* श्रावणस्य तृतीयामहोत्सव:*
प्रथमदिने शृङ्गारकम् (सिंजारा)
एतस्मिन्नुत्सवे 'लहरिया’ 'चुँदड़ी’ प्रभृतिचित्ररङ्गवस्त्राण्यभिरोचयन्ति महिला:
* तत्र बहुभाषाणां चँूदड़ी *
चोटी करि, भूरिभूषणानि कृतान्यङ्गेष्वथ,
रङ्गे हिना ने भी खूब खूबी ये दुबारा की
घैर घैर घेवर ना थाल भरी मूँक्या जुओ,
चाव हुओ जीने वक्तुं कोऽस्ति सूक्तिसंपाकी।
मञ्जुनाथ तैनें सूक्तिसुन्दरीप्रसाधनाय
पँचरँग चूनरी रँगी है बहु भाषा की
चूनर चटक भरी भामिन कों भाई
मनोलोभायाऽद्य सुन्दरीषु सोभा छै सिंजारा की॥ ३८॥
'चुंदड़ी’ चित्ररङ्गे रङ्गाणां स्थानपार्थक्यं न भवति। सर्वे रङ्गा: प्रायो मिलन्ति। तथैवाऽत्रापि प्रत्येकचरणे अनेका भाषा: संमिश्रिता:। परं पञ्चभिर्भाषाभि: सेयं सूक्तिसुन्दर्या: पञ्चरंग चुँदडीत्यवश्यं वक्तव्यं स्यात्-यथा केशप्रसाधनं कृत्वा अङ्गेषु भूषणानि धृतानि, तदुपरि यावकेन (मँहदी) करबद्धे द्विगुणशोभा कृता। प्रतिगृहं घृतपूराणां पात्राणि भृतानि, पश्यत। रमणीषु योऽयमुत्साहस्तं वक्तुं को वा प्रगल्भ:। मञ्जुनाथ त्वयाऽपि सूक्तिसुन्दर्या: शृङ्गाराय पञ्चभिर्भाषाभि: पञ्चरङ्ग'चुँदडी’ चित्रवस्त्रं रञ्जितम्। स्फुरद्रङ्गं तदेतच्चित्रवस्त्रं भामिनीभ्यो भाति। अत एव रसिकमनोलोभाय सेयं शृङ्गारकस्य शोभा वर्तते॥३८॥
* तृतीया *
कलितकुसुम्भरागकञ्चुकनिलीनकुच-
कुम्भानता कान्ता भाति दोलामुपनीयाऽसौ
वारिदवितानतले ललितलताऽभिवृता
भूमिर्हरिताऽद्य जलवेणीरमणीयाऽसौ।
मञ्जुनाथ योषितो रमन्ते गेहे गेहेऽधुना
विमृश मनागयि मदुक्तिर्माननीयाऽसौ
मानमपनीयाऽऽयाहि सुमुखि मदीयाऽन्तिके
श्रावणतृतीया भाति नूनमद्वितीयाऽसौ॥ ३९॥
कुसुम्भरागरञ्जिते कञ्चुके निलीनाभ्यां कुचकुम्भाभ्यां नता। दोलाम् उपनीय अधिरुह्य। विमृश मनागयि, अयि मनाक् विमृश॥ ३९॥
* सिंहाऽवलोकनम् *
लहरीललितरङ्गरञ्जितरुचिरपटा
सुन्दरीसुरूपघटामण्डिताऽद्य नगरी
नगरीनरेशमाधवेशसभाभासितेऽस्मिन्
तृतीयामहोत्सवे विभाति रङ्गसुझरी।
सुझरी निबद्धा नीरधाराधरैरम्बुधरै-
रेजते वियोगिनामुदीक्ष्य चित्तशफरी
शफरीसुचञ्चलदृगञ्चलमुषितमना
नन्दति कुरङ्गनयनाऽसौ कामलहरी॥ ४०॥
लहरीणां ललितरङ्गेण (लहरिया) रञ्जिता: रुचिरा: पटा: यस्यां सा रूपघटाभिर्मिण्डिता अद्य नगरी (अस्ति)। माधवेशसभा-(दरबार)-भासिते तृतीयोत्सवे रङ्गस्य झरी (घटा) भाति। तद्दिने राजसभायामेकरङ्गाण्येव वस्त्राणि धार्यन्ते। अम्बुधरै: सुन्दरा झरी (झड़ी)निबद्धा। झरीं दृष्ट्वा वियोगिनां चित्तरूपा शफरी एजते कम्पते। मीनवत् चञ्चलेन दृगञ्चलेन मुषितं रसिकानां मनो यया सा कामलहरी कामदेवस्य लहरीभूता॥ ४०॥
मेलक:
भवन-विटङ्क-वीथि-वातायन-मन्दिरेषु
पौरपङ्कजाक्षीद्युतिदूरदर्शनीयाऽसौ
पञ्चरङ्गकेतुधरकुञ्जर-तुरङ्ग-रथ-
पत्तिपुञ्ज-मञ्जुगौरीयात्रामहनीयाऽसौ।
मञ्जुनाथ भाति पुरी वारिदवितानतले
मेलकनिबद्धजनलेखालालनीयाऽसौ
प्रथमा समग्रतिथिमध्ये गणनीयाऽप्यद्य
श्रावणतृतीया भाति नूनमद्वितीयाऽसौ॥ ४१॥
मेलकदर्शनार्थं भवनादिषु स्थितानां पुरवासिनीनां पङ्कजाक्षीणां द्युत्या अत्यन्तं दर्शनीया (असौ पुरी), मेलके आगता: पञ्चरङ्गध्वजधारका ये कुञ्जरा:, तुरङ्गा:, रथा: सैनिक-पदातिपुञ्जाश्च तै: मञ्जुला या गौर्या: (तीज) यात्रा (सवारी) तया पूजनीया। वारिदरूपस्य वितानस्य तले, मेलके निबद्धा या जनलेखा (लोकानां पङ्क्ति:) तया लालनीया शोभनीया पुरी भाति। समग्रतिथिमध्ये उत्सवसंभारात् प्रथमत्वेन गणनीयाऽपि सेयं तृतीयेति विरोध:॥४१॥
