नागरिकवीथी
* विशिष्टजनचत्वर:*
सो.-- विश्वविदितविभवेषु वरनरेषु विलसितविभा।
मद्वाचां विसरेषु वाग्देवी विलसतुतराम्॥ १॥
श्रेष्ठपुरुषेषु शोभमाना विभा यस्या: सा। तथा च लोके यद्यत् वैभवं तत्तद् भगवत्या विलास इत्यर्थ:।
क.- नव्यन्यायशास्त्रे यो हि 'शास्त्री’तिप्रकर्षवहो
ज्ञाने काव्यशास्त्रीयेऽपि योऽसावभिभासते
प्रौढे वयसीह राजगौरवप्रमोदं प्राप्य
वीणया विनोदं वहन् वेलां यो विगाहते।
मान-भूमिशक्राश्रितमान्यमहद्वृन्दे बृह-
च्चक्राकारमुष्णीषं दधानोऽसौ सुखायते
विबुधगणेषु यस्य वृत्तिरतिनम्रा भाति
राजगुरु-गोपीनाथसम्राडेष राजते॥ २॥
प्रकर्षवह: 'शास्त्री’ति उत्कर्षधारक:। ज्ञाने अभिभासते प्रकृष्यते। श्रीमानसिंह एव भूमीन्द्र:, तम् आश्रितं यत् मान्यानां महताम् ('सन्तमहन्त’) वृन्दं तस्मिन्। सुखायते सुखकारको भवति॥ २॥
नियमानुसारं शब्दशासनमधीत्य ततो
भूय: काव्यसाहित्यावकलनमनोहरे
विद्वज्जनसंगमसुखानि नोपलभ्य भृशं
राजगुरुगौरवतो गेहान्तरसुस्थिरे।
अन्धबधिरेऽपि पूर्वसंस्कारोपबन्धवशा-
न्मञ्जुनाऽथ कवितागुणेन सुयशस्करे
नारायणभट्टसिन्धुरे याऽमन्दलक्ष्मीरभू-
न्नन्दतीह सा मुकुन्दरामपर्वणीकरे॥३॥
अन्धबधिरेऽपि सति मञ्जुलेन कवितागुणेन यशोभाजने नारायणभट्टप्रवरे या राजगौरवस्य लक्ष्मीरभूत्सा मुकुन्दरामपर्वणीकरे शोभते इति योजना। नारायणभट्टानां परिचयो 'जयपुरविलासात्’ प्राप्य:॥३॥
धार्मिकपदस्थैर्भूरि मार्मिकतयैव वेद्यां
संस्कृतसरस्वतीमदभ्रमुपजीव्य ताम्
लब्ध्वाऽऽचार्ययोग्यतामथाऽऽधुनिककालोचिता-
मिङ्गलिशभाषाम् एम्. ए. पर्यन्तं प्रणीय ताम्।
लब्धोचितज्ञानो विबुधेषु नाऽभिमानोद्धत:
सरलतयैव सुखं संचरन्प्रतीयताम्
मन्वानो महत्त्वं विद्ययैव, श्रमं तन्वानोऽत्र
मन्वास्थानगोपी गोपीनाथ: परिचीयताम्॥ ४॥
मार्मिकतया बोध्यां संस्कृतभाषाम् अदभ्रं पूर्णं यथा स्यात्तथा। मन्वान: जानन्। अत्र विद्यायां श्रमं तन्वान: कुर्वन्। 'मन्वाजी’ इति प्रसिद्धस्य पुरातनराजगुरो: स्थानाधिष्ठित:। 'राजगुरुसाहित्याचार्यगोपी-नाथद्रविड एम्. ए. एल्. एल्. बी.’॥ ४॥
अम्बरविचुम्बि चारुवातायनवर्गोद्धुरं
दुर्गोपममेतन्मञ्जु मन्दिरमुपेयताम्
भोजनवशेन दीनछात्राश्रितमेतत्सदा
प्रायोऽपररात्रान्तेऽस्य मङ्गलार्थमीयताम्।
जयपुरनरेशायाऽपि रक्षाऽभयमेव दिशे-
न्नाशिषमित्यादि चास्य गौरवमभीयताम्
मालानन्दयोगादेव बालानन्दलीन: सदा
बालानन्दमन्दिरमहन्त: संनिधीयताम्॥ ५॥
वातायनवर्गेण उध्दुरम् (उन्नतधुरायुक्तम्) उत्तुङ्गमित्यर्थ:। अत एव दुर्गोपमं दुर्गसदृशम्। दीनच्छात्रेभ्यो भोजनं दत्वा तेऽत्र न्यवास्यन्तेति सार्वदिको नियम:। शीतादिष्वृतुषु अपररात्रान्ते (द्वित्रिवादन एव) अस्य मन्दिरस्य मङ्गलाख्यं दर्शनं भवति। प्रणताय जयपुरनरेन्द्राय अभयमुद्रया रक्षायै अभयमेव ददाति, आशी:प्रदानं तु लिप्सादैन्य-चिह्नमित्याशय:। जपमालाया: आनन्दयोगेन बालवत् निर्मले स्वाभाविकानन्दे लीन:। 'मालस्य’ धनस्य आनन्द इत्यादिस्तु न॥ ५॥
संगीते प्रवीणो, मञ्जु वाद्यमानवीणोऽप्यथ
शास्त्रेष्वप्रहीणो यो व्यतारीद् भूरि संपदम्
मल्लकर्मदक्षाचार्यतल्लजानामन्यतमो
हरिवल्लभार्यो भूषयांबभूव यत्पदम्।
तस्मिन्नेव रामानुजाचार्यवर-पीठेऽधुना
विधिना निवेशित: प्रयाति सुखसंमदम्
धनबलताण्डवेन लब्धोज्ज्वलतातपदे
गलताऽधिपेऽस्मिन् मञ्जु मिलताऽऽहितोन्मदम्॥ ६॥
वाद्यमाना वीणा येन। अप्रहीण: अनिकृष्ट:, शास्त्रज्ञ इत्यर्थ:। तथा च-- गीतवाद्ययो: प्रवीण:, शास्त्राभिज्ञ:, संपद्वितरणशाली चेत्यर्थ:। मल्लविद्यायां दक्ष:, आचार्यश्रेष्ठानां च अन्यतम:। अयं हि श्रीमान् हरिवल्लभाचार्यो गीतिनिर्माणे, ताल-लयादिविज्ञाने, शारीरिकबले चाऽपरिमित आसीत्। एष हि रूप्यकम् (रजतमुद्रा)अङ्गुष्ठतर्जनीभ्यां निष्पीड्य आमोटयामास, अक्षराणि च अपमार्जयामासेति प्रसिद्धि:। भारतवर्षस्य सर्वेपि संगीतज्ञा मल्लाश्चैनं जानन्ति स्मेत्यादयो हरिवल्लभाचार्यमहोदयस्य विशेषा: सांप्रतं भारतवर्षे दुर्लभा इति नातिशयोक्ति:। लब्धम् उज्ज्वलं तात-पदं पितुर्हरिवल्लभाचार्यस्य स्थानं येन, तस्मिन्। अहितोन्मदं सप्रमोदम्॥६॥
हवामहलमभिवसन् वैभवाऽनूकं धरते
कुण्डलमण्डितगण्डयुगो दृशमाराद्धरते।
औदुम्बरभूदेवसमाजाऽग्रण्यो निवसति
