उत्सववीथी
* वसन्तपञ्चमी *
सम्प्रति वसन्तसूचनामिव समधिगम्य
मनसि मनोजमञ्जुभाव: संनिधीयताम्
गायनरसज्ञसूरिसन्ततसमाजमाप्य
श्रवसि वसन्तरागगीतिर्बत नीयताम्।
मञ्जुनाथ सुन्दरीसमाजे नवगीतिच्छटा
रञ्जितपटानां नवशोभेयं प्रतीयताम्
किञ्चिन् न्यञ्चयन्तीव हि पञ्च मीनकेतुशरान्
सपदि वसन्तपञ्चमीयं परिचीयताम्॥ १॥
'वसन्त: आगामी’ इति सूचनां प्राप्य अग्रे वर्धिष्यमाणस्य मनोजस्य रम्यभाव: समीपे क्रियताम्, अनुभूयतामित्यर्थ:। अनेन शिशिरर्तौ मान्यमाना सेयं वसन्तपञ्चमी भाविनो वसन्तस्य सूचनामात्रमिति सूच्यते। गायनै: (गायकै:) रसज्ञै:, सूरिभि: (चतुरै:) च संततं व्याप्तं संगीतसमाजं प्राप्य वसन्तरागगीति: श्रूयताम्। गायनकुलपतीनां गृहे तद्दिनभाविनो वसन्तसंगीतसमाजस्य सूचनमेतत्। नवगीतिच्छटा होलिकासम्बन्धिगीतीनामानन्द:, 'वसन्ती’ 'फागुनिया’ इति प्रसिद्धानां रञ्जितपटानां शोभा च, तत आरभ्यैव जायते इति प्रतीयताम्। पञ्चसंख्याकान् (समस्तानिति यावत्) कामशरान् रसिकेषु किञ्चित् न्यञ्चयन्तीव नमयन्तीव सेयं वसन्तपञ्चमी। होलिकाद्युत्सवेषु कामबाणा: पूर्णतया रसिकसमाजे संचलिष्यन्ति। वसन्तपञ्चम्यां तु ते कामिलक्ष्ये किञ्चिदावर्जिता भवन्तीति वसन्तारम्भ: सूचित:॥१॥
* सूर्यसप्तमीमेलक: *
तत्र मेलकानां संनिवेशक्रमो निदर्श्यते पूर्वं हस्तिन:
काञ्चनकलिततन्तुसंततवसनधरा:
कन्धरास्वमन्दहेमशृङ्खला विभासन्ते
चारुदन्तमण्डले विभासितवलयभरा
झङ्कृतिकरा ये हेमकिङ्किणीभिरायन्ते।
मञ्जुनाथ लम्बमानमुक्तामणिनिकरधरा-
मलिके सुवर्णश्रियं दधत: प्रकाशन्ते
तुलितधरित्रीधरा गण्डमदवारिधरा
अम्बरधराधिपतिकुञ्जरा विराजन्ते॥ २॥
सौवर्णतन्तुभि: ('कलाबत्तू’) व्याप्तानां ('कारचोबी’कार्यखचितानाम्) वसनानां धारका:। कन्धरासु ग्रीवासु। दन्तेषु विभासित: सवर्णवलयसमूहो येषाम्, हस्तिनां दीर्घेषु दन्तेषु मध्ये मध्ये सुवर्णवलया: परिधाप्यन्ते तद्युक्ता इत्यर्थ:। हेमकिङ्किणीभि: सुवर्ण-घण्टिकाभिर्झङ्कारकरा: ये आयन्ते आगच्छन्ति। आ-अय्। अलिके ललाटे लम्बितमुक्तासमूहां- सुवर्णश्रियं ('सिरी’ हस्तिन: शिरोभूषणम्) धारयन्त: गण्डयो: कपोलयोर्मदजलधारका:॥२॥
गर्वभराच्छुण्डादण्डमुपरि नयन्तो मुहु-
श्चण्डकरमण्डलविभासं स्थगयन्तेऽमी
नानावर्णचित्रगण्डमण्डलविकासवहा
धातुरङ्गशालिशृङ्गशोभां दर्शयन्तेऽमी।
मञ्जुनाथ मञ्जुमदनिर्झरं क्षरन्तो मुहु:
संमुखे विशालं कर्णतालं दोलयन्तेऽमी
मन्ये पक्षशातकपुरन्दरविपक्षधरा:
पक्षधरा: पर्वता इतीव सूचयन्तेऽमी॥ ३॥
चण्डकर.--सूर्यमण्डलप्रकाशं स्थगयन्ति आच्छादयन्ति। नानारङ्गैश्चित्रितस्य कपोलमण्डलस्य शोभाधारिण: अमी गैरिकादिधातूनां रङ्गै: शोभितानां शृङ्गाणां शोभां दर्शयन्ते, अग्रे उत्प्रेक्षिष्यमाणस्य पर्वतत्वस्य साधकम्। इमे कर्णतालं न दोलयन्ति किन्तु द्वौ पक्षौ प्रकम्प्य - 'वयं पक्षच्छेदकस्य इन्द्रस्य विरुद्धपक्षधारिण: पक्षधरा: पर्वता: स्म:’ इति सूचयन्ति॥३॥
प्राप्ता द्वारसीम्नि मत्ता मौलिमवघूर्णयन्ति
चूर्णयन्ति चक्रमरे: संगरे यदि व्रजन्ति
दिग्वारणदर्पविनिवारणप्रसक्ता इति
वारणाय शृङ्खलिता मर्यादार्हमाचरन्ति।
शुण्डावारिपूरै: पूरयन्त इव वारिनिधिं
वारिधेरधीनघनगर्वं ये समाहरन्ति
ऊढपञ्चरङ्गा गाढधृतरणरङ्गा अमी
मानमेदिनीशमत्तमातङ्गा: पुर:सरन्ति॥ ४॥
राजद्वारे प्राप्ता ये मदात् मस्तकं घूर्णयन्ति (गजस्वभाव:)। अरे: चक्रं व्यूहम्। दिग्वारण. इमे गजा दिग्गजानां गर्वं दूरीकर्तुं धावन्ति तदा आधोरणास्तान् शृङ्खलया बध्नन्ति। इमेऽपि मर्यादां ज्ञात्वा शृङ्खलाबन्धं सहन्ते, अन्यथा एषामग्रे का वराकी शृङ्खलेति भाव:। शुण्डावारि.-घनास्तु समुद्राज्जलं यदा गृह्णन्ति तदैव वर्षन्तीति समुद्राधीना:। इमे तु समुद्रमपि शुण्डाफूत्कारजलेन भरन्तीति घन-गर्वहारका:। ऊढ: धृत: पञ्चरङ्गध्वजो यै:। गाढं धृत: रणस्य रङ्ग: अनुरागो यै:॥४॥
छप्पय
फुङ्कृतिवारिभरेण गगनतलमुद्भरयन्ती
चरणधरणबलभराद्धरणितलमानमयन्ती।
सरभसचीत्कृतिचयाच्चकितभावं विदधाना
घोरबृंहितारवैर्वैरिहृदि भयं ददाना॥