'तृतीयामहोत्सववोचिता जयपुरीयहिन्दीसंस्कृतयोर्लहरिरचना’
('लहरिया’)
त्यारी हुई तीज की तमासो तिरपाल़ै जुड्यो
सागै सहणायाँ में मलार रागणी बाजी
पश्य पञ्चरङ्गध्वजवाही वारणोऽयं भाति,
कौतुकं ददाति पदा सोयमुच्छलन् वाजी।
वा जी वा! जम्यो छै म्हांटो मे भी किस्यो मौका मालै़
लैर्या चूँदड्यां भी आज भीजै भोत भाया जी
राजद्युतिराजन्मञ्जुमेलकसमाजमनु
राजतेऽम्बुपूरैरियं राजवीथिकाराजी॥ ४२॥
मेलके मिलिता: स्वस्वभाषया तं वर्णयन्ति--गौर्या: (तीज) आगमनस्य वेला जाता। 'त्रिपोलिया’ समीपे कौतुकसामग्री संघटिता। पश्य, सहनायिकासु स्पष्टं मल्लाररागो वाद्यते। एकेन पदा उच्छलन्। अहो मेघोपि कीदृशे समये समागतोस्ति, अद्य बहूनां लहरिया-चुँदडीचित्रवस्त्राण्यार्द्राणि भवेयु:। राज्ञ: शोभया राजति मेलकसमाजेऽस्मिन् राजमार्गपङ्क्ति: अम्बुपूरै: शोभते॥ ४२॥
रक्षाबन्धनम्
मङ्गलमनोज्ञवेषशोभमाननागरीभि-
र्द्वारोपान्तलिख्यमानश्रवणा विभासते
पाविता पुरस्तात्पुर: श्रावणीनिलीनैर्द्विजै:,
योजिता नवीनैर्गीतिसंसद: समासते।
शोभमानरक्षाबन्धबन्धुरकराग्रा नरा:
प्रमदपरायणा: सुमङ्गलमुपासते
तूर्णमात्मदक्षिणायै घूर्णमानदीनद्विजा
पूर्ण-मा-समिद्धा रक्षापूर्णिमा प्रकाशते॥ ४३॥
नगरवासिनीभि: सुवासिनीभिर्द्वारदेशे लिख्यमान: श्रवणो यस्यां सा। पुर: नगर्या: श्रावणीकर्मणि संलग्रैर्द्विजै: पवित्रीकृता। नवीनै: केवलं विलासिभि: योजिता: उत्सवार्था गानसभा: समासते अधिविष्टा भवन्ति। रक्षाबन्धेन सुन्दरं कराग्रं येषां ते सुमङ्गलम् उपासते अनुतिष्ठन्ति। पूर्णया मया शोभया समिद्धा आढ्या॥ ४३॥
केचित्करनीतरम्यरक्षान्द्विजदक्षान्वीक्ष्य
यान्ति किल कक्ष्यान्तरे भीता इव दुर्गमे
नाऽभ्युत्थातुमन्ये क्षमा: पक्षाऽऽघातरुग्णा इव,
दुरितविलक्षा: केपि भुग्ना भयविभ्रमे।
केषांचिद्वचनमपि नैति नयरूक्षाऽऽनने
गमनप्रतीक्षा: केचिदासते बुधाऽऽगमे
याचन्ते न भिक्षां कलयन्ति किन्तु दक्षा इमे
योग्यतापरीक्षां रक्षाबन्धनदिनाऽऽगमे॥ ४४॥
करे नीता रम्या रक्षा (पट्टनिर्मिता राखी) यैस्तान् वीक्ष्य, भीता: इव दुर्गमे गृहकक्ष्यान्तरे यान्ति। अन्ये पक्षाघातरोगिण इव अभ्युत्थानेपि न क्षमन्ते। ये ब्राह्मणान्वीक्ष्य नोत्तिष्ठन्ति तदर्थमिदम्। केचिद्विप्रान् वीक्ष्य संकुचन्ति तदर्थमाह-- दुरितै: विलक्षा: (लज्जिता:) केचिद् भयविलासेन भुग्ना अधोमुखीभूता इव। नीतिरूक्षे केषांचित् आनने वचनम् अपि न एति (नि:सरति)। बुधानाम् आगमने केचित् तेषां गमनमेव प्रतीक्षन्ते। अत एव चतुरा इमे विप्रा लोकानां योग्यतापरीक्षां कुर्वन्ति॥ ४४॥
राजसभा (दरबार)
सर्वविधसम्पत्सर्वतोभद्राऽऽख्यहर्म्यतले
सर्वतो विभाति सभा करदमहीभृताम्
मध्ये मणिमण्डितमहाऽर्हहेमसिंहासने
मानमेदिनीशो भाति शोभामुपनीय ताम्।
मञ्जुनाथ संमुखे समिन्धे मञ्जुमल्लारोऽय-
मेषा कविमल्लानां सदुक्तिरवधीयताम्
'जयपुरधरणिमानरक्षावीरबाहुभृतो
मानभूभृतोऽद्य रक्षामङ्गलमुपैधताम्’॥ ४५॥
शोभाया: सर्वविधा सम्पत्ति: यस्मिन् ईदृशे 'सर्वतोभद्र’ ('सर्वता’) नामानि सौधे करदायिनां भूम्यधिकारिणां सभा भाति। तां (प्रसिद्धां वर्णनीयाम्) शोभामुपनीय अधिष्ठाय। संमुखे नृत्यन्तीनां वारवधूनां मुखात् मल्लाररागो विजृम्भते। तद्दिने आशीर्वादार्थमुपस्थितानां कविश्रेष्ठानां एषा सूक्तिर्निशम्यताम्, का सा? तामाह-- 'जयपुरभूमे: सम्मानरक्षायां वीरं बाहुदण्डं बिभर्ति तस्य’॥ ४५॥