जयपुरराजाश्रितो 'भट्टराजा’ स हि विलसति॥ ७॥
वैभवानूकं वैभवानुकूलम् अनूकं शीलम्। आरात् दूरात् दृशं हरते, मौक्तिक-कुण्डलमण्डित इत्यर्थ: श्रीमान् केसरीलालमहोदय:। अधुना तु नि:स्वामिकमिदं स्थानं राजायत्तं जातम्।
क. उत्सवदिनेऽसौ नरस्कन्धैर्मुहुरूढो भृशं
शिबिकाऽधिरूढो याति राजद्राजमन्दिरम्
जीविकाबहुत्वेऽप्यप्रबन्धेनैव नित्यमयं
दुर्बलतामेति द्रव्यसंबन्धे सुनिर्भरम्।
स्वीकुरुते कार्यं निजगौरवाऽवलेपात्पुरा
वितरणकाले पुनस्तिष्ठेन्मौनमन्थरम्
'दाहिमा’समाजान्त:प्रतिष्ठोभोगभाजामयं
मान्यो 'मिश्रराजा’ बत राजति निरन्तरम्॥ ८॥
शिबिकास्थितत्वात् नरस्कन्धै: ऊढ:। द्रव्यसंबन्धे दुर्बलताम् एति, शनै: शनै: रिक्तो भवतीत्यर्थ:। 'दाहिमा’ दाधीचेति ख्याता ब्राह्मणजाति:। प्राक्तन: श्रीव्रजपतिरायमहोदय:। इदानीं दत्तकपुत्रस्यापि विलोपे इदं स्थानं राजायत्तमभूत्॥ ८॥
चन्दनरचितभाल एष नासानालतले
कण्ठलम्बिपुष्कराक्षमाल इह दृश्यताम्
भक्त्या सेवनीयनिजदेवमन्दिरेऽपि सदा
केवलाऽधिकारिपरतन्त्रोऽसौ परीक्ष्यताम्।
व्यसनिजनेभ्यो जातमानसविनोदो भृशं
विबुधजनेभ्यो भूरि बिभ्यदिव वेष्यताम्
बाष्परथगामी मदादामीलितनेत्रयुगो
गोपीनाथमन्दिरस्य गोस्वामी गवेष्यताम्॥ ९॥
भाल: बाणफलकाग्राकारो गौडीयवैष्णवानां तिलक:। वेष्यताम् वा इष्यतां प्राप्यताम्। वाष्परथो मरुत्तरशकटि:॥ ९॥
प्रथमं दिवानिशं खवासवरसेवावशाद्
ये वा प्राप्तमानास्तेषु मुख्यं मानयत तम्
औदुम्बरभट्टानां प्रतिष्ठितपदानां श्रियं
भुङ्क्ते निजपाटवेन स्थापितवान् य: सुतम्।
श्वेतोज्ज्वलचारूष्णीषमौलिं बिन्दुभालान्वितं
विद्रुमाऽक्षमालाशोभिकण्ठं निभृताद्भुतम्
कृष्णीकृत-श्मश्रुयुगमोटनप्रकारपटुं
तं कृष्णकुमारभट्टमालोकयत द्रुतम्॥ १०॥
प्राप्तमाना: खवासश्रेष्ठस्य सेवनेन प्राप्तसंमाना:। सुतं स्थापितवान्, सुतं दत्तकपुत्रत्वेंन तस्मिन् स्थाने संस्थाप्य प्रतिष्ठितस्थानानां लक्ष्मीमनुभवति। द्वित्रस्थानेषु दत्तकीकृतपुत्र इत्यर्थ:। निभृते एकान्ते अद्भुतचरित्रम्। खिजाबद्वारा कृष्णीकृतं यत् श्मश्रुयुगं तस्य मोटनप्रकारे पटुम्। 'मूंछमरोड भट्टजी’ इति प्रथितम्॥ १०॥
राजद्राजचिह्नैर्भूरि भाति राजधानी यस्य
पदतोऽपि मानी य: स्वगौरवमवेक्षते
संमानं समेति यो हि सचिवसभायां गतो
दत्ते सर्वतोऽपि य: सहायतां प्रजाहिते।
उन्नतपदस्थसुतसंपद्भाग्यशाली भृशं
विनयविशालीकृतवैभव: प्रकाशते
सामन्तान् समस्तान्बत योऽमूनतिशेते श्रिया
चौमूपतिरेष भूरिभूति: प्रतिभासते ॥ ११॥
राजचिह्नानि-- गोपुरोपरि जयपुरवत् समये समये भेरीध्वन्यादीनि। मानी य: राजदत्तस्य अधिकारपदस्यापेक्षया स्वकीयं गौरवमेव अधिकं पश्यतीत्याशय:। उन्नतपदेषु स्थिता: ये सुता: तादृशसुतसंपद्भाग्यशाली। एक: पुत्रो रावलपदाधिष्ठित: अन्येप्यन्यस्थानाधिकारिण इत्यर्थ:। स: अमून् सामान्तान् श्रिया उत्कर्षेण अतिशेते अतिक्रामति॥ ११।।
प्रबलप्रतापोऽभवद्यस्य पूर्वजानां गणे
जयपुरमहीन्द्रमणे: सचिवसहायके
वैभवोपभोग-दानशक्तिरसमानाऽभवद्,
यामद्याऽपि गायन्त्येकतानास्तत्र नायके।
मञ्जुनाथ यायात्पूर्वपद्धतिमपीह भवा-
नाशिषो भवन्तु नृणां त्वयि सुखदायके
विनयाभिरामोदात्तकीर्तौ गुणभूमोदया-
दामोदा लसन्तु हन्त सामोदाधिनायके॥ १२॥
जयपुरपते: सचिवे सहायके च यस्य पूर्वजानां समूहे प्रबलप्रतापोऽभूत्। तथा च रावलवैरी-सालसिंहशिवसिंहादीनां विभूति: सूचिता। वैभवोपभोगस्य दानस्य च शक्ति: अनुपमाऽभूत्? नगरे प्रात्यहिक-साधारण-यात्रायामपि रावलशिवसिंहस्य पृष्ठत: शतमश्वाश्चलन्ति स्म, धनं चाग्रतो विकीर्यते स्म। यां दानादिशक्तिं तन्नायकविषये एकताना: सन्तो जना: अद्यापि गायन्ति-- 'रावल स्योसिंह सो सरदार फेर नहिं होयसी’ इत्यादि। भवानपि पूर्वपद्धतिमनुसरेत्। गुणभूम्न: गुणबाहुल्यस्य उदयात् उदात्तकीर्तौ उत्कृष्टयशसि सामोदपतौ श्रीसंग्रामसिंहमहोदये आमोदा लसन्तु हर्षा भवन्तु॥ १२॥
पद्धरियुधि यस्य पूर्वजै: समयमेत्य
कलकीर्तिरापि योधनमुपेत्य।
संप्रति बहु यो धनमादधाति
अचरोलभूमिभर्ता स भाति॥ १३॥
समयं प्राप्य यस्य पूर्वजै: युधि समरे योधनमुपेत्य युद्धं कृत्वा शोभना कीर्ति: अपि प्राप्ता॥१३॥
क. वैवाहिककङ्कणममुक्तवद्भिरेव रणे
यद्वंश्यै: पणेन परिलेभे जयसंमद:
