नगरवीथी
* अथ जयनगरीवर्णनम् *
कौतुकितनागरनिरुद्धपृथुवीथिपथा
सुन्दरीसमूहरुद्धवातायनवर्गा या
कुञ्जरतुरङ्गरथरुद्धराजमार्गतटा
निशितशतध्वनीशतनित्यरुद्घदुर्गा या।
मञ्जुनाथ महितमहार्घवस्तुरुद्धापणा
रुद्धराजमार्गमध्यसिद्धभूरिभर्गा या
श्रीमन्मानभूपभुजदण्डरुद्धबाधाभरा
जयनगरी सा भाति रुद्धपुरसर्गा या॥१॥
नगरवासिभिर्निरुद्धो विशालवीथिपथो (रथ्यामार्ग:) यस्या: सा। शोभादर्शनार्थं स्त्रीभिरध्यासित-गवाक्षा। शतघ्नीशतै: 'तोपशतै:’ नित्यं रुद्घानि व्याप्तानि दुर्गाणि यस्या: सा। रुद्धं राजमार्गमध्यं यैस्तादृशा: सिद्धा: भूरिभर्गा: बहव: शिवा यस्यां सा, जयपुरराजमार्गमवरुध्य बह्व्य: शिवमन्दिरगुल्मटिका: सन्तीति। रुद्ध: पुराणां सर्ग उत्पत्तिर्यया, जयपुरीनिर्माणोत्तरं तादृशी सुन्दरी पुरी निर्मितैव नेति सूच्यते॥१॥
सुदृढ़-सुदृश्य-सुविशाल-सालसंवलिता
गोपुर-पिनद्धपुरमहिम-महीयसी
रुचिरचतुष्पटीविभागभिन्नराजपथा
राजति समन्तात्सौधराजिरतनीयसी।
मञ्जुनाथ तुङ्गतमदेवालयदन्तुरिता
शौभावैभवेऽस्या: पुनरलका कनीयसी
मानमेदिनीन्द्रमणिशासनसमृद्धसुखा
जयनगरीयं सर्वनगरीगरीयसी॥२॥
सालेन प्राकारेण संवलिता। गोपुरेण पुरद्वारेण पिनद्धं युक्तं यत्पुरं तन्महिम्ना सौष्ठवेन महीयसी महिता। चतुष्पटीनाम् (चौपड़) विभागेन भिन्ना: विभाजिता राजमार्गा यस्यां सा। यस्यां समन्तात् अतनीयसी (महती) सौधराजि: राजति। दन्तुरिता, उन्नतदन्तयुक्तेव, शोभितेति यावत्। कनीयसी लघीयसी। सर्वनगरीभ्यो गरीयसी गुरुतमा॥२॥
प्रावृषि प्रसारिजलवेणी-मञ्जुलोपवनी
नन्दनवनीव दिव्यनेत्रै: परिपेयासौ
कारुकार्यखचितसुरम्यसौधमालायुता
वैभव-विशाला नूनमलकोपमेयासौ।
मञ्जुनाथ मोदान्नित्यमुत्सवसमाजैर्भृता
निकटगतापि पूर्वपुण्यै: परिचेयासौ
भारतीय 'पैरिस’पुरीव परिलोक्या भृशं
जयपुरपुरी मे भूरिभाग्यैरभिधेयाऽसौ॥३॥
वर्षाकाले प्रसरन्तीभिर्जलकुल्याभिर्मनोरमा उपवनिका यस्यां सा। नन्दनवनी यथा दिव्यनेत्रै: स्वर्गस्थानां नयनै: परिपेया सातिशयं वीक्ष्या, तथा जयपुर्यपि दिव्यनेत्रै: (शोभादर्शने पटुनयनैर्जनै:) दर्शनीया। प्रजाकृतै: उत्सवसमाजै: गोष्ठी-परिक्रमा-भोजनपंक्ति-प्रभृतिभिर्नित्यं भृता। निकटगतापि.- अस्यां पुर्यां निवसन्तोपि ये भाग्यवन्तो भवन्ति त एवास्या: सौष्ठवपरिचयं प्राप्नुवन्तीत्याशय:। पैरिसपुरी सौन्दर्यार्थं विश्वविश्रुता, ततश्च सेयं भारतस्य पैरिसपुरी। मम सौभाग्यादेव सेयं वर्णयितव्याऽभवदित्यर्थ:। 'जैपुरपुरीति’ हिन्दीवाच्यापि संस्कृते 'जयपुरपुरी’ति लिखिता। वर्णवृद्धि: सह्या॥३॥
* हरिगीतिकाच्छन्द:*
उत्तुङ्गपुरगोपुरनिवेशविशालवीथिधृतोद्धवा
श्रेणीनिबद्धसुचारुविपणिपथेषु जनकलकलरवा।
नृपवाट-वीथि-विटङ्क-चारुचतुष्पटीरचितोत्सवा
जहती तुलां जगतीतले जयतीह जयनगरी नवा॥४॥
उत्तुङ्गानां पुरगोपुराणां निवेशेन, विशालाभिर्वीथिभि: (मार्गै:) च धृत: उद्धवो हर्षो यया सा। श्रेणीनिबद्धेषु सुचारुषु विपणिपथेषु (पण्यवीथिषु) क्रयविक्रयौ कुर्वतां जनानां कलकलरवो यस्याम्। नृपवाटै: राजमार्गै: राजप्राकारैर्वा, वीथिभि:, विटङ्कैर्हर्म्याणामुन्नतभागै:, चारुभि: चतुष्पटीभि: ('चौपड’ इतिख्यातै: राजमार्गचतुष्पथैश्च) रचित: उत्सवो यया। 'विटङ्क’ शब्द उन्नतस्थलार्थे प्रयुज्यते। यथा 'समस्तसामन्तकिरीटवेदिका-विटङ्कपीठोल्लुठितारुणाङ्गुलि’ बाण:। तुलां जहती अनुपमा, अत एव नवा सर्वनगरीभ्यो नवीना, जयनगरी इह भूमितले जयति॥४॥
दो.-- अनुपमशोभावैभवाद्वर्णनपथमतियाति।
सा सुरनगरीजयकरी, जयपुरनगरी भाति॥५॥
वर्णनपथम् अतियाति वर्णयितुमशक्येत्यर्थ:॥५॥
* जयपुरनगरस्य संक्षिप्तेतिवृत्तम् *
श्रीजयसिंहमहाराजस्य समये 'आम्बेर’ नगरस्य वसतिरतीव संकुला समभवत्। पूर्वं तु पर्वतोद्देशस्तत्रापि स्थानसंकीर्णतेति तत्र निवासे लोकानां क्लेशानुभवोऽभवत्। श्रूयतेऽपि किंवदन्ती-- सम्राजा पृष्टं पर्वतस्थल्यामाम्बेरनगरं केन स्वरूपेण वसतीति। तदा दाडिमं उत्त्वचीकृत्य दर्शितं यत् एकगृहसंमिलितमपरं गृहमिति संकुलतातिशयात् उपर्यधोभावेनोप-विष्टमिति। अस्तु, अश्वमेधयज्ञस्य वर्षत्रयोत्तरं परमचतुराणां निजसचिवानां संमत्या स द्वितीयं नगरं निवासयितुं व्यचारयत्। तदनुसारं संवत् १७८४ पौषवदि अष्टम्यां शनिवासरे (सन् १७२७ ता. २५ नवम्बर अथवा १८ नवम्बर) जयपुरनगरस्य शिलान्यासोऽभवत्। एतस्य नगरस्य निवासनार्थं न केवलं भारतस्यैव अपि तु दूरदूरवर्तिदेशान्तराणामपि नगरनिवेशशिल्पिनो निमन्त्रिता अभूवन्। सर्वैरपि शिल्पिभि: स्वस्वबुद्ध्या पूर्वं मानचित्राणि रचितानि। तेष्वेकं मानचित्रं सर्वसंमत्या स्थिरीकृत्य तदनुसारमिदं नगरमावासितमभूत्। राजमार्गा अतिविशाला अक्रियन्त, गृहाणां सविधतो विशिखा: (गली) स्थापिता:, येन वायुसंचारस्य प्रतिरोधो न भवेत्। राजमार्गाणामुभयपार्श्वे पंक्तिबद्धानि प्राय: समानाकाराणि विशालभवनान्यावासितानि। राजमार्गाणां मध्यतश्च चतुष्पथा निर्मिता येषु जलधारायन्त्राणां निवेश: संभवेत्। राजमार्गाणां समुचितस्थानेषु विशालानि देवमन्दिराणि, तथा नगरस्य मध्यत: सन्तोपि नगरात्पृथग्भूता इव महाविशाला राजप्रासादा निरमीयन्त। एतस्य नगरस्य निवेशने राजकोषतो बहुकोटिमुद्राणां व्ययोऽभवत्। नगरनिवेशक्रमे त्रीन् वारांश्च परिवर्तनान्यभूवन्।
इदं निवेशनैपुण्यं न किलैकस्य मस्तिष्कस्य कार्यम्। एतन्महाकार्यस्य संपादनार्थं महाराजेनैका समितिरेव निरमीयत। जयसिंहमहाराजस्य सचिवेष्वेको वङ्गदेशीयोप्यासीत्। तस्य लघुभ्राता विद्याधरनामकोऽभवत्। स तावदस्या मण्डल्या: प्रमुखोऽभूत्, परं सर्वतोप्युपरि महाराजस्य विलक्षणा प्रतिभैव कार्यं चकार। महाराजस्य नगरनिर्माणसम्बन्धि अद्भुतज्ञानं सर्वेपि दूरदेश्या: शिल्पिनो मुक्तकण्ठं प्रशंसन्ति। एतज्ज्ञानस्य प्रत्यक्षं प्रमाणमिदं नगरमेवास्ति।
स समय: केवलं राजपुत्रप्रदेश एव किं संपूर्णे भारतवर्ष एव युद्धाक्रमणादिभिर्घोरतर: समभवत्। महाराजो जयसिंहश्च मोगलसम्राजां राज्यरक्षकोऽभूत्। अत एव एतत्प्रदेशोपरि सर्वदैव विपक्षाक्रमणस्य भयमभवत्। तत एव महाराजेन येयं नवा राजधानी निर्मापिता तस्यां प्रारम्भादेव दुर्गाणां निर्माणम्, गोपुरेषु शतघ्न्यादीनां निवेशार्थं स्थानविशेषविरचनम्, नगरस्योपान्तेषु रक्षादुर्गाणां निवेश:, नगरगोपुराणां मुखभाग एव पुररक्षकतया प्रबलानां सामन्तानां संनिवेश:, नगरप्राकारस्य बाह्यतश्चूर्ण-पाषाणादितो निर्माणेपि नगरे अभ्यन्तरे बालुकामयस्य स्थापनं येन शतघ्नीगोलक: प्राकारं निर्भिद्य नगरे गन्तुं न शक्नुयात्, इत्येवंप्राय: सर्वप्रकारक: समरसंनाह एव कल्पितोऽभवत्। सर्वसारस्त्वयम्-- यथा साम्प्रतमिदं नगरं शिल्प-सौन्दर्य-वैभवादिमण्डितमनुभूयते तथा तस्मिन् समये शौर्यरसमयमेवालक्ष्यते स्म। अत एव श्रीजयसिंहमहाराजसंमानितैरस्मत्पूर्वजै: श्रीश्रीकृष्ण-भट्टकविकलानिधिभि: स्वचक्षुषोरग्रे निवेशिताया अस्या राजधान्या वीरतामयमेव वर्णनं कृतम्। यथा--
''नित्यज्यारूढचापा स्थिरतरवरधानुष्कता सद्ध्वजाढ्या
नि:सानश्री: समन्ताद्वशितजनमना व्योम्नि नग्नासिधारा।
प्रोदश्चच्छक्तिलीला मदगजगतियुग् जैत्रवाद्यानुनादा
जाग्रत्कामाधिराज्या जयति जयपुराख्या नवा राजधानी॥’’
प्रोदञ्चन्ती शक्रे: (सामर्थ्यस्य, भगवत्याश्च) लीला यस्यां सा, ततश्च सर्वाण्यपि विशेषणानि नगर्यां भगवत्यां चान्वेष्यन्तीति किं वा मार्मिकेषु कथनेन। जाग्रती कामस्य अधिराजता यस्यां सा (भगवती)। जाग्रती'कामा’ नार्म्या नगर्या: अधिराजता यस्यां सा (नगरी), पूर्वं हि कामा (कामवन) स्थानाधीशो जयपुरे अधिराजोऽभवत्। इदानीमिदं स्थानं भरतपुरराज्यान्तर्गत-मस्ति।
* नगरस्थानानि *
राजप्रासाद: 'चन्द्रमहल’
(कवित्त)--दूरतो निरीक्ष्यहारिहाटकपताकायुतं
पीतरङ्गरञ्जितमुपरितले वीक्ष्यताम्
राजज्जालवातायन-वलभी-निषङ्गगृहं
विस्मयावहं यच्छिल्पवैभवे परीक्ष्यताम्।
मञ्जुनाथ मर्मरनिबद्धस्तम्भ-भूमितलं
भाति निस्तुलं यत्सप्तभूमिकं समीक्ष्यताम्
वैभवबहलमनियन्त्रितमहलमपि
सामन्ताभिगुप्त'चन्द्रमहल’मवेक्ष्यताम्॥६॥
दूरतोपि निरीक्षणीयाभि: सुन्दरसुवर्णपताकाभिर्युतम्। उपरितले ('ऊपर का खन’)। पीतरङ्गेण रञ्जितम्। साम्प्रतं रङ्गाणां परिवृत्ति: कृता। राजन्त: शोभमाना: जालवातायनानि, वलभीगृहा: उपरिगृहा:, निषङ्गगृहा: संबद्धगृहाश्च, यस्मिन्। मर्मरपाषाणै: निबद्धा: स्तम्भा भूमितलाश्च यस्मिन्। निस्तुलम् अनुपमं यत् सप्तभूमिकं सप्ततलं भाति इति समीक्ष्यताम्। सप्ततलानां नामानि क्रमश:-- १. चन्द्रमन्दिरम्, प्रियतमनिवास:। २. सुखनिवास:। ३.रङ्गमन्दिरम्। ४. शोभानिवास:। ५. छविनिवास:। ६. श्रीनिवास:। ७. मुकुटमन्दिरम् (मुकुटमहल) इति। नीचैस्तलं चन्द्रमन्दिरं जयपुरस्थापकेन सवाईजयसिंहमहाराजेन, अन्यानि तु ईश्वरीसिंह-माधवसिंह-प्रतापसिंहैर्निर्मापितानि, रामसिंहमहाराजेन च सर्वेषां परिष्कार: कृत:। वैभव-बहलं प्रचुरवैभवम्। अप्रतिरुद्धान् महान् उत्सवान् लाति, नित्योत्सवमित्यर्थ:। सामन्तै: अभिरक्षितम्, एतस्य हर्म्यस्य निरीक्षणाधिकृता भूम्यधिकारिण: सामन्ता: सन्तीति राजकीयनियम: सूचित:॥६॥
* प्रियतमनिवास: *
चित्रिता चतुर्दिक् गुल्मगुम्फितगवाक्षशतै-
र्वल्गुवेश्यमाला व्यूढजाला वीक्षणीयासौ
राजकीयशस्त्रागारपार्श्वे हरिद्वातायने-
ऽहर्निशं प्रवृत्ता गुणिगीति: श्रवणीयासौ।
नृत्यद्बर्हिचित्रचमत्कारं पुरो द्वारं वीक्ष्य
मध्ये विद्युदिद्धाऽऽलोकलेखा लक्षणीयासौ
शिल्पकलोल्लास-भूरिवैभवविलास-भृता
प्रियतमनिवासहर्म्यमालाऽऽलोकनीयासौ॥७॥
गुल्म-('बुर्ज़’)मण्डितै: गवाक्ष-('झरोखा’) शतै: चित्रायिता, चित्रे विलिख्य प्रकटितेव। व्यूढजाला धृतजाला ('जाली’) सुन्दरहर्म्यमाला। राजकीयशस्त्रागारस्य 'सिलहखाना’ पार्श्वे, हरिद्वातायने 'हरा बँगला’ इति प्रसिद्धे। गुणिनां गानकलावतां गीति:। तत्र हि समयपर्यायेण राजाश्रितानां गायकानां गानं सर्वदैव समभवत्। अधुना स्थानादिषु परिवर्तनं जातम्। नृत्यतो बर्हिणश्चित्रस्य चमत्कारो यस्मिन्। 'प्रीतमनिवासे’ति प्रसिद्धापि संस्कृते सा शुद्धं विलिखिता। अत्रापि वर्णवृद्धि: सह्या॥७॥
* श्रीगोविन्ददेव: *
संमुखमसङ्ख्यजलधारायन्त्रशोभितलं
गगनविचुम्बि चन्द्रमहलं न वीक्षसे
शीलय समन्तादेतमारामं सुखेन सखे
मन्दिरमखेदमिदं किं वा न समीक्षसे?।
राजहर्म्यमालामवलोकितुमुपागतोऽपि
जयपुरराजचन्द्रशालां न परीक्षसे?
वञ्चितोसि विन्दन्नपि वेलां भो वयस्य, दृशा
निर्जितारविन्दं न चेद्गोविन्दं निरीक्षसे॥८॥
असंख्यै: जलधारायन्त्रै: 'फुँहारे’ शोभमानं तलं यस्य ईदृशं 'चन्द्रमहलं’ संमुखं न वीक्षसे? अपि तु वीक्षसे एव। अखेदं यथा स्यात्तथा किं न समीक्षसे? अथवा अखेदं मन्दिरम्। पर्यन्तत: आराम: मध्ये चेदं मन्दिरमिति स्थानसंनिवेशो दर्शित:। राजहर्म्यमालां द्रष्टुमागतेन जनेन जयपुरराजस्य श्रीगोविन्दस्य चन्द्रशाला (उत्कृष्टगृहम्)अवश्यं परीक्षणीया। त्वं तु तां चन्द्रशालां न परिचिनोषि, आश्चर्यम्। प्राचीनरीत्यनुसारं जयपुरराज्यस्य राजा श्रीगोविन्ददेव:, जयपुरशासको नृपस्तु तस्य आमात्य: 'दीवान:’। अत एव राज्ञ: शासनपत्रेषु 'दीवानवचनात्’ इत्युल्लेखोऽद्यापि प्रचलति। वेलाम् दर्शनसमयं प्राप्नुवन्नपि यदि दृशा (नयनाभ्याम्) विजितकमलं गोविन्दं न वीक्षसे, तर्हि वञ्चितोसि॥८॥
इयं प्रतिमा पूर्वं वृन्दावनस्थे मन्दिरे आसीत्। यवनसम्राजा औरङ्गजेबेन यदा मानसिंह-निर्मापितस्य तन्मदिरस्य उपरितलं शतध्नीगोलकेन त्रोटितं तदा प्रतिमादिकं सर्वं तन्मन्दिराद-पसारितम्। पूर्वं सेयं गोविन्दमूर्ति: आम्बेरस्य घाटिकायां निर्मापिते मन्दिरे प्रतिष्ठिता। ततो जयपुरनगरस्य प्रतिष्ठापने सति जयपुरराज्यस्य राजा सन् भगवान् गोविन्दो राजहर्म्येष्वेवातिष्ठत्। सवाईजयसिंहमहाराजेन चेयं मूर्तिर्जयपुरे प्रतिष्ठापिता। एतस्या ध्यानादिकं मङ्गले गोविन्दवीथ्यां साहित्यवैभवस्य देवभावप्रकरणे च द्रष्टव्यम्।
* 'सिरहड्योढ़ीबाजार’*
[चतुष्पटीमारभ्य नाटकशालापर्यन्त: स्थानसंनिवेश:]
वामतो बहल'हवामहल’मवेक्ष्य ततो
दक्षिणत: शिक्षागृहमुन्नतमवेक्ष्यताम्
अभ्रंलिहराजमन्त्रिन्यायालयमेक्ष्य तत:
संस्कृतसुविद्यापाठशालासौ परीक्ष्यताम्।
मञ्जुनाथ राजहर्म्यगोपुरप्रवरमाप्य
कल्किमन्दिरस्थं भेरिभवनं समीक्ष्यताम्
जयपुरराजटङ्कशालासंमुखीना सखे
श्रीरामप्रकाशनाट्यशाला क्षणमीक्ष्यताम्॥९॥
चतुष्पटीं पृष्ठे कृत्वा उत्तरमुखं गच्छता त्वया वामत: वामभागे बहलं विशदं हवामहलं वीक्ष्य। शिक्षागृहं 'कालेजियट हाईस्कूल’। राजमन्त्रिन्यायालय:-प्राचीन 'कौसिलभवनम्’ अधुना तु 'चीफकोर्ट’। राजहर्म्यस्य गोपुरप्रवरम् प्रधानं गोपुरम् 'सिरह-ड्योढ़ी’। जयपुरराज्यस्य टङ्कशालाया: 'टकसाल’ संमुखीना संमुखस्था॥९॥
* 'हवामहलम्’ *
गगनविचुम्बि-चित्तहारि-चारुचूडायुतं
मौलिविनिरूढानेककेतनमुदीक्ष्यताम्
रुचिरकपाटपरियातातुलशोभाशालि-
वातायनजालमहो सस्पृहं समीक्ष्यताम् ।
मञ्जुनाथ पाटलसुरङ्गसप्तखण्डमिदं
तुङ्गतया मन्ये मेरुखण्डमिवोत्प्रेक्ष्यतां
सततमवारितसमीरणप्रवाहवहं
नृपतिनिवास-हवामहलवेक्ष्यताम्॥
चूडाशिखरदेश: मौलौ शिखरदेशे स्थापितानि अनेककेतनानि (ध्वजानि) यस्मिन्। रुचिकपाटै: परियातम् अतुलशोभाशालि वातायनजालं यस्य तत्। अवारितम् अप्रतिरुद्धं समीरणप्रवाहं वायुसंचारं बहति तादृशम्। नृपतिनिवासोचितम् उत्कृष्टा राजान: प्राघुणिका: सन्त: अस्मिन् तिष्ठन्तीति सूचितम्। उदयपुरस्य महाराणामहोदय: प्रायोऽस्मिन्नेव न्यवसत्।
नेदमेकं हर्म्यमपि तु तु हर्म्यमाला। एतस्या अग्रभागे महाविशालं प्राङ्गणम्। यत्र हि माधवसिंहमहाराजस्य (अर्वाचीनस्य) समये प्रायो ब्राह्मणभोजनादिको भूरिभोजनप्रसङ्गो निरवाह्यत। सेयं सौधमाला प्रतापसिंहमहाराजेन निर्मापिता।
* रामप्रकाश 'टाकीज’ (नाटकघर)*
श्रीमद्रामसिंहमहिपालकलाप्रेमबला-
त्पूर्वं यत्र नाट्यकलाऽखेलल्लसदिन्दिरे
भारते प्रशस्ततमनाट्यरङ्गमञ्चे व्यभा-
दिन्द्रसभा 'गैस’रुचिचञ्चच्चारुचन्दिरे।
संप्रति नवीनयुगरुच्या नारनाट्यस्थले
चित्रनाट्यमीक्षे चलज्जल्पच्चित्रबन्धुरे
तुङ्गतया विशदतया च परमन्दरेऽस्मिन्
सुन्दरे रमस्व नवनाट्यकलामन्दिरे॥
लसदि.-- लसन्ती इन्दिरा (राजलक्ष्मी: शोभा वा) यत्र, तस्मिन् (नाट्यमन्दिरे) नाट्यकला अखेलत् पदे-पदे प्रकाशते स्मेत्यर्थ:। गैसरुचि.-गैसप्रकाशेन चमत्कुर्वन् चारु: चन्दिर: (चन्द्र इव) यस्मिन्, 'इन्द्रसभा’ (इन्द्रस्य साक्षात् सभा, तन्नामकनाटकं च) व्यभात् विभाति स्म। चलज्जल्प.-- चलद्भि:, परस्परं संलपद्भिश्च चित्रैर्बन्धुरं (सुन्दरे)। परमन्दरे द्वितीये मन्दरे मन्दरपर्वतसदृशे॥
* माधवविलास: *
राजमल्लतरलतडागप्रस्रवेण मही
मेदुरमहीरुहैर्महिष्ठाऽभूत्पुराऽद्भुतम्
राजोचितचारुचन्द्रशाला-जालवातायने
भूपभवनेऽस्मिन् यन्त्रपुत्रिकाभिराततम्।
संप्रति समर्हणीय 'मायुर्वेदकालेजेन’
मानमहीपाले यस्य चोन्नतिरनारतम्
माधवमहीपकृतन्यासमपि मानोद्भास-
माधवविलासमेनमासादय साम्प्रतम्॥
यन्त्रपुत्रिका: पाषाणघटिता जलयन्त्रपुत्तलिका:। कृतन्यास.-- माधवमहीपेन कृत: शिलान्यासो यस्य। मानोद्भास.-- मानात् मानमहीपालात् उद्भास: समुन्नतिर्यस्य।
* दुन्दुभिभवनम् 'नौबतखाना’ *
संनिहितसाधुसौधगुल्मानि प्रतिध्वनयन्
ध्यनयन् गवाक्ष-गोपुराणामिदमन्तरम्
प्रसरदमन्दमरुद्वेगभरैर्भ्रान्त्वा भूरि