सो.-- मानसिंह नरनाथ! जयपुररक्षाकरण हे।
रक्षावहरक्षाऽथ रक्षतु रक्षाबन्धने॥ ४६॥
रक्षाकारिणी इयं विप्रकरस्था रक्षा त्वां रक्षतु॥ ४६॥
* गणेशचतुर्थी *
द्वारि द्वारि धूप-दीप-सिन्दूरादिसंभारेण
संभावितलोको गणनाथमर्चयत्यहो
दण्डाऽऽरवनृत्यद्बालवृन्दपरितोषी पश्य
सोयं वृद्धजोषी गुडधानान्संनयत्यहो।
सायं गणनाथं पश्य मोतीडूंगरीस्थं सखे
योऽतीव प्रसिद्धोऽभीष्टसिद्धिं रचयत्यहो
व्यर्थीभूतयत्न: किमु सीदेत्सम्पदर्थी गण-
नायकचतुर्थी चतुरर्थीं घटयत्यहो॥ ४७॥
दण्डानां (डंका) आरवेण नृत्यति बालवृन्दे परितोषयुक्त:। अथवा बालवृन्देन लोकान्परितोषयति तच्छील:। वृद्धो 'जोशी’ति प्रसिद्धो बालकानामध्यापक:। वृद्धपदेन 'साम्प्रतमियं रीतिर्विरलीभवती’ति ध्वन्यते। चतुरर्थी चतुर्णामर्थानां समाहार:, धर्मार्थादीन् सर्वपुरुषार्थान् घटयतीत्यर्थ:॥ ४७॥
* परिक्रमा *
नानाविधवाद्यानां निशम्यतां समिद्धो ध्वनि-
र्विद्युद्विनिबद्धोऽयं प्रकाश: सुपरीक्ष्यताम्
स्कन्धैरुह्यमानमणिसिंहासनगानामहो
भगवत्सरूपाणां सुसौष्ठवं समीक्ष्यताम्।
मञ्जुनाथ मन्दिरेषु रथ्यामुख-चत्वरेषु
मार्गाणामुपह्वरेषु नारीततिरीक्ष्यताम्
भूरिभक्तविक्रमाय भजनसमाजक्रमा
लोकदुरतिक्रमा परिक्रमा प्रतीक्ष्यताम्॥ ४८॥
लोकानां स्कन्धै: उह्यमानेषु सिंहासनेषु स्थितानां भगवत्सरूपाणाम् राम-कृष्णादिसमानं रूपं येषाम् तेषाम्। उपह्वरेषु समीपेषु। बहूनां भक्तवणिजां पराक्रमप्रदर्शनाय भजनगानक्रमो यस्यां सा। अत्र हि भक्ता अतीव तारस्वरेण गायन्त: स्वपराक्रमं प्रदर्शयन्ति। अतीव संकुलतावशात् लोकै: दु:खेन उल्लङ्घयितुं शक्या नगरपरिक्रमामण्डली प्रतीक्ष्यताम्। प्रतीक्ष्यतामित्यनेन सन्ध्यासमये साङ्गानेरगोपुरसमीपे स्थितास्तदागमनं प्रतीक्षन्ते इति तत्स्थिति: सूचिता॥ ४८॥
* सन्ध्या (साँझी) *
कुत्रचित्कदलिपल्लवानाम्, क्वचित्तूलिकानाम्
रङ्गाणां क्वचित्तु शुभशिल्पमुपादीयते
द्वासप्ततियन्त्रै:, क्वचिच्चित्रै:, क्वचिन्मूर्तिचयै:,
कुत्रचित्तु सिंहेनैव विस्मयो विधीयते।
वैदेशिकवैभवेन देशे भृशमल्पायित-
शिल्पानां प्रदर्शनीव किमियं न गीयते
वर्तमानविज्ञवरैर्वन्ध्या विदिताऽपि सखे
सन्ध्याशिल्पचातुरी न किं ध्यानेऽद्य नीयते॥ ४९॥
क्वचित्कदलिपल्लवानां खण्डैर्नानाविधगृहोद्यानादिचित्राण्युत्कीर्यन्ते (केल की संस्या) घाटगोपुरे जायमाना 'तुलीकी संस्या’। व्यासानां गृहे गोपीनाथमन्दिरादिषु च जायमाना 'रङ्ग की सांझी’। द्वासप्ततियन्त्रै: क्वचिल्लोकानां विस्मयो विधीयते 'बहत्तर कलकी सांझी’। मूर्तिचयै: 'बांदरी के नासिक’ स्थाने जायमाना 'रामसिंह की सांझी’ 'चौडारास्तान्तर्जायमाना भट्टानां सांझी’ सूच्यते। सिंहेन विस्मय:, महाविशाल: 'देवादास का नाहर’ सूच्यते। इयं सन्ध्या हि, यदा वैदेशिकराज्यवशात् देशीयशिल्पानि देशे अल्पतामभजन्, तदा लोकेषु तदुत्साहप्रवर्तनाय आश्विनकृष्णे कौतुकरूपेण 'सन्ध्या’व्यपदेशात् देशीयशिल्पानां संक्षिप्ता प्रदर्शनीव चतुरै: प्रचारिता इति सूच्यते। वर्तमाना: ये विज्ञवरा: (साकूतमिदम्) तैरियं सन्ध्या निष्फला विदिता, परमुपर्युक्तरीत्या उपयुक्ता सेयं शिल्पचातुरी भवता अवधाने किमिति न नीयते? अपि त्ववश्यमवधाय उन्नतिं नेयेत्याशय:॥ ४९॥
* आश्विननवरात्रेषु जायमान: षष्ठीमेलक: *
प्रातर्नरसिंहमेक्ष्य, यामद्वयीमध्ये मनो