चामुण्डामठान्तिकतश्चके जट्टराजो दल-
त्सैनिकसमाजो येषां शस्त्रै: प्रचलत्पद:।
तीर्थस्थाननिर्माणादिकार्यैर्यस्य वंश्यै: सदा
कुर्वद्भिर्धनोपयोगमाप्तो मानसोन्मद:
साम्प्रतमनेकवधूलावण्योपभोग एव
धूलाभूमिभर्तु: शौर्यमूला यान्ति संपद:॥ १४॥
चामुण्डामठ: 'चाँवड का मठ’। येषां धूलाधिपवंशजानां शस्त्रै: क्षीयमाणसैनिकसमाज: जट्टराज: (भरतपुरीय:) प्रचलत्पदश्चक्रे, युद्धाद्विमुखीकृत इत्यर्थ:। तीर्थस्थान-निर्माणादिकार्यै-र्धनस्योपयोगं कुर्वद्भि: मानसोन्मद: हार्दिकानन्द: आप्त: प्राप्त:, वृन्दावने यमुनातीरे तन्निर्मापितघट्टादिकं प्रमाणम्॥ १४॥
नेत्ररहितेभ्यो नेत्रदाता, परिपाता सतां
नैरोग्यं विधाता यो हि कुष्ठिजनसंचये
दूरदूरदेश्यैर्जनै: कृतगुणगानमिमं
कल्याणाभिधानं हरिं यत्पुरेऽवलोकये।
प्रायो धर्ममर्यादानुयानादथ, सत्कार्येषु
समुचितदानाल्लब्धकीर्तिं तं प्ररोचये
चारणचयेन हि चतुर्दिग्गीतगाथमिमं
डिग्गीभूमिनाथमतिमोदादनुमोदये॥ १५॥
कुष्ठिसमूहे नैरोग्यं विधाता, तृन्। कृतं गुणगानं यस्य (कल्याणनाम्रो हरे:)। प्ररोचये अभिरोचये। चतुर्दिक् गीता गुणगाथा यस्य। 'दिग्गी, डिग्गी’ इति प्रास:॥ १५॥
दो.- अभिनन्दनभूनीतमपि यत्पूर्वै: परिशोध्य।
अपटुतया न्यूनीभवति दूनीशस्य यशोऽद्य॥ १६॥
यस्य वर्तमानस्य 'दूनी’ स्थानाधिपते: पूर्वजै: परिशोध्य कलङ्कापनयनद्वारा निर्मलीकृत्य अभिनन्दनभुवं प्रशंसास्पदतां नीतमपि यश: स्वस्य अपटुतया (शिक्षाद्यभावेन) न्यूनीभवति॥१६॥
क.-- वीरता तु राज्यस्याऽस्य किं वा वर्णनीया यस्य
वणिजोऽपि लक्ष्मीमधिलुण्ठ्याऽऽददतेऽद्भुतम्
विरलजलाऽथ भूरिबालुकामयीयं धरा
श्रेष्ठिवैभवेन परां धत्ते धनसंपदम्।
जयपुरमहीन्द्रमणे: सामन्तेषु शक्तिशाली
सोयं विबुधाऽऽलीवर्णनीयो भाति संततम्
लक्ष्मीकरपङ्केरुहसीकरसमीरसुखो
राजतेऽद्य सीकरधराधिपतिरुद्धतम्॥ १७॥
वीरराज्याणां क्षत्रिया लक्ष्मीं विजित्य आनयन्ति, अस्य राज्यस्य तु वणिजोऽपि कलिकत्तादिस्थानेभ्यो लक्ष्मीमानयन्ति। लक्ष्म्या: करधृतकमलस्य मकरन्दसीकरविशिष्टसमीरवत् सुखकर:॥१७॥
प्राय: पूर्वकालादेव खेतरीनृपाला इमे
सामन्तोचितां स्म गुणमालामलंकुर्वते
गुणिनां गुणज्ञोऽधुनैवाऽभवदजितसिंहो
यस्य यशोगीतिर्गुणिलोकानवलम्बते।
साम्प्रतमनेकविधव्यासङ्गोपसक्तमना
नूनमधुनातनो विनोदमवष्टम्भते
नेतरीह यौवने सुखे तरीरणेच्छ इव
खेतरीधरित्रीशो विशोकमुपजृम्भते॥ १८॥
अधुनातन: खेतरीस्वामी विनोदं प्रति अवष्टम्भते सुस्थिरो भवति। यौवने नेतरि सति, सुखे तर्या: नौकाया: ईरणेच्छ: प्रेरणेच्छ: विशोकं यथा स्यात्तथा उपजृम्भते प्रबलो भवति। यौवनप्रेरित: सुखप्रवाहे चरित्रनौकां प्रवाहयतीति भाव:। (इत: पूर्वस्य अमरसिंहमहोदयस्य वर्णनम्)॥ १८॥
यस्य पूर्वजानां शेखावाटीयेतिहासे भूरि-
वीरताविलासेनाऽर्ग्यकीर्तिरभिरोचिता
जयपुरराज्यान्तर्गतस्य यस्य काले पुरा
प्राज्या नयलक्ष्मी: कविलोकै: सततोदिता।
संप्रति सुखोपभोगमात्रलवलीनमते:
सूरिजनसंगते विरलताऽधुनोदिता
भ्रातृभि: समन्तादवहेलाप्रविभक्तश्रिय:
खंडेलाधिपस्य हन्त खण्डेला विलोकिता॥ १९॥
अग्रया श्रेष्ठा कीर्ति: अभिरोचिता शोभिता। जयपुरराज्याधीनस्य यस्य (खण्डेलाराज्यस्य) प्रभूता नयलक्ष्मी: कविभि: सततम् उदिता वर्णिता। सूरिसमागमे विरलता न्यूनता उदिता जाता। खण्डेला खण्डभूता इला भूमि:, भूमेर्विभागा जाता इत्याशय:॥ १९॥
दो.-- श्रेष्ठिशबलनिजभूमित: कनककवलमधियाति।
नवलगढाऽवनिपतिरसौ प्रबलगति: प्रतिभाति॥ २०॥
कनककवलं धनोपहारम्॥ २०॥
नेयान्युपयोगे स्वयं परभोगे व्ययितानि।
उनयाराधरणीपते: सुनयाराध्यधनानि॥ २१॥
सुष्ठु नयेन आराध्यानि उपार्ज्याणि धनानि॥ २१॥
क.-- सूरिजनसङ्गात्काव्यरङ्गान्त: प्रवेशमाप्य
सूक्तीनां विविधसंग्रह: स्म येन तायते
प्राचीनेतिहासपटुश्चारणनिचयबलात्,
संस्कृतोक्तिसंग्रहेण संप्रति सुखायते।
दानाऽवसरेऽपि बाह्यसंमानाद्विमोही विदां
स्वच्छताप्रियोऽसौ सुपरिच्छदो विराजते
अलसीकृतोऽपि वार्द्धकेन बलसीमां दधन् -
मलसीसरस्य भूमिभर्ता भूरिभासते॥ २२॥
'विविधसंग्रह:’ (पिङ्गल-डिङ्गलसूक्तिसंग्रह:) तन्यते स्म। सांप्रतं कृत: 'श्लोकसंग्रह:’। बाह्यं संमानं प्रदर्श्य विदां विदुषां विमोहक:॥ २२॥
दो.-- शेखावत - राजन्य-नयरेखां निर्वहतोऽद्य।