तुङ्गतया तारापथं तरलयितुं जनितोद्यमा।
मानमेदिनीसुरपतेर्भाति गजघटा घनसमा॥ ५॥
उद्भरयन्ती पूरयन्ती। 'बृंहितं करिगर्जितम्’। तारापथं गगनमपि तरलयितुं चलयितुम्। घनसमा मेघसदृशी॥ ५॥
* उष्ट्रा: *
क. - सुन्दरसुवर्णसूचिकार्यैश्चित्रशोभावहान्
मञ्जुमखमल्लपरिस्तोमान् ये समावहन्
भूषणसमिद्धा भृशमग्रपटबन्धभृतो
लम्बितगुलच्छा: पार्श्वतो ये द्रुतमभ्रमन्।
पात्रान्नोत्किरन्तो निजगत्या जलबिन्दुमपि
शब्दसिन्धुमेते जानुवलयैरिवाऽवमन्
क्रोशशतमार्गस्याऽवहेलका मुदैव, मञ्जु-
मेलकाऽभिनन्द्यास्ते क्रमेलका: समागमन्॥ ६॥
सुन्दरै: सुवर्णसूचिकार्यै: (जरदोजी काम, कसीदा) विचित्रशोभाधारकान् मनोहरान् मखमल्लस्य (मखमल) परिस्तोमान् कुथान् (पृष्ठास्तरणानि) ये अधारयन्। भृशं भूषणै: दीप्यमाना:, अग्रपटबन्धम् (मुखमारभ्य वक्ष:पर्यन्तलम्बिनम्) धारयन्त:। पार्श्वत: उभयपार्श्वयो: लम्बमानकौशेयगुच्छा: (उष्ट्राणां पृष्ठे नानावर्णा गुच्छका उभयतो लम्बन्ते, यथा हस्तिनां घण्टा:)। पात्रान्नो.-जलपूर्णं पात्रमादाय पृष्ठे स्थीयते, तथापि जलबिन्दुरेकोपि पात्रान्न पततीत्युष्ट्राणां गतिकौशलम्। जानुधृतै: वलयै: ('नेवरी’) शब्दस्य सिन्धुमिव अवमन्, अतिशब्दमकुर्वन्नित्यर्थ:। मञ्जुमेलके प्रशंसनीया:॥ ६॥
* अश्वा: *
चञ्चलमुदस्य मुहुर्ग्रीवामवकुञ्चयन्तो
वदनमुदञ्चयन्तो लोचनमिहाऽऽहरन्ति
मुखरं वहन्तो मुहु: प्रोथपुटमुन्नमय्य
सपदि समन्ततोऽथ फेनभरैरुद्भरन्ति।
मञ्जुनाथ कर्णयुगमुत्तरङ्गयन्तो मुहु-
श्चञ्चलदृगञ्चलेन वञ्चनमिवाचरन्ति
गमनजवेन जातु विजितविहङ्गा: पुर:
कीलितकुरङ्गास्ते तुरङ्गा: सुखं संचरन्ति॥ ७॥
चञ्चलं यथा स्यात्तथा उत्क्षिप्य (उत्थाप्य) मुहुग्रीवाम् अवकुञ्चयन्ति (मोटयन्ति)। मुखम् उन्नमयन्त: पश्यतां लोचनं वशयन्ति। 'फुर फुर’ इति शब्देन मुखरं प्रोथपुटं (नासापुटम्) उन्नमय्य वहन्त: ये परितो मुखफेनै: पूरयन्ति। उत्तरङ्गयन्त: (प्रकारविशेषेण चालयन्त:), चञ्चलेन नेत्रप्रान्तेन लोकानां प्रतारणमिवाचरन्ति। पादत्रयवर्णिताश्चेष्टास्तुरगस्वभाव:। कीलितकुरङ्गा: गमनजवेन स्तब्धीकृत-हरिणा:॥ ७॥
चञ्चति सुचारु विपुश्चिक्कणचमत्कृतिदं
मन्ये वेगवीचयोऽङ्गसीम्नि मुहु: संचरन्ति
चञ्चलितकर्णास्तार्क्ष्यवेगकथामाकलय्य
तमिव निरोद्धुमग्रपादाभ्यां समुच्छलन्ति।
मञ्जुनाथ घोरतरवल्गापरिणद्धा अपि
पवनविरुद्धाऽऽहवलालसां न संत्यजन्ति
अर्वन्तोऽस्मदग्रे के जरन्तो दिनभर्तुरिति
क्रोधं कलयन्तो मुखे लोहं मुहुश्चर्वयन्ति॥ ८॥
चिक्कणं स्निग्धम् अत एव चमत्कृतियुक्तं येषां वपु: चञ्चति शोभते। तत्रोत्प्रेक्षते- मन्ये, अङ्गेषु वेगस्य तरङ्गा वारं वारं संचरन्ति। तार्क्ष्यस्य वेग - कथां श्रुत्वा चञ्चलितकर्णा ये तं पराजेतुमिव अग्रपादाभ्यां रवे उच्छलन्ति। घोरया कठिनया वल्गया (लगाम) बद्धा अपि ये पवनविरुद्धस्य आहवस्य (युद्धस्य) लालसां न त्यजन्ति, वेगविषये पवनेन साकं योद्धुमिच्छन्तीत्यर्थ:। दिनभर्तु: सूर्यस्य वृद्धा: अर्वन्त: घोटका: अस्मदग्रे के ? न किमपि वस्तु। इति कुप्यन्तो मुखे लोहं चर्वयन्ति। 'लोहकविका’ चर्वणे कोपो हेतुरुत्प्रेक्ष्यते। 'दिनभर्तृ’ पदेन-दिनपूरणं तस्य कर्तव्यम्। अत एव निरन्तरमविश्रम्य घोटकान् परिचालयति। एवंविधस्य आपद्ग्रस्तस्य ('बेगारी’) श्रमकर्षिता वृद्धा घोटका: के वराका इति अवधीरणातिशयो ध्वन्यते॥ ८॥
घोटकानां शृङ्गार:
चारुचरणेषु हेमहंसका विभान्ति भूरि
जानुयुगमध्ये रणद्वलया विराजन्ते
हेममणिहारावलिरुल्लोठति कन्धरायां
पुच्छे बन्धुराणि रम्यरत्नान्यवलम्बन्ते।
मञ्जुनाथ मौलौ मञ्जुलोत्तंसो विभाति चल-
न्नंसोपरि तन्तुस्यूतमणय: प्रकाशन्ते
संसूचयमानानीव रत्नाकरजन्म निजं
रत्नालङ्कृतानि हयरत्नान्यवभासन्ते॥ ९॥
सुवर्णस्य हंसका:, 'हंसक: पादकटक:’। अग्रवर्तिनो: जानुनोर्मध्ये रणद्वलया: 'नेवरी’। उल्लोठति इतस्तत: परिचलति। पुच्छे तनूरुहग्रथितानि सुन्दराणि रत्नानि लम्बन्ते। चलन् गमनसंरम्भेण कम्पमान: उत्तंस: (कलँगी)। स्कन्धस्योपरि कन्धरायाम् ('अयाल’) तन्तुभि: मूर्द्धजेषु स्यूता ग्रथिता:। रत्नधारणेन वयं रत्नाकराज्जाता: (उच्चै: श्रवस: सहोदरा:) इति सूचयन्त इव रत्नभूता हया:॥ ९॥