मातरं शिलामयीमवेक्ष्य सफलं कुरु
देलरामरम्याऽऽरामदेशे पुञ्जीभूतजने
ह्यम्बरनगरमञ्जु'गुञ्जी’कवलं कुरु।
सायंकालपूर्वमेव कालमहादेवं प्राप्य
वीक्ष्य बालवामा नेत्रयुग्मं तरलं कुरु
स्पष्टीकृतवृष्टिफल-मेलकमहिष्ठीभूत-
माश्वयुजशुल्कषष्ठीमेलकमलङ्कुरु॥ ५०॥
प्राचीनजनोपात्त: षष्ठीमेलकदर्शनक्रमो वर्ण्यते-- प्रात: नरसिंहदर्शनं कृत्वा (यत: अष्टवादनात्पूर्वमेव तत्र दर्शनादिकं भवति), द्विप्रहरसमीपे 'शिलामयी’मातरं वीक्ष्य, मन: सफलं कुरु। तत: अवतीर्य, पुञ्जीभूता: लोका: यस्मिन्नीदृशे 'दलारामोपवने’ आम्बेरनगरप्रसिद्धानां गुञ्जीनाम् ('गूंजी पय:सारनिर्मिता: 'पेटक’ विशेषा:) कवलं भोजनं कुरु। स्पष्टीकृतं वृष्टिफलं येन तम्। (तत्र हि 'मावटा’ह्रदे यावज्जलमायाति तावती वृष्टि: परिज्ञायते)। सर्वमेलकेषु अतिशयेन महान्तम्॥ ५०॥
* दशहरा *
चञ्चत्पञ्चरङ्गनवपृथुलपताकावहा
रोचते चतुष्पटी नटीव रङ्गरुचिरा
तोपध्वनिधीरमर्चयन्ते गिरिदुर्गाऽङ्गणे
वीरराजपुत्रा मञ्जदुर्गां मन्त्रमुखरा:।
मञ्जुनाथ मानमेदिनीन्द्रहर्म्यमालाऽन्तिके
वाजि-गजमाला भाति पूजापुष्पविकिरा
दिव्यरवदीर्घं घोषयन्ते दिवि दुन्दुभयो
'दीव्यति दिगन्ते दिव्यदशमी दशहरा’॥ ५१॥
चञ्चन्त: पञ्चरङ्गा (वर्णा:) यासु एवंविधा: नवीना: पृथुला: राजपताका वहन्ती चतुष्पटी 'चौपड़’ रङ्गरुचिरा नटीव रोचते। नटी यथा नवरङ्गाणि वस्त्राणि धारयति तथा चतुष्पटी अपि महादीर्घा नवीनपताका धारयति (तद्दिने नवा राजपताका: (झंडा) स्थाप्यन्ते)। तोपध्वनिभिर्धीरं यथा स्यात्तथा दुर्गेषु राजपुत्रवीरा दुर्गां पूजयन्ति। मध्याह्ने दुर्गेषु भगवतीपूजा भवति, तदवसरे च दुर्गेभ्य: तोपध्वनयो भवन्ति। सायं च पूजापुष्पाणां विकिरा (प्रवर्षिणी) वाजिनां गजानां च पङ्क्तिर्भाति। तद्दिने अश्व-गजरथादीनां राज्ञा पूजा क्रियते। दिवि आकाशे प्रतिध्वनिता दुन्दुभय: दिवि स्वर्गे देवै: कृतेन रवेण दीर्घं यथा स्यात्तथा इदं घोषयन्ति यत्-- 'अद्य दशहरा दीव्यति शोभते’ देवा अपि जयपुरेन्द्रस्याभ्युदये संमिलिता भवन्तीति ध्वन्यते॥५१॥
राजसभा (दरबार)
सामन्तै: समेत: सर्वतोभद्रे विधाय सभां
शिञ्जितैरनिद्रे याति सैन्धवपूजोत्सवे
शिञ्जारवनिर्भरांस्तुरङ्ग-दन्ति-पुष्यरथान्
युञ्जानोऽधिकारिचयैरर्चति सुखोत्सवे।
तस्यान्तरे तोभध्वनौ भरति नभस्यान्तरे
याति जयनगरनरेशो विजयोत्सवे
मानमेदिनीन्द्रजययात्राऽऽलोकलोभाऽधिका
भाति कापि शोभा जयदशमीमहोत्सवे॥ ५२॥
सामन्तै: सहित: (जयनगरनरेश:) सर्वतोभद्राख्यहर्म्ये सभां विधाय, हय-कुञ्जरादीनां भूषणझणाकारै: अनिद्रे मुखरिते पूजोत्सवे याति। सुखे सुखकारके तस्मिन्नुत्सवे अधिकारिवर्गै: सह युञ्जान: संगच्छमान: तुरङ्गादीनर्चति। पुष्यरथ: शृङ्गारितो य: शोभायात्रायां याति न समरे। तस्य अन्तरे (पश्चात्), नभ:सम्बन्धि नभस्यम् तस्मिन्नवकाशे (गगनदेशे इत्यर्थ:) तोभध्वनौ भरति सति। तोभ: 'नभ तुभ’ हिंसायाम्॥ ५२॥
* शलकमेलकम् *
दशम्या द्वितीयेऽस्मिन्नतीवाऽऽमोददायिदिने
बालुकया पीवा फतेटीबा समुपेयताम्
'रामबाण’ 'घूमबाण’ जाग्र'ज्जयसिंहबाण’-
प्रमुखोऽत्र प्राणलोपितोपगणो वीक्ष्यताम्।
मध्ये युज्यमानदन्तिवाह्येन्द्रविमानमुखे
श्रीमान्मानमेदिनीमरुत्वान्समवेक्ष्यताम्
नालकमुखोद्गतनिनादनदनालमिदं
कलकलशालि शलकमेलकमवेक्ष्यताम्॥ ५३॥
