साहित्यवैभवस्य वीथीक्रम:
मुखपत्रम्
सर्वत: पूर्वमस्य मुखपत्रम् (टाइटिल पेज) सूक्ष्मेक्षिकया विमर्शकैरालोच्यं स्यात्। आलोचक-पण्डितानां कर्कशैराकूतैरिदमखिलं छन्दोमयमक्रियत। छन्दोऽपि व्रजभाषापरिगृहीतम्, यत्र पादान्तानुप्रास: (तुकान्त) प्रयोजनीयो भवेत्। 'व्यञ्जद्वृत्तपुञ्जे’ इत्युपरित आरभ्य-'जयपुरात्तेन॥ १॥’ इति पर्यन्तं कवित्तम्। एतदग्रेपि तच्छन्दोमयमिति स्वयमेव मार्मिकैरवगम्येत।
वीथीनामारम्भ:
अस्य ग्रन्थस्येव नवयुगसाहित्यस्यापि सोयं प्रात:काल इति प्रारम्भसूचकात्प्रात:-कालदेव ग्रन्थारम्भ:। कवीनां प्राकृतशोभैव निसर्गप्रियेति विपिनविभावर्णनेन ग्रन्थारम्भमङ्गलम्। तत: प्रकृतिशोभा-सर्वस्वभूता: षडृतव:, ऋतुभिर्विजृम्भिताश्च नवरसा:। ततो रसपरिपाकेऽपि न नीतिरतिवर्तनीयेति सूचनार्थं नीतिवीथी, यत्र नवीन: प्राचीन: सर्वविधोऽपि दृष्टिकोणोऽनुसृत:। कवीनां नीतिरपि न विनोदरहितेति तत्सहकृता विनोदवीथी, यत्र समीक्षाविनोदप्रसङ्गेन लोकमर्मवर्णनम्। ततो विनोदसाधनं छन्द:संदर्भो, गीतयश्च।
नवनिर्मिते साहित्ये युगपरिस्थितिपरिदर्शनं कवे: सामयिकस्थितिसूचकमिति नवयुगवीथी, यत्र नवयुगसर्वस्वस्य भौतिकविज्ञानस्य ('साइन्स’) वैभवभूता। विद्युद्व्योमयान-रेल-यन्त्र-सीनेमादयो वर्णिता:। ग्रन्थनिर्माणसमये न संलपच्चित्रपटानां (टॉकीज्) प्रारम्भ इति मूकाभिनयसाम्यं परिदर्शितं कविनेत्यालोक्येत पाठकै:। ततो वर्तमानशासकानां सर्वविधं नीतिपरिपाटीपाटवम्, यस्य हि प्रत्यक्षं प्रमाणमिदमेव यद्राजनियमकार्कश्यात्कवयोऽपि संयतयैव भाषया तथ्यमिदमावर्णयन्तीति वर्णनेनानेन सूचितम्। ततो वर्तमानकालिकशिक्षा-समाज-नेतृ-सुधारकादीनां वर्णनम्। उपसंहृतिवीथ्यामीर्ष्यालूनां पण्डितानां परिस्थितिचित्रणमपि विनोदबुद्ध्या किञ्चित्परिशीलनीयम्। वंशवीथ्यां च कवेर्वंशस्य जयपुरमहाराजानां च किञ्चित्सूचनम्। साहित्यवैभवस्य भूमिकायामप्येतद्विषये किञ्चदावर्णितमिति तत्समालोकनीयं सहृदयै:।
जयपुरवैभवम्
मञ्जुकवितानिकुञ्जाख्येऽस्मिन् संदर्भे छन्द:प्रबन्धे यथा नूतनता, तथा ग्रन्थस्वरूपेऽपि पूर्वसंस्कृतकविभ्यो नवीनतावलम्बिता। पूर्वे व्रजभाषाकवय: साहित्यग्रन्थप्रणयनेऽपि पूर्वं स्वाश्रयभूतानां राज्ञां तन्नगरादेश्च वर्णनं विधाय ततो वर्णयितुमुपक्रान्तं साहित्यादि-विषयमुपाददते स्म। तत एव भागद्वयात्मकेऽस्मिन्निकुञ्जे-प्रथमभागेस्मिन् जयपुरवैभवे राजविभूतेर्नगरादेश्च वर्णनमवलोक्येत। द्वितीये साहित्यवैभवे च नवीनपद्धत्या कृतस्य युगानुसारिसाहित्यस्य दिग्दर्शनमुपलभ्येतेति निवेदितवानस्मि पूर्वम्।
जयपुरवैभवेऽस्मिन् पूर्वं चतुष्पदीचत्वरो यत्र व्रजभाषाप्रसिद्ध'चौपाई’च्छन्दस्सु प्रारम्भे प्रशंसनीयानां संस्कृत-प्राकृत-व्रजभाषामहाकवीनामनुकीर्तनम्। यत्र प्रसङ्गेन प्राचीनसाहित्यस्या-लोचनम्, तत्तत्कवीनां साहित्ये किंकृतो विशेष इति च नवीनानां परिचयाय संक्षेपत: सूचितम्। चौपाईच्छन्दसि तत्रभवान् गोस्वामी तुलसीदास: परिगण्यते सर्वमूर्धन्य:, तत: तस्यैवाऽऽदर्शेन छन्द:शैलीमिमां संस्कृते प्रवर्तयता प्रारम्भे सुजनदुर्जनादीनामनुकीर्तनं प्राचां ग्रन्थकृतां पद्धत्या विनिबद्धम्।
काव्यकलायामायुर्वेदे चोभयत्रापि कविराजैर्जयपुरराजवैद्यश्रीकृष्णरामभट्टमहाभागै:१ पञ्चाशद्वर्षेभ्य: पूर्वं संस्कृते विनिबद्ध जयपुरविलासकाव्यं मन्ये न विस्मरन्ति संस्कृतानुरागिण:, यद्धि विनोदमयं काव्यमन्विष्यतामपि न साम्प्रतं सुलभं साहित्ये! तत्कृतामावश्यकतां संस्कृते संपूरयता तदादर्शेन नगरस्य स्थानोद्यानादेश्च वर्णनमाबद्घं विनोदपद्धत्या। अन्वेषणशीलानामुपयोगाय जयपुरेतिहासस्य संक्षिप्तसूचनापि सह प्रदत्तास्ति। यस्या: प्रामाणिक: संग्रहो जयपुरेतिहासस्य विशेषज्ञेन हन्त साम्प्रतं स्वर्गवासिना विद्याभूषणपुरोहितश्रीहरिनारायणशर्मबी.ए. महाभागेन प्रसादीकृत:। जयपुरविलासे तत्सामयिकानां मुख्यमुख्यराज्याधिकारिणां पण्डितादीनां च विनोदमयं वर्णनमवश्यमासीत्परं मेलकादीनां नासीदुपनिबन्धनम्। तदर्थं 'जयपुरमेलककुतुक’ मिति नाम्ना पृथक्काव्यं निर्मितं यद्धि नाद्यापि प्रकाशितम्। किन्तु ग्रन्थेस्मिन्- स्वर्गगतानां प्रसिद्धविदुषां यथोपलब्धं जीवनवृत्तम्, जयपुरे प्रसिद्घानां मेलकानामुत्सवानां (त्यौहार) चापि वर्णनमिहैव संकलितमिति पश्येयु: साहित्यविनोदिन: पाठकमहाभागा:।
जयपुरविलासे- कवे: समये वर्तमानस्यापि ग्रन्थनिर्माणकाले स्वर्गगतस्य श्रीरामसिंहमहाराजस्य वर्णनमाकलय्य, ततस्तस्मिन्काले वर्तमानस्य माधवसिंहदेवस्य विवाहादेर्वर्णनं यथा समुपनिबद्धं तथा वैभवेऽप्यस्मिन् श्रीमाधवसिंहदेवस्य धर्मौदार्यादीनां वर्णनं विधाय वर्तमानमहाराजाधिराजस्य राजसिंहासनारोह-विवाहमहोत्सवादेर्वर्णन-मालोक्येत काव्यरसिकै:। 'विलासे’ यथा स्थाने-स्थाने व्रजभाषाया: संस्कृतस्य च सुरोचकं संपृक्तमुपगुम्फनमालोक्यते तथा 'वैभवे’प्यस्मिन् न केवलं व्रजभाषाया एव, अपि तु कुत्रचिद् भाषाद्वयस्य, कुत्रचिच्चतसृणाम्, क्वचिच्च अष्टभाषाणामपि सहसंपृक्तं काव्यं विलासिनां विनोदायोपगुम्फितमुपलभ्येत पाठकमहाभागै:। वैभवसामग्रया: समलंकृतचित्रणाय प्राचां नरेशानां नानालंकृतिपूर्णं विविधवर्णनं विस्तृत्य संकलितं किल प्राग्भि: सत्कविभि:। साम्प्रतिकास्तु केचन 'भटैती’ (बन्दिवन्मिथ्यास्तुति:) इत्युक्त्वा तद्विगर्हयन्ति किन्तु सोयं साहित्यसरणेरपरिचयो नूनम्। अस्तु एतद्विषये 'व्रजकवितावीथे:’ आरम्भे संभावितमग्रे (पृ. ४०१) समालोक्येत समालोचकै:। 'विलासे’ व्रजभाषाकवित्त्वमपि यथा सामयिकानां विनोदायोपात्तं तथात्रापि व्रजभाषाकवितावीथिरुपात्ता यत्र हि जयपुरराजकवीनां कविताविनोदो भवेत्सुलभ: काव्यकलामार्मिकाणाम्।
चित्रकाव्यानि
खड्ग-छत्र-चामरादिचित्रकाव्यानि भवन्ति भूयसां विनोदकानि। व्रजभाषाकवय: प्रददतेऽस्मै शिल्पायाऽनल्पं गौरवम्। सन्ति व्रजभाषासाहित्ये एतद्विषयकाणि कतिचित्पुस्तकान्येव पृथक्। किन्तु संस्कृतसाहित्येऽपि नैतत्कृता न्यूनता विलोक्येत। अस्ति प्राचीनालङ्कारिकैरादृता सेयमपि चित्रकला। अलङ्कारयुगे१ खड्गबन्धादिकाव्यानि पर्यगण्यन्त चित्रतया विशेषत: शोभाधायकानि। अत एव हि भोजादिभि: (सरस्वतीकण्ठाभरणादिषु) तदेतत्प्रकरणं विस्तृत्य विन्यस्य स्म। किन्तु ध्वने: प्रचारानन्तरं रसभावुकानां साहित्यप्रणयिनामुत्तरोत्तरं बन्धकाव्येषु प्रणय: प्रक्षीयते स्म। मम्मटादिभिस्तदिदमधमं काव्यं पर्यगण्यत तर्हि सर्वचरमभाविना विमर्शकशिरोमणिना पण्डितराजेन (रसगङ्गाधरे) काव्यगणनायामेव नेदमुपादीयते२ स्म।
एवं सत्यपि वैचित्र्यं चमकारो वात्र नास्तीति न शक्यते विवेकाद्वक्तुम्। रुचिविशेषशालिनां भवत्यनेनापि चमत्कारश्चेतसि। अस्य प्रणयनमप्येकं शिल्पम्। परीक्ष्यते मार्मिकैरेतन्निर्माणेऽपि कौशलं कवे:। यत्किञ्चिदपि वाऽस्तु, नानाबन्धकाव्यनिर्माणे सफलस्य कवे: शक्तिविशेषोऽवश्यं स्वीकर्तव्यो भवेत्। ततश्च पूर्णपरिश्रमेण निर्मितानि शक्तिविशेषसाध्यानि बन्धकाव्यानि कुतो वा लोकानामभिरुचिं नाऽपहरेयु: ? अत एव हि महाकविभिरुपादीयन्त परमपरिश्रमसापेक्षाणि काव्यान्यमूनि निजनिबन्धेषु, विशेषतश्चाराजस्तुतिप्रस्तावे। एतद्विषयकपरीक्षाप्रदानाय अभिनन्दनवीथ्यां चित्रचत्वर: समुपस्थापित:। यत्राऽऽरोहणाय प्रारम्भे शिबिका, तर्हि पर्यन्ते आशी:प्रदानमङ्गलाय श्रीफलावाप्तिरवलोक्येत।
ग्रन्थेऽस्मिन्वर्णितं जयपुरराज्यं तन्महाराजाश्च
ननु राज्यमिदं चाटुविधया किमिति संस्तूयत इति चेत्, तर्हि तद्विषयकं निवेदनं किञ्चिदप्यप्रकाशयतो मम हृदयगोपनापराध: सोयं स्यात्। अत एव किञ्चिदिदमावेद्यते-
भारतवर्षस्य क्षत्रियजातिर्देशरक्षाया: कृते प्रारम्भादेव कवचस्थानीयेति सर्वजनविदितम्। वैदिककालमारभ्याऽद्यावधि जातिविभागानुसारं क्षत्रियकर्तव्येषु प्रजानां पालनमेव सर्वत: प्रधानम्। 'क्षतात् किल त्रायत इत्युदग्र: क्षत्रस्य शब्दो भुवनेषु रूढ:’ इति हि त्राणकारणादेव 'क्षत्त्र’ शब्दस्य रूढि:। विश्वप्रसिद्धस्यैतिहासिकस्य महामहोपाध्यायपं. गौरीशङ्करओझा-महाभागस्य क्षत्रियजातेर्विषये प्राकाशि पुरा महत्त्वपूर्णो निबन्धो यो हि संस्कृतत्नाकरेऽपि दृष्ट: स्यात्पाठकै:। तस्मिन्नपि, महाभारतमार-भ्याद्यपर्यन्तस्येतिहासै: सम्यक्तया समर्थितं यत् क्षत्रियजातिश्चिराद्देशरक्षाकार्येषु सर्वत: प्रमुखं स्थानमधिक-रोतीति।
क्षत्रियजातेस्तस्या राजसंस्थानेषु उदयपुरम्, जयपुरम्, जोधपुरमित्यादीनि प्रमुखतया परिगणनीयानि नूनम्। अत्रत्यैर्महाराजै: प्राचीनमर्यादानुसारं निजप्रजा: परिपालयद्भिर्या कीर्तिपताका स्वदेशस्य प्रस्फोरिता तस्या: साक्षीणि साम्प्रतिकेतिहासस्य पत्राण्येव नूनम्। धर्मस्य त्राणाय स्वस्य स्वदेशस्य च गौरवरक्षायै, प्रजानां सङ्कटनिबर्हणाय च निजप्राणानपि तृणीकुर्वद्भिस्तैर्यत्किल कर्तव्यमात्मन: परिपालितं को वा देशहितैषी तमिममितिहासं विस्मरेन्नाम। प्रात:स्मरणीयस्य हिन्दसूर्यस्य महाराणाप्रतापस्य प्रताप: कथं वा निह्नुतो भवेत् ? निजमर्यादापालनाय जीवनपर्यन्तं विधर्मिभि: सह सांमुख्यं वहन् कोऽन्यो नरपालो भवेद् भूमौ? एतस्यैव कृते मेदपाटीयपार्थिवानां गौरवमस्माकं नाल्पीयसे महत्त्वाय।
नीति:
किन्तु नीतेरालोचनं यदि साहित्यक्षेत्रे नाऽपराध: परिगण्यते तर्ह्येतद्विषये किञ्चिदिह निवेदनीयं स्यात्। किं धर्मशास्त्रं किं वा लोकवृत्तम् उभयोरपि दृष्ट्या शासकस्य तदिदमेव प्रधानं कर्तव्यं सिध्यति यत्स निजदेशं संकटात्संरक्षेत्, सर्वविधां चोन्नतिं प्रापयेत्। मान-मर्यादारक्षणाय भीषणयुद्धे प्राणानामपि बलिप्रदानमवश्यं गौरवसामग्री, किन्तु युद्धसंरम्भेणानेन देशस्य देशवासिनां च सर्वदार्थं कियती हानि: संपद्यते, तदुन्नतेर्मार्गाश्च कथं निरुध्यन्ते इति हि मन्ये न विवेकिभ्यो निवेदनीयं स्यात्। अत एव हि कर्तव्यपरायणा: शासका विग्रहं यावद्बुद्धिबलोदयं परिहरन्ति। राजनीतिर्यदि महत्त्वस्य वस्तु परिगण्यते तर्हि तस्यामयमेव विचारो महत्त्वाऽऽधायकोऽस्ति यदात्मानं हानित: सर्वथा संरक्षन् पराजयेत परान्पृथिवी-पाल:। नीतेर्निष्कर्ष: प्रोक्तोयमेव नीतिज्ञै:-- 'आत्मोदय: परग्लानिर्द्वयं नीतिरितीयती’। यया हि स्वस्य स्वदेशस्य च चिराय चूर्णीभाव: संपद्यते तां नीतिं मन्ये बुद्धिमन्तस्तु न कदाचित्प्रशंसेयु:।
विजयस्य पूर्णाशायां सत्यामपि विग्रहरूपमुपायमधमं न चेत्तर्हि उत्तमं तु न केचित्परिगणयन्ति। पुनर्यत्र देशस्य कालस्य च परिस्थिति: सर्वथा विपरीता स्यात्तत्रत्या तु कथैव का? नीतेर्नैपुण्यमिदमेवास्ति यद् युद्धप्रसंङ्गं विनैव निजसाध्यं साध्येत। यदि युद्धमेव राजनीते: परा काष्ठा तर्हि विग्रह: सर्वेषामुपा-यानामन्ते कथं परिगण्यते? युद्धादेव राजनीते: श्रीगणेश: किमिति न संमान्येत? इतिहासस्यालोचकाश्च किमिति सकरमर्द्दनमनुशोचन्ति यन्महाभारतस्य चेन्महासमरो नाऽभविष्यत्तर्हि भारतस्य सर्वनाशो नाभविष्यदिति।
'वाराङ्गनेव नृपनीतिरनेकरूपा’ इत्युदीरयतामिदमेव तात्पर्यं यत्परिस्थितेरनुसारं यादृशमप्यवसरं पश्येत्तादृशेनैव प्रकारेण निजदेशं हानित: सर्वथा संरक्षेत्। खङ्गेन निजस्य निजानुगतानां च रक्तप्रवाह एव चेत्क्षत्रियाणां परमो धर्मस्तर्हि राज्ञां कृते 'राजनीति:’ इति दुर्बलं शब्दं किमिति शृण्म:? प्रवर्ततां रक्तप्रवाह एव प्रारंभात्। यज्ञीयपशोरिवात्मनो बलिदानं राजबुद्धिशून्यस्य मुशलक्षत्रियस्यैव कृते प्रशंसार्हं स्यान्न राजसिंहासनाधिष्ठितस्य। महाभारतं किल आर्याणां नीतेश्चरमो ग्रन्थ:, तत्रापि राजनीतिस्तु तत्र पदे पदे न केवलमुपदिष्टैव प्रत्युत कार्यतो व्यवहृता चापि। भगवता श्रीकृष्णेन पाण्डवानां पक्षमवलम्ब-मानेन यत्र यादृशोऽवसरो दृष्टस्तत्र समरं विहाय तथैव परिशीलितम्। द्रोणाचार्यस्य,भीष्मपितामहस्य कर्णस्य च विजय: किं समरमात्रेणैवाभवत्? 'नरो वा कुञ्जरो वा’ इति मिथ्याप्रायं प्रजल्प्य आजन्मन: सत्यवादी अजातशत्रुरादर्शक्षत्रियो युधिष्ठिरोपि राजकर्तव्यं पालयति। परमधार्मिकाणामपि राजनीतेरनुसारं यत्र मुशलस्येव मस्तकस्फोट एव न राजकर्तव्यं किन्तु नीतेरनुसरणं पथ्यं भवति, तत्र चक्षुषी निमील्य केवलं स्वस्य स्वानुगतानां च समरे बलिप्रदानं राज्ञां कृते न शोभायै, न प्रंशसायै। अपि च बलिप्रदानमिदमेकमात्रस्य नरस्य कृते साध्यम्, येषां शिरसि परोलक्षाणां प्रजानां जीवनं विनिहितं ते यदि सर्वेषां बलिप्रदानेनैव क्षत्रियकर्तव्यं राजधर्मं वा परिपूरयन्ति तर्हि कृतमीदृशेन राजसिंहासनारोहेण।
महाभारतसदृशे धर्मयुद्धेऽपि यत्र नीतिरनुसार्या भवति क्षत्रियभूपालानां, तत्र वैदेशिकानां, विधर्मिणां, हिन्दुधर्मं कूटनीत्या च खड्गेन च प्रत्यक्षं खण्डयतां समक्षे नीतेर्नैपुण्यमस्वीकुर्वतां बुद्धिदारिमेवेति बहूनां मति:। अथवा किंकर्तव्यविमूढतया समर एव तेषामवलम्बनीयोऽ-भवेदिति बोद्धव्यं स्यात्। अन्यथा स्पष्टं विपरीतां परिस्थितिं दृष्ट्वापि युद्धे लोकक्षपणं कीदृशो राजधर्म:? अत एव हि छत्रपतिशिवाजीप्रभृतयो धर्मिकवीरा अपि नीतिनैपुणेन यवनान्निरासुर्न केवलं मुशलबुद्धेरिव युद्धेन। सूचयत्यस्मान्नीति:-- शठे शाठ्यं समाचरेदिति। नव्यविचारशालिन: साम्प्रतिका राजानं देशस्य प्रतिभुवं हिताहितयोरुत्तरदायिनं च यदा मन्यन्ते तदा आत्मसंमानस्य कृते अन्यस्य वा हेतोर्देशशक्ते: सर्वदार्थं क्षपणं को वा प्रशंसेत्?
