प्रास्ताविकम्
यादवकुलावतंस विबुधवंशवारिधिविधो।
मुनिजनमानसहंस कंसनिकन्दन पाहि माम्॥१॥
साहित्यं हि समग्रेऽप्यस्मिन् सभ्यसंसारे सीमन्तमणि: समर्थताया:, सरणि: स्वतन्त्रताया:, सिद्धिफलं सामाजिकताया:, सर्वस्वं च सभ्यताया इति सम्यगवगतमेव सर्वेषामपि सुधियाम्। यस्या: किल जातेर्यावती साहित्यसमृद्धि: सा तावन्तमेव महिमानमुपगच्छति मार्मिकेष्विति केन वा न विदितं विवेकिना? संस्कृतभाषासाहित्यमिदं समये समये समुत्पन्नै: प्राक्तनै: कृतिभि: समयानुसारिणी-भिर्निजरचनाभिरुत्तरोत्तर-मुपबृंहितमिति घोरतरं विलुण्ठनेऽपि समृद्धमिदं पश्याम:। काव्यान्यमुष्य पारेसमुद्रमपि समान्दोलितमस्तकैरधुनाऽप्यभिनद्यन्ते रसिकैरिति न केन वा वेदनीयो विजय: साहित्यस्य? काव्यं किल व्याख्या जीवनस्य, प्रतिबिम्बनं समाजस्य, पदपद्धतिश्च विलुप्तस्येतिहासस्येति महद् गौरवं तावत्काव्यस्य। इदं हि निजाभ्यन्तरे प्रस्फुरता रसेन सहृदयमानसं प्रवणीकृत्य संचारयति तस्मिन्ना-त्माभीष्टान् भावानित्यपरोक्षोऽयमर्थ:। अत एव हि पुरातना राजानो दानसंमानादिपरितोषितेभ्य: कविभ्य-स्तथा काव्यसृष्टिं प्रादुरभावयन् यया ह्यद्यत्वेऽपि चित्राङ्कितमिव पुरातनं महिमानमभिमुखमालोकयाम:। यदा तावदेकैकराष्ट्राधिपतिमप्यद्यत्वे बहुमानेन संभावयामस्तदा- 'अष्टादशद्वीपनिखातयूपो बभूव योगी किल कार्तवीर्य:’ इत्यादिकाव्योत्कीर्तिता कीर्तिसंकथा कुतो वा नाङ्कयेदसाधारणं महिमानमार्यनरपालानाम्?
अवश्यममीषां काव्यानां जीवातुभूता रसभावादय:। मनोवशयित्री रसास्वादरूपा गुडजिह्विका यावन्नाग्रत: क्रियते न तावद् भेषजाभिमुखा भवन्ति विनेया:। काव्यच्छन्दसामियं गुडजिह्विका मन्ये जन्मसिद्धैव। तथाहि-लोके छन्दसामवताराय प्रकीर्त्यते भगवान् वाल्मीकि:। तपस्तेजितमनोभूति: स महर्षि: स्नानाय तमसातटमुपगतो ददर्श पुर: संक्रीडमानं क्रौञ्चमिथुनम्। अहह भूतेष्वनुकम्पमानमानसस्य यावत्खेलन्ति मोदलहर्योऽस्य मानसे हन्त तावदेव दारुणव्याधप्रहितो निशितशर: प्रोथयामास मिथुनात् क्रौञ्चीमिमाम्। वेदनाविकलवपुर्भुवि विलुठन्ती विजहौ वराकी प्राणान्। तामिमामालोक्य शोकोन्मथित-मानसस्य महर्षेर्मुखात्सहसा विनिर्जगाम स पदगुम्फो यो हि संजनयामासाऽऽनुष्टुभं वृत्तम्। अवश्यमासीदु-ज्जृम्भमाणमस्मिन् करुणरसस्रोतो येन हि हृदयद्रुतिजननी तादृगियमसाधारणी वागाविर्भूता। तदेवमयमौत्प-त्तिकालिक एव कवितानां रससंबन्धो येन हि श्रोतृणामपि मन: प्रसह्य भावानुप्राणितं भवति।
किन्तु नेदं विस्मरणीयं स्याद् यद्बहुषु स्थलेषु सोऽयं रसास्वादो वस्तुत एव गुडजिह्विकामात्रं सम्पद्यते, प्रधानतया चास्वादनीयं त्वन्यदेव भवति निबन्धु: कवे:। सुस्फुटमिदमितिहासकथाबन्धेषु ऋतु-नगरादि-वस्तुवर्णन-प्रबन्धेषु च, यत्र हि प्रधानतया वर्णनीयस्य महत्त्वमेव सहृदयानां हृदयसीमन्य-भिसंचारणीयं भवति। इयमेव तावद् गुणीभूतव्यङ्गयानां काव्यानामुद्भवभूमिर्नूनम्। सेयमपि पद्धतिर्विस्तृत्य लोकेभ्य: समुपदिष्टा सकलोपजीव्येन भगवता व्यासेन महाभारतादिषु, यत्र हि कथानायकानां पाण्डवादीनां चरितं तीक्ष्णतूलिकया तथाङ्कितं यथा नेदं श्रोतृणां हृदयपटलादद्याप्युन्मृष्टं भवति। मध्ययुगे कविकुलशेखरै: कालिदासादिभि: सेयं रीतिर्विशदीकृता यत्प्रमाणभूतान्युज्ज्वलोज्ज्वलरत्नानि रघुवंशादीन्यद्यापि चमत्कुर्वन्ति हृदयानि सहृदयानाम्। ततस्तदनन्तरभाविन: कह्लण१-बिल्हण-क्षेमेन्द्रादीन्प्रमुखीकृत्य जगन्नाथपण्डितराजपर्यन्तै: संस्कृतमहाकविभि: सेयमैतिहासिककाव्यसरणि: सगौरवमादर्शीकृता तावदन्यान्य-भाषासाहित्यरसिकानाम्। किन्तु परित: परिवर्तनमय: सोयमलंघनीय: समयो भगवान्नूनं येन हि संस्कृतप्रातिद्वन्द्व्ये समुपस्थापितानि प्राकृतापभ्रंशमयानि काव्यानि येषां 'वर्णिका’रूपेणाद्यापि जाग्रति गाथासप्तशत्यादीनि ग्रन्थरत्नानि।
व्रजभाषाया विकास:
किन्तु न चिरमस्थात्सोपि समय:। तत्तत्प्रान्तीयाऽपभ्रंशभाषाभ्य: 'प्राचीन हिन्दी’ राजस्थानी-पञ्जाबी-गुजराती-पहाडी-प्रभृतीनां प्रान्तीय-भाषाणां समभूद्विकास:। तत: अवधीप्रभृतिभाषाणां संमिश्रणमवाप्य संस्कृतच्छायया प्रौढिमापन्ना 'व्रजभाषा’ निजमाधुर्यगुणात्कविसहृदयानामादरणीयाऽभवत्। तत्तत्प्रसिद्धकवीनां प्रतिभागुणात् राज्ञामाश्रयवशाच्च सेयं भारतस्य भूयांसं प्रदेशमधिचकार। शनैर्निजमाधुर्येण सेयं साहित्यस्य कवितांऽशमात्मसाच्चकार। अन्यान्यकार्याणि काममन्यान्यासु भाषास्वभूवन् परं कविताया: सेयमेव भाषा सर्वत्र पर्यगण्यत। शनै: शनै: तावन्तं प्रसारमेवपि यथा भारतस्य विभिन्नविभिन्नभाषा-भाषिष्वपि राजसंस्थानेषु सेयमादरमुपलेभे। एतस्यैवायं प्रभावो यद् व्रजभाषामवलम्ब्याऽपि भूषणकवि: सुदूरवर्तिनि महाराष्ट्रप्रान्तेपि छत्रपते: शिवाजिन: सकाशान्महान्तं संमानमसाधारणं चोपायनमधिजगाम। कृतं कृतमधिकदूरान्वेषणेन, सुप्रसिद्ध: पद्माकरमहाकविस्तयैव भाषया सतारा (महाराष्ट्रप्रान्तीय)धिपतिं रघुनाथरावं बाँदाप्रान्तीयं हिम्मतबहादुरम्, राजपुत्रप्रान्तीयं जगत्सिंहम् (जयपुराधीश्वरम्), उदयपुराधीश्वरं भीमसिंहं, गवालियराधिपतिं दौलतरावसैंधियामहोदयं चापि परितोषयामास।
कारणमेतस्येदमेव यत्सेयं भाषा माधुर्येण सारल्येन अपभ्रंशस्वातन्त्र्येण च शनै: शनैस्तथा मधुरा च सर्वबोध्या च समवर्तत यथा सर्वेपि कवितातत्त्वज्ञा मन्त्रमुग्धा इवास्यामसाधारणमस्निह्यन्। एतस्य स्फुटतरं प्रमाणं विभिन्नभाषाभाषिभ्योपि भूपालेभ्य: कवीनां परोलक्षमुद्रापारितोषकप्राप्तिरेव। त्यज्यतां भोजराजस्य कथा, यत्र प्रत्यक्षरलक्षदानस्य कथायां लोकानां शङ्कावसरोऽपि। किन्त्वैतिहासिकप्रकाशमये दुर्लभमुद्रोल्लासमये अस्मिन्नपि समये लक्षलक्षमुद्रा: प्रददुरेकवारमेव महीपतय:। किं नाम नायं विजयो व्रजभाषामाधुर्यस्य? न चेयं प्ररोचनोक्तिरेवाभिऽमन्यताम्। भूषणपद्माकरादिविषये मिश्रबन्धुप्रभृतिभिरिति-हास-लेखकैस्तथ्यमन्विष्य लिखितमेकैकमक्षरम्। तैरपि पद्माकरादे: परोलक्षमुद्रोपार्जनं सर्वात्मना समर्थितम्। स्वयं पद्माकरकवि: स्वाश्रयदातु: समीपे प्रोवाच निश्छलभावेन। बहुत्र भ्रान्त्वा लब्धभूरि-संमानोऽपि नायमेवं विनयेन कुत्रचिदन्यत्रोवाच यथा जयपुरनरपतेर्महाराज-जगत्सिंहस्य समक्षे -
'भट्ट तिलँगानेको बुँदेलखण्डवासी नृप-
सुजसप्रकासी पदमाकर सुनामा हों
जोरत कवित्त छन्द छप्पय अनेक भाँति
संसकृत प्राकृत पढी जु गुनग्रामा हों।
हय रथ पालकी गयन्द गृह ग्राम चारु
आखर लगाय लेत लाखन की सामा हों
मेरे जान मेरे तुम कान्ह हो जगतसिंह
तेरे जान तेरो वह विप्र मैं सुदामा हों॥’
कविता गुणग्राहकाणां राजस्थानीयभूमिपालानामाश्रयेणोत्तरोत्तरं परिष्कारं मधुरभावं चापन्ना सेयं व्रजभाषा तथा सुभगा समपद्यत यथा वर्तमानहिन्दी (खडी बोली) समयेपि निसर्गमधुरकविताया: कृते सेयमेव समभ्यनन्द्यत मार्मिकै: कविभि:, तदाश्रयदातृभिर्भूपालैश्च। किं बहुना, वर्तमानहिन्द्या: (खडी बोली) सर्वतोप्येकच्छत्रराज्य-मयेऽस्मिन्नपि समये कवितामाधुर्यपरीक्षकाणां संसदि साम्प्रतमपि श्रूयते - 'कविताया: कृते नैसर्गिकं मार्दवं च माधुर्यं च यद् व्रजभाषायां न किल तत्सैनिकवेषसज्जायां वर्तमानहिन्द्याम् ('व्रजभाषा की कविता में जो मिठास और 'लोच’ है वह खड़ी बोली के सिपाहियाना ठाठ में आज भी नहीं’)।
व्रजभाषायां पदमाधुर्यसौकर्यम्
अत्र हि व्रजभाषाया: स्वाभाविकं माधुर्यमेव मन्ये प्रधानतो निमित्तम्। व्रजभाषायामपभ्रंशप्रक्रियया कलितशाणोत्कषणानीव परामेव कान्तिं च कोमलतां चावहन्ति पदानि नूनम्। 'ओष्ठ’ 'दृष्टि’ 'ज्योति:’ पदानामपेक्षया 'ओठ’ 'दीठि’ 'जोति’ पदानि कस्या वा कोमलानि न प्रतीयेरन्? ('अधर धरत हरि के, परत ओठ दीठि पट जोति’ बिहारी)। स्पर्श-दर्पण-द्युति-कर्कशादिपदानि संयुक्ताक्षरसंपर्कात्तर्क्यन्ते किल कामं कर्कशानीव। किं भूयसा, स्पर्शादिपदस्पर्शे सति तत: पूर्वमपि पदं संयोगपरत्वात्कर्कशतां धत्ते। किन्तु 'परस-दरपन-दुति-करकस’ रूपेणोच्चारितानि तानि नोद्वेगमुद्वहन्ति कस्यचित्।
'दीठि न परत समानदुति कनक, कनक से गात।
भूषन कर करकस लगत परस पिछाने जात॥’ बिहारी
ईक्षण-तीक्ष्णादिपदानि शृंङ्गारपदशय्यायामुपनिबद्धानि कलयन्ति कर्णयो: किमपि काठिन्यमिति को वाऽनाग्रहिलो न मन्येत? किन्तु व्रजभाषामुपगतानि तान्यपि तीक्ष्णतां मुञ्चन्ति। ('ये तेरे सब तें विसम ईछन तीछन बान’ बिहारी) 'प्रावृट्’ 'प्रिया’ 'भ्रू’प्रभृतिपदानि संयुक्तवर्णघटिततया स्वयं तु न तादृङ्मधुराणि, किन्तु वराकस्य पूर्वस्यापि पदस्य बलात्कलयन्ति संयोगपरत्वकारणाद् गुरुत्वं कर्कशतां च। विवशतया प्रयोक्तव्यान्येव च भवन्ति बलात्तानीमानि पदानि शृङ्गारपदशय्यायामपि। व्रजभाषायां तु 'पावस’ 'पिय’ 'भौंह’ रूपमुपगतानि तानि कस्य वा ललितानि न प्रतीयेरन् ? 'विद्युदुद्द्योता’ दिपदानि परमार्थतो विचारे न तथा माधुर्यगुणाऽनुगुणानि। किन्तु व्रजभाषापदसंघटनायां 'बिजुरी’ 'बिज्जु’ 'उदोत’ रूपमुपलभ्य मण्डयन्ति मनाङ् माधुर्यमेतानि ('चढी अटा देखति घटा बिज्जु छटा सी नारि’, 'तिय लिलार बैंदी दियैं अगनित बढत उदोत’)।
चन्द्र-पुष्प-अमृतादिपदानि मधुररसोद्दीपकानीति नामग्रहणमहिम्नैव मेदुरयन्ति माधुर्यमिह मानवानां मनसि। किन्तु पदान्येतान्युच्चारणे 'चन्द’ 'पुहुप’ 'अमिअ’ 'अमी’ आदिरूपमवाप्य मधुरपदशय्या-यामुपचितं माधुर्यमुपवर्द्धयन्ति शतगुणितमिव।
अपभ्रंशकृतं सौकर्यम्
अस्ति च व्रजभाषायामपभ्रंशविषयेपि बहुतरं स्वातन्त्र्यम्। एकैकस्य शब्दस्य कलिता: कविभिरात्मच्छन्दानुरोधेन नानाधा ह्यपभ्रंशा येन हि निर्व्दन्द्वमुपनिबध्यन्ते तानि निजरचितेषु छन्दस्सु। 'स्त्री’ शब्द: 'इस्त्री’ 'अस्त्री’ इत्यादिरूपेण भाषायामपभ्रष्टोपि 'तिरिया’ ('तिरिया तेल हमीरहठ चढ़ै न दूजी बार’) 'त्रिया’ ('त्रिया चरित्र जानै नहिं कोय’) 'तिया’ ('तिया न चाहत कन्त’) 'तिय’ ('तिय तिथि तरनि किसोरवय पुन्य कालसम दौन’)। किमधिकम्, केवलमेकाक्षरं 'ति’ इति रूपमप्युपलब्धवान् सोयं शब्द:। ('को ति अमोल बिकात नँही’) 'नदी’ 'वय:’ इति शब्दौ 'नै’ 'वै’ इत्येकाक्षररूपेण प्रयोक्तुमस्ति स्वातन्त्र्यं व्रजभाषायाम् 'किते न औगुन जग करै नै वै चढ़ती बार’। अस्तु, एवंविधेनापभ्रंशशस्वातन्त्र्येण पदनिगुम्फने कियत्सौलभ्यमुपलभ्यते कवयित्रेति न तावद्विशिष्य बोधनीयं स्यात् स्वयमक्षराणि निगुम्फितवद्भ्यो महाशयेभ्य:।
किञ्च नैतावदेव, विभक्तिचिह्नेष्वपि भूयस्तरां प्रयोगस्वातन्त्र्यं व्रजभाषायाम्। 'नि’ इति चिह्नं द्वितीयायाम् - 'सुनि वचननि व्रजबाम’ इत्यादिरूपेणाऽऽधीयते। किन्तु यथेच्छमन्यास्वपि विभक्तिषु तदिदं 'नि’ चिह्नं प्रयुञ्जते भाषाकवय:। तृतीयायां यथा - 'मोरमुकटकी चन्द्रकनि यों राजत नँदनन्द’। सप्तम्यां यथा - 'दियैं लोभ चसमा चखनि लघु पुनि बडो लखाय’। '(रही) दृगनि साँझ सी फूलि’। इत्यादि।