बालुकया पीवा पुष्ट:। तोपमण्डलस्य मध्ये युज्यमानाभ्यां दन्तिभ्यां वहनीयो य: 'इन्द्रविमान:’ (तन्नामको महत्तमो रथ:) तस्याग्रभागे। तोपबन्दूकादीनां नालकस्य ('नाली’) मुखात् उद्गता: निनादरूपा नदा: नालकाश्च ('नाले’) यस्मिन् तत्। महातोपानां मुखाद् घोरनादरूपा नदा: प्रादुर्भूता:, लघुनलिकास्त्राणां च मुखात् लघुनादरूपा नालका: समुद्गता इति यथायथं योज्यम्॥ ५३॥
* नगरे आगमनम् (सवारी)*
चत्वर-चतुष्पथ-चतुष्क-चित्रशाला-स्थिता:
काश्चिच्चारुचैत्यचन्द्रशालाचयमासते
विपणि-विटङ्क-वप्र-वातायन-मन्दिरेषु
काचिद्वासवीथीवेश्ममालान्तराद्वीक्षते।
देवगृह-गोपुर-गवाक्षचक्रवालान्तरात्
काचित्केलिसद्ममञ्जुजालात्प्रसमीक्षते
पश्यत्पुरबालानयनारविन्दमालाऽङ्किता
नगरीह मानभूमिपालाऽऽगममीक्षते॥ ५४॥
चत्वरं विस्तृतं प्राङ्गणम्। चतुष्कं 'चौक’ पदवाच्यम्। काश्चिञ्च चैत्यानाम् (पूज्यगृहाणाम्) चन्द्रशालानां च चयं समूहम् आसते अध्यासते, 'आस्’मात्रस्य उपसर्गसहकृतोर्थो विविक्षित:। विटङ्क: 'छज्जा’ प्रभृतिरुन्नतो देश:। वप्रं प्राकाराधार:। वातायनं वातागममार्ग: 'खिड़की’। गवाक्ष: 'झरोखा’ पदवाच्य:। मेलकं पश्यन्तीनां पुरबालानां नयनारविन्दमालयाऽङ्किता चिह्निता (नगरी)। निजस्वामिन: कण्ठे परिधानार्थं हस्तयोर्मङ्गलमाल्यं वहन्ती शृङ्गारयुक्ता काचिन्महिला उत्सवदिने यथा तदागमनं प्रतीक्षते एवमुत्सवसंभारैरलङ्कृता जयपुरनगरी हर्षविकसितनारीनेत्रकमलमालामाददती मानभूपस्यागमनं प्रतीक्षत इत्याशय:॥५४॥
अस्य मेलकस्यान्योपि यात्रोत्सव: (सवारी) चित्रचत्वरे '२८’ पद्ये विलोक्य:।
* शरत्पूर्णिमा *
(दरबार)
'प्रियतमनिवास’हर्म्यमालाञ्जुमौलिगता
विशदविशाला चन्द्रशाला भूरि भासते
स्वच्छपय:फेनपाण्डुरेऽस्मिन् विपुलाऽऽस्तरणे
शुभ्रमञ्जुलाऽऽभा इमे सामन्ता: समासते॥
मध्ये रौप्यसिंहासने मानमेदिनीश एष
पूर्णरजनीशरम्यरोचिषि विभासते
चूर्ण्यमानचन्द्रचयपूर्ण-मा-प्रमोदवहा
मानमहसाऽद्य शरत्पूर्णिमा प्रकाशते॥ ५५॥
चन्द्रशाला 'चांदनी’। सर्वश्वेतवस्त्रधारणात् शुभ्रा मञ्जुला च आभा (कान्ति:) येषां ते। चूर्णीक्रियमाणो यो बहूनां चन्द्रमसां समूहस्तस्य पूर्णशोभाया: प्रमोदवाहिनी। श्रीमन्मानसिंहदेवस्य कीर्तिप्रकाशेन शरत्पूर्णिमा तथा प्रकाशते तथा ह्येषा चूर्णीकृतानामनेक-चन्द्रमसां पूर्णशोभाया वाहिनी भवेदित्याशय:॥ ५५॥
* दीपमालिका *
खचितविचित्रचित्रजाला भाति भूमिरियं
सद्वन्दनमाला द्वारराजिरसौ भासते
बालाऽऽमोदवद्र्धिनी विशालाङ्गणवेदिकासु
सूतपुष्पजाला पुष्पझरिका प्रकाशते।
मञ्जुनाथ मञ्जुचन्द्रशालामभिमण्ड्य जना:
प्रतिगृहमेते किल कमलामुपासते
बालाकरदत्ता दीपमालादिनदैर्घ्यकरी
राजत्सौधमाला दीपमाला भूरि भासते॥ ५६॥
सुवासिनीभि: उत्सवनिमित्तं खचितानि (लिखितानि) विचित्राणि चित्रजालानि यस्यामेवंविधा सेयं गृहभूमिर्भाति। उत्तमा वन्दनमाला ('बंदनवार’)यस्यां सा द्वारपंक्तिर्भासते। बालकानाम् आमोदस्य आनन्दस्य वर्द्धिनी, सूतानि (उत्पादितानि) पुष्पजालानि यया ईदृशी पुष्पझरिका ('फूलझड़ी अग्निक्रीडनकविशेष:’) प्रकाशते। जना: चन्द्रशालां (उपरितनं गृहम्) अभिभूष्य कमलां उपासते (पूजयन्ति)। स्रीणां करैर्दत्ता, दीपमालादिनस्य दीर्घताकरी (दीपानां तथा प्रकाशो भवति यथा रात्रावपि दिनमिव प्रतीयते, अत एव दिनस्य दीर्घता), राजन्ती सौधमाला यया ईदृशी दीपानां पङ्क्ति: भासते॥५६॥
दीपावल्या: सायंकाले नगरशोभा
हर्म्यमौलि-मन्दिर-गवाक्ष-गेह-गोपुरेषु
देवशिखरेषु दीपपद्धतिरुदीक्ष्यताम्
आपणेषु दर्शितनिवेशनैपुणेषु भृशं