भूपभवनेषु भवन् भूयो मदमन्थरम्।
मञ्जुनाथ मानमेदिनीशजयघोषवहो
वदति समन्तादहोरात्रसमयान्तरम्
द्वेषिगणदेशे दिशन् भीतिमिव, दर्पभरा-
द्दन्ध्वनीति दीर्घं द्वारि दुन्दुभिरबन्धुरम्॥१०॥
सौधनां गुल्मानि 'बुर्ज़’। गवाक्षाणां गोपुराणां च अन्तरं मध्यभागं ध्वनयन् गुञ्जयन्। प्रसरत: अमन्दमारुतस्य वेगभरै: परितो भ्रान्त्वा राजभवनेषु मदादिव मन्थरं यथा तथा भवन्। अह्न: रात्रेश्च समयान्तरालं वदति, अनेन राज्ञ: प्रबोध-शयन-स्नानादे: सूचनाय पञ्चवारान् दुन्दुभिध्वननं सूचितम्। भीतिमिव दिशन् भयमुत्पादयन्। अबन्धुरं नियतगत्या। दन्ध्वनीति पुन: पुनरतिशयेन नदति। अयमधिकारो यवनसम्राड्भि: प्रतिष्ठितमहाराजेभ्य एव व्यतीर्यत। यतो यतो राजानोऽगच्छन् सर्वदैव तै: साकं तदिदं दुन्दुभिवाद्यमगच्छत्। श्रूयते-सवाईजयसिंह-महाराजेन सोयमधिकारो निजकृपापात्राय रायमल्लाय (राजामलजी) अप्यदीयत, अग्रे त्वरुध्यत। दुन्दुभिभवने द्वे स्त: देशस्य राज्ञश्च, 'देश का’ 'हजूर का’। राज्ञो दुन्दुभिभवनं कल्किमन्दिरसमीपे वर्तते॥१०॥
* 'जलेब चौक’ *
[सम्राज्ञां यात्रोत्सवेषु शरीररक्षाप्रबन्धार्थमग्रत: पृष्ठे च कश्चिदवकाशोऽस्थाप्यत, अयं निर्मुक्तोऽवकाशो यवनभाषायां 'जलेब’ उच्यते। तत्प्रबन्धका: 'जलेबदार’ उच्यन्ते, येऽद्यापि नृपाश्रिता: सन्ति। प्रधानगोपुराग्रत:, अस्मिन्नङ्गणे सम्राडुचितस्य यात्राक्रमस्य सम्यक् स्थापनप्रबन्धो निर्धारितोस्तीति तथा नामनिर्देश: अधिकराणानां (कचहरी) स्थापनं तु श्रीरामसिंहमहाराजस्य समयेऽत्राभवत्]
राज्यशासनोपयोगि-विविधविभागैर्भृतं
संभृतं समन्ताद्व्यवहारैरेव निर्भ्रमम्
अन्योन्याभियोगेष्वेव नि:शेषितवद्भ्यो धनं
कारयत्कचहरीति नाम हृदयङ्गमम्।
वृक्षतले लेख्यमानलेख्यं वादशीलैरथ
वाक्कीलैर्विलुप्यमानभूरिधनमश्रमम्
मदमवलेपि-नृणां शासनबलेन हर-
ज्जयति जलेबचौकचत्वरमनुत्तमम्॥११॥
विविधभागै: 'दीवानी-अदालत-फौजदारी’ आदिभिर्भृतम्। व्यवहारा: 'मुकदमा’ परस्परा-भियोगेषु 'मुकदमा’सु धनं समापितवद्भ्यो जनेभ्य: 'कचहरी’ (कचान् केशान् हरतीति) नाम हृदयङ्गमम् मनोनिविष्टं कारयत्। वादशीलै: अभियोगं चालयद्भिर्जनै: वृक्षतले लेख्यमाना: 'अर्जीदावा-मुराफानविश्त’ आदयो लेख्या: यस्मिन्। वाक्कीलै: ('वकील’) विना परिश्रममेव अपह्रियमाणं बहुधनं यस्मिन् तत्। अवलेपिनां गर्विष्ठानां नृणां मदं शासनबलेन हरत्॥११॥
* ज्यौतिषयन्त्रशाला *
यन्त्रराजमादधाति गोलविषयेक्षितये
राशिवलयेन परिव्यक्तराशिमालासौ
द्योतय दिगंशानुन्नतांशान् रामयन्त्रमुखे
सम्राड्यन्त्रसंमुखे प्रकाशीकृतकालासौ।
श्रीमज्जयसिंह: स्वयमाविष्कुरुते स्म हि य-
ज्जयति जयप्रकाशयन्त्रात्सुविशालासौ
श्रीमज्जयसिंहदेवकीयकलाश्लाघनीय-
जयपुरराजकीयज्योतिर्यन्त्रशालाऽसौ॥१२॥
असौ (यन्त्रशाला) गोलविषयस्य ईक्षितये ईक्षणाय 'यन्त्रराज’ नामकं यन्त्रम् आदधाति। 'राशिवलय’यन्त्रेण परिव्यक्ता प्रकटीकृता राशिमाला यया ईदृशी अस्ति। प्रकाशीकृत: काल: समयो यया। यत् ('जयप्रकाश’यन्त्रम्) स्वयं श्रीमान् जयसिंहमहाराज: आविष्कुरुते स्म तादृशाद् यन्त्रात् सुविशाला असौ जयति अन्ययन्त्रशालाभ्य: प्रशस्यते। यन्त्रादिति हेतौ पञ्चमी। अन्यानि यन्त्राणि ज्यौतिषशास्त्रानुसारं महाराजेन निर्मापितानि इदं यन्त्रं तु स्वयं महाराजेनैव स्वबुद्धया आविष्कृतमिति विजये कारणम्। जयसिंहदेवसंबन्धिन्या (गहादित्वाच्छ:, देवस्य चेति कुक्) कलया निर्माणचातुर्येण श्लाघनीया। अत्र कतिपययन्त्राणामेव नामनिर्देश: कृत:। जिज्ञासुभिस्तद्विषयकं पुस्तकं यन्त्रशालाधिकृतेभ्य: प्राप्यम्। एवंविधा यन्त्रशाला जयसिंहमहाराजेन दिल्ली-काशी-उज्जयिनी-मथुरास्वपि निर्मापिता:, यासां जीर्णोद्धारोऽधुनैव जयपुरराज्येन कारित:॥१२॥
* 'कौंसिलभवनम्’ (चीफकोर्ट)*
छप्पय
विशदसभाभवनेन भूरि वैभवमुद्भरते
गगनचुम्बिचूडाचयेन चेतश्चित्रयते।
प्राड्विवाकमुख्या हि यत्र वेत्रासननिष्ठा:
विमृशन्ति व्यवहारमद्यतननियमपटिष्ठा:।
जयनगरनीतिनिर्धारणे निध्यायानिशमग्निमम्।
अपनीतियन्त्रणाभयहरं मन्त्रिमन्त्रणालयमिमम्॥१३॥
विशदेन अतिविशालोन्नतेन सभाभवनेन (हॉल) वैभवं धारयति, तद्भवनं दृष्टवैव राजवैभवस्य परिचयो भवतीत्याशय:। चूडाचयेन शिखरसमूहेन। चित्रयते चित्रं विस्मितं करोति, तत्करोतीति णिच्। प्राड्विवाकमुख्या: 'चीफ जज’। अद्यतने सामयिके नियमे (ला, कानून) पटुतमा:। व्यवहारम् अभियोगं 'मुकदमा’। कुनीतेर्दु:खस्य भयहरम् इमं मन्त्रिमन्त्रणालयम् (पूर्वतनं कौंसिलभवनम्) जयपुरनीतिनिर्णये अग्रगण्यं निध्याय पश्य। लोट् मध्यमपुरुषैकवचनम्। इदं भवनं यद्धि नवीनं भवनम् 'नया महल’ इत्यप्युच्यते श्रीरामसिंह-महाराजेन (अर्वाचीनेन) निर्मापितं किन्तु एतस्य पूर्ति: श्रीमाधवसिंहमहाराजस्य समयेऽभवत्। येन क्रमेणास्यारम्भोऽभवत्तेन क्रमेण समाप्तिर्न जाता। इदं निवासाय न शुभमिति शाकुनिकविचारेण अस्य निर्माणे तथाविधोत्साहो नाभवत्। परं तथापि जयपुरस्य प्रसिद्धप्रसिद्धभवनेषु विशेषोल्लेखनीयम्॥१३॥
* राजकीयसंस्कृतपाठशाला (संस्कृतकालेज) *
रामचन्द्रमन्दिरमुपेत्य बहिरङ्गणतो
भागद्वयतोपि नीचै: श्रेणिर्दर्शनीयासौ
उन्नततलेऽथ न्याय-व्याकरण-साहित्यादि-
श्रेणिपरिश्रेणिर्मुखभागे लोकनीयासौ।
मञ्जुनाथ पार्श्वद्वयभागे पुनर्धर्मशास्त्र-
ज्यौतिष-वेदान्त-वैद्यकक्ष्या कलनीयासौ
वेदघोषपावितपुर:स्थचन्द्रशाला शास्त्र-
वैभवविशाला पाठशाला राजकीयासौ॥१४॥
स्थानसंनिवेशो दर्श्यते-- बहिरङ्गणत: बहिरङ्गणे, सार्वविभक्तिकस्तसि:। द्वितीयतलस्य वामदक्षिणेति भागद्वयेपि नीचै: श्रेणि: प्रवेशिकाया निम्नश्रेणय: द्वितीयचतुर्थ्यादय:। तत: उन्नततले (तृतीयतले) मुखभागे द्वारप्रवेशस्यादिभागे। वेदघोषेण पवित्रीकृता पुर:स्था द्वारदेश-मौलावग्निमा चन्द्रशाला (शिरोगृहम्) यस्या: सा। अयं स्थानसंनिवेशो ग्रन्थकर्तु: पठनकालिक:। अधुना परिवर्तनं जातम्।
* उपवनरूपकम् *
एके वरसौरभसनाथा अपि रूप-रङ्ग-
गीतगुणगाथा: पाटलेवेति प्रतीक्ष्यताम्
रूपमात्रसारा: सौरभेऽन्ये कार्णिकारा इव
केचिद् गन्धभारा: केतका इव समीक्ष्यताम्।
वन्ध्या: पुन: केचिद् द्वयहीना:, क्षुपाश्छात्रा इमे
वृद्धा: कण्टकेद्धा बत रक्षावृतिरीक्ष्यताम्
नानाविधपण्डितमहीजमञ्जुमालोच्चितं
श्रीसंस्कृतपाठशालोपवनमवेक्ष्यताम्॥१५॥
एके वृक्षा: (पण्डिता:) वरेण सौरभेण सनाथा युक्ता: सन्त: रूपेण सुन्दरवर्णेनापि च गीतगुणगाथा: प्रशंसनीया:। अत एव ते 'पाटला’ ('गुलाब’) इव इति प्रतीक्ष्यताम्। पाटलपुष्पं यथा सौगन्ध्ययुक्तं तथैव रूपरङ्गाभ्यामपि प्रशंसनीयं भवति। इमे पण्डिता अपि- यथा विद्यायां प्रशस्ता: तथा रूप- रङ्गाभ्यामपि दर्शनीया:। अत एव उपवने 'गुलाब’ स्थानीया:। अन्ये रूपमात्रसारा: सौरभे तु कर्णिकारा इव शून्यप्राया:। केचिद् गन्धं प्रचुरसुगन्धं बिभ्रति तादृशा:। अर्थात् अतिविद्या-गुणयुक्ता:। शरीरं तु कण्टकाचितम्। अत एव ते केतका इव सन्तीति समीक्ष्यताम्। सौगन्ध्यादिगुणा: शरीरसौष्ठवं चेति द्वयेन हीना: केचिद् वन्ध्या एव। छात्रा: क्षुपा: स्वल्पशाखका लघुवृक्षा: 'पौदे’। वृद्धास्तु कण्टकाढ्या रक्षावृति: 'बाड’। इदानीं तु वृद्धा आन्ध्यादियुक्ता: सन्तो विश्रमं गृहीतवन्त:। पण्डिता एव महीजा: भूरुहा: तेषां मञ्जुमालया (समूहेन) उच्चितम्॥१५॥
* प्राक्तनो 'महाराजाकालेज:’ *
आगरानिविष्टविश्वविद्यालयपाठ्यक्रमा-
दाङ्गलगिरायामुच्चशिक्षा यत्र लक्ष्यते
पाठित: प्रशस्तप्रज्ञपण्डितै: प्रकामं यत्र
प्रचुर: परीक्ष्यगण: प्रत्यब्दं परीक्ष्यते।
पार्श्व एवं यस्य 'हाईस्कूल’ मवलोक्यतेऽथ
मध्ये मञ्जुनाथ मध्यकालेज: समीक्ष्यते
का लेखेन सिद्धि: कार्यकाले किल गत्वा यदि
मानमहाराजाश्रितकालेजो न वीक्ष्यते॥१६॥
मध्ये 'हाईस्कूल’ 'डिग्री कालेज’योर्मध्ये 'मध्यकालेज:’ 'इन्टरमीडियट कालेज’। अध्यापनकार्यकाले गत्वा यदि कालेजो न वीक्ष्यते तर्हि इयता लेखेन का सिद्धि:, न कापीत्यर्थ:। अयं पुरातनो वृत्तान्त:। नवीननिर्मितकालेजभवनस्य तु वर्णनमुद्यानवीथ्यां द्रष्टव्यम्॥१६॥
* हिन्दीसाहित्यपाठशाला*
सो.- यत्र जनो निशि नित्यमभ्यस्यति हिन्दीमिमाम्।
इह 'हिन्दीसाहित्यपाठशालया’ प्रीयताम्॥१७॥
'इमाम्’ पदेन वर्तमानकालिकप्रचलितहिन्दीसाहित्यस्य निर्देश:।
तथा च हिन्दीसाहित्ययसम्मेलनानुसारी पाठयक्रम: सूच्यते॥१७॥
जहाँ पढऩे वाले रात्रि को नित्य हिन्दीसाहित्य का अभ्यास करते हैं। इस 'हिन्दी साहित्य पाठशाला’ को देखकर प्रसन्न होइये॥१७॥
* 'साँगानेरी चौपड़’ *
* कवित्त *
कुत्रचित्कुसुममाल्यमण्डितमनोज्ञ-तनु:
कुत्रचित्सुवर्ण-रूप्य-भूषितवपुस्तटी
कुत्रचित्कनकतन्तुसन्ततवसनधरा
कुत्रचिल्लहरिरङ्गरञ्जितलसत्पटी।
मञ्जुनाथ नृत्यन्तीव सायं वाद्यतालवाशात्
लोककौतुकार्थं कक्षनिहितमहाघटी
निपुणनटीव लोकरञ्जनपटीयसीयं
शोभतेऽद्य साँगानेररुचिरचतुष्पटी॥१८॥
नटी कुत्रचित् कस्मिन्नपि प्रसङ्गे पुष्पमाल्यभूषितशरीरा भवति। इयं चतुष्पटी तु कुत्रचित् कस्मिन्नपि पार्श्वे मालाकारद्वारा विक्रीयमाणाभि: पुष्पमालिकाभि: शोभितशरीरा। एवं सर्वैर्विशेषणै: नटी- चतुष्पटयो: विविधरूपधारणसाम्यं बोध्यम्। नटी सुवर्ण-रजताभूषणैर्भूषितशरीरा, इयमपि विक्रीयमाणै: सुवर्णरजतैर्भूषितशरीरा। कनकतन्तव: : 'कलाबत्तू’ (गोटा किनारी वा)तत्संततवसनधरा, उभयत्र साम्यम्। लहरिरङ्गेण रञ्जित: (लहरिया) लसन्त्य: पट्यो यस्या: सा नटी। ईदृश्य: पट्य: (विक्रीयमाणा:) यस्यां सा चतुष्पटी। पूर्वं सायंकाले राजनिदेशतो वाद्यं वाद्यते स्म। तत्तालक्रमानुसारं नृत्यन्तीव, उभयत्र साम्यम्। लोकानां कौतुकाय कक्षे घटीं निधाय नटी रज्जूपरि नृत्यति। चतुष्पट्यपि, कक्षे एकस्मिन् पार्श्वे निहिता: (विक्रयार्थम्) ताम्रपित्तलादेर्महाघट्यो यस्यामीदृशी॥१८॥
* रत्नवणिग्वीथी 'जौहरी बाजार’*
अभ्रंलिहमौलिमञ्जुराजत्सौधसाधुतमा
पाटलसुरङ्गसमारक्तवेश्मवीथीयम्
मण्डितमहार्घ्यनवमण्डपिकाऽऽसन्दिगतै:
श्रेष्ठिजनैस्तुन्दिलैर्निरुद्धपण्यवीथीयम्।
मञ्जुनाथ चामीकरपुञ्जपुरुपिञ्जरिता
मञ्जुलमृगाक्षीरुद्धवातायनवीथीयम्
रत्नरुचिरोचितचिरत्नधनिवैकटिका
यत्नशतलभ्या रत्नघण्टापथवीथीयम्॥१९॥
अभ्रंलिहमौलय: (गगनचुम्बिशिखरा:), मञ्जु यथा स्यात्तथा राजन्तो ये सौधा: तै: साधुतमा शोभनतमा। पाटलरङ्गेण रक्ता वेश्मपंक्तिर्यस्या: सा। मण्डिता: महार्घ्याश्च या: नवमण्डपिका: (साइवानयुक्त तख्ते)। तासु आसन्दितगतै: ('गद्दी’ स्थितै:)। सुवर्णराशिना पुरु (प्रचुरं यथा स्यात्तथा) पिञ्जरिता पीतवर्णीकृता। रत्नकान्त्या रोचिता: (शोभिता:) चिरत्नधनिन: (चिरकालाद्घनिका:) वैकटिका: (रत्नविक्रेतार:) यस्यां सा। रत्नघण्टापथो रत्नव्यापारस्य राजमार्ग:, तस्य वीथी॥१९॥
* रत्नवीथ्या: स्थानसंनिवेश: *
उत्तरतो वस्त्रविक्रयापणपिनद्धा, ततो
दर्पणादिवस्तुव्यवसायिपङ्क्तिपथ्येयम्
मुक्तामणिमाणिक्यादियुक्ता, स्वर्ण-दुर्वर्णादि-
'गोटक’विपृक्ता द्रव्यदानाऽऽदानतथ्येयम्।
मञ्जुनाथ द्विदलादिधान्यधामधन्या, फल-
शाक-शालंमन्या वरवाहनविमथ्येयम्
याचन्नैकनैकटिकावेष्टितविपणिपथा
भाति भूरि वैकटिकाऽऽकीर्णराजरथ्येयम्॥२०॥
उत्तरत: उत्तरदिशमारभ्य (चतुष्पटीत: सांगानेरगोपुरान्त:) स्थानसंनिवेश-पूर्वं वस्त्रविक्रयापणै: (बजाज) पिनद्धा संबद्धा। दर्पणादिवस्तुव्यवसायिन: (स्टेशनरी सामान के सौदागर) तेषां पंक्त्या पथ्या शोभिता। ततोग्रे मुक्तादिरत्नव्यापारिभिर्युक्ता। (तत्संमुखस्थे वामभागे च) स्वर्ण-रजतादिगोटकै: (गोटा किनारी) संयुक्ता। 'दुर्वर्ण रजतं रूप्य’मित्यमर:। तत:, धनस्य दानादानविषये तथ्या सत्या, अर्थात् 'हुंडी-पत्री’ व्यापारपरै: 'साहूकारै’र्युक्ता। ततो द्विदल-('दाल’) आदिधान्यानां धाम ('दाल की तथा नाज की मंडी’) तेन धन्या। तत: फलानां शाकानां च शालाम् (गृहम्) आत्मानं मन्यते तादृशी, अर्थात् 'सब्जी मण्डी’ 'फ्रूट मार्कैट’ युक्ता। शालां मन्यते शालंमन्या, 'खित्यनव्ययस्येति ह्रस्व:’। श्रेष्ठैर्वाहनैर्विमथ्या अवगाह्या। याचद्भि: अनेकै: नैकटिकै: (भिक्षुभि:) आवेष्टितो विपणिपथो यस्या:। राजरथ्या राजमार्ग:॥२०॥
* धन्वन्तर्यौषधालय: *
रोगिणो निरीक्ष्यन्तेऽत्र वैद्यै: शास्त्रमर्मानुगै-
र्भेषजनिर्माणमङ्गनेऽस्मिन् सुपरीक्ष्यताम्
चतुरचिकित्सकैश्चिकित्सितोऽनुशास्त्रकम-
मातुरगणोयमातुरालये निरीक्ष्यताम्।
स्थायिधनराशिना स्थिरीकृत: प्रजानां हितो
लक्ष्मीरामस्वामियश:संमित: समीक्ष्यताम्
रोगसरिन्मग्रे जने तन्वन् तरितथ्यतुलां
धन्वन्तरिभव्यभेषजालयोऽयमीक्ष्यताम्॥२१॥
अस्मिन्नङ्गने इति चित्रादिषु स्थाननिर्देशार्थम्। अनुशास्त्रक्रमम् आयुर्वेदशास्त्र-क्रमानुसारम्। यश:संमित: यश:समान:। तरे: नौकाया: तथ्यां सत्यां तुलनां प्रकटयन्, रुग्णजनान् रोगनद्या उत्तारयन्नित्यर्थ:॥२१॥
* त्रिपोलियाराजमार्ग: *
[त्रिपोलियाभिमुखत: उभयपार्श्वयो: स्थानसंनिवेश:]
वामतो विशालराजमन्दुरानुकूलीकृता
पार्श्वे स्वर्गशूली धराधीशाऽधर्षणीयासौ
दक्षिणतो देवमन्दिराणां पुण्यपङ्क्तिरियं
श्रेणी सुन्दराणामापणानां स्पर्शनीयासौ।
मञ्जुनाथ तलिनत्रिपोलियाभिमुखमेत्य
मार्गाणां मनोज्ञता महत्ता मर्शनीयासौ
वैभवभरेण कृतराजमन:क्षोभा सखे
जयपुरराजपथशोभा दर्शनीयासौ॥२१ (क)॥
वामभागे राजमन्दुरा राज्ञोऽश्वशाला 'आतिश’। तस्या: पार्श्वे धराधीशैरपि अधर्षणीया अनभिभवनीया स्वर्गशूली 'ईसर लाट’। इयं हि जयनगरप्रतिष्ठापकस्य श्रीजयसिंहमहाराजस्य तनयेन श्रीईश्वरीसिंहदेवेन निर्मापिता। अस्या विषये बह्व्य: किंवदन्त्यो विश्रुता:। त्रिपोलियागोपुरस्य दक्षिणपार्श्वे नीलमणि-व्रजराजविहार्यादिमन्दिराणां पक्ति:। तलिनं विरलं सुन्दरमिति यावत्। मर्शनीया विचारणीया॥२१॥(क)
* स्वर्गशूली*
तुङ्गतया तारापथमेव परिरभ्य स्थिता
काञ्चनकलशचारुचूडा बत राजते
मध्ये प्रतिखण्डमेव लोहितदृषद्भि: कृता
शिल्पभृता कट्टहरश्रेणी भूरि भासते।
मञ्जुनाथ देवै: सह मन्त्रणार्थमीश्वरेण
कारितेव, यत्र रविरुचयोऽप्युदासते
मेरुशिखराणामपि धूलीकृतदर्पभरा
सेयं स्वर्गशूली स्वर्गशूलीव प्रकाशते॥२२॥
काञ्चनकलशयुक्ता चारुचूड़ा (मौलिदेश:) यस्या: सा। लोहितपाषाणैर्निर्मिता, शिल्पेन कारुकार्येण पूरिता, कट्टहरश्रेणि: 'कटहरा’ पंक्ति प्रतिखण्डं प्रत्येकतले भासते। ईश्वर: सृष्टे: पालनविषये देवै: सह यथा मन्त्रणां करोति, तथा ईश्वरेण ईश्वरसिंहमहाराजेन स्वर्गीयाणां वृत्तान्तं परिज्ञातुं देवै: सह मन्त्रणायै इयं कारितेव। इयदुन्नता यत्र गमने सूर्यकिरणा अपि उदासीनास्तटस्था भवन्ति। धूलीकृत: तुच्छीकृत: उन्नतताया: गर्वभराय या सा। स्वर्गस्य कृते शूलीव। इयदुन्नता यदस्या: कलशकोटि: स्वर्गं स्पृशति। ततश्च एतस्या उपरि स्वर्ग: शूलीप्रोत इव दृश्यत इत्यर्थ:। अथवा स्वर्गा स्वर्गता (स्वरुपपदाद् गमेर्ड:) स्वर्गपर्यन्तं शूलीव शूलाकारेव स्थिता, अत्युन्नतेति यावत्। किं वा- अद्यावधि औन्नत्ये सौन्दर्ये च स्वर्ग उपमानमासीत्, किन्तु अनया तस्य स गुणोऽपहृत:। अत एव स्वर्गस्य हृदये शूलीव व्यथयतीत्यर्थ:॥२२॥
* हनुमद्विशिखा *
सवैया
कुहचिद्बहुमोदक-मोहनथालमिलज्जलवल्लिचयाभिमुखा
कुहचिच्च चतुर्गुणिलड्डुभरै: कृतलोकचतुर्गुणिताक्षिसुखा।
बहुगन्धभरै: परितो भरिता सततोत्थितधूममिलत्परिखा
शतचुल्लिचये ज्वलदग्निशिखा द्विशिखानुगता हनुमद्विशिखा॥