किमधिकम्, निर्विभक्तिकं पदं प्रयुज्यापि स्वेच्छानुसारं तत्र विभक्त्यर्था व्रजभाषाकविभिरुप-जीव्यन्ते। बहुभिरुदाहरणैर्मुधा विस्तर: स्यादिति द्वित्रैर्निदर्शनैर्बोद्धुं प्रभवेयुर्विवेकिन इति विश्वसिमि। यथाहि -
'परतिय दोस पुरान सुनि उठी मुलकि सुखदानि।
कस करि राखी मिस्र हू मुख आई मुसक्यानि॥’
[परतिय (के) दोष (को) (पुराण) (में) सुनि, सुख देने वाली (मिश्र की प्रेमपात्री) मुलकि उठी। मिश्र (ने) भी मुख (में) आई मुसक्यान (को) कस कर (बलपूर्वक) रखा] अत्र कोष्ठकनिबद्धा विभक्त्यर्था विभक्तिचिह्नं विनैव कविना प्रयुक्ता:, बोद्धभिश्चावबुद्धा:।
सीस मुकुट कटि काछनी कर मुरली उर माल।
यह बानिक मो मन बसौ सदा बिहारी लाल॥
[सीस (पर) मुकुट, कटि (में) काछनी, कर (में) मुरली, उर (में) माला, इस बानक (से) बिहारीलाल! सदा बसौ] अत्रापि निर्विभक्तिकैरेव पदैरभीष्टोऽर्थ: स्वैरमभिव्यज्यते इत्यपरोक्षमेव प्रेक्षावताम्।
उक्तानुसारेणाऽपभ्रंशप्रकारेण छन्दोनिबन्धने कियती सुविधोपलभ्यते कवयित्रेति पूर्वमेवोक्तम्। लघुलघुन्यपि छन्दसि यन्महान्तमर्थमुपजीवन्ति 'विहारि’ सदृशा:, शब्दालंकारमर्थालंकारादिकं चोपनिबन्धुं यत्तत्रावकाशमुपलभन्ते तत्र हि तदिदमपभ्रंशसौकर्यमेव मूलतो हेतु:। स्वल्पैरेवाक्षरैरापूरिते विविक्षितेऽर्थे, लब्धविपुला-वकाशेन कविना कुतो वा न छन्दसि हिन्दीकविर्विहारी - 'प्रिय: प्रियां मानकोपशयितां वीक्ष्य 'कुपिता सेयमनुनयं मे स्वीकुर्यान्न वा, कियान्वा कालश्च तत्र प्रतीक्षणीयो भवेत्’ इत्यादि विचार्य, युक्तिलाघवेन दयिताया: समीपे सुष्वाप। प्रियापि मन्दीभूतमानाऽऽसीत्। अत एव प्रियं कोपशयितमनुमाय 'अग्रे न जाने सोयमनुनयेन्न वा’ इत्युत्कण्ठया विचिन्त्य, स्वप्ने यन्मेलनं तस्य मिषत: अर्थात् शयानया नायिकया कश्चित्स्वप्ने वीक्षितोस्ति, तस्मिन् स्वप्ने एव सा कण्ठे आश्लिष्यतीति व्यपदेशात् प्रिया प्रियस्य हृदयाऽऽलिङ्गनमाप’’ एतावन्तमर्थं दोहासदृशे स्वल्पावकाशे छन्दसि निबबन्ध। सम्पूर्णेपि छन्दसि समुल्लसदनुप्रास: पदविन्यासश्च सुमधुरं खेलतीत्यत्रापि तदिदमेव कारणम्। यथा -
'सोवत लखि मन मान धरि, ढिंग सोयो पिय आइ।
रही, सुपन की मिलन मिलि, तिय हियसौं लपटाइ॥’
अत्र हि 'लखि’ 'धरि’ 'आइ’ 'मिलि’ 'लपटाइ’ इति पञ्च पूर्वकालिकक्रियाप्रयोगा:, 'मन’ इत्यादयो निर्विभक्तिकप्रयोगाश्च कियदक्षरलाघवमावहन्तीति स्वयमक्षरगुम्फनलम्पटै: कल्पनीयम्। 'दृष्ट्वा’ इत्यादिप्रयोगाणां तु कथा दूरे, परं 'वीक्ष्य’ इति मात्रात्रयादन्यूनो दर्शनार्थकधातो: पूर्वकालिक-क्रियाप्रयोगो न भूमण्डले केनचिदपि संस्कृते संक्षेप्तुं शक्येत। किं बहुना, वर्तमानहिन्दी (खडी बोली) भाषायामपि 'देखकर’ इत्यस्य'देख’ इत्यस्मात्संक्षिप्त: (मात्रात्रयात्मक:) प्रयोगो न केनचिदुप-निबन्धुं शक्य:। किंन्त्वपभ्रंशमहिम्ना विहारिमहोदयो 'लखि’ इति मात्राद्वयेनैव तमिममर्थं सुमधुराक्षरैरु-पनिबबन्ध। एवं 'धृत्वा’ 'मिलित्वा’ 'आगत्य’ इत्यादिप्रयोगेऽपि संस्कृतकवे: काठिन्यं स्वयमनुमातव्यम्। एवमेव च 'मन में’ इति सविभक्तिकस्थाने 'मन’ इति निर्विभक्तिकमात्रं प्रयुञ्जान: स्वल्पाक्षरावकाशे छन्दसि बहुलार्थोपनिबन्धनेन निज'दोहा’वृत्तं सहृदयानां हृदि सायकीकुर्वन्१ कलयामास प्रतिष्ठां विहारिमहोदय:।
यथा ह्यपभ्रंशेनाऽक्षराणां लघूकरणं तथा यथाकाममक्षराणां द्विगुणीकरणादिस्वातन्त्र्य-मप्युपयुज्यते भाषाकविभि:। यथा 'छप्पय’च्छन्दसि अमृतध्वनौ च-'अतिगरज्जि घनगज्जि तडितजिमि खंभ तडक्किय......’ 'नृत्तत्तत हर नित्त’ इत्यादि। उदाहरणप्रपञ्चेन मुधा विस्तर: स्यादित्येवंविधान्युदाहरणानि गोस्वामितुलसीदासस्य कवितावल्यां 'साहित्यवैभवस्य’ 'वंशवीथ्याम्’ (पृ. ५७८) च बाहुल्येन द्रष्टव्यानि।
व्रजभाषाछन्दांसि
भारतस्य दूरदूरप्रान्तेष्वपि कविताराज्यसिंहासनोपर्यधिकारस्थापनस्य द्वितीयं कारणमस्ति छन्दसां माधुर्यं नाम। 'तुकान्त’ झंकृतानि वर्णमैत्रीसंदृब्धान्यस्या भाषाया वृत्तानि तथा मधुराणि भवन्ति यथा श्रोतृणां हृदये चिराय स्थानं कुर्वन्ति, चमत्कुर्वन्ति च सहृदयमारभ्य पामरपर्यन्तस्य चेतांसि। यद्यपि छन्दस्तदिदं शब्दसङ्घटनरूपतया बाह्या सामग्री नूनं, किन्तु आपातत: श्रोतृणामावर्जनाय सर्वापेक्षया छन्दोबन्ध एव प्राधान्यं भजते। कान्तासंमितरूपेण हृदयवशीकारपूर्वं धर्मार्थादिपुरुषार्थसमर्थके सन्मार्गे प्रवर्तनं हि काव्यानां पुरातनं प्रयोजनम्। यावत्किलाऽऽकर्णयितु: कर्णौ श्रोतुमेव नाभिमुखीभवतस्तावद् ध्वन्यर्थप्रसाधितमपि काव्यं कस्मै फलाय भवेद् भावुकानाम् ? व्यङ्गयार्थो हि वाच्यार्थविचारोत्तरं तात्पर्य- ज्ञानानन्तरमुपजनयेच्चमत्कारं चेतसीति चरमभावी स:। सर्वत: पूर्व हि ललितलयसंबद्ध: शब्दगुम्फ एव कर्णगोचरीभवति भुवनेऽस्मिन्। श्रूयमाण: स एव कर्णयो: कटुतां कलयेच्चेत्को वा व्यङ्गयार्थावधारणपर्यन्तस्य धैर्यं धारयेत् ? अत एव कर्णकाटवात्कुप्यन्ति कोविदा:। अर्थज्ञानात्पूर्वमेव मधुराक्षरसंदृब्ध: 'तुकान्त’कान्त: संगीतलयहारी व्रजभाषाश्छन्दोबन्ध एवानन्दयति तावत्कर्णौ कोविदानाम्। उक्तं हि मार्मिकै:-
'अविदितगुणापि सत्कविभणिति: कर्णेषु वमति मधुधाराम्।
अनधिगतपरिमलापि हि हरति दृशं मालतीमाला॥’
केषांचित्कथनानुसारं भवेच्छन्दोबन्धोयं बाह्यापि सामग्री नाम, किन्तु रसाभिव्यञ्जने सेयं भूयांसं भारमुद्वहति। अत एव काव्यप्रकाशादयोऽपि - 'हास्यं दोधकम्, करुणं मन्दाक्रान्ता-पुष्पिताग्रादीनि, शृङ्गारं पृथ्वी-स्रग्धरादीनि, वीरं शिखरिणी-शार्दूलविक्रीडितादीनि सौकर्येणाभिव्यञ्जयन्ती’त्याहु:।
व्याचचक्षे च क्षेमेन्द्र: - 'वसन्ततिलकं भाति संकरे वीररौद्रयो:’। 'शृङ्गारालम्बनोदार-नायिकारूपवर्णनम्। वसन्तादि तदङ्गं च सच्छायमुपजातिभि:॥’ 'प्रावृट्प्रवासव्यसने मन्दाक्रान्ता विराजते।’ 'शौर्यस्तवे नृपादीनां शार्दूलक्रीडितं मतम्।’ 'सावेगपवनादीनां वर्णने स्रग्धरा मता’ इत्यादि। यदि हि वृत्तमिदं रसाभिव्यञ्जनान्नितान्तं ब्राह्यं भवेत्तर्हि पूर्वोक्तपरिगणनस्य किं फलम् ? किमिति वा 'हतवृत्त’दोषस्य संपर्कात्काव्यमुपहसनीयं भवति?
घनाक्षरी (कवित्त)
संस्कृते यथाऽनुष्टुप् तथा व्रजभाषायां 'दोहा’वृत्तमिदमञ्जसा विनिर्मेयतया भेजे यद्यपि प्राधान्यं च सार्वजनिकत्वं च, किन्तु कुण्डलिया-छप्पय-कवित्त-सवैयादीनां छन्दसां विशिष्टवर्णनेषु समभूत्स-मादर: समाजे समन्तत:। विशेषतो-भाषाकवीनां कृते कल्पवृक्षायमानानां राजस्थानभूपानामाश्रये व्रजभाषायाश्छन्द: साहित्यमिदमखिलमप्यवाप परमं प्रसारम्। तत्रापि कवित्त-सवैयादिच्छन्दसां प्रभाव: प्रस्फुटं प्रावर्तत समयेऽमुष्मिन्। यतोहि सर्वत: प्रस्फुरत्प्रभावे विशालसभाभवने रत्नच्छटाविच्छुरितै: सामन्तै: समन्तात्परिवृततया पाकशासनमिवात्मानमभिमन्यमानं राजानं गीतिलयमनुहरता येन छन्दसा किल तुष्टुवु: कवयस्तदिदं कवित्तघनाक्षरीच्छन्द:। मधुरगभीरेण स्वरेण सधीरभावं प्रथमचरणमारभ्य उत्तरोत्तरं स्वरं संवर्धयन् तारस्वरेण यथैव चतुर्थचरणं सोत्तेजनं समापयति स्म तथैव वर्ण्यस्य राज्ञो मूर्तिमानिव प्रस्फुरन्प्रताप: संमुखमिवोपतिष्ठते स्म।
एवमेव प्रकृतिवर्णनायां वसन्तवैभववर्णनप्रसङ्गे-प्रथमे चरणे 'कूलन में केलि में कछारन में कुञ्जन में क्यारिन में कलित कलीन किलकन्त है’ इति वसन्तस्य विकासशोभा कूल-कच्छ-कुञ्जादिषु निर्दिश्यमाना निर्भरं मनसि समुदेति। ततो द्वितीयचरणे - 'कहैं पदमाकर परागन में पौन हू में पातन में पिक में पलासन पगन्त है’ इति पूर्वापेक्षया प्रवृद्धा सा शोभा परित: प्रसृतान् परागपवनपल्लवादीन् परिव्याप्य परिजृम्भमाणेव परितिष्ठति। ततस्तृतीयचरणे सा वासन्तिकशोभा दिग्-दिगन्त-द्वीपादीनधिकरोति - ''द्वार में दिसान में दुनी में देसदेसन में देखो दीप दीपन दिपत दिगन्त है’’ इति। किन्तु चरमं चतुर्थं चरणं यथैव स समापयति तथैव विपुलं विश्वतो वर्धमान: स वसन्तो व्रजवीथी-वनिता-वल्लीप्रभृतिषु प्रत्यक्षं प्रोज्जृम्भमाण इव परिलक्ष्यते - ''वीथिन में व्रज में नवेलिन में बेलिनमें बनन में बागन में बगर्यो बसन्त है’’।
छन्दसोऽस्य प्रभाव: समुचिते स्थाने प्रस्फुरताऽनुप्रासेन भवतीति न मार्मिकैर्विस्मरणीयम्। 'इन्दीवरनैनी तू कलिन्दीतीर जैयो ना’, 'तीन बेर खातीं ते वे बीन बेर खातीं हैं’, 'स्याम सुखसाधे राधे! तेरे हैं अगाधे रूप जाके मुख आगैं लागैं चन्द्रमा मसालची’ इत्यादिदर्शित-विलासेनानुप्रासेन संवद्र्घितसमुल्लासेव संपद्यते कवित्तकवितेति को वा मार्मिको न विद्यात् ? अवश्यम-यमनुप्रासो निबन्धुश्चातुर्यमपेक्षते। एकस्मिन् चरणे प्रासयुग्मं, त्रयं, परमावधि चतुष्टयं वा पर्याप्तं भवति। युग्मं यथा - 'छल करि प्यारी के कपोल पिय पौंछें त्यो अँगौछें प्रानप्यारी जू गुविन्द अलकन कों’ इत्यादि। त्रयम् - 'पंपा के सलिल मधि झंपा करि ताही छिन चम्पा के कुसुम की लपट लूटि लायो है’ इत्यादि। चतुष्टयं यथा - 'मेघन लगायो झर, नाँचें बिज्जु व्योमचर, कूकैं मोर मत्तवर, बैठे हरी डारतर’ इत्यादि। एकस्मिंश्चरणे यावतामक्षराणामन्तरेण प्रथमोऽनुप्रास: स्थापितो द्वितीयोऽपि तावदन्तरेणैव स्थापनीय इति समुचितस्थाने कृतविन्यास: सोयमनुप्रास: समाकर्षको भवतीति मार्मिकाणां मति:। यथा - 'बुद्ध भुवपाल तुम्हें देखत निहाल, लियैं बिजै की रसाल ऋतुराज आज आयो है’। 'अकरे खरीदन के जकरे दुबागन सौं पकरे रहैं हैं तोहू पौंन सों अरे रहैं’ इत्यादि।
घनाक्षरी छन्दस्तदिदमनुप्रासेनैव हृदयासेचनकं भवतीति तलस्पर्शेन विवेचनीयं स्यात्। बहुषु छन्दस्सु प्रास: सोयं छन्दोलक्षणनिविष्ट एव भवति। यथा त्रिभङ्गी-मरहठा-अमृतध्वन्यादिषु। त्रिभङ्गी यथा - 'मोहन बनवारी गिरिवरधारी कुञ्जबिहारी पग धरिये’। मरहठा - 'निरखत मदनहि जिन, कदन कियो छिन, रतिहिं दियो वरद न’। अमृतध्वनि-'तरलित होत भुजङ्गवर परत गङ्ग उत इत्त। जटाजूट छूटत जबहि नृत्तत्ततहर नित्त॥ नृत्तत्ततहर नित्तत्तबहि दुचित्तत्तिभुवन’ इत्यादि। नायं प्रकारो भाषायामेव, संस्कृतकविभिरपि सोयं प्रचारित: पुरस्तात्। यथा अश्वधाट्याम्- 'घोटीकुलाद-धिकधाटी कुसुम्भतरुवाटीकुलेषु दधती’ इत्यादि प्राचीनम्। 'त्वं गाय भूरिभयभङ्गाय तोषिततुर-ङ्गाननाङ्घि्कमलम्’ इत्यादि साहित्यवैभवे मम।
कुण्डलियाछन्दसि तु - अन्तिमं पदमेवावर्तते। यथा - 'बसिबो वृन्दावन करो यह चाहत जिय मोर। सुनिबो करो गुपाल की करमुरली की घोर॥ कर मुरली की घोर भोर जमुना को न्हैबो’ इत्यादि। एतेषु छन्दस्सु यथानुप्रासश्छन्दोलक्षणनिविष्ट एव भवति तथा घनाक्षरीछन्दसि यद्यपि नास्ति, तथापि मिथ: प्रातिद्वन्द्वयेन झणत्कुर्वत् अनुप्रासयुगलमस्मिंश्छन्दसि शोभायै अनिवार्यं भवतीति कवित्तनिगुम्फनमार्मिकाणां मतम्। अनेन विना छन्दसि शैथिल्यमेव किम्, छन्दसो गतेरेव वैकल्यं प्रतिभासते।
घनाक्षरीलक्षणम्