पित्तलादिपात्रभूरिवैभवं परीक्ष्यताम्।
मञ्जुनाथ सिंहदुर्गदीपद्युतिरेषा किमु
दृश्यते सुरेशादिकनगरे ? समीक्ष्यताम्
राजमार्गपालीभासिविद्युद्दीप्रदीपालीयं
जयपुरनगरदुर्गदीपाली निरीक्ष्यताम्॥ ५७॥
दर्शितं पित्तलादिपात्राणां निवेशस्य (स्थापनप्रकारस्य) नैपुणं येषु ईदृशेष्वापणेषु। सिंहदुर्गस्य 'नाहरगढस्य’ दीपकान्ति: सेयमिन्द्रादीनामपि किं नगरे दृश्यते ? अपि तु नास्तीत्यर्थ:। राजमार्गपाल्यां (राजमार्गपङ्क्त्याम्) भासिनी विद्युत: दीप्रदीपानामालिर्यस्यां सा, जयपुरनगरस्य नाहरगढदुर्गस्य च दीपालिर्दृश्यताम्॥ ५७॥
राजरुचिरोचितसुरङ्गहर्म्यमालिकासु
चञ्चत्काचकान्तिदीपरुचिरुपभासते
राजमार्ग-वीथी-वणिगापण-गृहाजिरेषु
काञ्चिद्रुचिमेक्ष्य रविरुचयोऽप्युदासते।
मञ्जुनाथ सम्यगेव मन्यसे समक्षमियं
मानराट्प्रतापपुञ्जमञ्जुभा विभासते
चत्वर-चतुष्पथ-चतुष्क-चित्रशालिकासु
हर्म्याट्टालिकासु दीपमालिका प्रकाशते॥ ५८॥
राज्ञ: शोभया दीप्तासु सुरङ्गहर्म्यमालासु, चञ्चन्ती काचावरणानां कान्तिर्येषु ईदृशानां दीपानां रुचि: कान्ति: भासते। राजप्रसादे काचाच्छादितदीपपङ्क्ति: शोभते इत्याशय:। राजमार्गादिषु काञ्चित् अपूर्वां कान्तिं आ-ईक्ष्य भानुकान्तयोप्युदासीना भवन्ति। मञ्जुनाथ त्वं सम्यगेव मन्यसे यत् इयं दीपावलीदीप्तिर्नास्ति किन्तु मानसिंहदेवस्य प्रतापपुञ्जस्य मञ्जुला भा (प्रभा) अस्ति। चत्वरो विस्तृतं प्राङ्गणम्। चतुष्कं 'चौक’ पदवाच्यम्॥५८॥
* राजसभा *
काचमणिमञ्जुलसुदृशदीपशाखिचयै-
र्विजितदिनेशविभा भूरि सभा भासते
सजलजलदभासि-वसनविभासिनोऽमी
सामन्ता: समन्तादिह मोदोन्मदमासते।
मञ्जुनाथ राजोचिततेजसा महेन्द्रसमो
मध्ये जयनगरनरेशोऽयं प्रकाशते
राजन्ते महीपा बत दीपावलीवैभवेन
मानमेदिनीपादद्य दीपावली राजते॥ ५९॥
दीपशाखिन: ('झाड’) प्रसिद्धा: तेषां समूहैर्विजिता सूर्यस्यापि विभा यया सा, अतिप्रकाश-वतीत्यर्थ:। जलदवद् भासन्ते यानि वसनानि तैर्विभासिन:, अतिश्यामवस्त्रधारिण इति भाव:। दीपावल्यां सर्वै: श्यामान्येव वस्त्राणि धार्यन्ते। मोदोन्मदं यथा तथा आसते तिष्ठन्ति। अन्ये राजानो दीपावल्या राजन्ते मानभूमिपात्तु स्वयं दीपावली राजते। राज्ञां शोभाप्रदातुरप्ययं शोभादायक इति महातिशयो ध्वन्यते॥ ५९॥
'जगमग जोति जगी झाड़ औ फनूसन की,
दमितदिनेसद्युति द्योत दरबारी है
सजल जलद रंग सुन्दर बसन साज,
सोहत समाज के उमंग उर भारी है।
मध्य में विराजमान मानवसुधेन्द्र राजैं,
महित महेन्द्र सम राजतेजधारी हैं,
औरैं मेदिनी के पति दिपत दिवारी पाय,
मान मेदिनीपति सों दीपति दिवारी है’॥५९॥
भ्रातृद्वितीया मसीपात्रपूजा च
भ्रातर: प्रयान्ति भगिनीनां भवनेषु यत्र
सौभ्रात्रं भजन्तो धारयन्तो मञ्जुमालिका
भोज्यव्यञ्जनानि भूरि भूरि भजमाना स्वयं
भोजयति भ्रातॄन् भगिनीयं भव्यभाविका।
मञ्जुनाथ यद्दिने मिमेल मसीपात्रपूजा
कार्यालय-भृ-जागृतपूजाविधिसाधिका
भ्रातृभगिनीनां स्नेहभावैर्भावनीया भूरि
किं भ्रातृद्वितीया गणनीया न गुणाधिका ?॥ ६०॥
सौभ्रात्रम् प्रशंसनीयं भ्रातृभावम्। मञ्जुमालिका: सुवर्णादिनिर्मितमालिका: धारयन्त:, शृङ्गारयुक्ता इत्यर्थ:। 'मालिका:’ इति विसर्गस्य पादान्तरभकारपरत्वाल्लोप:। कार्यालयभूमिषु जागृतस्य पूजाविधे: साधिका मसीपूजाऽपि यद्दिने मिलितास्ति। तद्दिन एव यवनाद्यधिष्ठितेष्वपि न्यायालयकार्यालयादिषु कर्मकाण्डविधिर्जागरूक इव दृश्यते इति सूच्यते॥ ६०॥