'खाटू’पति-हरिसिंहतो मोद्यं मनो विनोद्य॥ २३॥
नयरेखां नीतिमर्यादाम्। 'खाटू’ एतदधिकृतो ग्राम:।
सुसंगेतिविषयिणीभिर्वार्ताभि: मनो विनोद्य हरिसिंहत: प्रमोद्यम् आनन्दनीयम्॥ २३॥
क. इङ्गलिशभाषामाप्य बी.ए. पदजुष्टो नव्य-
सभ्यतानिविष्टो लेखकार्ये व्यवसीयते
कतिपयपुस्तकाऽनुवादलब्धकीर्तिर्भृशं
नूतनयुगेऽस्मिन् साधु लेखक-कवीयते
अर्थमनुसंधायैव कार्यारम्भशूरो मनाग्-
दर्शितमहत्त्वगर्वपूरो गुणैर्गीयते
चञ्च'च्चीफकोर्ट’शासनस्य सुविलासमाप्य
खाचरियावासशासकोऽसौ मुदमीयते॥ २४॥
आप्य आ-आप्त्वा (ल्यप्)। कतिपयपुस्तकानि 'आनन्द की पगडण्डियां’ प्रभृतीनि। ईयते प्राप्नोति, ईङ्गतौ॥ २४॥
सो.-- जयपुरनृपासनाय विफलमुद्यमं दर्शयन्।
बहुतरहानिमियाय स किल झिलायधरापति:॥ २५॥
नृपासनाय जयपुरराज्यसिंहासनं प्राप्तुम्॥ २५॥
दो. यो नवाबमन्त्रित्वमनु व्यतनुत सचिवसुखानि।
स हि सिवाडपतिरवति पुनरसिवाडपि भवनानि॥ २६॥
नवाबमहोदयस्य मन्त्रित्वकाले सचिवसुखानि कौंसिलसदस्यतामन्वभूदित्यर्थ:। 'सिवाड-असिवाड’इति विरोध:। असिं खङ्गं वहतीति असिवाट्, ईदृशोऽपि सिवाडपति: स्वभवनान्येव अवति रक्षति। खङ्गादिवीरसज्जाभूषितोपि शासनाधिकारच्युतो भवने तिष्ठतीत्याशय:। श्रीमान् महताबसिंह-महोदय:॥ २६॥
क.-- सप्रशंसमेष मेयोविद्यालयशिक्षामाप्य
शासनाऽध्वशिक्षां बहुकालं बहिर्विन्दते
नौत्सुक्यं प्रयाति सर्वकार्येष्वपि धीरमना-
स्तत्त्वमनायासाद्बोद्भुमेष प्रमनायते।
तेजोमञ्जुमूर्तिरूर्ध्वतिलकमनोज्ञमुखो
लोकहितकार्ये संमुखोऽसौ सुमनायते
भक्तिपथगामी भूरिनव्यविभामीलितोऽपि
गण्यगुणो गीजगढ़स्वामी न: सुखायते॥ २७॥
शासनाध्वन: राज्यशासनमार्गस्य शिक्षाम्। बहि: लखनऊप्रभृतिषु। अनायासादेव कस्यचिद्विषयस्य तत्त्वं वास्तवरहस्यं बोद्धुं प्रमनायते प्रकृष्टमन:शाली भवति। नव्यविभा 'न्यू लाइट’ तया मीलितोपि भक्तिपथगामी, नवयुगप्रभावमतिक्रम्य भक्तिमार्गोपासक इत्याशय:॥२७॥
दो.-- कुलकीर्त्या जयपुरपते: सविधरूढमहिमाऽस्ति।
चलन्मौलिनगरूपधृग् बगरूपतिरधिशास्ति॥ २८॥
वंशगतप्रतिष्ठा जयपुरेन्द्रस्य सविधगतमहिमा, राज्ञ: समीपे 'अधराजा’ उपाधिवाहीत्यर्थ:। चलन्मौलिदेशस्य नगस्य वृक्षस्य रूपधृक्। दीर्घ: कम्पमान-शिरोधरश्चेत्यर्थ:। सवि'धरू’ढ, न'गरू’प, 'बगरू’ प्रासा:॥ २८॥
जाता यल्लक्ष्मीर्निजव्रातायापि न शास्ति।
दातारामगढ़ेशितुर्दातानाम मृषाऽस्ति॥२९॥
संचिता यस्य लक्ष्मी: निजसमूहार्थमपि अर्थात् स्वकीयवर्गार्थमपि न शास्ति, योगक्षेमं नाऽधिकरोति। अत एव तस्य नाम्नि 'दाता’ इति विशेषणं मृषा॥ २९॥
क.-- श्रीमद्रामसिंहनरपाले राज्यमातन्वति
यत्तातस्य कीर्तिं पुराकाले समाकर्णये
यस्य बहो: कालादधिकारपदमातिष्ठत:
संपदं प्रतिष्ठां चापि श्रवसोरभ्यर्णये।
खड्गबद्धमुष्टिं दत्तदृष्टिं द्रव्यराशीकृतौ
दृष्टगृहाऽऽरामसुविशिष्टं बत वर्णये
जयपुरनरेन्द्ररूप - सिंहसेवनाऽवहितं
चाँपावतरूपसिंहमेतमुपवर्णये॥ ३०॥
यत्तातस्य फतेसिंहमहोदयस्य। श्रवसो: अभ्यर्णये कर्णगोचरं करोमि। दृष्टा गृहाणामारामाणां च सुविशिष्ट: विशदता स्वच्छता च यस्य तम्। जयपुरेन्द्ररूपो य: सिंहस्तस्य सेवने॥ ३०॥
सो.-- प्रगुणपीनपरिणाहि-वपु: सभ्यसरल: सदा।
जोबनेरनेता हि शिक्षासचिववरो लसति॥ ३१॥
'परिणाहो विशालता’ ॥ ३१॥
सवै.-- नवचित्रकलाचयने चतुरं वरवाद्यविनोदविशेषितचर्यं
समयोचितलेखविधौ निपुणं कृतवारवधूसुरहस्यसपर्यम्।
पटुपद्यशतै: समनूदितगीतमतीतमनन्तरसङ्गमजर्यं
गुणभूम्नि तिरोहितवाच्यचयं श्रय रामप्रतापपुरोहितवर्यम्॥३२॥
नवचित्रकला 'फोटोग्राफी’। विशेषिता चर्या यस्य, जीवनचर्यायां वाद्यविनोदो विशेषरूपेणासी-दित्यर्थ:। समयोचिता लेखा मासिकपत्रादौ निबन्धा:। वारवधूहस्यं 'वाराङ्गनारहस्य’ 'मेरीसूरज’ प्रभृति। समनूदिता गीता येन, 'श्रीकृष्णविज्ञान’रूपेण। अजर्यम् अनन्तरसङ्गम् अतीतम्, या नवयौवनकालिकी संगति: सुदृढ़ाऽऽसीत्तामपि उल्लंघित-वन्तमित्यर्थ:॥३२॥
सो. तत्तनय: स प्रताप-नारायण इति विश्रुत:।
य: किल काव्यकलाप-कलनाभि: कविकीर्तिभाक्॥ ३३॥
कलना रचना। काव्यानि तु-नलनरेश-रघुराजवाजिमेध-काव्यकानन प्रभृतीनि॥३३॥
क.-- एम. ए. पदमण्डितो नवीनशिक्षानीतौ यथा
तद्वद्देशभाषापण्डितोऽसौ परमायते
संप्रति सतर्कभावरक्षणीयामेतामहो