छप्पय
झमिति झमिति रवमुखरसमरभरधरणधुरीणा:
कथमपि रोधमयन्ति हन्त मुखलीन-खलीना:।
उच्छलन्ति नृत्यन्ति तिर्यगुपयन्ति रमन्ते
मुहुरिह फूत्कुर्वन्ति शीघ्रगतये त्वरयन्ते।
कविकामनिशमुदस्य ये कविकामितसुषमाऽऽवहा:।
सञ्चरन्ति चपलक्रमं ते किल वाजिकुलोद्वहा:॥ १०॥
झम् झम् इति रवेण मुखरा: संग्रामभरधारणे निपुणाश्च, संग्रामस्य सर्वस्वमित्याशय:। मुखे लीन: खलीन: कविका (लगामाग्र-लोहभाग:) येषां ते। तिर्यगुपयन्ति सरलं गच्छन्त: सहसैव तिर्यक्परिचलन्ति। ये कविकां खलीनम् अनिशम् उदस्य (उच्चै:कृत्य) कविकामितशोभावहा: कविवर्णनीयशोभाढ्या: (भवन्ति)। वाजि. वाजिकुलश्रेष्ठ:॥ १०॥
* रथा: *
मृदुलमहार्हमखमल्लमञ्जुलावरणा
हारिहेमवल्लरीविताना गुल्मकान्तरे
सर्वविधसज्जासंविधाना: सोपधाना: पुन:
काञ्चनकलशशोभमाना मौलिशिखरे।
मुष्णन्तो मनांसि चित्ररचनाचमत्कृतिभि-
र्भूषणझणत्कृतिभिर्भान्तो भूरि संगरे
संपूरितसंपरायसंपत्सुमनोरथास्ते
मानमेदिनीशरथा निर्ययुरथान्तरे॥ ११॥
येषां रथानामुपरि मृदुलस्य महार्हमखमल्लस्य आवरणमस्ति। गुल्मकस्य 'छतरी’ इति ख्यातस्य अन्त: मनोहारिण: सौवर्णवल्लरीविताना: ('सुनहरी झालर’) सन्ति। सर्वविधसज्जाया: ('सामग्र्या:’) संविधानं येषु। उपधानेन सहिता:, मौलिदेशे सुवर्णकलशेन शोभमाना:। संपूरित: संग्रामश्रियो मनोरथो यै:। निर्ययु: अथ अन्तरे, अथ एतदन्तरे मानमहीशस्य रथा निर्ययुरित्यन्वय:। रथा रथा इति त्रिर्यमकम्॥११॥
* श्रीसूर्यदेवस्य रथ: *
काञ्चनकलितचारुचूडमधिरुह्य रथं
जयनगरेन्द्रोऽभ्यागमाय याति, वीक्ष्यताम्
पूर्वतोऽथ गालवाश्रमस्य पर्वतोपरितोऽ-
भिमुखमुपैति भास्वतोऽयं रथ ईक्ष्यताम्।
मञ्जुनाथ राजमार्गमध्ये पौरलोकगणो
हर्म्यमौलिमध्ये मानिनीगणो निरीक्ष्यताम्
मेलकमिलिततूर्यमधुरमनोज्ञरव-
पूर्यमाणकाष्ठा सूर्यसप्तमी समीक्ष्यताम्॥ १२॥
काञ्चननिर्मिता चारुचूडा (शिखरदेश:) यस्य ईदृशं रथमधिरुह्य जयपुरेन्द्र: सूर्यदेवस्य अभ्यागमाय संमुखस्वागताय ('अगवानी’) राजमार्गे यातीति दृश्यताम्। जयपुरस्य पूर्वदिशात: सूर्यस्य रथ:, राज्ञ: संमुखमुपैति इति वीक्ष्यताम्। सुवर्णचूडामण्डितं तुरंगरथमारुह्य नगरात् जयपुरेन्द्र: स्वागताय चलति, द्वितीयत: सूर्यदेवस्य रथो गालवाश्रमादायाति, रामगञ्जनिकटे च द्वयो: सान्निध्यं भवतीति तद्दिनघटना सूचिता। मेलके संघीभूतानां तूर्याणां (वाद्यानाम्) मधुरमनोहररवै: पूर्यमाणा: दिश: यस्यां सा। तूर्यपूर्य सूर्येति प्रासा:॥१२॥
फाल्गुनाऽऽरम्भ:
तस्य शोभा
कोरका विकासमुपयाता: कर्णिकारेष्वद्य
कान्ति: काञ्चनारे काऽपि भाति कलिकाकुलस्य
श्रूयन्ते समिद्धसहकारे पिकपुञ्जाऽऽरवा
मधुकरगुञ्जा सविधेऽसौ सरसीरुहस्य।
मञ्जुनाथ रसिकसमाजे नवगीतिच्छटा
पिष्टातकरङ्गघटा शोभते शुचं निरस्य
दत्तमनोलोभा विप्रयोगिमन:क्षोभायाऽद्य
भूरितमशोभा परितोऽसौ भाति फाल्गुनस्य॥ १३॥
काञ्चनारवृक्षे कलिकाकुलस्य (कुड्मलसमूहस्य) अनिवर्चनीया शोभा। समिद्धे पुष्पिते सहकारे पिकपुञ्जस्य आरवा: (कूजितानि) श्रूयन्ते। नवगीतिच्छटा होलिकासम्बन्धिगीतिशोभा। पिष्टातक: (गुलाल), रङ्ग: रङ्गमिश्रितजलं च तयो:, पिष्टातकरङ्गस्य घनघटेव घटा वा लोकस्य शुचं (शोकम्) निरस्य शोभते॥ १३॥
* होलिकोत्सव: *
गीयन्ते निकुञ्जे गुणगीतयो वसन्तस्याद्य
मत्तपिकपुञ्जे कुहूध्वनय: प्रचीयन्ते
चीयन्ते चतुर्दिक् चञ्चरीककुले मोदरसा:
सरसरसाले सर्वसुषमा: समीयन्ते।
मीयन्ते मनस्सु मन्मथस्य महिमानो भूरि
मञ्जुमकरन्दा: सरघाभि: परिपीयन्ते
पीयन्ते दृशैव रसिकेन फुल्लवासन्तिका:
कामममी वासन्तिका वासरा: सुगीयन्ते॥ १४॥
चञ्चरीककुले भ्रमरसमूहे मोदरसा: प्रमोदातिशया: चीयन्ते वर्द्धन्ते। समीयन्ते समवेता भवन्ति। मन्मथस्य महिमान: सर्वविधा: शक्तयो मनस्येव मीयन्ते ज्ञायन्ते, न वाचा उद्घाटनस्यावश्यकता। 'सरघा मधुमक्षिका’। वासन्त्य एव वासन्तिका:, रसिकेन एतादृश्यो नवलतिका दृष्ट्यैव पीयन्ते सातिशयं निरीक्ष्यन्ते। नायिकाविषयकमाकूतं स्पष्टं मार्मिकाणाम्॥१४॥