मकरसंक्रान्ति:
प्रतिगृहमेव मोदमुत्साहं विमार्ग मनाक्
स्त्रीषु सुखसंनाहं समीक्ष्य मुदुन्मुद्र्यताम्
प्रतिगृहदीयमान 'फेनी’तिलमोदकाऽऽद्य-
धीनीकृतकारुजने साधय सुभद्रताम्।
मञ्जुनाथ पश्य पुर: पौराणां पतङ्गसुखं
बालानामिहोर्ध्वमुखं धावतामनिद्रताम्
श्रान्तिमपनीय पतङ्गेषु पराक्रान्तिमेहि
धेहि न संक्रान्तिदिव्यदिवसे दरिद्रताम्॥ ६१॥
विमार्ग पश्य। सुखसंनाहं सुखोत्तेजनाम्। मुत् (हर्ष:) उन्मुद्र्यताम्। रमणीषु सुखपूर्णमुत्साहं वीक्ष्य हर्षो विकास्यतामित्याशय:। प्रतिगृहं दीयमानै: 'फैनी’ (गोधूमातिसूक्ष्म-चूर्णनिर्मित: पिष्टकविशेष: 'सूत्रिका’-) तिलमोदकादिभि: अधीनीकृते कुम्भकार-नापितादिगृहकार्यकरजने भद्रतां साधय। फेनिकादिप्रदानेन तान्वशीभूतान्कृत्वा तेषु व्यवहारे भद्रतां स्थापय। अप्रदाने तु ते न विनयं भजन्तीति भाव:। पतङ्गानाम् 'कनकौआ’ इत्यादि- नाम्नां दोरकोड्डायनीयानां क्रीडनकानां सुखम् आनन्दम्। ऊर्ध्वमुखं यथा स्यात्तथा भवनपृष्ठेषु धावतां बालकानामनिद्रताम् (उत्साहं) च पश्य। पतङ्गदर्शनार्थमुन्मुखा: धावन्तो बहवो नीचैर्निपतन्तीति घटनापि सूच्यते। श्रमं दूरीकृत्य पतङ्गोड्डायने पराक्रमं स्वीकुरु॥ ६१॥
* जयपुरप्रसिद्धा अन्ये उत्सवा: *
वरयात्रा (निकासी)
अहह निशम्यतां सवाद्यसहनायीस्वरो
रुचिर'हवाई’ध्वनिर्दूरत: प्रतीक्ष्यताम्
मध्यत: प्रविश्य सखे दृश्या वरयात्रिच्छटा
नृत्ये निकटाऽऽगतापि गणिकेयमीक्ष्यताम्।
मध्येसभं निन्दतां च बालकविवाहमहो!
भव्यवरवेषवहो बालोऽसौ निरीक्ष्यताम्
पात्राऽपात्रनि:स्पृहा सुभूरिधनमात्राव्यया
जयपुरविवाहवरयात्राऽसौ समीक्ष्यताम्॥ ६२॥
दुन्दुभिवाद्येन सहकृत: 'सहनायिका’वाद्यस्वर: श्रूयताम्, यद्वादक - मण्डली शकटस्था अग्रे चलति। 'हवाई’ गगने दूरं गत्वा सशब्दं चमत्कुर्वत्तारकाप्रका-शकोऽग्निक्रीडनकविशेष:। मध्यत: उभयतोबद्धराजपदातिश्रेण्या मध्ये प्रविश्य। वरयात्रिणामग्रतो निबद्धे मण्डले संमुखतो नृत्यन्ती गणिका दृश्यताम्। अहो समाजसंशोधनसभाया मध्ये बालविवाहं निन्दतां वरपक्षीयाणामेव सज्जनानां मध्ये वरवेषवाही असौ बालो वीक्ष्यताम्। ये सभायां बालविवाहं निन्दन्ति त एव मध्येराजमार्गं भेरीनादपुरस्सरं बालकवरस्य वैवाहिकयात्रां नयन्तीति बालपदस्याऽऽकूतम्। धनव्ययस्य इदं पात्रम् अपात्रं वेति विवेक नि:स्पृहा, भूरिधनमात्राया व्ययो यस्यां सा। सेयं विचारपुरस्सरं समालोचना दृग्गोचरीक्रियते कौटिल्य-भावेनेति 'समीक्ष्यतां’ पदेन सूच्यते॥ ६२॥
प्रथमप्रथमं विद्युत: (Electricity) प्रवर्तने अधिजयपुरं जायमानो विद्युत्प्रकाशोत्सव: (पौषस्यामामारभ्य, संवत् १९८३)
विद्युत्प्रभाभासिता विभाति स्वर्गशूली भृशं
श्रीरामनिवासाऽऽद्यस्ति विस्मितसमस्तसूरि
विद्युदियं चारुचांदपोलयाता संचकास्ति
त्रितलत्रिपोलियाऽपि तडिता तमोविदूरि।
मन्ये साक्षादिन्द्रमेव मत्वा मानमेदिनीन्द्र-
मेषा मुहुर्विद्योतते विद्युद् हृदयाऽवपूरि
तस्मादेव चञ्चलाऽप्यचञ्चलायितत्वमाप्य
स्वामिसदनानामञ्चलाऽऽगता विभाति भूरि॥ ६३॥