मोदक-मोहनथालाभ्यां मिलन् यो जलवल्लिचय: 'जलेबि’समूह: स: अभिमुखो यस्याम्। अथवा तस्याभिमुखा। मोदकादिव्यञ्जनैर्युक्तेत्यर्थ:। चतुर्गुणिलड्डु: चौगुनीमोदक:। कृतं लोकानाम् चतुर्गुणितम् (अत्यधिकम्) अक्षिसुखं यया। व्यञ्जनानां बहुभि: सुगन्धभरैर्भरिता। रथ्यानालिकासु क्लिद्यत: अन्नादेर्विजातीयगन्धोपि 'बहुगन्धभरै:’ पदेन सूच्यते। सततोत्थितो यो धूम: तेन मिलन्ती सम्बध्यमाना परिखा परिधिर्यस्या:, निरन्तरधूमायित-पर्यन्तभागेत्यर्थ:। शतम् अनेका या: चुल्लय: 'चूल्हे’ 'भट्टी’ तासां समूहे ज्वलन्त्य: अग्निशिखा: यस्यां सा। द्वयो: शिखयो: (भागयो:) अनुगता विभक्ता, पार्श्वद्वयेपि कान्दविकानामापणैर्युक्तेति भाव:॥२३॥
* विशालविशिखा ''चौड़ा रास्ता’’ *
कवित्त
त्रितलत्रिपोलियापुरस्तात्पुस्तकालयत:
परमप्रशस्ता 'बैङ्क’शाला सुप्रकाशते
अग्रे चास्य दामोदरमन्दिराग्रभागे भव्य-
विश्वेश्वर-शिखरबन्ध-मन्दिराण्यवासते।
मध्ये मञ्जुनाथपूर्वजानां कवितल्लजानां
सेयं पट्टवीथी भट्टवीथी भूरि भासते
पर्यन्ते करालसिंहपञ्जरपरीता, शाल-
शोभिता विशाल-वरविशिखा विराजते॥२४॥
त्रितलस्य त्रिपोलियागोपुरस्य पुरस्तात् सम्मुखभागे, पुस्तकालयत: पुस्तकालये। सार्ववि.तसि:। बैङ्कशाला 'इम्पीरियल बैङ्क’। दामोदरमन्दिरस्य अग्रभागे, अर्थात् इतोऽप्यग्रे दक्षिणे। अवासते अवतिष्ठन्ते। कविश्रेष्ठानां पट्टवीथी-प्रधानवीथी, पट्टशिष्य इतिवत्। दानपट्टे लिखिता वीथी वा। शालैर्वृक्षै: शोभिता। विशाला वरा च विशिखा। कराल-शाल-विशालेति प्रासा:॥२४॥
* अजमेरी-गणगौरीरथ्ये*
[ब्रह्मपुरीमार्गादारभ्य अजमेरीगोपुरपर्यन्त: स्थानसंनिवेश:]
ब्रह्मपुरीमार्गादुपयाहि गणगौरीद्वारि
प्राप्तं यद्धि नूनं गणगौरीगुणगेयताम्
चतुर्दिक् चतुर्भिर्देवमन्दिरैरुपेताऽन्तरे
वाटिकासमेताऽम्बरचतुष्पटिकेयताम्।
कोणे कोट्टपालीं शिक्ष्यमाणां बालिकालीमेक्ष्य
चित्रकलाशाली शिल्पविद्यालयोऽप्येयतां
वायुसेवनार्थं भ्रमेरीप्ससि सुखं चेत्सखे
नूनमजमेरीगुण्यगोपुरमुपेयताम्॥२५॥
यत् गणगौरीद्वारम् ('गनगौरी दरवाजा’) गणगौर्या: गुणेन गेयतां ख्यातिं प्राप्तम्, गणगौर्या: मेलके श्रीगणगौर्यास्तत्र गमनेन तस्य द्वारस्य तन्नाम्ना प्रसिद्धिरभूदित्याशय:। चतुर्दिक् चतसृषु दिक्षु। चतुर्भिर्देवमन्दिरै: सीताराम-रूपचतुर्भुजादीनां मन्दिरै: उपेता युक्ता। अन्तरे मध्यभागे च, वाटिकासमेता। सम्प्रति नवाबमहोदयस्य मन्त्रित्वे पूर्वतनकुण्डवेदिकायां पुष्पवृक्षा दूर्वापट्टिकाश्च रोपिता इति सूच्यते। अम्बरचतुष्पटिका ''आँबेरी चौपड़’’ ईयताम् प्राप्यताम्। कोट्टपाली ''कोतवाली’’। शिक्ष्यमाणां अध्याप्यमानां बालिकापङ्किम्-आ-ईक्ष्य। बालिकाविद्यालयं 'सेंट्रल गर्ल्स स्कूल’ दृष्ट्वेत्यर्थ:। शिल्पविद्यालय: 'स्कूल आफ् आटर्स्’ अपि-आ-ईयताम् आगम्यताम् वायुसेवनार्थम् भ्रमे: भ्रमणस्य सुखं चेत् ईप्ससि वाञ्छसि। गुण्यं गुणयुक्तम्। उपेयताम् उपगम्यताम्। वायुसेवनाय अजमेरीगोपुराद् बहि: रामनिवासारामे गम्यतामित्याशय:। 'भ्रमेरी’ 'अजमेरी’ति प्रास:॥२५॥
* चन्द्रपोलराजमार्ग:*
[चतुष्पटीमारभ्य चन्द्रपोलगोपुरपर्यन्त: स्थानसंनिवेश:]
अम्बरचतुष्पटीमतीत्य पश्चिमायां दिशि
दीनानाथमन्दिरमवेक्ष्य मोदमानय
दृष्ट्वा तिलकादिमन्दिराणि, राजमातुरिदं
रामचन्द्रमन्दिरममन्दमवलोकय।
मञ्जुनाथ 'चन्द्रपोल’गोपुरसमीपे सखे
सिद्धपीठदर्शनसुखेन सुकृतं जय
अविरतधूपधूमसौरभसुभगतमं
मारुतिमनोज्ञमहामन्दिरमुदञ्चय॥२६॥
'तिलकमन्दिरं’ हि रामानुजवैष्णवसंप्रदायस्यैकं मन्दिरम्। अत्र हि भित्तौ महाविशालं रामानुजसंप्रदायपरिगृहीतं तिलकं लिखितमिति तिलकमन्दिरनाम्ना व्यपदेशो जात:। पूर्वं राजमातु:, इदानीं राज्ञ: पितामह्या: (दादाजी साहिबा श्रीधीरावतजी-निर्मापितं) रामचन्द्रमन्दिरम्। सुकृतं पुण्यं जय वशीकुरु अर्जयेत्यर्थ:। धूपधूमस्य सौरभेण सुभगतमं महत् मन्दिरम् उपगच्छ। अस्मिन् सिद्धपीठे अविरतं रामायणपाठ-जपादिकं शतशो ब्राह्मणा: कुर्वन्ति। सर्वदैवेदं मन्दिरं पाठध्वनिना मुखरितमेव प्राप्यते। मनोरथार्थिनां जनानां प्राय: समूह एव विलोक्यते। सेयं सिद्धमूर्ति: कदा केन स्थापितेति इतिहासमार्गतो न निश्चीयते। जनेषु प्रसिद्धं यत् 'आम्बेरस्य शिलामयी, जयपुरस्यायं हनूमान्, सांगानेरग्रामस्य च 'साँगादेव:’ प्राक्तनेन मानसिंहमहाराजेन आनीता:’ इति। यद्यपि तिसृणामेतासां देवतानामेककालेनाऽऽ-नयनम् ऐतिहासिका नानुमोदन्ते-तथापि दोहापद्यमिदं बहो: कालाच्छ्रणुम: --
'साँगानेर को साँगो बाबो जयपुर को हनुमान।
आम्बेर की सिल्लादेबी ल्यायो राजा मान॥’
* पुराणवसति: 'पुरानी बसती’ *
बालानन्दमन्दिरसमीपाद्यज्ञशालामाप्य
सिंहदुर्गहर्म्यमाला प्राङ् निर्वर्णनीयासौ
तदनु च गोपीनाथदर्शनं विधाय सखे
नानाविधकौतुकभूर्भूयोऽभ्यर्णनीयासौ।
प्रवरपुरोहितानां भूतिर्भविता ते स्फुटं
मञ्जुनाथकविता गृहेऽस्याकर्णनीयासौ
काममप्रमाणदृश्यपूरितपुराणस्थला
संप्रति पुराणवसतिर्मे वर्णनीयाऽसौ॥२७॥
सिंहदुर्गस्य नाहरगढस्य हर्म्यमाला प्राक् पूर्वं निर्वर्णनीया दृश्या। न चेद्राजाज्ञा तर्हि यज्ञशालासकाशाद् दूरत एव विलोक्या। नानाविधकौतुकानां भू: स्थानम् 'बारह भाइयों का अखाडा’ अभ्यर्णनीया समीपगता करणीया। अभ्यर्णं करोति अभ्यर्णयति तत: अनीयर्। प्रवरपुरोहिता: 'बड़े पुरोहित’ रामप्रतापजीप्रभृतय:। तेषां वैभवम् महाविशालं भवनम् आरामादि च ते स्फुटं भविता भविष्यति लुट्। 'नागरपाड़ा’ स्थाने मञ्जुनाथगृहे अस्य कविता श्रवणीया। अपरिमाणै: दृश्यै: पूरितानि प्राचीनस्थलानि यस्या: सा। प्राचीनैतिहासिकस्थानयुक्तेत्यर्थ:। प्रमाण-पुराण-पुराणेति प्रास:॥२७॥
* 'नाहरगढ़’*
आरोह: सुदीर्घो यस्य वाजिरथगम्यो भाति
रम्योद्यानशाली यस्य सौधो रमयेत्कविम्
सोपानावबद्धो यतो ज्यायान् जलटङ्को भाति
वरणविटङ्को यस्य चूर्णयेत्पतत्पविम्।
मञ्जुनाथ मीनाजातिरक्ष्यो धनकोषो महान्
तुङ्गतया यत्र श्रमदोषो भजते रविम्
अन्यदेशदुर्गद्युतिमाहरसि किं वा वृथा
नाहरगढ़स्य समुदाहर दृढच्छविम्॥२८॥
आरोह: (घाटी, चढाई)। इयदुन्नतो दीर्घोपि आरोहे तादृश: सुबद्धो, विशाल:, चक्रभ्रमणेन न्यूनीकृतारोहश्च मार्गोस्ति यस्मिन् राज्ञो वाजिरथ: (बग्गी) सुखेन गच्छेदित्यर्थ:। यस्य (दुर्गस्य) राजनिवासोचित: प्रासाद: समन्तात् मनोहरेणोपवनेन वेष्टित:, यस्य शोभया कविरपि मनसि रमते इति भाव:। जलटङ्क: जलाशय: 'टाँका’। यस्य वरणविटङ्क: प्राकारशिखरं तथा दृढं यथा तदुपरि यदि शत्रुप्रेरित: पवि: (वज्रम्) अपि पतेत्तर्हि सोयं विटङ्कस्तमपि चूर्णयेत् न तु स्वयं भिद्येतेत्यर्थ:। उच्चताया: कारणात् तदुपरि निजकिरणान् प्रेषयन् सूर्योपि श्रान्तो भवतीति श्रमदोषो रविं भजते। आहरसि संगृह्रासि। यत्र यत्र दुर्गाणां दृढताया: प्रसङ्गो भवेत्तत्र तत्र नाहरगढस्य दृढच्छविम् उदाहर उदाहरणरूपेण उपस्थापयेत्याशय:।
संक्षिप्तेतिवृत्तम्
इदं दुर्गं जयपुरप्रतिष्ठापकेन सवाईश्रीजयसिंहमहाराजेन निर्मापितम्। अस्मिन् स्थाने नाहरसिंहनामकस्य 'भोमिया’ख्यदेवयोनिविशेषस्य पूर्वं निवासोऽभवत्। जयपुरराजवंशे नाहरसिंहनामा कश्चन पूर्वज: समभवत् यो हि देहत्यागोत्तरं दिव्ययोनि: 'भौमिया’ अभवत्। स हि आत्मनो निवासस्थाने दुर्गनिर्माणात्कुपित: सन् तत्कार्ये विघ्नं चकार। सम्मिलिता: सर्वेपि स्थपतय: समग्रं दिनं यावत् यां दुर्गभित्तिं निरमान् रात्रेरनन्तरं प्रातरेव सा चूर्णीभूता प्राप्यत। एतत्प्रबन्धाय नानोपायान् कृत्वापि विफलीभूत: श्रीजयसिंहमहाराजो महामान्त्रिकं श्रीपौण्डरीक-महाभागं प्रार्थयत्। एष हि मन्त्रबलेन तं भूमिस्वामिनं संतोष्य निजवशे च कृत्वा तत्स्थानं त्याजयामास। प्रतिज्ञानुसारं नाहरसिंहभूस्वामिनो मन्दिरं घाटोद्यानस्य मार्गे निर्मापितम्, तत्र च नैवेद्यस्य ज्योतिष: ('जोत’) च प्रबन्धो राजद्वाराऽक्रियत, योद्यापि प्रचलति। एतस्य दुर्गस्य नाम 'सुदर्शनगढम्’ इति। एतस्माद्दुर्गादारभ्य 'आम्बेर’दुर्गपर्य्यन्तं पर्वतमौलौ वाजिरथगम्योऽ-नुद्घातश्च विशालो मार्गोऽस्ति।
अस्मिन् दुर्गे यानि राजहर्म्याणि सन्ति तेषां वृद्धि: परिष्कारश्च श्रीरामसिंहमहाराजेन (अर्वाचीनेन) कृत:। दुर्गस्य मध्यतो महान् जलटङ्कोस्ति यस्य जलेन तद्दुर्गवासिनो 'मीना’ गणा जीवन्ति, राजहर्म्यस्य विशालमुपवनं च सिच्यते। दुर्गस्योपरि मीनाजातेरेव निवासोस्ति। एषैव जातिरेतद्दुर्गस्य रक्षणेऽअधिकृता। दुर्गमध्ये य: किल महान् धनकोषोस्ति तस्यापि रक्षायै इयमेव सर्वाधिकारिणी। उच्चपदाधिकारी राजकर्मचार्यपि विशेषावश्यकतां विना अस्मिन्दुर्गे गन्तुमनुमतिं न लभते। द्वारसमीपे भैरवस्यैकं स्थानमस्ति, रविवारे नैवेद्यसमर्पणाय तद्दर्शनाय च गमनमात्रस्याज्ञास्ति। मीनाजातेर्गृहे कश्चिदुत्सवो ब्राह्मणभोजनादिप्रसङ्ग-श्चद्भवेत्तर्हि दुर्गाध्यक्ष-स्याज्ञां प्राप्य गृहस्वामी निमन्त्रितान् दुर्गाभ्यन्तरे नयति।
* ब्रह्मपुरी*
दुर्गमगणेशदुर्गसीमन्ताभिमण्डिता या
दाक्षिणात्यभूसुरनिवासैरभिरोच्यासौ
उच्छृङ्खलं खेलतां च रङ्गस्थलगायकानां
होलाभिनये विशङ्कगीतिर्न विमोच्यासौ।
यत्राभवन् रत्नाकर-पौण्डरीकमुख्या: पुरा
जीर्णगृहोद्देशैस्तदभिख्याऽधुनाऽऽलोच्यासौ
पूर्वपुरुषाणां यशोनिर्झरीप्रकाशकरी
ब्रह्मपुरी सम्प्रति पुराणपुरी प्रोच्यासौ॥२९॥
दुर्गमं यत् गणेशदुर्गम् 'गणेशगढ़’, तदेव सीमन्त: केशपाशस्तेन अभिमण्डिता, गणेशदुर्गस्या-धस्तादुपनिविष्टेत्यर्थ:। रङ्गस्थलम् 'अखाड़ा’ तद्गायकानाम्। विशङ्का निर्मर्यादा। ब्रह्मपुर्याम् द्वे गीतिरङ्गस्थले 'छोटा अखाड़ा’ 'बड़ा अखाड़ा’ स्त:। होलिकोपरि तत्र सगीतिकोऽभिनयो भवति, यस्मिन् अश्लीलतास्पर्शिनी उद्दामशृङ्गारगीतिर्व्यङ्ग्यतयश्च ('फैल’) गीयन्ते। सा गीतिरपि तत्स्थानप-रिचयार्थं न विमोच्या। महाराष्ट्रब्राह्मणो रत्नाकरपौण्डरीक: श्रीजयसिंहमहाराजस्य (जयपुरनिर्मातु:) समयेऽभवत्। एष महाविद्वान् मान्त्रिक: सिद्धपुरुषाश्चासीत्। महाराजेन योऽश्वमेधयज्ञ: कृतोऽभूत्तस्मिन् दाक्षिणात्यानामेव प्राधान्यमासीत्। बहवो वेदपारगा दक्षिणदेशत: ससम्मानमाहूय यज्ञे निमन्त्रिता:। पौण्डरीकरत्नाकरोऽश्वमेधयज्ञे सर्वप्रमुखोऽभवत्। अनेन जयसिंहमहाराजाय निजसिद्धताया भूयान्परिचयो दत्त:। एष महाराजोप्यमुं गुरुरिति गौरवेण सम्मानयामास। पौण्डरीकेण महाराजस्य यश:प्रख्यातये 'जयसिंहकल्पद्रुम’ नामा व्रततिथिनिर्णयात्मको महान् धर्मशास्त्रग्रन्थो निर्मित:। यदा हि महाराजेन जयपुरनगरं प्रतिष्ठापितं तदा ब्रह्मपुर्यां सर्वप्रथमं श्रीरत्नाकरपौण्डरीकोऽअधिष्ठापितो भूयसी च विभूति: प्रत्ता। पौण्डरीकस्य प्राचीनगृह-मतिविशालं सुन्दरोपवनसहितं राजमल्लतडागस्योपर्यद्यापि द्रष्टुं शक्यते यद्धि सम्प्रति जीर्णतां गतम्। किन्तु अस्मिन् यत्किल स्थापत्यकार्यम्, यादृशी च विशालता, यच्च वैभवमस्ति तद्दर्शनेन तत्प्रभावो राजोपमितविभूतिश्च सुस्पष्टमनुमातुं शक्यते। श्रूयते-आम्बेरस्य जयगढदुर्गे रत्नाकरसागराख्यो जलबन्ध: श्रीरत्नाकरपौण्डरीकस्मारक एवास्तीति।
जयसिंहमहाराजस्य परमादरभाजनं सम्राङ्जगन्नाथनामको महाराष्ट्र-ब्राह्मणोपि पूर्वं ब्रह्मपुर्यामेव प्रतिष्ठापित:। अयमपि महामान्त्रिको विद्वान् ज्यौतिषशास्त्रेऽद्वितीयपण्डितोऽभूत्। जयसिंहमहाराजस्य समये सोऽयं रेखागणितस्यैकं ग्रन्थं निर्ममौ। एष 'अरबी’ भाषाया अपि परमविद्वानासीत्। एष ग्रन्थोऽरबीभाषात एवानूदित इति ऐतिहासिका वदन्ति। एवमेव अस्य महाभागस्य 'सिद्धान्तकौस्तुभ-सम्राट्सिद्धान्त’ नामकौ ज्यौतिषग्रन्थावपि प्रसिद्धावभूताम्। जयपुरराजकीयज्यौतिषयन्त्रशालायां 'सम्राङ्यन्त्र’ नामकं समयसूचकं यन्त्रमनेनैवाविष्कृतमिति बहूनां कथनम्। अस्तु, एवंविधा असाधारणपुरुषा: पूर्वं ब्रह्मपुर्यां न्यवसन् किन्तु अधुना तदभिख्या तत्कीर्ति: 'अभिख्या नाम-शोभयो:’ जीर्णगृहाणामुद्देशै: निवेशै: आलोच्या अनुमेया। पुराणा पुरी, प्रत्यहं तद्गृहाणां निवासिनां च क्षीयमाणत्वात्।
संक्षिप्तेतिवृत्तम्
जयसिंहमहाराजेन यदा जयपुरनगरं प्रतिष्ठापितं तदा ये ये ब्राह्मणश्रेष्ठा अश्वमेधार्थ-माहूतास्तेषु ये सुप्रसिद्धा गुणिनोऽभवन् महाराजस्यास्य च पूजनीया: समभवन् तान् सर्वान् ससमादरं निवास्य तदुपजीविनस्तत्सार्थीयांश्च पुरुषानपि तत्रैव निवेश्य ब्रह्मपुरीनाम्ना सेयं वसति: पृथगेव निर्मिता।
जयसिंहमहाराजेन संमानितैरस्मत्पूर्वजै: श्रीकृष्णभट्टकविकलानिधिभिर्जयसिंहतनयस्य श्रीईश्वरीसिंहमहाराजस्य यशोवर्णनार्थं निर्मिते 'ईश्वरविलास’ महाकाव्ये जयसिंह-महाराजेन तत्समक्षं प्रतिष्ठापिताया ब्रह्मपुर्या वर्णनमुपलभ्यते। आसीत्तस्मिन्नपि समये ब्रह्मपुर्या एष एव स्थानसन्निवेश:। अभूत्तदापि तस्या: शिखरदेशे 'गणेशगढ’ दुर्गम्। ब्रह्मपुर्या ये ये ब्राह्मणा निवासिता अभूवंस्ते सर्वेपि कयाचिद्विद्यया गुणैश्च प्रभावशालिन:, अत एव राजसंमानिता आसन्। ऐतेषु सर्वतोधिका दाक्षिणात्यास्ततोऽवशिष्टा गुर्जरा अभवन् सर्वेप्येते वैदिका आहिताग्नयश्चासन्। प्रतिसवनमेतेषां भवनेषु अग्निहोत्राण्यभवन्। यथा हि तद्वर्णनम् --
'येन ब्रह्मपुरी कृताऽतिधवलै: कैलासशैलोपमै-
र्विप्राणां भवनै: सदा समुदयत्सम्पद्विलासाञ्चितै:।
प्रत्यागारमुरुप्रकारहवनैर्यत्राग्निहोत्राण्यभु-
र्लीलादत्तचतु:पुमर्थपटलीजातादराणि स्फुटम्।
श्रियं धत्ते यस्यामधिगिरिशिर: श्रीगणपते-
र्गृहं दूराद्दृश्यं सुखचितमणीभाभिररुणम्।
ध्रुवं तस्या एव क्षितिपतिरमण्या: सुरुचिरे
ललाटे सिन्दूरै: कलितमिव सौभाग्यतिलकम्॥’
ब्रह्मपुर्यां यथा स्मार्तानां वैदिकानां च निवासोऽभवत्तथैव सेयं वसतिर्वैष्णवानामपि वैभवै: सुसमृद्धाऽभवत्। एतस्या उत्तरपश्चिमदिशि वैष्णवब्राह्मणानां राजसंमानितानां गोस्वामिनां च निवासोऽभवत् शुद्धाद्वैतसंप्रदायिवैष्णवानां पूज्येषु सप्तसु स्वरूपेष्वन्यतम: श्रीगोकुलनाथ-देवोप्यत्रातिष्ठत्। यन्निवाससाक्षि 'गोकुलद्वारा’ 'गोकुलनाथवापिका’ चेति स्थानद्वयमद्याप्यवतिष्ठते। यत्किञ्चिदस्तु, इयं वसति: कस्मिन्नपि समयेऽतिसमृद्धा गहना चाभूदिति नास्ति संदेह:। एतस्यां हि राजसंमानितानां ब्राह्मणानां शिबिका (पालकी)- संमानवाहीनि सप्त स्थानान्यासन्निति ब्रह्मपुरीस्था वृद्धा अद्यापि कथयन्ति।
युरोपयुद्धे देशपरिस्थिति:
हस्तगतमूल्येनाऽपि नोपलब्धमन्नं जनै:
परितो विपन्नं दीनवृन्दं क्षुधयाऽऽहतम्
द्रव्यशालिनोपि मिष्टमाश्नन् शासकाज्ञयैव
स्निग्धं वस्तु, दुग्धं बत लभ्यं भाग्यसंगतम्।
वशमुपनीता हन्त नित्यनवाऽऽतङ्कै: प्रजा
रोगाक्रान्तरङ्कैरात्मजीवनं समापितम्
दुर्भिक्षप्रकोपतोपि घोरतराऽऽटोपवहं
लोपमेव कुर्यात्किं युरोपयुद्धमुद्धतम्॥