उन्मीलन्मनोज्ञसहकारमञ्जरीषु मुहु-
र्मधुमकरन्दझरी निभृतमवष्टम्भते
माधवीषु निर्भरमवाप्य परिरम्भे सुखं
मलयसमीरो मदाऽऽरम्भे न विलम्बते।
मञ्जुनाथ निभृतनिलीना काऽपि भावच्छटा
सम्प्रति नवीनामेव रुचिमवलम्बते
मानिनीमनस्सु भाति मदनमहोत्सवोऽद्य
होलिकामहोत्सवोयं जगति विजृम्भते॥ १५॥
निभृतं यथा तथा अवष्टम्भते स्थिरा भवति। माधवीलतासु आश्लेषे सुखं प्राप्य [अर्थात् माधवीपरिरम्भणेन सुरभित:] मलयानिल: लोकानां मादनकार्यारम्भे विलम्बं न करोति। रसिकानां मनसि निभृतनिलीना गुप्तं स्थिता भावच्छटा नवीनां (कामानुकूलां) रुचिम् अवलम्बते॥१५॥
भासते समन्तादिन्दुमधुरमरीचिविभा
वायुलहरीयं वाति सुरभिरसस्रवा
कुत्रचित्कुसुमसारगन्ध: क्वाऽपि पुष्पहार
एकतो विहारवस्तुसंहतिरनिह्नवा।
अन्यत: कुसम्भरङ्ग-पिष्टातकसज्जा, पुर:
सज्जा सुन्दरीणां गीतिर्जनितमनोभवा
कामिमनोव्यग्रीकरणाय समवेता स्वयं
होलिकामहोत्सवस्य सामग्री नवा नवा॥ १६॥
इन्दो: सुन्दराणां मरीचीनां (किरणानाम्) विभा समन्ताद्भाति। आम्रादीनां सुगन्धितरसस्राविणी वायुलहरी। क्वचित् कुसुमसारस्य ('इत्रस्य’) गन्ध:, कुत्रचित् पुष्पहार:, एकत: पान-शय्यादिविहारोचितवस्तूनां संहति: अनिह्नवा (प्रकटा) भाति। अपरत: कुसुम्भरङ्गस्य पिष्टातकस्य च सज्जा (सामग्री) (अस्ति)। पुर: अग्रे च, जनितमनोभवा सुन्दरीणां गीति: सज्जा (संनद्धा उपस्थिताऽस्ति)। अत एव सेयं नवा नवा सामग्री॥ १६॥
* राधाकृष्णयो रङ्गहोलिका *
रङ्गमयी प्रेयसी विराजते विहारस्थले
रङ्गमयी प्रेयसोऽपि मूर्तिरुपभासते
रङ्गमयी गोपगोपिकानां मञ्जुमण्डलीयं
सरस-सारङ्गमयी गीतिर्मनो गाहते।
रङ्गमयी भूमिर्व्रजवीथिरपि रङ्गमयी,
रङ्गमयी मन्ये मनोवृत्ति: प्रतिभासते
होलामद्य रङ्गमयीमाप्य तस्या: सङ्गवशाद्
रङ्गमयी सेयं सर्वजगती विराजते॥ १७॥
प्रेयसी श्रीराधिका। सरस: सारङ्गनामा रागविशेष:। मनोवृत्ति: रङ्गमयी अनुरागयुक्ता भासते॥१७॥
भ्राम्यन्ती सुपिष्टातकपूरघनघोरघटा
सेयं निष्कुटान्तर्बत सर्वतस्तिरोदधाति
भृशमनुराग-रस-रागभृता मण्डलीयं
राजद्व्रजनागरीणां क्रीडन्ती मुदं ददाति।
मञ्जुनाथ निपुणतमोऽपि वामलोचनानां
काममन्तराले धृतो दयितो वशं प्रयाति
अङ्गनाभिरद्य रङ्गनालिकाभिराकुलितो
नूनमङ्गनान्तर्मौनमास्थितोऽयमाविभाति॥ १८॥
पिष्टातकपूररूपा घनघोरा घटा प्रमदावनस्य मध्ये सर्वत: तिरोदधाति सर्वदिश: आच्छादय-तीत्यर्थ:। अनुरागेण, रसेन (आनन्देन), रागेण गीतिरागेण च भृता व्रजनारीणां मण्डली परस्परं रङ्गनिक्षेपक्रीडां कुर्वती मुदं ददाति। वामलोचनानाम् अन्तराले मध्यभागे धृत: निपुणोऽपि दयित: श्रीकृष्ण: तासां वशं गच्छति। अङ्गनाभि: रङ्गनालिका-(पिचकारी)- द्वारा आकुलीकृत: अङ्गनान्त: अङ्गनस्य (चतुष्कस्य) मध्ये मौनम् आस्थित: शोभते॥ १८॥
मोदभरमेदुरमुदेति गोपीवृन्दमितो-
ऽभिमुखमितोऽसौ गोपमण्डली विभासते
अभित: क्षिपन्ति चूर्णमुष्टिमवपूर्य मुहु-
र्मोदमत्तमानसा न केचिदिहोदासते।
किंशुककुसुमरङ्गमथ विसृजन्ति मिथो
मञ्जुनाथ शोभा: पश्य संमुखमिवाऽऽसते
रङ्गभराऽऽपूर्णचारुचूर्णघटादुर्दिनेषु
पूर्णमुखचन्द्रविभा प्रेयस्या: प्रकाशते॥ १९॥
मोदभरेण मेदुरं सान्द्रस्निग्धं गोपीवृन्दम् इत: उदेति। अभिमुखं च गोपानां मण्डली। अभित: उभयत: चूर्णस्य ('गुलाल’) मुष्टिम् अवपूर्य क्षिपन्ति। मोदमत्ता: केपि (गोपीषु केचिदपि) न उदासते तटस्था न भवन्ति, अपि तु सर्व एव चूर्णादिक्षेपे संलग्ना भवन्तीत्यर्थ:। विसृजन्ति क्षिपन्ति। शोभा: (सर्वा अपि) संमुखम् आसते इव। मन्ये जगत: सर्वा अपि शोभा: संमुखगता: सन्तीति त्वं पश्येत्याशय:। रङ्गभरेण आपूर्णेषु चूर्णघटारूपदुर्दिनेषु (मेघच्छन्नदिनेषु) राधाया: पूर्णमुखचन्द्रस्य विभा भासते। यथा मेघाऽऽच्छन्नशुक्लपक्षे घनघटान्तरितस्य चन्द्रस्य शोभा भवति, तथा रङ्गगुलालघटाया मध्ये राधिकाया मुखचन्द्रस्य शोभा भवतीत्याशय:॥ १९॥
काश्चिन्मिथो मण्डयन्ति, गायन्त्यथ काश्चित्पुन-
र्लीला भाति सेयं नवबालासुमहोत्सवे
रङ्गजलाऽऽसेकात्पटसंभिन्ना विभान्ति पुन-
श्चेलाऽञ्चलच्छन्ना रङ्गखेलासुमहोत्सवे।