जयपुरराज्यधुरां धैर्याद्योऽवलम्बते।
विनय-विवेक वयो-विज्ञानैरलंकृतिमान्
पण्डितसभासु मतिमान्य: प्रतिभासते
नीतिनैपुणेन भूरिभीतिलवलोपी श्रील-
गोपीनाथप्रवरपुरोहितो विराजते॥ ३४॥
एतद्रचनायाम्-- भर्तृहरे: शतकत्रयस्य हिन्दी-अंग्रेजीभाषयोरनुवाद:, शैक्सपियरस्य कतिचिन्नाटकानां हिन्द्यनुवाद:, 'समालोचक’नाम्नि हिन्दीपत्रे प्रकाशिता: काश्चित्कविताश्चोल्लेखितुं शक्या:॥३४॥
कुण्ड.-- खिन्न: खलु नाऽऽलोकि य: शासनघने प्रयस्य।
कान्तिचन्द्रकृतिन: सुत: सचिवकुञ्जरेन्द्रस्य॥
सचिवकुञ्जरेन्द्रस्य तस्य पद्धतिमनुगच्छन्।
अचलो यो निजनिश्चये न पदमग्रे यच्छन्॥
मन्दो दाने भाषणे च गमने स्मृतिविन्न:।
स्वस्ति गृहे लभतेऽद्य हस्तिबाबू बहुखिन्न:॥ ३५॥
राज्यशासनरूपे घने वने प्रयासं कृत्वापि य: सचिवकुञ्जरेन्द्र: कान्ति. परिश्रान्तो न दृष्ट:। स्मृतिविन्न: असाधारणस्मृतियुक्त: अधिकरणे अभियोगश्रवणसमये प्रसिद्धान्येतन्निदर्शनानि। खिन्न: जयपुरस्य प्राचीननीते: परिवर्तनादसंतुष्ट:। ईशानचन्द्रमुकर्जी-महोदय:॥३५॥
क.-- 'कौंसिल’समक्षेऽप्यतिनिर्भयवचनचयं
पितामहमस्य मोतीलालमभिवीक्षध्वम्
निर्भयसुशासनात्प्रसिद्धगुणगाथं ततो
जनकममुष्य जयनाथं च समीक्षध्वम्।
एम. ए. पदधारी निजपूर्वजाऽनुकारी क्वचि-
न्नव्यव्यवहारी सोऽयमसकृत्परीक्षध्वम्
वैभवभरेण दूरोदात्तदृक्पटलमिमं
सांप्रतममरनाथमटलमुदीक्षध्वम्॥ ३६॥
अतिनिर्भयेति.-- 'दीवानी’शासनं कुर्वतोऽस्य प्रतिभावत: 'कौंसिल’ - निर्णयेष्वपि सुदृढा विप्रतिपत्तयो राज्यरहस्याभिज्ञेषु प्रसिद्धा:। दूरोदात्त: अत्युदार: दृक्पटलो यस्य॥३६॥
माधवेन्द्रशासनेऽमुना का नोपभुक्ता रति-
र्नाकाधीश एव सोयमासीत्सर्वमानसे
किं शासनकार्यं किं नु राजसौधकार्यं हन्त
नैपुणेन सोयं सर्वराज्यमात्रमानशे।
नानाविधोपायनानि नित्यं लभमानो निशि
पानोत्सवगोष्ठीत: प्रसन्नोऽगान्महानसे
माधवेन्द्रराज्ये सुख-वास-रसविज्ञोऽप्यद्य
खिद्यते खवासबालाबख्शो निजमानसे॥ ३७॥
अमुना का रतिर्न उपभुक्ता ? अपि तु सर्वैव सुखसामग्री अनुभूतेत्यर्थ:। मन:समूहो मानसम् सर्वेषां मनोवृन्दे अयं नाकाधीशवत् शक्तिशाली अभूत्। अत्र मन:समूह, अग्रे मानसं (मन:) इति न पुनरुक्ति:। 'नाका’ चन्द्रमहलस्य आमुखभागस्तस्य प्रबन्धकर्ता च। माधवेन्द्रसमये 'नाका’ स्थानमधितिष्ठन्नयं राज्यमात्रस्य प्रबन्धं चकारेति सूच्यते। सर्वं राज्यम् आनशे स्वाधिकरेण व्याप्नोति स्म्। 'अशू व्याप्तौ’ लिट्। महानसे आगात्, पानं कृत्वा भोजनार्थमगच्छत्। सुखपूर्वकं यो निवास: तस्य रसाभिज्ञ:। 'खवास:’ जयपुरेन्द्रस्य प्रधानपरिचारक:॥ ३०॥
दो.-- देया निजसम्मतिरहह देश-नरेश-हिते हि।
मुंशीरामप्रतापतोऽमुं शीलय नयमेहि॥ ३८॥
देशो जयपुरराज्यम्। एहि आगच्छ। अमुं नयं नीतिं शीलय शिक्षस्व। रायबहादुरमुन्शीराम-प्रतापखूँटेटामहोदय:॥ ३८॥
सवै.-- शिक्षणमुच्चमवाप्य पुरा रुचिराचरणात्पदमावहते
न्यायविधौ सततश्रमत: क्रमत: पदमुन्नतमाभजते।
लोकहितावहकार्यभरान्नितरामयमान्तरमुत्पवते
य: सुतरामपगर्वमना: स हि नानगरामकृती रमते॥ ३९॥
पदम् अधिकरणे स्थानम्। पुरा आवहते, पूर्वं प्राप्नोति स्म, पुरायोगे 'लट्’। अयम् आन्तरम् अन्त:करणम् उत्पवते पुनाति। सर्वत्र वर्तमानकालोपि हन्त! 'काल’कौटिल्येन संप्रति भूतकालोऽ-भवत्॥३९॥
येन भूमिकायां 'प्रजामण्डल’मखण्डि, ततोऽ-
दण्डि शनैर्नेतृजनो मूले न्यस्य वै घुणम्
दूर्वामात्रमाधायाऽत्र भूर्वाटकरूपा कृता
श्री रामनिवासे पर्यवर्ति वीक्ष्य वैगुणम्।
भाविरूपरेखाभिर्व्यवारि राष्ट्रवृद्धि:, पूर्व-
कृतयो निरस्ता व्यये कृत्वा बत द्वैगुणम्
जयपुरपुराणगतिस्मारकमिहाऽस्मादृशान्
विस्माययति स्माऽखिलान् इस्माइलनैपुणम्॥ १॥