रामनिवासोद्यानहर्म्यम् (म्यूजियम), तत्समीपस्थं घण्टागृहम् एतदादि स्थानम्, विस्मता: समस्ता: सूरयो यस्माद् ईदृशमस्ति। मर्मरपाषाणनिर्मितस्य सप्तभूमस्य लोक-प्रसिद्धस्योद्यानहर्म्यस्य सर्वतो व्याप्तैर्विद्युद्दीपैरभूतपूर्वा शोभाऽभवदित्याशय:। त्रितलं त्रिपोलियाख्यगोपुरमपि विद्युता (करणेन) तम: विदूरयति तादृशमस्ति। आमूलचूडं विद्युद्भासितस्य तस्यापि अनुपमा सुषमाऽभवदित्यर्थ:। मानभूमीन्द्रं साक्षादिन्द्रमेव मत्वा मेघवाहनस्य इन्द्रस्यधीना एषा (विद्युत्) हृदयाऽवपूरि यथा स्यात्तथा (पूर्णहृदयेन) विद्योतते। तस्मादेव (तत एव) स्वामिन: (माननरेशरूपस्य निजस्वामिन इन्द्रस्य) सदनानाम् अञ्चलाऽऽगता प्रान्तोपस्थिता चञ्चलाऽपि सेयं स्वामिसेवाभयेन निजस्य चञ्चलत्वं त्यक्त्वा भूरि भाति। स्वामी अप्रसन्नो भवेदिति भयेन स्वाभाविकीं चञ्चलतां त्यक्त्वा सुस्थिरतया प्रकाशत इत्याशय:। क्षणप्रभाया: सुस्थिरं प्रकाशं वीक्ष्य सेयमुत्प्रेक्षा॥ ६३॥
* 'हेडा’ (भूरिभोजनम्) *
प्रथमं प्रवेशद्वारि देयं भोजपत्रमिदं
भूरिभोज्यपेयं पटमण्डपमथेक्ष्यताम्
'भो भो देहि मोदकान्’ 'निधेहि भूरि कर्चूरिका:’
'शीघ्रतां विधेही’त्यादि कौतुकमपेक्ष्यताम्।
पटवृतिछिद्रेभ्यो निरीक्षमाणनीचजनं
निर्गमं प्रतीक्षमाणनापितं निरीक्ष्यतां
रथ्याधूलिधोरणीषु हेडाभोज्यमानजनं
जयपुरनगर'हेडा’भोजनमवेक्ष्यताम्॥ ६४॥
प्रवेशस्य द्वारे 'नाका’ इति प्रसिद्धे भोजनस्य पत्रं 'टिकट’ इति प्रसिद्धं देयम्। अथ पत्रदानोत्तरं भूरि भोज्यं पेयं च वस्तु यस्मिन्ननीदृशं पटनिर्मितं मण्डपम् 'कनातान्त:’ प्रविश्यतामित्यर्थ:। निरीक्षमाणा: भोज्यसामग्रीं सलालसं पश्यन्तो नीचा: (चाण्डालादय: पात्राद्वहिष्कृता:) जना यत्र तत्। भोज्यस्थाने संमार्जनीं दातुं जननिर्गमं प्रतीक्षमाणा: नापिता यस्मिन् तत्। रथ्याया: धूलिधोरणीषु (समूहेष्वित्याशय:)। हेडया हेलया (डलयोरभेद:) भोज्यमाना: जना यस्मिँस्तत्। येषां चण्डालादीनां गृहे आगमनमपि सदर्पं वयं निषिध्यामस्तेषां भोज्यनिरीक्षणम्, आवरणपटस्पर्शश्च, ये नापिता: स्पर्शेपि निषिद्धास्ते भोज्यखण्ड-संकुलामुच्छिष्टस्थानधूलिं केवलं संमार्जन्या इतस्तत: कुर्वन्ति, धूलिं चोड्डाययन्ती-त्यादिदुर्दशाभि: सुस्पष्टा निमन्त्रितानाम् अवहेला॥ ६४॥
* प्रसंङ्गतो दाक्षिणात्यानां भूरिभोजनम् *
केचिन्मुखमानयन्ति मोदकमुदस्य मुदा
केचित्तन्निरस्य नीरमापिबन्ति वीक्ष्यताम्
वारयन्ति केचिन्नतनेत्रं परिवेषयन्ती-
मन्ये भोजलग्नास्तन्न पश्यन्तीत्युदीक्ष्यताम्।
वामपङ्क्तिमध्ये मञ्जु यो जन इहाऽस्ति तस्य
भोजनेन साकं नेत्रयोजनमपीक्ष्यताम्
सौरभसुवासि भव्यभवनविभासि भूरि-
दक्षिणदिग्वासि-विप्रभोजनमवेक्ष्यताम्॥ ६५॥
केचित् उदस्य उत्क्षिप्य मोदकं मुखं (मुखे) आनयन्ति, केचित् तत् (मोदकम्) त्यक्त्वा जलं पिबन्ति। शिष्टतया नतनेत्रं यथा स्यात्तथा परिवेषयन्तीं वारयन्ति। भोजे संलग्रा: अन्ये केचत्तु तत् (परिवेषणादिकम्) न पश्यन्ति। चित्रे वामपङ्क्तौ यो जनोऽस्ति तत्कर्तृकं मञ्जु नेत्रयोजनं परिवेषयन्तीं प्रति नेत्रपरिचालनमपि ईक्ष्यताम्। अगरुसौरभेण सुवासि सुगन्धितम्॥ ६५॥
पूर्वस्मृति:
ते केचिद्विलासा: समुदूढघनस्नेहरसा:
ते वै परिहासा ये प्रमोदमवहन्नहो
तत्तत्समयेषु सुहृद्गोष्ठीसुखसंभृतानि
तानि रमितानि यानि चिन्तामहरन्नहो।
मञ्जुनाथ निध्यानेन किमपि नवीनानीव
कौतुकमिदानीमपि चित्तेऽजनयन्नहो
कानिचित्सुखानि तानि पूर्वमनुभूतान्यपि
साम्प्रत्तमतीतवृत्तभूतान्यभवन्नहो॥ ६६॥
समुदूढ: धृत: सान्द्र: स्नेहरसो यै:। तानि रमितानि यानि हि निध्यानेन विचारणेन नवानीव (भूतवन्ति) वर्तमानकालेपि कौतुकमजनयन्। अतीतवृत्तभूतानि अतीतकालस्य कर्णश्रुतघटनासदृशान्यभूव-न्नित्याशय:॥ ६६॥