''एकस्मिंश्चरणे षोडशवर्णानां प्रथम 'यति’ भाग:, पञ्चदशवर्णानां च द्वितीय इति एकत्रिंशद्वर्णै: (मनहर) कवित्तच्छन्दो भवति। नास्मिन् गणानां वा लघुगुरुवर्णानां वा नियम इति सामान्यतया भाषावेदितार: संगिरन्ते। किन्तु केवलमेकत्रिंशद्ववर्णान् परिगणय्य छन्दोरचयितार: सुस्पष्टं भ्रश्यन्ते छन्दोरचनामार्गात्, उपहस्यन्ते च साधारणतयाऽक्षरगुम्फ-वेदिभिरपि। दृश्यतां, यदि षोडश, पञ्चदशेत्येकत्रिंशद्भिर्वर्णैरेव कवित्तं भवति, नान्योऽत्र कश्चन नियमस्तर्हि ''कौन को सुजस गाय गनिका से तरे नाथ’’ इत्यत्र 'सुजस कौन को गाय’ 'कौन को गाय सुजस’ इति वा रचितेऽपि तदिदं छन्द: शुद्धं स्यात्, किन्तु नैवम्! प्रत्युत कविसमाजे प्रसिद्घं यत् कवित्तच्छन्दसि 'नन्दकिशोर’ इत्येवंविधो गुम्फो न लभते समावेशमित्यादि। यदि च एकत्रिंशद्वर्णानामेवात्र नियमस्तर्हि कथमिदं मार्मिकै: सिद्धान्तितम्? केवलमेकत्रिंशद्वर्णानेव लक्षणं परिजानतां कृते 'राधिकागोविन्दो मयि दयतामनारतम्’ (पृ. २८) इत्यादि परीक्षणकौतुकाय मया निहितमपि।
सत्यं त्विदमस्ति यत्प्राचीनानां छन्दोलक्षणमर्द्धदग्धा अमी अक्षरगुम्फका न वराका विदन्त्यपि। 'गतिविशेषेण निविष्टा: षोडश-पञ्चदशवर्णा: किल घनाक्षरीवृत्ते भवन्तीति’ लक्षणकाराणां हृदयम्। गीतिलयहारी गतिविशेषश्चायं कर्णाभ्यामेव परीक्षणीयो न वाचा। लक्षणमपि जगन्नाथदास रत्नाकरप्रभृति-भिरभ्यूहितं यत्किल पुस्तकरूपेण पुरा काश्यां प्रकाशितमपि। साम्प्रतमपि जगन्नाथप्रसादेन (भानुकवि) 'छन्दप्रभाकरे’ घनाक्षरीलक्षणस्य व्यवस्था साधीयसी कृता। एतेन हि समप्रयोग: [अर्थात् ८, ८, ८, ७ इति विभज्य एकत्रिंशत्पूर्ति:] एवं विषमविषमसमप्रयोग: कवित्ते उपादेयो निर्दिष्ट:। सम विषम विषम, विषम सम विषम इति वा प्रयोगस्तु निषिद्धो निगदित:। तदनुसारं व्यवस्थया कवित्त-छन्दसो गतिर्न भवति विकृता। किन्तु केवलमेकत्रिंशद्वर्णै: कवित्तगुम्फकमहाभागा न कुतोपि दृष्टिं निक्षिपन्ति, न चान्यत्किञ्चिच्छ्रोतुमिच्छन्ति। वास्तवे तु 'कान पिछानें छन्द रस’ इति प्राचीनप्रसिद्ध्यनुसारं कविकुले लब्धजन्मनां शिशूनां कर्णावेव तथा परिनिष्ठितौ भवतो यत् एकत्रिंशद्वर्णगणनाया: कदाचित्प्रसंग एव न भवति, श्रुत्वैव ते कवित्तगतिं परिचिन्वन्ति।
कवित्तघनाक्षरीछन्दसो गते: स्थिरीकाराय छन्दस्यस्मिन् यथास्थानविन्यासोऽनुप्रासो भूयानुपकारी, कृतश्च तथा पूर्वै: कविभिरित्यनुभविनां हृदयम्। एतद्विषये विशेषजिज्ञासुभि-र्लखनऊनगरात्प्रकाश्यमाना हिन्दीभाषाया 'माधुरी’ पत्रिका द्रष्टव्या यत्र मया विस्तरेणा-ऽऽलोचितमिदम्। वृत्तेस्मिन् विच्छुरच्छोभावि-लासोऽनुप्रासो मार्मिकै: सुबहु संमानित इत्यथापि परिज्ञातं भवति। 'भवभूते: शिखरिणी, अभिनन्दस्य नन्दिनी, उपजातिर्मन्दाक्रान्ता च कालिदासस्येत्यादि’ यथा संस्कृतकविषु प्रसिद्धस्तथा व्रजभाषाकवीनां समाजेऽपि सुप्रथितम्। 'छन्द:प्रभाकरे’ भानुकविना संगृहीतम्-'कुण्डलिया गिरिधरस्य, दोहा विहारिण:, चौपाई गोस्वामितुलसीदासस्य, छप्पय नाभादासस्य, तथा घनाक्षरी पद्माकरस्येति’ (पृ. ९६) मार्मिका: स्पष्टमनेन प्रत्येष्यन्ति यच्छब्दालंकारेण, विशेषतश्च पूर्वोक्तेनानुप्रासेन कवितामात्मीयां प्रसाधयन् पद्माकरकविर्यदा 'कवित्ते’ कृतकार्यस्तदा-कवित्त-च्छन्दस्यनुप्रास एवायं प्राधान्येन लब्धविन्यास इति को वा न जानीयात् ? शब्दालंकारान् विशेषतश्चानुप्रासमिमं नानाधा प्रयुञ्जाना: पद्माकरसदृशा: कवय: कवित्ते - 'उझकि झरोखा ह्वै झमकि झुकि झांकी बाम’ इत्यादीन् वृत्त्यनुप्रासानपि बहुधा न्यगुम्फन् येन घनाक्षरीछन्द: संदधौ भूयसीं शोभाम्। किन्तु समस्वरविन्यासोऽनुप्रासो यदा प्रयुज्यते तदा नाधिकोऽस्य विलासो नूनं शोभायै। परिमितोऽस्य विन्यासो यथा - 'आँखें अरविन्द पर चारुमुख चन्द पर राधिकागुविन्द पर नैनन निछावरैं’। इत्यादि। इतोऽधिकं प्रयुञ्जानास्तु वराका न कवितागुम्फनपाटवमपि परिजानन्तीति न ते विचारार्हा अपि। यथा - 'बाल गलमाल उरसाल लाल लाल भाल’ इति। एवंविधो गुम्फो 'जंजालवत्’ लंबालवद्वा केवलं प्रतीयेतेति को वा विशालमतिर्नालक्षयेत्? भूषणं शोभायै भवतीति न नाम नागरनितम्बिन्यो रोम-रोमस्वेवतद्धारयन्ति!
व्रजभाषोल्लासमये समये न केवलमस्यैव छन्दस: कृते, अपि तु छन्दोमात्रस्य निगुम्फनाय पुरा प्राचलत्पूर्णोऽभ्यास: कवीनाम्। पञ्चाशत्षष्टिवर्षेभ्य: पूर्वं यदा हि जयपुरे गुणिजन-जीवातोर्महाराजाधि-राजश्रीरामसिंहदेवस्य, दतियाराज्ये महाराजश्रीभवानीसिंहस्य, बुन्दीराज्ये च रामसिंहदेवस्य, एवमन्यान्येषु राज्यसंस्थानेषु कवितागुणवेदिनां भूपालानां शासनमासीत्तदा भारतेऽस्मिन् साधीयसी काव्यसंपदियमासीत्। ये किल प्राधान्येन संस्कृतं नाध्यैयत तेपि कविकुलजा: शिक्षार्थिन: साहित्यस्य स्थूलं प्रबोधं संस्कृतेन संपाद्य सभाप्रकाश-काव्यनिर्णय-कविप्रिया-रसिकप्रियादिभिरध्यगीषत भाषासाहित्यम्। तत: प्राचीन'कवित्ता’नां साहस्रीं पञ्चशतीं वा कष्ठस्थीकृत्य नित्यं तामावर्तयन्तस्ते कवित्तादिच्छन्दसां गतौ तत्त्वतस्तल-स्पर्शिनोऽभूवन्, तेषां कर्णौ छन्दसाममीषां*निकषाविव समभूताम्। अधिकं किं वच्मि, सुमधुरस्वरं सलयं चाऽऽवर्त्यमानानि कवित्तानीमानि गृहे नित्यमाकर्णयन्तो महिला:, कविकुलजा बालिकाश्चापि शतश: कवित्तानि सस्मरुर्बभूवुश्च छन्दसां गते: स्वत एव परीक्षिका:।
कवित्तच्छन्दसो गति:
किन्तु सुमहान् खेदो 'यत्कवीश्वर’वंशधरा अपि नवयुगीयपरीक्षाप्रणाल्या यत्-किञ्चत्संस्कृतं स्पृष्ट्वा, अन्यथा साधारणतया आङ्गलशिक्षाप्रवाहे पतिता: हिन्दीविश्वविद्यालयादेर्विशारदादिपरीक्षोत्तर-णेनात्मानं कृतार्थं मन्यमाना: कवित्तादिनिर्माणे साभिमानं प्रवर्तन्ते किन्तु छन्दोगते: परिशीलनाभावात् षोडश-पञ्चदशभिरेकत्रिंशद्गणनया कवित्तं पूरयन्तस्ते सौष्ठवमस्य च्छन्दस: सर्वदार्थं लुम्पन्ति। 'प्रतिकालेजं’ 'प्रतिस्कूलं’ 'प्रतिकार्यालयं’ प्रत्येकसभासमाज-गोष्ठीसमितिभि: सह कविसम्मेलनानि साम्प्रतमनिवार्याणि संजातानि। विशिष्टसभानां महाधिवेशनेषु वार्षिकोत्सवेषु तु कविसंमेलनानि उत्सवस्य शरीराणीव संवृत्तानि। तदेवं प्रतिविशिखम् ('गली गली में’) प्रतिपदमधिविश्यमानेषु कविसंमेलनेषु छन्दसां दुर्गतिदर्शनादनिच्छतापि नानाविधानुरोधानां बलात्प्रसह्य प्रमुखपदमधिरोप्यमाणेन मया कतिधा पृष्ठम् - 'महोदय! कवित्तस्यास्य गतिर्विकलेव प्रतीयते’। तदुत्तरे प्रोचुस्ते नि:संभ्रमम् -
'श्रीमन्! षोडश-पञ्चदशेति गणितानि मया एकत्रिंशदक्षराणि’।
हन्त, सोयम् 'आम्रान्पृष्ट: कोविदारानाचष्टे’। छन्दसो गतिमसौ जिज्ञासित: किन्तु सोयमेकत्रिंश-द्वर्णानाक्रन्दति! किन्तु वराक: सोयं षोडशपञ्चदशेत्येकत्रिंशद्वर्णानेव छन्दसोऽस्य लक्षणं जानाति, कोऽस्य दोष: ? निजगुरो: सकाशादपि छन्दोलयं कदाप्यपरिशीलितवतां कविसम्मेलनकवीनां कवित्तविषये स्थाने स्थाने सेयमेव दशा। पण्डित-प्रोफेसरपदवाच्यानामपि सेयमेव प्रगति:। संमेलनेषु छन्दसोऽस्य दुर्गत्या भृशं परिग्लायता म.म.पं.श्रीगिरिधरशर्मचतुर्वेद-महाभागेन परिहासेऽपि हन्त मर्मस्पृक् समीरितम् - 'कवित्तनिर्माणं पठनं वा संप्रति राजनियमतो नूनं निरोधनीयं स्यात्’।
संस्कृते कवित्तादीनामवतारणम्
व्रजभाषाच्छन्दसामेवं दुर्गतियुगे, -लोकप्रचलितहिन्दीभाषायामपि छन्दसाममीषां यदा सेयं परिस्थितिस्तदा विरलजननिषेवणीयायां गीर्वाणभाषायामस्यां छन्दांस्य-मून्यवतारयन्नहमुपतिष्ठामि सम्मुखे रसिकसमाजस्य। सर्वत: पूर्वं वर्षावर्णनात्मकमेकं 'कवित्त’ वृत्तं दशमवर्षं यावत् पूर्वं प्रकाशितस्य 'संस्कृतरत्नाकरस्य’ दशमवर्षीयप्रथमसंख्यायां प्राकाश्यत नूनम्। ततो 'जर्मनयुद्ध’ (पूर्वतन) संग्रामोपप्ल-वशान्तौ जयपुरे महाराजाधिराजश्रीमाधवसिंहदेवस्याज्ञया राजहर्म्यमालायां गोविन्दमन्दिरे जायमानायां सम्राड्विजयसभायां बृटिशविजयवर्णनात्मकं कवित्तमेकमपठ्यत येनाऽप्रीयन्त सर्वे विद्वांसो, नवीनमिति कृत्वा च समभूवंश्चमत्कृता: सर्वे सामन्ता राज्याधिकारिणश्च। तदनन्तरं जयपुरराज्यस्य शिक्षाविभागाध्यक्ष (Director of Public Insturction) पदं यदा पं. श्रीश्यामसुन्दरशर्मा M.A. महाभागोऽध्यतिष्ठत्तदा तदुत्साहसाक्षिणि'शिक्षासप्ताहे’ संस्कृतकालेजान्त:प्रतिष्ठापितायां 'पण्डितसभा’ यामपठ्यन्त कानिचित्क-वित्तानि यानि निर्मत्सरं गुणप्रणयी सोयं सर्वात्मना सुभृशमभ्यनन्दत्। अन्तस्तलं संतुष्यन्तोऽपि मार्मिका विद्वांसो निभृतनिरूढया स्पर्धया वा ईर्ष्यापिशाच्या वा नोदघाटयिष्यन् प्रशंसनाय मुखमात्मीयं कदाचित्, किन्तु मध्येसभं प्रधानाधिकारिण एतादृशीं गुणज्ञतामालक्ष्य स्वस्यापि गुणवेदितां निर्मत्सरतां चाभिनयन्त: प्रशशंसुर्नानाविधै: साधुवादै:।
किन्तु बहि: प्रश्लाघमाना: प्रचुरं प्रोत्साहयन्तोऽपि विद्वन्महाभागा निभृतं क्रूरतमं चालोचितवन्तोऽपि, किन्तु तत्, -सव्यङ्ग्यं साकूतं च। अनेनाप्यहमुपकृतोऽस्म्येव पण्डितमहाभागै:, न नाम खेदित:। प्रथमाधिवेशने यदा मङ्गलात्मकमाशीर्वादात्मकं च कवित्तमपठ्यत तदा बहिस्तत्प्रशंसद्भिस्तै: प्रोक्तम् - 'सम्यगिदम्, किन्तु ऋतुवर्णनादिषु यथा तस्य चित्रमिवोपस्थाप्यते व्रजभाषाकविभिस्तथा नात्र सुसंभवम्।’ चेतसि समासञ्जत्सेयं वार्ता। प्रकटे किञ्चिदनुक्त्वापि तान्, निभृतमेवंविधवर्णनायामकार्षं परिश्रमम्। वसन्तसमयभाविन्या: पण्डितसभाया द्वितीयाधिवेशने समयवर्णनप्रसङ्गेन परिश्रमस्यास्य किञ्चित्फलमश्रावयम्, यथा -
कोरकिता: किंशुका विकासमुपयातं किल
कर्णिकार-कुरबक-काननं प्रकाशते
स्रुतसहकाररससीकरसुरभिसुखा:
सुमितसमीरभरा: सुभगमुपासते१।
मञ्जुनाथ मानय मनोभूमहिमानमिमं
मारशरमुग्धतया मुनय उदासते२
वापी-तट-वाटिका-विहङ्गम-विटपि-वीथी
वारिजवनेषु वै वसन्तविभा भासते॥
भूरुहा वहन्ते मञ्जुमञ्जरीर्भजन्ते३ चारु-वल्लरी,
रमन्ते मधुपायिनोऽद्य मानसे।
झम्पामारभन्ते मञ्जुपम्पापुलिनान्तेचरा:
सुभगसमीरा:, संरमन्ते रसिका रसे।
काकली: श्रयन्ते युवकोकिला विलासभृतो,
बाणा: संरभन्ते कुसुमेषोरपि नीरसे
प्रणतिरियं ते, वच्मि भूय: कान्त:! किं ते ?
ननु, विरहिदुरन्ते किं वसन्ते गन्तुमीहसे२ ?॥
ततस्तृतीयाधिवेशने- ''व्रजभाषाकवयो 'नायिकाभेद’-रस-भावाद्युपनिबन्धने यथा छन्दस्यस्मि-न्नतिशयं दधुर्न तथा भवेद्भाषायामस्याम्। सत्यं संस्कृतस्य व्याकरणनियमादयोपि भृशं कठिना:, किं क्रियताम’’ इत्यादि साकूतमसूच्यत। तदुपदेशामृतेन -
सायमवकाशमुपलभ्य गृहकार्यभरात्
कुसुमचयार्थमुपयाता भयभुग्नाऽहम्
परिमृदिता मे तरुलग्ना पश्य शाटिकाऽसौ
वृक्षवाटिकायां घनतमसि यदूनाऽहम्३।
मञ्जुनाथ कुसुमनिलीनैरनुयाताऽलिभि:
सरभसमायातापि विटपविलूनाऽहम्
शङ्कतामलीकं नर्मशाली काममालीजनो
हन्त मधुपालीदत्तदंशा दृढदूनाऽहम्॥
याता निजजनकनिकेतमुपयाता, पति-
रुषसि विदेशान्प्रति याता शयितोऽधुना
श्वश्रू रियमन्धा, निशि शय्यायां निमग्ना भवे-
द्देवरोऽपि कार्यप्रतिबन्धादयितोऽधुना।
मञ्जुनाथ मेघमण्डलेन मेचकाऽऽभं नभो
भवनेऽहमेका न भो: सुस्था भयतोऽधुना
क्षम्यतां दिनान्तसमयागत चतुरपान्थ!