युद्घवीरता क्षत्रियाणां भूषणम्। यदि सा न भवेत्तर्हि 'वीररसस्य’ क: स्यादालम्बनम्? संमुखयुद्धे देहं विसृजन्त: सूर्यमण्डलं भित्त्वा साक्षात्स्वर्गमारोहन्ति। देवाङ्गनास्तेषां वरणाय पारिजातमालां करे धारयन्त्य: प्रतीक्षन्ते। सत्यमिदम्। य: क्षत्रिय: केवलं सैनिक एव सृष्ट: सृष्टिकृता तस्येदमेव कर्तव्यम्, अस्मिन्नेव च तस्य पराक्रम: प्रशंसा च। किन्तु ये क्षत्रिया राजान एव न, अपितु महाराजा: प्रख्यायन्ते लक्षलक्षप्राणिनां जीवनभारो येषां स्कन्धयोरधितिष्ठति, लक्षाणां कोटीनामनुगतानां निर्वाहो यैरङ्गीकृत:, अथवा एवमुच्यतां यत् लक्षलक्षमनुष्याणां पालन-पोषणार्थं ये भगवता भूमौ प्रेषितास्तै: क्षत्रियै: पूर्वापरं भूयस्तरां विचारणीयं भवति। ते हि संमुखयुद्घे स्वर्गं प्राप्य स्वस्य स्वार्थमवश्यं साधयेयु: किन्तु यासां प्रजानां कल्याणं तेषामायत्तमासीत्तासां कियानुपकारस्तै: साधित: ? यो योगी संसाराद्विरक्तो विजने तपस्यन् मोक्षमधिगच्छति, अवश्यमयं जनैरभिनन्दनीय:। किन्तु तेन केवलमात्मोद्धार: कृत:, अशेषजगतस्तेन किं मङ्गलमाचरितम् ? किन्तु ये योगिनो योगसिद्ध्या स्वस्येव लोकानामपि कल्याणमाचरन्ति किं ते निन्दनीया: ?
आम्बेरराजानां नीति:
देशस्य परिस्थितिं युद्धस्यानुकूलां न विलोकयन्तस्तावदाम्बेरनरपाला निजनीतिनैपुण्येन मोगलसाम्राज्यमेकान्ततो वशीभूतं चक्रु:। उपरितस्ते मोगलसाम्राजामधीना: प्रासिध्यन् किन्तु तत्सामयिक-मितिहासं मर्मतो विमृशन्त: स्पष्टं जानीयुर्यत् किं सैन्यशक्ति:, किं वा प्रबन्धशक्ति: सर्वापि मोगलानां राजशक्तिराम्बेर-जोधपुरनरेन्द्राणां मुष्टिगतेवासीत्। जयपुरराजस्य योयमितिहासो जनेषु प्रसिध्यति, यश्च विद्यालयेष्वाङ्गलै: पाठ्यते सेयं भारतीयजनता, स तावदितिहास: 'टॉड’लिखितमितिवृत्तमाधारीकरोति। टॉडलिखित-राजस्थानस्येतिहासस्तु उदयपुरराज्यस्य दृष्टिकोणमादायैव निर्मितो यतो ह्ययं टॉडस्तत्सा-मयिकराणामहोदयस्यासीन्मित्रम्। अत एव जयपुरस्येतिहासो बहुत्र विरूपीकृतो वैदेशिकै:। एवं सत्यपि पुराणपुरातत्त्ववेदिनो जानन्ति यन्मोगलसाम्राज्ये आम्बेरनरेशा-नामासीत्सर्वत: प्राधान्यम्। सम्राजोऽकबरस्य समये मोगलसाम्राज्यस्य प्रताप: स्थिररूपेण व्याप्रोद्भारते। किन्तु तत: पूर्वमेवाम्बेरनरेन्द्रस्य भगवन्तदासस्य तत्प्रभुत्वमासीद्यत्स्वेच्छया यं कञ्चन मोगलसम्राजं स स्थापयामास, उत्थापयामास वा। मत्पूर्वजैरशेषशास्त्रज्ञै: कविकलानिधिश्रीकृष्णभट्टमहाभागै: 'ईश्वराभ्युदयमहाकाव्य’ (ईश्वर-विलास)नामा य: किलैतिहासिको ग्रन्थो लिखित: तस्मिन् महाराजभगवन्तदासस्य विषये प्रोक्तम् -
'तस्य श्रीभगवन्तदास उदित: पुत्र: पवित्रक्रिय:
शूर: क्षत्रियवंशविस्तरशिरोऽलंकारहीराङ्कुर:।
इन्द्रप्रस्थपुराधिराजपुरुषप्रोत्थापनस्थापन-
स्वच्छन्दप्रसरत्प्रतापमहिमा योऽभूत्प्रभूत: स्वयम्॥१९॥’
महाराजमानसिंह:
तत्पुत्रो महाराजो मानसिंहस्तु, सर्वेष्वपीतिहासग्रन्थेषु ख्यातमहिमा। इन्द्रप्रस्थस्य सर्वापि सैन्यशक्तिरासीत्तदधीना। संकटपूर्णान्यनेकयुद्धानि विजित्य येन विश्वतोपि निजप्रभाव: स्थापयामासं। बहुभि: प्रात:स्मरणीयैरपि हिन्दुपतिपृथ्वीपालै: स्वदेश एव, प्रत्युत स्वराज्यसीमन्येव निजवीरता प्रकटिता भवेत् किन्तु मानमहाराजेन न केवलं भारतस्यैव दूरदूरप्रान्तेषु, अपि तु भारताद्बहिरपि (काबुलप्रभृतिषु) सैन्यसंनाहं कृत्वा प्रबलप्रतापा: पठाना अपि हठात्पराजिता:। मानसिंहस्य युद्धवीरवर्णने प्रोच्यते साहित्यवैभवे (कवित्तचतुर्थचरणे)-
'किञ्च हठावेशात्परिखण्डितविबुधमठान्
संग्रामे पठानशठान् दैन्यं शिक्षयांचक्रे॥’
हिन्दीमहाकवि: कुलपतिमिश्रो लिलेख-- 'नृप मान जित्ति सडसठ समर।’ महाकवि: केशवदास-स्तुष्टाव-- 'एक राजा मानसिंह कछवाहो केशोदास, जिँहि वरवारिधिके उदर१ बिदारे हैं’। डिंङ्गलकाव्येषु विख्यातम्-'सँमदर खाँडो पखालियो काबुल पाडी हद्द’। बहुभिरितिहासलेखकै: सप्तषष्टिमहासमराणां विधानं तेषु विजयप्राप्तिश्च माननरेन्द्रस्य नामग्राहं परिगणिता। किन्तु जयपुरराज्येतिहासस्य सर्वस्वीकृतो विशेषज्ञो विद्याभूषणपुरोहित-श्रीहरिनारायणमहोदयो जयपुरस्य 'जयध्वनि’पत्रे 'महाराजा मानसिंहजी प्रथम की गुणावली’शीर्षकं यं खल्वैतिहासिकं निबन्धमाङ्गलयावनेतिहासग्रन्थानां प्रमाणै: प्रकाशयामास तस्मिन् सप्ताधिकसप्ततियुद्धेषु मानसिंहस्य विजय: प्रमाणीकृत:। लिखितं तै:-- ''अयं राजा सर्वेष्वपि समरेषु सर्वदा विजयं लेभे, नानेन कदाचिदपि पराजयोऽनुभूत:। अस्य स्वर्गारोहणेन एको महाप्रतापी शूरवीर: रणविद्याकुशल:, सदा समरविजयी नीतिपरायणो धर्मधुरन्धरो गुणपरीक्षक: परमदानी कुशाग्रबुद्धि: विद्याप्रेमी अनेकगुणनिधानं क्षत्रिय: शासकोऽस्तं जगाम।’’२
'मिर्जाराजा’ जयसिंह:
एतदनन्तरं मिर्जाराजा जयसिंहस्तादृश: प्रतापी बभूव यस्य हस्ते सर्वापि मोगलसाम्राज्य-शक्तिरासीदिति प्राय: सर्वैरेवैतिहासिकैरालिखितम्। यथायं महावीरस्तथा परकाष्ठाया राजनैतिकोऽप्यासीत्। निजस्यानुगत्यं प्रतिज्ञातवन्तमौरङ्गजेबमयमेव दिल्लीसम्राजं चक्रे। एतस्य विषये प्रोक्तमीश्वराभ्युदये -
'बद्ध्वा दाराशिकोहं रणभुवि सहसा दोर्बलेनानिनाय
द्रागेव द्रावयित्वा भृशमनभिमतं यो विजिग्ये शुजाख्यम्।
कर्तुं चाकर्तुमीश: प्रसभमितरथा कर्तुमप्येष राजा
चक्रे नौरङ्गजेबं निजबलविभवेनैव दिल्लीशमेकम्॥’
किन्तु साम्राज्यमधिगत्य सोयं निजप्रतिज्ञातो विमुखो बभूव। तथापि नीति-शक्तिशाली सोयं सर्वमपि तस्य स्वातन्त्र्यं स्थाने स्थाने कीलयामास। महाराजजयसिंहस्य संमुखे नासीदौरङ्गजेबस्य दर्पो यत्सोयं स्वस्याऽभिमतं जयसिंहमहाराजस्यानभिमतं च किञ्चिदाचरेत्। अत एव नरपालदस्मा-द्बिभ्यत्, प्रतिकर्तुं चाऽस्याऽप्रभवन्नयं विवशतया विषप्रयोगमन्ते चकार नरपालकृते। महाराजजयसिंहस्य तनयं रामसिंहं सोयं कूटप्रयोगेण जिघांसन्नि:शस्त्रमेव बुभुक्षितसिंहेन योधयामास। परं नि:शस्त्र एव महावीरोऽसौ बाहुदण्डाघातेन तं सिंहं जघान। ततस्तु लोकातिशायिन्या यस्य शक्त्या द्विगुणं भीत: पूर्णं शङ्कमानश्च तं नानाकूटोपायैर्जिघांसति स्म। औरङ्गजेबस्य कृतघ्नतया पूर्वमेवासीदयम् (महाराज:) असन्तुष्ट:, इदानीं तनयेन साकमेवं व्यवहारान्नितरामेवाऽयमक्रुध्यत्। यथा कश्चिन्निजवशगामिने घोषणां ददाति तथायं शक्तिशाली औरङ्गजेबाय निर्भय: पत्रं प्रेषयामास-'यदि रामसिंहस्य किञ्चिदप्यनिष्टं भवेत्तर्हि स्पष्टं जानीहि यन्मोगलसाम्राज्यमन्य एव करिष्यति’ इति। 'वंशावली’।
राजनीतिदृष्टिकोणेन जयपुरेतिहासमपश्यन्तो ये महाभागा जयपुरविषये यत् किञ्चिन्निन्दनीयं जल्पन्ति ते मनाग् विचारयन्तु यत्पादाक्रान्त: कश्चिदेवं स्वस्वामिनमद्यावधि लेखितुं प्राभवत्, प्रभवति वा? यदि जयपुरनरेन्द्रा मोगलानां हस्तपुत्तलिका एवासन् तर्हि स्त्रीणामिव, विवशानामिव वा विषप्रयोगस्य काऽऽसीदावश्यकता ? किमिति सोऽर्द्धचन्द्रं प्रदाय न नि:सारित:?
धर्मधुरां धारयत्यस्मिन्नरपाले औरङ्गजेबस्य नाऽभवदयं दर्पो यदस्य वर्तमानतायां देवमन्दिराणि विध्वंसयेत्। महाराजजयसिंहस्य लोकान्तरगमनवृत्तमौरङ्गजेबेन यस्मिन्दिने समधिगतं तस्मिन्नेव दिने स एकोत्तरशतं देवमन्दिराणि खण्डयितुमाज्ञापयत्। योधपुरनरेन्द्रस्य महाराजजसवन्तसिंहस्य समीपे महाराजजयसिंहस्य स्वर्गारोहणवृत्तं नाद्यावधि प्राप्तमासीत्, किन्तु देवालयविध्वंसनस्य वृत्तमश्रावि तेन। श्रुत्वैव स तस्मिन्नेव समये बुबुधे यन्महाराजो जयसिंहो नाऽद्यास्मिन्संसारे। यद्ययं भूमावभविष्यत्तर्हि औरङ्गजेबस्य नेदं साहसं कदाचिदप्यभविष्यत्। खिन्न: स दोहापद्यमिदं जगाद -
'घण्ट न बाजैं देहरा संक न मानै साह।
हेकरसाँ फिर आवज्यो माहूरा जयसाह॥’
ऐतिहासिक: कविरेक: कवित्तच्छन्दस्येकस्मिन् मोगलसम्राजामुपरि तत्समयभा-विनामाम्बेरनरेन्द्राणां प्रभावं रुचिरं चित्रयामास--
'अकबर पायो भगवन्त के तनै सों मान
बहुर्यो जगतसिंह महामरदाने सों
पायो जहाँगीर भावसिंह जयसिंह जू सों
शाहजहाँ पायो जयसिंह जगजाने सों।
अब अवरंगजेब पायो रामसिंह जू सों
औरैं दिन दिन पैहैं कूरम के माने सों
केते राज राव मान पावैं पातसाहन सों
पातसाह पावैं मान मान के घराने सों॥’
एतस्यैव समये बिहारीसतसई निर्ममे। अस्यैव समये पण्डितराजो जगन्नाथो निर्ममौ रसगङ्गाधरादीन्नानाग्रन्थान्। कुलपतिमिश्रोऽस्यैव समये समभूद्येन महाभारतस्य द्रोणपर्वानुवाद: संग्रामसार: रसहस्य-मुक्तितरङ्गिण्यादयोऽनेके ग्रन्था: प्रणीता:।
सवाईजयसिंह:
एतदनन्तरं महाराजाधिराज: सवाईजयसिंहदेवो (द्वितीय:, जयपुरप्रतिष्ठापक:)पि सुप्रसिद्घो राजनीतिज्ञ:, स्वयं विद्वान् विदुषां संमानयिता चाभूत्, यस्य जयपुरे काश्यामुज्जयिन्यां मथुरायामिन्द्रप्रस्थे च निर्मापिता ज्यौतिषयन्त्रशाला वैदुष्यस्य पताका इव परित: प्रस्फुरन्ति। विश्वविदित: पुरातत्त्ववेदिता म.पं. गौरीशङ्करओझामहाभागो महाराजजयसिंहस्य संक्षिप्तं जीवनचरितं यत्प्रकाश्यामास (पिलानी-कालेजपत्रिकायाम्) तस्मिन्महाराजमिमं परमराजनीतिज्ञमद्वितीयं च विद्यानुरागिणमलिखत्। अयमेवाश्वमेधेनेष्ट्वा दिग्दिगन्तेभ्यो महाविदुष: सादरमामन्त्रयामास पूजयामास निवासयामास च निजनगरे। पौण्डरीकरत्नाकर-सम्राड्जगन्नाथसदृशा अद्वितीयविद्वांसो बभूवुरेतस्यैवाश्रये, येषां जयसिंह-कल्पद्रुम-सिद्धान्तकौस्तुभ-सम्राट्सिद्धान्तादयो धर्मशास्त्रज्यौतिषनिबन्धा: परिगण्यन्ते साम्प्रतं सर्वमान्या:।
अस्तु, इतिहासलेखनेन नात्र प्रयोजनम्। निवेदनस्येदमेव मे तात्पर्यं यत्कैश्चन राजन्यैर्नीतिचातुर्येण परान्दमयितुमप्रभवद्भिर्मुशलप्रायजनसुलभं युद्धं विधाय क्षत्रियताऽवश्यं प्रकटिता या ह्यवश्यं प्रशंसनीया। किन्तु केवलं नाम्न: कृते निजा जन्मभूमि:, सकला निजाश्रिता: प्रजाश्च चिराय तथा क्षपिता यथा नाद्यापि ता: प्राभवन्नुन्नमितुम्। ईश्वरसृष्टौ ज्ञानाऽऽकरस्य मानवस्य कृते परमावश्यकानां विद्यानां कलानां चोन्नतेस्तु कथैव का ? इतो राजधर्मं विमृशद्भिरन्यैस्तु राज्ञां कृते परम्परातो विहितेन राजनीतिचातुर्येण बर्बरप्रायानमून्मोगलान्मुष्टौ कृत्वा वात्याचक्रादिव रभसकृताद् बर्बरकुचक्रात्सर्वोपि देशोऽयं नाशाद्रक्षित:। बर्बराश्च ते शनैस्तादृशीं दशां प्रापिता यथा सर्वतोऽपि नियन्त्रिता: स्त्रिय इवाबलास्ते विषप्रदानरूपं गूढपापं कर्तुं विवशा अभूवन्। ततोऽपि निष्कृतिमलभमाना राज्याद्विच्युतास्ते अन्ते राजपुत्राणामेव राज्ये शरणमवापुर्येन देशाऽऽक्रमणकृत: सर्वोपि प्रतिशोधस्तैर्गृहीत:।
बहूनां दृष्टौ स्वस्याऽपवादं सोढ्वाऽपि जयपुरनरपालैर्नीतिचातुर्यात्संरक्षितो देश:। प्रजाश्च ता: सर्वदार्थं तथानुरक्ता बभूवुर्यथा निजस्य राज्ञ: कृते प्राणानपि समर्पयामासुरिति पश्येयुर्जना जयपुरेतिहासे। साम्राज्यसंपदा च तैर्देशस्यास्य तथोन्नतिर्विहिता यथा जयपुरराज्यमिदं चिराद् भूमण्डले विद्यानां कलानां च केन्द्रमामन्यते। जयसिंहमहाराजस्य कलाकुशलतायाश्चिरसूचक-चिह्नभूतमिदं जयपुरनगरं निजसौन्दर्याय भारते सर्वत: सुप्रथितम्। तादृशकौशलेनेदं निर्मितं यस्य कारणाद् भौतिकविज्ञानस्याऽसाधारणोन्नति-युगेऽप्यस्मिन् तदिदं नगरमादर्शभूतमिव परित: परिगण्यते। अत एव वर्णनकुशलै: संस्कृतकविभिरिद-मारम्भादेव वर्णनीयमभूत्। पूर्वमस्मत्पूर्वजै: श्रीकृष्णभट्टकविकलानिधिभि: ईश्वराभ्युदयमहाकाव्ये (ईश्वरविलासे)सर्वत: प्रथममिदमावर्णितम्। ततो 'जयपुरविलासे’ राजवैद्यकविवरश्रीकृष्णरामभट्ट-महाभागैस्तदिदमुप-गीतम्। ततस्तदनुजै: कविमल्लश्रीहरिवल्लभभट्टमहोदयै: 'जयपुरपञ्चरङ्ग’काव्ये वर्णनीयमभूत्। एवं व्रजभाषा-उर्दू-भाषाप्रभृतिवाङ्मयेऽपि समये समये तदिदमभूत्सोत्साहमुपवर्णितम्।
राज्ञां समये साहित्यरचना
एतस्य मूलकारणं राज्यस्यास्य शासकानां पूर्वमहाराजानामसाधारणी गुणग्राहितैव नूनम्। जयपुर (आम्बेर)राजस्य शासकै: पर:सहस्रमुद्राणां ग्रामादिसम्पत्ती: समर्प्य ते ते विद्वांस: कलाकाराश्च निजराज्ये संवासिता यैर्निजाश्रयभूतानां राज्ञामाज्ञामनुसृत्य संस्कृतसाहित्ये हिन्दीसाहित्ये च मूर्द्धन्यभूतास्ते ते ग्रन्था: प्रणीता यैर्न केवलं राजपुत्रप्रान्तस्यैव, अपि तु भारतमात्रस्य साम्प्रतमप्युन्नतं शिर:। संस्कृतवाङ्मयस्य जयसिंहकल्पद्रुमादयो ग्रन्था: पूर्वं सूचिता एव। हिन्दीसाहित्येऽपि महाकवेर्बिहारिण: पद्माकरस्य च कृतय: कस्य वा न विदिता:? जयपुरराजस्य साहित्यं हि न साम्प्रतमपि साहित्यसेविनां समक्षमुपगतम्। बहूनां राजाश्रितानां प्राक्तनकवीनां कृतयो न परिचिता: साम्प्रतमपि साहित्यिकजगत:। एतेष्वेव मत्पूर्वजा: श्रीकृष्णभट्टकविकलानिधिभारती (द्वारकानाथभट्टपाद)जगदीश-मण्डनादयो महाविद्वांस: सन्ति येषां कृतयो नाद्यापि नयनगोचरमुपयाता: साहित्यरसिकानाम्।
अस्मत्पूर्वजा दक्षिणापथात्काशीम्, काशीत: प्रयागम्, प्रयागाद्बान्धवदेशादिषु निजतपो-माहात्म्य-वैदुष्यादिना राज-प्रजाभि: पूज्यमाना: समवापुर्बुन्दीराजधानीम्। तत्र तेषामखिल-भारतव्यापिनं वैदुष्य-तप:प्रभावमसामान्यमालोकयद्भिराम्बेरनरपालैर्याचनलाघवं१ स्वीकृत्यापि बुन्दीतो निजराजधानीमाम्बेरं समानीय सादरमावासिता:। तद्वंशे श्रीकृष्णभट्टकविकला-निधिमारभ्य-मण्डनपर्यन्तं तादृशा विद्वांसो बभूवुर्यै: संस्कृते व्रजभाषायां च तात्कालिकजयपुर-महाराजानामाज्ञया सुप्रसिद्धा: साहित्यनिबन्धा: परमपरिश्रमेण विनिर्ममिरे। संस्कृते--ईश्वरविलास-महाकाव्यम्, वृत्तमुक्तावली,२ पद्यमुक्तावली, वेदान्तपञ्चविंशति-सुन्दरीस्तवराजप्रभृतयो मद्दृष्टा विशिष्टा ग्रन्था:।
व्रजभाषायाम्-- अलङ्कारकलानिधि-शृङ्गाररसमाधुरी-विदग्धमाधवमाधुरी-रामचन्द्रोदय-दुर्गाभक्तितरङ्गिणी-मधुकरकलानिधि-रामचन्द्रिका-शब्दचन्द्रिका:, महाराजप्रताप-सिंहदेवस्य काले निर्मित: संगीतस्य महानाकरग्रन्थ:,३ काव्यविनोद-वाणीविनोद-किशोरसुखसागर-जगतरसरञ्जन-जगतभक्तिविलास-प्रतापसुतजसचन्द्रिका-जयसाहसुजसप्रकास-राठोडचरित्र-रामजसचन्द्रिका-रावलचरित्र-भारतचरित्र-बापूचरित्र-रसरत्नावली-रससमुद्र-नवरसरत्नाकर-कृष्णसुजसप्रकाश-कृष्णव्रजविहार-सुलोचनाचरित्र-मंङ्गलप्रकाशप्रभृतय:। एते महान्तो ग्रन्था:, येषु बहवो मद्दृष्टा: सन्ति च वर्तमाना:।
अनुपलभ्यमाना:, लघवो ग्रन्थास्तु-सांभरजुद्ध-जाजऊजुद्ध-बहादुर-विजय-जयसिंहगुण-सरिता-रामरासा-वृत्तचन्द्रिका- नखसिखवर्णन-पृथ्वीसिंहमहाराजस्य विवाहोत्सव: (व्यावला), वाणीवैराग्य-गालवगीतम्- (संस्कृते) भक्ति अरगजा- पदमकरन्द-पदमङ्कज-जवानचरित्र-षड्ऋतुवर्णन भगवद्भक्तिविलास-शिवनाथगुण-सरिता- रामनीति-रामचरित्र-सालिमविजय-विनोद-हनुमानपच्चीसी-वल्लभाचार्य की पृथ्वीपरिक्रमाप्रभृतय: पृथक्।
एवं संस्कृतग्रन्थानामनुवादास्तु-तैत्तिरीयाद्युपनिषदां व्रजभाषानुवाद:, ब्रह्म-वैवर्त्तस्यानुवाद: (व्रजभाषाच्छन्द:सु), भागवतदशमस्कन्धस्यानुवाद:, महाभारतस्य वन-शान्तिपर्वणोरनुवाद:, वल्लभाचार्यकृतषोडश-ग्रन्थानामनुवाद:, माघकृतकाव्यस्यानुवाद:, भर्तृहरिशतकत्रयस्या-नुवाद:, अमरुशतकस्यानुवाद:, एतत्प्रभृतयस्तु नात्र सूचिता येषु बहवो मत्समीपे सन्त्यपि। सर्वोप्ययं विषयो मत्पूर्वजानां वंशवृक्षश्च साहित्यवैभवस्य 'वंशवीथ्याम्’ द्रष्टुं शक्य:।
ग्रन्थविषये आवश्यकं निवेदनम्
नूतनप्रकारक: सोयं कवितानिकुञ्जस्त्रिंशद्वर्षेभ्य: पूर्वमारभ्य केनचित् केनचिदंशेन साम्प्रतंपर्य्यन्त-मप्यभिपूरित इतयावेदितवानस्मि पुरस्तात्। जयपुरवर्णनात्मक: पूर्वनिर्मित: सोयं प्रथमभाग: साम्प्रतं प्रकाश्यते। परस्तान्निर्मितो द्वितीयभागस्तु (साहित्यवैभवम्) इत: पूर्वमेव नयनगोचरमुपनीत: साहित्यर-सिकानामित्यपि विदितमेव। कारणमत्रा-सीज्जयपुरवैभवस्य समर्पणमर्यादा नूनम्। जयपुरवसुन्धरापुरन्दरं च विहाय नान्योऽस्याधिकारी भवितुमर्हति। अवसरोपसर्पणीया: पुन: पृथिवीपाला इत्याचक्षते विपश्चित:। ततश्च समुचितावसरप्रतीक्षयैव व्यतिगत: सोयमेतावान्काल इत्यवबोद्धव्यं स्यात्। इतो ग्रन्थनिर्माणमार-भ्याऽद्यपर्यन्तं व्यतिगते समये ग्रन्थस्यास्य वर्णनीयो विषयो बहुतरं परिवर्तनमुपगतो नूनम्।
समयान्तरालेऽस्मिन् जयपुरनगरे तत्पर्यन्ते च नवीननवीना: सन्निवेशा:, विशालभवनानि, सुदृश्या-श्चत्वरा: ('चौराहे’), प्रशस्ता राजपथा:, विशदा विपणयश्च निर्मित्ता नूनम्। पुरातनेषु च स्थानेषु भूयस्तरां व्यधीयत परिवर्तनम्। आपातत: परिदर्शने जयपुरपरिसरस्यास्य स्वरूपमेव विपर्यस्तम्। रामनिवासोद्यानमेव निध्यायताम्--प्राचीनं प्राचीरमस्य विपर्यस्तम्। द्वारसन्निवेशो विपरिवृत्त:। स्थानान्यस्य लुप्तानि, वैरूप्यं च गतानि। विटपिनो विलूना:, निकुञ्जा निमीलनमुपयाता:। यत्रारण्या: पशवो निवसन्ति स्म तत्स्थाने आङ्ग्लशिक्षिताश्छात्रा: सायं क्रीडन्तो दृश्यन्ते। यत्र रोगिणां क्षतविपाटनं शवच्छेदा वा (मेयो हॉस्पिटिल) भवति स्म तत्स्थाने न्यायं याचमाना जना: संदृश्यन्ते, विवादश्च तेषामुपशाम्यते। परश्शतान्नागरिकान्निजच्छायायामावासयतां महाविटपिनां स्थाने तृणानि (दूर्वा:) राजन्ते। एकमेव 'सिनेमाभवनम्’ बहूक्रियते स्म पुरा, संप्रति प्रतिगोपुरसमीपमन्यत्र च निर्मीयन्ते तान्यनेकानि। किमधिकविस्तरेण, जयपुरमधुना रूपान्तरमिवोपगतमाभासते।
यथा हि-- ग्रन्थनिर्माणकाले यत्कौंसिलभवनम् (राजमन्त्रि-न्यायालय:), एतद्धि अग्रे 'चीफकोर्ट’ भवनमभवत् (पृ. ४२)। साम्प्रतं च तत् सार्वजनिकसभाभवनम् (सवाई मानसिंह टाउन हाल)। 'त्रिपोलिया’-गोपुरस्य संमुखवीथ्याम् (चौड़ा रास्ता) पुरा पर्यन्ते सिंहपञ्जरा: समभूवन् (पृ. ५१) साम्प्रतं नवीनं गोपुरम्। साङ्गनेरचतुष्पट्या: कोणे पूर्वं महाराजा कालेजोभूत् (पृ. ४४) तत्स्थाने साम्प्रतमाकराणां कार्यालय: (माइनिङ्ग डिपार्टमैण्ट) इत्यादि। अत एव ग्रन्थे वर्ण्यमानानि जयपुरस्य स्थानानि प्राचीनान्यपि नवीनानां दृष्टौ नूनमाभासेरन्नवीनानीव। बहूनि तु स्थानानि निर्मितान्यपि साम्प्रतमेव। कथमिह तेषां वर्णनमुपलभ्येत नूनम्?