प्रचुरधान्योत्पत्तावपि त्रिचतु:प्रस्थमितमन्नमेकमुद्राया अलभ्यत। कलकत्तादिस्थानेषु तु ततोपि दुर्लभम्। अतएव पर:शता दीनजना: प्रत्यहं नगरस्य स्थानस्थानेषु मृता: प्राप्यन्त नगररक्षाप्रबन्धधिकृतै:। मिष्टमाश्नन् शर्करागुडादिनिर्मितं भोज्यमभुञ्जत, यतोहि सर्वमिदं वस्तु राजनियमायत्तम् (कंट्रोल)। स्निग्धं घृत-तैल-पाचितं पक्वान्नम् यतो हि घृतम् एकमुद्राया: पाद-सार्द्धपाद ('पाव’ 'डेढ़पाव’) मितमलभ्यत। तैलं चतुर्दश 'छटांक’ मितम्। यत्र हि 'दुग्धस्य नद्य:’ प्रावहन् तत्र तत् एकमुद्राया: द्विप्रस्थाऽऽसन्नमासाद्यत। भाग्यसंगतं भाग्यलिखितम्, यदि भाग्ये लिखितं स्यात्तदैव तावन्महर्घं तत् प्राप्येतेत्याशय:। वशमुप.--अन्नस्य भयानकमहर्घता वस्त्राणां दुष्प्राप्यता, देशे भृति ('मजदूरी’) कार्याणां राजतन्त्रनिषिद्धतया जीविकाऽप्राप्ति:, इत्यादिनानाविधैर्भयैर्देशजना आत्मवशेऽक्रियन्त येन बलात्ते युद्धसेनायां नामलेखपूर्वं प्राविशन्। रोगाऽक्रान्तै रङ्कैर्दीनै:। तस्मिन्नेव काले देशे स्थाने-स्थाने 'मलेरिया’प्रभृतयो रोगा: प्रावर्तन्त येन बहवो जना निजजीवितमेव विजहु:। आटोप: आतङ्क: आडम्बरं वा। युरोपयुद्धं जर्मनै: प्रवर्तितं ख्रिष्टीय १९४०-४४ आदिवत्सरेषु प्रचलत् साम्प्रतिकं युद्धम्। (१९३९-४५)।
सो. - क्रान्तिमये समयेऽद्य तान्तिरनुक्षणमीक्ष्यते।
क्लान्तिमिमां विनिवेद्य शान्तिमयतु मनुज: क्व वै॥
तान्ति: खेदश्चिन्ता च। क्लान्तिम् अवसादं श्रमम्।
क्व (पुरुषे) विनिवेद्य मनुज: शान्तिम् अयतु प्राप्नोतु।
जयपुरस्य कायकल्प:
राजमार्गमध्येऽभवन् यत्र भूरिभोजनानि
तत्र धान्यकष्टे सभाऽऽयोजनानि वीक्षेऽहम्
उष्णीषाऽङ्गरक्षिकादि जित्वा नव्यवेषोऽभवत्
भाषामात्रशेषो मत्स्यदेशोऽस्तीत्युदीक्षेऽहम्।
स्वैरं सिनेमोपवने नक्तं नरनार्यो भ्रम-
न्त्यन्यभ्रमं तन्वते ते मार्गा:, संनिरीक्षेऽहम्
धर्मे सविकल्पमप्यनल्पगृहशिल्पमिमं
जयपुरकायकल्पमल्पदिनैरीक्षेऽहम्॥
भूरिभोजनानि महामहत्यो भोजनपङ्क्तय: 'हेडा’ 'ज्यौनार’। धान्यकष्टे. भोजनपङ्क्ते: का कथा धान्यस्यैव कष्टे समापतिते तेषु तेषु रथ्यास्थानेषु सार्वजनिकसभानामायोजनानि पश्यामि, यद्धि श्रीमाधवेन्द्रराज्यकालिकजनानां दृष्टौ नवीना वार्ता। भाषामात्र. - नव्यवेषेण गुर्जर-वङ्गादिदेशवासिनां भ्रमो भवति पर्र पौरोपवनादिषु भ्रमतां तेषां मिथ: संलापं श्रुत्वा पश्चात्प्रतीयते यद् शेखावाटी-जयपुरप्रान्त-वासिन एवैते। ततश्च सोयं मत्स्यदेश: (जयपुरप्राञ्चल:) भाषामात्रमेव शेषो यस्याऽस्ति तादृश: साम्प्रतमित्याशय:। सिनेमो. - सिनेमासु रामनिवासाद्युपवने च, समाहारद्वन्द्व:। अन्यभ्रमं. - नानाविध-विशालभवनैरलंकृतान् नानामहामार्गान् दृष्ट्वा कलकत्ता-बम्बई प्रभृतीनामन्येषां नगराणां भ्रमो भवतीत्यहं समालोचये। धर्मे सविकल्प.-धर्मानुष्ठानादिषु नानासंकल्पविकल्पा: संभवन्ति परम् अनल्पानि गृहशिल्पानि यस्मिन् तथाविधं वर्तमानं जयपुरम्। 'बिल्डिङ्ग’निर्माणे नानाविधा: शोभासामग्रयश्च प्रचलिता इत्यर्थ:।
सो. - नवसमाजमभिपद्य नवनवरुचिरभिवर्द्धिता।
पश्यत नवयुगमद्य किं किं नवनवमीक्षयेत्॥
नवीनं समाजं प्राप्य। अद्य नव युगं किं कि नवं कौतुकं दर्शयेत्।
राजवीथी
* महाराजाधिराज: श्रीमान् माधवसिंहदेव:*
कवित्त
भास्वद्वंशवारिजविकासनसहस्रकरो
नित्यनिर्भरोद्यत्कीर्तिकुमुद: सुखायते।
मान्येष्वद्य राजावतराजन्येषु रत्नसमो
मन्ये महीपालमञ्जुमघवा विभासते।
राजज्जयपत्तनधरित्रीभाललेखामिल-
त्सिन्दूराग्रयरेखारुचितेजा: संप्रकाशते
सामन्तकमौलितटोदञ्चत्पादपीठपुटो
माधवमहीन्द्रमौलिमुकुटो विराजते॥ १॥
भानुवंशरूपस्य वारिजस्य विकासने सहस्रकर: सूर्य:। कुमुदश्चन्द्र:, नित्यं निर्भरं यथा स्यात्तथा उद्यन् उदयं प्राप्नुवन् कीर्तिरूपश्चन्द्रो यस्ये दृशोऽसौ, सुखायते सुखकरो भवति। चन्द्रो नित्यं निर्भरं (पूर्णम्) च नोदेतीति चन्द्रात्कीर्तिचन्द्रे विशेष:। महीपालानां मञ्जु: मघवा इन्द्र: विभासते इति मन्ये। राजन्त्यां जयपुरधरणीभाललेखायां मिलन्ती [तत्र लग्नेत्यर्थ:], या सिन्दूराग्रयरेखा तद्वद्रुचिशालि तेजो यस्य स:। ललाटे सिन्दूरमेव सौभाग्यवत्या: सर्वस्वम्। ततश्च जयपुरधरण्या भालपट्टे माधवेन्द्रस्य तेज: सौभाग्यसिन्दूरायितमित्याशय:। सामन्तानां मौलितटे उदञ्चन् (उद्गच्छन् विजृम्भमाण:) पादपीठस्य पुट: (मध्य:) यस्य स:। माधव: महीन्द्राणां मौलिमुकुट इवेति माधवमहीन्द्रमौलिमुकुट:॥ १॥
सिंहावलोकनम्
राजतेजसोद्यद्दिव्यदीप्त्या दिननाथसमं
यमुपनमन्तो नेह सामन्ता उदासते
दासते ह्यदभ्रधनराशिं प्रजापक्षे वसन्
षट्पञ्चाशदब्ददीर्घदुर्भिक्षे समानते।
माऽऽनतेन येन गङ्गागोपालोपसेवाविधौ
भागवतसंविधौ च दत्तं वित्तमायते
मायतेषु सर्वेष्ववनीपमण्डलेषु रवि-
र्माधवमहीपमणिमण्डनो विराजते॥ २॥
राजतेजसा उद्यन्ती या दिव्या (अलौकिकी) दीप्तिस्तया (हेतु:) सूर्यसमं यं (माधवेन्द्रम्) उपनमन्त: उपतिष्ठमाना: (सेवामाना:) सामन्ता: इह न उदासते, उदासीनं न भवन्ति, तेजोवश्या: सदा सेवन्त इत्यर्थ:। षट्पञ्चाशब्दस्य (१९५६ संवत्) दीर्घदुर्भिक्षे समानते प्राप्ते सति प्रजापक्षे तिष्ठन् य: अदभ्रम् अनल्पं धनराशिं दासते ददाति। 'दासृ दाने’। अस्य वृत्तं चरित्रसंग्रहे अग्रे द्रष्टव्यम्। मा लक्ष्मी: तयापि आनतेन नम्रेण येन गङ्गाया: श्रीगोपालस्य च सेवाविधौ। विस्तीर्णे, सर्वदा प्रचलनशीले इत्यर्थ:। भागवतस्य संविधौ संविधाने पाठादिष्विति यावत्। वित्तं धनं दत्तम्। मया लक्ष्म्या आयतेषु महत्सु राजमण्डलेषु सूर्यायित:। माधवो महीपमणिमण्डन इव, माधवमहीपमणिमण्डन:। महीपमणीन् राजश्रेष्ठान् यो मण्डयति, अर्थात् अनेनैव सर्वेषां राज्ञां शोभेत्याशय:। 'मायत’ इति शरणवाचको जयपुरभाषाशब्दोपि॥ २॥
लन्दननगर्यामुपगच्छन् धर्मधुर्यो यो हि
मृत्तिकामपि स्म निजदेशादेव संहिनोति
इङ्गलेण्डमण्डलेप्यखण्डनियमस्य यस्य
सर्वत: प्रशस्यधर्मदुन्दुभिर्दिवं धिनोति।
जर्मनैर्निबद्धे बत यूरोपीययुद्धे धनं
दत्त्वा निजागारात्प्रजासंकटं स्म यो धुनोति
सोयं धर्म-धैर्य-दया-दाक्षिण्यातिपुण्यमना
मान्यजनाधीशो माधवेशो मे मुदं तनोति॥ ३॥
सम्राजो राज्याभिषेकाय लन्दननगर्यां गच्छन् यो मृत्तिकामपि निजदेशादेव संहिनोति प्रहिणोति स्म। अखण्डनियमस्य अक्षुण्णमर्यादाव्रतस्य यस्य (माधवेन्द्रस्य) सर्वत: प्रशंसनीयो धर्मविजयदुन्दुभि: ('धर्म का डंका’) दिवं धिनोति प्रीणयति। स्वर्गपर्यन्तं यशोविश्रुति-र्जातेत्यर्थ:। माधवेन्द्रस्य 'इङ्गलेण्डयात्रा’ अग्रे द्रष्टव्या। युरोपयुद्धे निजकोषाद्धनं दत्वा युद्धार्थं मनुष्यप्रेषणनिमित्तं संकटं धुनोति स्म दूरयति स्म। अस्यापि वृत्तमग्रे द्रष्टव्यम्। धर्मादिभि: अतिपुण्यं मनो यस्य। मान्यो जनाधीशो राजा॥ ३॥
प्रसङ्गात्तत्सामयिकी सम्राड्विजयप्रार्थना
संकुलसमरभूविचेष्टमानजर्मनीश-
दुर्मदवरूथिनीं निबर्हय निरस्तभय
निखिलधरातलविलङ्घनविलासशील-
मर्जय सुकीर्तिचयमर्दितसपत्नचय।
भूमितलभूषण युरोपपरिपोषण ते
जायतामनन्तसुखमायताऽभिन्द्यनय!
एवं राजभक्ता ननु नित्यमुपयुक्ताशिष:
प्रार्थयामहेऽद्य बत बृटिशनरेश जय॥ ४॥
संकुलायां नीरन्ध्रायां समरभूमौ, विचेष्टमानां जर्मनीशस्य दुर्मदां वरूथिनीं सेनाम्। निबर्हय पराजयस्व। अर्दिता: पीडि़ता: सपत्नचया: येन तत्संबुद्धि:। संपूर्णपृथ्वीभ्रमणशीलं कीर्तिपुञ्जं अर्जय। आयत: अभिनन्द्यश्च नय: (नीति:) यस्य तत्संबु.। ते अनन्तसुखं जायताम्।
प्रसङ्ग से जर्मनयुद्ध के समय सम्राट् के लिये विजयप्रार्थना -
श्रीमन्माधवसिंहदेवस्य
* चरित्रसंग्रह: *
जयपुरनरेन्द्र: श्रीमान् माधवसिंहदेव: 'ईसरदा’भूमिपतीनां 'राजावत’ राजन्यानां माननीये वंशे अष्टादशोत्तरैकोनविंशतिशततमे विक्रमीयाब्दे (१९१८ सं.) भाद्रपदकृष्णनवम्याम् [अगस्तमासस्य ३१ तमतारिकायां १८६१ तमे ख्रिष्टीयवत्सरे] कायमसिंहेतिनाम्ना जन्म जग्राह। विद्या-कलानामुन्नतिसम्पादनेन जयपुरराष्ट्रस्य सुभृशं परिष्कारके श्रीश्रीरामसिंहदेवे देवलोक-मुपगते, तदिच्छानुसारमयं १८८० तमे ख्रिष्टीयवत्सरे सितम्बरमासस्य ऊनत्रिंश्यां तारिकायां जयपुरराज्यस्य राजसिंहासनमलंचकार। वर्तमानसमये श्रीमन्माधवेन्द्रसदृशो धर्ममर्यादापरिपालक: परमेश्वरस्यानन्यभक्तो राजभक्तिशाली च नरेश्वरोऽत्यन्तं विरल एवावालोक्येत। महाराजस्य राजभक्तिं राजप्रबन्धपाटवं चावलोक्य सुप्रसन्नेन भारतराजतन्त्रेण (भारत गवर्नमैण्ट) महाराजाय समये समये सम्मानसूचिका बह्व्य: पदव्यो वितीर्णा:।
सम्मानप्राप्ति:
अधिकारप्राप्ते: षड्वर्षेष्वेव व्यतीतेषु सुप्रबन्धनतुष्टेन भारतशासकेन श्रीमते'जी. सी. एस्. आई.’ इति पदवी प्रादीयत। दुर्भिक्षसमये भूरिभूरिव्ययं विधाय अन्नादिद्वारा निजप्रजा: संरक्षिता:। एवं भारतवर्षीयाणामनाथानां सहायतायै एककालं षोडशलक्षमुद्रा: प्रदाय सर्वप्रथमम-नेनैव राजमौलिमाणिक्येन सोयं धनराशि: [इण्डियन पीपिल्स फेमीन फण्ड] स्थापित:। एतदुपरि संतुष्टेन राजतन्त्रेण 'जी. सी. आई. ई.’ इति पदवी व्यतीर्यत। १९०३ तमे ख्रिष्टाब्दे देहलीराज्याभिषेकोत्सवासरे 'जी. सी. वी. ओ.’ इत्युच्चतमं पदकं प्रादीयत। १९०४ तमे ख्रिष्टसंवत्सरे देहलीराजसभाया द्वितीयावसरे त्रयोदशतमराजपुत्रसैन्यस्य 'कर्नल’ पदेन श्रीमानल-ङ्कृतोऽभूत्। १९०८ तमवर्षे श्रीमत: शिक्षाविषयकमौदार्यं गुणग्राहकतां चावलोक्य 'एडिन्वरा’ विश्वविद्यालयेन स्वदेशमधिवसत एवाऽस्मै 'एल. एल. डी.’ पदकमुपदीकृतम्। १९११ तमवर्षे देहलीराज्यभिषेकस्यावसरे 'मेजर जनरल’ इति पदकमुपदीयते स्म श्रीमते। यूरोपयुद्धे बहुधा कृतसाहाय्यायास्मै महाराजाय संतुष्टेन राजतन्त्रेण 'जी. वी. ई.’ इति पदवी प्रादायि। १८९७ तमवर्षे 'चित्राल’ समरे भारतराजस्य सहायतार्थ 'ट्रेन्सपोर्ट कोर’ नाम्नीमात्मनोऽश्वसेनां संप्रेष्य भूरिवीरतां प्राकाशयदिति भारतेश्वर: सम्मानसूचकौ द्वौ तोपध्वनी प्रावर्द्धयत्। [सप्तदशस्थाने एकोनविंशतयोऽभवन्] 'टीरा’ युद्धे पुन: कृतसहाय्यस्यास्य सम्मानसूचकौ द्वौ तोपध्वनी पुन: प्रावर्द्धयेत राजतन्त्रेण। १९२० तमेवर्षे बृटिशसैन्यस्य लैफ्टिनैन्ट जनरल- (ऑनरेरी) पदेन सम्मानि-तोऽभून्महाराज:।
अभिरुचितकार्याणि
जयपुरनरेन्द्रेण श्लाघनीये निजजीवने येषु येषु कार्येषु मुक्तहस्तं धनव्ययो विहितस्तेना-नुमीयते यन्निम्नलिखितेषु चतुर्षु विषयेषु श्रीमत: सुमहन्मन:प्रसक्तिरासीत्।
प्रथम: [धर्मानुष्ठानं दीनानां सहायता च]
महाराज: सुप्रसिद्धो धर्ममर्यादापालक आसीत्। भगवान् गोपालो भगवती जाह्नवी चास्य प्रधानतया इष्टदेवावभूताम्। प्रातरुत्थितो गोदर्शनं विधाय ततोऽन्यकार्येषु प्रसज्यति स्म। सर्वदा गङ्गाजलमपिबत्। वत्सरस्य भूयांसो मासा हरिद्वारे व्यतीयु:, यत्र हि नरेन्द्रतया भोगप्रसक्तोऽप्ययं तीर्थनियमेनावसत्। परोलक्षमुद्राणां व्ययेन वृन्दावने वरसानुस्थले (बरसाना) च भगवत: श्रीगोपालस्य मन्दिरं निर्मापितं यद्धि राजोचितशिल्पकलानैपुण्यं प्रकटयन्नरेन्द्रस्यास्य धर्मरुचिस्मारकं वर्वर्ति। गङ्गावतारस्थाने [गङ्गोत्तरी] पि भूरिव्ययेनैकं मन्दिरं निरमाप्यत, यत्र स्थापनाय रत्नजटिताभरणै: सहिता श्रीगङ्गामूर्तिर्लक्षमुद्राश्च 'टेहरी’ नरेन्द्राय टिकेन्द्रजङ्गाय [५ जुलाई १९२५] प्राहीयन्त। संपूर्णव्ययस्तु सार्द्धं मुद्रालक्षद्वयमभूत्। जयपुरराजप्रासादेष्वपि निजोपास्यस्य श्रीगोपालस्य भगवत्या: श्रीगङ्गायाश्च कृते सुन्दरं मन्दिरद्वयं निरमायि।
१९१६ तमे ख्रिष्टाब्दे कृषेरुन्नत्यर्थं हरिद्वारनिकटे नरोरास्थाने गङ्गाया जलबन्ध एको (Narara Ganes Band) निरमाप्यत भारतराजतन्त्रेण। परमधार्मिको गङ्गाभक्त: श्रीमाननेन हरिद्वारस्य हरिपादुकास्थाने जलप्रवाहावरोधमाशङ्कमानस्तत्प्रतीकारार्थं हरिद्वारे हिन्दुनृपतीनामेकां सभां सङ्घटयामास, यत्र पटियाला-बीकानेर-अलवर-बनारस-दरभङ्गादीनां राजानो मदनमोहन-मालवीयप्रभृतयश्च हिन्दुनेतार: सममिलन्। तत्र महाराजस्य विशिष्टानुभाव-वशाद्भारतराजतन्त्रेण तदिदं स्थिरीकृतं यत् हरिद्वारे स्वाभाविको जाह्नवीप्रवाह: पादुकापर्यन्तं नावरुद्धो भवेदिति। अस्मिन्कार्ये भूरिव्ययं विदधता जयपुरेन्द्रेण धार्मिकसमाजे महती कीर्तिरक्षय्यं पुण्यं चाधिगतम्।
महाराजस्य शासनकाले प्रतिवर्षं वरणं विधाय भागवतरामायण -- गङ्गालहर्यादीनां पाठा:, राजकीयशिवमन्दिरेष्वभिषेका:, अन्यान्यानि च धार्मिकानुष्ठानानि ससमारोहमकार्यन्त। समाप्तौ प्रतिवर्षं ब्राह्मणभोजनस्य स समारोह: समभूद्येन प्रवहन्तीव पुण्यनदी लोकैरवालोक्यत। प्रत्यहं जायमानानि गोदानेच्छाभोजनस्वर्णमुद्रादानादीनि तु नियतान्येव परं नरेशस्य नाभूदीदृशो वत्सरो यस्मिन्पर:सहस्रमुद्राभि: पुण्यकार्यं किञ्चन्न विशेषरूपेणाक्रियत। प्रसिद्धतीर्थेषु स्वयं वा कर्मचारिणो वा संप्रेष्य भूरिधनव्ययेन बहूनि पुण्यकार्याण्यकारयत्। महाराजस्य शासनकाले एकाशीतिरग्निहोत्राणि सायं प्रातरजायन्त येषु राजदत्तजीविका वैदिकब्राह्मणा: श्रौताग्निषु मन्त्रब्रह्मणा हविरर्पयन्त: पवित्रयन्ति स्म राष्ट्रस्य वातावरणम्।
देशव्यापिदुर्भिक्षसमये न केवलमात्मनो राज्यस्यैव अपि तु भारतवर्षमात्रस्य दीनानां सहायतार्थमेकवारं षोडशलक्षमुद्रा: प्रदाय स्थायिधनराशिमयमेव महाराजोऽस्थापयत्। इतोऽग्रेपि कति वारानत्र भूरिधनमदात्। साम्प्रतमस्मिन्धनराशौ केवलं महाराजवितीर्णमेव धनं पञ्चविंशति-लक्षमुद्रापरिमितमद्यापि वर्वर्ति। एतदतिरिक्तेष्वन्यान्येष्वपि पुण्यकार्येषु महाराजेन भूरि धनं वितीर्णं यस्य संख्या अष्टाविंशतिलक्षमुद्रापरिमिताऽस्ति। किमितोऽधिकं भवेत् यज्जयपुरराज्ये राज्योत्थद्रव्यस्य तृतीयो भाग: [कोटिपरिमित:] पुण्यकार्येषु व्ययितो भवतीति नियमो महाराजस्य समयेऽक्षुण्ण: प्राचरत्।
धर्ममर्यादापालनस्य विश्वविदितं महाराजस्य कार्यम् 'इङ्गलेण्डयात्रा’ऽस्ति, यस्या: संक्षिप्तवृत्तान्तश्चरित्रस्यान्ते विलोक्येत।
द्वितीय: [विद्याप्रचारो गुणिनां सम्मानश्च]
राज्यसिंहासनमधिष्ठायैव श्रीमता माधवेन्द्रेण शिल्पकलादीनामुन्नत्यर्थं 'कौंसिलभवने’ एका महती प्रदर्शिन्यक्रियत। यस्यां वस्त्राणाम्, विविधधातुनिर्मितानां पात्राणाम्, नानाविध-भूषणानाम्, रत्नानाम्, विविधानां प्राचीनशस्त्रास्त्राणाम्, पाषाणलाक्षा-काष्ठादिनिर्मितानां नानाविध-मूर्तीनाम्, अन्यान्येषां च वस्तूनां दशसहस्रानुमिता: प्रकारा: समगृह्यन्त। एतेषां वस्तूनामानायनस्य स्थापनस्य पुन: प्रत्यावर्तनस्य च समीचीना व्यवस्थाऽक्रियत। तद्व्ययश्च राजकोषाददीयत।
एतत्प्रदर्शिन्या विलोकनार्थं सार्द्धाष्टशतं गौराङ्गा: कति लक्षाणि च देशीयलोका: समगच्छन्त। द्विशताधिकेभ्य: शिल्पिभ्यो महामूल्यानि पारितोषिकाण्यदीयन्त। सर्वतोऽधिका च दूरदर्शिता श्रीमतो महाराजस्यानेनानुमीयते यत् भूमण्डलस्य दूरदूरप्रान्तेभ्यो लोकोत्तराणि यानि वस्तूनि बहुव्ययाच्छिल्पिभिरानीयन्त तानि सर्वाण्येव प्रायो जयपुरराज्येनाऽक्रीयन्त। एतद्द्वारा च विचित्रवस्तुसंग्रहालय: (म्यूजियम) रामनिवासारामे स्थापितोऽभवत् यो हि प्रसिद्ध-प्रसिद्धेष्वे-तादृशसंग्रहालयेष्वन्यतम:। एषा प्रदर्शिनी १९३९ तमविक्रमवत्सरस्य पौषशुक्लनवम्या-मुदघाट्यत। अस्यैव वर्षस्य भाद्रमासे राज्यशासनस्य सर्वाधिकार: श्रीमते प्रादीयत। शासनाधिकारप्राप्तेश्चतुर्मासाभ्यन्तर एवैतादृशं महाकार्यं समपाद्यत महाराजेनेति को वा नाभिनन्देद्धृदयेन।
शिक्षाया: कला-विज्ञानादीनां च यादृश: प्रबन्ध: जयपुरराज्ये नैतादृशोऽन्यराज्येष्व-वलोक्येत। 'महाराजाकालेजे’ उच्चतमां राजभाषाशिक्षां दूरदूरागता वैदेशिका अपि नि:शुल्कमेव लभन्ते। योग्येभ्यश्छात्रेभ्यो मासिकवृत्तिरपि प्रदीयते राज्यत:। वर्तमानशिक्षानिमित्तम्, उच्चविद्यालय: माध्यमिकशिक्षालय: आरम्भिकशिक्षालयाश्च राष्ट्रस्य प्रान्ते प्रान्ते वर्तन्ते यत्र निराबाधं सर्वेपि शिक्ष्यन्ते। बालिकाविद्यालय:, शिल्पकला-शिक्षालयश्चापि (स्कूल आफ् आर्ट्स्) भूरिभूरिध-नव्ययेन राज्यात्परिचाल्यते। राजकीय-संस्कृतकालेजे नेपालादिदूरदूरदेशेभ्योप्यागता: संस्कृतस्यो-च्चतमां शिक्षामधिगच्छन्ति शिक्षार्थिन:। अत्र हि चतुर्णामपि वेदानां तदङ्गानां च नियमानुसारिणी शिक्षा प्रदीयते। सर्वसाधारणस्य कृते महाविशाल: पुस्तकालयोपि राजत एव स्थापितोस्ति येनापरिमितं लाभमधिगच्छन्ति लोका:।