विवशा नितान्तमहमावासे यतोऽधुना४॥
लीना देहशक्तिरपि हीना सुखवासना मे
तनुरनधीना पश्य कियदिव नीयताम्
चक्षुपोरुपैति घनतिमिरमिवाऽद्य नाथ
श्रवसोरपैति शक्तिरलमवधीयताम्।
मञ्जुना त्वदङ्घ्रिकञ्जलम्बनेन मञ्जुनाथ
धृतिरुपयाति हृदि, करुणा विधीयताम्
एतस्मिन्नमन्द-पुण्यसमयेऽरविन्दसम-
लोचन! मुकुन्द! नेत्रगोचरमुदीयताम्॥१
इत्यादिपद्यानां सृष्टिरभूत्। एवमेव अन्योक्ति-नीति-विनोदादीनां विषयेपि व्यङ्ग्यगर्भा मात्सर्यान्तरितकृपापूर्णा प्रेरणा प्राप्यत पण्डित-महाभागानाम्।
कवितानिकुञ्जस्य जन्मकथा
एतेष्वेव दिनेषु संस्कृतमुपभाषारूपेण गृहीत्वा ग्रेजुएटपदाधिरूढै: कैश्चित् संस्कृत-भाषाप्रचारविषयमालोचयद्भि: सद्भि: संस्कृतपठनप्राप्तपाण्डित्यप्रमाणनाय साव-ष्टम्भमुदगीर्यत-'संस्कृतभाषा संप्रति नैतादृशी पर्यवस्थिता, यस्यां प्रचारभाषायामिव शक्यते निर्मातुं साहित्यम्। युगानुकूलसाहित्यनिर्माणं विना च भाषाया जीवनमेव दुर्घटम्। नियमैर्नियन्त्रिता सेयं भाषा नेतस्तत: पदमपि कर्तुं स्वतन्त्रा। सा मृदुताऽस्या: सर्वथा चूर्णीभूता, या हि लोकसाहित्य-निर्माणायोपयुक्ता। न चास्यां सर्वविधभावाभिव्यञ्जनाय सरला: शब्दा एव। अत एव प्रचलनरहिता सेयं मृतेति व्यपदिश्यते’ इत्यादि।
संस्कृतसेविनामन्येषां हृदि सोयमाक्षेपो मर्माऽऽघातमकरोन्न वेति नाहं जानामि। किन्तु यौवनोत्साहसमुत्तेजित: सोहं नैतत्सोढुमपारयं तदा। प्रत्यक्षं मे समभूद्वाद:-'यदि सर्वविधभावाभि-व्यञ्जनाय नास्यां भाषायामुपयुक्ता: शब्दास्तर्हि विश्वप्रचलितायां भवदाराध्यायामाङ्गलभाषायां तु सन्ति? विधीयतां क्षणं द्वयोस्तुलना। कल्प्यतां तावद् यद् भीष्मग्रीष्मस्य प्रचण्डतमश्चण्डकरोऽस्माकं वर्णनीयस्तदा दु:सहनीयतमामिमां सूचयितुं सूर्यवाचक: कीदृश: शब्द: ? सायंकालिक: सुखद: सूर्यो यदा वर्ण्यस्तदा कीदृक् ? यद्ययं न स्यात्तर्हि लोककार्याणि रुध्येन्निति प्रभुत्वमस्य सूचयितुं कीदृक् ? अयं लोकानां सुकृत-दुष्कृतान्यनिमिषं निरीक्षत इति पापिनं कञ्चित्पापान्निवर्तयितुं भावाकूतबोधक: कीदृश:? एवंविधभावाभिव्यञ्जका: सूर्यवाचका: कति वा शब्दा: श्रीमदभिनन्दनीयायामाङ्गलभाषायां सन्ति ? 'सन्’शब्दं विहाय सर्वबोध्योऽन्यो मन्ये न भवेच्छब्द:? किन्तु संस्कृतसरस्वत्यां चण्डरश्मि-चण्डांशु-दिनमणि-चित्रभानु-लोकबन्धु-लोकसाक्षिप्रभृतयोऽनेके पूर्वोक्तभावाभिव्यञ्जका: शब्दा: समवाप्येरन्।
यदीयमव्यवहरणीया संकुचिता च भाषा तर्हि सर्वतो व्यवहरणीयया आङ्गलभाषया सह संघटतामस्य तुलना। ''आकाश में जब बादल घिर रहे थे तब मैं संस्कृतसाहित्यसम्मेलन के लिए घर से रवाना हुआ’’ इत्येकं वाक्यं विश्वतो व्याप्तायां सर्वव्यवहरणीयायां भवदुपास्याया-माङ्गलगिरायां कियद्भि: प्रकारै: शक्यते वक्तुम्? संकुचितायामस्यां संस्कृतसरस्वत्यां च कियद्भिरिति परीक्ष्यतां तावत्। एम्.ए. पदमण्डितो भवान् निखिलानां भवत्सुहृदां साहाय्येन सधैर्यं सोत्साहं च संपूरयतु तदिदम्। अहं च प्रत्यक्षमिह संमुखे स्थित: संपूरयामि कतिचिद्वाक्यानि। तदनुसारमूनचत्वारिंशतद्वाक्यानि-आकाश-मेघ-व्याप्तिक्रिया-गृह-प्रस्थानादीनां पर्यायैस्तत्कालमेव न्यबध्नाम्। इमानि किल कर्तृवाच्यक्रियानिबद्धानि। यद्येषु कर्मवाच्या क्रिया भवेत्तर्हि तावन्त्येवाऽन्यान्यपि वाक्यानि संभवेयु:।
वाक्यानीमानि पण्डितसभायां मया प्रदर्शितानि। मुद्रितानि च प्रसङ्गान्तरेण काश्या: 'सुप्रभात’पत्रेपि। एवमेव भाषाया अस्या: स्तरे स्तरे तादृशं मार्दवमपि विद्यतेऽद्यापि यत्कारणादियं भूमण्डलगतानां सर्वासामपि भाषाणां छन्दस्सु सुमधुरेण प्रकारेण शक्यते निबन्धुम्। नेदं जीवितलक्षणं प्राप्येत सर्वासु भाषासु। सभ्यपरिगृहीता सेयमिंग्लिशभाषैव गृहृताम्। अस्यां हि, संस्कृतभाषाया: 'शिखरिणी’प्रभृतीनि छन्दांसि यदि कश्चिदुपनिबध्नीयात्तर्हि तानि किं भवेयु: सुश्राव्याणि ? भाषयाऽनया सुसंपृक्तानि च तानि प्रतीयेरन्? किन्तु गीर्वाणगिरायामस्यां सर्वासामपि भाषाणां सर्वाण्यपि छन्दांसि सर्वप्रकारै: समुपयुक्तानि सिध्यन्ति, चेत्समर्थेन संग्रथ्यन्ते। संस्कृतसरस्वत्यास्तदेतदेव सौष्ठवमभित्यं जयितुं कवितानिकुञ्जस्याऽस्याऽऽविर्भाव:, यस्मिन् हि सभ्यकोटौ गणनीयानां सर्वासामपि भाषाणाम्, विशेषतश्च 'कवित्त’प्रभृतिषु व्रजभाषायाश्छन्द:सु संदर्शिता संस्कृतरचनापरीक्षा। साफल्यमत्र समधिगतं न वेति तु कवितामार्मिकै: संप्रति परीक्षणीयं स्यात्।
एकप्रकारेणाऽस्य परीक्षा संजातापि। यस्मिन्काले सेयं रचना प्रारब्धा, तदाऽऽसीत्, 'कविमण्डल’-नाम्नी व्रजभाषाकवीनां संस्था जयपुरजनतायामजस्रं जागरूका, यस्या: सोयं जन एव समभूत्परिचालक:। तस्यां हि भाषाकवीनां पुरत: पठितेषु कवित्त-छप्पय-प्रभृतिषु कतिपयेषु छन्द:सु ''व्रजभाषाया एव सेयं संस्कृतपदबहुला तादृशी रचना यादृशी 'गोविन्द गोपद द्वन्द्वहर विज्ञानघन धरणीधरम्’, 'जे राममन्त्र जपन्त सन्त अनन्त जनमनरञ्जनम्’ [तुलसीदासकृतरामायणे अरण्यकाण्ड:] इत्यादिका गोस्वामितुलसीदासादे:’’ इति तैरज्ञायत। मन्ये सेयं संस्कृतसरस्वत्या: सुतरां सफलता, किं वा विश्वतो घोषणीयो विजय:-यत् लघोर्गुरूकरणं-गुरोर्लघूकरणम्, द्वित्वविधानं-वर्णपरिवर्तनाद्यपभ्रंश-स्वातन्त्र्यरहितायामपि भाषायामस्यां छन्दांस्यमूनि स्वाभाविकानीव संवृत्तानि।
द्वयोर्भाषयो: कवित्तानां तुलना
अस्तु, व्रजभाषाया: कवित्तछन्दसि अनुप्राससौष्ठवादेर्ये ये प्रकारास्ते ते अस्यामपि निरूढा न वेति विवेचनाय काचिद्वर्णिकाऽधस्तात्संदीयते -
१. येनोत्थानेन प्रथमद्वितीयादिषु चरणेषु क्रमशो वसन्तादे: सर्वाऽपि संपत् संप्रदर्श्यते, चतुर्थे च चरणे शब्दालंकारझंकार: संकर्षको यथा भवति तथा -
ललितलताऽभिनवनायिकाविलासी वर-
वारिजविकासी वनवीथीविपदन्तोयम्
वञ्जुलविपिनमौनहन्ता पिकचिन्ताहरो
मञ्जुलमलयमन्दमारुतैरनन्तोयम्।
मञ्जुनाथ महितमीनकेतनमहामन्त्री
मानिनीमन:स्थमानतन्त्रीमिलदन्तोयम्
सन्तोषयदिन्दुकरदीपितदिगन्तो विद्ध-
विरहिदुरन्तो बत वर्द्धते वसन्तोयम्॥
(सा.वै.पृ. १३)
२. 'वीथिनमें व्रजमें नवेलिनमें बेलिनमें’ इत्यधिकरणबाहुल्यं यथा चतुर्थे चित्र्यते तथा-
पर्वतघनेषु पुलिनेषु पार्श्व-पत्तनेषु
पौरोपवनेषु पुर: प्रावृट प्रतिभासते इति.
यथा वा -
उपवन-विपिन-वाट-वल्लीवलय-वीथी-
विटपिवितानेषु हि वर्द्धते वसन्तोयम्।
३. द्विरनुप्रासो यथा -
पीयन्ते दृशैव रसिकेन फुल्लवासन्तिका:
कामममी वासन्तिका वासरा: सुगीयन्ते।
यथा वा -
दर्पितदनुजवधूवीक्षणेषु वर्षागमो
गोविन्दो ममाद्य मनोहर्षायोपपद्यताम्।
४. त्रि: प्रासो यथा -
मनसि मनोभुवोऽपि पूर्णपरिक्षोभावहा
श्रीगोविन्दशोभा मनोलोभायोपकल्पताम्।
५. प्रासचतुष्टयं यथा -
कोऽन्यो मयि तन्यात्सदा स्तन्यावधिरक्षाकृपां
वत्सलताजन्या तव धन्या करुणां प्रभो!
६. चतुर्ष्वपि चरणेषु एकस्यैवानुप्रासस्य निर्वाहो यथा -
भूमिवलयं तं दुष्टदैत्यैर्भारवन्तं वीक्ष्य
लोकेऽवतरन्तं शक्तिमन्तं शीलयामहे
शकटं हरन्तं पावयन्तं पूतनां तामथ
दावागिंर पिबन्तं बलवन्तं चिन्तयामहे।
कालियफणासु नृत्यवन्तं विहरन्तं वने
कंसमुद्धरन्तं केशवं तं कामयामहे
सर्वतो लसन्तं विलसन्तं व्रजगोपिकासु
पीताम्बरवन्तं भगवन्तं भावयामहे।
७. वृत्त्यनुप्रासेन चतुर्थचरणचित्रणं यथा -
वापीतटवाटिकाविहङ्गमविटपिवीथी-
वारिजवनेषु वै वसन्तविभा भासते॥
८. चतुश्चरणेषु प्रतिचरणं पृथक् पृथग् वृत्त्यनुप्रासो यथा -
चञ्चच्चारुचञ्चलाचकासितरुचिररुचि-
सलिलमुचामचारिसंचयो विभासते
केकाकलकोलाहलकुतुकिकलापिनोऽमी
कलितकदम्बकूलकाननान्युपासते।
मञ्जुनाथ मेदुरमहीरुहविमण्डितेयं
मोदमानमेदिनी प्रमोदमिह दासते
पुष्करपय:पूरपीनतमपुष्करिणी
प्रावृषि सपङ्कपथा पृथिवी प्रकाशते॥
(सा.वै.४१)
९. चतुर्ष्वपि चरणेषु आरम्भादन्तावधि एकाक्षरवृत्तेर्निर्वाहो यथा -
केतककदम्बकरमर्दकुन्दकर्णिकार-
कदलीकुटजकोविदारा: किल भासन्ते
कुरबकक्रमुककरवीरकलकाञ्चनार-
किंशुककरञ्जकृतमाला मञ्जु राजन्ते।
कर्कन्धूकपित्थकुष्ठकुलककुरण्टकाग्रे
कर्चूरककरहाटककेसरा: सुखायन्ते
कञ्जमञ्जुलानने! कियन्त: कूलकुञ्जे कुटा:
कानने किलाऽमी कृतकौतुका: प्रकाशन्ते॥
(सा.वै.१०)
१०. वृत्त्यनुप्रासस्य मध्येऽपि पुन: पदान्तानुप्रासस्योपनिबन्धनं यथा -
उन्मीलन्मृणालनवमाधविकाजाल-दल-
दमलतमालततिविद्घवियदन्तोयम्।
इत्यादि किं किं वा कियत्परिगण्यताम्? व्रजभाषाकवय: कवित्तेस्मिन्-अनुप्रासविन्यासे वर्णनाविलासे च यान् याँश्चमत्कारानुपनिबिघ्नन्तो बहु मन्यन्ते मनस्यात्मानं, तांस्तानिह सर्वानपि सर्वात्मना समानेतुमकार्षमध्यवसायमिति मर्मसु प्रविश्य निर्भरमालोचयन्त: स्वयमेव वेदिष्यन्तीति किं नाम निवेदनविस्तरेण?
व्रजभाषाकविगोष्ठ्यां छन्दसामान्येषामपेक्षया कवित्तस्यास्योपनिबन्धने कवे: कृतित्व-मतिनैपुण्यात्परीक्ष्यते स्म। न नाम साधारण: कवि: कवित्तोपनिबन्धने धारयामास धाष्टर्यं तदा। व्रजभाषासाहित्ये रचनायामालोचनायां चोभयत्रापि सफल: कविष्ठाकुर: साकूतमालोचयांचकार पुरा-'लोगन कवित्त कीबो खेल करि जान्यो है’। षोडश-पञ्चदशेत्येकत्रिंशदक्षरयोजनमेव ये जना: कवित्तं जानन्ति तेषां कथा तु पारेलोकम्, परं व्रजभाषायामन्यान्यच्छन्दसामपेक्षया कवित्तेऽस्मिन् पठनश्रवणयोर्यथा लालित्यं तथा रचनायामपि चातुर्यविशेषस्यापेक्षेति कविसमाजे चिरात्प्रसिद्धि:। परिनिष्ठित एवैतस्य गतिविशेषम्, पदान्तानुप्राससौष्ठवम्, उक्तिविच्छित्रिं च निर्वोढुं प्रगल्भते। अत एव संस्कृतरचनापटुभिर्भाषाया: अस्या अन्यान्यच्छन्दांसि यथेच्छमुपनिबद्धानि कामं भवेयु: परं कवित्तनिर्माणे विरलानामेव सफला प्रवृत्तिरीक्षिता।
संस्कृतकवीनां कवित्तादिरचना
व्रजभाषापरिगृहीतानि छन्दांस्यमूनि लोकानां भूरि समाकर्षकाणीति परित: परीक्षणेन परिचीयते। 'साहित्यवैभव’नाम्नी रचना यत:प्रभृति संस्कृतसेविसमाजे प्रासिध्यत्, 'संस्कृतरत्नाकरे’ चैवंविधानि छन्दांसि यत आरभ्य प्राकाश्यन्त, काशीप्रभृतिसंस्कृतकेन्द्रेषु सभासंमेलनादिषु यदा यदा चैवंविधा रचना सहृदयानां समक्षमुपानीयत तदा तदा भूरि समाकर्षणेन सेयमश्रूयत। 'संस्कृतम्’प्रभृतिपत्रेषु प्रकाश्यन्ते दोहा-कवित्त-गजलादीनि निरर्गलम्। 'रत्नाकरे’ चापि बहूनां प्राप्यन्त एवंविधा रचना:। अन्यान्यपि पत्राणि न शून्यानि भवन्ति रचनयैवंविधया। तत्र साफल्यमधिगतं न वेति तु नूनं कथान्तरम्, किन्तु छन्दसाममीषां समाकर्षणं न तैश्चेतसि निरोद्धमपार्यतेत्यपरोक्षम्। किं बहुना, ये संभाविता वृद्धा: संस्कृतपद्यानि विहाय संस्कृत-दोहामात्रमपि साफल्येन नाऽऽरचयन्कदाचित् तेऽपि पङ्क्तीनामासां लेखकस्य सिंहाऽवलोकनकवित्तं सभायां सहृदयैरभिनन्द्यमानमाकण्र्य, न केवलं कवित्तमेव अपि तु 'सिंहावलोकन’ सहितं तत् मध्येसभं श्रावयितुं प्रगल्भन्ते। किमितोऽधिकश्छन्दसोऽस्य समाकर्षकताप्रभाव: समाजे परीक्षणीयो नूनम् ?