वर्णितानां राज्याधिकारिणां बहूनामधिकारपरिवृत्तिर्जाता। बहव: समयान्तरालेऽस्मिन् दिवमारूढा:। सुधीचत्वरे-ग्रन्थकर्तु: समये लोकपूजितानां ततो दिवमुपयातानां बहूनां संक्षिप्तं जीवनवृत्तमिहैवोपात्तम्। येषां च जीवनपरिचय: स्थानान्तरे प्रकाशमुपगतस्तस्य सूचना तेषां वर्णने समवलोक्येत, नात्र तस्योद्धारो विस्तरभयात्। बहूनां मित्रकोटिभुक्तानां जीवनकाले विनोदाय तेषामुपनिबद्धो नर्मपरिहासो हन्त दिवमुपयातेषु तेषु साम्प्रतं संप्रकाश्यत इति सत्यं मन:खेद इव, किन्तु दुर्निवारो दैवसंयोग इति केन किं क्रियताम्?
बहूनां वर्णने तत्पूर्वजानामपि परिचयसूचनामावश्यकीं मत्वा प्रस्तुतमस्ति संक्षिप्तं गुणवर्णनं तेषाम्, येन हि तत्समयमालोकितवतां लोकानां हृदि तत्पूर्वजकालिकमितिवृत्तं जागरूकं सद् विनोदाय तेषां संभवेत्। विनोदेन सह कञ्चिदितिहासमप्यावहतामेवंविधकाव्यानां पूर्वसमयस्मारणेन मार्मिकाणां मनसि मानसिकप्रमोदसंजननमेव फलमिति को वा न जानीयात्? तदिदं यथा श्रीरावल-अटलमहोदयादीनां वर्णने यथा वा वैद्यवरभट्टनरहरिवर्णने।
स्थानोद्यानादीनां वर्णने बहुत्र ग्रन्थनिर्माणकालिकीं परिस्थितिं संस्मार्य विनोदोद्भावनस्य यत्न:। यथा-- 'साङ्गानेरी चौपड़’ वर्णने (पृ. ४५) 'मञ्जुनाथ नृत्यन्तीव सायं वाद्यतालवशात्’। अत्र हि-- 'नवाबमहोदयस्य मन्त्रित्वे यदा चतुष्पटीनामेवं परिष्कारो जातस्तदा कंचित्कालं यावत् स्थलेऽस्मिन् सायंकाले 'बैण्ड’ वाद्यं राजनियोगतो जायते स्म’ इति पूर्वकालिकी परिस्थिति: सूचिता। एवं राजसभा ('दरबार’) वर्णनेऽपि पूर्वपरिस्थिति: स्मारिता तदभिज्ञानाम्। यथा-- 'सरबता’स्थाने रक्षाबन्ध-नस्य राजसभा। यथा वा-- विजयदशमीमहोत्सवे सरबतास्थाने सभां कृत्वा ततो बहि: ('दीवानखाना’) अश्वादीनां पूजा। एवं 'फतह टीबा’स्थाने शलकमेलकम्। अत एव मेलकसमाप्त्युत्तरं नगरे आगमनम्, शोभायात्रा 'सवारी’ (पृ. १९८) गणगौरीमहोत्सवस्य राज्यसभा पूर्वं वारिदहर्म्ये भवति स्म। तत्समये चन्द्रमहलाद् गमनागमनसमये राज्ञो यात्रा (पृ. १७५)। राजकीयसंस्कृतपाठशालावर्णने तु 'जयपुर-विलासस्य’ प्रतिरूपणम्। तत्र पाठशालाया: 'शतरञ्ज’रूपकम् अत्रोपवनरूपकम्। औचित्यकृतं तारतम्यं परीक्षणीयं मार्मिकै:। एवं फतहटीबास्थाने प्रत्यहं जायमानस्तोपध्वनि: (पृ. २८८)।
एवं मेलकानामपि पुरातनो विनोदवृत्तान्त: सूचित:। यथा-- आश्विननवरात्रेषु जायमाने 'षष्ठीमेलके’ प्रातर्नरसिंहस्य दर्शनम्, ततो मध्याह्ने देलरामाऽऽरामे 'गूँजी’भोजनमित्यादि: पुरातनलोकानां मेलकदर्शन-क्रम:, (पृ. १९३)। सन्ध्या ('साँझी’ आश्विनकृष्णैकादशीतोऽमा-पर्यन्तं जायमान उत्सव:) दिवसेषु नगरस्य स्थाने स्थाने क्वचित् कदलीपल्लवानाम् (केल की साँझी), क्वचिद् द्वासप्ततियन्त्राणाम् (बहत्तर कल की साँझी), क्वचिच्च विशालसिंहस्य (देवदास का नाहर) सन्ध्या (साँझी) भवति स्मेति शिल्पविनोदमय: पूर्वकाल: स्मार्यते (पृ. १९२)। एवं सूर्यसप्तमीमेलकस्य पूर्वसमारोह:, यत्र राज्ञ: स्वयमभिगमनेन सर्वतोऽधिका राजसज्जा भवति स्म। अत एव तत्रैव यावन्मेलकानां 'वर्णिका’ प्रकाशनेच्छया पञ्चरङ्गध्वजवाहिनं हस्तिनमारभ्य, यावन्मात्रस्य राजोपकरणस्य क्रमेण वर्णना। एवमेव भरलानवमीमेलकस्य पूर्वकाले जायमानो जनेषु भूयानुत्साह: (पृ. १७८)।
एवं किल जयपुरस्य, तत्स्थानानाम्, तदुत्सवादीनां च पूर्वपरिस्थितिं ग्रन्थेस्मिं-श्चित्रितामक्षरै: प्रत्यक्षामालोकयेयु: सहृदया: [या हि संप्रति भूयस्तरां परिवृत्ता]। अस्तु, भूमिकाविस्तारस्य क्षमामभ्यथ्र्य विरमामि संप्रति। यैस्तु महाभागैर्भूमिकायामस्यां परिचयादिसूचनाय निजलेखनीपरिचालनस्याऽनुग्रहो व्यधायि, वहामि तेषामुपकारभारं विनम्रेण मौलिना। भारतविश्रुतै: म.म.पं.श्रीगिरिधरशर्ममहाभागैर्ग-वेषणापूर्णं यत्किल प्रास्ताविकं प्रसादीकृतं तदिह हृदयेनाभिनन्दन् संस्मरेयमेवोपकारस्मरणे। परं तत्कृताऽऽलोचनाविषये तु-
यत्किञ्चिन्निवेदयितुमिच्छा
अहो! आप्रबोधकालमालम्बितगीर्वाणभारतीसेवाव्रतै: सर्वतोपि साहित्य-मार्मिकैर्महामहोपाघ्याय-महाभागै: कतिचिदक्षरयोजकस्याऽस्य मन्दमतेर्विषये योऽयं प्राकाशि निजगुणज्ञतानुयात: प्रकामं पक्षपातस्तदिदं तेषां निजमौदार्यमेव, न मे मूढस्य कृतित्वं किञ्चित्। चतुर्वेदमहाभागा न केवलं प्रकामं पण्डिता एव, अपि तु साहित्यविभव-योगिकवयोऽपि नूनम्। न च ते कवय: केवलं संस्कृतभाषाया एव, अपि तु हिन्दी (व्रज)भाषयाऽपि मनोरमं कवयितार:। न च ते स्वयमभ्यस्तकविताऽभियोगा एव, अपि तु पूर्वजपरम्परातो जयपुरराजहर्म्यमालायां ग्रामाधीश्वरेषु कवीश्वरेषु प्रक्रान्तनामानस्ते महात्मान:। व्रजभाषाच्छन्दस्सु संस्कृतगिरा गुम्फितां नूतनकवितां यथा ते मार्मिकतया परीक्षितारो, न तावदन्य: स्यात्सहसैव समर्थ इति मर्मतो विद्युर्विद्यावन्त:। तै: कृते प्रोत्साहने मादृशेन स्वल्पविभवेन कृतज्ञताप्रकाशनं विहाय किं वाऽन्यद् हृदये प्रतिपत्तव्यं स्यान्नूनम्? तै: 'अन्विष्य’ प्रदर्शिता दोषा भवेयु: सत्यपरिपोषा एवेति किं तत्रोत्तराऽऽलम्बनसाहसेन नूनम्? किन्तु तद्विषये य: कश्चन संशय: स किल 'वक्तव्यमनुक्त-मनुतापं जनयती’त्याभाणकानुसारमभिप्रेरयति मां वाचामिमां शीलयितुम्।
एवंविधमहाभागानां सविधे यत्किञ्चिन्निवेदनस्य सौभाग्यमपि भाग्यलभ्यं नूनम्। अन्यथा तु संस्कृतसाहित्यस्य सर्वतोपि विरलतामयेऽस्मिन् समये 'अलङ्गारिक’प्रसङ्गेऽपि विवशतया 'उर्दू’कवे: *सूक्तिरियमनुशीलनीया भवति। किञ्च-उत्तरावलम्बनधाष्टर्ये मूलभूतं तथ्यान्तरमपीदमेकमावेदयामि, निवेदयामि च यदत्र नाभिमानमभिमानयेयु: कोविदोत्तंसा:। मन्दमतिरपि जनोऽयं बाल्यात्प्रभृति तादृशानां महाभागानां वातावरणे पलित: पोषित: प्रवृद्धश्च शैलवदविचलव्युत्त्पत्तयो ये स्वसमये शब्दशास्त्रवैभवेन परित: प्रस्फुरन्तमपि नान्यं कञ्चिद् वैयाकरण इत्यपि सेहिरे नूनम्। संस्कृतभाषायां तादृशस्तेषामधिकारो यत्तस्य संकथापि वर्तमानपण्डितपथात्सुदूरीभूता। एतादृशानां समाजे समापितसमग्रायुषं मां संस्कृतस्य संकथा तत्रापि च शैथिल्यचर्चा दूरतोपि समुत्कर्णयतीव। विशेषतो व्याकरणविवादेनैव व्यतिगमितविपुल-वर्षपूगस्य मे व्याकरणशैथिल्यचर्चापि सत्यं सत्यमास्खलतीव हृदये। अन्यै: शास्त्रवैचक्षण्यमासादितम्, परै: परप्रबोधपण्डित्यमुपार्जितम्, विरलैर्वक्तृतावैलक्षण्यमवाप्तम्। किं तु मादृशेन पलितङ्करणीं जरसमासाद्य तादृशविचक्षणानां सांनिध्ये किमुपार्जितम् ? यत्किञ्चित्संस्कृतभाषा! तत्रापि चेत् स्खलितानि इयत्समर्धाणि भवेयुस्तर्हि को वाऽन्य: संस्कृतभाषामिमामध्येतुमुत्सहेत काठिन्यभयभुग्न:?