राजकुमाराणां शिक्षानिमित्तमपि 'मेयो कॉलेजे’ भूरिभूरिधनं समये समये प्रादीयत महाराजेन। संप्रति प्रतिवर्ष षड्लक्षमुद्रापरिमितं धनं शिक्षाकार्ये व्ययते। न केवलं निजराज्यस्यैव शिक्षणार्थमपि तु अन्यान्येष्वपि भारतस्य प्रान्तेषु शिक्षाकार्यस्य कृते वितीर्णमस्ति महाराजेन धनम्, यस्य संख्या ६९४२३३) मुद्रापरिमितास्ति। १९१२ तमे ख्रिष्टाब्दे जनवरीमासस्य २४-२५-२६ तारिकासु दरभङ्गानरेश:, श्रीमान् मालवीयश्च यदा हिन्दुविश्वविद्यालयस्य कृते द्रव्यसंग्रहार्थमागच्छतां तदा ससंमानं पञ्चलक्षमुद्रा: प्रादीयन्त श्रीमता।
जयपुर-काशी-दिल्ल्यादिस्थानेषु महाराजश्रीजयसिंहदेवेन विश्वविश्रुता या: किल ज्योतिर्यन्त्रशाला: (आब्जरवेटरीज) निर्मापितास्तासां सर्वासामेव जीर्णोद्धार: पुनरकार्यत महाराजेन।
तृतीय: [सहानुभूति: भारतराजस्य हितैषिता च]
श्रीमान् माधवेन्द्र: सनातनधर्मानुसारं राजशक्तिमीश्वरविभूतिं मन्यते स्म। अत एवायमाजन्म सत्यो राजभक्त: समभवत्। सम्राज: सभाजनावसरे अतितमां विनयेनायं व्यवाहरदिति बहवो विरुद्धां टिप्पणीमकुर्वन् परं ते महाराजस्य गभीरतममाशयं नीतिपाटवं च नांशतोऽप्यविदन्निति वक्तव्यं भवेत्। अनेन हि चित्राल-टीरादियुद्धेषु बहुवारान् भूयसी धनसहायता विहिता। 'ट्रान्सपोर्ट कोर’ नाम्नी सैन्यशाखैव पृथक् राजसहायतायै निजराज्ये परिचालिता। युद्धाद्यवसरेषु महाराजेन याऽऽर्थिकसहायताक्रियत तत्संख्या १६६७४१७ परिमितास्ति।
चतुर्थ: [प्रजानां सौख्यसाधनं तासां परिष्कारश्च]
प्रजानां हितकार्याण्यपि सर्वतो विश्रुतानि महाराजस्य। लोकानां सौख्यार्थं स्थाने-स्थाने जलाशया: परिष्कृतमार्गा: ('सड़क’) प्रकाशप्रबन्धाश्च राजतो विहिता यस्य किञ्चिदपि शुल्कं प्रजातो न गृह्यते। सर्वत्रैव नगरपरिष्कारिणी समिति: (म्यूनिसिपल कमेटी) प्रजानां करादेव परिचलन्ती दृष्टा, परं माधवेन्द्रेण तस्या अपि व्ययो राजकोषादेवादायि। प्रजानां नैरोग्यार्थं प्रान्ते प्रान्ते चिकित्सालया: स्थापिता यत्र नि:शुल्कं चिकित्सन्ते सुयोग्या भिषज:। 'मेयो हॉस्पिटल’ नामक: प्रसिद्धश्चिकित्सालयो लक्षलक्षमुद्राभि: परिचाल्यते यत्र नेत्रादिचिकित्सां दूरदूरतोप्यागता रोगिणो नि:शुल्कमेव कारयन्ति।
घट्टगोपुरस्यान्नसत्रं दीनानां हितमुपलक्ष्य श्रीमतैव प्रचारितं यत्र सार्द्धत्रिशतं दीना: प्रत्यहं भोजनमधिगच्छन्ति, अशक्ताश्च गृह एव तत्परिमितमन्नम् (पेटिया)।
वर्तमाने यूरोपमहासमरे वीराणां बाहुबलप्रदर्शनस्य नासीत्प्रायोऽवसर:। एतद्धि यन्त्राणां युद्धमासीत् यत्राऽलक्षितो यन्त्रगोलकोऽकस्माद् बहून् संहरति स्म। अस्मिन् युद्धे मनुष्याणा-मावश्यकता यदा हि महाराजस्य सविधे प्राकाश्यत भारतेश्वरेण, तदा तदर्थं भूरिलक्षमुद्रा एव व्यतारीन्महाराजो न पुनरेवंविधे यन्त्रयुद्धे निजप्रजाया आकालिकं होममन्वमन्यत। प्रजाहितकार्येषु महाराजेन सार्द्धकोटिमुद्रा: प्रादीयन्तेति संहत्य जानीम:।
आयवृद्धेरायोजनानि
महाराजेन निजशासनकाले न केवलं दानवीरतैव प्रदर्शिता प्रत्युत आय-वृद्धेरप्यायो-जनानि बहूनि सङ्घटितानि। रामगढादीनां सुप्रसिद्धा विशालजलबन्धा: श्रीमतैव कारिता येषां कुल्याभिर्बहुक्रोशपर्यन्तं कृषि: सम्पद्यते। शेखावाटीप्रान्ते माधवपुरप्रान्ते च राजव्ययेन बाष्पयानं प्रचारितं यस्माद्धि प्रतिवर्षं द्वादशत्रयोदशलक्षमुद्रा उत्तिष्ठन्ति। राजकीयपत्रप्रेषणाया: (डाकखाना) स्थितिरपि नूतनरूपेण श्रीमतैव परिष्कृता यस्मात् प्रतिवर्ष लाभो भवति। श्रीमत: शासनकाले राजकोषीयो वार्षिक आय: (खालसा) एककोटिपरिमित: समभवत्।
गौरवसंवर्द्धनम्
जयपुरधराधीशानां यात्रोत्सवा: ('सवारी’) राजसभाश्च अपूर्वा एव समभवन्निति जानीयु: प्रत्यक्षदर्शिनो लोका:। महाराजश्रीजयसिंहदेवेन (द्वितीयेन) महाभारते वाल्मीकीय-रामायणादिषु च वर्णितानि प्राचीनानि यानासनानि निर्मापितानि। माधवेन्द्रस्य समयपर्यन्तं तेषां परिपाटी तथैवाऽभवत्। राजसभास्तादृश्य: समभवन् यत्र राजा साक्षादिन्द्र एव प्रतीतोभवत्। हस्तिनामश्वानामुष्ट्राणां वृषभाणां च नानाप्रकाराणि तत्तादृशानि यानान्यासन् यानि दृष्ट्वा लोकस्य हृदि राजगौरवमङ्कितं भवेत्। ध्वजा: पताका: हस्तिगता दुन्दुभयो महासनम् (अम्बारी) मत्स्याकारा नरेन्द्रसज्जा: ('माही मरातिब’) च राजराजेन्द्रगौरव-मस्मारयन्। श्री माधवेन्द्रेण हस्तिनामपूर्वो रथ (इन्द्रविमानम्) स्वर्णादिसामग्रया तथा निर्मापितो यत्र हि तलद्वये सान्त:पुरो राजा तिष्ठन्निन्द्र एव प्रतीयेत। बाष्पयानस्येन्द्रविमान-नामका: सज्जितशकटा: (सैलून) तादृशा निर्मापिता येषु सवेगं प्रचलत्स्वेव राजसभादिकानि सर्वाण्येव कार्याणि ससमारोहं संभवेयु:, अन्त:पुरादीनां च यत्र पृथक् पृथक् निवेशो भवेत्।
प्राचीनमर्यादायामाग्रह:
माधवसिंहदेवस्तादृशलोकेष्वासीत् ये हि मन्यन्ते यत्प्राचीनैर्महर्षिभी राजर्षिभिश्च या: प्रथा: स्वीकृता अवश्यं तासु किञ्चिद्रहस्यं गुणश्चास्ति। ते ह्यस्मत्तो बहुतरं प्रभावसंपन्ना आसन्निति। अत एव प्राचीनरीतिनीतीरुन्मूल्य नवीनानां तासां प्रचारे नाभूत्तस्य मतम्। सर्वदा स हि देशीयवेषमेवाधारत्। राजोचितमुष्णीषं प्रावारकं चैव परिधृत्य प्रासादाद् बहिराजगाम। महामूल्यैर्बृहदश्वैर्वाहितं राजरथं विहाय न मरुत्तर-(मोटर)-शकटादिषु तत्प्रवृत्तिरभूत्। प्रत्युत ये सामन्ता एवंविधविचारा आसन्न तेभ्यो महाराज: प्रासीदत्। तस्यैवायमासीद्धेतुर्यदेतत्प्रभाव-वशाज्जयपुरराज्ये नवीनयुगप्रभावो नाममात्रायैव तत्काले प्राविशत्। नवीनान्दोलनैस्तत्संबन्धिनीभि: सभासमितिभिश्च न कश्चन स्थायी उपकार: संभवेत् प्रत्युत शान्तप्रायासु प्रजासु या निजनिजकर्म-स्वेकतानता प्रचलिता तत्र केवलं बुद्धिभेदजननमात्रं भवेत्। अत एव निजप्रजास्वीदृशान्विचारान्ना-भिरोचयामास महाराज:।
जयपुरराज्यस्य शासनसूत्रे प्रबन्धादिपरिवर्तनविषयेऽपि महाराजस्य विचारा: प्राय: प्राक्तनप्रथामेवान्वगच्छन्। राज्यस्य परिष्करणे आदर्शायितै: श्रीरामसिंहदेवैर्य: किल राज्यप्रबन्धो विचार्य प्रचारितस्तत्र प्रबलावश्यकतायामेव परिवर्तनं विधेयमन्यथा मज्जीवने तु तन्निर्वाह एव मत्कर्तव्यमित्यासीन्महाराजस्याभिप्राय:। अत एव ये परिवारा राजसेवायामद्यावधि प्रवृत्तास्तेषां पुत्रपौत्रादिष्वेव तत्कार्यभारं यावच्छक्यं समर्पितवान्न प्रायो नवीनेषु। अनेन बहवस्तदिदमध्यस्यन्ति यन्महाराजेन निजशासने न कश्चिन्नवीनपरिष्कार: कृत इति। किन्तु केनचिदुद्यानाध्यक्षेण निजारामे प्राचीनान्फलवतस्तरून्सावधानं परिषिच्य नवीना यदि नारोपितास्तर्हि किं वा तस्य वैगुण्यम्? फलप्रसुव: सहस्रं सहकारतरून्समुन्मूल्य बहिर्दर्शनमात्रसुखानां लक्षलक्षाणामपि नवीननिर्गन्धक्षु-पाणामारोपणं न सर्वेषामेव मते चातुर्यं परिगण्येत। महाराजश्रीरामसिंहदेवस्य समयादेवानुवृत्तं बहूनामधिकरणानाम् ('कचहरी’) कार्यं प्रायो यवनलिप्यामेवाभवन्महाराजस्य समयेऽपि। परं श्रीमानधिकरणस्य सर्वाणि कार्याणि हिन्दीभाषायामेवाभिरोचयामास मानसे, स्वयं च निजमातृभाषायामेवाकारयत्। कलकत्तानगरे मरुनिवासिव्यवसायिनां समितौ ('मारवाडी एसोसियेशन’) अभिनन्दनस्योत्तरे श्रीमन्महाराजेन स्पष्टमेवाज्ञप्तमासीत् यन्मम राज्ये हिन्दीभाषाया न कश्चित्प्रतिरोध:।
महाराजो राजोचितस्वरूपसंरक्षस्य भूरि पक्षपाती समभूत्। नरेन्द्रे यदा काचिदतिशयिता शक्ति: परिगण्यते तदा तदनुरूपस्वरूपेणैव धरणीन्द्रैर्वर्तितव्यमित्यासीत्तस्य हृदयम्। अत एवास्य देशान्तरयात्रा राजोचितसमारोहेणैव समभवत्। निजधर्ममर्यादानुवर्तनं तु हृदयपरिस्यूतमासीदेव। स्थालीपुलाकन्यायेन महाराजस्य यात्रावृत्तावबोधनार्थं 'इङ्गलेण्डयात्राम्’ किञ्चिचद्विस्तृत्याधस्तादवतारयामि
जयपुरनरेन्द्रस्य 'इङ्गलेण्डयात्रा’
भारतसम्राज: श्रीमत: सप्तम-एड्वर्डमहोदयस्य (१९०२ तमख्रिष्टीयवत्सरे जूनमासस्य षड्विंश्यां तारिकायां भाविनि) साम्राज्यसिंहासनाधिरोहमहोत्सवे समवेतुं भारतराजतन्त्रस्य कार्यालयात्ससम्मानमामन्त्रणपत्रम् (१९०१ तमख्रिष्टीयवत्सरे अक्टूबरमासस्य सप्तमतारिकायाम्) जयपुरपुरन्दरस्य श्रीमाधवेन्द्रस्य सविधे प्रापत्। तदुपरि महाराजोचित-सम्भारेण यात्रां चिकीर्षुरेष धरणीन्द्र: समुद्रयात्रां कृत्वा प्रत्यन्तप्रस्थानविषये धार्मिकमर्यादया सङ्कुचन् धर्मसभाप्रधानपण्डि-तानाहूय सम्मतिं जग्राह। तैर्व्यवस्था दत्ता यन्महाराज: प्रत्यहमुपास्यदेवस्य भगवत: श्रीगोपालस्य महाप्रसादं गृह्णात्येव। ततश्च तस्यैव भगवत: सह नयने तत्रापि च पूर्ववत्तत्प्रसादोपयोगे न किञ्चिदवद्यं भवेत्। भगवच्चरणारविन्दसम्बन्धे कथंकारमपावित्र्यं स्पृशेदिति। परं धर्माधर्म-विचारमकिञ्चिद् गणयद्भिर्वैदेशिकजनै: क्षुण्णे अपावनपदार्थैरशुचीकृते जलयाने भगवन्मूर्तेर्नयनं कथमिवोचितमासीत्। अत एवेदृश: पोत: पर्यन्वेष्यते स्म यस्मिन्न केनचिद्यात्रा कृता भवेत्। बहुव्ययं विधाय 'टाम सकुक कम्पनी’ द्वारा 'एस्. एस्. ओलिम्पिआ’ नामको नवीनतम: पोतस्तदभिलषितं पूर्णद्रव्यं प्रदाय निजायत्त: कृतोऽभूत् यस्य तलं नाद्यावधि जलस्तरेण स्पृष्टमभूत्। आत्मनो मनोरथानुसारमिमं सज्जीकर्तुं जयपुरराजकीया: पुरुषा मोहमयीं प्राहीयन्त, यैरतिशीघ्रं जयपुरपुरन्दरस्येच्छानुसारमयं परिष्कृतश्चालङ्कृतश्च।
इयद्दूरयात्रायासीमव्ययात्तायामपि महाराजेन सह गामिनां लोकानां संख्या सार्द्धशतानु-मिताऽभूत्। येषु चौमूपति: श्रीदेवीसिंह:, सीकरनरेश: श्रीमाधवसिंह:, सेनापति: श्रीहरिसिंह:, एतत्प्रभृतय: सामन्ता:, पण्डितेषु विद्यावाचस्पतिश्रीमधुसूदनशर्माण:, सचिवेषु संसारचन्द्रसेन-प्रमुखा:, डाक्टरेषु दलजङ्गसिंहादय:, गौराङ्गेषु कर्नल सर एस्. एस्. जेकबप्रभृतय:, परिजनेषु खवासबालाबख्शप्रभृतय:, श्रेष्ठिषु रामनाथप्रमुखास्तावदुल्लेखार्हा:। महाराजस्य सेवकानामेव संख्या शतोत्तरा समजायत। रायबहादुरो धनपतिरायस्तु स्वाभिलषितान्सेवकानादाय बहो: कालत्पूर्वमेव महाराजाज्ञया लण्डनमगच्छत्, येन हि तत्र गत्वा महाराजस्येच्छानुसारं सर्वापि व्यवहारसामग्री पूर्वत एव सज्जीक्रियेत।
महापोतेऽस्मिन् सर्वेषामेव सहगामिनां कृते स्वरूपरूपानुसारं सुप्रबन्ध: कृतोऽभूत्। षण्महानसा निरमीयन्त यत्र जातिनियमानुसारं पृथक् पृथग् भोजननिर्माणव्यवस्था भवेत्। स्नानागारेभ्य: पृथङ् महाविशाल एक: कुण्डो निरमीयत यो हि भारतादेव जलेनापूर्यत। महाराजस्याज्ञानुसारं बहव: कर्मचारिण: केवलमेतदर्थमेव मुम्बई प्राहीयन्त यत्ते गत्वा महाविशाल-स्यास्य जलयानस्य प्रक्षाल्य पावनीकरणस्य प्रबन्धं कुर्यु:। एभि: सह पञ्चविंशतिब्राह्मणा: केवलं वारियानस्य प्रक्षालनार्थमेव जयपुरात्प्रहिता अभूवन्। श्रीमतो महाराजाधिराजस्य अन्येषां च सहयायिनां कृते पानार्थं श्रीगङ्गाजलस्य तावान् प्रबन्ध: पूर्वत एव कृतोऽभूत् येन हि षण्मासपर्यन्तं तत्पर्याप्तं भवेत्। भोज्यवस्तूनि तन्दुल-गोधूम चूर्ण-घृतप्रभृतीनि पूर्णमात्रायां सह समभ्रियन्त येन प्रत्यन्ते तत्संग्रहस्य नावश्यकता भवेत्। फल-शाकप्रभृतीनि तु प्रतिसप्ताहं पवित्रतया सह भारतादेव प्रहीयेरन्निति विशेषप्रबन्ध: पूर्वत एवाक्रियत। प्रतिदिनव्यवहारार्थमावश्यकं सर्वमपि वस्तुजातं षण्मासपर्यन्तं सर्वेषामपि जनानां कृते पर्याप्तं भवेत्तावत्किल निजनगरादेव सह नीयते स्म। किं बहुना, हस्तप्रक्षालनार्थं मृत्तिकापि भारतादेव समगृह्यतेत्यत्र नास्त्यतिशयोक्ति:। अस्य वारियानस्य स्वामिभि: प्रतिज्ञापत्रमलिख्यत यद् यावन्महाराजस्यानेन यात्रा भविष्यति न तावत् हिन्दुधर्मविरुद्धं वस्तु जलयानचालकै: कप्तानप्रभृतिभिरपि व्यवहिृयेत।
श्रीमतो जयपुरेन्द्रस्य रत्नाभूषणान्येव केवलं त्रिंशल्लक्षमुद्रामूल्यान्यासन्नस्यां यात्रायाम्। सम्राजे उपहरणीयानि महामूल्यवस्तूनि त्वेभ्य: पृथक्। एतेषामाभूषणानां पञ्चचत्वारिंशत्सह-स्रमाङ्गलमुद्रा: (पाउण्ड) तु केवलं संरक्षणशुल्कमेव (बीमा) अदीयत। नियतव्ययादतिरिक्ता: पञ्चदशलक्षमुद्रा: टामसकुककम्पनीसविधे एतदर्थं न्यधीयन्त यन्मार्गे आवश्यकतायां ता: संगृह्येरन्।
मईमासस्य (१९०२) पञ्चमतारिकायां जयपुरनरेन्द्रस्याज्ञया स्वाधीनीकृतं प्रथमं विशेषवाष्पयानम् ('स्पेशल ट्रेन’) जयपुरात्प्राचलत् यस्मिन्नष्टौ बृहच्छकट्य: केवलं यात्रोपकर-णस्य भारेणाऽऽपूर्णा आसन्। अष्टमतारिकायां द्वितीयं विशेषबाष्पयानं प्रास्थित, यस्मिन्हि सीकरनरेशचौमूपतिप्रभृतय: सपरिजना मोहमयीमगच्छन्। नवमतारिकायां तु रात्रावेकादश-वादनावसरे श्रीश्रीमान् जयपुरधरापति: सपरिकरो विशेषबाष्पयानेन मोहमयीं प्रति प्रास्थित। इत: पूर्वमष्टवादनवेलायां राजहर्म्यमालाया: प्रधानगोपुरत: (सिरेह ड्योढी) श्रीमान् जयपुरेन्द्रो राजसज्जया नगरमध्यतो भूत्वा प्रत्यन्तयात्रायै प्रस्थितोऽभवत्। सिंहदुर्गात्पञ्च-विंशतितोपध्वनयो घोरतरगर्जनया महीमहेन्द्रस्य प्रस्थानमङ्गलमसूचयन् लोकेभ्य:। आबालवृद्धवनितं सर्वेपि पौरा: श्रीमन्माधवेन्द्रदर्शनार्थं राजमार्गे समवेता: समभवन्। सुदूरयात्रायै गच्छन्तं निजस्वामिनमालोक्य सर्वेषां चक्षूंषि बाष्पजलाकुलान्यभूवन्। प्रजावत्सल: श्रीमान् माधवेन्द्रोप्युच्छ्वसितहृदय: समभूत्।
मध्ये अहमदाबादादिनगरेषु स्वागतस्वीकारेण तत्तदधिपतीन्सनाथयन्नेष १२ तारिकायां मोहमयीमवाप्तवान्। चरणेन मोहमयीभूमिं स्पृशत्येव घोरतरतोपध्वनिभिर्महाराजस्य स्वागतम-सूच्यत नगरे। बाष्पशकटेरवमोचनस्थान एव महाराजस्वागतार्थमुत्कण्ठितानां भूस्वामिनां नगर-श्रेष्ठिनामन्येषां च राजतन्त्राधिकारिणां सुमहान्समवायोभवत्। तत्रैव तत्तेषां विशिष्टपुरुषाणामुपायनानि स्वीकृत्य महता समारोहेण श्रीमान् जयपुरेन्द्र: 'अपोलो बन्दरम्’ अगच्छत्। समुद्रतटोपरि महाराजदर्शनार्थमुत्कण्ठितानां लोकानां पूर्वत एव महान्समारोह आसीत्। क्षात्रतेजसा दुर्द्धर्षमनोरमां महाराजस्य मूर्तिमवलोक्यैव दूरदूरदेशवासिनामपि लोकानां मुखात्स्वत एव जयध्वनयो निरगच्छन्। सुशिक्षितमपि मोहमयीनगरं महाराजस्य दर्शनात्तथोत्कण्ठितमभूद् यथा तरङ्गकलकलाकुलमपि सागरतटमिदं हर्षकोलाहलाद्-द्विगुणतरकलकलमवालोक्यत।
तद्देशीयपण्डितै: समर्पितानि संमानपत्राणि स्वीकृत्य श्रीमान् जयनगरेन्द्र: समुद्रपूजन-मकरोत्। एतस्य धार्मिकसमारम्भस्य साधनार्थमेव बहव: पण्डिता: कर्मकाण्डिन: पुण्यविभागाधिकारिणश्च जयपुरात्प्राहीयन्त। पूजार्थमेतत्समुद्रतटं प्रक्षाल्य पवित्रीकृतमभूद्राजपुरुषै:। बृटिशाधि-कृतमपि अपोलोतटं महाराजप्रतापेन स्वाधिकृतमिवावलोक्यते स्म। तस्मिन्समये समस्तमपि तदेतत्तटं वन्दनमालिकाभि: कदलीस्तम्भैश्च मण्डितमभूत्। सोपानश्रेणी पूजोपकरणैर्भरिताभवत्। समुद्रार्थमुपायनीकरिष्यमाणानां सुवर्णरजतकलशानां पङ्क्तिभिरेषा सोपानपङ्क्तिरालोकितेवाभूत्। आसीत्सोपानश्रेणिषु राजकीय: प्रबन्ध:, परं तदुपरितने सुविशाले तटप्रदेशे नगरवासिनां सुमहन्मेलकमभूत्, ये हि तटभित्तिष्वान-मितपूर्वकाया: सोत्कण्ठमिममभूतपूर्वं धार्मिकसमारोह-मवलोकयन्तो न तृप्यन्ति स्म। बहवो धनिकनागरास्तु बाष्पनौका: (आगबोट) समधिरुह्य समुद्रतस्तदेतद्दृश्यमवलोकयन्ति स्म।