एवंविधानि छन्दांसि प्राचां संस्कृतकवीनां न नामैकान्ततोऽपरिचितानि नूनम्। चौपाईच्छन्दोनुहारिणी भगवच्छङ्कराचार्यस्य 'चर्पटपञ्जरिका’ ('अङ्गं गलितं पलितं मुण्डं, दशनविहीनं जातं तुण्डम्। इत्यादिका’) सुप्रसिद्धा समाजे। १९२१तमे विक्रमवत्सरे वंशीधरधूसरस्य प्रश्नोपरि शिवसहायपण्डितो वाल्मीकीयरामायणस्य शिरोमणिटीकां निर्ममौ। टीकाया अस्या उत्तरकाण्डस्यारम्भे, ग्रन्थस्यान्ते च चत्वारि 'त्रिभङ्गी’च्छन्दांस्युपलभ्यन्ते। 'वर्णिका’रूपेण तेष्वेकं यथा -
'स्वस्ति श्रीदाता निखिलविधाता श्रितविख्याता सकलपति:
यस्य श्रीसहिता सीता दयिता त्रिभुवनमहिता निखिलनति:।
सोऽयोध्यानाथो निगमसुगाथो गङ्गापाथोविदिततनु:
जयति श्रीरामो जलदश्यामो रमणललामो महाधनु:॥’
तथा चान्ते 'बरवै’च्छन्दोऽपि दृश्यते -
शिवसहायबुधनिर्मितिरेषा भाति।
तत्त्वं दुर्जनवादात्सततं याति॥
अस्मत्पूर्वजानां वाणी-भारती-सरस्वतीत्युपनामकानां श्रीद्वारकानाथभट्टपादानां 'गालवगीत’-शीर्षकाणि छप्पयच्छन्दांसि गालवाश्रमवर्णने ग्रन्थेऽस्मिन्नेवाऽग्रे विलोक्येरन्। अस्मत्सजातीयाना-मात्रेयश्रीगदाधरभट्टानां (जयपुरराजकवीनश्वराणाम्) शिववर्णनपराणि छप्पयच्छन्दांसि पूर्वपर्यायस्य (अर्थात् त्रिंशच्चत्वारिंशद्वर्षेभ्य: पूर्वं प्रचरत:) संस्कृतरत्नाकरे पुरा प्रकाशितान्येव। एवमेव गुरुवरनाँग-ल्योपाह्व-पं.श्रीगोपीनाथदाधीचानामपि भाषा परिगृहीतानि छन्दांसि कानिचित् प्रसिद्धानि। कविवरश्रीकान-जीप्रश्रवराणामपि भाषानुहारीणि संस्कृतच्छन्दांसि कामं भवेयु:। जयपुरविलास-सिद्धभेषजमणिमाला-कच्छवंश-महाकाव्याद्यनेकग्रन्थनिर्मातृणां मेदपाठीयभट्टकविकुलालंकार श्रीश्रीकृष्णराम-वैद्यावतंसानां दोहाच्छन्दांसि -
शिवशेखरशशिचन्द्रिकासञ्चयचारुमहांसि।
ददतु मुदं मन्दाकिनीतरलतरङ्गपयांसि॥
कमलामलमनुरागि बहुकरुणारसपरिणामि।
हृदयस्थलमिव वीक्षितं हरेरहं प्रणमामि॥
इत्यादीनि बहुत्र विन्यस्तानि कवयितुर्व्रजभाषाच्छन्द:संदर्भणसंमोदं भूरिश: सूचयन्ति। वस्तुतस्तु वैद्यावतंस-कविवरश्रीश्रीकृष्णरामभट्ट महाभागा न केवलं संस्कृतकवय एव, अपि तु ते व्रजभाषाकवयोऽप्यासन्। जयपुरविलासे जयपुरनरेन्द्रश्रीरामसिंहदेवस्य यशोवर्णनपराणि दत्तानि तेषां कतिचित्कवित्तानि। तैर्यदि संस्कृतेऽप्येकं द्वे वा कवित्तानि निरमीयन्त तर्हि न तेषां कृते नवीनमिदम्। अस्ति तेषामिदमेकं कवित्तघनाक्षरीच्छन्द: -
सूत! रथमेहि, देहि बाणगणमाशु मे हि
मित्र! धृतिमेहि धेहि संगरमहामहे
वर्म कुत्र, चर्म कुत्र, भयं वृथा मा स्म कृथा:,
छिन्धि भिन्धि धाव धाव सहे नास्य नाम हे!
इति स्फुटं भवद्द्विषां शैलगुहास्वापजुर्षा
विलापयुग् वचो वयं समुपलभामहे
वैरिकुलवृन्दकाल! चन्द्रसितकीर्तिजाल!
कण्ठलोलरत्नमाल! महीपाल! राम हे!
एतच्छिष्याणां भारतप्रसिद्घायुर्वेदमार्तण्डश्रीलक्ष्मीरामस्वामिमहाभागानामपि -
निजसहवासविभूषिताऽमलगुणणावलीषु।
नतिततियुतं निवेदनं श्रीहरिदत्तसुधीषु॥
जातोहं ज्वरपीडितो दैवाच्चाकस्मात्।
अवकाशो दिनपञ्चकं देयो मे तस्मात्॥
विनयदलं प्रहितं मया लक्ष्मीरामाख्येन।
नभसि सिते चैकादशीतिथौ युते भौमेन॥
इत्यादीनि दृश्यन्ते दोहावृत्तानि। अन्यान्यपि व्रजभाषानुहारीणि छन्दांसि जयपुर-नरेन्द्रश्रीमाधवेन्द्र-निदेशतो जातायां श्रीगोविन्दमन्दिरसभायामपठ्यन्त तै: पुरा -
वृन्दारकवृन्दाऽऽदृतचरणं वृन्दारण्ये विहरन्तम्।
मानवकुलदावानलदानवदुष्टकुलानि प्रहरन्तम्॥
अम्भोदाधिपजम्भारिभ्रमवारणकारणकुरुविन्दम्।
वन्दामो नन्दात्मजमेनममन्दानन्दं गोविन्दम्॥१॥
निजमतिकृतिजितदितिजादितिजं गणनातीतनृपतिततिविनुतम्।
यूरोपीयमिमं यन्तारं राज्यश्री: स्वयमागन्ताऽरम्॥२॥
किन्तु संस्कृतभाषायां समये समये संजातमिदमाचरितं विदुषां विनोदमात्रमेवाऽवर्तिष्ट केवलम्। नानेन स्थायिसाहित्ये किञ्चिदधिगतं व्यपगतं वा। हन्त! अद्भुतप्रतिभाशालि-पण्डितश्रीचन्द्रधर-शर्मगुलेरी (B.A.) महाभागस्य समये मम कानिचिदेव घनाक्षरीच्छन्दांसि पण्डितेषु प्रासिध्यन्। तदुपरि महाभागेनानेन स्वसंपादित 'काशीनागरीप्रचारिणी पत्त्रिका’यां 'प्राचीनहिन्दी’नाम्नी गुणज्ञगणनीय-गवेषणानिबन्धे-'अमुकस्य (मम नाम) मम मित्रस्य तदिदम् (अर्थात् घनाक्षरीनिर्माणम्) विरलविनोद-मात्रम्’ इत्यादि समुदैर्येव। हन्त यदि स महाभाग: *साम्प्रतमवर्त्स्यत्तर्हि हृदयस्यान्तस्तलेन प्रासत्स्यत्-यद्विरलविनोद: सोयं साम्प्रतिकसाहित्यविदां प्रबल: प्रमोद: समभवदिति। अस्तु, एतस्य श्रेय: प्राक्तन-जयपुरशिक्षाविभागाध्यक्ष (Director of Public Instruction) पं.श्रीश्यामसुन्दरशर्म एम.ए. महोदयाय, मम ज्येष्ठसहोदराय चास्ति याभ्यां सहार्दप्रमोदमादिश्यत यत्-'पादान्तानुप्रास (तुकान्त) घटिता सेयं रचनाऽवश्यावश्यं कठिना। यादृग्भावेन च भवता संपूर्यते सा तु कठिनतमैव। किन्तु ये बिषया व्रजभाषाकविभि: प्रातिस्विकरूपेणोपात्ता:, साम्प्रतिकसंस्कृतसाहित्ये च ये विषया युगानुकूलतयाऽवश्यं ग्रहीतुमर्हास्ते यद्यनया शैल्या विषयविभागपुरस्सरं संस्कृतेप्युपनिबध्यन्ते चेत्तर्हि संस्कृतसाहित्ये नवीनमिदं कृतं स्यात्। अन्यथा प्राक्तनच्छन्दोबन्धतुन्दिला प्रचुरं पर्याप्ता प्राचीनसामग्री अस्ति संस्कृतसाहित्ये’।
अवश्यमियं मन्त्रणा मूल्यवती, साहित्यजगत्यमरीकरणाय नि:संशयं शक्तिमती च। किन्तु पदे पदे प्रतिबन्धसंधायिनीं शैलीमिमामवलम्ब्य संस्कृते विस्तृतग्रन्थनिर्माणं न तावत्सहजम्। इतस्ततो नानाविधं साहित्यमधु सहाहृत्य हृदये चित्रयितुमुचिता नानाविधा विचार-मधुकरा: पुर: समुद्वेलिता इवाऽवश्यं दृश्यन्ते, किन्तु लेखनीमुखेन तेषामुपनिबन्धनसमये कियत्संकटं समुपतिष्ठते कवयितुर्येन लेखनी जडेव संपद्यते इति हि त एव जानन्ति, यैरेवंविधे व्यतिकरे स्वायुष: कियांश्चन भागो भवेद् व्यतिगमित:। अस्तु प्रकटे किञ्चदनुक्त्वा निभृतमकार्षं तादृशं प्रयत्नं पञ्चदश वर्षाणि, यत्परिणाम: 'कवितानिकुञ्ज:’ सोयम्। यस्य द्वितीयो भाग: 'साहित्यवैभवम्’ प्रथममुपगतश्चक्षुषोर्गोचरं साहित्यरसिकानाम्। प्रथमोभागश्चेदं 'जयपुरवैभवम्’ यद्घि जयपुरनगरपालकरसरसीरुहसमुपगमप्रतीक्षया साम्प्रतमुपैति संमुखं काव्यकला-कोविदानाम्। निकुञ्जस्यास्य चरमो भागश्च गोविन्दवन्दनमन्दार-माला’(गोविन्दवैभवम्) या हि द्वयोरनयोर्वैभवयो: स्वस्वविषयसंदोहैरेव नितान्ततुन्दिलतया तयोर्मध्ये संमातुमप्रभवन्ती पृथगेव वक्ष:स्थलमलंकुर्यात्काव्यकलामार्मिकाणां भगवद्भक्तानाम्।
ग्रन्थस्य स्वरूपम्
निकुञ्जस्यास्य द्वयोरप्यनयोर्भागयोर्व्रजभाषापरिगृहीता: सर्वेपि प्रकाराश्चमत्काराश्च संस्कृतसाहित्य-संनिवेशौचित्यं संपाद्य रुचिरेण क्रमेण संगृहीता इति पश्येयु: काव्यकलामार्मिका:। तदनुसारमेव पूर्वं नगरी-नगरस्थानवर्णनम्, ततो राज्ञो राजसभाया:, तत उत्सवानां नागरिकाणां च, ततो राज्ञोऽभिनन्दनस्य, आशीर्वादादेश्चोपनिबन्धनम्। अन्ते च व्रजभाषाकविताया अपि काचि'द्वर्णिका’ प्रत्ता। यतो हि यावत्किल जयपुरराजकवीनां कृतयो नांऽशतोपि परिशील्यन्ते, न तावज्जयपुरस्य वैभवमिदमवगम्यते सामर्ग्येण। अत एव नगरवर्णनादिपूर्वपीठिकारूपे प्रथमभागेस्मिन् सर्वमिदमाबध्यद्वितीये भागे नवीनेष्वमीषु च्छन्दस्सु विच्छित्तिमुपगच्छन् समयापेक्षित: साहित्यस्य वर्णनीय: स स विषय: समुपनिबद्ध इति परिज्ञातमेव भवेत्साहित्यवैभवमवलोकितवतां कृतिनाम्।
व्रजभाषाया अन्यान्यानि छन्दांसि
घनाक्षरीकवित्तमिव भाषाया अन्यान्यपि छन्दांसि स्वस्वानुरूपे विषये इतरभाषा-च्छन्दसामपेक्षयाऽ-द्भुताद्भुतं प्रभावमभिवहन्तीति मर्मविदां प्रत्यक्षम्। ओजो-ऽनुकूलसंघटनाबन्धुरं छप्पयच्छन्दो वीरादिरसेषु, ओजस्विन: प्रमेयस्य निगुम्फने वा, प्राकृतं प्रमेयमात्मन: प्रभावेण द्विगुणीकरोतीति मार्मिकाणामनुभव:। अत एव प्राक्तनै: संस्कृतकविभिरपि तदिदं छन्द: समुपादीयत-अन्यान्यच्छन्दो विहाय सर्वत: पूर्वमेव। नीतिनिर्वचने 'कुण्डलिया’च्छन्दस: प्रभाव: प्रौढै: प्रतिपन्नो यत्कृते गिरिधरो दीनदयालुगिरी वा व्रजभाषायामद्यापि संस्मर्यते रसिकै:। विरहवर्णने 'बरवै’छन्दोप्यमन्दोद्भासिनीं सुषमामावहति। यतश्छन्दसोऽस्य जन्मैव तन्मूलकमिति व्रजभाषासंप्रदाये संप्रधारितम्।
यावत्स्मरामि तावत्संमेलनपत्रिकायां कतिपयवर्षेभ्य: पूर्वमालिखितमासीत्केन-चित्कोविदेन,-यत् नवाबखानखानासमयेऽस्य छन्दस: प्रचलनमभूदिति। ऐतिह्यमिदमेवम्-आसीत्कवीनां कल्पद्रुमस्य, स्वयं चापि कवयितुर्नवाबखानखाना इति प्रसिद्धिमुपगतस्य सविधे कश्चित् क्षत्रियराजपुत्र: सेवक:। स हि स्वामिनोऽनुमतिमादाय निजदेशमुपगत: कृतवान् कयाचिच्चतुरया क्षत्रियकुमार्या परिणयम्। कांश्चिन्मासान् तत्सहवासेन सानन्दमतिवाह्य पुनरसौ स्वामिन: सविधमुपगतो निजं नियोगमशून्यं चकार। इतस्तत्प्रणयिनी प्रियवियोगमसहमाना कथंकथमयापयद्विरहविरसान् कतिचिद्दिवसान्।
अथ वियोगवह्निना विह्वला सा प्रियतमसविधे पत्रप्रेषणमुचितमभ्यूह्य स्वयमागुम्फितमेकं छन्द: पत्रे विलिख्य प्रेषितवती प्रियतमस्योपकण्ठे। किन्तु दैवसंयोगात्तदिदं पत्रमकस्मान्नवाबखानखानामहोदयस्य दृशोर्गोचरमगच्छत्। आसीत्पत्रे सेयं कविता लिखिता-
प्रेम प्रीति को बिरवा चलेहु लगाय।
सींचन की सुधि लीजो मुरझि न जाय॥
कवितायामस्यां विरहानुप्राणिता याऽन्तर्वेदना निहिता तया प्रभावित: परमसहृदयो नवाबखानखाना-महोदयो राजपुत्रगतं सर्वं वृत्तान्तमवगत्य तत्कालमेव तस्मै गृहगमनानुमतिं विततार। नवाबमहोदयस्य हृदये कृतपदमिदं छन्द: कविताक्षरानुसारेण 'बरवा’नाम्ना प्रासिध्यत्। कविताप्रणयी नवाबमहोदय: स्वयमस्मिन् छन्दसि भूयसी: सूक्ती: समुपनिबद्धवान्। समादृतवांश्च तद्दिनादारभ्यैव तदिदं छन्द: कविसमाज:, यस्मिन्हि रचनापाटवं प्रदर्शयन्तो गोस्वामि-तुलसीदासादयो भूयसीं सफलतामधिजग्मु:।
नाहमस्येतिहासस्य तथ्यतां गवेषयितुमिच्छामि, न चाप्येतदत्र प्रपञ्चयितुं वाञ्छामि यत्तत: पूर्वमिदं छन्द: केनचित् व्यवहृतं न वेति। तदिदं गवेषकैरेवान्वेषणीयं नूनम्। किन्तु विरहवर्णनाय वर्णानां यादृशी मुधरता, स्वरलहर्याश्च यादृशी विह्वलताऽपेक्षिता साऽनेन भूयसी निर्व्यूढा भवतीति मन्तव्यमेव भवेत्। विहारिणो 'दोहा’छन्दस्तु शितविशिख इव हृदयलक्ष्यीकरणाय प्रथितमेव सहृदयसमाजे। सत्यं त्विदमस्ति यत् - निजनिर्वर्तितेऽक्षरगुम्फे कवि: स्वप्रतिभया यं भावं रसं वाऽभिव्यनक्ति तं विचारपूर्वकमुपात्तस्य बन्धुरच्छन्दसो लयो (संगीतगति:) भूयस्तरां प्रगुणीकरोति। यतो ह्यार्थविचार: परस्ताद्भवति परं कर्णमुपगतं छन्दोमाधुर्यं पूर्वमेव श्रोतुर्मानसमात्मवशे करोति। वशीभूते च मनसि सर्वमेव स्वतोऽभिरुचितं भवति। उक्तं हि सुन्दरच्छन्दसा निबद्धस्य काव्यस्य लक्षणं विचक्षणै: -
अपर्यालोचितेऽप्यर्थे बन्धसौन्दर्यसम्पदा।
गीतवद्धृदयाह्लादं तद्विदां विदधाति यत्॥ तत्काव्यम्. इत्यादि।
व्रजभाषाच्छन्दसां सर्वमिदं प्रागल्भ्यं संस्कृतसाहित्यमप्यनुसंक्राम्ये-दित्येवासीन्मत्प्रेरकाणामाकूतम्। उचितमपि चेदम्। सर्वमपि निबन्धनीयमर्थमनवीकुर्वद्भि:१ संस्कृतस्य महाकविभि: किं वा वर्णनीय-मधुनाऽवशेषितं यत्र नवीनो निबन्धा निजस्य निगुम्फनैपुण्यं निदर्शयेत्। ततो नित्यं क्षुण्णेभ्यो नवीनैश्छन्दो-भिर्नवीनामेव काञ्चिद् भूमिकामादाय सामयिकं चेत्कमप्यर्थं२ निबध्नीयात्कविस्तर्ह्येव युगेऽस्मिन् संस्कृतसाहित्ये नवीनं किञ्चित् कृतं स्यात्। परस्परमादानप्रदानाभ्यां तत्तद्भाषासाहित्यानां प्रवर्द्धते भूयसी संपदिति प्रत्यक्षं प्रेक्षावताम्। किञ्च-राष्ट्रभाषानुगामिजनतायां संस्कृतगिर: प्रचाराय तदिदमनुगुण-मेव, यतस्तद्भाषा (राष्ट्रभाषा) छन्दांसि संस्कृतेऽप्यवलोकयन्तो जनास्तामिमां भाषामञ्जसाऽनुप्रविशेयु:। किञ्च, नवकवितानिगुम्फपरिगृहीताया: संस्कृतसरस्वत्यास्तदिदम-तुलमाहात्म्याय, यदस्या: प्रचारस्य युगयुगान्तरेषु व्यपगतेष्वपि, नवयुगेप्यस्मिन्नमुष्यास्तत्तादृशं मार्दवमद्यापि विद्यते येन सर्वेष्वपि च्छन्दस्सु सेयं शक्यते निरायासमेव निर्गुम्फितुम्। एवं सर्वदापि निर्जरशरीरा सेयममरभारतीति गौरवं किमिति वा नाऽऽसादयेत्?