किञ्च परीक्षायुगेऽस्मिन् परीक्षोत्तरणेनैव व्याकरणाचार्य-न्यायशास्त्रीत्यादिगौरव-ग्रन्थिमधिकमभि-मन्यन्ते बहव:। न तावता व्याकरणमिदमधिक्रियेत वराकैस्तै:। समर्थयन्ते महामहोपाध्यायमहाभागा अपि तदिदम्। अतएव व्याकरणाभिमानमूर्च्छितहृदां चैतन्यचूर्णरूपा चर्चा सेयं स्थानाऽभावेऽपि विस्तृत्य विवेचितेति क्षम्यासुर्निसर्गदयालवो दयालवोपसन्दानेनेत्यलं बहुना।
पूर्वं व्याकरणेतरो बिषय: सूचीकटाहन्यायेन समुपादीयते, ततो व्याकरणविषयो विस्तरेण-
'भवति वाक्प्ररोहो रसपुष्टे’ इत्यत्र यतिदोष: प्रथमं निर्दिष्ट:-- ''इह हि प्रशब्दोपरि विश्राम: कर्तव्यो भवति, स चासमञ्जस इवाभाति। पदस्य एकमक्षरं विच्छिद्य यतिप्रसङ्गे दोषमन्वाचक्षते छन्दोविदोपि’’ इति। किन्तु नायं पदविच्छेद: कथमपि। प्र इति हि पृथगेव पदम्। सर्वालङ्कारिकाणां मूर्द्धन्यस्तत्रभवान् वामन: प्रातिस्विकरूपेण स्पष्टमिदं निर्णीतवान् यत् धातोर्भागभेदे नाम्न: (प्रातिपदिकस्य) वा भागभेदे सोयं भवतीति-- ''तद्धातुनामभागभेदे स्वरसन्ध्यकृते प्रायेण’’ (२ अधि. २ अध्या.)। धातुभागभेदे यथा-- 'एतासां राजति सुमनसां दामकण्ठावलम्बि’। नामभागभेदे यथा-- 'कुरङ्गाक्षीणां गण्डतलफलके स्वेदविसर:’।
'सुखितसंयोगिचित्त.’इति कवित्तच्छन्दसि 'अस्वरसो भवति’ इत्याज्ञप्यते श्रीमद्भि:। किमति? षोडशपञ्चदशेति एकत्रिंशदक्षरगुम्फ एव कवित्तलक्षणं श्रीमताम्! न तत्र कञ्चन नियमविशेषं मन्यन्ते श्रीमन्त:, एवं सति क: प्रसङ्ग: 'अस्वरसस्य’? अस्तु, मन्मते तु कवित्तवृत्तस्य नियमविशेषोऽस्ति। एतद्विषये 'घनाक्षरी’ इति शीर्षको हिन्दीनिबन्ध: ('माधुरी’ हिन्दीपत्रिका), एतद्भूमिकाया: स्थानान्तरं च द्रष्टव्यं स्यात्। अत्र तु 'सत संगति मुदमङ्गलमूला। सोइ फलसिधि सब साधनफूला॥ इतिवत् छन्दसा सह व्रजभाषाया गुम्फनशैल्यपि मयाऽनुकृतेत्येव ममोत्तरम्। स्वीकारेऽस्वीकारे वा प्रमाणमार्यमिश्रा:।
'नाहरगढ’दुर्गस्याऽत्युच्चतां ख्यापयितुं ''रविरुचयोऽप्युदासते’’ इति निबद्धम्। अर्थात् उच्चताति-शयात्सूर्यरश्मयोऽपि क्लेशेन गच्छन्तीति तुङ्गतातिशयतात्पर्येण प्रयुक्तमिदं केन वा कारणेन न प्रयोज्यमिति न विज्ञातं मया। सर्वसाहित्यविद्भि: पदप्रणामेन संमान्य: कालिदासोऽपि हिमालयस्यात्युच्चतां सूचयितुमाह-- 'अन्येषु स्थानेषु अधोमुखैर्मयूखै: कमलानि स्फुटयन्नपि रविर्यत्र हिमालये स्वस्य निम्नस्थतया ऊर्ध्वमुखैर्मयूखै: कमलानि बोधयती’ति। तत: कथमिदं काव्यालोचनायामनुचितमाज्ञप्तं श्रीमच्चरणै:? 'अस्मिन् काले न प्रयोज्या इयमत्युक्तिरित्यपि’ विचित्रं वच:। 'नाथूरामशङ्करस्य’ उर्दूकवीनां चोक्तयो वर्तमानकाल एव तथावतीर्णा यथा-- 'यदि मम विरहोद्गारो ('आह’)नि:सरेत्तर्हि व्योममण्डलमिदमखिलं कज्जलीभवेत्’ इत्यादि। अस्तु, कवीनां रङ्गस्थले अत्युक्तिनिरोध एव अत्युक्तिरित्यलमनधिकारचर्चया, इत्येवात्र संप्रति विनयान्निवेदयामीति बुद्धिमद्भिरखिलं बोद्धव्यम्।
'जयपुरस्थानवर्णनेऽनेकत्र प्रकमभङ्ग’ [अर्थात् जयपुरस्थानानां वर्णनं क्रमेणैव कर्तव्यमासीत्, तन्न कृतम्]। सत्यमिदम्। किन्तु स्थानवर्णने कवेर्ग्रन्थसौष्ठवं, ग्रन्थे तन्निवेशसुविधैव च दृष्टावानेतुमुचितेति नात्र हस्तक्षेप: कृतधियां कार्यमित्येव प्रच्छन्नं मे निवेदनम्। ''होलिकावर्णनं............। वयं तु न मन्महे तन्निवेशमुचितम्’’ इति। इदं तु श्रीमद्भिर्नोट्टङ्कितमभविष्यत्तदैव सम्यगभविष्यत्। सकलवय-स्कानामेव कृते काव्यं निबध्नन् कविर्विवश एवंविधस्थलेषु। किञ्च यावन्मात्रसहृदयानां विनोदाय निर्मिते प्राक्तनप्रमोदोत्सववर्णनकाव्ये 'जनताया: प्रतिनिधि:’कवि: क्षमामेवार्हतीति मम निवेदनम्, अग्रे प्रमाणं प्रमातृशिरोमणय: श्रीमन्त एवेत्यलं बहुना।
''नरौराबन्ध:’ न हरिद्वारसविधे, अत एवैतिहासिकी सेयं त्रुटि:’ इत्यपि 'बालस्य’ [मम] दृष्टिदोषनिवृत्तये ललाटे कृष्णबिन्दुरिव’ कृपाबुद्घ्यैवेति मन्ये। हरिद्वारे (ऋषिकुले) ऽध्यापनकार्यं कुर्वद्भि: श्रीमद्भिर्गङ्गाबन्धापनयनकार्ये दरभङ्गानरेशस्य कर्तृत्वं दृष्टमित्यनुक्त्यैव स्वीकरोमि, किन्तु स्वर्गत-श्रीमाधवेन्द्रमहाराजस्य 'विलायतयात्रा’वृत्तं मुन्शीशिवनारायणसक्सेना महोदयेन महाराजाधिराज-स्येच्छयैवोपनिबद्धम्। तत्र 'गङ्गाबन्ध’समुद्धारे 'नरौराबन्धस्य’ तथा प्रसङ्ग एव समुल्लेख:। गङ्गाया जलं तस्मिन् बन्धे प्रतिबध्यते, अत एव तत्प्रतिबन्धे कियदंशेनाऽपनीते हरिद्वारे जलप्रवाह: संजात इति हि सूचितं मयका। 'हरिद्वारस्य तत्कियद्दूरे समीपे वेति’ परिगणनस्य न तत्र प्रसङ्गोऽपि समापतति। अस्तु, तथापि जितं श्रीमद्भि:।
हिन्दीपदं संस्कृतीकृत्य निवेश्यते चेच्छ्रीमन्तो न केवलमनुमोदन्त एव, परं 'साध्वनुमोदन्ते’। यथा हिन्दी 'कटहरा’ पदं 'कट्टहर’ इति जातम्। श्रीमद्भि: सेयं शैली कार्यरूपे परिणामितापि-'मोटर’ (मरुत्तर), 'कॉलेज’ (कालेज),। किन्तु 'महल’ पदं संस्करणमन्तरेणैव मया प्रयुक्तम्। यथा 'वारिदमहलम्’ (बादलमहल)। 'इदमर्द्धं तित्तिरस्य अर्द्धं कुक्कुट्या:’ इति तावदाज्ञप्तं पूज्यचरणै:। किन्तु 'महान् उत्सवान् लाति’ इति 'महल’पदं संस्कृतीकृत्यैव बुद्धिपूर्वं मया 'वारिदमहलम्’ इति जयपुरराज्यप्रसिद्घ: संज्ञाशब्द: सोयं सर्वबोध्यतया प्रायोजि। अतो विनम्रवाचा निवेदनीयं भवति 'अर्द्धकुक्कुटार्द्धतित्तिरदर्शनं न ममाक्षरेषु।’ भवदाज्ञानुसारं संस्कृतीकृत्यैव तदिदं मया प्रयुक्तं, 'महान् उत्सवान् लातीति’ महलम्, किन्तु नायं ममापराधो यदेनं दीनबन्धुर्न पश्यति। 'बद्रीनाथ’ 'जैपुर’ शब्दादिसंबन्धे ममैतदेव संक्षिप्य विनीतनिवेदनं यद् व्यवहारप्रवाहपरिगता: संज्ञाशब्दा लोके यथावगतास्तथैव चेत्प्रयुज्यन्ते, बोधसौकर्यं भवतीत्येव कवितादिषु निगुम्फनसुविधां लभमानस्य मे मति:। नेदमस्मिन् समये मादृशैरेव कल्प्यते। साहित्यमार्गस्य सर्वत: प्रथमे दिग्दर्शका वामनाद्या अपि स्पष्टाक्षरैराज्ञापयन्ति-- 'अतिप्रयुक्तं देशभाषापदं’ (लोकप्रसिद्ध्या सर्वै: प्रयुक्तं देशभाषापदम् प्रयोज्यं कविभिरिति तदर्थ:)।
परम्परया श्रीमतामपीदं परिज्ञातमित्यपि स्मारयामि धाष्टर्येन। संस्कृतशिक्षा-परिष्कारकसमिति: (कमीशन) या जयपुरशिक्षाविभागेन नियमिताभूत्, तस्या: कार्यविवरणम् (रिपोर्ट) संस्कृतपरिनिष्ठितैरेव निर्मितम्। तत्र व्यवहारप्रसिद्धमिदं नाम 'Badri Nath’ इति रूपेणैव परिगृहीतं यत्र श्रीमद्भि: स्वसंमति-सूचकानि हस्ताक्षराण्यपि कृतानि।
व्याकरणविषय:
'पूर्वतन’शब्दो मया प्रयुक्त:। ''वैयाकरणास्तु अव्ययेभ्य एव ट्युट्युलौ तुटं चान्वाचक्षते’’ इत्याज्ञप्तं श्रीमद्भि:। किन्तु पुरा इत्याद्यर्थकेभ्य: 'पूर्वम्’ इत्याद्यव्ययतया प्रयुज्यमानेभ्य: पूर्वादिशब्देभ्योऽपि ट्युट्युलावन्वाचक्षते वैयाकरणा इत्यहं जाने, दृष्टं च बहुत्र व्यावहारिकसंस्कृत-लेखप्रवाहे। वैयाकरण-नामधारिणोऽव्ययप्रकरणं ये केवलं कौमुद्यां रटितवन्त:, अव्ययेभ्यष्ट्युट्युलौ भवत इति तद्धितस्य कथामात्रमाकर्णितवन्तो ये न तत्रत्यां वैयाकरणव्यवस्थां परिचिन्वन्ति त एव कदाचिदेवं ब्रूयु:। परं प्रयोगप्रवाहं प्रकामं परिचिन्वन्तस्तु प्रगाढं प्रयुञ्जत एव वैयाकरणोत्तंसा:। अस्तु, अन्येषां विषये भवेत्कदाचिद्वैयाकरणताया: संशयोऽपि, परं परमपूज्यैर्जयपुरे पुरा व्याकरणस्य प्रधानप्रतिष्ठापकै:, न केवलं मयैव अपितु महामहोपाध्याय-महाभागैरपि येभ्यो व्याकरणमधिगतं तै: सुगृहीतनामधेयैर्गुरु-वरश्रीलक्ष्मीनाथशास्त्रि-द्राविड़महाभागै: 'भारतेतिवृत्तसार’नामकं यत्पाठ्यपुस्तकं पाठशालाया: कृते निर्मितं तत्र पृ. १३ (अ. १) 'पूर्वतना: क्रमकारा:’ इति सोयं शब्द: प्रयुक्त इत्यहं जाने।
''१०५ पृष्ठे 'सामुद्रिक उपप्लवो’ दृश्यते। समुद्रे भव: सामुद्र एवेति वैयाकरणा:’’ इत्यालोचितं श्रीमद्भि:। अपि प्रसिद्धव्याकरणादन्यदिदं व्याकरणम् ? कौमुद्यां तु 'तस्येदम्’ इत्यत्र 'शेषे’ इत्यनुवृत्त्यां-- अपत्यादि-चतुरर्थ्यन्तार्थेभ्य: अन्येषु शेषभूतसर्वविशेषेषु अणादय: प्रत्यया भवन्ति (न केवलमणेव) इति प्रसिर्द्धं तत्त्वबोधिन्यादिषु सर्वत्र। अत एव शब्दार्थ-चिन्तामण्यादिप्राचीनकोषेषु 'सामुद्रिक’शब्दस्यार्थ: 'समुद्रसम्बन्धी’ति स्पष्टमनुशिष्ट:।
'जयपुरराज्यमियाय’ इति लिट् वैयाकरणानां मते न भवेदित्यपि चित्रम्। 'अत्र परोक्षत्वादिबन्ध-स्त्याज्य इति ममाभिमतं बहुधा श्रुतम्’ इति प्रामाणिकशिरोमणय: श्रीचतुर्वेदमहाभागा एव यदा स्वयं संगिरन्ते तर्हि किं मया प्रतिवदितव्यम्? किन्तु-एवंविधपरिवर्तने कृते पाणिनीयव्याकरणमेव परिवर्तनीय-मिति मे तात्पर्यं कल्पनीयं स्यात्। परं यावज्जीवमभ्यस्ते पाणिनीयव्याकरणे यावती मे भक्तिस्तावती व्याकरणध्वजधारकेष्वपि न भवेदिति मे मर्मवेदिनो जानीयु:। अस्तु, परम्पराश्रुतेनैव न विवदितव्यं किन्तु गूढमर्मणोऽस्य पाणिनीयव्याकरणस्य तात्पर्यं निष्पक्षभावेन विवेक्तव्यमित्येव मेभिप्राय:। यथाऽत्रैव--'शतसहस्रवर्षपुरातनेष्वर्थेष्वेव परोक्षता भवति। बलिर्बलवान् बभूवेत्यादि,’ इति हि *'सचिक्कण’पण्डिता ये स्वयं व्याकरणमबुद्ध्वैव केवलं परम्पराश्रुतेनैव संस्कृते पण्डितायन्ते तेषु प्रसिद्धम्। भगवत्पतञ्जलि-निर्मितं महाभाष्यं तु मन्ये व्याकरणस्यैव ग्रन्थ:! तत्र हि लिड्विधायकसूत्रे 'इतरे, अन्ये’ इत्यादिगौणम-तान्युद्धृत्य चरमसिद्धान्त: सोयमेवाज्ञप्तो यत् ''व्यापाराविष्टसाधनानां पारोक्ष्यमेवात्र विविक्षितम्, तेन क्रियानाविष्टसाधनमात्रप्रत्यक्षेऽपि लिड् भवत्येव’’। एतस्य 'अयं पपाच, त्वं पेचिथ’ इत्युदाहरणानि दत्तानि। 'अयं’ 'त्वम्’। इत्यादि- निर्देशो न शतसहस्रवर्षान्तरिते स्वारसिक:, अत एव साधनानां क्रियाऽनाविष्टत्वं पारोक्ष्यम्। ततश्च अयं पपाच इत्यत्र पाककर्ता तेन न दृष्ट इति न, अथवा पचनक्रिया तस्य समये नाऽभवदित्यपि न। किन्तु तन्दुलेषु समुत्पद्यमानो विक्लित्त्यनुकूलो व्यापारस्तेन न दृष्ट:।
एवमेव-- राज्यप्राप्त्युत्सवोऽपि कविना अन्यैश्च सहस्रसहस्रजनैर्दृष्टो वर्णितश्चापि। किन्तु राज्योपगमनकालिको मानमहीपतिर्नासीत्कवनसमये संमुखस्थतया विवक्षित: अत एव 'राज्यमियाय’ इति प्रयुक्तम्। न केवलमिदं व्याकरणेनैव सूचितं, साहित्ये व्यवहारप्रवाहोपि तथैवोपलभ्यते। कवीनामादिम: श्रीवाल्मीकिरादिकाव्ये रामायणे 'लिटं’ प्रयुयोज तथैव। अशोकवनिकास्थिता सीता हनूमन्तं वक्ति-- 'स राजा सत्यवाग् देव्या वरदानमनुस्मरन्। 'मुमोह’ वचनं श्रुत्वा कैकय्या: क्रूरमप्रियम्॥’ (सुन्दर. ३४/२२)। अत्र दशरथ: सीतया न दृष्ट: किम्, किन्तु तथापि लिड् जात एव। एवमेव हनूमान् सीतां वक्ति-- 'स मार्गमाणस्तां देवीं राम: सीतामनिन्दिताम्। आससाद वने मित्रं सुग्रीवं नाम वानरम्॥’ अप्यत्र हनूमता सुग्रीवो न दृष्ट:? किं वा शतसहस्रवर्षान्तरितो यदर्थम् 'आससाद’ इति लिट् प्रयुज्यते।
पुनर्दृश्यताम्-- स्वप्नं वीक्ष्य त्रिजटा राक्षसी ब्रूते-- 'पिबँस्तैलं हसन्नृत्यन् श्रान्तचित्ताकुलेन्द्रिय:। गर्दभेन ययौ शीघ्रं दक्षिणां दिशमास्थित:॥’ अपि राक्षसी त्रिजटा स्वस्वामिनं राक्षसेन्द्रं न दृष्टवती? न वा स तस्या: परिचित:? यत्तदर्थे 'ययौ’ इति लिट् प्रायोजि। पुनरालोक्यताम्, ब्राह्मास्त्रवशीकृतो हनूमान् रावणं वक्ति-- 'स सीतामार्गणे व्यग्र: सुग्रीव: सत्यसंगर:। हरीन् संप्रेषयामास दिश: सर्वा हरीश्वर:॥’ इह किं कदाप्यदृष्ट: सुग्रीव: श्रीहनुमतो यल्लिटं प्रयुक्तवान्। अन्यदालोक्यताम्, सीताया: संदेशमादाय श्रीरामं प्रति प्रत्यगतो हनूमान् ब्रूते -- 'साभिवीक्ष्य दिश: सर्वा वेण्युद्ग्रथनमुत्तमम्! मुक्त्वा वस्त्राद्ददौ मह्यं मणिमेतं महाबल॥’ इदानीमेव समागतस्य हनूमत: श्रीजानकी अपरिचिता, कदाप्यदृष्टा वा संवृत्ता? यत्स 'ददौ’ इति प्रयोगविटं लिटं प्रयुयुजे। अन्यदपि स एवाह- 'विवर्द्धमानं च हि मामुवाच जनकात्मजा।’ इत्यादि।
कवीनां निकषायमाणो बाणोपि लिटं प्रायुङ्क्त। महाश्वेता चन्द्रापीडाय निजस्य तापसव्रतग्रहणवृत्तं कथयन्ती वक्ति-- द्वितीय ऋषिकुमार: (कपिञ्जल:) पुण्डरीकस्य विरहविकलतां संसूच्य-- 'कुब्ज-किरातबधिरवामनबर्बरविकलमूकानुगतेन परिवारजनेन सर्वत: संरुद्धे द्वारदेशे कथमप्यवाप्त-निर्गम: 'प्रययौ’।’ अपि पुण्डरीकस्य वृत्तं तस्या: समक्षे युगयुगान्तरस्य कथा, कदाप्यदृष्टो वा निजप्रियतमसुहृत्कपिञ्जलस्तस्या:? किं वा बाण एवाऽवैयाकरण:? न च पुरातनं वृत्तं शुकादिर्वक्तीति समाधानाय मुखमुद्घाटयितव्यम्। प्रत्यक्षसंलापात्मिकायां कथायां ('नॉवेल’) तथा स्वीकारस्य कवीनां सुस्पष्टमसंमतत्वात्।
के वैयाकरणा:?
परिगणितास्वासु समालोचनापङ्क्तिषु महामहोपाध्यायमहाभागैर्यन् मुहु: 'वैयाकरणा:’ इति पदमाम्रेडितं तत्रैकमिह साधारणभावेन जिज्ञास्यं यत्-- केऽमी वैयाकरणा:? ननु व्याकरणं ये विदन्ति अधीयते वा त एवात्र वैयाकरणा व्यपदिश्यन्ते, किमत्राधिकजिज्ञासया? स्यादेतत् किन्त्वस्त्यत्र संशय:। व्याकरणस्य वेदने (ज्ञाने) भवेदपि वैमत्यं जातु, किन्तु ये बहून् संवत्सरानभिव्याप्य संस्कृतसरस्वत्या एतस्या यादृशीं तादृशीं वा सेवां निर्वाहयन्ति तैर्यत्किञ्चित्तु व्याकरणस्याऽस्याध्ययनमवश्यं कृतं स्यात्। बहुभिस्तु श्रीमतां सान्निध्ये एव व्याकरणमिदमधीतम्। निजजीवनस्य सर्वतो मूल्यवान् भूयान् समयो व्यतिगमितश्चापि [ज्ञानसंपादनं जातं न वा इति तु कथान्तरमिति निवेदितवान् पूर्वम्] एवं सत्यपि तादृशभाषासेवकानभिमुखीकृत्यापि यदुपदिश्यते 'वैयाकरणास्तु’ इति, तत: स्पष्टीभवति यद् भाषामिमामालम्ब्य लेखनव्यवहारपरिचालका न वैयाकरणा भवन्ति।
यै: पूर्वं व्याकरणमधीतम्, ततो व्याकरणस्यास्य पदाङ्कपद्धत्या प्रयोगप्रचाराय अलङ्कारशास्त्रापरपर्यायं 'साहित्य’शास्त्रमधिगतम् ततो गद्यपद्यरूपेण व्याकरणस्यास्य प्रयोगा अपि यै: प्रचारे प्रवर्तिता: तानप्यवलम्ब्य समुपदिश्यते 'वैयाकरणास्तु’, ततश्च तेऽपि वैयाकरणा न भवन्ति। अर्थात् व्याकरणमधीत्य साहित्यानुसारं कवितां कुर्वन्तोपि न वैयाकरणा भवन्ति। भवन्तु ते कामं साहित्यविद: कवयो वा किन्तु न वैयाकरणा:। ''संस्कृतभाषायां पुरा प्रयोगपद्धतिरियमासीत्, धातूनामेवं जन्म, बहवो धातव: सांप्रतं निर्मिता: बहवस्तु तत्रभवता पाणिनिना तदनुगामिभिर्वा प्रयोगबाहुल्यमालोक्य धातुपाठे संवर्द्धिता:, बहवस्तु सांप्रतमपि वर्द्धन्ते अग्रे वद्धिष्यन्ते च, येषां कृते प्रोच्यते स्माचार्यै: 'वर्द्धते धातुगण इति हि शब्दविद आचक्षते’ इत्यादि समये समये सूचयन्तोपि न वैयाकरणा भवन्ति। अस्तु किं वा शाखाच-ङ्कमणेन। यैर्व्याकरणमधीत्य साहित्यं तर्को दर्शनं गणितादिकं वाधीतं न ते वैयाकरणा: प्रोच्यते, अपि तु यथाक्रमं 'साहित्यविद:’ 'तार्किका:’ 'दार्शनिका:’ 'गाणितिका:’ वा प्रोच्यन्ते न तु वैयाकरणा:।
व्याकरणमिदमधीत्य दीर्घे निजजीवनकाले संस्कृतभाषामेव सर्वात्मना सर्वकालं व्यवहरद्भि-र्भाषायामेतस्यां पूर्वकालापेक्षया व्याकरणद्वारा संप्रति को वा विशेष: समुत्पन्न इति व्यवहारानुभवेन यैर्निश्चितं सूचितं च तदेतज्जनतायाम्, एवंविधभाषामर्मविवेचकानुद्दिश्यापि तदितरबुबोधिषया चेदुच्यते 'वैयाकरणास्तु’, तर्हि मन्ये तेऽपि वैयाकरणा नाऽभिप्रेता:। अर्थात् व्याकरणमिदमधीत्य, संस्कृतभाषामिमां लिखन्ति, पठन्ति, तद्द्वाराऽन्यान् बोधयन्ति च न ते वैयाकरणा:। ये व्याकरणमिदधीत्य वेदं वेदविज्ञानं वा प्रचारयन्ति न तेऽपि वैयाकरणा:, कामं वैदिकास्ते प्रोच्येरन्। वास्तवे वि-आकरणस्य [शब्दतत्त्व-विवेचनस्य] भाषण-लेखनद्वारा प्रचारका अपि न वैयाकरणा: ख्यायन्ते। एवं सति वैयाकरणा: के जीवा भवन्ति? व्याकरणमधीत्य वेदान् तदङ्गभूतानि शास्त्राणि वा ये नाऽधीयते, वि-आकरणस्य तत्त्वं ये न विदन्ति न चान्येषु ते तद्बोधयितुं पारयन्ति, व्याकरणमधीत्य भाषाया व्यवहारेण शब्दानां प्रयोगं ये न कुर्वन्ति, तर्हि ये न लिखन्ति न पठन्ति ईदृशा महाशया एव किं वैयाकरणपदवाच्या:?
मैवम् मैवम्। व्याकरणमेव ये केवलं पठन्ति परिशीलयन्ति च त एव वैयाकरणा:। सम्यक् सम्यक्। किन्तु व्याकरणाध्ययनस्य फलं तु पुरुषार्थसाधकानां वेदानां परिज्ञानं तदङ्गेषु प्रवेशो वा। भाष्यकारेण तत्रभवत्पतञ्जलिना व्याकरणे तदेव तु बोधितम्! अनन्यवैष्णवा:, भक्ते: फलं यथा भक्ति:, भगवानेव साधनं भगवानेव च साध्य:, इत्यादि यथा स्वीकुर्वन्ति तथा व्याकरणस्य फलं व्याकरणम्, इत्यनन्यभक्तिरियं लौकिकार्थसाधिका स्या*त्परलोकप्रसाधिका वा ?