सुवर्णसूचीकार्यखचितां महामूल्यां मखमलनिर्मितां बृहदासन्दीमास्थाय अमात्या-दिभिर्धार्मिकै: सदस्यैश्च परिवृत: समुद्रमर्चयन् सपरिकरो महाराज: कौतुकिभिर्नागरै: सबहुमानं छायाचित्रेष्वङ्कितोऽभूत्। प्रात्यहिकमिदं वृत्तं स्थानीयेषु दैनिकपत्रेषु ससंमानं प्राकाश्यत। श्रूयते, सेयं समुद्रपूजा तेनैव विधिनाऽक्रियत येन हि महाराजस्य वंशधरो भगवान् श्रीरामचन्द्र: करोति स्म। अस्यां हि सुवर्णरजतमया: कलशा:, महामूल्यानां मौक्तिकानां माला:, महार्हाणि कौशेयानि च नदनदीपतये भगवते सागरायोपाहिृयन्त। पूजोत्तरमुत्तिष्ठता महाराजेन यदा हि स्वहस्तेन समुद्रस्य नीराजनं व्यधीयत तद्धि दृश्यमद्भुतमेवाभूत्। सर्वेप्यवलोकितारो विस्मयेन च भक्त्या च हर्षेण च गौरवेण चाक्रान्ता इवाभवन्। श्रद्धालूनां नयनेभ्य: प्रेमाश्रु प्रावहत्। न कोपि तदेतद् दृश्यमवलोकयंस्तृप्यति स्म। एतदनन्तरं शास्त्रीयपद्धत्या वारियानस्यापि शोधनं पूजनं चाक्रियत। ततस्तु मङ्गलविधानोत्तरं पूर्वं भगवान् श्रीगोपालस्तदनन्तरं च श्रीमान् महाराजस्तमिमं महापोतमधिरुह्य लण्डननगरार्थं प्रस्थानमकरोत्।
मध्ये विविधान्देशानधिगच्छन् नानादृश्यानि चावलोकयन् महाराजो जूनमासस्य तृतीयतारिकायामिङ्गलेण्डस्य डोवरनामकं तटं प्राप्नोत्। तत्र हि सम्राट्प्रहिता वैदेशिकसामन्ता अन्ये च राजाधिकारिणो महाराजस्य स्वागतार्थं पूर्वत एवोपस्थिता आसन्। भूमितले चरणन्यासं कुर्वत्येव महाराजे रणपोतेभ्यस्तोपध्वनयोऽभूवन्। राजकीयाधिकारिभि: समर्पितं सम्मानपत्रं स्वीकृत्य श्रीमान् महाराजो बाष्पयानेन लन्दननगरं प्रति यात्रामकरोत्। महाराजस्य बाष्पयानाधि-रोहोपि इङ्गलेण्डवासिनां सुमहोत्सवायाभूत्। असंख्याता भारग्रन्थयो रेलशकटीषु स्थाप्यन्ते स्म, याभिस्तदेतत्तटं व्याप्तमिवाभूत्। नानावर्णानि महामूल्यवस्त्राणि धारयन्तो महाराजस्य परिजना वैदेशिकानां हर्षं च विस्मयं चाजनयन्।
सम्राजा ससंमानमेष महाराजो 'मोरेलॉज’ नामके स्थाने ससमारोहमस्थाप्यत। श्रीमतो जयपुरेन्द्रस्य माननीयमहाराजोचितं वेषं क्षत्रियोचितां प्राचीनमर्यादां नरेन्द्रोचितमात्मगौरवं राष्ट्रपतिसमुचितं परिकरसम्भारं चावलोक्य सर्वेपि तद्देशीया: प्रभावाभिभूता इवासन्। सम्राजास्य गौरवानुसारं नैजानि चत्वारि यानानि राजसेवायामाज्ञप्तानि यानि नेतरेण पूर्वमुपलब्धानि। निवासाद्बहिर्निर्गत एवास्मिन्नरेन्द्रे सर्वेपि सम्भ्रान्ता नागरा एनं विलोकयितुमौत्सुक्यमावहन्ति स्म। सर्वकार्येषु सर्वत: पूर्वं भगवतो गोपालस्यैव सादरप्रत्यवेक्षणम्, मृत्तकापर्यन्तानां नित्योप-योगिवस्तूनामियद्दूरपर्यन्तमानयनम्, इत्यादिभारतीयमर्यादामभिवीक्ष्य तत्रत्यै: समाचारपत्रैर्य: किल सम्मान: प्रकाशितस्तस्य सारमधस्तात् प्रकाशयामि --
(ता. ५ जून 'मॉर्निङ्ग पोस्ट’) 'अनया यूरोपयात्रया महाराजेन सर्वेष्वयमादर्श: स्थापितो यन्माननीया महाराजा इत्थं निजधर्ममनुरुन्धन्ति, इत्यादि’।
('ग्रेट थॉट्स’ २ जून) 'श्रीमान् महाराजो दीनानां रक्षार्थं भूरि भूरि धनं दत्तवानिति बहो: कालाच्छृणुम:। सत्यं त्वेतद्, यत्सिंहासनाधिरोहादेव श्रीमानुदारतायै प्रसिद्धोस्ति, इत्यादि।’
('क्रानिकल’ २३ मई) 'अस्मिन्देशे पर:सहस्रा भारतीया: समागता: परं नैतादृशो-ऽद्यावधि समायातो य: किल धर्मपालने एतावद्दृढो भवेत्। स एव भारतीय: प्रशस्यते यो हि धर्ममर्यादामनुसरति। अयं नरेन्द्र: परमबुद्धिमान् प्रजाहितैषी च।’
देवमूर्तेर्लण्डननगरे एवं समारोहेण नयनं नाभूत्पूर्वम्। अत एव मूर्तिपूजाविरोधि-भिर्मिश्ररीमहोदयै: प्रतिमापूजाविरोधे प्रकाशिता: केचिदालोचनालेखा: पत्रेषु। परं तस्मिन्समये प्रेमानन्दभारतीनामक: स्वामी लण्डनमेवाध्यवात्सीत्। स हि तेषां लेखानां समुचितां प्रत्यालोचनामपि पत्रेषु प्रकाशयामास। तत्सारमधो निर्दिशामि --
('वैस्टमिंस्टर’ ता. २८ जून) 'ब्रिटानियानिवासिन: साम्प्रतं धर्मविषये आत्मन औदार्यं सर्वत्र घोषयन्ति। सम्प्रति न तादृश: समयो यत्ख्रिष्टमतानुयायिभ्योऽन्ये घृणादृष्ट्या विलोक्येरन्। भारतीयसभ्यताविषये मैक्स्मूलरप्रभृतिभिर्बहुतरं परिज्ञातम्। वेदोपनिषद्गीतादीना-मनुवादा इङ्गलिशभाषायामप्यभूवन् येषां बहुतर: समादारोऽस्ति। भगवत: श्रीकृष्णस्य कियन्माहात्म्यमिति गीतापरिशीलका: परिचिनुयु:। तुलसीचन्दनादिभिर्मूर्ते: पूजनं तु सुदृढो मानसिकविश्वास:। ख्रिष्टमतावलम्बिनोपि मूर्तिपूजातस्तावत्कालं न मुक्ता: सन्ति यावत्ते स्वमान्यानां मूर्तेश्चित्राणां क्रासचिह्नस्य च पुरतो मस्तकं नामयन्ति। सर्वेष्वपि देशेषु निजनिजानुसार-मुपासनाया: पृथक् प्रथक्प्रकारा भवन्ति। जलद्वारा 'वैप्तिस्मा’- रीतेर्निर्वहणम्, काष्ठनिर्मितक्रा-सचिह्नस्य सम्मुखे जानुपातनपुरस्सरं प्रार्थनाप्रक्रिया, राज्याभिषेकसमये जैतूनतैलाभ्यङ्गादयोपि तादृशा एवोपासनाप्रकारा: सन्ति यादृशा भारतीयादीनां पुष्पादिभिर्देवार्चनादय:, इत्यादि’।
२६ जूनदिवसे संपादनीयतया पूर्वतो नियत: सम्राजो राज्याभिषेकमहोत्सवस्तस्या-स्वास्थ्यवशात्स्थगितोऽभवत्। तत्प्रतीक्षायां सार्द्धमासपर्यन्तं तावद्भि: परिकरैस्तादृशेन च स्वदेशीयवस्तुव्रतेन सह श्रीमतो महाराजस्य तद्देशे निवास: पुनरधिकं प्रवृद्धोऽभवत्। तत्प्रान्तीय-दर्शनीयवस्तुविलोकनकौतुकेन सोयं समयो यथाकथंचिदतिवाहितोऽभवत्। ततो नीरोगतां गते तस्मिन् १९०२ तमख्रिस्टीयवत्सरस्य नवम्यामगस्तमासतारिकायां सोयं साम्राज्यसिंहासनाधिरोह-महोत्सव: समभून्नियत:। संमाननीयनिजसामन्तै: सहित: श्रीमान्महाराजस्तदेतस्मिन्महोत्सवे समवेतोऽभवत्। अनिर्वचनीयया शोभासंपदा परमेण च साम्राज्यगौरवेण सह सोयमुत्सवो यथारीति समपाद्यत। अथ द्वादश्यां तारिकायां श्रीमान् सम्राट्महोदय: समागमार्थं श्रीमज्जयपुरनेरन्द्रं ससमादरमामन्त्रयत। श्रीमन्महाराजेन संगत: सम्राट् परमं प्रमोदं प्राकाशयत्। भारतयात्रायां पूर्वावलोकितस्य जयपुरनगरस्य शोभाम्, तत्र कृतां मृगेन्द्रस्य मृगयां च भूरि भूरि प्राशंसत्। श्रीमान् महाराजो रत्नच्छटाविच्छुरितमपूर्वमेकं खड्गं सम्राजे उपाहरत्, यस्य मूल्यं सार्द्धलक्षमुद्राप-रिमितमासीत्। दमिश्कदेशीयलोहेन निर्मितो यश्च पूगफलपृथुलैर्महामूल्यैर्हीरकैर्जटितोऽभवत्। सम्राडेतस्य प्रस्फुरन्तीं द्युतिमालोक्य परममाह्लादितोऽभवत्। सादरमवदच्च यदहं श्व एव साम्राज्यसेनासंनाहे खड्गरत्नमिदमुप-योक्ष्यामि। सम्राण्महिष्यपि सादरमवादीत्-यद्भवदुपायनी-कृतेषु महार्घरत्नजटितेषु पात्रेषु प्रत्यहमहं पेयमुपगृह्णामि।
एतदनन्तरं दशभिर्दिनैरवशिष्टान्यपि दर्शनीयस्थानान्यवालोकयन्नरेन्द्र:। अस्मिन्नेवावसरे कन्दुकक्रीडायाम् ('क्रिकेट’) विश्वविश्रुताय श्रीरणजित्सिंहाय (वर्तमानजामनगरराजाय) सहस्रं 'पाउण्ड’ मुद्रा विततार।
अथ द्वादश्यां तारिकायां सम्राजा सादरं विसर्जित: श्रीमान् परिजनेन सह विशेषबाष्प-यानम् (स्पेशल ट्रेन) अधिरुह्य लन्दननगरात्प्रातिष्ठित। इत: पूर्वं कतिचिद्दिनेभ्य: पूर्वत एवं कियन्तश्चन प्रतिष्ठिता राजकर्मचारिणो भारतं प्रति प्रहिता अभूवन्, येषु केचन मार्गे विश्रमिष्यतो महाराजस्येच्छानुकूलं प्रबन्धम् अन्ये च मोहमय्यां पूर्ववत्समुद्रपूजना-दिसामग्रीं च सङ्घटयेयुरिति।
चतुर्विंश्यां तारिकायां निजदेशं प्रति मङ्गलप्रस्थानाय स्वायत्तीकृतं 'एस्. एस्. ओलम्पिआ’ पोतमध्यारोहत्। समुद्रयानेन निजदेशं गच्छत: श्रीमज्जयनगरेन्द्रस्य शुभजन्मोत्स-वदिवसोपि सप्तविंश्यां तारिकायामेतन्मध्य एवाजगाम। प्रातस्त एव स हि महापोतो नानावर्णाभि: पताकाभिरामण्डितोऽभवत्। मध्ये च पञ्चरङ्गाङ्कितो महाविशाल एको विजयध्वज: समारोप्यत येन पोतस्य शोभैवान्यादृशी समलक्ष्यत। सर्वेषां पोतकर्मचारिणामखिलानां च राजपरिजनानां कृते तस्मिन्दिने भोजनस्य विशेष-प्रबन्धोऽक्रियत। सहचरै: सामन्तैरमात्यादिभिश्चाखिलैर्जयनगर-महेन्द्राय माधवेन्द्राय उपायनान्यदीयन्त। श्रीमान्महाराजस्तद्दिननियमानुसारं भगवत: श्रीगोपालस्य मन्दिरे त्रयश्चत्वारिंशत्सुवर्णमुद्रा उपजहार। उत्सवोपलक्ष्ये च पोतपरिचालकाय महामूल्यमेकं घटिकायन्त्रं विततार यस्मिन्नरेन्द्रस्य नामाङ्कितमासीत्। गानवाद्यादिहर्षसमारम्भैरहोरात्रोऽयमहो अविदितयाममयासीत्।
सितम्बरमासस्य अष्टमतारिकायामकस्मात् सामुद्रिक उपप्लव: समुपातिष्ठत। पर्वताकारा: कल्लोला: सवेगमाघ्नन् पोतम्। सायं चैकेन महता तरङ्गेण पोतस्य महानेक: काष्ठदण्डोऽभज्यत। वायुवेगाप्लावितं जलं पोतेऽभरत्। सर्वेपि जना भयव्याकुला: समभवन्। प्रत्येकक्षणे पोतस्य समुद्रसमाधिरनुमितोऽभवत्। भगवतो गोपालस्य सुदृढ: सेवक: श्रीमान् महाराजो यद्यपि न किञ्चिदभैषीत्, परं प्रजावत्सलोऽसौ परिकरस्य क्लेशाद्विषण्णो दिनद्वयं यावन्न भोज्यमप्यासेवत। अस्तु, श्रीमत: पुण्यप्रतापाद्भगवतो गोपालस्य चानुग्रहात्तृतीयदिने विमलं दिनमभवत्। यथापूर्वं प्रासीदद्भगवान्नदनदीपति:।
सितम्बरमासस्य द्वादशतारिकायां मोहमयीं प्रापन्महाराज:। तटसमीपं प्राप्तवत्येव पोते मोहमयीदुर्गात्सम्मानसूचकास्तोपध्वनयो द्विगुणतरमगर्जन्। पूर्ववन्नियमानुसारं समुद्रपूजनादि विधाय जयपुरात्समायातैर्बहुतरै: सामन्तैरभिनन्दित: श्रीमान् विशेषबाष्पयानेन जयपुरं प्रातिष्ठत। सामन्तै: सादरमभिवन्दित: प्रजाभिश्च सहर्षमभिनन्दित: श्रीमान् चतुर्दशतारिकायां ससमारोहमाससाद जयपुरनगरम्। अथ अक्टूबरस्य चतुर्थ्यां तारिकायां राजसज्जाभि: सज्जित: श्रीमान् जयपुरधरणीन्द्र: करीन्द्रमास्थाय राजोपकरणैरभिमण्डितो जयजयशब्दै: प्रजाभिरभिवर्द्धित: शुभमुहूर्ते नगरप्रवेशमकार्षीत्। तद्दिनस्य प्रजानामुत्साहो नगरस्य शोभासन्निवेशश्चापूर्व एवाभवदिति नाऽसौ मे वाचां गोचर:। अस्तु, श्रीमतो महाराजस्य सानन्दप्रत्यावर्तनमङ्गलार्थं ये किल ब्राह्मणा वरण-पूजा-पाठादि राजनिदेशतोऽकुर्वन् तै: सानन्दमाशी:पुष्पहारास्तद्दिन एव समार्प्यन्त जयनगरेन्द्राय।
* श्रीमन्माधवेन्द्रस्य जन्मोत्सव: *
मङ्गलमृदङ्गरवमुखरितहर्म्यमाला
पश्यतां नवं नवं तनोति नयनोत्सवम्
मञ्जुलकुसुम्भरागरञ्जितवसनविभा
वीक्षते समस्तसभा पटु नटनोत्सवम्।
मण्डितमहार्हहेमसिंहासनराजमान-
माधवमहीन्द्रमणिरेति सकलोत्सवम्
भाद्रपदकृष्णनवनवमी समीरयते
जयनगरेन्द्रवरजननमहोत्सवम्॥ ५॥
मृदङ्गरवेण मुखरिता राजहर्म्यमाला पश्यतां जनानां नवनवं नेत्रोत्सवं करोति। परितो राजसौधमाला सर्वत: प्रसाधितेत्यर्थ:। कुसुम्भरागेण रञ्जितानां वसनानां विभा (शोभा) यस्या: ईदृशी, कौसुम्भवस्त्रधारिणीत्यर्थ:। राजसभा संमुखे जायमानं वेषवामादीनां नृत्यं पश्यतीत्यर्थ:। हेमसिंहासने राजमानो माधवनरेन्द्रवर: सकलविधमुत्सवम् एति प्राप्नोति। भादपदकृष्णनवमी जयनगरेन्द्र-श्रेष्ठस्य जन्मोत्सवं समीरयते अस्मभ्यं प्रापयतीत्यर्थ:। तद्दिनजायमानदृश्यस्य दिग्दर्शनम्॥ ५॥
* श्रीमन्माधवेन्द्रस्य जन्मोत्सव: *
राजद्राजवैभवविभासुरसकलनृप-
मण्डलविमलमणिकुण्डलवरायसे
सम्पद्भ्रोगभाजन-महाजनसुरीतिनीति-
निपुणनरेन्द्रमौलिमालातरलायसे।
देशवरभारतपुरातननरेशकुल-
कीर्तिकथाकौमुदीचकासदलिकायसे
कच्छवंशवारिजदिनेश नृपमण्डलेश
माधवनरेश भूमिभालतिलकायसे॥ ६॥
राजमानेन राजवैभवेन विभासुरस्य (दीप्तिशालिन:) सकलमण्डलस्य विमलमणि-कुण्डलवर इव आचरसि। कुण्डलवरशब्दादाचारार्थे क्यङ् एवं सर्वत्र। राजमण्डलस्य शोभासंपत्त्यर्थं त्वं कुण्डलस्थानीयोऽसीत्यर्थ:। राजसंपत्त्युपभोगस्य भाजनभूता:, महाजनानां सुरीतिनीतिषु निपुणाश्च ये नरेन्द्रमौलय: (नृपश्रेष्ठा:) तेषां मालाया: तरल इव मध्यमणिरिवाचरसि। 'तरलो हारमध्यग:’ अमर:। भारतस्य पुरातननरेशकुलानां या कीर्तिकथारूपा कौमुदी तया चकासत् अलिकं (ललाटम्) यस्य तादृश इवाचरसि। प्राचीनराज-वंशप्रथितया कीर्तिचन्द्रिकया ते भालं देदीप्यमानमित्यर्थ:। त्वं भारतप्रसिद्धराजवंशेषु कीर्तिशाल्यसीति यावत्। भूमे: सौभाग्यसूचकस्त्वं सिन्दूरबिन्दुरसीति भाव:॥६॥
* श्रीमन्माधवेन्द्रस्य जन्मोत्सव: *
राकारजनीशरुचिराजत्कीर्तिरोचिरये!
सा का हरिदस्ति ? यतो नैव समादीयसे
कोऽसौ कविपुङ्गवोऽस्ति येन सर्वसंमानित-
मेदिनीन्द्रमालामौलिदेशे न निधीयसे।
मञ्जुनाथ नि:समदयालुतागुणेन मनाक्
जयपुरनगरराजपीठे समुदीयसे
माननीयमञ्जुमहिपालमौलिमध्यमणे!
श्रीमाधवसिंह धर्मवीरगणे गीयसे॥ ७॥
अये! पूर्णिमाचन्द्ररुचिवत् राजमानं कीर्तिरोचि: (कीर्तिप्रकाश:) यस्य तत्सम्बुद्धौ। 'रोचि: शोचिरुभे क्लीबे’ अमर:। सा कीदृशी हरित् (दिक्) अस्ति यतो यस्यां न समादीयसे, अभ्यर्थनया नाभ्युपगम्यसे। मेदिनीन्द्रमालाया राजश्रेण्या: मौलिदेशे, सर्वश्रेष्ठस्थाने इत्यर्थ:। समुदीयसे, उज्जृम्भसे। महिपालानां मौले: मध्यमणिस्थानीय! धर्मवीरसमूहे त्वं जनै: कीर्त्यसे॥७॥
केरलकलिङ्गकच्छकेकयसुकुन्तलेषु
केलिमाकलय्य कामरूपानभ्युपागता
सिन्धुसिन्धुवारसुह्मसिंहलसुसंगतासौ
सौगतसुराष्ट्रस्रुघ्रसाकेतानुपानता।
मञ्जुनाथ मालवमलयमहाराष्ट्रमद्र-
मत्स्यमेरुकच्छमरुमुरलानुसंगता
श्रीमज्जयनगनरेन्द्र! नैकधामिनी ते
कुमुदकलाच्छकीर्तिकामिनी मनोमता॥ ८॥
सिन्ध्वादिभि: सुसंगता मिलिता। सौगतादीन् उपानता प्राप्ता। न एकं धाम यस्या: अर्थात् नानादेशभ्रमणशीला, ते कुमुदकलावत् अच्छा स्वच्छा कीर्तिरूपा कामिनी सर्वेषां मनोमतास्ति। इयं कीर्तिरूपा कामिनी सर्वानुपसरति, नैकत्र गृहं बद्ध्वा वसति, सर्वेषां च मनोहरणं कुरुते इति महिलाजन-विरुद्धचेष्टया यद्यपि निन्दा वाच्या, परं ते कीर्तिर्दिग्दिगन्त-विश्रान्ता। आकर्षकतावशात्स्थानात्स्थानान्तरेषु लोकै: प्रख्यायते। सर्वे च तां श्रुत्वा मनसि मोदन्ते इति वर्ण्यस्य महाप्रभावत्वं ध्वन्यते। राजविषया रतिश्च चरमं व्यङ्ग्यम्॥ ८॥
वङ्गैरभिसंगता कलिङ्गै: किल कीलिताऽसा-
वङ्गै: परिरभ्य परामाभामभिपद्यते
कोसलेषु केलिं कलयित्वा गता कुन्तलेषु
साभिलाषं सिंहलेषु सेयं प्रतिपद्यते।
मञ्जुनाथ मूर्च्छन्ती मदान्धमगधानां पथि
मञ्जुमालवानां मार्गमध्यादवपद्यते
हंहो जयनगरनरेश नित्यनव्या तव
कीर्तिकथाकान्ता श्रियं भव्यामुपपद्यते॥ ९॥
वङ्गै (देशै:) अभिसंगता मिलिता। कीलिता अवरुद्धा, तत्र ते कीर्ति: सुस्थिरेति व्यङ्ग्यम्। अङ्गदेशै: सह परिरभ्य आलिङ्ग्य परां आभाम् (शोभाम्) प्राप्नोति। तत्र ते विशेषेण ख्यातिरिति ध्वनि:। शौर्यमदमत्तानां मगधानां मार्गे मूर्च्छन्ती सर्वत्र व्याप्नुवन्ती। मालवानां च मार्गमध्यादेव अवपद्यते परावर्तते। कीर्तिकथारूपा कान्ता प्रशंसनीयां शोभां प्राप्नोति। अनेकै: सह संगति:, परिरंभ:, केलि:, उपगम:, मधुमत्तानां सहवासे मूर्च्छनादिकं कान्ताजनस्य पक्षे अशोभनम्, परमेतच्चित्रम् (हंहोपदद्योत्यम्) यत् एवंसत्तायामपि कीर्तिकथारूपा कान्ता शोभामेव प्राप्नोति न जनैर्वचनीयताम्। किञ्च-एवंचरित्राया: शीघ्रमेव यौवनापगमात्पुराणता भवति, परं सेयं कान्ता तु नित्यनव्या!! कीर्तिव्र्यापकत्वम्, नानाविषयकतया नित्योपबृंहितत्त्वं च व्यज्यते। वर्ण्यस्य नानादेशेषु ख्यातत्वम् अनेकविषयेषु प्रशंसनीयत्वं च चरमं व्यङ्ग्यम्॥९॥
आशिष:
विलसदतन्द्रचन्द्रचन्द्रिकानुकारिणीयं
कीर्तिकान्तकामिनी ते गाहते दिगन्तरम्
राजद्राजललक्ष्मीलास्यलीलया ललिततम!