किञ्च, - सामाजिकमानवानां मनो नित्यं नूतनानुरागि। अनादित: प्रचलितां संस्कृतसाहित्यस्य तामेव वर्णनापद्धतिमनुशीलयतां मनो भाषान्तरपरिगृहीतां नवीनतां प्रति निसर्गादेव लालसं भवेत्। अत एव निकुञ्जेऽस्मिन् वर्णिता ऋतुवर्णनादिशैली, उर्दूभाषादेर्नवीनाश्छन्द:प्रकाराश्च साहित्यरसिकानाम-भिरुचिमेवोत्पादयेयुरति नाऽस्वाभाविकम्। अपि च युगे युगे लोकानां रुचयो विचाराश्च निसर्गतो भिन्ना भवन्ति। अत एव हि प्रतियुगं लोकरुच्यनुगामिनी नवीनता साहित्ये स्वत एवाऽनुप्रविशति। निकुञ्जेऽस्मिन् प्रविशद्भिर्दृश्येत नवरसवीथ्यां वीरादेर्विभिन्ना वर्णनपद्धति:, विहारिण: सूक्तिसमुद्गमनम्, नवयुगवीथे: सामयिकपदार्थवर्णना, समालोचना चेत्यादिकमखिलमिदं सामयिकयुगस्य काङ्क्षा। तदेवं युगानुसारमावश्यकता: स्वयमनुभवन्ती, ता: पूरयन्ती च सेयममरसरस्वती 'जीवन्ती, जाग्रती’ अपि जनै: कैश्चिच्चेन्न प्रतीयते तर्हि तेषां जनानां चेतनाशक्तिं प्रत्येव कुतो नास्माकं संदेह: स्यात् यत् पदार्थपरीक्षापत्रे मानवे या प्रबोधशक्तिर्भवति सा तेषु परीक्षकम्मन्येष्वस्ति न वेति।
मार्मिकाणां मन्त्रणानुसारं सर्वासामेव सुप्रचलित-सम्यभाषाणां छन्दांसि निकुञ्जेस्मिन् समगृह्यन्त। तत्तेषां छन्दसां तत्तद्भाषासाहित्ये यद्यद् वैशिष्ट्यम्, यस्मिन् वर्णनीये विषये यादृङ् माधुर्यं च प्रभावविशेषश्चानुभूयते तदिदं सर्वं निकुञ्जेऽप्यस्मिन्ननुवर्तितुं प्रयतितम्। परीक्षणमिदमस्य प्रेक्षावताम-पेक्षितम्, नात्र मे वचसामवसर:।
उर्दूभाषा तच्छन्दांसि च
हिन्दी (खड़ी बोली)
'व्रजभाषैव माहम्मदानां राज्योपजृम्भणकाले क्रियाकारकादिषु किञ्चित्किञ्चित्परिवर्तनेन शनै: 'खडी बोली’रूपमवाप्य वर्तमानहिन्दीरूपे परिणता, यस्या: साम्प्रतिके स्वरूपे परिष्कारस्यारम्भो भारतेन्दोर्हरिश्चन्द्रस्य समये संवृत्त:’ इति बहूनां मतम्।
वर्तमाना हिन्दी, व्रजभाषा चेत्युभे अपि एकस्यैव वृक्षस्य द्वे शाखे ये पृथक् पृथक् वातावरणे पुष्पिते फलिते च। इमे एकस्या एव मातुर्द्वे दुहितरौ ययोर्द्वयोरपि वंश: पृथक्पृथक् प्राचलत्। वर्तमाना हिन्दी यां 'खडी बोली’ इति बहवो व्यपदिशन्ति, सा तावदेव प्राचीना यावदियं व्रजभाषा, न पुनर्व्रजभाषात: संजनिता हिन्दी न वा ततोऽर्वाचीना। व्रजभाषाया: प्रथमविकासो व्रजे भूत्वा क्रमश: स सर्वं भारतं व्याप्नोत्। भारतीयानामाराध्यस्य भगवत: श्रीकृष्णस्य जन्मभूमे: सेयं भाषेति सा धार्मिकभावानुप्राणिता भूत्वा शनै: कविताया: साहित्यस्य च भाषा समभवत्, यस्यां सूरदास-सदृशा: सूर्या: संप्राकाशन्त। कवितामाधुर्यवशाच्च सेयं वज्रमण्डलात्सुदूरदेशेष्वपि बहुकालं यावत्साहित्यभाषारूपेण सगौरवं समवास्थित।
इतो हिन्द्या नासीत्कश्चिद्धार्मिकोऽवलम्ब:। सा दिल्ल्या: (प्राक्तनस्येन्द्रप्रस्थस्य) परिसरे तत्पार्श्वमण्डले च विकासं प्राप्य तावन्मात्रपरिसर एव सीमिता समभवत्। किं त्वस्या: प्राचीनतायां न शक्यते संदेग्धुम्। हिन्द्यां सर्वत: प्रथमा कविता 'अमीर खुसरो’ इत्यस्य समुपलब्धा। यो हि १३१२ तमे वि. संवत्सरे जात:, १३८२ तमे वत्सरे च लोकान्तरमारोहत्। एतस्य कविताभाषा हिन्दी (खडी बोली), या ह्यवश्यं तस्मिन् समये तत्प्रान्तवर्तिनां व्यवहारभाषा भवेदिति स्पष्टम्। विषयोपि तस्यास्तादृश एव यो हि व्यावहारिकभाषायामेव शोभते। यथा -
तरवर से एक तिरिया उतरी, उसने बहुत रिझाया।
बाप का उसके नाम जो पूछा आधा नाम बताया॥
बीसों का सिर काट लिया। ना मारा ना खून किया॥ इत्यादि।
अत्र हि 'उसने बहुत रिझाया’ 'आधा नाम बताया’ इत्यादीनि वर्तमानहिन्द्या: शुद्धवाक्यानीति को वा न जानीयात्?
अमीरादनन्तरं कबीर: समभूद्, य: अमीरखुसरोव्यवहृतायामेव भाषायां भूयसी: कविता न्यगुम्फत्। यथा -
हमन हैं इश्कमस्ताना हमन को होशियारी क्या।
रहैं आजाद या जगमें हमन दुनियां से यारी क्या॥
न पल बिछुडै पिया हमसे न हम बिछुडैं पियारे से!
उन्हीं से नेह लागी है हमन को बेकरारी क्या॥
उर्दूभाषा
प्रमाणैरेभि: स्फुटमवबुध्यते यद् हिन्द्या: (खडी बोली) परिष्कृतं प्राचीनं रूपं १३ संवतसरेऽप्युपलभ्यते। माहम्मदपरिगृहीतायास्तस्या एव हिन्द्या नाम 'उर्दू’ इति स्थापितमभूत्! न तु काचिदुर्दूभाषा पृथक् न वा कस्याश्चिद्भाषाया: सा समुत्पन्ना। 'आबे हयात’ लेखकेन प्रो.आजादमहोदयेन अविचार्यैवेदमालिखितं यत् 'अस्माकमुर्दूभाषा व्रजभाषात: समुत्पन्ना’। अमीर-कबीराभ्यां या हिन्दी व्यवहृता तदपेक्षया उर्दूभाषायां मौलिकमन्तरमपि शक्यते केनचित्साधयितुम् ? पुन: कथमुच्यते व्रजभाषात: सेयमुर्दू उत्पन्नेति। एतस्या नाम वास्तवे 'मुसलमानी हिन्दी’ इति शक्यं व्यपदेष्टुम्। आरव्य-पारस्य (अरबी-फारसी) भाषयो: संज्ञाशब्दैरव्ययैश्च सङ्कलिता हिन्दी 'उर्दू’ इति संज्ञायते यवनै:। न तस्यां हिन्दीत: पृथक् क्रियाशब्दा: 'सिर काट लिया’ 'खून किया’ 'काटता है’ इत्यादय:। न वा 'चलना’ 'बैठना’ 'उठना’ इत्यादयो धातुजा: शब्दा: पृथक्। केवलमारब्य-पारस्यभाषाशब्दान् स्थाने स्थाने सन्निवेश्य, कथनशैलीनां (मुहाविरे) परिवर्तनेन सेयमुर्दूभाषा पृथक् परिकल्पिता माहम्मदसम्प्रदायभक्तै:। यदि पारस्यभाषाशब्दानां परिग्रहणमात्रेण पृथग् भाषा संपद्येत तर्हि -
''मैं फ्राइडे को बॉम्बे से स्टार्ट होकर सटर्डे को कैम्बे (खंभात) पहुँचा। क्लॉथ मार्केट बिलकुल डल है’’ इत्यादिर्ग्रेजुएटमहानुभावानां भाषापि पृथक् काचिद्भाषा व्यपदिश्यताम्। किन्तु बुद्धिपूर्वकं विचारे प्रथमा मुसलमानी हिन्दी, द्वितीया ग्रेजुएटी (अँग्रेजी) हिन्दी।
क्रिया: कारकाणि लिङ्गानि वचनानि यावन्न पृथग् भिद्येरन् तावदुर्दूभाषा सेयं हिन्दीभाषात: कथं वा पृथक् शक्यते कर्तुम् ? एतस्या व्याकरणमेकम्, वाक्यविन्यासश्चैक:, तत: केन वा प्रमाणेन सेयमुर्दू हिन्दीत: पृथक् ? उर्दू-हिन्द्यो: केवलमेतदेवान्तरं यदाद्या पारस्यलिप्यां लिख्यते, आरब्य-पारसीकशब्दानां चास्यां बाहुल्यं भवति। द्वितीया देवनागरलिप्यां लिख्यते, संस्कृतशब्दाश्चैतस्यां बहुला भवन्ति। गुर्जरभाषाया अप्येवंविधे द्वे रूपे। एका पारसीकानां (पारसी) गुर्जरभाषा, अपरा गुर्जरभूनिवासिनां भाषा। पारसीकानां गुर्जरभाषा आरब्य-पारस्यभाषाशब्दै: संदृब्धा। गुर्जरभूवास्तव्यानां च भाषायां संस्कृतस्य तत्समास्तद्भवाश्चाधिका भवन्ति। किन्तु द्वे अपि रूपे 'गुजराती’ भाषानाम्ना व्यवह्रियेते। अयमेव न्याय: उर्दू-हिन्दीभाषयोरपि पक्षे समुचित:।
'उर्दूभाषा सेयं शाहजहाँसमये सेनासन्निवेशस्य *हट्टे निरमीयत’ इत्यपि लोकानामनुमानं मिथ्या। माहम्मदानामिहाऽऽगमनात् शासनाद्वा पूर्वमेव म्लेच्छभाषाशब्दा: समभूवन्संमिश्रिता आर्याणां भाषासु। महाभाष्यकारो व्याकृतिशुद्धिरहितान् शब्दान् म्लेच्छशब्दानाह। क्क तदा माहम्मदानां राज्यम् ? आर्याणामेकदा स समयोऽभूद्यत्तेषां राज्यं भारतात्पश्चिमोत्तरप्रान्ते ईरानआरब्यरूमतुर्किस्तानमंगोलियापर्यन्तं प्रसृतमासीत्। आसीदार्याणामुद्गमस्थानमिदं भारतमेव। परं ततस्ते चतसृष्वपि दिक्षु प्रसृत्य पर्यन्ते राज्यं चक्रु:, सभ्यतां च प्रसारयामासु:। पुराणेषु भारताद् बहि:स्थैरपि देशैरार्याणां व्यवहारस्य विजयस्य च स्थाने स्थाने प्राप्यते समुल्लेख:। चीनांशुकानां वर्णनमार्यसाहित्ये स्थाने स्थाने। पाण्डवानां लाक्षागृहप्रवेशस्य यत्र कथा, तत्रेदमपि दृश्यते यद् विदुरेण लाक्षागृहनिर्माणस्य संबन्धे काचिद् गुप्तसूचना तेभ्यो 'म्लेच्छभाषया’ दत्ताऽऽसीत्।
महाभारतात्परत: पश्चिममराष्ट्रवासिनां विदेशिनां बहून्याक्रमणानि भारते समभवन्। बह्व्यश्च जातयोऽत्र राज्यं चक्रु:। ताभि: सह तासां भाषापि भारते समागच्छदेव। अत एव भूयस्तरां संभवो यत्तस्मिन् समये पश्चिमदेशभाषाशब्दा: संपृक्ता भवेयुर्यभाषया। महाकवे: कालिदासस्य समये प्रतापशालिनां राज्ञामन्त:पुरे 'यवन्य:’ प्राहरिककार्यं शस्त्रसंरक्षणकार्यं चाऽकार्षु:। यदा स्वदेशीयवद् यवनानामियान् विश्वास: शनै: शनै: संप्रवृत्तस्तदा यवनभाषाशब्दा: अस्मत्त: सुतरां दूरे च अपरिचिताश्चासन्निति कथं वा विश्वसनीयं स्यात्? अत एव माहम्मदानां शासनात्पूर्वमेव भारतेऽस्मिन् प्रचलितभाषायां वैदेशिकसंसर्गजनिता आरब्यपारस्यभाषाशब्दा: प्राविशन्निति सुसंभवमेव। किञ्च; - अतिप्राचीनस्य चन्दबरदायिन: कवितायामपि आरब्य-पारस्यभाषयो: शब्दा बाहुल्येनोपलभ्यन्ते। अत एव 'शाहजहाँ’समये उर्दूभाषा निष्पन्नेति कथनं सर्वथाऽनुपपन्नम्।
यवनभाषाशब्दबहुला हिन्दीभाषा यवनानामागमनात्पूर्वत एव निष्पन्नासीत्, व्यह्रियते स्म च सा लोकै:। यदा माहम्मदानां राज्यस्थितिरिह सुदृढाऽभवत्तदा अत्रत्यैर्लोकै: सह व्यवहारार्थं कस्याश्चिद् भाषाया: समभूत्तेषामावश्यकता। ते च सर्वानेव व्यवहारान् हिन्दुभ्यो विपरीतांश्चक्रुरेव। अत एव हिन्दूनां भाषातो भिन्ना भाषा तेषामासीत्समपेक्षिता। ततश्च पारस्यादिशब्दमयीं तामेव हिन्दीभाषामात्मीयां कृत्वा 'उर्दू’नाम्ना तां पृथक्चक्रु:। तुर्कभाषायां सेनासन्निवेशस्य या विपणि: सा उर्दू नाम्ना व्यवह्रियत पुरा। तस्य या भाषा साऽपि शनैरुर्दूनाम्ना व्यपदिष्टाऽभूत्। सत्यमिदं मन्यामहे, यवनसेनासन्निवेशस्य विपणिस्तु मुहम्मदगोरिण:, तद्दासस्य कुतुबुद्दीनस्य च समयादेवाऽत्र भारते सन्निविष्टा। तत्समयेऽपि सेनासन्निविष्टैर्जनै: काचिद् भाषाऽवश्यं व्यवहृता भवेत्। न नाम मौनेन, इङ्गितेन वा कार्यं शक्यं सुसाधयितुम्। तत: कथमुच्यते यदत्यन्ताऽर्वाचीनस्य शाहजहाँसम्राज: समये 'उर्दू’ प्रारब्धेति?