नैवम् नैवम्। सर्वाण्यप्यन्यानि शास्त्राणि कर्मकौशलानि वा ये जानते, किन्तु प्राधान्यं येषां व्याकरणस्य, त एव वैयाकरणा:। सम्यगिदम्, किन्त्वेवं सति व्याकरणाध्ययनोत्तरं पठितैरन्यान्यशास्त्रै-र्व्यपदेश: [आलंकारिक:, तार्किक:, दार्शनिक: इत्यादि:] विलुप्येत, वैयाकरणेत्यस्यैव व्यपदेशस्य तत्र निरूढत्वात्।
मैवम् मैवम्। यै: पूर्वं व्याकरणमधीतम्, तत्तात्पर्यवेदिनश्च ये शास्त्रान्तरेष्वप्यनुप्रविष्टास्ते ह्यवश्यं वैयाकरणा:। किन्तु तावत्कालं, यावत्कालं ते व्याकरणानुसारं शब्दप्रयोगं कुर्वन्ति। यदा तु ते व्याकरणं व्युच्चर्य उच्छास्त्रम् (व्याकरणविरुद्धम्) शब्दान् प्रयुञ्जते तान् व्याकरणस्य मर्यादां स्मारयितुम्, व्याकरणाध्ययनस्याभ्यर्हितत्वं प्रदर्शयितुं च प्रोच्यते-- 'वैयाकरणास्तु’ इति। साधु साधु। किन्तु वैयाकरणा व्याकरणमधीत्य न किञ्चिच्छास्त्रान्तरमनुप्रविशन्ति [तथा सति तत्तच्छास्त्रानुसारं दार्शनिक-तार्किकादि-व्यपदेश: स्यात्] नापि च लिखन्ति न चापि कवितादिकं कुर्वन्ति [तथा सति कविरित्यादिख्याति: स्यात्] एवं सति 'अनन्यानां’ तेषां व्याकरणानुसारी प्रयोग: कुत्र गवेषणीय: स्यात् ? मा मैवम्। यदा ते स्वपाठनस्थाने स्थित्वा व्याकरणमहत्त्वमुपदिशन्ति, आनन्दे प्रपूर्य कदाचिन्निजमण्डल्यां संस्कृतं वा समुच्चारयन्ति, परीक्षोत्तरणाय निजविद्यार्थिनां कृते 'परीक्षापञ्जिका’ वा लिखन्ति, एवमादिषु विज्ञातुं शक्य एव तेषां व्याकरणश्रद्धानप्रयोग:। यथा 'एकपदे सन्धिरवश्यं कर्तव्य:। अर्थबोधस्य विचारो नास्मदधीन:, किन्तु सन्ध्यभावाय नास्माकं व्याकरणे सूत्रम्। अत एव सन्धिरवश्यं प्रयोक्तव्य:। य: शब्द: साक्षात्सूत्रेण व्याकरणे निष्पादित: स एवास्माभि: प्रयोक्तव्य:। तत्सदृशस्यान्यस्य रूपस्य प्रयोगे उच्छास्त्रताया: संदेह:। लक्षणैकचक्षुष्कैश्च लक्षणोल्लङ्घनस्य संदेहोऽपि परिहर्तव्य:।’ इत्यादि।
सम्यगिदम्। किन्तु श्रीमन्! एवं सति व्यवस्थैव नवीना कर्तव्या स्यात्। भारतप्रसिद्ध-जयपुर-राजकीयसंस्कृतमहाविद्यालयस्य वर्तमानव्याकरणप्रधानाध्यापका अपि सांप्रतं 'त्रुटिर्निस्सारयितुं प्रभूयते’ 'सूत्रभाष्यानि’ इत्यादि स्वच्छन्दं प्रयुञ्जते, तर्हि किं पाणिनी-यमन्यत्सर्जनीयं स्यात्? वैयाकरणा: 'आलंकारिक:’ इति निष्पादयन्ति, किन्तु ते 'अलंकारिक:’ इति लिखन्ति। संस्कृतव्युत्पन्ना: 'विदुषां संमानं’ जानन्ति, ते 'विदुषां सन्मानं’ विदु:। 'बकार’-'व’कारयो:, 'श’कार-'स’कारयोरपि तेषां वाक्प्रवाहे न प्रभेदस्तर्हि किं संस्कृतसाहित्यस्य व्यवहारमार्ग एव परिवर्तनीय: स्यात् ? ''एकपदे सन्धिर्व्याकरणेनानुशिष्ट इत्यर्थविलोपोपि कामं कर्तव्य: किन्तु सन्धिरवश्यं प्रोक्तव्य:’’ इत्यस्यापि रहस्यं नावगतम्। अर्थबोधानुरोधात्संज्ञानुरोधाद्वा स्वयं वैयाकरणैरेव स्वग्रन्थेषु 'अच्सन्धि’ इत्यादौ 'अक् शन्धि:’ इत्यादिरूपो विरूप: सन्धिर्न क्रियते। ततश्च 'श्रीअमरनाथशर्मा’ इत्यादिषु सन्धे: कोऽभिसंधि:?
नैव नैव। ये लक्षणैकचक्षुष्कास्तेषां सविधे असंधे: किमपि सूत्रं नास्ति, अत एव तेषां तु 'श्र्यमरनाथशर्मा’ इत्येव प्रयोगो योग्य:। अन्यथा 'सन्धे:’ स्थले वैयाकरणै: सह 'विग्रहस्य’ प्रसङ्ग: समुपतिष्ठेत्। तस्मादेवंविधनाम्नामग्रे 'श्री’कार एव न प्रयोक्तव्य इत्येव 'वैयाकरणानां’ चरमाऽऽज्ञा। 'एकचक्षुषां’ शिरोमणे! भगवन्! भवानवश्यं शास्त्रानुसारमेव श्वासप्रश्वासग्रहीता, किन्तु वङ्गादिदेशेषु आदौ श्रीपदप्रयोगं विना नामधेयमशुभं परिगण्यते। अत एव तत्र प्रत्येकजीवितव्यक्तेर्नामधेयस्याग्रे श्रीपदप्रयोगो नियमेन क्रियते। न च तत्र सर्वे अवैयाकरणा एव। सन्ति तव व्याकरणविद्वांसो विवेकिनश्चापि। किं ते 'श्रीअन्नदाचरणतर्कचूडामणि:’ इति न प्रयुञ्जते?
प्राचामाचार्याणां प्रयोगरूपा 'भुक्ति:’ यदि प्रमाणत्वेन स्वीकर्तुं शक्यते तह्येवंविधे स्थले सन्ति प्राचीनार्याणां प्रयोगा अपि। पत्रलिखिता लिपि: काममन्यथापि कर्तुं शक्यते किन्तु पाषाणलिखिता लिपि: पाषाणलिपिरेव। 'राजप्रशस्ति’नामकं शिलालेखात्मकं काव्यमुदयपुरीयमहाराणाभूपालानां कीर्तिध्वजरूपं 'राजसागर’तटे घट्टशिलापट्टेषु प्रोथितं 'काव्यमालायां’ मुद्रितं चापि। तत्र-- 'श्रीएकलिङ्गेन मुदा प्रदत्तं हारीतनाम्ने मुनयेऽथ तेन’। एवं 'श्रीराणोदयसिंहसूनुरभवत् श्रीमत्प्रताप: सुतस्तस्य श्रीअमरेश्वरोऽस्य तनय: श्रीकर्णसिंहोऽस्य तु॥’ इत्यादि।
अस्तु, वैयाकरणा: कामं प्रजल्पन्त्येव, परं महामहोपाध्यायमहाभागैस्तु व्यवहारप्रवाह: स्वयं सोयमनुभूत एवेति किञ्चित्स्मारयामि। जयपुरशिक्षाविभागद्वारा या 'संस्कृत-शिक्षापरिष्कारकसमिति:’ ('कमीशन’) नियमिताऽभूत्तस्यां श्रीमहामहोपाध्याय-महाभागैरेव महता समारोहेण लिखितमासीद् यद् राजगुरूणां नाम्ना सह 'श्री’ इत्यवश्यं संयोज्यम्। एवं सति यस्य नाम अनन्ताचार्य इति तत्र किं 'श्रीअनन्ताचार्य:’ इति न प्रयुज्येत? 'श्र्यनन्ताचार्य’ इति तु किं कोपि बोद्धुं पारयेत् ? अस्तु, प्रसक्तानुप्रसक्तेन बहुदूरमनुधावितोऽस्मि। मन्ये, नीरक्षीरविवेकिन: परिचिनुयुरेतावतैव साम्प्रतिकवैयाकरणानां स्वरूपमिति कृतं बहुना।
'चीयन्ते चतुर्दिक् चञ्चरीककुले मोदरसा:’ अत्र 'चतुर्दिक्’पदस्य 'चतस्रो दिशो यस्य (चयनस्य) आश्रयभूता यथा भवन्ति तथा’ इति व्याकरणानुसारि साधुत्वं स्वयं स्वीकृत्यापि अत्र ''कियत्स्वारस्यं’’ मिति पृच्छ्यते महाभागै:। 'चारों दिशाओं (में), चारों ओर’ इति भाषार्थस्वारस्य 'चतुर्दिक्’पदयो प्रत्यक्षश्रवणे एव यथा हृदि परिपुष्यति न तथा 'समन्तात्-परित:’ इत्यादिपदे:। न च 'चीयन्ते चतुर्दिक् चञ्चरीके’ति पदशय्यापि शोभतेऽन्यै: पदैर्विधृतै:। अत एवात्र कियत्स्वारस्यमिति करे लेखनीं समादाय स्वयमेवंविधच्छन्दस्सु कवितां कुर्वतां हृदयमेवाऽऽपृच्छ्यताम्। अथवा कवीनां 'गुरुघण्टालै:’ श्रीमद्भिरेव स्वयं हृदि हस्तमाधाय निराग्रहमाज्ञप्यतां यद् व्याकरणसमाधाने समवाप्तेऽपि 'चीयन्ते चतुर्दिक् चञ्चरीके’त्यादिश्छन्दो-विलासो वृत्त्यनुप्रासोऽथ सहैव सिंहावलोकनविन्यासोऽपि यदि निर्भरं निर्वाह्यते तदापि किं 'वैयाकरणास्तु’ इति तुहिननिपात: स्थाने?
वर्तमानकाले पदे पदे वयं 'वैयाकरणास्तु’इति'तुन्तुनीं’ वादयाम:, किन्तु भगवत: पतञ्जलेरय-मुक्तिनिष्कर्षो न कदापि विस्मर्तव्यो नूनम्। 'जलाहरणार्थी यथा कुम्भकारकुलं गत्वाऽऽह-- घटं मे निर्माहि जलमाहरिष्यामि। न तथा किल शब्दान् प्रयुयुक्षमाणो वैयाकरणकुलं गत्वाऽऽह-- शब्दान् मे निर्माहि प्रयोक्ष्यामीति’। भाषाया: कृते व्याकरणं निष्पद्यते न किल व्याकरणस्य कृते भाषा निर्जीवं निष्पीड्यते। वज्रदृढ़ीकृतमस्माकं पाणिनीयव्याकरणमेव स्वल्पं स्मर्यतां यद्धि पृषत्-उदरं पृषोदरमित्येव किम्, गूढ़ आत्मा यस्येत्यत्र गूढ़ात्मेति स्थाने 'गूढ़ोत्मा’ इत्यपि यदि प्राचलत्तर्हि तदपि सूत्राणि विनैव समाधातुं चेष्टते। एकेऽमी वयं स्मो यद् व्याकरणेन संभवत्समाधानमपि समाच्छेत्तुमिच्छाम:। अद्य हि संस्कृतभाषामिमाम् 'अव्यवहृताम्’ 'अव्यवहरणीयाम्’ 'मृताम्’ वा श्रुत्वा सभासु अग्निशर्माणो भवाम: किन्तु स्वहस्तेनैव वयं तामव्यवहृतां केवलं पुस्तकस्थां संपादयितुमिच्छाम इति न जानीम:।
प्रतिदिनव्यवहारे समुपादीयमाने रूप्य-पित्तलादिपात्रे व्यवहारजनित: स्वल्पसंघर्ष:, मोचो ('मोचा’), ('दौंचा’) वा नूनमनिवार्यो भवति किन्तु मञ्जूषास्थितं तत्तु असंघर्षमेव दूरतो दर्शनीयं भवति। 'प्राचां’ 'उदीचां’ सर्वेषां व्यवहारे समुपादीयमाना गीर्वाणगवी व्यवहारजनितान्नानापरीवर्तान् पुरा प्रेक्षांचक्रे इति जानीम:, किन्तु वयं संप्रति घोरविरलतामये अत एव सुविधाप्रदानोचितेऽपि संस्कृतस्य समये 'मन्दाकिनिधारा’ [सोरों की धारा, हरद्वार की धार इतिवत्]संज्ञां जानन्तोऽपि ह्रस्वं न समाधातुमिच्छाम:। अस्तु, संस्कृतगवीमिमां यथैव परिचालयिष्यामस्तथैव सेयं परिचलिष्यतीति किं वा विशेषनिवेदनेन।
उपकारस्मरणम्
सर्वत: पूर्वं तुलितमहेन्द्रस्य जयपुरनरेन्द्रस्य महिमानमभिनन्दामो यस्यौदार्येण 'राजसंस्करणं’ यथा पुस्तकानां महत्त्वाय, तथा 'राजसमर्पण’मिदं ग्रन्थस्यास्य समपद्यत सौभाग्याय। तत: शिक्षासचिवस्य एम.ए. पदमण्डितपण्डितश्रीअमरनाथअटलमहा-भागस्योपकारं मन्यामहे यस्य लेखनीत: सोयं राजसमर्पणोत्साह: समारभ्यत। ततो वर्तमानशिक्षासचिवस्य श्रीदेवीशङ्करतिवारिमहाभागस्याप्यसामान्य-माभारमभिमन्यामहे यस्य शासने समपूर्यत सोयं समारोह: समादरेण।
ततो ग्रन्थनिर्माणसमये जयपुरराजकीयशिक्षाविभागाध्यक्षपदमधितिष्ठत: श्रीश्याम-सुन्दरशर्म एम.ए. महोदयस्योपकारमहमनुचिन्तयामि, निर्मायं गुणप्रणयिनो यस्य समये समये प्रोत्साहनेन विपुलपरिश्रम-साध्यमिदं कार्यमस्मिन् रूपे परिपूर्तिमुपगतम्। ततो जयपुरराष्ट्र- प्रधानसचिवस्य, आङ्गल-हिन्दी-संस्कृतेतिसाहित्यत्रितयेपि परममार्मिकस्य भर्तृहरिशतकत्रयस्य आङ्गल-हिन्द्यनुवादाद्यनेकग्रन्थनिर्मातु: एम.ए. पदमण्डितस्य स्वर्गवासिन: सरगोपीनाथ-पुरोहितमहाभागस्याप्युपकारमहमधिमानयामि येन हि ममाक्षरयोजनमिदं 'पण्डितसभा’या: सभापतिपदमलंकुर्वाणेन निजोदारतया भृशमभिनन्दितं नूनम्। ततो राजकीयप्रधान-सचिवकार्यालयात् (महकमा-खास) साहित्यवैभवाभिनन्दन-पत्रप्रेषणेन निजहृदयौदार्यमिदं संप्रकाशयता येन जयपुरवैभवस्यास्य प्रकाशनप्रतीक्षायामुत्कण्ठा नूनमभिव्यञ्जिता। हन्त! गुणग्राहकस्यास्य समये नाऽस्य प्रकाशनं समजनीति भृशं खिद्ये हृदि। महाभागस्यास्य हृदयौदार्यसूचनाय पत्रं तत्प्रकाशयामि ग्रन्थस्याऽऽदौ भूमिकया सह।
ततो विद्याभूषणपुरोहितश्रीहरिनारायणशर्मबी.ए.महाभागस्याप्युपकारभारमहमनिश-मनुचिन्तयामि येन जयपुरराज्यस्येतिहाससंबन्धिनी सूचना स्थाने स्थाने मह्यं लेखरूपेण प्रसादीकृता, यां हि पठेयु: पाठकमहाभागाष्टीकया सह संपृक्तामिमाम्। अथ भारतख्यात-कीर्तेरायुर्वेदमार्तण्डस्य श्रीलक्ष्मीरामस्वामि-महाभागस्याप्यहं भूरि भूरि कृतज्ञो येन हि ग्रन्थप्रणयने समये समये नितान्तमुपकारिणी मन्त्रणा मह्यमभिविश्राणिता। हन्त! स्वर्गतयोरनयो: संप्रकाश्यते सोयं ग्रन्थ इत्यनुताप एव।
इदानींवाग्ग्मितावाचस्पतेर्म.म.पं.श्रीगिरिधरशर्मचतुर्वेदमहाभागस्यौदार्यमहमत्यर्थमभिनन्दामि येन राजकीयसंस्कृतकालेजस्याध्यक्षपदमामण्डयता पुस्तकस्यास्य जयपुरधरणिपुरन्दरस्य करे समर्पणाय शिक्षासचिवमहाभागस्य संनिधौ लेखादिकमभिप्रहितम्। साम्प्रतं च पुस्तकस्यास्य प्राक्कथनमभिलिख्य रचनाप्रमेयमर्मज्ञतां चात्मन: संप्रकाशयता पूर्णसहयोगो मे प्रसादीकृत:। प्रारम्भे चोपसंहारे च कृपाप्रकटनं न किं पूर्ण: सहयोग:? राजसमर्पणाय प्रारम्भो लेखादे:, मुद्रणोपसंहारे च प्राक्कथनलेखस्यानुग्रह:।
भिषगाचार्य-पं.श्रीनन्दकिशोरशर्मराजवैद्य-['प्रिन्सिपल 'आयुर्वेदिक काजेज’ जयपुर] महाभाग-स्याप्यहमुपकृतोस्मि येन समयापेक्षितं मे साहाय्यमनुविश्राणितम्। एवं व्याकरण-धर्मशास्त्राचार्य-पं.श्रीवृद्धिचन्द्रशास्त्रिणमप्यहमाशीर्भिरभिनन्दामि यो हि मुद्रणादिषु समपीपदन्मे कार्यसौकर्यं बहुधा।
येन केनापि वा रूपेण भवेत्परं प्रेमप्रकाशप्रेसस्य प्रणयोपि न विस्मरणीयो नूनम्, येन युद्धकालाद्वहुपूर्वं प्रारब्धं मुद्रणं युद्धपरिसमाप्तावपि न परिसमापितम्, समापितं तु ममोत्साह-समुज्जृम्भणमखिलम्। यतो हि यादृशं मुद्रणमङ्गीकृतं न तन्निर्व्यूढमंशतोपि। ग्रन्थमध्ये मुद्रणीयोंऽशो विस्मृत्य निह्नुतो निजसविधे। एकवर्षे प्रतिज्ञातं मुद्रणकार्यं षड्वर्षैरपि न परिशेषितमित्येव न, किन्तु मुद्रित: पत्रराशिस्तादृशे दु:स्थले निक्षिप्तो येन पत्राणि मलिनानि विरूपाणि च संवृत्तानि। सुमसृणशिल्पपत्रेषु (आर्टपेपर) मोहमयीतो मुद्राप्य बहुव्ययेन संगृहीतान्यष्टौ ब्लाकचित्राणि निजस्थानतो विलोपितानि येषां न्यूनतया वर्ण्यविषयेपि विशृङ्खलतेव संदृश्येत। यथा दाक्षिणात्यानां भूरिभोजनम् (पृ. २११), एतद्धि केवलं चित्रानुरोधादेव समुपात्तम्। घोरतरं परिश्रम्य नवीनमाविष्कृतो मरुत्तर (मोटर)शकटिबन्ध: कुत्रचिदपहारित:। एतस्य पुस्तकस्य मुद्रणाय यानि सीसकाक्षराणि, पत्राणि च पृथङ् नियमितानि तानि लाभ-लोभादन्यत्र प्रयुज्य नि:शेषितानि। क्षमायाचनमात्रेण नम्रीभूय सर्वमिदमपमृष्टं च। मध्येसागरमानीय पोतभङ्गस्येव कृपा सेयं तथा विहिता येन द्वितीयो मुद्रणालय: सर्वश्चापि चित्रादे: प्रबन्ध: पुनर्नवीनतया गेवषणीयोऽभवत्। तत एव सेयं भूमिका मुखपत्रादिकं च 'प्रिन्टर्स एण्ड पब्लिशर्स’ मुद्रणालये मुद्रितम्। तेन च यादृशं विचिन्तितमासीत्तत्सर्वं विस्मृत्य महायुद्धस्य दुर्धरेस्मिन् समये यादृशी मुद्रा-चित्रादे: सामग्री समुपलब्धा तयैव संतोषितमात्मनो हृदयमिति किं वा कस्मै निवेद्यतां नूनम्?
टीका
अस्तु, यथोपलब्धैश्चित्राद्युपकरणै: सज्जीकृतं जयपुरवैभवमिदं संमुखे श्रीमताम्। दूरदूरत: समागता भ्रमणविलासिनो बहुव्ययेन यद्वैभवमनुभवन्ति तद्धस्तगतमिदं यथेच्छमनुभूयतां भावुकै:। ग्रन्थस्य स्पष्टीकरणाय पूर्वमलिख्यत केवलं संस्कृतटीकैव। किन्तु आमुख-नगरवीथ्योमुर्द्रणोत्तरं बहूनां हितैषिणां सेयमपि मन्त्रणा समभवद्यत् अन्यान्यसाहित्यरसिकानां कृते हिन्दीभाषार्थोऽप्यवश्यं दीयेतेति। तदनुसारं पूर्वमुद्रितयोरामुख-नगरवीथ्योर्हिन्दीं भाषार्थं पूर्वम् (पृ. ६०) प्रदाय अग्रे नीचैर्भागे सर्वत्र सहैव हिन्दीभावार्थ: प्रत्तोऽस्ति। मध्ये नागरिकवीथ्यां हिन्दीभाषार्थो नाऽवलोक्येत पाठकमहाभागै:। सोयमपि मुद्रालयस्य कृपाविशेष इत्यवबुध्यतां तै:।
पुरातनलेखन्या लिखिता सेयं हिन्दी नवीनलेखकानां मनसि मन्ये न कदाचिद्रोचेत किन्तु प्रत्येकपदस्याक्षरार्थमनुरुन्धाना सेयं हिन्दी कारणविशेषणाऽत्रावतीर्णा। यतो हि मूलगतं स्वारस्यं नानुवादैरधिगम्यते इति लोके प्रसिद्धि:। हिन्दीछन्द:सौन्दर्यं संस्कृतेपि संदर्शयितुमिच्छतो ग्रन्थस्यास्याऽऽ-नन्दो न तावत्कालं वस्तुतोऽवगम्यते यावत्कालं तदिदं छन्दो नानुशील्यते। अत एव पदानामन्वयानुसारं विहितमिमं हिन्दीभाषार्थं पुरतोऽवबुध्य ततो मूलपद्यस्यैव प्रत्येकपदस्यार्थं बोद्धुं ते तथा प्रयतेरन् यथा पद्यगतं स्वारस्यं तेषां बुद्घ्यारूढं भवेदिति टीकाकर्तुरिच्छा। मन्ये काव्यार्थविनोदिनस्तथाऽनुष्ठाय कुर्यु: परीक्षामेतस्येत्यलं मुधा विस्तरेण--
श्रीकाशीनाथशास्त्रिप्रवरकरुणया प्रापितो वाक्प्रवेशं
श्रीलक्ष्मीनाथशास्त्रिप्रपदपरिचयाच्छास्त्रपाण्डित्यमाप्त:।
साहित्यं कृष्णशास्त्रिप्रणिहितदयया लब्धवान्, मातुलै: स्वै-
र्वाग्गुम्फं लम्भितोऽसाविति विनयभराद्वन्दते मञ्जुनाथ:॥१॥
व्यञ्जन्मञ्जरिपुञ्जेऽस्मिन्निकुञ्जे मञ्जुलस्वना:।
उन्मीलत्कञ्जकुञ्जेषु गुञ्जेयुरलिकुञ्जरा:॥२॥
जयपुरम्
भट्टश्रीमथुरानाथशास्त्री
(जुलाई १९४७) 'मञ्जुनाथ:’
मञ्जुकवितानिकुञ्जे.....