भूमिकायाम् (आरम्भे एव) 'प्रजामण्डल’ नाम्नी संस्था - हीरालालशास्त्रि-प्रमुखान्संचालकान् वशीकृत्य खण्डिता पूर्वपरिगृहीतनीतितो निरस्ता। भूमिकायाम् वनस्थलीग्रामस्य भूमिं कन्याविद्यालयादि-कृते प्रदाय प्रजामण्डलमात्मसात्कृतमित्यन्ये। प्रजामण्डलस्य मूले घुणं (तदनुयायिषु परस्परद्वैविध्यरूपं शनै: शनैर्घातकम्) प्रदाय शनै: (प्रजास्वसंतोषो न प्रसरेत्तथा) तन्नायकजनो, (य: स्वाभिमतनीतिं नाङ्गीकृतवान्) अदण्डि दण्डि़त:। दूर्वा.-- पुरातनान् छायावृक्षान्विच्छिद्य स्थाने स्थाने दूर्वाक्षेत्राणि संस्थाप्य भूमिर्वाटक ('बाडा’)रूपा कृता। मध्याह्नेपि रविरश्मयो न प्रसरन्तीति उपवनानां शोभा, किन्त्वत्र छायाद्यभावात्केवलं वृतिमात्रमित्यर्थ:। पूर्वसंनिवेशे वैगुणं विगुणतां वीक्ष्य रामनिवासस्य श्री: पर्यवर्ति परिवर्तिता। वाद्यवेदि (बैण्डस्टैण्ड) पशुसंनिवेश-प्रवेशद्वारादिविरूपीकरणेन शोभा अन्यादृश्येव कृता। 'श्री: परिवर्तितैव अन्त: प्रविशन्त्येव बहि: परावर्तिता’ अत एव साम्प्रतं वाटकमात्रमुद्यानमिति बहूनामाशय:। भाविरूप:-- 'माधवपुरादिस्थानेषु महान्तो जलबन्धा: क्रियेरन्, क्षेत्रसेचिन्य: कुल्या: (नहर) निर्मीयेरन्, कृषिकार्यादिसमुन्नतेर्बहून्यायोजनानि क्रियेरन्, शिल्प-व्यापारादिप्रसाराय वस्त्रवानादियन्त्रगृहा: स्थाप्येरन्, विद्युदपि जलप्रपातादिनैवोत्पाद्येत’ इत्यादिरूपरेखाभि: 'स्कीम’ द्वारा राष्ट्रस्योन्नतिरग्रेभाविनी व्यवारि प्रकाशिता। भविष्यदुन्नतिप्रदर्शनेन लोकानां वर्तमाने संतोषणं नैपुणमेवेत्यर्थ:। पूर्वकृतयो. - सचिवमन्त्रणाभवन - 'महकमा खास’ - अधिकरण 'कचहरी’- आतुरालयादिपूर्वकार्यांणि स्थाने स्थाने परिवर्तितानीति निदर्शनेन जयपुरीय-पूर्वकृतय: निरस्ता:। जयपुरपुराणगति. - यावच्छक्यं देशीयानामेव राजकार्येषु समावेश:, मितेन व्ययेन मार्मिकतयैव कार्यपरिचालनं, न बाह्यशोभाप्रदर्शन-संरम्भेण, गृहारामादीनां बाह्यपुरुषदर्शननिवारिका उन्नतैव वृत्तिर्नीत्यनुकूला, इत्यादि जयपुरस्य पुरातनव्यवस्थानां स्मारकम् (अग्रिमं ग्रामं गत्वा पुरातन: स्मर्यते इति न्यायेन) नैपुणं अस्मादृशान् अखिलान् (प्राचीनव्यवस्थावेदिनो हितचिन्तकान्) विस्माययति। अहो अपारेण व्ययेनापि पूर्वा रीतय: कथं परिवर्तिता इति विस्मितान्करोति।
आगत्यैव येनाऽऽरम्भि पौरपरिष्कार: पुरा-
वृक्ष-मन्दिराणां स्वैरमारब्धाऽपसारणा
नगराद्बहिष्ठाद्राजमार्गान्नवानाविष्कृत्य
रचिताश्चचतुष्पथाश्च सूचिता सुधारणा।
वृद्धानपि वैदेशिकान् संगृह्यापि नागरिका:
सेवातो निरस्ता:, कृता विपणिविधारणा
नव्यनव्यनित्यपरिवृत्तिकेलिमन्दिरजा
मिरजासदृक्षे नैक्षि स्थिरजा विचारणा॥२॥
पुरस्यायं पौर:, पुरसंबन्धी परिष्कारो यथा-- चतुष्पटीनां रूपपरिवृत्ति:, राजकीयसंस्थानां मार्गपरिवर्तन-शोधन-जीर्णोद्धार-सुधालेपादिस्तथा भवनोपवनादि-वृतीनामपसारणलघूकरणादि:। एवं गोपुरेषु जलकुण्ड-दूर्वा-प्रदीपाद्यारोप:। अथवा पौराणां जनानां परिष्कार: शोधनं, येन हि नागरिका: पञ्च-पञ्चाशद्वर्षनियमात्सेवातो निरस्ता:, बाह्याश्चाऽऽहूता:। पुरातनपिप्पलादिवृक्षाणां देवमन्दिराणां च नगरस्य स्थानस्थातोऽपसारणं यथेच्छम् (जयपुरसदृशधार्मिकराज्यस्य नीतिमविचार्यैव) आरब्धम्, यदर्थं नागरिकसंघेन (डेपुटे.) मुहुराक्रोश: प्रार्थनं चापि व्यधापि। सुधारणा 'सुधार’। ततश्च रात्रौ विद्युत्प्रदीपानां प्रकाशे द्विगुणं वेतनं प्रदायाऽपि कर्मकरैश्चतुष्पटी (नगराद्बहि:)-आदीनां सरभसविरच-नादिर्नगरसुधार, इति आख्यायते। वैदेशिका: अन्यतो विश्रमवृत्तिम् (पैन्शन) प्राप्नुवन्तो वृद्धा अपि संगृह्यन्ते किन्तु नगरवासिन: कार्यसमर्था अपि ५५ वर्षादुत्तरं सेवा (सर्विस) त: पृथक् कृता:। विपणीनां पण्यवीथीनां विधारणा स्थिरस्थानावधारणम् (यथा शाकापण (शाक मार्केट) प्रभृतेर्नूतननिर्माणं रूपपरिवृत्तिश्च, तथा राजमार्गापणानां मुखभागनिर्माणादि)। नवनवनित्यपरिवर्तनरूपा केलिर्यथा अधिकरणानामेकस्थानादपसार्य इतस्ततो दूरे स्थापनादि:।
चलति चतुर्दिक् चिराच्चूर्ण-सुधासत्रं यत्र
खनतां खनित्रं यत्र विश्रमं न चोपयाति
स्थाने स्थाने भूमयो निखन्यन्ते, विरच्यन्तेऽथ
मण्डलानि, स्थण्डिलानि स्थपतिगणो निर्विमाति।
मानयजमानमाऽऽप्य मिरजाप्रजापतिको
हूयमानविपुलवनस्पतिको विस्तृणाति
नूतनयुगेऽस्मिन्नपनीतसर्वयज्ञोऽधुना
नर्तितनयज्ञो नूनमेष कारुयज्ञो भाति॥ ३॥