अस्तु; नात्र इतिहासलेखनेन प्रयोजनम्। पारस्यादिभाषाशब्दबहुला सेयं हिन्दी 'उर्दू’संज्ञामधिगत्य कंचित्कालं यावत् उत्तरभारते भूयसीं लोकप्रियतामुपययौ। न केवलं माहम्मदैरेव, अपि तु पञ्चनद-काश्मीर-देहली-लखनऊ-प्रभृतिसंस्थानीयैर्हिन्दुभिरपि सेयमसेव्यत सानुरागम्। 'काश्मीरी’ब्राह्मणा:, विशेषत: 'कायस्था’स्तु मातृतोऽप्यधिकां मातृभाषामिमां शिरसा संमानयन्त: प्राणपणेन तथा संरज्यन्त्यस्यां यथा भारतीयराष्ट्रभाषां हिन्दीमपि नामग्राहमवहेलयन्त्यमी। किन्त्वन्नलोलुपतया आर्यभावं विक्रीय यवनभावपरिग्रह: स्पष्ट: सोयमेषाम्। आसन्पुरा कायस्था न केवलं ब्रजभाषाभक्ता:, अपि तु संस्कृतानुरक्ता अपि। किं बहुना, ते संस्कृतभाषाया: सफला ग्रन्थकर्तारोऽपि तादृशा अभूवन् ये व्याकरणादेरपूर्वान् ग्रन्थान्निर्माय तत्पठनेन संस्कृतस्य ब्राह्मणपण्डितानपि कवीन् निष्पादयितुमावहन्त्यभिमानम्। निजनिर्मिते 'क्रियाकलापे’ प्रोक्तं विजया (विद्या) नन्दकायस्थेन -
'अस्मादुपजीव्य जनो धातुव्युत्पत्तिविविधविस्तारम्।
शतशाखमतिविलासस्त्वरितकविर्भवति न भ्रान्ति:॥
पूर्वं पूर्वकविप्रणीतविविधग्रन्थेषु दृष्टास्ततो
निर्णीता हृदये निरूप्य निपुणं ये धातुपारायणम्।
धातूनां तनुधीरपि व्यरचयँस्तेषामिमं संग्रहं
विद्यानन्दकविर्विशुद्धहृदय: कायस्थवंशोद्भव:॥’
उर्दूभाषा संस्कृतं च
किन्तु यवनभाव एव गौरवं मन्यमानैरेभि: साम्प्रतं पर्यगृह्यत सेयमुर्दूभाषा। अलिख्यन्त तैर्बहव: कविताग्रन्था अपि भाषायामस्याम्। मोगलानां शासनकाले राजकीयव्यवहारा:; प्रजासु आदेशघोषणादय-श्चास्यामेव भाषायां प्रावर्तन्त। अत एव सेयं भाषा भारतस्य दूरदूरप्रान्तेषु परिचिताऽभूत्। ओजस्वी बन्ध:, शैली (मुहाविरे)नामविकृतं निर्वाह:, शब्दानां रोचको गुम्फ:, क्रिया-कारकादीनां नियते स्थाने निवेश: [न तु संस्कृत-हिन्दीवदन्वयेन वाक्यार्थबोध:] इत्येव उर्दू-कविताया: सौष्ठवसाधनम्। उर्दूकवय: एकैकं शब्दं विचित्य विचित्य तथा निगुम्फन्ति छन्दोबन्धे, ये हि (शब्दा:)श्रुतमात्रा एव विशिखवद् हृदये प्रविशन्ति, येन हृदयतन्त्री असाधारणरूपेण झणत्कृता भवति। मानस: प्रमोद: प्रभवत्युद्वेलित इव। तत: स्वत एव मुखाद् धन्य-धन्येत्यादय: साधुवादा: प्रसरन्ति। सारं तु-- उर्दू कवितायां शब्दानामेव विलक्षणो विलास:। संगीतलयानुबन्धिनि छन्दोबन्धे निविष्टा: शब्दा झगिति तथा भावं प्रस्फोरयन्ति, यथा सहृदयस्याऽन्त:करणमविलम्बितमेवाऽनुप्राणितं भवति।
संस्कृतादिप्राक्कवीनां कवितायां तु शब्दानां प्राधान्यस्य का कथा अर्थोऽपि (वाच्यार्थ:) वराको गुणीभूतो भवति। तेषां हि ध्वने: (व्यङ्ग्यस्यार्थस्य) प्राधान्यमभवत्। अत एव हि तत्काव्यमाकर्ण्य श्रोता अन्तरन्त: प्रमोदामृतमास्वादयति, प्रमदेन च मस्तकमस्य स्वत एवाऽऽघूर्णते। एतत्कारणादेव ललितकलासु कविता सर्वतोऽप्युत्कृष्टा। यतो ह्यस्या-मन्याऽन्यकलावद् भौतिकसाधनानां त्वपेक्षा नास्त्येव, किन्तु कविताशरीरभूत: शब्दोऽप्यत्र गौणतां गच्छति। मधुरतरं प्रस्फुरन्त: शब्दास्त्वमी व्यङ्ग्यस्यार्थस्याऽभिव्यञ्जने तथा सहायका भवन्ति यथा ध्वन्यर्थं संमुखमुपस्थापयन्तस्ते प्रमोदमाविर्भावयन्ति भावुकानां हृदि। इत उर्दूकवितायां प्रस्फुरन्त: शब्दा एव श्रोतुर्हृदयं गृह्णन्ति। अनन्तरं ते वर्णनीयभावं प्रति प्रापयन्ति श्रोतारम्। अस्तु; प्रसक्तानुप्रसक्तेन मुधा भूयान्विस्तर: संपद्यते।
उर्दूकवीनां कवित्वकलाविस्तारेऽपि उर्दूभाषायां छन्द:शास्त्रं संक्षिप्तमपि नास्ति। पारस्यभाषाया एव छन्दांसि व्यवह्रियन्त एतैरपि। हिन्दीत: सेयं पृथग् भाषा नास्तीत्यत्र तदिदमपि प्रमाणम्। यदीयं पृथग् भाषाऽभविष्यत्तर्हि साहित्यस्य सर्वाण्येवाङ्गान्यभविष्य-न्नस्यामपि। किन्तु आरब्ध-पारस्य-भाषाशब्दान् हिन्द्यां सन्निवेश्य यदा सेयं भाषा पृथगक्रियत तदा छन्दोविषये शून्यतामालक्ष्य पारस्यभाषाया एव छन्द:शास्त्रमुपजीवितमेतैरपि। एतद्विषये विशेषदर्शनाय साहित्यवैभवस्य 'छन्दोवीथ्या:’ 'उर्दू-भाषाप्रचलितानि छन्दांसि’ इति शीर्षकभाग: (पृ. ३७८) परिशीलनीय: पाठकमहाभागै:।
मोगलसाम्राज्यस्य पतनोत्तरं शाहआलममारभ्य (वि.सं. १७८०) बहादुरशाहजफरस्य समयपर्यन्तमियमुर्दूकविता भारते समनुबभूव भूरि विलासवैभवम्। 'गजल’शब्दस्यार्थ: प्रेमिण: समागम:, प्रणयनिवेदनं चेति। अत एव प्रणयनिबद्धा सेयं गजलनाम्नी छन्द:शैली तदारभ्यैव लोकानां भृशमभूद् हृदयग्राहिणी। पञ्चाप-युक्तप्रान्त-राजस्थानादिषु तु उर्दू सम्पर्कात्सेयमासीदेव सर्वजनप्रिया, किन्तु गुर्जरादिदेशेष्वपि तद्भाषाकवयो गजलमयीं कवितां प्रेम्णा निबबन्धु:। अभिननन्दुश्च तामेतां सशिर:कम्पं करतलध्वनिभि: प्रेक्षागृहेषु (नाटकभवनेषु) सहृदयरसिका:। धार्मिकसंस्थानां भजनोपदेशका: प्रजानामस्यामेव गीत्यामनुरागमालक्ष्य लोकानुरञ्जनाय जगु: प्रकाश्यसभासु प्रतापनारायणमिश्रादिनिबद्धा एता एव गीती:। किमधिकम्, गजलगीतिष्वेव लोकानामैकान्तिकीमासक्तिमुपलभ्य गीतगोविन्दस्य 'प्रिये चारुशीले.’ इत्याद्या *अष्टपदीर्गजलप्रकारेण गायन्तो गायका अपि समालक्ष्यन्त। ततश्च समयप्रगतेरनुसारं गजलेषु गतामभिरुचिं लोकानां संस्कृतभाषायामपि समाहर्तुम्, सहैव गीर्वाणभाषाया-स्तद्गुम्फनयोग्यां कोमलतामपि प्रदर्शयितुम् 'उर्दूभाषाचत्वर:’ इत्यादि शीर्षकै: समगुम्फ्यन्त एतच्छन्दोलयनिबद्धा अपि गीतयोऽत्रेति सूचितमेव पुरस्तात्।
विहारिविलास:
बिहारिसतसईकारस्य विहारिण: सूक्तिर्न केवलं हिन्दीसाहित्ये एव, अपि तु भारतीयेष्वन्यान्य-साहित्येष्वपि प्रकामं प्रसिद्धि लोकप्रियतां चाऽवापेति को वा न वेद ? ये संस्कृतपण्डिता: 'भाखा (षा)’ इत्युक्त्वा देशभाषां, 'तद्भाखा(षा)’ पण्डितांश्च शाखामृगानिव निराकुर्वन्त: समालोचकै: प्रख्यापितास्तेऽपि विहारिण: सूक्तिमभ्यनन्दिषुरन्त:करणेन; उपजिजीवुश्च समये समये तामेताम्। किं बहुना, य: किल पण्डितराजो जगन्नाथ: सर्वोत्कृष्टो विमर्शक: सर्वविधकाव्यरचनायामनुपमश्च परिगण्यते, यश्च स्वीये साहित्यनिबन्धे उदाहरणविधयापि परकीयपद्यानां स्पर्शं सावहेलं तिरस्करोति सगर्वं प्रतिजानीते च -
'निर्माय नूतनमुदाहरणानुरूपं
काव्यं मयात्र निहितं, न परस्य किञ्चित्।
किं सेव्यते सुमनसां मनसापि गन्ध:
कस्तूरिकाजननशक्तिभृता मृगेण?॥’
तस्यापि काव्ये विहारिण: सूक्तिरविकलं संवदते-
'नीलाञ्चलेन संवृतमाननमाभाति हरिणनयनाया:।
प्रतिबिम्बित इव यमुनागभीरनीरान्तेणाङ्क:॥’ इति पण्डितराज:;
'छिप्यो छबीलो मुख लसै नीले आँचल चीर।
मनो कलानिधि झलमलै कालिन्दी के नीर॥’ इति च बिहारी।
[समकालिकयोरनयो: केन क उपजीवित इति न सहसा शक्यं निर्णेतुम्। यतो हि-
'आमूलाद्रत्नसानोर्मलयवलयितादा च कूलात्पयोधे-
र्यावन्त: सन्ति काव्यप्रणयनपटवस्ते विशङ्कं वदन्तु।
मृद्वीकामध्यनिर्यन्मसृणमधुझरीमाधुरीभाग्यभाजां
वाचामाचार्यताया: पदमनुभवितुं कोऽस्ति धन्यो मदन्य:॥’
इत्याद्यभिमानवाही, प्राचामर्वाचां च सर्वेषामपि कवीनां सदर्पमालोचयिता, निर्माय नूतनेतिपद्ये परकीयकाव्यानां गन्धमात्रमपि परिहरन् पण्डितराजसदृश: स्वसमय एव वर्तमानस्य कवे: काव्यमाहरेदिति न चेतसि प्रविशति। इतो मोगलसाम्राज्यधुरन्धरादाम्बेर-पतेर्जयसिंहमहाराजाधिराजात्प्राप्तविपुलसंमान: सर्वत्र देशे ख्यातिमुपगतश्च विहारिमहाकविस्तस्मिन्नेव समये जातां रचनां तस्मिन्नेव समयेऽनुवदेदित्यपि विचारसापेक्षम्। अत एव तदिदं गवेषकमहाभागैरन्वेषणीयं नूनम्।]
त्रिंशतोप्यधिका वत्सरा व्यतीता:। वङ्गभाषाया: सुप्रतिष्ठिते 'प्रवासि’ मासिकपत्रे विहारिण: सूक्ती: समुद्धृत्य प्रादायि तत्परिचयो वङ्गीयसाहित्यसेविभ्य:। तत्र हि विहारिसप्तशत्या: संस्कृतभाषाया-मप्यनुवाद: समजनीत्युल्लिख्य संस्कृतभाषानिबद्धमेकं दोहापद्यमप्युद्धृतमभूत्। नव्यकाव्यभिमानिनो नवयुवकस्य मे समुदकण्ठत चेत: - 'कीदृशी सेयं संस्कृतोपनिबद्धा विहारिसूक्ति: स्यादिति’। व्यतिगतेषु कतिषुचिद्वत्सरेषु निजश्वशुरालयमोडछाराजधानीं 'टीकमगढ़’महमगां प्रसङ्गेन। तत्र विहारिणो वार्ताप्रसङ्गे समुत्थिते यदृच्छया व्याहरम् - 'श्रूयते संस्कृतेप्यस्या: सप्तशत्या अनुवादो जात इति’। एतदुत्तरे ओरछाराजगुरवो वेदमूर्तिभट्टाचार्य पं.श्रीरघुनाथदाऊजूमहाभागा: (मम श्वशुरा:) समभाषन्त-- 'आम्, सोऽनुवादोऽस्मत्संबन्धिना अजयगढ (बाँदा)राजगुरुणा 'लल्ला’ उपनामकपरमानन्दपण्डितेना-ऽस्मद्बाल्यकाल एव व्यधायि। शक्यते द्रष्टुं सा सप्तशती। अस्ति न: सविधे सा’।
अहं कलानिधिमिव करे प्रापम्। नासीन्मे हर्षस्य परिसीमा। सोत्साहमहं प्रार्थये-- 'अपि शक्नोमि दृष्टुं संप्रत्येव ?’