जयपुरवैभवम्
आमुखवीथी; चतुष्पदीचत्वर:
:: सरस्वती ::
सो.-- कीलितकुवलयदाम, तामरसद्युतिदर्पहम्।
शशधरधवलितधाम, मामनिशं गोपायतात्॥१॥
श्वैत्येन निर्जितं कुवलयदाम (स्रक्) येन। तामरसस्य कमलस्य शोभागर्वहारकम्। चन्द्रवद् धवलं धाम तेज: (सरस्वती)॥१॥
* चौपाई *
जयति जनितविधुरुचिपरिहासा। जयति जलजकुलकलितनिवासा।
जयति जगत्त्रयकविकृतगाना। जयति भारती भणितिनिधाना॥२॥
निजशरीरकान्त्या जनित: चन्द्रकान्तेरपि पराजयो यया।
जलज.कमलासना। भणिति: वाङ्मयमेव निधानं निधिर्यस्या: सा॥२॥
यदवलोकलक्ष्मीलवलीला। सकलकलुषकुलविशमनशीला॥
हृदयसदनसुखसृष्टिरपारा। कविविलासमञ्जुलमधुधारा॥३॥
यस्या: अवलोकलक्ष्म्या: दृष्टिसंपद: लेशस्यापि लीला, सकलपापसमूहनाशिनी (अस्ति)। हृदयरूपसदनस्य अपारा सुखसृष्टि:। कविविलासानां कृते मञ्जुला मधुधारा। भारत्या दृष्टिलवं प्राप्य अमृतधारासिक्ता इव कविता: प्रवर्द्धन्ते इति भाव:॥३॥
मतिविकासकुसुमाकरकल्पा। कीर्तिकौमुदीप्रसृतिरनल्पा॥
तदिह सकलसुखमङ्गलमूला। भवतु भारती भृशमनुकूला॥४॥
बुद्धिविकासे वसन्तसदृशी सा अवलोकलक्ष्मी: कीर्तिकौमुद्या: अनल्पा प्रसृति: प्रसार:। सकलानां प्राणिनां यत् सुखं हिताचरणम्, मङ्गलं पूर्वजन्माऽदृष्ट च तत् मूलम् (कारणम्) यस्या: सा। एतज्जन्मकृतेन पूर्वजन्मकृतेन च सुकृतेन प्राप्या इत्यर्थ:॥४॥
कलनिनादियत्कच्छपवीणा। श्रुतिग्रामपरिपोषप्रवीणा॥
स्वरतरङ्गरिङ्गन्मधुधारा। सकलसिद्धसारस्वतसारा॥५॥
कलनिनादिनी यस्या: कच्छपी वीणा। श्रुतीनां संगीतप्रसिद्धानां स्वरारम्भकशब्द-विशेषाणां, षड्जग्रामऋषभग्रामेत्यादिस्वरसंघातानां च परिपोषे यथावदभिव्यञ्जने प्रवीणा। या वीणा, स्वरतरङ्गेषु रिङ्गन्ती प्रस्रवन्ती मधुधारा यस्याम् ईदृशी अस्ति। सकलं सिद्धं परात्परं यत् सारस्वतं वाङ्मयं तदेव सारो यस्या:॥५॥
सो.-- निखिलनिगमनिश्चेय-निरवधिनिरुपाधिकगुणा।
विमलविवेकविधेय -विनया वाग्देवी जयति॥६॥
विमलेन विवेकेन विधेय: संपाद्यो विनय: प्रपत्तिर्यस्या: सा।
जयतिपदारम्भा जयतिपदावसाना च सेयं वाग्देव्या: मङ्गलप्रस्तावना॥६॥
शरणमुदेतु मानसे सुचिरम्। चरणमेकमिन्दीवररुचिरम्॥
यदनुचिन्तयति चञ्चलचित्ते। कापि धीरता पदमुपधत्ते॥७॥
यत् (चरणं 'कर्म’)। अनुचिन्तयति ध्यायति चञ्चलेपि चित्ते किमपि धैर्यं पदं दधाति॥७॥
भगवति! भूरि भारमहमादाम्। यदभिनवे पथि पदमिदमाधाम्॥
सपदि विधेहि मह्ममनुकम्पाम्। देहि देवि मतिमनिशमकम्पाम्॥८॥
अभिनवे नवीनच्छन्दोबन्धरूपे मार्गे॥८॥
दीनविनयमवमन्य न शेताम्। जननि जनय करुणादृशमेताम्॥
रचनाश्रममिह मनसि न विन्दे। पदसरोजमकरन्दमिलिन्दे॥९॥
दीनस्य विनयं प्रार्थनां तिरस्कृत्य भवती न शेताम् न उदास्ताम्। पदसरोजमकरन्दार्थं भ्रमरायिते मनसि रचनाकृतं श्रमं न अनुभवामि, यदि भवच्चरणावलम्बनं स्यात्तर्हि मे मनसो न मनागपि श्रम इति भाव:॥९॥
दो.-- चरणसरोरुहयोर्नमन्, सुबहु बद्धयुगपाणि।
रसिकमनसि मोदावहां, वाणि मतिं करवाणि॥१०॥
बद्धौ युगभूतां पाणी यस्मिन् कर्मणि, बद्धाञ्जलिपुटमित्यर्थ:। हे वाणि रसिकमनसो यथा मोद: स्यात्तथा रचनानुगां मतिं संपादयानि। आशिषि लोट्॥ १०॥
विनतमौलि सविनयमभिवन्दे। गुरुवरचरणराजदरविन्दे।
यच्छाया हृदि शममुपसूते। कृतिविमूढताभ्रमपरिभूते॥११॥
गुरुवरचरणरूपे राजती (शोभमाने) अरविन्दे अभिवन्दे। कृतौ रचनायां या विमूढता, यश्च भ्रम: (अयथार्थज्ञानम्) ताभ्याम् आक्रान्ते हृदि शन्तिम् उपसूते उत्पादयति॥११॥
हृदयमन्दता व्रजति विरामम्। यत्सौरभमभिगम्य निकामम्॥
गुरुवरकृपा सकलसुखसीमा। दलयति दुरितमसद्भ्रमभीमा॥१२॥
असन् अनुचितो यो भ्रम: तत्कृते भीमा भयंकरी॥१२॥
गुरुरुपदेशदीपमभियच्छन्। हृदयतिमिरमपनयति नियच्छन्॥
मनसि मणौ गुणरुचिमभिसूते। पदपयोजरजसा परिपूते॥१३॥
नियच्छन् नियमयन् शासने रक्षन्नित्यर्थ:। रजसा निर्मलीकृते रत्नादौ गुणानां हारसूत्रादीनां यथा रुचि: (कान्ति:), तथा चरणरजसा परिपूते मनोमणौ विनयदाक्षिण्यानुगुणां रुचिम् उत्पादयतीत्यर्थ:॥१३॥
वाल्मीकिप्रमुखा विजयन्ते। ये स्म भारतीमभिनवयन्ते॥
सूक्तिसिन्धुमभिलक्ष्य हि येषाम्। कृतिसरित: प्रवहन्ति परेषाम्॥१४॥
अभिनवयन्ते निजरचनया अभिनवां कुर्वन्ति स्मेत्यर्थ:। येषां वाल्मीक्यादीनां सूक्तिसागरम् अभिमुखं लक्ष्यीकृत्य। परेषाम् अन्येषां कवीनां कृतिरूपा: सरित: प्रवहन्ति। नदीनां सागराभिमुखत्वं प्रसिद्धम्। कवीनामुपजीव्या: किल वाल्मीक्यादय इति भाव:॥१४॥
दो.-- व्यासवचनरचनाचयेष्वासमस्तभुवनानि।
भासयत्सु भावुकभरायासमहं न वदानि॥१५॥
समस्तभुवनानि आ (अभिव्याप्य) व्यासरचनापूरेषु प्रकाशयत्सु सत्सु भावुकगणस्य आयासं मन:खेदमहं न वर्णयानि। समस्तभुवनेषु प्रख्याता व्यासकृतयस्तथा च भावुकानां को वा खेद इति सकलोपजीव्यत्वं व्यासस्य सूच्यते। तथा च मत्सदृशानां रचनाभि: को वा तेषां परितोष इति निजविनयो ध्वन्यते। व्यास-आस-इत्यादयश्चतुर्ष्वप्यनुप्रासा:॥१५॥
सकलसुजनपरिवादपरीता। खलपरम्परा केन न गीता॥
या समस्तगुणगौरवनिष्ठान्। लघयति हन्त गिरैव गरिष्ठान्॥१६॥
ग्रन्थकाराणां नियमानुसारं दुर्जननिन्दां सुजनप्रशंसां चारभते-सकलसुजनेति
सज्जनानां परिवादेन निन्दया युक्ता। या सकलगुणगौरवयुक्तान् गिरैव वाङ्मात्रेणैव लघयति तिरस्करोति। गुरुतमपरिमाणान् वाङ्मात्रेणैव वा लघू करोति तस्याश्चमत्कारोऽवश्यमेवापूर्व इति हन्तपदेन सूच्यते। परमार्थस्तु गुरून् केवलं वाङ्मात्रेण निन्दति, नाधिकं सामर्थ्यमिति प्रतीयते। व्याजनिन्दा॥१६॥
कुटिलकथारसरङ्गमुपेता। कपटकोटिसहचरीसमेता॥
क्षुन्दन्ती सुयश: परकीयम्। नृत्यति खलरसनैव नटीयम्॥१७॥
कुटिलकथारस एव रङ्गो नाट्यस्थलं तत् प्राप्ता। कपटकोटिरूपया सहचर्या समेता। क्षुन्दन्ती अवमृद्नन्ती 'खूंदती हुई’। खलजिह्वारूपा इयं नटी नृत्यति॥१७॥
खलजिह्वा तूलीतुलितेयम्। कपटरङ्गमाह्वाऽनपनेयम्॥
परपरिवादचित्रमभिसूते। विमलयशसि पट इव परिपूते॥१८॥
रूपकान्तरमाह--तूल्या रङ्गकूर्चिकया तुलिता समाना। या अनपनेयं अहार्यं कपटरूपं रङ्गं रञ्जनद्रव्यं प्राप्य। परिपूते खटिकालेपादिना परिमार्जिते पत्रपटादौ इव। परस्य विमले यशसि निन्दारूपं चित्रम्, अभिसूते लिखतीत्यर्थ:॥१८॥
पिशुनवदनवल्मीकनिलीना। खलजिह्वाभुजगीह नवीना॥
दशति दूरतोपि हि विहरन्ती। चित्रं या सुजनान्विदहन्ती॥१९॥
वदनमेव वल्मीकं सर्पबिलस्तस्मिन् निलीना गुप्ता। अन्या भुजगी बर्हिर्नि:सृत्य दशति, इयं तु वल्मीके गुप्तैवेति व्यतिरेक:। विदहन्ती पीडयन्तीति यावत्। विहरन्ती सती दूरतोपि दशति। तस्या: किल विहारोऽन्यस्य मरणमिति भाव:॥१९॥
दो.-- परहितपरिपाटनसुपटु, परपरिभवपरिहासि॥
पिशुनपटलमीड्यं न किम्, परनिमित्तमायासि॥२०॥
परहितस्य परिपाटने उन्मूलने सुचतुरम्। परपरिभवे परतिरस्कारे सति परिहसति प्रसीदति तच्छीलम्। अत एव परनिमित्तम् अन्येषां कृते। आयासि परिश्रमकारकं पिशुनवृन्दं किं न ईड्यं स्तवनीयम्? अपि तु परहितनाशनम्, परतिरस्कारे प्रसन्नता, इत्यादि परार्थमेव परिश्रमकारकं खलवृन्दमवश्यमेव स्तोतव्यमिति व्याजनिन्दा॥२०॥
सुकृतसज्जसज्जनसमुदाये। विनयमेष विनिवेद्य सुखाये॥
परगुणौघपरिचायिनि चित्ते। यो हि कपटघटनां न निधत्ते॥२१॥
सुजनप्रशंसामुपक्रमते-सुकृते सज्जो य: सज्जनसमुदायस्तस्मिन्। एषोहम् विनयं विनिवेद्य सुखाये सुखीभवामि। सुख इवाचरतीति, आचारक्यङन्ताल्लट् उत्तमपुरुष:। य: सुजनसमुदाय:। परगुणसमूहानां परिचायिनि परिचयरक्षके परीक्षिणीत्यर्थ:। स्वचित्ते कपटं न धत्ते॥२१॥
जयति कापि मञ्जुलमधुमल्ली। सुजनसूक्तिसंजीवनवल्ली॥
या द्विजिह्वरसनापरिलीढे। स्रवति सुधामिव मानसनीडे॥२२॥
कापि अनिर्वचनीया। मञ्जुलमधुमल्लिकास्थानीया, सुजनसूक्तिरूपा संजीवनवल्ली जयति। या द्विजिह्वानां, पिशुनानां सर्पाणां च जिह्वाया परितो लीढे आस्वादिते (स्पृष्टे)। चित्तरूपे नीडे गृहे जीवनदानार्थं सुधामिव स्रवति। सर्पजिह्वया परिलीढे पक्षिगृहे यथा अमृतस्रावेण फलं तथा चित्ते सुजनसूक्त्या फलमित्याशय:॥२२॥
खलकलङ्करेखापि च लग्ना। सुजनसूक्तिसुरसरिति निमग्ना॥
शुचिरुदेति विमलत्वमुपेता। शिवशशाङ्कलेखेव समेता॥२३॥
खलदत्तस्य कलङ्कस्य रेखापि सुजनसूक्तिरूपायां गङ्गायाम् निमग्ना, तदनन्तरं विमलतां प्राप्ता, अतएव शुद्विच: सती उदेति निष्क्राम्यति। समेता संमुखामुपेता शिवस्य चन्द्रलेखा इव। चन्द्रलेखेव विमला सती उदेति उच्चैरारोहति। चन्द्रलेखापि हरशिरसि गङ्गाप्रवाहपवित्रितैव कलङ्करेखया रहिता जाता, अन्यथा तु चन्द्र: सकलङ्क एव। एवं सत्सूक्तिगङ्गायां खलप्रसेधित- कलङ्कोपि विमल: सन् शिवशशाङ्कलेखेव भूषणं भवतीति भाव:॥२३॥
सुपटुमवैमि न सज्जनदृष्टिम्। परगुणपक्षपातपरिपुष्टिम्।
अपरै: सुगुरूकृतमपि गाढम्। या न दोषमभिपश्यति बाढम्॥२४॥
परेषां गुणानां पक्षपातस्य यत्र परिपुष्टिरस्ति, ईदृशीं सज्जनदृष्टिं अहं सुपटुं सुचतुरां न जानामि। या अपरै: दुर्जनै: गाढं यथा स्यात्तथा सुगुरूकृतमपि (लघुमपि सन्तं गुरुरूपेण प्रसेधितमपि) दोषं न पश्यति। या दृष्टिर्गुरुतरमपि वस्तु न पश्यति सा कथं पट्वी ? एवं गुणपक्षपातवशात् महान्तमपि दोषं या न पश्यति। किन्तु तद्वन्तं जनमात्मीयेषु गणयति सा अवश्यं विकलेति व्याजस्तुति:॥२४॥
यदि च सुजनसंगमरससारा। मिलति मञ्जुमन्दाकिनिधारा॥
तदिह पापभवतापसनाथा। तुदति हन्त कथमिव खलगाथा॥२५॥
सत्संगमरस एव सारो यस्या: सा। मन्दाकिन्या धारा। ङ्यापोरिति ह्रस्व:। पापेन, भवतापेन सांसारिकदु:खेन च सनाथा। खलगाथा दुर्जनकथा॥२५॥
अहह साधुसंगमसुखसरणी। हृदयतापपीड़ापरिहरणी॥
यामुपेत्य परिभवति न बाधा। भवति भूरिसुखसूतिरगाधा॥२६॥
साधूनां संगमसुखस्य सरणि: शैली, हृदयतापरूपाया: पीड़ाया: परिहर्त्री अस्ति। यां पद्धतिं प्राप्य अगाधा अपारा। सुखसूति: सुखोत्पत्ति॥२६॥
दो.-- मलयजमदमीलनपरा:, सुजनसूक्तयो भान्ति।
उरसि यासु सक्तास्वपि हि, तापजापदो यान्ति॥२७॥
मलयजमदस्य चन्दनगर्वस्य संकोचनपरा:। यासु सूक्तिषु लग्नास्वेव तापजा: आपत्तयो यान्ति। चन्दन: किंचित्कालं तत्कृतशैत्यप्रतीक्षायां तापं हरति। इमास्तु लग्नमात्रा एव उरसस्तापापदं हरन्तीति चन्दनगर्वमीलिन्य:॥२७॥
जयति पूर्वकविवाङ्मधुधारा। सकललोकसुखसौरभसारा॥
हरति तापमपि या हृदि नीता। निखिलजगति जीवातुरुदीता॥२८॥
सुजनप्रशस्तिं परिसमाप्य पुन: प्रकृतां कविप्रशंसामुपक्रमते-जयति
सकललोकानां यत्सुखं तदेव सौरभसार: सुगन्धसारो यस्यां सा, सर्वलोकसुखजननी। पूर्वकवीनां वाग्रूपा मधुधारा। यस्यां सौरभं मधुरता च स्यात् ईदृशी मधुधारा अवश्यं जयतीति भाव:। या वाग्धारा जीवातु: जीवनौषधि: सती उदीता उत्पन्ना, (ईङ् गतौ, अस्मात् क्त:)। या हृदि नीतापि तापं हरति। अन्या औषधिर्भक्षिता सती तद्वीर्यविपाके रक्तेन सह मिलिते सति, तापं हरति। इयं तु हृदये संनिहितापि तापमपनयतीति विशेष:॥२८॥
प्रकटसाधुसुरतरुरुचिरेखा। चेदुदेति नन्दनवनलेखा॥
यदि च मिलति मन्दाकिनिधारा। तीरविततसुररमणिविहारा॥२९॥
यदि च भवति भुवि विलुलितलोभा। त्रिदिवकुञ्जगुञ्जत्पिकशोभा॥
जगति तर्हि तुलयति बत धन्ये। कविविलासलीलामिति मन्ये॥३०॥
प्रकटा साधूनामुत्तमानां सुरतरूणां रुचे: कान्ते: रेखा यस्यां सा। सुरतरुसुभगेति यावत्। चेत् (भुवि) नन्दनवनपंक्तिरुदेति, अकस्माद् भाग्योदयेनाविर्भवति। यदि च तस्यां वनलेखायाम्, तीरे वितत: विस्तृत: सुररमणीनां विहारो यस्याम् ईदृशी मन्दाकिनीधारा भवति॥२९॥
विलुलितलोभा जनितलोभा। त्रिदिवकुञ्जे स्वर्गकुञ्जे। गुञ्जतां कूजतां पिकानां शोभा। धन्ये कविविलाससम्बन्धाद्बहुमानभाजने जगति। अयं किल सर्वस्याशय: यदि भूमौ नन्दनवनलेखा स्यात्तस्याश्च मध्ये यदि मन्दाकिनीधारा स्याद्यस्यां देवाङ्गना विहरेयु:। तस्यास्तटकुञ्जे यदि पिकगुञ्जारव: स्यात्तर्हि कविविलासं जगति तुलयेत्। सम्भावनालङ्कार:॥३०॥
हृदयकलितकल्मषकुलदलनी। निरुपमाननिरवधिसुखकलनी॥
अहह कापि निर्भरमदरम्या। कविवाक्सीधुसुधेयमदम्या॥३१॥
हृदयनिहितस्य कल्मषकुलस्य विषादरूपदुरितसमूहस्य दलनी नाशिनी। लेखनीतिवत्। निरुपमानं अनुपमं नि:सीमं च सुखं कलयति। निर्भरो गाढो यो मदस्तेन रम्या। अन्या सीधुसुधा अम्लादिपदार्थ-दमनीया भवति, परं कविवचनरूपा मद्यसुधेयम् अदम्येति भाव:॥३१॥
दो.-- भासकालिदासप्रभृति - कविविलासमीडीय।
वाङ् नो वहति विकासमिह, यद्विभासमभिनीय॥३२॥
कालिदासप्रभृतिकवीनां विलासं कविताचमत्कारं ईडीय स्तुयाम्। ईड् स्तुतौ अस्माल्लिङ उत्तमपुरुषैकवचनम्। यद्विभासं यस्य कविविलासस्य विभासं प्रकाशम्। अभिनीय नीत्वा, गृहीत्वा। इह संसारे। न: अस्माकं वाक् विकासं वहति। कालिदासादिच्छाययैव व्युत्पत्त्या, अस्माकं वाचो विकास इत्यर्थ:॥३२॥
महितमहाकविमौलिविनिहिता। जयति कालिदासातुलकविता॥
दिव्यशक्तिशंसिनि सुविलासे। माद्यति रसिकमनो यदुपासे॥३३॥
सामान्यत: कवितामभिष्टुत्य कविविशेषाणां कवितां सविमर्शमुपस्तौतिमहितमहा.-
महितानां महाकवीनां मौलिषु न्यस्ता। सर्वैरपि सबहुमानमादृतेत्यर्थ:। अतुला अनुपमा कविता। दिव्यशक्तिं सूचयति ईदृशे। सु, विलासा विभ्रमा यस्मिन् ईदृशे। यदुपासे यस्या: कविताया उपासे उपासनायां (सेवने), उपपूर्वकादास्धातोर्घञ्। रसिकानां मन: माद्यति, मत्तं भवति, हृष्यतीत्यर्थ:। तथा च-प्रत्यक्षरं दिव्यभाव:, नैसर्गिकत्वं, विभ्रमनिर्भरत्वं च कालिदासकविताया विशेष इति भाव:॥३३॥
असमसाहितीसारसुवचना। लसति दण्डिपण्डितवररचना॥
जगति जाग्रदादर्शसनाथा। यस्य कैर्न गेया गुणगाथा॥३४॥
असमं अनुपमं साहित्यसारं सुप्रकारेण वक्ति तादृशी। सहितस्य भाव: साहिती, भावष्यञन्तान् ङीष्। अथवा असमानि साहित्यस्य सारभूतानि सुवचनानि यस्यां सा। जाग्रत् दैदीप्यमान: य: आदर्शस्तेन सनाथा युक्ता। जगन्नाथात्पूर्वम्, अन्ये हि साहित्यकारा उदाहरणे अन्येषामेव कृतिमुद्धरन्ति, न स्वयं तादृक्प्रौढं रचयन्ति। अयं तु दण्डी स्वकीयामेव रचनामुदाहरन् साहित्यविदामादर्श इति अस्य रचना आदर्शसनाथा। किञ्च-आदर्शेन काव्यादर्शेन सनाथा, अस्य गुणकथा कैर्न गेया। यावत्काव्यादर्शं सर्वैरेव स्ताव्येति भाव:॥३४॥
भूरि वीरभावानभिदधती। भवति भट्टभवभूतिभारती॥
यस्य लोकलिपिललितलेखिनी। रम्यरसेपि च रुचिररेखिनी॥३५॥
वीरभावान् वीररसोचितान् भावानभिदधती कथयन्ती। भवभूतिर्हि वीररसनिगुम्फे कालिदास-मतिशेते। एष हि 'झणझणायितस्यन्दन:’ अमन्दमददुर्दिनद्विरदवारिदैरावृत:॥ (उत्तर.), दोर्दण्डाञ्चित-चन्द्रशेखर. (वीरचरि.) इत्याद्योजोऽनुकूलबन्धैर्वीररसमुपबृंहयति। कालिदासस्तु मधुरतरवर्णनाभ्यासादोज: स्थलेपि-- ''यो हनिष्यति वध्यं त्वां रक्ष्यं रक्षिष्यति द्विजम्।’’ इत्यादि मधुरतरमेवाह। लोकलिप्यां लोकचरितचित्रणे ललिता यस्य लेखिनी। रम्यरसेपि विप्रलम्भकरुणादावपि। रुचिररेखायुक्ता, सुनिपुणेति यावत्। अयं हि चरितचित्रणे चतुर:, करुणविप्रलम्भादिवर्णने चाद्वितीय:। प्रसिद्धिश्चास्य-'भवभूते: सम्बन्धात् भूधरभूरेव भारती भाति। एतत्कृतकारुण्ये किमन्यथा रोदिति ग्रावा॥’ इत्यादि: सुप्रसिद्द्धैव॥३५॥
सहृदयहृदयपटान्न निगच्छति। बाणलिखितगद्यं मुदमृच्छति॥