चूर्णम् ('चूना’ 'सुरखी’) सुधा ('कली सफेदी’)खनित्रम् खननशस्त्रं 'गैती, कुदाली।’ यज्ञेऽपि कुण्डादिनिर्माणार्थं भूमिखननम्, मण्डल-स्थण्डिलनिर्माणं च भवति। स्थपति: गीष्पतियागकृत् 'स गीष्पतीष्टया स्थपति: अमर:। शिल्पयज्ञेपि भवन-रथ्यादिमूल 'बुनियाद, नींव’ निर्माणाय भूमय: खन्यन्ते, मण्डलानि संसरणानां मध्ये मण्डलाकाराणि चतुष्पथानि (चौराहे, यथा स्टेशन मानगार्डमार्गादिषु), स्थण्डिलानि चत्वराणि 'चौंतरा, चौराहे वा’ निर्मीयन्ते। स्थपति: गृहादिनिर्माता 'कारीगर, राज’ आऽऽप्य आ-आप्य। प्रजापतिर्यज्ञे ब्रह्मा। इह तु सर्वत: प्रधानम्। हूयमान.-- यज्ञे वनस्पतिहोम: प्रसिद्ध:। अत्रापि रथ्यासु स्थाने स्थाने विपुलानां वृक्षाणां विलोप:। विस्तृणाति प्रत्यहं विस्तारं गच्छति। नर्तिता: राजनैतिकसमस्यया [एवंविधनिर्माणादिकार्याणि न चाल्यन्ते चेद् महर्घतायुगे भृतिजीविनां न निर्वाह:, निर्वाहश्चेत्साध्यते तर्हि न सिध्यति अनिर्वाह- विवशीकृतानां लोकानां सेनायामापूरणम्] चञ्चलीकृता नीतिज्ञा: येन स:। कारुयज्ञ: गृहनिर्माणादिकार्याणां महासमारोह:। (सन् १९४३-४४)॥ ३॥
नवीना जागर्ति:
परितो नगरं वसतिर्वितता, धनिनी जनताऽरचि न: पुरजा।
सुपरिष्कृतिरेकपुरे न कृताऽपि तु राष्ट्रभरे कृतिरान्तरजा॥
अपि शासनसीम्नि प्रजाऽधिकृताऽनुकृता नवरीतिरुपान्तरजा।
चिरजा स्थिरजागृतिमातनुयात्परिवृत्तिरियं मिरजाकरजा॥
परितो.-- येन हि नगरस्य दूरदूरपर्यन्तं वानादियन्त्रालय-कार्यालयादीनां प्रतिष्ठापना। धनिनी.-- कलिकात्ता-बम्बई-शेखावाट्यादिजयपुरनगरबहिर्वासिन: श्रेष्ठिन: पूर्णमूल्येन-भूभागं ('प्लाट’) प्रदाय अस्माकं पुरवासिन: कृता इत्यर्थ। किञ्च-- 'अस्माकं पुरे जाता जनता धनिनी अरचि, अर्थात् इयं जनता अस्मिन्पुरे एव जाता, धनोपार्जनादीन् बहिर्जायमान-लाभादीन्यपरित्यज्य राजच्छत्रच्छायायामेव जन्मभूमिवात्सल्यादुषिता, एतस्येदं फलं जातं यद् धनिभिर्यथा अन्न-शाक-फलादीन्यतिमहर्घाणि क्रीयन्ते तथा अस्या अपि भाग्ये अतिमहर्घवस्तुक्रयणमापतितम्। भूमूल्यसंग्रह:, व्यापारादिवृद्ध्या शुल्कादिलाभश्चान्यस्य, महर्घताजनितक्लेशानुभवश्चास्या:, कामं शिक्षाद्युपजीविनां जीविका पुरातन्येव भवेदित्यप्याकूतम्। सुपरिष्कृति: अर्थात् नानासरणीनां निर्माणम्, रथ्यानामायतीकरणम्, गृहादीनां परिष्कार: इत्यादि रचनात्मकं कार्यं न केवलम् एकस्मिन् पुरे एव, अपितु शतक्रोशव्यापिनि जयपुरराष्ट्रमात्रेपि सेयम् आन्तरजा अभ्यन्तररूपेण प्रचलिता क्रिया संपद्यत’ इति नूनं विचारणीया शक्तिरित्याशय:। अपि शासन.-- शासनादिराज-कार्यसीमायां प्रजायै अपि अधिकारो दत्त:। अर्थात् अस्यैव समये राजकीयशास-नादिकार्येषु प्रजानामपि सहयोगाधिकार: प्रचलित:। अत एव हि नगरनिर्माणसमिते: प्रमुख:, शिक्षासचिव: (शिक्षामंत्री), एतत्प्रभृतय: प्रजाभिर्निर्वाचिता: स्वीक्रियन्ते राजतन्त्रेण। अनुकृता नवरीति.-- उच्चतल-सुविशालवातायन-नानाविधस्थापत्यकलादिभिर्यथा गृहनिर्माणरीति: उपान्तरजा उपप्रान्तरे मोहमयीकल-कत्तादिबहि:प्रान्ते जाता सा अनुकृता। तथा कॉफीपानगृह-होटल-एतावन्मात्रनगरे अष्टाष्ट 'सिनेमा’निर्माण-नृत्यमन्दिरादिस्थापन-प्रभृतिभि: सुस्फुटं नवसभ्यतापरिगृहीता रीति: अनुकृता अनुकरणेन श्रिता। बहिर्देशादागत: स्पष्टमत्र नवसभ्यतारीतिं प्रचलन्तीं स्थिरीकुर्यादित्याशय:। चिरजा.-- इयं मिरजामहोदयस्य कराज्जाता परिवृत्ति: (परिवर्तनम्) चिरजा जयपुरराज्येऽस्मिन् अतिचिरकाले जाता [माधवेन्द्रादिसमये अन्यभारतीयनगरेषु प्रचलितापि नाद्यावधि अत्रावकाशं लेभे] ततोप्यग्रे स्थिरां जागृतिं कुर्यात्। अग्रे सेयं नवपद्धति: सुस्थिरैव भवेदित्याशय:। अत एव नवपद्धतिवर्णनेऽत्र नवपद्धतिप्रचलित: 'जागृति’ शब्द: सूचित:। व्याकरणाऽऽग्रहे तु 'चिरजा स्थिरजागरणं तनुयात्’ इति पाठो बोध्य:।
किंच-व्यवसायवृद्धि-प्रदर्शनाय कालिकत्ता-मोहमयीप्रभृतिधनिकबहुलनगरेष्विवात्रापि रौप्यसुवर्णादिकानां काल्पनिकक्रयविक्रय (सट्टा)-करणायाज्ञां प्रदाय रत्नापणवीथ्यां (जौहरी बाजार) जनसंमर्दरूपां जागर्तिं प्रादर्शयत्।
भारतराष्ट्र'विधानपरिषद:’ प्रमुखमहिष्ठे
रुद्धकरेऽप्यन्यत्र शिक्षणादौ सुपटिष्ठे।
संस्कृतविज्ञे, क्रान्तिमये समयेऽप्यचलिष्ठे
नीतिकृष्णिमा नैति कृष्णमाचार्यवरिष्ठे॥
प्रमुख.-- प्रमुखेषु महिष्ठे संमाननीये उपाध्यक्षे (वाइस प्रेसिडेन्ट, इंडियन स्टेट्स कौंसिल, जयपुर) इत्यर्थ:। रुद्ध.-- अन्यत्र अन्येषु कार्येषु निरुद्धहस्तेऽपि, शिक्षादिकार्येषु मुक्तकरे। मैडिकल कॉलेज, आयुर्वेदिकातुरालय-प्रारम्भिकशिक्षाया अनिवार्यताप्रभृतयोऽस्यैव समये जाता इत्यर्थ:। वर्तमान: प्रधानसचिव: [प्राइममिनिस्टर] V.T. आई.सी.एस. सर कृष्णमाचार्यमहाभाग:।