तव तु सुधर्मकर्म मण्डति हृदन्तरम्।
विबुधविमण्डिते सुधर्माऽऽस्थानपण्डितेऽस्मि-
न्निन्द्रे माधवेन्द्रे वापि दृश्यते किमन्तरम्
कच्छकुलकैरवकलानिधिविलासधर
माधवनरेन्द्रवर विहर निरन्तरम्॥ १०॥
विलसन् अतन्द्र: (प्रोज्जृम्भमाण:) यश्चन्द्रस्तस्य चन्द्रिकाया अनुकारिणी ते कीर्तिरूपा कान्ता (मञ्जुला) कामिनी दिगन्तं व्याप्नोति। राजन्त्या: राजलक्ष्म्या: या लास्यलीला सर्वदा त्वत्सविधे नृत्यम् तया अत्यन्तसुन्दर! तव हृदयदेशं सुधर्मस्य कर्म कर्तव्यं मण्डयति। सर्वदा लक्ष्मीविलासशाल्यपि हृदये धर्मकार्याय स्थानं ददासीत्यर्थ:। मण्डतीत्यत्र इदित्वाद्वैकल्पिको णिच्। इन्द्रो विबुधैर्देवैर्मण्डित: सुधर्मायास्तन्ननाम्न्या: सभाया आस्थाने च पण्डित:। माधवेन्द्रस्तु विबुधै: पण्डितैर्मण्डित:, सुधर्मस्य आस्थाने अनुष्ठाने पण्डित:। अथवा सुधर्मास्थानं धर्मसभा तस्या: पण्डित:। कच्छकुलरूपस्य कैरवस्य कृते कलानिधेर्विलासधारिन्!॥ १०॥
पूर्वं भानुवंशसूतसगरनरेन्द्रसुत-
मुक्तये भगीरथ आनिन्ये गाङ्गशम्बरम्
संप्रति करालकलिकालपरिखिद्यमान-
निखिलजनानामपि पावनाय निर्भरम्।
तस्मिन्नेव वंशे लब्धजन्मा पुण्यकर्मा यो हि
हरिपदगङ्गाबन्धमुद्दधार सादरम्
धार्मिकधुरन्धर-धरेशकुलमौलिरेष
माधवनरेश इह नन्दतु निरन्तरम्॥ ११॥
भानुवंशे सूतानां सगरनरेन्द्रस्य सुतानां मुक्तये भगीरथ: पूर्वं गाङ्गं शम्बरं जलम् आनिन्ये भूमौ आनिनाय। संप्रति कलिना खिद्यमानानां सकलजनानां निर्भरं पावनाय, तस्मिन्नेव वंशे (भानुवंशे) लब्धजन्मा य: (माधवेन्द्र:) हरिपदगङ्गाया बन्धं जलावरोधम् उद्दधार अपनिनाय। स एष धार्मिकेषु धुरन्धरस्य भूमिपतिकुलस्य मौलिभूत: माधवनरेशो नन्दतु। भानुवंशजेन भगीरथेन पूर्वं गङ्गा यथा आनीता। तथैव भानुवंशजेन अनेनापि बन्धमपनीय हरिपादुकास्थाने गङ्गा आनीता। 'नरोडा बन्ध’ कथा सूच्यते (Narara Ganges Band)॥ ११॥
सो. - जय जय राजदनूप-जयपुरपरिपालनपटो।
श्रीमन्माधवभूप भानुवंशवारिधिविधो!॥ १२॥
राजत: अनूपस्य जयपुरस्य पालने पटो!॥१२॥
दो. - भानुवंशभव्योपवन-कलितकल्पतरुरूप।
वर्षकोटिमव मेदिनीं श्रीमन्माधवभूप॥ १३॥
भानुवंशरूपे भव्योपवने कलितं कल्पतरो: रूपं येन। वर्षकोटिं यावत् मेदिनीम् अव॥१३॥
जयनगरीसीमन्तमणि - माधवसिंहमहीप।
जय जय सकलसुनृपसदसि भानुवंशमणिदीप॥ १४॥
जयनगरीसीमन्ते (केशपाशे) सौभाग्यमणिरूप! सीमन्तमणिपदेन सह माधव-सिंहपदस्य कर्मधारय:। सकलानां सुन्दरनृपाणां सदसि जय जय॥ १४॥
श्रीमद्दिनकरकुलजलधिशारदशशधररूप।
जय जयपुरपालनपटो श्रीमन्माधवभूप॥ १५॥
दिनकरकुलरूपस्य जलधे: कृते शारदचन्द्रस्वरूप!॥ १५॥
* श्रीमन्माधवेन्द्रस्य गुणस्मरणम् *
राजते स्म राजद्राजतेजोद्युतिरम्या यस्य
मूर्तिर्दुर्विदम्या सर्वसद्भि: स्वत: संमान्या
कुत्राप्यभूद्यात्रा राजसज्जासहकारेणैव
यस्य हरिद्वारे सक्तिरासीत्काचिदेवान्या।
शिञ्जितैरगुञ्जन्नित्यमन्त:पुरमाला यस्य
सुकृते विशाला रुचिरासीन्नयसामान्या
राजतया विविधविलाससुखसेवेऽप्यभू-
न्माधवेन्द्रदेवे कापि राजश्रीरसामान्या॥ १६॥
राजन्ती या राजतेजसो द्युति: (शोभा) तया रम्या यस्य (माधवेन्द्रस्य) मूर्ति: क्षात्रतेजोवशात् परिणाहमाहात्म्याच्च दुर्विदम्या अनभिभवनीया, अत एव सर्वसज्जनै: स्वत एव संमाननीया राजते स्म। अलौकिकतेजोवशात् वपु:परिणाहाच्च कश्चिदसामान्य: पुरुष इति स्वत: प्रतीयते स्मेति भाव:। राजसज्जा राजोचितसंभारस्तत्सहकारेण। महासमारोहेणैव यस्य यात्राऽभवदित्यर्थ:। काचिदन्यैव इतरेषु भूपेष्वलभ्यैव आसक्तिरासीत्। यस्य अन्त:पुरमाला: शिञ्जितै: सुन्दरीणां भूषणझणत्कारै: अगुञ्जन्। सुन्दरीसौख्य-विलासमसेवतेत्यर्थ:। एवं सत्यपि सुकृते धर्मे नयसामान्या नीतिसहकृता रुचि: प्रीतिरासीत्। सुकृतमपि न नीतिमुल्लङ्घयासेवतेति 'नयसामान्या’ पदस्याकूतम्। राजतया राजभावात् विविधविलाससुखं सेवते इति विविधविलाससुखसेव:, कर्मण्यण्॥१६॥
राजोचितमुष्णीषं दधार मौलिदेशे सदा
देशोचितवेषे वर्तनेऽस्य रुचिरीक्षिता
मोटरमपास्य सदा वाजिरथगामी बभौ
नव्यविभामीलितेन नाऽतुष्यन्महीक्षिता।
भागवतपाठ-वरणादौ दृढश्रद्धाऽभव-
द्धूमजलयानादौ च शान्ति: पूर्वमीक्षिता
श्रीमन्माधवेन्द्रमहिपाले नव्यकालेऽप्यहो
प्राय: प्रत्नकालेक्षिता रीति: प्रतिवीक्षिता॥ १७॥
निजदेशस्य उचितो यो वेष: वर्तनं व्यवहार: तस्मिन् रुचिर्दृष्टा। नव्य-'न्यू लाइट’ तया मीलितेन कुण्ठीकृतेन महीक्षिता भूस्वामिना न अतुष्यत्। ये सामन्तादयो वैदेशिक-वेषव्यवहारानन्वगच्छन् न तेभ्योऽप्रीयतेत्यर्थ:। महीं क्षियतीति महीक्षित्, क्विप्। वरणं जप-पाठादौ ब्राह्मणानां नियतीकरणम्। धूमयानम् बाष्पशकटि: जलयानं पोत: 'जहाज’। एतदादीनामारोहणकाले पूर्वं शास्त्रोदिता शान्ति: (स्वस्त्ययनम्) ईक्षिता। एतद्वृत्तान्तश्चरित्रे विलोकनीय:। नवीनेप्यस्मिन् काले, माधवेन्द्रविषये (माधवेन्द्रान्त:) प्रत्नकाले प्राचीनसमये ईक्षिता दृष्टा रीतिर्मर्यादा वीक्षिता। नवीनेप्यस्मिन् युगे स हि पुरातनकाले दृष्टया मर्यादया व्यवाहरदित्यर्थ:॥ १७॥
* श्रीयुवराजमहोदयस्य दत्तकसंस्कार: *
दो. - 'ईसरदा-सरदार’कुल 'मोरमुकुट’मभिवीक्ष्य।
स हि युवराजमवातनोन्निभृतं मनसि परीक्ष्य॥ १८॥
'ईसरदा’ स्थानस्य यत् 'सरदार’ कुलं भूस्वामिवंश: तस्य मयूरमुकुटायितम् (शिरोमणिम्) अभिवीक्ष्य। युवराजस्य पूर्वकालिकं 'मोरमुकुटसिंह’ इति नामापि। तं च बहुकालं यावत् गुप्तरूपेण मनसि परीक्ष्य, तस्य गुणदोषान् प्रच्छन्नरूपेण सम्यक्परीक्ष्येत्यर्थ:। स (माधवेन्द्र:) युवराजम् चकार।
[परमगभीराशय: श्रीमाधवेन्द्रो बहो: कालात्पूर्वमेव मनसि युवराजं स्थिरीचकार, परं नानाविधैर्नैतिककारणै: सर्वेषु तत्प्रकटीकरणं नोचितं मेने। १९१६ तमे ख्रिष्टीयवत्सरे अप्रेलमासस्य प्रथमतारिकायां सम्राट्प्रतिनिधिर्लार्डहार्डिङ्गमहोदयो मोहमयीं गच्छन् मध्येमार्गं माधवपुरेपि विशश्राम। तत्र श्रीमान्माधवेन्द्रो 'विमानभवने’ फलभोजनार्थं तं न्यमन्त्रयत्। तदवसरे निजनामाङ्कितलाक्षामुद्रया मुद्रितमेखमेकं पत्रपुटकं तस्मै समर्पयन्नवदत् यत् समुचितावसरप्राप्तिपर्यन्तमिदमेवमेव सुरक्षितं तिष्ठेदिति। आसीदेतस्मिन्नुत्तराधिकारिणो नाम निर्दिष्टम्। एतावत्कालं भाविनो युवराजस्य गुणागुणौ निभृतं परीक्षते स्म। अनन्तरं तु निजस्यास्वास्थ्यं प्रजानामौत्सुक्यं चावलोक्य अधिककालमेतद्रहस्यगोपनमनुचितं मन्वानो १९२१ तमवत्सरे मार्चमासस्य चतुर्विंशतितारिकायां शुभमहूर्ते शास्त्रीयविधिना युवराजमिमं जग्राह। नियमानुसारं चास्य 'मानसिंह’ इति नाम निरदिश्यत]॥ १८॥
प्रजासु सुमहान् महोत्सव:
प्रतिध्वनिता द्यौरद्य दुन्दुभिनिनादभरै-
रिन्दुभिरिवेदं तमो दीपैर्विनिरस्यते
चञ्चति चतुर्दिक् प्रकटासौ मञ्जुमोदघटा
नृत्यन्ती नटाली पौरलोकै: परिशस्यते।
मञ्जुनाथ मोदभरमत्तमानसेन भृशं
महितमहोत्सवेऽत्र सुयश: प्रशस्यते
राजमानमाननीयमण्ड विराजमान!
श्रीमद्युवराज-मानसिंहसहितस्य ते॥ १९॥
द्यौ: आकाशम्। इन्दुभिरिव (महाप्रकाशशालिभि:) विद्युद्दीपै: इदं तम: निरस्यते। चञ्चति प्रचलति। नट्यश्च नटाश्च नटा: तेषां आली पङ्क्ति:। तृतीयचतुर्थचरणयोरेकवाक्येऽन्वय:। हि राजसम्मानरूपेण माननीयेन मण्डने विराजमान हे मञ्जुनाथ हे श्रेष्ठस्वामिन् (माधवेन्द्र!) अत्र महोत्सवे मोदभरमत्तेन मानसेन श्रीमद्युवराज-मानसिंहसहितस्य ते सुयश: प्रशस्यते॥१९॥
द्योतन्ते दिशासु जयघोषा माधवेन्द्रमणे-
रखिलदिगन्ते कापि कौमुदी विडम्ब्यते
विजयपताका-चारुतोरण-वराभरणै:
सा काचन लक्ष्मीरद्य पुरमवलम्बते।
मञ्जुनाथ मानसे न माति मञ्जुमोदो नृणां
वैदुषीविनोदो वरकविषु विजृम्भते
श्रीमद्युवराजमानसिंहमहिमानमाप्य
गरिमानुगोयं हर्षजडिमा विजृम्भते॥ २०॥
माधवेन्द्रो मणिरिवेति माधवेन्द्रमणिस्तस्य। अखिलदिगन्ते सर्वत इत्यर्थ:। कापि अनिर्वचनीया कौमुदी विडम्ब्यते अध:क्रियते। महाप्रदीपानां प्रकाशस्याग्रे चन्द्रिकापि धिक्क्रियत इति भाव:। वराभरणै: वरै: श्रेष्ठैराभरणै:। अवलम्बते आश्रयति। नृणां मानसे मञ्जुमोदो न माति। श्रेष्ठकविषु इमं महोत्सवमधिकृत्य वैदुष्यविनोदो विजृम्भते। कवय: कवितावैदुष्यं प्रकाशयन्तीत्यर्थ:। 'जभी जृभि’ गात्रविनामे। मानसिंहसकाशात् महत्त्वम् आ-आप्य गरिम्णानुगतोयं हर्षजनितो जडिमाऽद्य विजृम्भते। आनन्दातिरेकेण सर्वे जडीभूता इवेत्यर्थ:। 'महिमा’ 'गरिमा’ 'जडिमा’ इति त्रयाणामेकत्र समावेशश्चमत्कार:। किञ्च स्वशक्तिमुल्लङ्घ्यापि हर्षातिरेकवशात् कतिपयमासपर्यन्तं सर्वेषामेव प्रजाजनानां व्ययाधिक्यसाध्यस्य महोत्सवस्य प्रवाहरूपेण निर्वाहो जडतैवेति केषांचिदाकूतम्॥ २०॥
विश्वग्विततासौ तव धर्मदयादक्षिणता
कासौ वा प्रजास्ति याभिनन्दति न ते सदा
किं बहुना पारेपारावारमपि सुप्रथिता
ते वै सदाचारिता सा सुकृतिसुखप्रदा।
मञ्जुनाथ हंहो नरनाथ भूरिवर्द्धसेऽद्य
श्रीमद्युवराजेनार्थयामो धृतसंमदा
राममञ्जुमालामणिमाधवेश महाराज
रञ्जय धरित्रीं युवराजमण्डितो मुदा॥ २१॥
या प्रजा ते तव (प्वाम्) नभिनन्दति असौ का? अपि तु सर्वैव अभिनन्दति। तवेति शेषे षष्ठी। पारेपारावारम् समुद्रपारे इङ्गलेण्डादिषु तव सदाचारिता प्रसिद्धा। महाराजस्येङ्गलेण्डयात्रा द्रष्टव्या। हे नरनाथ अद्य युवराजेन भूरि वर्द्धसे, अत एव धृतसम्पदा वयम् अर्थयामो यत्-'राज्ञां’ मञ्जुर्या माला (समूह:) तस्या मणिस्थानीय हे माधवेश महाराज युवराजभूषितस्त्वं पृथिवीं प्रीणय॥ २१॥
दो. - चिरंजीव जय जय सदा रविकुलकीर्तिनिकेत।
महाराज माधवमहिप, श्रीयुवराजसमेत॥ २२॥
वर्तमानमहाराज: श्रीमान्मानसिंहदेव:
दो. - सुकृतैस्तस्मिन्नमरतां गते स्वर्गिसौख्याय।
श्रीमान्मानमहीपतिर्जयपुरराज्यमियाय॥ २३॥
तस्मिन् (श्रीमाधवेन्द्रे) निजपुण्यैरमरतां प्राप्ते (देवलोकं गते सति)[एकोना-शीत्यधिकैकोन-विंशतिशततमे वैक्रमवत्सरे १९७९ आश्विनकृष्णप्रतिपदि] मृत्वाप्यमरत्व-प्राप्तिर्विशेष:। प्रकृते विक्रमवर्षे आश्विनकृष्णद्वादश्यां मानमहाराजो जयपुरस्य राज्यम् इयाय प्राप॥ २३॥
सो. - सिंहासनमध्यास स हि समुचितसंभारत:।
कर्णे कलयामास विजयध्वनिममृतध्वनिम्॥ २४॥
स मानसिंहमहीपति: राजोचितसम्भारेण (छत्र-चामरादिशोभाबन्दिमागधादि-जयध्वनिसामन्ता-द्युपायनादिना) अध्यास अध्यासांचक्रे। अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्। अस्यतेर्वा, धातूनामनेकार्थत्वात्। स (महीपति:) बन्द्यादिकृतं जयध्वनिं राजभक्तानां कर्णे अमृतायितं ध्वनिं कलयामास। किञ्च 'अमृतध्वनि’च्छन्दोप्यग्रेतनं सूच्यते॥ २४॥
अमृतध्वनि
चञ्चच्चन्दिरविमलकुलकीर्तिविमञ्जुलरूप।
राज सदा सुखसम्पदा राजज्जयपुरभूप॥
राजज्जयपुररज्यज्जनभर सज्जज्जयकर।
सिध्यद्धिषण विशुध्यद्धरणिविबुध्यद्धृतिधर॥
विच्छच्छलपरिगच्छच्छमलसदच्छच्छविकिर।
न्यञ्चच्चपलमुदञ्चच्चरितसुचञ्चच्चन्दिर॥२५॥
चञ्वत् (राजत्) चन्दिरवत् (चन्द्रवत्) विमला या कुलकीर्ति: तया मञ्जुलरूप! हे राजज्जयपुरस्य भूप सदा सुखसंपन्त्या राज। अग्रे जयपुरभूपस्य संबोधनानि-- राजत् जयपुरं यस्मात्तत्संबुद्धौ। अनुरज्यन्त: जनभरा येन। शस्त्रादिसज्जया सज्जतां (न तु नि:शस्त्राणाम्) वैरिणां जयकर। सिध्यन्ती धिषणा (बुद्धि) यस्य। खलाद्यपनयनेन विशुध्यन्ती या धरणिस्तस्या: विबुध्यन्तीम् (प्रस्फुरन्तीम्) धृतिम् (धैर्यम्) धरति सम्पादयति तत्संबु.। रक्षकं त्वामासाद्य पृथिव्या धृतिर्भवतीत्यर्थ:। विच्छच्छलम् (गच्छत् छलं यस्मादेवं यथा स्यात्तथा, निष्कपटमित्यर्थ:) गच्छत् शमलम् (मलम्) यस्या: सकाशात् एवंविधां सदच्छाम् (अतिनिर्मलाम्) छविं शोभां किरति प्रसारयति तादृश। न्यञ्चच्चपलम् न्यञ्चन्त: नीचीभवन्त: चपला यत्रैवं यथा स्यात्तथा, उदञ्चत् उदीयमानं चरित्रमेव चञ्चन् शोभामानश्चन्द्रो यस्य, हे चन्द्रावदातचरित्र! इत्याशय:॥ २५॥
युध्यद्धरिमुखगर्जनातर्जितशत्रुसमूह ।
मानभूप संवर्द्धसे धृष्यद्ध्वजिनीव्यूह॥
धृष्यद्ध्वजमुपरुष्यत्सुभटविशुष्यद्धृतिकर।
कुप्यद्धरिहयदृप्यद्बलचयतृप्यद्भुजभर॥
धावद्धयपविरावध्वनिमनुधावद्धृतसुख।
क्रुध्यद्बलभरविध्यद्विशिखनियुध्यद्धरिमुख॥ २६॥
युध्यन् यो हरि: (सिंह:) तस्येव मुखगर्जनया हे तर्जितशत्रुसमूह! अत एव धृष्यन् प्रगल्भीभवन् ध्वजिनीव्यूह: (सैन्यसमूह:) यस्य तादृश हे मानभूप! त्वं संवर्द्धसे। अग्रे मानभूपस्य विशेषणानि-- धृष्यद्ध्वजम् (प्रगल्भीभवन् [अधृष्यतां गच्छन्] ध्वजो यत्रैवं यथा स्यात्तथा) उपरुष्यताम् (अभिभवेन क्रोधं कुर्वताम्) सुभटानां विशुष्यन्तीं धृतिं करोति तत्संबु.। स्वस्य जयध्वजं निर्भयं रक्षन् अन्येषां सुभटानां धैर्यं त्वं विशेषयसीत्याशय:। कुप्यद्हरिहयस्येव (इन्द्रस्येव) दृप्यतां शत्रूणां बलचयेन तृप्यन् भुजभरो यस्य तादृश! दर्पिणां वैरिणां बलभरं प्राप्यैव तव भुजसारस्तृप्यतीति भाव:। धावतां हयपानाम् (अश्वपतीनाम्) विरावध्वनिम् अनुधावन् तथा धृतसुखश्च तत्संबुद्धौ। धावतामश्वारोहाणां नादमाकर्ण्य तान् अनुधावसि तेनैव च त्वं सुखं यासि, वीरभावात्, इत्याशय:। कु्रध्यद्बलभरे (सैन्यसमूहे) विध्यद्विशिख: (शरीरं विध्यन् बाणो यस्य, बाणविद्धशरीर इत्यर्थ:) अत एव क्रोधातिशयेन नियुध्यन् यो हरि: (सिंह:) तस्य मुखमिव मुखं यस्य तत्संबु.॥२६॥
गुञ्जज्जवधरधनुरुरसि धरन् युद्धरभसेन।
मानभूप विद्योतसे तर्ज्जज्जवनहयेन॥
तर्जज्जवभृतसर्ज्जज्ज्वलनसुगर्ज्जज्जनहर।
खर्ज्जज्जयभरमर्ज्जज्जनचयसज्जज्जयकर॥
मज्जज्जरणसलज्जज्ज्वलितविरज्यज्जयभर।
खञ्जज्जननविमुञ्जज्जनगणगुञ्जज्जवधर॥२७॥
गुञ्जत् (शब्दायमानम्) जवधरं च धनु: युद्धरभसेन उरसि धरन् हे मानभूप! शत्रून् तर्जता जवनेन (जवयुक्तेन) हयेन विद्योतसे। मानभूपस्य विशेषणानि परस्परं तर्जताम्, पलायनाय जवभृतानां तथा सर्जज्ज्वलनानाम् [सर्जन् पीडाम् अर्जयन् ज्वलनो येषां कृते तेषाम्, हृदये पराजयाग्निना पीडितानामित्यर्थ: 'अर्ज षर्ज’ अर्जने।] अत एव (क्रोधेन) गर्जतां 'शत्रु’जनानां संहर्त:! खर्ज्जज्जयभरं खर्जन्तं शत्रून् व्यथयन्तं जयभरम् अर्जतो जनचयस्य सज्जं जयं करोति तादृश! यैर्बहुषु युद्धेषु प्रशंसनीयो विजय: प्राप्तस्तेषामपि वीराणां सज्जम् (स्वयं प्राप्तम्) जयं त्वं करोषीति तात्पर्यम्। 'खर्ज पूजने च’ चाद् व्यथने। मज्जतां स्वयं पिपतिषतां भटानां जरणात् (पराजयादिति यावत्) सलज्जा: क्रोधेन ज्वलिता:, अत एव विरज्यन्तो ये प्रतिपक्षा: तेषां विजयं भरति सम्पादयति तादृश! खञ्जत् पराजयेन विफलीभवत् जननं जन्म येषाम्, अत एव विमुञ्जतां क्रोधेन चीत्कारशब्दं कुर्वतां जनगणानां मध्ये गुञ्जन्तं जवं धरति तादृश! 'गज’ आरभ्य 'मुजि’ पर्यन्ता: शब्दार्था:। अत्र जवं धरतीत्यादिविग्रहप्रदर्शनं भावार्थसूचनमात्रं न वास्तवो विग्रह:। 'कर्मण्यण्’ भयात्॥ २७॥
भास्वत्कुलधरधरणिपतिमण्डन मानमहीप।
जय जयपुरपालनचतुर उद्यद्दिनमणिदीप॥