क्लिष्टकल्पनाबहुतरभरिते। यत् सुबन्धुबन्धेपि विजयते॥३६॥
हृदयरूपात् पटात् न निगच्छति, न याति। बाणेन लिखितं गद्यं मुदं हर्षं ऋच्छति गच्छति, ददातीत्यर्थ:। लेखिन्या लिखितमेव गद्यादिकं यदा पत्रपटात् न याति, तर्हि बाणेन बाणाग्रफलकेन लिखितं उत्कीर्णं गद्यं कथं गच्छतु नाम ? यत् बाणस्य गद्यम्। क्लिष्टकल्पनाभिरत्यन्तं भरिते सुबन्धुबन्धे (वासवदत्ताख्ये) सत्यपि विजयते उत्कर्षति। तथा च-गद्यचातुर्येपि क्लिष्टकल्पना सुबन्धोर्दोष:, बाणस्य तु सुमधुरता गद्यस्य सुप्रथितेत्यलं महत्सु तारतम्यविचारेण॥३६॥
दो.-- मिलितवर्णमैत्रीमधुर्माघोऽभिमुखमुदेति।
मधुरताऽथ सा भारवे: केषां न स्मृतिमेति॥३७॥
मिलिता या वर्णमैत्री सा एव मधु यस्मिन्नीदृशो माघ: (शिशुपालवधकाव्यम्) संमुखमायाति। भारवे: (किरातार्जुनीयकारस्य) सा वर्णमैत्रीकृता मधुरता केषां स्मृतिं नैति। अपि तु सर्वे स्मरन्ति। तथा च-माघभारव्योर्वर्णमैत्रीकृते माधुर्ये समानतेति भाव:। पक्षान्तरे च-मिलितं सर्वेषां क्षत्रियादिवर्णानां मैत्रीकारकं मधु मद्यं यस्मिन्नीदृशो माघमास:। शीते माघमासे मद्यपैर्विशेषतो मधु सेव्यते। तस्यां मद्यगोष्ठ्यां च क्षत्रियादिवर्णानां न भेद:, प्रत्युत सर्वे मद्यपाने मिलन्ति। तथा च-वर्णानां मधुद्वारा मैत्रीकारको माघमास: समीपागतोऽस्ति, ततश्च मधुरता मधुवर्षिणी रवे: सूर्यस्य भा आतप: केषां स्मृतिं नाऽऽकर्षति। माघमासे आनन्दकारिणी सूर्यदीप्ति: सर्वेषामभिमता भवतीति सर्वस्याशय:॥३७॥
सुप्रसन्नगौरवगुणधानी। जयति राजशेखरकविवाणी॥
यन्निबद्धरचना रसनीया। मदयति मीमांसापि यदीया॥३८॥
सुप्रसन्न: प्रसादगुणयुक्तो गौरवगुणो (अर्थगाम्भीर्यं प्रौढिर्वा) धीयते यस्यां सा। राजधानीतिवत् अधिकरणे ल्युट्, ङीप्। यया वाण्या निबद्धा रचना। रसनीया सहृदयानामास्वादनीया भवति। यदीया मीमांसा, यद्रचनासंबन्धिनी मीमांसा विमर्शोपि मदयति प्रसादयति। अर्थात् यस्या अन्तस्तलं विचारेण मार्मिकाणामानन्दप्राप्तिर्भवति। किञ्च-यदीया राजशेखरसंबन्धिनी मीमांसा (काव्यमीमांसा) मदयति सारस्वतेयपुरुषादिपरिज्ञानेन, नानाविधकाव्यभिदाबोधनेन च विदुषश्चमत्करोतीत्यर्थ:॥३८॥
अतुलकल्पनाक्रमकमनीया। वाक् श्रीहर्षकवे: स्तवनीया॥
प्रौढबन्धबन्धुरपदशय्या। मिलति मुरारिसूक्तिरविजय्या॥३९॥
अतुल:, अनुपमो य: कल्पनाक्रमस्तेन कमनीया। एवं च 'निपीय यस्येति’ प्रथमपद्ये योर्थस्तमेव 'रसै:’ कथा यस्येति द्वितीयपद्येपि बघ्नतोऽनवीकृतत्वम्, स्थाने स्थाने क्लिष्टत्वं च यद्यपि वैगुणं तथापि अपूर्वकल्पनासु श्रीहर्षस्य (नैषधकर्तु:) प्रथितं पाटवमिति भाव:। प्रौढबन्धेन बन्धुरा सुन्दरी पदशय्या यस्या: सा। अविजय्या अन्येन कविना विजेतुमशक्या। तथा च आख्यातकृत्तदिद्धतादि-समञ्जसप्रयोगात्प्रौढ़बन्धे मुरारिकवे: (अनर्घराघवकर्तु:) पाटवमिति ध्येयम्॥३९॥
सुप्रसीददोजोनि:श्रेणी। भाति भट्टनारायणवेणी॥
साभिप्रायपदौघनिधानी। लसति विशाखदत्तवरवाणी॥४०॥
प्रस्फुरत्प्रसादं यथा स्यात्तथा, ओजोगुणस्य नि:श्रेणि:। उत्तरोत्तरवृद्ध्या सोपानभूता। वेणी वेणीसंहारनाटकम्। तथा च 'यो य: शस्त्रं बिभर्ती’त्यादिषु कठिनपदप्रयोग-बृहत्समासाद्यभावेपि ओजस: पूर्णमात्रायामाविष्करणं भट्टनारायणस्य सर्वसंमतो गुण इति ज्ञेयम्॥ साभिप्राया: पदौघा निधीयन्ते यस्यां सा। विशाखदत्तस्य (मुद्राराक्षसनाटककर्तु:) वरा वाणी। अर्थपोषमन्तरा नैकपदमपि नाटकेऽनेन प्रयुक्तमिति विदुषां विदितमेव॥४०॥
अनुप्राससुखसहजसुवेषा। जयति जगद्धरपद्धतिरेषा॥
यत्र नादिनवनूपुररम्या। नृत्यतीव भवभक्तिरदम्या॥४१॥
वृत्याद्यनुप्रासै: सुख: सुखकर:, सहज: स्वाभाविक:, सुन्दरो वेषो यस्या: सा। यत्र यस्यां पद्धत्याम्। नादिभिर्मञ्जुशिञ्जानैर्नवनूपुरै: रम्या, अदम्या अरुद्धप्रसरा, शिवभक्तिर्नृत्यतीव। एवं च मञ्जीरशिञ्जारववन्मञ्जुला, वृत्त्यनुप्राससत्त्वेपि निसर्गसुन्दरी, शिवभक्तिमयी जगद्धरस्य (स्तुति-कुसुमाञ्जलिकर्तु:) वाणीति फलितम्॥४१॥
सो.- काश्मीरोत्था भान्ति, भर्तृमेण्ठबिह्लणमुखा:।
येषां कविता यान्ति, कुङ्कुमकेसरसहजताम्॥४२॥
भर्तृमेण्ठो (हयग्रीववधनिर्माता), बिह्लणो (विक्रमाङ्कदेवचरितकर्ता), भल्लट:, एतदादय:। कुङ्कुमस्य काश्मीरजस्य ये केसरा: परागकोषास्तेषां सहजातत्वम्।
सहोदरा: कुङ्कुमकेसराणां भवन्ति नूनं कविताविलासा:।
न शारदादेशमपास्य येषां मयाद्य दृष्ट: कुहचित्प्ररोह:॥
कविताध्वनि काश्मीरककलिते। सा क्षेमेन्द्रसूक्तिरुन्नयते॥
या हि रुचिररचनापरिचेया। वचनौचित्यविचारविनेया॥४३॥
काश्मीरकपण्डितकृते कविताध्वनि कवितामार्गे। उन्नयते उन्नतिं स्पृशति। रुचिराभि: रचनाभि: परिचेया परीक्षणीया या सूक्ति:, वचनानामौचित्यविचारेण विनेया उपगम्या सेवनीयेति यावत्। तथा च वाणीनामौचित्यं प्रयुञ्जाना क्षेमेन्द्रसूक्ति: सद्भि: सेवनीयेति भाव:। किञ्च 'औचित्यविचार-चर्चा’ नामकं ग्रन्थं प्रकाशयन्ती क्षेमेन्द्रसूक्तिरित्यप्यर्थ:। नानाविधा: संस्कृतप्राकृतादिरचना:, औचित्यविचारश्च क्षेमेन्द्रसूक्तेरुन्नति:॥४३॥
परिमलपदगुम्फो मधुगाही। पारिजातपरिमलपरिवाही॥
प्रभुमवैमि कह्लणकविमद्धा। बत तरङ्गिणी येन निबद्धा॥४४॥
परिमलगुप्तस्य कालिदासापरनाम्न: पदगुम्फ:। मधु गाहते तच्छील: पारिजातसौरभवाही च (अस्ति)। सुवर्णै: संग्रथिते यत्पदगुम्फे, सुवर्णे सुगन्ध इव माधुर्यकृतोऽलौकिको गुण: प्रतीयत इति भाव:। 'नवसाहसाङ्कचरितम्’ यस्य प्रत्यक्षं प्रमाणम्॥ कह्लणकविं राजतरङ्गिणीकारं अद्धा सत्यं प्रभुं समर्थमवैमि। येन राजतरङ्गिणीसदृश: सुप्रसन्नगभीरार्थ ऐतिहासिको ग्रन्थो निबद्घ:। पक्षान्तरे च-येन तरङ्गिणी नदी अवरुद्धा स कथं वा प्रभुर्न बोध्य:॥४४॥
को ननन्द न हि निर्भरबन्धे। भृशमभिनन्दसूरिसुनिबन्धे॥
अहह भर्तृहरिवाक्सरसीयम्। तापहारि सेवनमदसीयम्॥४५॥
निर्भरोऽश्लथ: बन्धो गुम्फो यस्मिन्नीदृशे अभिनन्दसूरे: (कादम्बरीकथासारादिकर्तु:) सुन्दरे निबन्धे को न ननन्द अपि तु सर्व एव प्रससाद। प्रसिद्धो ह्याभाणक: 'अभिनन्दस्य नन्दिनी’ इति॥ भर्तृहरे: शतकत्रयादिकर्तु: वाक् इयं सरसी पुष्करिणी। अदसीयम् अद:संबन्धि। अदसश्छ:। सेवनं तापहारि॥४५॥
कलितकान्तकोमलपदपुण्या। कविजयदेवसूक्तिरतिगुण्या॥
मधुरवर्णमैत्रीरमणीया। भानुकवेरपि वाक् श्रवणीया॥४६॥
कलितैर्यथास्थानविनिवेशितै: कान्तै: कोमलै: (मधुररसानुगुणै:) पदै: पुण्या जयदेवसूक्ति:, (किन्दुबिल्वजातस्य गीतगोविन्दकर्तु: कविता) अतिगुण्या गुणवती। तन्त्रेण प्रसन्नराघवकर्तु:, महादेव-सुमित्रयोरात्मजस्य पीयूषवर्षस्य चन्द्रालोककर्तुर्जयदेवस्यापि संग्रहो बोध्य:॥ मधुराणां वर्णानां मैत्र्या रमणीया, भानुकवे: रसतरङ्गिणी-रसमञ्जरीकर्तु: वागपि श्राव्या। वर्णमैत्री पदमाधुर्यं ध्वनिकृतं सुश्राव्यत्वं च भानुकवे: कवितायां मार्गणीयम्॥४६॥
अनुप्रासपटुपदपरिचेया। शम्भुसूक्तिरपि मनसि निधेया॥
मधुरमञ्जुगुम्फनगणनीया। गोवर्द्धनवाणी स्तवनीया॥४७॥
अनुप्रासेन पटूनि सुभगानि यानि पदानि तै: परीक्षणीया, शंभो: राजेन्द्रकर्णपूर-अन्योक्तिमुक्ताल-तादिकर्तु: काश्मीरकस्य सूक्ति:। मनसि हृदये उत्कीर्णा भवतीत्यर्थ:। प्रसिद्धं ह्यस्य- प्रासपटुपदप्रयोगपाटवम्॥ मधुरो मधुररसानुकूलो मञ्जु: प्रस्फुरच्छृङ्गारो यो गुम्फस्तेन गणनीया (माननीया) गोवर्द्धनस्य आर्यासप्तशतीकर्तु: वाणी स्तोतव्या। उक्तं च जयदेवादिभि:- 'शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्द्धनस्पर्द्धी कोपि न विश्रुत:’ इति॥४७॥
सो.- जयति जीवगोस्वामि-रचना भक्तिरसोत्तरा।
कमपि रसं कलयामि, कर्णपूरकविताक्रमे॥४८॥
भक्तिरस: उत्तर: प्रधानं यस्यां सा। जीवगोस्वामिनो रचना भक्तिरसामृतसिन्धु-प्रभृतिर्जयति, अन्यान्यभक्तकविषु विरलदर्शनत्वेनोत्कर्षतीत्यर्थ:। भक्तिरसोत्तरेत्यनेन, भक्ते: रसत्वेन स्थापनं जीवगोस्वामिनो भक्तिरसामृतसिन्धुस्थं मतमपि सूचितम्॥ कर्णपूरगोस्वामिन: कवितापद्धतौ। कमपि, अन्यान्यभक्तकविष्वसुलभं रसमानन्दं कलयामि प्राप्नोमि। अत एव एतस्य कृतौ, आनन्दवृन्दावनचम्पू-अलंकारकौस्तुभ-उज्ज्वलनीलमणिप्रभृतिरचनायां भक्तिप्राधान्येप्यपूर्वा कवित्वशक्तिराकर्षकता च प्रतीयते॥४८॥
कृतविदर्भपथपदविन्यासा। पटुरनन्तपण्डितरचना सा॥
प्रौढगुम्फगौरवगुणगम्या। भोजभारती केन न नम्या॥४९॥
कृतो विदर्भपथस्य वैदर्भमार्गस्य पदविन्यासो यस्यां सा, ओज:प्रसादमाधुर्याणां सकलानामेव तत्रोपलम्भात्। 'समग्रगुणा वैदर्भी’ इति वामन:। अनन्तपण्डितस्य 'भारतचम्पू’ कर्तु: सा रचना, पटु: सुनिपुणा (अस्ति)॥ प्रौढो यो गुम्फ:, अर्थगौरवगुणश्च ताभ्यां गम्या सूचनीया। भोजराजस्य रामायण-चम्पूप्रभृतिकर्तुर्भारती॥४९॥
विशदविषयगुम्फनमनुरुन्धे। वेदान्तार्यगिरामनुबन्धे॥
अनुप्रासमनुगतमभिधेयम्। वहति वेङ्कटाध्वरिरचनेयम्॥५०॥
वेदान्ताचार्यस्य पादुकासहस्रादिकर्तुर्गिरामनुबन्धे वाग्गुम्फे। विशदं विषयस्य एकस्यैव विस्तरेण गुम्फनमनुरुन्धे मानयामि। एकस्यैव वर्ण्यस्य नानाविधाभिर्वर्णनपाटवं तस्याहं बहु मानयामीति भाव:॥ वेंकटाध्वरिणो लक्ष्मीसहस्र-विश्वगुणादर्शप्रभृतिकर्तुरियं रचना। अनुप्रासमनुगतम् अनुप्रासानुसारि अभिधेयं वाच्यं वहति। तस्य रचना प्राय: शब्दालंकारमेव सह कृत्वाऽभिधेये प्रसरतीत्यर्थ:। अनुप्रासेन अनुगत-मभिधेयमित्यनुक्त्वा, अभिधेयमेव अनुप्रासमनुगच्छतीत्युक्त्वा अनुप्रासानुरोधेन वाच्ये वैगुण्यमपि कुत्रचित्सूचितमिति सुधीभिरुन्नेयम्॥५०॥
श्लेषनिवेशकुतुकि हृदयं चेत्। तदिह त्रिविक्रमगुम्फमुदञ्चेत्॥
निबिडनिगुम्फनैपुणं प्रायाम्। मङ्ख-मयूर-महितरचनायाम्॥५१॥
श्लेषालङ्कारस्य संनिवेशे कौतुकयुक्तम्। त्रिविक्रमभट्टस्य नलचम्पूकर्तुर्गुम्फम्। उदञ्चेत् अनुसरेत्॥ निबिड:, अश्लथो यो निगुम्फस्तन्नैपुणं प्रायाम् प्राप्नवम्। मयूर: सूर्यशतकादिकर्ता प्रसिद्ध:। मङ्ख श्रीकण्ठ-विजयकर्ता काश्मीरक:॥५१॥
अनुप्रासतृष्णातपतुम्फे। रामभद्रदीक्षितपदगुम्फे॥
गुणमलभ्यमपरे कविलोके। ननु निसर्गसुन्दरमवलोके॥५२॥
अनुप्रासतृष्णारूपस्यातपस्य तुम्फे तर्पके, अनुप्रासपूर्णे इत्यर्थ:। तुफ तुम्फ तृप्तौ। अन्तर्भावितण्यर्थ:। रामभद्रदीक्षितस्य रामाष्टानुप्रास-शृङ्गारतिलकादिकर्तु: पदगुम्फे। अपरे कविलोके अलभ्यं निसर्गसुन्दरं (स्वाभाविकम्) गुणमवलोके पश्यामि। शब्दालङ्कारबाहुल्येपि प्रसादमाधुर्यादिगुणो विलसतीति भाव:। पदगुम्फस्य विशेष्यतानुरोधेन, कविलोके इत्यनेन तद्गुम्फो लक्षणीय:॥५२॥
वाददुर्गमाध्वनि सुदुरापम्। जगन्नाथगिरि गुणमिममापम्॥
महितमञ्जुमधुरिमगुणरम्या। रसगङ्गा विलसति यददम्या॥५३॥
वादस्य परस्परं शास्त्रार्थविमर्शस्य, दुर्गमे मार्गे, सुदुरापम् अतिदुर्लभम्। जगन्नाथगिरि, जगन्नाथ-पंडितराजस्य वाण्याम्। आपम् अध्यगमम्, आप्नुतेर्लुङ्। महित: सकलसंमानितो मञ्जु: काव्यशोभावहो यो माधुर्यगुणस्तेन रम्या। अदम्या केनाप्यनभिभवनीया, सर्वतोप्युत्कर्षशालिनीति यावत्। रसस्य काव्यपरिभाषितस्यानन्दस्य गङ्गा यद्विलसति, वादग्रन्थेपि रसगङ्गाधरे उदाहरणेषु तादृग् रसपरिपोष: कवेरनन्यसाधारणो गुण इति भाव:। जगत्पूज्यस्य हिमाद्रेर्गुणमिमं प्राप्नवम् यत्तत्र दुर्गमप्रदेशेषु जगत्पूज्या सुमधुरा गङ्गा प्रवहति, एवं जगन्नाथपंडितराजस्य वाण्यां गुणं प्राप्नवमित्यपि शब्दशक्त्या ध्वन्यते॥५३॥
दो.- ध्वनिमहिताध्वनि सच्छवीन्प्राकृतकवीन् स वेद।
य: किल गाथागुणगणान् याथार्थ्येन विवेद॥५४॥
ध्वनेर्महिते पूजिते मार्गे। सच्छवीन् शोभमानान्। गाथासप्तशतीसंग्राहक-गौडवहोसेतु-बन्धादिकारकान् प्राकृतभाषाकवीन्। स वेद (जानाति) यो गाथानां सप्तशतीप्रभृतिषु निबद्धानां गाथाच्छन्दसां गुणान् यथार्थं विवेद विदितवान्। गाथासप्तशतीप्रभृतिषु ध्वनिमधुरा गाथा, यो ध्वन्यर्थसहकारेण बुद्धवान् सोऽवश्यं, प्राकृतभाषायां कीदृशं माधुर्यं ध्वन्यर्थानुगुणत्वं चास्तीति बोद्धुं प्रभवेदिति भाव:॥५४॥
सो.-- तुलसी-सूर-विहारि-कृष्णभट्ट-भारति-मुखा:।
भाषाकविताकारि - कवय: कस्य न संमता:॥५५॥
संस्कृतप्राकृतकवीनभिष्टुत्य, भाषानुसारिच्छन्दोग्रहणाद्भाषाकवीनपि प्रसङ्गत:, स्तौति-तुलसीति.-श्रीकृष्णभट्ट: कविकलानिधिविरुदाङ्कित: सवाईजयसिंहदेवानां (जयपुरनिर्मातॄणाम्) राज्ये ''अलंकारकलानिधि’’ नामकं महान्तं साहित्यग्रन्थं निर्ममौ। तेन राज्ञा 'कविकलानिधि:’ इत्युपाधि: करमपुरानामको ग्रामो हथरोहीभूमिश्च तस्मै पुण्यार्थम् प्रदत्ता। अस्य हि कविता 'लाल’ इत्युपनाम्ना प्रसिद्धा। संस्कृते 'ईश्वरविलास’ नामक महाकाव्यादिकर्ताप्यसौ व्रजभाषाया महाकवि:। एतज्जन्मवृत्तम्, सत्यवकाशे कविताया आदर्शश्चाग्रे (कविवंशवर्णने)दास्यते। 'भारती’ इत्युपपदधारी श्रीद्वारकानाथभट्ट: श्रीकृष्णभट्टस्यात्मज:। अयमपि संस्कृतव्रजभाषयोर्महाकवि:। प्राक्तनसवाईमाधवसिंहानां काले तदाज्ञापनेन बहवो भाषाग्रन्था निर्मिता:। तैरेव चास्मै 'भारती’त्युपाधिर्दत्त:। अस्यापि कविता मधुस्यन्दिनी। परिचयोऽग्रे दास्यते। व्रजभाषा-कविताकारिण: कवय:॥५५॥
एतदादिकविकोविदनेया। जगति जाह्नवीवाखिलगेया॥
जयति कापि कवितामधुधारा। रसिकहृदयसंमोदनसारा॥५६॥
एतत्प्रभृतिभि: कविश्रेष्ठैरुन्नतिं प्रापयितुं योग्या। जाह्नवीव अखिलजनानां स्तवनीया। संमोदन: सार: (तत्त्वम्) यस्या: सा॥५६॥
यामवाप्य मादृशमरुपृष्ठे। भवति वाक्प्ररोहो रसपुष्टे॥
अहह वहति सुखसहजसुगन्धा। प्रमदमरुल्लहरी मदमन्दा॥५७॥
यां मधुधारां प्राप्य। मत्सदृशेऽपि मरुदेशे। रसै: नवरसै: जलैश्च पुष्टे भरिते सति वाचां प्ररोह: अङ्कुर: उद्भवति। सुखकर: सहज: स्वाभाविक: सुगन्धो यस्या: सा। मदेन मन्दा धीरा। प्रमदरूपस्य आनन्दरूपस्य मरुतो लहरी वहति। यां पूर्वकविवाग्धारां प्राप्य मत्सदृशा अपि मरुतुल्या वृक्षै: शीतला: आनन्दपवनयुक्ताश्च भवन्ति॥५७॥
सुकविसूक्तिमुत्कर्षविधाने। ध्रुवं स्पर्शमणिमहमभिजाने॥
सत्सु यदनुषङ्गात्परिणामे। लसति लोहकठिना रचना मे॥५८॥
सुकवीनां सूक्तिम्, उन्नतिसंपादने निश्चितं स्पर्शमणिं (पारस) अभिजाने वेद्मि। यस्या: सूक्तेरनुषङ्गात् संबन्धात् लोहवत्कठिनापि मे रचना। परिणामे अवसाने। सत्सु सज्जनेषु लसति। यथा स्पर्शमणे: स्पर्शतो लोहोपि सुवर्णं भवति, एवं पूर्वकविसूक्तिरूपं स्पर्शमणिं संसृज्य लोहवत्कठिनमलिनापि मे रचना सत्सु उपादेया जातेति भाव:॥५८॥
न गुणचयो न रसोऽस्त्यनुषङ्गी। न मम वाचि काचिन्नवभङ्गी॥
तदपि बालभाषितमिति मत्वा। शृणुत बुधा: करुणां कलयित्वा॥५९॥
अनुषङ्गी सहचर:, अर्थात् रचनयैव सहचारी। नवभङ्गी नवीना च्छटा॥५९॥
सो.-- गिरिश-गिरा-गणराज-चरणकञ्जरजसाङ्कित:॥
सेवे सुजनसमाज - मभिनवकवितारसविदम्॥६०॥
शिव-सरस्वती-- गणेशचरणकमलपरागं प्राप्य। अभिनवा या कविता, नीवनैश्छन्दोभिर्नवीन-प्रकारेण बद्धा या कविता तस्या रसवेदितारम् सत्समाजमाराधयामि। शिवादीनामनुग्रहेणैव तादृशानां विवेकिनां सेवा साध्येति॥६०॥
कुण्डलच्छन्द: (कुण्डलिया)
कविसूक्तिं नवनिर्गतां श्रवसि कुरुत कुतुकेन
कवितारसविज्ञान् विना साऽऽद्रियतां किल केन?
