-हीरालालशास्त्रिप्रभृतयो बहव: सन्ति ये महाराजाकालेजाख्ये पाश्चात्य-पद्धत्यनुसारिणि महाविद्यालयेऽथवा महाराजा संस्कृतकालेजाख्ये पाश्चात्य-पद्धत्यनुसारिणि महाविद्यालयेऽथवा महाराजा संस्कृतकालेजाख्ये-प्राच्यपद्धत्यनुसारिणि महाविद्यालये, वा गृहे भट्टमहोदयात्संस्कृतं साहित्यशास्त्रं वाऽधीतवन्त:।
आसां पंक्तीनां लेखकोऽपि तत्सुतत्वेन तेभ्यो न केवलं काव्यशास्त्रकाव्यरचनान्यायवैशेषिक-सांख्य-पुराणेतिहासादिविषयान् अपि तु व्रजभाषाकाव्य-हिन्दी-कवितादि-विषयानपि तदाशीर्वचोभि: स्नेहसम्भारेण च सहाऽध्यगीष्ट, स एव चाऽऽशी:पुण्यराशिरद्य तस्य समग्रो निधि:।
देवर्षि-कलानाथशास्त्री