मञ्जुनाथ मोदोन्मदमदनविलासभृता-
न्यङ्गान्यवलालयन्ति दोलासुमहोत्सवे
को लावण्यलीलावशो मानसं न संदधाति
दोलामधिरूढमिव होलासुमहोत्सवे॥ २०॥
नवबालानां महति महोत्सवे मण्डनादिका सेयं लीला। चेलाञ्चलेन छन्ना: (बाला:) रङ्गजलस्य समन्तत: अभिषेकात्पटेन संभिन्ना अत्याशिलष्टा: सत्य:, रङ्गक्रीडामहोत्सवे भूय: विभान्ति। सूक्ष्मं पट्टवस्त्रं जलक्षेपान्नारीणामङ्गेषु सुतरां निलीनं भवति, येन सुन्दराङ्ग्यस्ता: सुतरां भान्तीत्याशय:। ता: (बाला:) मोदेन उन्मदानि मदनविलासेन च भृतानि अङ्गानि दोलाक्रीडोत्सवे अवलालयन्ति मोहकशैल्या संचालयन्ति। वसन्तेपि दोलाक्रीडेति रसिकसंप्रदाय:। अत एव लावण्यलीलारसज्ञ: को वा जन: होलामहोत्सवे स्वमानसं दोलामधिरूढमिव न दधाति, अपि तु सर्वस्यापि मानसं मदनविलासेन दोलायितं भावतीत्यर्थ:॥२०॥
* मधुकरान्योक्ति: *
सहजसुगन्धसुख-मन्दमारुतेन युतं
भासते विलासस्थलं निभृतनिरर्गलम्
मञ्जुनाथ सेयं नवकुसुमविकासवहा
मालती विलाससहा भाति मोदमञ्जुलम्।
समयमियन्तं हन्त त्वमपि प्रतीक्षापरो
नीतवान्निरोधान्नयन्मानसमिदं चलम्
मधुकर! किन्तु तव गुञ्जेनेह संजयता-
त्फुल्लत्पुष्पपुञ्जे ते निकुञ्जे नवमङ्गलम्॥ २१॥
स्वाभाविकसुगन्धेन सुखकारको यो मन्दपवनस्तेन। निरर्गलं प्रतिबन्धकशून्यम्। कुसुमविकास: शिलष्ट:। निरोधात् निग्रहात् विद्रोहितया चञ्चलमिदं मानसं नयन् प्रतीक्षापरस्त्वम् इयन्तं समयं नीतवान्। हे भ्रमर! सांप्रतं तव गुञ्जनेन किम्, निकुञ्जे तव नवीनं मङ्गलं जयतु॥२१॥
भासते चतुर्दिक् चारुपिष्टातकरङ्गघटा,
रङ्गच्छुरिताऽऽर्द्रपटा मण्डली विभाव्यताम्
पौररसिकानां घोरढक्कासहकारिणीयं
न्यक्कारितबाधाभरा गीतिरवधार्यताम्।
मञ्जुनाथ मित्रमण्डलीषु मिल मोदभरात्,
प्रेमदत्तपानकमिहाऽद्य न निवार्यताम्
धर्मधुराधारक सुधारक! समेहि सखे
किञ्चिदये स्नेहसुधाधारकता धार्यताम्॥ २२॥
पिष्टातकस्य रङ्गयुक्ता घटा। रङ्गेण च्छुरित: सिक्त:, अत एव आर्द्र: पट: यस्या: एवंविधा रसिकानां मण्डली दृश्यताम्। घोरढक्का-(डफ)-सहकृता दूरीकृतबाधासमूहा (निर्बाधा) रसिकानां गीति: (नवसभ्यमानिनामरुन्तुदा होलिगीति:) अवधार्यताम्। अद्य (अस्मिन्दिने तु) प्रेम्णा दत्तं, मित्रमण्डलीगतं भङ्गादि पानकं न वार्यताम्। हे सुधारक! त्वं धर्मधुराया धारकोऽसि, परं हे सख्ेा! अद्य समेहि मित्रमण्डल्यां समवेतो भव। सुधारकेण त्वया स्नेहसुधाधारकत्वं स्वीक्रियताम्। अन्यान्येव दिनानि तव गौरवघोषणार्थं बहूनि सन्ति। अद्य तु जनानां स्नेहसुधां स्वीकुरु। ततश्च स्नेहपुरस्सरं दत्तमद्यपात्रमिदं पानकं तु न निवारयेति सुधारकमहाभागं प्रति प्रार्थना॥ २२॥
मण्डलीस्थितै: मित्रै: कृतं होलिकावर्णनम्
* चतस्रो भाषा: *
उर्दूपण्डितो मुन्शी आह-- मौसिमे बहार देख खोला मुँह बुलबुलों ने
आतिशये हिज्र का निकाला इश्क ने शोला *
व्रजभाषाभिज्ञो रसज्ञो ब्रूते-- दूधिया छनाओ यार! नीठ नरचोला मिल्यो
बोलाभर पीकें फिर बोलो बस बंभोला+।
जयपुरीयो रसिक: संलपति-- आओला कदेक, कद गाओला रँगीली फाग,
ढोला! कद गोरीजी ने हिवड़ै लगाओला -..
संस्कृतज्ञो मार्मिक: कथयति-- मानिनामनङ्गेनाऽद्य दोलामधिनीतं मनो
नो लास्यं दधाति रसिकानां किमसौ होला ?॥ २३॥
*वसन्तसमयं वीक्ष्य 'बुलबुल’ पक्षिभि: कूजनमारब्धम्। वियोगिनां कृते, प्रेम्णा विरहरूपस्याऽग्रेर्ज्वाला नि:सारिता। वसन्तकृतोद्दीपनेन विरहिणो दग्धा इव भवन्तीत्याशय:। दुग्धमिश्रां भङ्गां सज्जय, काठिन्येन नरशरीरमिदं लब्धम्। 'बोला’ (आबखोरा’ पात्रविशेष:), तन्मात्रां भङ्गां पीत्वा शिवं रट।
-.. कदा आगमिष्यसि, रागसंवर्द्धिका होलिगीती: कदा गास्यसि, हे प्रियतम! प्रियतमां कदा वक्षसि योजयिष्यसि। अनङ्गेन अद्य मानिनामपि मन: दोलायितं कृतम्। अत एव असौ होला किं रसिकानां लास्यम् (हर्षमित्यर्थ:) नो दधाति?, अपि त्ववश्यं करोतीत्याशय:॥२३॥
[रसिकवयस्यानामेव कृते सक्षमाप्रार्थनम्]
विध्यसि विलोले चलयन्ती चारुलोचने किम् ?
रुचिरकपोले दन्तमुद्रा मम नीयताम्
क्षीणकटिदेशो न सहेत कुचभारं भीरु!