साद्रियतां किल केन येन विज्ञो गुणवेदी
अपटुजन: कुटिलाशयेन कविमानसभेदी।
भवदभिमुखमुपढौकितां नु परिमृशत मदुक्तिम्।
तन्मुहूर्तमवधाय बुधा: शृणुयु: कविसूक्तिम्॥६१॥
श्रवसि कर्णे। सा सूक्ति:। येन यस्मात् कारणात्। विज्ञ एव गुणान् वेत्ति तच्छीलोस्ति। कुटिलेन वक्रेण आशयेन भावेन। भवतामभिमुखम्, उपढौकितां प्रहिताम्। परिमृशत विचारयत। अवधाय अवधानं दत्वा॥६१॥
मङ्गलचत्वर: श्रीगणेश:
छप्पय
विशदमौलितलविलसदिन्दुखण्डाऽमलमण्डित
प्रचितचण्डपाखण्डखण्ड-खण्डनवरपण्डित।
पीवरशुण्डाचण्डदण्ड-दण्डितदुरिताऽऽकर
पाण्डुरकुण्डलिकलितललितयज्ञोपवीतधर।
जय एकदन्त विपदन्तकर लम्बोदर गिरिजातनय।
सिन्दूरशोणरुचिशुचिवदन मदनमथनतनुजात! जय॥१॥
सुन्दरमौलितले विलसता इन्दुखण्डेन अमलं यथा स्यात्तथा मण्डित! इति लम्बोदरस्य संबोधनम्। प्रचित: सङ्घीभूतो य: पाखण्डसमूहस्तस्य खण्डने वरपण्डित! पीवरशुण्डारूपेण प्रचण्डदण्डेन दण्डिता: दुरितसमूहा: येन तत्संबो.। पाण्डुरकुण्डलिना श्वेतसर्पेण कलितस्या ललितयज्ञोपवीतस्य धर धारक! विपदाम् अन्तकर नाशक! सिन्दूरेण शोणा या रुचि: (कान्ति:) तथा शुचिवदन सुन्दरमुख! हे मदनमथनतनुजात शिवपुत्र! त्वं जय। पाखण्डखण्डन-विपदन्तकरादिविशेषणै: अखिलविघ्रविध्वंसकतया वीरायितानुभावस्य श्रीगणेशस्य तादृदशैरोजोव्यञ्जकैरक्षरैरेव वर्णनम्। प्रसिद्धं च छप्पयच्छन्दसस्ता-दृगेवोपनिबन्धनम्। अत एव पाखण्ड-दुरित-निग्रहप्रकरणे, ओजोऽनुकूलैरक्षरै: समासैश्चोपनिबन्धनम्। भगवत: श्रीगणेशस्य स्मरणे तु देवताऽनुभावस्यैवोदयात् मृदुलो गुम्फ इति बोध्यम्। विघ्नविध्वंसने साभिप्रायाद्विपदन्तकरपदात्प्रतीतेन परिकराऽलङ्कारेणा-ऽलंकृतो देवविषयको रतिभावो व्यङ्ग्य:। वीररसाऽनुकूलेन छन्दसा मङ्गलाऽऽरम्भेण वीररसाश्रयस्य जयपुरनरेन्द्रस्य यशोवर्णनमग्रे प्रस्तोतव्यमिति सूच्यते। प्रारम्भे छप्पयच्छन्दसो ग्रहणं व्रजभाषाया: कविपद्धत्यनुसारम्। एवं च तद्भाषानुसारमेव सामाजिकैरस्मिन् ग्रन्थे दृष्टिर्देयेति पूर्वत: सूचितम्। अत एव वाक्ये विवक्षामपेक्षमाणैर्मार्मिकै: 'जय एकदन्ते’ति सन्धौ न विग्रहीतव्यम्॥१॥
कवित्त (घनाक्षरी)
सिन्दूरारुणिम्ना मञ्जुमाणिक्यानुहारी विघ्न-
बिन्दूनुपमर्द्य लसेदन्तरायहारी मे
सकलसुरासुरसमूहसुखसिद्धिकारी
सन्ततमुदेतु मनोमन्दिराधिकारी मे।
मञ्जुनाथ माद्यन्मधुपालिपरिवारी मिल-
दखिलदुरूहदु:खभारविनिवारी मे
कटतटखेलद्दानधारी स हि किं न भवे-
देकदन्तधारी सकलापदन्तकारी मे॥२॥
सिन्दूरारुणिम्ना सिन्दूररक्तिम्ना माणिक्यानुकारक:, मे मम विघ्रघ्नानां बिन्दूनपि किं पुन: समूहान् उपमर्द्य नाशयित्वा, अन्तरायहारी विघ्नविनाशक: स गणेशो लसेत्। सुखेन सिद्धिकारी सुखसिद्धयो: कारी वा। मे मम मनोमन्दिरस्याधिकारी अधिष्ठाता, संततमुदेतु, सर्वदैव ममाग्रे प्रकटोस्तु। मंजुनाथेति कवेर्नाममुद्रा, एवमग्रेपि च्छन्दस्सु बोध्यम्। माद्यन्ती (मत्ता)या मधुपालिर्भ्रमरपङ्कि: सा परिवार: परिकरो यस्य, सर्वदा गण्डमदलुब्धमधुपनिषेवितत्वात्। मे मिलन् अखिलो दुरूहो (विचारयितुमपि दु:शक:) यो दु:खभारस्तं विनिवारयति तच्छील:। कटतटे गण्डमण्डले खेलन्ती दानधारा मदधारा यस्य स:, खेलन्तं दानं धारयति तच्छीलो वा। सा एकदन्तधारको मे सकलापदाम् अन्तकारी किं न भवेत्? अपि तु दयावशत्वादवश्यं भवेदिति भाव:॥२॥
पुञ्जीभूतभूरिभृङ्गजालैर्विघ्नमालामिव
ताडयन्तमुद्यत्कर्णतालैर्ललितावहम्
दूरादेकदन्तेनैव पूरानापदानामुप-
मर्द्य विपदन्ते सुखसर्वसंपदावहम्।
मञ्जुनाथ सिन्दूरितसुन्दरसकलतनुं
सिन्धुरवदनमघसिन्धूनापदावहम्
सकलसुरासुरसमाजपूर्वपूजावहं
वन्दे विघ्नराजमहं मङ्गलमुदावहम्॥३॥
पुञ्जीभूतानि भूरिभृङ्गजालानि येषु तै:। उद्यद्भि: उद्यतै: कर्णतालै:। विघ्नमालामिव ताडयन्तम्। कर्णतालचालने विघ्नमालाताडनस्योत्प्रेक्षा। ललितं भावविशेषमावहति तम्। एकेन दन्तेनैव आपदानां पूरान्। हलन्तादाप्। विपदामन्ते विपदुन्मूलनं कृत्वेत्यर्थ:। अघसिन्धून् प्रति पापसमुद्रान् प्रति आपदमावहति तम्, पापसमुद्रशोषकमित्यर्थ:। सुरासुरसमाजस्य पूर्वपूजां वहति तम्। मङ्गलमुदौ आवहति करोति तम्॥३॥
सवैयाच्छन्द: (दुर्मिल)
विधिना वितनोमि न वै रचना-
मपि नाथ! गुणागमहीनमिमम्
अमुना शुभकार्यसदारिपुणा
बत विघ्नभरेण विलीनमिमम्।
अयि मञ्जुलनाथ! नवीनकृता-
वधुना यतमाननवीनमिमम्
गणनातिगसद्गुणनायक भो
गणनाथ सनाथय दीनमिमम्॥४॥
विधिना शास्त्रनियमानुसारम्। गुणै:, आगमेन शास्त्रज्ञानेन च हीनम्। इममिति सर्वत्र स्वस्य निर्देश:। शुभकार्याणां सर्वदा रिपुणा विघ्नभरेण। नवीनायां नवीनमार्गेण परिचालितायां कृतौ रचनायाम्। यतमानं नवीनम्, इमम् (माम्)। गणनामतिगच्छन्ति उल्लङ्घयन्ति ये सद्गुणास्तेषां नायक। इमं दीनं (माम्) सनाथय नाथसहितं कुरु॥४॥
* सरस्वती *
मौक्तिकदामच्छन्द: (मोतीदाम)
विनन्दतु नीलसरोरुहचारु
पदद्वयमुक्तिविकासनकारु।
यत: किल कीलितकुण्डलिधाम
व्यभादिव मञ्जुलमौक्तिकदाम॥५॥
नीलसरोरुहवत् चारु सुन्दरम्। उक्तीनां सूक्तीनां विकासने कारु शिल्पि। पदद्वयं चरणद्वयम्। विनन्दतु मयि प्रसन्नं भवतु। यत: यस्मिन् (सार्वविभक्तिक:)। कीलितं निबद्धं कुण्डलिनां सर्पाणां तेज:। मञ्जुलं मौक्तिकदामेव, सुन्दरा मौक्तिकस्रगिव। व्यभात् अशोभत्॥५॥
क.-- करुणावलोकलेशमञ्जसाधिगम्य जना
मह्यन्ते महीपै: कृतमानना निरन्तरम्
शारदशशाङ्कशोभिसुघटितदेहलता
जडतां निहन्ति याऽर्थसाधना निरन्तरम्।
मञ्जुनाथ वीणागुणरणननियुक्तकरा
तिमिरहरा या कमलासना निरन्तरम्
विद्वदवतंसपरिशंसितगभीरगुणा
शंसतु शुभानि हंसवाहना निरन्तरम्॥६॥
करुणादृष्टिलवम्, अञ्जसा शीघ्रम्। कृतमानना: कृतसंमाना: सन्तो महीपै: मह्यन्ते पूज्यन्ते। सुघटिता शोभनाकारा देहलता यस्या: सा। अर्थसाधिका। वीणागुणानां तन्त्रीणां रणने वादने नियुक्तौ लग्नौ करौ यस्या:। शुभानि शंसतु सूचयतु ददातु॥६॥
* छप्पय *
सुरपतिमुखसुरसङ्घसिद्धसेवितपदकमला
सकरुणनयनविलोकलेशलोपितभवशमला।
कोविदगणजेगीयमानमहिमा बहुमानम्
कवितारम्योद्यानपरिष्कारैकनिदानम् ।
कविनिवहान्निर्भरमियं या चिरममरत्वं नयति
शारदेन्दुसुन्दरतनु: सा किल वाग्देवी जयति॥७॥
सुरपतिमुखै: इन्द्रादिभि: सुरसङ्घै: सिद्धैश्च सेविता। सदयदृष्टिलेशतो लोपितो भवशमल: सांसारिक-मलो यया। बहुमानं यथा स्यात्तथा कोविदगणैरतिशयेन गीयमानो महिमा (माहात्म्यम्) यस्या: सा। परिष्कारस्य मण्डनस्य, एकनिदानं प्रधानकारणम्। अनुग्रहं विना सहृदयहृदयविद्रावकं कवित्वं न भवतीति भाव:। कविनिवहान् कविसमूहान्। या इयं सरस्वती चिरकालं यावत् निर्भरं दृढं अमरत्वं प्रापयति॥७॥
* नीलसरस्वती*
यस्य हि रजोऽधिभालमालिम्पन्ति देवा अपि
के वा वयमस्य महिमानं श्लाघितास्महे
यस्य स्मृतिमात्रतोऽवबुद्धभूरिभावा वयं
कविताकलायां न हि जातुचिदुदास्महे।
मञ्जुनाथ कुण्डलिकलितमञ्जुमञ्जीरक-
मेतत्सूक्तिसंजीवनमाराधयितास्महे
इन्दीवरशोभाभरहरणमुदूढभूरि-
करुणमुदारं चारु चरणमुपास्महे॥८॥
यस्य चरणस्य रज: धूलिम्। अधिभालं भाले। अस्य चरणस्य माहात्म्यं वयं के श्लाघितास्महे, किं प्रशंसिष्याम् इत्यर्थ:। अवबुद्धभूरिभावा: जागरितनवनवभावा:। कवित्वशिल्पे कदाचिदपि न उदास्महे न उदासीना भवाम:। कुण्डलिभि: कलिता मञ्जवो मञ्जीरका नूपुरा: यस्मिन्। सूक्तीनां संजीवनौषधभूतम्। उदूढा धारिता भूरिकरुणा येन तत्। उदारं वदान्यम्॥८॥
* हयानन: *
उन्मीलत्प्रसन्नमुखमुद्यन्मणिसद्मान्तरे
पद्मासनासीनमृजुकायतमाशासेहम्
हस्तेष्वक्षमाला-ज्ञानमुद्रा-पुस्तकानि तमो-
विद्रावकशङ्खमावहन्तमनायासेहम्।
निगमविलासावनिं नासापुटनि:श्वसितै-
र्यत्पन्नखभासा साधुसूरिषु समासेहम्
वाचामधिपेन समासेव्यपादपङ्केरुह-
मुक्तीनां विकासे हयवदनमुपासेहम्॥९॥
उन्मीलत् प्रकाशमानं, प्रसन्नं मुखं यस्य तम्। उद्यत: प्रकाशं गच्छतो मणिसद्मनो रत्नगृहस्यान्तरे। पद्मासनेन आसीनम्। ऋजुक: सरलश्चासौ आयतश्च तम्। ध्यानमुद्रायां मेरुदण्डस्य ऋजुस्थापनेन तथैव स्थिते:। यथा कालिदास: - 'ऋज्वायतं संनमितोभयांसम्’। ईदृशं हयास्यमहं आशासे आशास्यत्वे-नाभिप्रैमि। तमसो विद्रावकं दूरीकारकं शङ्खं च। आवहन्तं धारयन्तम्। अनायासा आयासरहिता ईहा इच्छ यस्य तम्। सहजाभिलाषेण सर्वं साधयन्तमित्यर्थ:। श्वासै: निगमविलासस्य वेद-विलासस्य भूमिम् उत्पादकमित्यर्थ:। यत्पन्नखयस्य पादनखस्य कान्त्या। अहं समासे तिष्ठामि। सम्पूर्वकादास्-धातोर्लडुत्तमैकवचनम्। उक्तीनां विकासे सूक्तिसमुल्लासे॥९॥
* श्रीकृष्ण:*
मौलौ मुकटेन वरवेणुनाप्यधरपुटे
कक्षे लकुटेन भूरि भासते निरायतम्
कण्ठे वैजयन्त्या मञ्जुमालया विराजतेऽथ
बाह्वोरुपकण्ठे हीरकेयूरैरबाधितम्।
मञ्जुनाथ मध्ये मण्डितोस्ति पीतकौशेयेन
गुल्फे मञ्जुमञ्जीरेण शोभितोस्त्यनाहतम्
दलदरविन्दोपमकोमलचरणयुगो
राधिकागोविन्दो मयि दयतामनारतम्॥१०॥
निरायतम् दीर्घं, अत्यन्तमित्यर्थ:। बाह्वोरुपकण्ठे भुजयो: प्रान्ते। हीरकनिर्मितै: (भुजभूषणै:) अबाधितं निरर्गलं विराजते। गुल्फे पदघुटिकयो: चरणयोरित्यर्थ:। अनाहतं अनिरुद्घम्। दलम् विकसत् यदरविन्दं तद्वत्को.। राधिकायुक्तो गोविन्द:। संज्ञा हि श्रीमतो जयपुरोपास्यस्य॥१०॥
* त्रिभङ्गीच्छन्द:*
यमुनातटचारी विपिनविहारी सुरसुखकारी दृशमयताम्
वृन्दावनवासी वेणुविलासी सुकृतविकासी संनयताम्।
यो विभवविधायी रुचिपरिचायी वाञ्छितदायी स्मृतिमयताम्
स हि ललितत्रिभङ्गी निजजनसङ्गी रतिरसरङ्गी मयि दयताम्॥११॥
दृशमयतां दृष्टिम् आगच्छतु। सुकृतिन: विकासयति उन्नमयति स:। संनयताम्, मयि संनत: अनुकूलो भवतु। रुचिं परिचिनोति, भक्तिं परीक्षते स:। स्मृतिम् अयतां प्राप्नुवतां, स्मरणं कुर्वतामिति यावत्। निजजनसङ्गी भक्तसहायक:। रतिरसे शृङ्गाररसे रङ्गी अनुरागी॥११॥
* श्रीशिव:*
कर्पूरावदाते सर्वसुषमानुयाते यस्य
वपुषि बिभर्ति नागराजिराभरणताम्
तरुणशशाङ्कशोभमाननिटिलस्य यस्य
कण्ठे क्ष्वेडचिह्नं याति मृगमदसमताम्।
रञ्जने समस्तभुवनानामपि ताण्डवेन
पापपुञ्जभञ्जने जनानामभिनमताम्
जाह्नवीतरङ्गचयसङ्गतकपरर्द्दधरे
मानसमनङ्गदर्पदमनेऽभिरमताम्॥१२॥
सर्वसुषमानुयाते सर्वशोभानुगते। निटिलो भाल:। क्ष्वेडचिह्नं विषचिह्नम्। ताण्डवेन समस्तभुवनानां रञ्जने प्रीणके। तरङ्गचयेन तरङ्गसमूहेन सङ्गतो मिलितो य: कपर्द्दो जटाजूटस्तद्धरे॥१२॥