'बन्धनेषु कुत्रचित्सा निहिता। श्वस्तामहमन्वेषयिष्यामि’
उद्वेलन्तमुत्साहं कथंचित्संनिरुध्य व्यत्यगमयं तां रजनीम्। स्नानभोजनादे: कालमतिवाह्य यथाकथञ्चित्, श्वशुराज्जिह्रेतीति व्याकरणोदाहरणेष्वपि चिरादनुवृत्तां लज्जामतिलङ्घ्य मन्दमन्दैरक्षरैया-चमिमां भट्टाचार्यमहाभागान्। ते हि स्नेहेन मां निरीक्ष्य मन्दमन्दमस्मयन्त पूर्वम्, ततो वार्धक्यसुलभमालस्यं निरस्य पुस्तकान्वेषणाय प्राचलन्। नानाबन्धनेषु तामेतामन्विष्य परस्तात्समार्पयन्मे हस्ते सप्तशतीमिमाम्। मुदितमानस: सोहमुपगत्य निजनिवासप्रकोष्ठमारभे तस्मादेव समयान्निरीक्षणमेतस्या:।
संस्कृतदोहाच्छन्दस्सु 'शृङ्गारसप्तशती’नाम्ना सोयमनुवादो भारतसुप्रसिद्धस्य हिन्दी-साहित्यकर्ण-धारस्य भारतेन्दोर्हरिश्चन्द्रस्य समये परमानन्दमहाभागेनाक्रियत यस्योपरि प्रादीयत प्रचुर: पुरस्कारो भारतेन्दुना। सेयं सप्तशती वाराणस्यां शिलामुद्रायन्त्रालये मुद्रिता चापि। परमानन्दमहाभागेन टीकाऽप्यस्या निरमायि यस्या: सहायतया क्लिष्टोयमक्षरगुम्फो भवेद् बुद्धिगत:। आसीन्मे ग्रीष्मावकाश:। भट्टाचार्यादी-नामत्याग्रहेण, तेषामुपरि प्रदर्शयन्निवोपकारं, न्यवात्सं प्राकृतशोभामयेस्मिन्ननुपमे प्रान्ते। स्नानभोजनाद्यावश्य-ककार्याण्यतिरिच्य, सर्वेणापि समयेन समापयं प्रायश: समग्रामेव सप्तशतीमिमाम्। व्यक्तिगत: स समय:। परमानन्द-महाभागोऽपि स्वर्गस्थ:, किन्तु साहित्यलोचनाप्रसङ्गेन सप्तशतीविषये विगुणान्यपि कानिचिदक्षराणि विवशतया वक्तव्यान्येव नूनम्। सप्तशती सेयं यत्किञ्चित्संस्कृतप्रविष्टानामथ हिन्दी-व्रजभाषापटिष्ठानामवश्यं सन्तोषाय, यत: किल सप्तशतं दोहापद्यानि संस्कृते तेन रचितानि। किन्तु संस्कृतमार्मिका मन्ये नाभिरोचयेरंस्तामिमां रचनां तत्त्वतो विचारे सति। तथ्यं त्विदमस्ति यत् परमानन्दोऽसौ व्रजभाषासाहित्येऽवश्यं मार्मिक: समर्थ: कविश्चापि। किन्तु संस्कृतस्य साधारणो विद्वान्। विहारिसदृशसंक्षिप्तवादिनो दोहानां दोहापद्येष्वेव संस्कृतेऽनुवादश्च नूनं सुतरां कठिन:। जोधपुरराजधान्यामपि सुब्रह्मण्यशास्त्रिणा विहारिसूक्ते: संस्कृतेऽनुवादोंऽशतो व्यधायि पुरा, परं तेन संस्कृतच्छन्द एव गृहीतं न दोहाच्छन्द:। अत्र हि पादान्तानुप्रासो (तुकान्त) भूयस्तरां संकटवाही।
अस्तु, रसमयेषु येषु येषु पद्येषु परमानन्दमहोदयेन भूरिशो वैगुण्यं व्यधायि, कौतुकोद्दीप्तमतिस्तेषा-मालोचनामहं नर्मपरिहासविधया व्यधां तस्मिन्नेव समये। जयपुरात्प्रचरत: संस्कृतरत्नाकरस्याऽऽसंसंपादको म.म. पं. श्रीगिरिधरशर्मचतुर्वेदमहोदयस्य सहकृत्वा। अत एव पत्रेऽस्मिन् सेयमालोचना प्रकाशतामित्य-दीयत सुहृद्भि: संमति:। साहित्यमार्मिकस्य स्वर्गीय पं. श्रीपद्मसिंहमहोदयस्य प्राकाश्यत सतसईसमा-लोचना 'सतसई संहार’ नाम्ना तेष्वेव दिनेषु सरस्वतीमासिकपत्रे। प्रचुरपरिहासापि मर्मस्पर्शिनी सेयमालोचना समभूल्लोकानां परं हृदयग्राहिणी। अत एव संस्कृतेऽपि सेयं सप्तशतीचर्चा भवेत्प्रमोदाय साहित्यरसिकानामित्यासीच्चेतसि किञ्चित्कौतूहलमपि। तत एव साहित्यिकविनोदरूपेण सेयं सप्तशतीसमीक्षा व्यलेखि विस्तृत्य ['वर्णिका’ रूपेणैकतमपद्यस्यालोचना प्रदीयेताऽग्रे विनोदाय जातु साहित्यरसिकानाम्] किन्तु विनोदविहितापि सेयमालोचना परमानन्दसम्बन्धिनामस्मत्सजातीयानां क्षोभायाऽभूत्। ओरछाराजकवि पं. पीताम्बरमहोदयेन बहूनां साहित्यसेविनां समक्ष एव साधिक्षेपमुक्तम्-- ''आलोचनाकरणं सरलम्, किन्तु विहारिण: सूक्तिं संस्कृते समवतार्य यदि कश्चिद्दर्शयेत्तर्हि तमहं जानीयाम्’’।
'खड्गव्रणं पूर्यते परं वार्ताव्रणं न पूर्यते’ इति हि सत्यं नूनम्। अन्यो यद्येवमाक्षेप्स्यत्तर्हि जातु सह्यमप्यभविष्यत्, परं मार्मिकेण वैदेशिकराजकविना, ततोपि सजातीयेन कृत: सोयमाक्षेपो बलवदाहन्ति स्म मे हृदयम्। तत्क्षण एव तामिमामालोचनामहं बन्धनबद्धामकरवम्। नेमां प्राकाशयं रत्नाकरेऽपि। तत्क्षण एव निश्चयमकार्षं यद्विहारिण: सूक्तिमेषोऽहं संस्कृतेऽवतारयेयम्। सर्वत: पूर्वं येषां परमानन्द-पद्यानामालोचनामहमकार्षं तान्येव न्यबध्नां संस्कृते दोहाच्छन्दसि। किन्तु सुमहान् खेदो यदोरछाराजकवये पीताम्बरपण्डिताय तेषां प्रदर्शनस्य नाऽभूदवसर:। व्यतियाति ग्रीष्मावकाशे प्रत्यागमं निजनगरम्। किन्त्वाक्षेपव्रणं मे नापूर्यत तत्। विहारिण: सूक्तिमहमाबघ्नां संस्कृतसरस्वत्याम्। राजकवि पं. पीताम्बर इवान्येऽपि साहित्यरसिका: समालोचयन्तामिमां सूक्तिमिति बुद्ध्या मित्राणां संमतिमनुसृत्य 'सप्तशती’त: कतिचिन्मे पद्यानि 'विहारिविलास’ नाम्ना प्राकाशयं 'साहित्यवैभवे’।
कतिचिद्वर्षाणि व्यतीतानि विहारिसूक्तेरनुवादरूपाणि मम संस्कृतदोहापद्यानि पण्डितपरमानन्दकृते: समालोचनासहितानि प्राकाश्यन्त लखनऊत: प्रचरन्त्यां सुप्रसिद्घहिन्दी-मासिकपत्रिकायां 'माधुर्याम्’ अपि। यत्र परमानन्दपक्षावलम्बनपूर्वकं मत्कृते: प्रति समालोचना प्रविधीयते स्म पं. किशोरीदास-वाजपेयिमहाभागेन। सेयमालोचना साहित्यरसिकैस्तत एव समीक्षणीया, नात्र तत्सूचनस्यावसर:। विषयेऽस्मिन्नन्यन्निवेदनीयं तु साहित्यवैभवस्य विहारिविलासे (पृ. १०१) विलोक्यम्। पं. परमानन्दकृतविहार्यनुवादस्य समीक्षाया: पद्यमेकं तु रसिकानामाग्रहेण समुद्ध्रियते तावदिहैव।
परमानन्दकृतसप्तशत्या: समीक्षा
नायिकाया दृक्चातुरीवर्णनपरं शृङ्गाररससर्वस्वमस्त्येकं विहारिण: पद्यम् -
'सटपटाति सी ससिमुखी मुख घूँघटपट ढाँकि।
पावकझर सी झमकि कें गई औचकाँ झाँकि॥’
सहचरं प्रत्याह नायक:-- 'सटपटातिसी’ मामवलोक्य लज्जमानेव मुखं वसनाञ्चलेनाऽवगुह्य (वास्तवे सा तादृग् लज्जमाना नास्ति परमन्ये तस्या अनुरागं मा विद्युरिति मुखावगुण्ठनं रचयन्ती लज्जाऽऽकूतं दर्शयतीत्याशय:)। पावकस्य अग्रेर्ज्वालेव (अत्युज्ज्वलसुवर्णवर्णेति भाव:) सा सरभसं गता। केवलं सा गतैवाऽभविष्यत्तर्हि मम हृदयमेवमार्द्रव्रणं नाभविष्यत्। किन्तु गच्छन्ती सा एकं शरमप्यक्षिपत्। कोऽसौ शर:? 'गई औचकाँ झाँकि’ चकितमधुरं विलोकयन्ती सा गताऽभूत्। दु्रतं प्रयान्त्यास्तस्या-स्तदेतद्विलोकनं न मे हृदयादपयाति। किन्तु विशिख इवाधुनापि हृदये निखातमित्यर्थ:। अत्राग्रे: शिखेत्युत्प्रेक्षा तस्या: सरभसगमनमनुकूलयितुं प्रायोजि। किञ्च सुवर्ण-चम्पकवर्णायास्तस्यास्त-नुलताया अपि सादृश्यमनेनोत्प्रेक्षितं भवति। अस्मिन्पद्ये 'सटपटातिसी’ 'गई औचकाँ झाँकि’ इत्येतत्खलु जीवितभूतम्। सलज्जमिव समाकुञ्चितदेहलतं यत्सा मुखमवगुण्ठ्य चकितमधुरं परावृत्त्य पश्यन्ती गताभूत्, तत्र मुखावगुण्ठनसमकालं कृतो लज्जा-विनय-मधुर: कोऽप्यनिर्वचनीयो विभ्रम:, सकुतुकचकितं तत् परावृत्त्य विलोकितं च साम्प्रतमपि मे हृदयमधिवसतीति वर्णयति नायक:। इत्थं रससदनस्यास्य पद्यस्योपरि कथमिव निष्ठुरकृपाणमुत्थापयामास रौद्रमूर्तिरनुवादक इत्यवलोक्यताम्-
'द्रुतं चन्द्रवदना च सा वसनावृतवदनैव।
प्रदर्शयित्वा निजतनुं दहनलतेव गतैव॥’
सा चन्द्रवदना वसनावृतवदनैव अञ्चलाच्छादितमुखैव निजतनुं प्रदर्शयित्वा (संस्कृतज्ञा: 'प्रदर्श्य’ इति बुध्यन्ताम्) [मामिति शेष:, इति टीकाक्षराणि] दहनलतेव दु्रतं गतैव। वसनावृतवदनैव सा समग्रां निजतनुं दर्शयित्वा-- अर्थात् केवलं मुखमेव वसनाच्छादितमासीत्, मुखेतर: सर्वोऽपि नीचैर्भाग: प्रदर्शितस्तया नायकाय! अहह अनुभूयतामर्थलालित्यम्। 'वसनावृतवदनैव निजतनुं दर्शयित्वा’ निजतनुप्रदर्शनसमये वदनाऽऽवरणमनुचितमासीत् इति 'वसनावृतदनैव’ इत्येवकारस्य स्वारस्यं दर्शितवान् महाभाग:। वयमपि पश्याम: समुचितमेवेदमिति। यदा तया सर्वा निजतनुर्दर्शिता तदा केवलं वदनेनैव वराकेण किमपराद्धमिति सत्योयमनुवादकस्याऽऽक्रोश:! एकमाश्चर्यं दृश्यताम् -- नायिकया सर्वा निजतनुदर्शिता, परं मुखं वसनाऽऽवृतमेवास्ति, न किञ्चिदपि दर्शितम्। तथापि नायको ज्ञातवान्-- 'चन्द्रवदना च सा’। नैव, नैव, ढाकानगरनिर्मितमलमल्लकृतावरणं मुखमासीत्, अत एव नासीद्वस्त्रकृतं पिधानं मुखस्येति समाधानं चेत्? तर्हि महाराज! मुखादधोभागस्यैव निरावरणं दर्शनस्य काऽऽसीदावश्यकता, यद्वसनं पृथक् कृत्वा निजतनुप्रदर्शनम् ? किमु मुखादधोभागे एतावदप्यावरणं मास्तु इत्यासीच्चन्द्रवदनाया इच्छा? अथवा मुखभागे एकं ढाकानगर-निर्मितमलमल्लवस्त्रं संयोजितमासीत् कन्धरादिनीचैर्भागे तु स्थूलपटं स्यूतमासीत् यदपसारणे तनुप्रदर्शनम्। 'परं नीचैर्भागे स्थूलपट:, मुखभागे च जालवस्त्रमिति’ यवनीनामिव 'आवरकं’ ('बुरका’) तदेतद्भवेत्। अस्तु, परं मूलकारो विहारी नास्मिन् जाले पतति। कथयति स: - 'गई औचकाँ झाँकि’। चकितमधुरावलोकनसमये शशिमनोहरं मुखमभूत्तस्य नयनगोचरम्।
ननु शशिमुखीत्वं नायकस्य पूर्वदृष्टमासीत् अत एव न तदर्थमेतावत्परिकल्पन-मावश्यकम्। तर्हि पृच्छाम: -- शशिमुखीत्वं तु नायकस्य पूर्वदृष्टमासीत्। मुखेतरोऽन्यो भाग: साम्प्रतं 'प्रदर्शयित्वा निजतनुम्’ इति नायिकया स्वयं दर्शित एव। पुन: किमवशिष्टमासीद् यदर्थं नायको भवांश्च टीकायामधुनापि स्मरामीति भावं दर्शयति।
ननु नयनप्रकरणगतमिदं पद्यमिति तादृशं चकितविलोकितं नायक: पुन: पुन: स्मरतीति किमत्रासमंजसम्? उच्यते, भवदनुवादे नायिकाया विलोकनभङ्ग्र्या नामापि नास्ति। किमन्यत्स्यात्, बिहारिण: पद्येऽस्मिन् 'सटपटाति सी’ 'गई औचकाँ झाँकि’ इति खलु जीवितभूतमिति पूर्वमसाधयाम। परमनेन जीवितेन विनाकृतमवलोक्यते तावदनूदितं पद्यम्। नास्त्यनयोरप्यर्थोऽस्मिन्। 'सटपटाति सी’ इत्येतदर्थे मन्ये द्रुतमिति प्रयुक्तमनुवादकेन। परं कस्मिन् हिन्दीभाषाकोषे लज्जामर्थयत: पदस्यास्य द्रुतमित्यर्थ: प्राप्तोनुवादकेन? एतत्तु विचारणीयमासीदनुवादकमहाभागेन-- यदि 'सटपटाति सी’ इत्यस्य द्रुतमित्येवार्थोऽभविष्यत्तर्हि रभसार्थद्योतकं 'झमकि कें’ इति पदं न पुन: प्रायोक्ष्यत साभिप्रायपदप्रयोग-पटुना विहारिणा।
इदानीं 'प्रदर्शयित्वा निजतनुं’ विचार्यतां महाभागै:। एकवारं विहारिणो भाषापद्यमनुवाच्य पुनरिदं संस्कृतपद्यं पठ्यतां ततोऽवधार्यतां कस्यायमनुवाद:? पश्याम:- 'सटपटाति सी’ इत्यस्यार्थ: कृत: 'द्रुतम्’। ससिमुखी-चन्द्रवदना, मुख घूँघट पट ढाँकि वस्त्रावृतवदनैव, पावकझर सी दहनलतेव, गई गता। इदानीमवशिष्टे 'झमकि कें’ 'गई औचकाँ झाँकि’ इति। अनयोर्मध्ये 'प्रदर्शयित्वा निजतनुं’ कस्यानुवाद: ? रभसार्थं द्योतयत: 'झमकि कें’ इति पदस्य 'प्रदर्शयित्वा निजतनुम्’ इत्यनुवादं कुर्यादित्यनुवादकेऽपि न संभाव्यम्। तर्हि 'गई औचकाँ झाँकि’ इत्यस्यैव 'प्रदर्शयित्वा निजतनुम्’ इत्यानुवाद:। इदानीं विचार्यतां कीदृशोयमनुवाद:? 'चकितचकितं विलोक्य गता’ इति यस्यार्थ: तस्य 'प्रदर्शयित्वा गते’ति स्पष्टोयं ग्राम्योर्थ:। ननु भावानुवाद: सोयम्, नाक्षरानुवादेन प्रयोजनमिति चेत्, 'प्रदर्शयित्वा निजतनुम्’ इति पदयुगलं 'औचकां झाँकि’ इत्यस्य कं भावं स्पृशति इति श्रीमद्भिरेवोच्यताम्? निजतनुं दर्शयित्वा गतेति स्पष्टोयं ग्राम्योर्थ:। अञ्चलावगुण्ठितमुखदर्शने यथा रसिकानामुत्कण्ठा न तथा स्पष्टमुद्घाटितमुखदर्शने। परमितोऽनुवादकमहाभागस्तु सर्वां तनुमेव निरावरणं दर्शयति। न जानीमो विहारिसूक्ते: कं भावं स्फुटयत्यनेन सोयम्। वयं तु जानीमो नासौ भावानुवाद:। एष हि विहारिसूक्तामृतमाधुर्यस्य अभावानुवाद:।
किञ्च विहारिण: सप्तशत्यां प्रकरणबन्धमनुसंधाय सन्ति पद्यानि। अनुवादकस्तु प्रकरणबन्धानुसारं सर्वाणि दोहापद्यानि योजयित्वैकस्मिन् स्थाने लिलेख। ततस्तदिदं पद्यं महामनोहरे नायिकानयनचातुरी-वर्णनपरे प्रकरणे संयोजितमस्ति स्वयमनुवादकेनैव। इदानीं दृश्यताम्-- द्रुतं चन्द्रवदना. इति पद्ये क्वचिदपि दृश्यते नायिकया अवलोकनचातुरीवर्णनम्? इदं पद्यं वाचयन् किमु सहृदय: प्रत्येतुं शक्नुयाद् यदेतस्मिन्पद्ये विहारिणा अवलोकमाधुर्य-मुपवर्णितमिति। अनेन हि 'निजतनुप्रदर्शनपूर्वकं नायिका त्वरितं गता’ इत्येवार्थं प्रतीयात्सहृदय:। अहो यस्यार्थस्य कृते कवेरियान् संरम्भ:, यं च चकोरनयनाया-श्चकितमधुरं विलोकनरूपमर्थं प्रकाशयन् कविमूर्द्धविहारी विहारी सहृदयानां मनो हर्तुमैच्छत्, नि:संशयतमं सफलोऽप्यभवदत्र। किन्तु तमेवार्थमनुवादशिलया निर्दयतममेवं चूर्णयामास महाकर्मा श्रीमाननुवादकम-हाभाग:। हन्त कीदृशोऽयं भावानुवाद:?
'प्रदर्शयित्वा’ इति व्याकरणसौष्ठवसमीक्षणं तु दूरत: परिहरेम। अद्यावधि सोढा एव एतावत्पर्यन्तं पर:शता व्याकरणाशुद्धयश्छन्दोभङ्गाश्च। अत्र हि प्राक्प्रसिद्धमाभाणकमेव हृदये कुर्म:-- 'अस्माकमालोचकानामर्थे तात्पर्यं न शब्दे’ इत्यादि।