बाहुपाश एषोऽप्यवलग्ने ते निधीयताम्।
नाऽधिकमुरीकरोषि मञ्जुनाथकामनां चे-
दुच्चकुचयुग्मे! वचोऽप्येतन्मे विधीयताम्
होलिका मनुष्यमनोदोलिका सुसंनिहिता
चन्द्रमुखि! चोलिकाऽवमर्द्दनमुदीयताम्॥ २४॥
ते अवलग्ने कटिदेशे मम एष बाहुपाशो निधीयताम्। मम कामनाम् अधिकं यदि न स्वीकरोषि, तर्हि उन्नतस्तनशालिनि! एतन्मम वचनमेव क्रियताम्। मनुष्येत्युक्त्या मनुष्यमात्रस्य साम्प्रतं मनसि दोलायितभाव:, यस्तु देव: पशुर्वा स्यात्तस्याऽन्या कथेति सूच्यते। चोलिका कञ्चुलिका॥२४॥
वहसि कुसुम्भरङ्गरञ्जितमसंनहनं
वरवसनं ते लसदङ्गसुषमाऽऽवहम्
रङ्गजलसिक्ता तनुनिबिडनिषक्ता सेयं
कञ्चुकी वहति कुचयुग्मं लालसाऽऽवहम्।
मञ्जुनाथ शिञ्जारवमुखरकरेण मुहु-
र्वर्णचूर्णमेतत्किमु किरसि मदाऽऽवहम्
केवलमुत्क्षिपसि कुसुम्भनवरङ्गं किमु
सङ्गं देहि सुन्दरि ते सकलसुखाऽऽवहम्॥ २५॥
असंनहनं संनाहरहितं विलुलितमित्यर्थ:। तन्वाम् अङ्गे निबिडं यथा स्यात्तथा निषक्ता शिलष्टा। मञ्जुना मनोहरेण अथ शिञ्जारवमुखरेण च करेण मम मदवर्द्धकं वर्णचूर्णम् ('गुलाल’) किं क्षिपसि॥ २५॥
सरसा सुखाय संमुखीना मधुयामिनीयं
गन्धो माधवीनामयं मनसि निरुध्यते
रोचन्ते समन्तान्मधुमधुरमृगाङ्करुचो
विगतशुचोऽद्य मम मदन: प्रबुध्यते।
मञ्जुनाथ कुसुमवतीति नाऽनुरञ्जयसे
वीक्षसे न कञ्जमुखि! धर्म: क्व विरुध्यते
शयनं निषिद्धं धर्मशास्त्रे पुष्पवत्या सह
रत्या निशि जागरणं केन प्रतिषिध्यते॥ २६॥
मधुयामिनी वासन्तिकी चैत्री वा रात्रि:। माधवीलतानाम् अयं गन्ध: मनसि निरुध्यते स्थिरो भवति। मधुरा वसन्तेन मधुरा मृगाङ्कस्य ज्योत्स्ना:। पुष्पवती अहम् इति कृत्वा त्वं मां न अनुरञ्जयसे प्रीणयसि। धर्मशास्त्रे पुष्पवत्या सह शयनं निषिद्धम्, अत एव शयनात्प्रतीपं रतिकर्मवशाज्जागरणं केन वा निषिद्धं स्यादित्याशय:॥ २६॥
* शीतलाष्टमी *
प्रातरेव गेहे गेहे शीतलामठाऽन्तिकतो
गीतलालसाढ्या: पौरवनिता निरीक्ष्यन्ताम्
गेहे गेहे पाककार्यलब्धाऽवसराणां भूरि
नारीनिकराणां लास्यलीला: प्रसमीक्ष्यन्ताम्।
सायाह्नेऽथ शीतलाया मेलकनिवृत्ता नरा:
श्रीरामनिवासोद्यानमध्यत: प्रतीक्ष्यन्ताम्
शीतलानि भोज्यान्युपभुज्य नीतलावण्यानि
शीतलाष्टमीतो महिलाकुलानि वीक्ष्यन्ताम्॥ २७॥
बाईजीमन्दिरे (बाईसीवालामन्दिरे) गृहीतवरवधूरूपाणां स्त्रीणां वैवाहिककौतुकानि, मध्याह्ने च रामनिवासे स्वैरलीलाश्च लास्यलीलापदेन बोद्धव्या:। नीतलावण्यानि लावण्ययुक्तानि महिलाकु-लानि॥२७॥
* गणगौरी *
सुन्दरसुरङ्गवेषभूषितसुचारुतनु-
नागरनितम्बिनीनिरुद्धभूरिभवना
प्रान्तरसुमितसहकारतरुगन्धवती
दीपितमनोजवह्निवासन्तिकपवना।
प्रतिभवनाऽऽदृतमनोज्ञघृतपूरभरा
सुखितसंयोगिचित्तचिन्तालवलवना
गौरीगणवन्द्यगणगौरीगुणगौरवतो
जयनगरीह भाति सर्वसौख्यसवना॥ २८॥
सुरङ्गवेषेण भूषिताभि: सुचारुतनुभि: पौरस्त्रीभिर्मेलकदर्शनार्थं निरुद्धानि बहुभवनानि यस्यां सा (जयनगरी)। नितम्बिनीपदेन स्थाननिरोधेऽभिप्राय: सूचित इति परिकराङ्कुर:। प्रान्तरे नगरपर्यन्तभागे सुमितानां पुष्पितानां सहकारतरूणां गन्धयुक्ता, अत एव उद्दीपित: मनोजवह्निर्येन एवंविधो वासन्तिक: पवनो यस्यां सा (नगरी)। प्रतिगृहम् आदृत: (स्वीकृत:) घृतपूर-(घेवर)-समूहो यस्यां सा। सुखितानां संयोगिजनानां चित्तस्य चिन्तालवं लुनाति या। सुन्दरीगणेन वन्दनीयाया गणगौर्या गुणगौरवात् जयपुरी पूर्वोक्तरूपेण सर्वेषां सौख्यानां सवना जनयित्री भाति। लवना सवना, उभयत्र नन्द्यादित्वाल्ल्यु:॥२८॥
* मेलकम् *
अम्बरचतुष्पटीचमत्कृतिमुदीक्ष्य चिरं
तदनु त्रिपोलियातटी ते परिचेयाऽसौ
सस्पृहमुपेत्य स्वर्गशूलीसंमुखेपि सखे
गायद्गौरीसंहतिरखेदं दृशि नेयाऽसौ।
चतुरङ्गणेऽथ गजतुरगकुतुकमेक्ष्य
चक्रिकाप्रचालनचमत्कृतिरुपेयाऽसौ
गुण्यगणगौरीगोपुरेण चतुरङ्गणगै-
र्गौरीगणगेया गणगौरी संनिधेयाऽसौ॥ २९॥
आम्बेरचतुष्पटी-(चौपड़-)-चमत्कारं वीक्ष्य तदनन्तरं त्रिपोलियापरिसरो दर्शनीय इत्यर्थ:। गायन्तीनां सुन्दरीणां संहति: (समूह:) अखेदं (सानन्दम्) दृशि नेया (दर्शनीया)। चतुरङ्गणे 'चौगान’ मध्ये धावतामुच्छलतां च गजतुरगाणां कौतुकम् आ-ईक्ष्य, चक्रिका ('चकरी’) प्रचालनस्य चमत्कृति: उपेया उपगन्तव्या, दर्शनीयेत्याशय:। 'चक्रिका’ प्रचालनपाटवेनैव राजतो जीविकामुपभञ्जाना: कर्मचारिण: त्रितलचतुस्तलपर्यन्तं स्वहस्तधृतगुणेन चक्रिकां प्रचाल्य 'गुल्मटिका’(बुर्ज) स्थिताय जयपुरेन्द्राय स्वगुणपरिचयं तद्दिने ददतीति घटना सूच्यते। प्रशस्तगुणयुक्तेन गणगौरीगोपुरेण (तन्नामकपुरद्वारद्वारा) चतुरङ्गणगतै: भवद्भि: गौरीभिरुपगेया सेयं गणगौरी संनिधातव्या दर्शनीयेत्याशय:। पुराणवसतिवास्तव्येन कविना स्वानुकूलो मेलकदर्शनक्रमो वर्णित:॥ २९॥