उद्यद्दिनमनुयुध्यद्रिपुदलबुध्यद्बलभर।
तिर्यग्भ्रकुटिविनिर्यद्विशिखविजीर्यद्रिपुहर॥
भ्राजद्विभवविराजज्जयपुरराजद्युतिकर।
शश्वद्रुचिरविवस्वद्रुचिकरभास्वत्कुलधर॥२८॥
भास्वत: सूर्यस्य वंशधरा ये धरणिपतयस्तेषां मण्डनभूत! उद्यन्तं दिनमणिं सूर्यं दीपयति स्वकीर्तिप्रसारणात् अधिकाधिकं प्रकाशयति तादृश हे मानमहीप त्वं जय। अग्रे मानमहीपस्य संबोधनानि उद्यत् दिनम् अनुदिनोदयम् अनुलक्ष्य युध्यति रिपुदले प्रबुध्यन् (उद्दीप्यमान:) बलभरो यस्य तत्संबु.। सायंकाले परिश्रान्ते शत्रुदले सर्वस्यैव पराक्रम: संभवेत् परं दिनारम्भ एव नवोत्साहे शत्रुदले तवैव पराक्रम: प्रबुध्यत इति शौर्यातिशयो द्योत्यते। तिर्यग्भ्रकुटिरेव विनिर्गच्छन् विशिख: (बाण:) तद्द्वारा विजीर्यतां जीर्णत्वं प्राप्नुवतां रिपूणां हर नाशक! तव कुटिला भ्रकुटिरेव बाणो भूत्वा रिपुसंहारे कारणं भवतीत्ययाशय:। भ्राजद्विभवानाम् (सर्वोत्कृष्टवैभवानाम्) जयपुरराजानां द्युतिकर स्वकीर्त्या शोभाकारक! शश्वद्रुचिरं सदा मनोहरं विवस्वद्वत् (सूर्यवत्) रुचिकरं (कान्तिकरम्) यद् भास्वत्कुलं तस्य धर धारक!॥ २८॥*
श्रीमन्मानमहीन्द्रस्य प्रथमो विवाहमहोत्सव:।
[माघ सं. १९८०]
प्रासादेषु भासन्ते पताका: पञ्चरङ्गयुता
राकाकान्तिजित्वर: प्रकाशो लाति चेतोयम्
नृत्यगीतवादित्रै: प्रतिध्वनिताशेषदिशो
भाति जनितामोदोऽद्य नृपतिनिकेतोयम्।
मञ्जुनाथ मोदोन्मदमातनु कवित्वभरं
वैदुषीविनोदो वर्ण्यवैभवसमेतोयम्
जयनगरेन्द्रराजलक्ष्मीपरिणाहमयो
मङ्गलविवाहसमारोह: समुपेतोयम्॥ २९॥
अयं प्रकाश: चेतो लाति गृह्णाति। जनितहर्ष: अयं नृपतिनिकेत: (प्रासाद:) भाति। मोदेन उन्मदं यथा स्यात्तथा कवित्वभरं कविताप्रवाहम् 'कवित्त’समूहं वा आतनु विचय। वर्ण्यवैभवेन सहितोयं वैदुष्यस्य प्रमोदसमय उपस्थित:। वैदुष्यविनोदार्थं कविता क्रियते परं सर्वत्र वर्णनीयवैभवं नोपलभ्यते। अत्र तु स्वयं जयपुरेन्द्रस्य विवाह:, अत एव लोकोत्तरो वर्ण्यविभव: समुपस्थितोस्तीति भाव:। राजलक्ष्म्या: परिणाह: अतिशयस्तन्मय:॥२९॥
निर्घोषन्ति दशसु दिशासु राजदुन्दुभयो
भाति जनराजिर्विजयोन्मदमुपागता
मङ्गलकलश-वरवन्दनीयमालादिभि-
र्जाता हर्म्यशालास्वपि सपदि सरागता।
मञ्जुनाथ वर्णय महोत्सवमिहोत्सवतो
भागधेयतोऽद्य धन्यघटिका समागता
जाने राजलक्ष्मीप्रणयेर्ष्यावशा सेयं स्वत:
स्थाने महाराज गृहलक्ष्मी: समुपागता॥ ३०॥
विजयोन्मदं महाराजस्य विजयेन प्रमोदम् उपागता जनपङ्क्ति: वरवन्दनीयमाला-श्रेष्ठा वन्दनमाला तदादिभि:। लोकेषु यथा सरागता (सानुरागता) तथा हम्र्यमालास्वपि सरागता कुसुम्भरञ्जित-वस्त्रधारणात् सरङ्गता जाता। इह उत्सवत: हर्षेण सह उत्सवं वर्णय। यतो भाग्येन सेयं धन्या घटिका 'धन्य घड़ी’ आगता। अहं मन्ये यत् राजलक्ष्म्या: प्रणयेर्ष्यावशा सेयं गृहलक्ष्मी: स्वत: समागता इति स्थाने उचितमेव। भवता पूर्वं जयपुरस्य राजलक्ष्मीरधिगता ततश्च पूर्वोपलब्धायां राजलक्ष्म्यामेव मा भूदेकान्तप्रणय इतीर्ष्यावशाद् गृहलक्ष्मी: (महाराज्ञी) सरभसमुपागतेत्याशय:॥ ३०॥
विवाहोपलक्ष्ये जायमाना राजसभा 'दरबार’
हैमोत्तन्तुसंततकुसुम्भवरवस्रधरा:
सामन्ता: सरागमिह संसदि समासते
स्वर्णरूप्यमण्डितमहार्हराजदण्डधरो
बन्दिनिकरोऽसौ स्तुतिपाठक: प्रकाशते।
मञ्जुनाथ मञ्जुरत्नशेखरसुशोभिशिरा:
श्रीमज्जयपत्तनधरापतिरुपास्यते
हेमहृदयंगमविहङ्गमसनाथो ननु
जङ्गमनवीनकल्पशाखी प्रतिभासते॥ ३१॥
हैमै: स्वर्णमयै: उत्कृष्टतन्तुभि: ('कलाबत्तू’) संततानां कुसुम्भरञ्जतवस्त्राणां धारका: सामन्ता: सरागं यथा तथा अस्यां राजसभायाम् आसते तिष्ठन्ति। रञ्जितवस्त्रधारणात् सरागा: (सानुरागा:) इत्युत्प्रेक्षणम्। महार्हाणां राजदण्डानाम् ('आसा’ 'चोब’) धारक:। रत्नशेखरेण ['सेहरा’] सुशोभि शिरो यस्य स:। मस्तके धृतशेखरं मानभूपं कल्पवृक्षत्वेनोत्प्रेक्षते-- हेममयेन हृदयंगमेन (मनोहरेण) पक्षिणा सनाथो ननु (मन्ये) जङ्गम: कश्चन कल्पपादप: प्रकाशत इति। स्वर्णशेखरो मौलिस्थितहेम-पक्षिस्थानीय:, श्रीमन्मानसिंहस्तु कल्पवृक्षस्थानीय इत्याशय:॥३१॥
विवाहोत्सवस्यैकं पद्यं 'चित्रवीथ्याम्’ चतुर्विंशति-
तममप्यवलोकनीयम्।
वैवाहिकसम्बन्धाज्जोधपुरस्य प्रशंसा
आसन् यत्र दुर्गादाससदृशा: प्रवीरा नृपा
नीतिरणधीरा अपि पण्डितै: सुसंमता
मोगलमहीपतीनां भारताधिकारे मना-
गासीन्मारवारे राजलक्ष्मीर्नयसंगता।
मञ्जुनाथ माननीयजयपुरपूर्वनृपै:
श्लाघनीयवैवाहिकसंबन्धे समादृता
भारतेतिहासे कीर्तिविन्यासेन मन्यामहे
जोधपुरराजधानी धन्या सेयमुन्नता॥ ३२॥
रणे निपुणा अपि धर्मपालनादिषु पण्डितै: अनुमता:। 'सुसंमता: मोगल.’ अत्र विसर्गलोप:। नयसंगता मोगलसम्राडनुगमनरूपया नीत्या मिलिता॥ ३२॥
राज्यशासनस्य पूर्णाधिकारप्राप्त्युत्सव:
(मार्चस्य १४ तारिका १९३१)
कनककिरीटमिव धत्ते सिंहदुर्गमूर्ध्नि
गोपुरयो: करयोरिवाभरणै: संधिनोति
हरितपिशङ्गशोणविद्युद्दीपमालामसौ
मन्ये मणिमालामिव वक्षसि परिष्करोति।
'रामबाग’मार्गगतविद्युद्दीपपङ्क्तिमिमां
काञ्चनकलितरत्नकाञ्चीमिव संचिनोति
शासनाधिकारे स्वयं स्वामिना गृहीताधुना
भूमिरियं प्रीतमना मण्डनानि संतनोति॥ ३३॥
इयं जयपुरभूमि: स्वामिना स्वयं निजशासने गृहीतेति प्रसन्नमना: सती भूषणानि करोति। तथाहि सिंहदुर्ग ('नाहरगढ’)रूपे निजमूर्ध्नि कनककिरीटमिव धारयति। दुर्गोपरिगता विद्युद्दीपमाला किरीटस्थानीयेति भाव:। उभयहस्तयोरिव 'सांगानेरी’ 'अजमेरी’ 'गोपुरयोर्मध्ये’ विद्युत्प्रकाशरूपैरा-भरणैर्लोकान् संधिनोति प्रीणयति। नगरराजमार्गमध्ये या उभयतो नानावर्णा विद्युद्दीपमाला, तां मणिमालामिव वक्षसि मण्डयति। तया वक्ष: परिष्करोतीति वक्तव्ये 'तां वक्षसि परिष्करोति’ इत्यनेन जयपुरराजमार्गस्य संनिवेश एव तथा मनोहरो यथा विद्युद्दीपपङ्क्तिस्तमासाद्य स्वयं हृदयंगमा भवति, अन्यथा अन्यान्यनगरेष्वपि विद्युत्प्रकाशो भवत्येव परं न तादृशी शोभेति जयपुरस्यातिशयो व्यज्यते। जयपुरमारभ्य 'रामबाग’ पर्यन्ता या सुदीर्घा विद्युद्दीपमाला तां प्रदीप्तसुवर्णनिर्मितां रत्नरशनामिव धारयतीत्यर्थ:॥ ३३॥
प्रसङ्गतो हिन्दीपद्यानि
चारों ओर छाय रहीं उमडि अनंद घटा
बिज्जुछटा भाय रही सोभा सुख साज कों
वीथि औ बजारन में फहरैं पताकापुञ्ज
राकारुचि राजैं मन सुजन समाज कों।
सोने के सिंहासन पै सोहैं मानसिंह भूप
सोभित सरूप भयो अंबावति राज कों
धींगन धिकार भयौ बैरिन बिकार भयो
शासनाधिकार भयो आज महाराज कों॥ ३४॥
* सिंहावलोकन *
जाकी कीर्तिकौमुदी की जगमें जगत जोति
मन्द होति बिमल बिभा हू सुरराजा की
राजाकी कहा चली अनेक महाराजा जहाँ
पावैं सनमान मान सिद्धि निज काजा की।
का जाकी कहैंगे कला कलित कवीन्द्रपुञ्ज
मञ्जु महिमा है भानुवंशसिरताजा की
ताजा की दिनेसकुलकीर्ति महिमारग में
जगमें सु जय होय मानमहाराजा की॥ ३५॥
बहुत दिनान सों उछाह करैं ऐसे लोग
जैसें चित्त चाह धरें चंद की चकोर हैं
लंदन पधारे तौ अमंद उतकंठा भरे
पच्छिम की ओर कों बिछाये दृगछोर हैं।
मञ्जुनाथ मोद भरे मन में उमाहैं अब
जो जो चित चाहैं वही लहिहैं अथोर हैं
जयपुर की राजभक्त सकल प्रजाकी आज
मानमहाराज की सु ओर दृगकोर हैं॥ ३६॥
दो. - कोविद कुशल कवीन के, हरित होंय हिय-थान।
कञ्चन नित बरसत रहो, मानसिंह मघवान॥३७॥
अधिकारप्राप्तेरनन्तरं प्रथमजन्मोत्सवोपक्ष्ये -
विशेषोत्सव: 'भाद्र. कृ. १३ सं. ८७’
पुष्पितपताका: प्रस्फुरन्ति हर्म्यमालास्विमा
विद्युद्दीपमाला विलसन्ति गृहजालके
नानाविधकौतुकानि भान्ति चतुरङ्गणतो
द्रव्यपणतोऽथ हया धावन्तेऽन्तरालके।
जन्मदिनमङ्गलमहोत्सवं स्तुवन्ति प्रजा
राजानोपि सूचयन्ति हर्षं तडित्तालके
किमुत समीपादिह द्वीपान्तरदूरतोऽपि
मोदन्ते महीपा अपि '*मानमहीपालके’॥ ३८॥
गृहजालके गृहसमूहे। चतुरङ्गणत: 'चौगान’। अत्र हि सैनिकानां नानाविधक्रीडा:, घोटकरथशकट्यादीनां धावनानि, चक्रिकाप्रचालनमन्यान्यानि च बहूनि कौतुकान्यभूवन्, यत्र विजयिभ्य: स्वयं महाराजेन पारितोषिकाण्यदीयन्त। अन्तरालके 'रामबाग’ प्राङ्गणान्तराले द्रव्यपणं कृत्वा हया धावन्ते (Horse race)। तडित्तालके विद्युद्यन्त्रद्वारा 'तार’द्वारा। राजानोपि उत्सवोपलक्ष्ये हर्षं प्रकाशयन्ति। ततश्च-समीपात् भारतवर्षादेव किम्, द्वीपान्तरदूरात् लण्डनादिदूरान्तरादपि मानमहीपालविषये (मानमहीपं प्राप्य) महीपा: प्रमोदन्ते। राजान एव यदा हर्षमुपलभन्ते तदा राजभक्तानां प्रजानां तु किं वक्तव्यमित्याशय:॥३८॥
श्रीमन्महाराजस्य कुमारजन्मोपलक्ष्ये कतिपयमासपर्यन्तं जायमान: सुमहामहोत्सव:
[आश्विन शु. ११ सं. १९८८]
निर्मलविभासि नीलगगनमनन्तं ततो
विस्तृतवितानमितो भाति भूपभवने
ताराशतजालं ततो विद्युद्दीपपङ्क्तिरितो
ज्योत्स्नासौ ततोस्ति, मानकीर्तिरितो भुवने।
मञ्जुनाथ नूतनकलानिधिरुदेति ततो
भूपतिकुमार इतो जातो राजसदने
शारदामहोत्सवोयमन्यो धन्यधन्यो भाति
राजद्राजसूनुजन्मजन्यो जयपत्तने॥ ३९॥
ततो नैसर्गिके शारदामहोत्सवे। इत: सूनुजन्मरूपे शारदामहोत्सवे। जालं समूह:। राजत् यत् राजसूनुजन्म तस्माज्जन्य:॥ ३९॥
सौधशिखरेषु मन्दिरेषु चैत्यचत्वरेषु
विद्युद्दीपमाला भान्ति जननयनोत्सवे
तोरणपताका: प्रतिगेहद्वारि दत्ता भान्ति
परित: प्रमत्ता: प्रजा: प्राय: प्रमदोत्सवे।
मञ्जुनाथ नित्यं तारतौर्यत्रिकमञ्जुघटा
नानाविधछन्दश्छटा श्राव्या सरसोत्सवे
श्रीमन्मानसिंहमहाराज राजचूडामणे!
राजसे कुमारजन्ममङ्गलमहोत्सवे॥ ४०॥
जननयनोत्सवे जनानां नयनयो: कृते उत्सवमुपलक्ष्य (उत्सवार्थमित्यर्थ:)। तारं यत् तौर्यत्रिकम् (नृत्यगीतवाद्यम्) तस्य मञ्जुघटा समुचितसमारोह:॥ ४०॥
* श्लोक: *
श्रीमद्भानुकुलस्य भातु भुवने भूषायितं सद्यशो
जायन्तां जयपत्तनस्य जगतामुज्जागरिण्य: प्रजा:।
श्रीमान्मानमहीमति: स्वकृतिभि: संमानमासादये-
ज्जीव्याद्राजकुमार एष सुचिरं चेतश्चिरं चन्दयन्॥ ४१॥
जयपत्तनस्य प्रजा: जगताम् उज्जागरिण्य: सत्कार्येषु जागर्तिं प्रचारयन्त्य: (अग्रगामिन्य:) जायन्ताम् अथवा प्रसिद्धा:, 'उजागर’ इति हिन्दी। चन्दयन् आह्लादयन्॥४१॥
होलिकोत्सवे जायमाना प्रथमप्रथमा राजसभा 'दरबार’, नगरयात्रा च (सं.) १९८८
घना.- सामन्तै: समन्तात्परिवारितो विधाय सभां
सौधात्सिन्धुरस्थो नृपोऽभ्येति वरवेलायाम्
पिष्टातकवर्षि-सर्वसामन्तेषु यन्त्रजलं
क्षिपते प्रजायां चापि रज्यच्चारुचेलायाम्।
रङ्गरञ्जिताऽसौ राजवीथी पुष्पवीथीवाऽद्य
मादयते लोकान्पौरनारीहावहेलायाम्
खेलन्मानभूपरङ्गगोलोत्सिक्तचोलो वद
को लोको न भाति हन्त होलोत्सवखेलायाम्॥ ४२॥
सिन्धुरस्थ: हस्तिस्थित: सौधात् अभ्येत बहिरायाति। हस्तिस्थितेषु पिष्टातक ('गुलाल’)वर्षिषु सामन्तेषु। रज्यद्वरवस्त्रायां निजप्रजायां चापि महीपति: यन्त्रजलं विद्युद्द्वारा परिचालितस्य नालिकायन्त्रस्य रङ्गजलं क्षिपति। मदनोद्दीपिका पुष्पवीथी नारीणां हावयुक्तां हेलाम् (विलासविशेषम्) प्राप्य यथा लोकान्प्रमत्तान्करोति तथा रङ्गरञ्जिततया पुष्पवीथीवालक्ष्यमाणा सेयं वीथी [रथ्या] कौतुकदर्शिनीनां नारीणां हावहेलया नागरिक-लोकान्मादयतीत्याशय:। खेलतो मानभूपस्य ये रङ्गगोलका: कुमकुमा (गुलालगोटा), तै: अथवा रङ्गेण गुलालगोलकैश्च उत्सिक्तपरिधानीय: को वा न भाति। अपि तु सर्वोपि भातीत्यर्थ:॥४२॥
जयपुरेन्द्रस्य द्वितीयो विवाहमहोत्सव:
(अप्रेलमासस्य चतुर्विंशी तारिका सन् १९३२)
पञ्चरङ्गरोचितपताकापुञ्जमञ्जुतमा
मण्डितैर्मनोरमाऽद्य मन्दिरैरियं विभाति
पर्वते विशाला नेयं विद्युद्दीपमाला, किन्तु
सिंहदुर्गरूपे मञ्जुमौलौ मुकुटं दधाति।
नानावर्णविद्युद्दीपलेखा नेह रथ्यागता
रत्नरुचिरेखा मण्डनानामियमुत्पृणाति
नव्यमहाराज्ञीस्वागताय कृतवेषा नून-
मेषा राजधानी वद केषां न मुदं ददाति॥ ४३॥
पञ्चभि: रङ्गै: वर्णै: रोचिता पताका 'पँचरङ्ग झंडा’। मण्डितैर्मन्दिरै: मनोरमा। राजमार्गेषु नानावर्णविद्युद्दीपमाला नास्ति किन्तु इयं धारितानां मण्डनानां रत्नकान्तेर्लेखा उत्पृणाति भृशं सुखयति।
जयपुरनरेन्द्रस्य रजतजयन्तीमहोत्सव:
शिलामयीमङ्गलम्
अम्बरधराधिपतिपूज्यपदपङ्केरुहा
तुङ्गे शैलशृङ्गे स्थिता राजहर्म्यधामिनी
चिबुकनिषण्णहारिहीरकविमण्डिता या
भूषणैर्विभाति मेघगेव दिव्यदामिनी।
मञ्जुनाथ मानमहीपालमनोवाञ्छितदा
चेतसि चकास्ति भावुकानां भवभामिनी
नूनं नरदेवीयति यस्या: पदसेवी पुमान्
सेयं शिलादेवी भातु मे वीक्षणगामिनी॥
अम्बरधरापति: आम्बेरमहाराज:। राजहर्म्याणि धाम यस्या: सा, तथा च आम्बेरराज-हर्म्यमालाया: प्रमुखभागे स्थितेति सूच्यते। चिबुके निषण्णो यो मनोहारी हीरक: ('हीरा’) तेन विभूषिता। मेघगेव दिव्य. - श्यामशिलामय्या यस्या: शरीरे स्वर्णहीरकादिभूषणानि दामिनी (विद्युद्) व विराजन्ते इति भाव:। मानमही. - वर्तमानमहाराजस्य मनोऽभीष्टदायिनी, तथा इतिहासप्रसिद्धस्य प्राक्तनमानसिंहमहाराजस्य वरदा तत्प्रतिष्ठापिता च सेयमिति सूच्यते। यस्या: पदसेवी पुरुष: नरदेवीयति नरदेवं राजानमिव आत्मानमाचरति, धराधीशायते इत्यर्थ:।
राजज्जयपत्तनधरायां मोदमञ्जयन्ती
गर्वं गञ्जयन्ती मदमत्तदुष्टदुर्हृदाम्
राजभक्तियुक्तान् प्रजावर्गान्पुञ्जयन्ती पुरे
विद्युद्द्युतिसज्जां सज्जयन्ती सर्वसौख्यदाम्।
मञ्जुनाथ मानमहीपालयशो गुञ्जयन्ती
राजवैजयन्तीं व्यञ्जयन्ती वैरिकम्पदाम्
लोकान् रञ्जयन्ती भूरिभीतीर्भञ्जयन्ती भवेद्
'रजतजयन्ती’ यं जयन्ती सर्वसम्पदाम्॥
मोदं हर्षम् अञ्जयन्ती प्रकाशयन्ती। दुष्टदुर्हृदां दुष्टानां वैरिणाम्। पुरे नगरे पुञ्जयन्ती पुञ्जीभूतान् उत्सवसमारोहे समवेतान् कुर्वती। विद्युद. - विद्युद्द्युते: सज्जां सामग्रीं, नगरे विद्युत्प्रद्योतमालां शोभयन्ती, इत्यर्थ:। वैरिकम्पदां राज्ञो वैजयन्तीं विजयपताकां संमुखे प्रकाशयन्ती।
आशीर्वादश्लोका:
विजेता वीराणामिह किल विनेता नयविदां
विपत्तेर्व्याहन्ता सततमनुमन्ता श्रुतिगिराम्।
भृशं भूमेर्भर्ता सरणिमनुसर्ता सुमनसां
समानेता श्रीणां जयनगरनेता विजयताम्॥
श्रुतिगिरां वेदवाणीनाम् अनुमन्ता अनुगामी।
दुर्दान्तान् दमयन् रमां च रमयन् संनामयन्नुन्नतान्
विक्रान्तान् विनयन् जयं च जनयन् संमानयन्सज्जनान्।
कीर्तीरुज्ज्वलयन् शुभानि कलयन् प्रेम्णा प्रजा: पालयन्
भूयाद्भूमिमिमां सदैव सुखयन् श्रीमानसिंह: कृती॥
विक्रान्तान् पराक्रमयुक्तान् विनयन् स्वशासने आनयन्।
वीराणां विजयाय विक्रमपतिर्धैर्याय याद:पति-
र्दानाय द्रविणार्थिनां धनपतिर्लाभाय लक्ष्मीपति:।
विभ्राजद्विभवाय निर्जरपतिर्बोधाय वाचस्पति-
र्भूयाद्भूभरणाय राघवपति: श्रीमानभूमीपति:॥
श्रीमान् माननरपति-वीरों के विजय के लिये पराक्रम के स्वामी (अथवा विक्रमादित्य), धीरता के लिये समुद्र, दान के लिये धनपति (कुबेर), लक्ष्मीप्राप्ति के लिये लक्ष्मीपति, वैभव के लिये इन्द्र, ज्ञान के लिये बृहस्पति और भूमि पालन के लिये रघुपति हों।