* नानास्थानेषु स्थिता जना मेलकं नानारूपेण वर्णयन्ति *
चतस्रो भाषा:
ब्रजभाषया रसिक: कश्चिदाह--
आँगन अटारी छात छज्जे चित्रसारी चढीं
चन्द्रमुखवारी पुरनारी चहुँ ओर की*
उर्दूभाषाऽभिज्ञ: सोत्प्रेक्षं ब्रूते--
मजमा जमा है सारी रंगतों का देखो जरा
गोया गुलक्यारी किसी बागे पुरजोर की -..।
संस्कृतज्ञ: सालङ्कारमाचष्टे--
मञ्जुनाथ सरसवन्तात्सुखसारीभवन्
फुल्लत्पुष्पधारी स हि कामतरु: कोकरी
जयपुरीय: कश्चिद्रसाकुलित: कथयति--
भायाजी! भरी छै भीड़ भारी, ईं तिबारी होर
बारी खोल देखो असवारी गणगोर की &॥ ३०॥
अङ्गने अट्टालिकायां गृहपृष्ठे विटङ्के चित्रशालायां च पुरवासिन्यश्चन्द्रमुख्य: सामारूढ़ा:। * स्त्रीणां नानाविधवर्णानि वस्राणि दृष्ट्वा उर्दूज्ञो ब्रूते- 'सर्वविधरङ्गाणामद्य संमेलनसभा संजाताऽस्ति, पश्य तावत्’। मन्येहं वैभवशालिन: कस्यचिदारामस्य नानारङ्गरमणीया पुष्पवीथिकाऽस्ति।
-.. वसन्तसमागमात् सुखसाररूपो भवन् पूर्वं कोरकयुक्त: कामतरु: साम्प्रतं विकसत्कुसुमधारी जात:। मेलके तथाविधान्युद्दीपनानि संमिलितानि यै: किल पूर्वं मुकुलसनाथोऽपि कामवृक्ष: साम्प्रतं विकसितकुसुमयुक्तो जात इत्याशय:। + तात! मेलकेऽतीव जनसंमर्द: संजात:, अत एव अस्यां त्रिद्वारिकायां वातायनमुद्घाट्य गणगौरीयात्रां पश्य &॥३०॥
जयपुरेन्द्रहर्म्यमालायां गणगौरीमहोत्सवसभा (दरबार)
मोदमादधाति वरवारिदमहलमिदं
सौरभबहल-नवनिष्कुटनिकेतने
सदृशसुरङ्गपटा: सामन्ता: समन्तात्स्थिता
मध्ये माधवेशो भाति निस्तुलनृपासने।
वादि मदबन्धादिव मन्दमन्दचारी मरुन्
माद्यति मनोऽपि वारनारीजननर्तने
सेयं गणगौरीसुमहोत्सवसभातो भाति
प्राकृतिकशोभा जयनगरनृपाङ्गने॥ ३१॥
सौरभप्रचुरे राजगृहोपवने वरं 'बादरमहल’ इति प्रसिद्धं हर्म्यं मोदं दधाति। प्रतिदिन-नियमितहरित-पीतादि-राजसदृशरङ्गपटधारिण: सभासदा: (भूम्यधिकारिणष्ठक्कुरा:) पर्यन्तत: श्रेणीबद्धा: स्थिता:, मध्ये च अनुपमे रत्नजटिते सिंहासने माधवेन्द्रो भाति। मदवशादिव मन्दमन्दगामी सुखद: पवनो वाति, सभायां वारवधूनां नर्तनं दृष्ट्वा लोकानां मन: अपि मत्ततां गच्छति। एवं जयपुरेन्द्रस्य अङ्गने गणगौरीमहोत्सवसभायां सहकारसुरभिमारुताद्युद्दीपिता प्राकृतिकशोभा भाति॥ ३१॥
जयपुरेन्द्रश्चचन्द्रमहलप्रासादात् बादरमहलं प्रति आयाति
परावर्तते वा तत्समयस्य शोभा।
पृष्ठत: प्रयान्ति राजपरिजनवर्गा भूरि
पार्श्वत: प्रयान्तो भान्ति सामन्ता: सुरञ्जिता
अग्रतो व्रजन्ति दण्डचामराऽऽतपत्रधरा:
संमुखतो वारवधूवीथी संनिवेशिता।
मध्यतो लसन्ति भूरिभूरि जलयन्त्रचया:
परितो ज्वलन्ति चन्द्रभास: सुविशेषिता
एवं वासहर्म्यादयन् बादरमहलमनु
सादरमलोकि जयनगरनरेशिता॥ ३२॥
'चन्द्रमहल’ प्रासादस्य संमुखत:, मध्यभागे बादरमहलं यावत् जलयन्त्रश्रेणि:, तदुभयतश्च मर्मरपाषाणनिर्मितं परमसुन्दरं विशालं कुट्टिमम्। तयोर्मध्ये एकेन कुट्टिमेन सुखशिविकामारुह्य जयपुरपुरन्दर: प्रयाति। द्वितीयेन कुट्टिमेन सामन्ताश्चलन्ति, अयं किल यात्रानिवेश:। तत्र जयपुरेन्द्रस्य पृष्ठभागे राज्ञ: परिजना: ('चेला’ प्रभृतय:)चलन्ति। पार्श्वत: अर्थात् पार्श्वस्य द्वितीये कुट्टिमे रञ्जितवस्रयुक्ता: सामन्ता:, प्रयान्तो भान्ति। राज्ञ: अग्रभागे च दण्ड-चामर-छत्र-धारिणश्चलन्ति। राज्ञ: संमुखभागे च वारवधूनां पङ्क्ति: स्थापितास्ति। द्वयो: कुट्टिमयोर्मध्यभागे गगनचुम्बिन्यो जलयन्त्रधारा: शोभन्ते। जलयन्त्राणां परितश्च अन्यापेक्षया विशेषयुक्ता: चन्द्रभास: ('महताब’इति प्रसिद्धाश्चन्द्रज्योत्स्नाविडम्बिन्योऽग्नि-चूर्णदीपिका:) ज्वलन्ति। एवंप्रकारेण निवासहर्म्यात् वारिदमहलं प्रति गच्छन् जयपुरेन्द्र: सकलराजस्था-नाऽतिशयित: कविभि: सादरं विलोकित:। सामन्ता: सुरञ्जिता:, सुविशेषिता:, उभयत्र पादान्तरेऽ-च्परत्वाद्विसर्गलोप:॥३२॥
* रामनवमीमेलकम् *
मर्दलमुपध्वनन्ति केचिन्मदमत्ता मुहु:
केचित्कलकांस्यवाद्यमाघ्नन्तीत्यवेक्ष्यताम्
केचिद् ग्रामकामिनीर्निरीक्ष्य कामचेष्टाचणा:
कटिमभिनामयन्तो नृत्यन्तीत्युदीक्ष्यताम्।
मञ्जुनाथ रामगञ्जमध्ये ग्राम्यलीलामेक्ष्य
साधुसिताक्रीडनकसंहति: समीक्ष्यताम्
ग्रामजनगीतिगोष्ठीकामचाररम्या, रवै:
सुतरामदम्या रामनवमी निरीक्ष्यताम्॥ ३३॥
अस्मिन्मेलके ग्राम्यजनानामेव विशेषत: समवायस्तमेवाह-- मर्दलम् 'तबलान्तर्गत’ बाँया इति प्रसिद्धम्। कलं कांस्यपात्रवाद्यम् आघ्नन्ति ताडयन्ति इति दृश्यताम्। आङो यमहनेति न शङ्क्यम्, अकर्मकादित्यनुवृत्ते:। कटिं विलक्षणरूपेण परिचालयन्तो नृत्यन्तीति। ग्राम्यलीलामेवम् आ-ईक्ष्य, सिताक्रीडनकानां संहति: ('खांड के खिलौने’) दृश्यताम्। ग्रामजनानां गीतिगोष्ठ्यां कामचारेण स्वच्छन्दविहारेण तादृशजनानां कृते रम्या, रवै: ग्राम्याणां गीतिकोलाहलैरतीव अदम्या॥ ३३॥
* वटसावित्रीदिने वटपूजा *
सौभाग्योपसाविवटसावित्रीपवित्रदिने
सुभगसवित्रीजने मोदघटा संदधाति
पुष्पधूपनैवेद्यादिपूजासाधनानि नयन्
सुन्दरीसमाजो वटमूलमनु संप्रयाति।
पश्य, वटवृक्षे सितसूत्रं परिवेष्ट्य निज-
सौभाग्यस्य सूत्रं वर्द्धयन्ती प्रक्रमं ददाति
ज्येष्ठमासमञ्जुकुहूजातभव्यभावोदया
सेयं वटपूजामेकहृदया भजन्ती भाति॥ ३४॥
सौभाग्यम् उपसूते तत्सौभाग्योपसावि, तस्मिन् वटसावित्रीपवित्रदिने। सवित्रीजने स्त्रीसमाजे मोदघटा आनन्दपूर: संनिहितो भवति। प्रक्रमं परिक्रमाम्। ज्येष्ठमासस्य मञ्ज्वां कुह्वां (अदृष्टचंद्रायाममायाम्) जात: भव्यभावोदयो यस्या: सा। हूजा-पूजा-उदया हृदया चेति प्रास:॥३४॥
* भरलानवमीमेलकम् *
सवैया (दुर्मिल)
रथ-तुङ्गतुरङ्ग-गता जनता
जनताहितसाङ्गपुरं श्रयते
गृह-तोरण-हर्म्य-मठोपरितो
भरितो जनसङ्घ इतो रमते।
अपि गीतरसाऽऽकुलिता वनिता
जनिताऽतिमदं प्रमदं दधते
भरलानवमी नवमीनदृशां
नवमीक्षणसौख्यमिहाऽऽवहते॥ ३५॥
रथान् तुङ्गान् तुरङ्गांश्च गता (अधिरूढा) जनता, जनताऽर्थं हितकारकं साङ्गपुरं ('सांगानेरम्’) श्रयते। गीतिरसैराकुलिता: स्त्रिय: जनितातिमदं यथा स्यात्तथा प्रमदं (हर्षम्) धारयन्ति। नवानां मीनदृशां (स्त्रीणाम्) नवम् (अद्भुतम्) ईक्षणसौख्यम् (नेत्रयोरानन्दम्) आवहते करोति॥ ३५॥
* जयपुरे सुप्रथिता वर्षाकालिका महोत्सवा: *
* वनसोमवारमेलक: *
चतस्रो भाषा:
'उमड़ घुमड़ घिर आईं घटा धूआंधार
वारि बउछार लिये बहत बयार ये’ *
'वाजी वा हुयो छै अन्धकार किस्यो च्यारूं ओड़
बार बार बीजल्यां बतावैं पलकार ये -..।’
'मञ्जुनाथ यार! नहीं होगी ये बहार फिर
तर्जे गुफतार रहैं आज तो नये नये +’
'विभ्रमविचारमवतारय मनस्सु नृणां
वनसोमवारमञ्जुमेलकमहोदये॥ ३६॥’
पर्यन्ततो निबिड़ा घनघटा: समवेता:। सीकरसहयोगी वायुर्वहति*। अहो समन्तात्कीदृ-शोऽन्धकार: संजात:। वारं वारं च विद्युतश्चण्डचमत्कृती: प्रदर्शयन्ति। 'अर (और) पल़का बतावै’ इत्यन्वय: -..। मञ्जुनाथ मित्र! नेयं शोभा पुनर्भाविनी। अत एव ते वर्णनशैल्योऽद्य तु नवनवा एव विलोक्येरन्। (अत एव, इत आरभ्य नानाभाषासु सूक्तिगुम्फ: इति बोध्यम्)+ रसिकनृणां मनस्सु मेलकमदस्य उदये अद्य विभ्रमस्य विलासस्य विचारमवतारय संक्रामय। 'धार छार अन्धकारे’त्यादय: सर्वपद्यगता: प्रासा:॥३६॥
* हरियाली मावस *
(मेलके मिलिता नानादेशीया: सुहृद: सानन्दमवस्थिता: प्रावृट्- शोभां स्वस्वभाषया वर्णयन्ति)
प्रथमं वाङ्गमहोदयो वर्णयति--
चाहिया चमक चञ्चलार चोकिते छे चोख’
ब्रजभाषारसिक: परितोऽवलोक्याऽऽह--
'चारों ओर छाईं घनघोर घटा धूआं सम’
जेंटिलमैन: इङ्गलिशभाषया ब्रूते--
'ओह माइ डियर! आइ लाइक दिस हाली डे’
जयपुरीयो वर्षया भोजनसामग्रीमार्द्रामवलोक्याह--
'हरियाली मावस मनैली जद जीमां जम।’
मित्राण्याह्वयन् गुर्जरो निर्जगाद--
'केवी छै बहार, जरा आवीने जुओ तो खरा!’
उर्दूपटु: सालङ्कारं व्याजहार--
'फर्श ये बिछा है हरा देखिए! दिखायँ हम’
तत्कालमागतान्वर्षाबिन्दून्निर्दिशन्महाराष्ट्रोभ्याचष्टे -
'अन्धकार झाला, मित्र! पाउस हे आला पहा’
संस्कृतज्ञ: सानन्दमग्रे सूचयन्नाह -
'पर्वते पुरस्तान्मेघमालाऽऽलोकनीयेयम्॥ ३७॥’
वाङ्ग:-- 'विद्युतश्चमत्कृतिं दृष्ट्वा चक्षुषी चकितनिमीलिते भवत:।’ व्रज.-- धूमायिता घनघटा: पर्यन्ते संघटिता:।’ अंग्रेजी-- 'oh my dear! I like this holiday.’ मित्र! एवंविधमवकाशदिनम-भिरोचयामि।’ जयपु.-- 'यदा स्थैर्येण भुञ्ज्महे, तदैव सेयं हरिताऽमावस्या सफला भवेत्।’ गुर्जर:-- 'कीदृशी शोभास्ति, किञ्चित् बहिरागत्य पश्यत तावत्।’ उर्दू-- 'इदं हरितमास्तरणमास्तृतम्, वयं दर्शयाम:।’ सस्यहरितां धरामवलोक्योत्प्रेक्षा। महारा.- 'अन्धकारो जात:। पश्य, मित्र! मेघ एवागत:’॥३७॥