गृह-सैन्य-सचिवपदमण्डितस्य
दृढराजभक्तिरुपभाति यस्य।
यो ह्यमरबलं धीरो दधाति
वीरोऽयममरसिंहो विभाति॥
गृहसैन्य.-- गृहसचिव: 'होम मिनिस्टर’, सैन्यसचिव: 'आर्मी मिनिस्टर’ एतत्पदाभ्यां भूषितस्य।
विनत-विज्ञ-वाक्कीलवरो विस्तृतपरिवारी
निश्छलसेवाव्रतात्क्रमप्रोन्नतपदधारी।
सरल-शिष्ट-मितभाषि-प्रजामण्डलहितकारी
जनमतशिक्षासचिव-देविशङ्करस्तिवारी॥
विस्तृत.-- पिता, पञ्चषा भ्रातर:, भगिन्यो भगिनीपतयश्चेत्यादिर्महाभागस्यास्य भूयान् परिवार:, सर्वे च सद्भावेन सह निवसन्तीति नवीनयुगेस्मिन्नवीनप्राया वार्ता। निश्छलसेवा.-- एतस्य प्रमाणम्-- 'धन्वन्तर्यौषधालय’ 'जयपुरराज्यप्रजामण्डल’ प्रभृतिसंस्थानामयं चिरकालिको मन्त्री। इतोऽन्यान्येष्वपि प्रजाहितकार्येषु सोयं सद्भावेन प्रवर्तते स्म। क्रमप्रोन्नत.-- पूर्वमयं सर्वस्यापि नागरिकसंघस्य (म्यूनीसिपल बोर्ड) सर्वाभि: प्रजाभिनिर्वाचित: प्रमुख: (चेयरमैन) आसीत्, साम्प्रतं च निर्विरोधं सर्वप्रजानिर्वाचित: सचिव: (शिक्षासचिव: शिक्षामंत्री) अस्ति।
शिष्टो मोदविदोहि-गोष्ठीरुचिरपि नयपटु:।
जनसंमतसचिवो हि दौलतमलभण्डारिक:॥
मोदवि.-- प्रमोदप्रपूरिका या गोष्ठ्य: तद्रुचि:। दौलतमलभंडारी।
एवं प्रमुखैर्मन्त्रिगणैर्मन्त्रितनयवाही
नवपद्धत्या निचितसचिवशुभमतिपरिणाही।
अनुदिनमुन्नतिमभ्युपयन् हितपथमनुगामी
सोयं शासनतरु: फलतु मधुफलपरिणामी॥
[मन्त्रित.-- मन्त्रित: मन्त्रणया स्थिरीकृतो यो नय: (नीति:) तं वहति। युगानुकूलया नवीनप्रणाल्या निर्वाचिता ये सचिवा: मंत्रिणा तेषां शुभमते: परिणाह: (विशालता) यस्मिन्। मधुफल. मधुराणि फलानि परिणामो यस्य स:।]
क. प्राचीना: परिष्कृता:, नवीना: पुनराविष्कृता
विद्यालय येन नगरेऽथ ग्रामसंचये
भाषायामभिज्ञो देवभाषाया रसज्ञो भृशम्
एम.ए. पदभूषितोपि वैदेशिकवाङ्मये।
नि:स्वार्थाऽनुरागाद्भूरिसंस्थापरिचालकं यं
गुणिषु विनीतचर्यापालकं विलोकये
शिक्षणविभागभरितोदये मनोऽद्य मुहु-
र्मोदयेयमस्मिन् श्यामसुन्दरमहोदये॥ ४०॥
भाषायां हिन्द्याम्। शिक्षाविभागे भरित: कृत: उदय: उन्नतिर्येन, भूतपूर्व: शिक्षा-विभागाध्यक्ष: श्यामसुन्दरशर्मा एम.ए.॥ ४०॥
दो.-- यस्य शासने सुरगवी न सौभाग्यमभियाति।
संस्कृतशिक्षाकञ्जदृक्कचलू: किचलूर्भाति॥ ४१॥
सुरगवी संस्कृतम्। संस्कृतशिक्षैव कञ्जदृक् (स्त्री) तस्या: केशलुञ्चक: के.पी. किचलू, जयपुरराज्य शिक्षासंचालक:॥ ४१॥
सो.-- विद्या-विनय-सुधर्म्यशीलो हरिनारायण:।
राजान्त:पुरहर्म्यमालाप्रमुखप्रबन्धकृत्॥ ४२॥
विद्यानिधि-पुरोहितश्रीहरिनारायण बी.ए. महोदय: 'मुन्तिजम जनानी’ ड्योढ़ी॥४२॥
क.-- आधुनिकशस्त्रक्रियाचतुरेषु डाक्तरेषु
दूरदूरतोपि यस्य नाम प्रतिभासते
नयनचिकित्सायामतीव लघुहस्तो यो हि
सत्कार्ये प्रशस्तो धनं प्राय: प्रतिदासते।
स्पष्टोचितवादी सदा सरल: प्रसन्नमना
वार्द्धकेऽपि सबल: सुधीषु प्रमनायते
सर्वविधरङ्गसङ्गिसुजनानुषङ्गिमना:
सोयं दलजङ्गसिंहसुमना: सुखायते॥ ४३॥
प्रशस्त: य: प्राय: सत्कार्ये धनं प्रतिदासते ददाति, 'दासृ दाने’। प्रमनायते उत्कण्ठते, विद्वदनुरागीत्यर्थ:। सर्वविधरङ्गेषु विविधविषयेषु सङ्गिनो ये सुजना: तदनुसङ्गि तदासक्तं मनो यस्य स: डॉ. दलजंगसिह:॥ ४३॥
सो.-- नयविचारचयरोपि शिक्षोपि च नयपथभवति।
विश्वेश्वरनाथोपि चौबेगतचातुर्यभृत्॥ ४४॥
नीतिविचारसमूहस्य आरोपिणी शिक्षा यस्य स:। चौबेजातिगतं यच्चातुर्यं तद्वारक:॥४४॥
क.-- 'भावयेत भव्यमिति’ भावनावशेन येन
सा 'भारतभारती’ विचित्रा स्म विधाप्यते
स्वल्पविद्यासारे य: समाजेऽप्युच्चशिक्षितोऽभू-
द्धार्मिकविचारे य: स्वतन्त्र: समुपेयते।
श्रीमज्जयपत्तनेन्द्रशिक्षणनियुक्तोऽप्यद्य
गौराङ्गाधिकारीङ्गितयुक्तोऽसौ विचेष्टते
एम्.ए. पदालंकृतो बुधेषु निरहंकृतोऽथ
सोयं सूर्यनारायणसुकृती समेधते॥ ४५॥
'मनुष्य: सर्वदा शुभविचारानेव कुर्यात्’ इति सिद्धान्तं स्थापतयता येन मैथिलीशरणगुप्त-निर्मिताया: 'भारतभारत्या:’ अतीतखण्ड: स्थाने स्थाने परिवर्त्य विचित्र एव निर्माप्यते स्म। समाजे 'बागडा’ब्राह्मणाख्ये। वर्तमानजयपुरेन्द्रस्य 'गृहशिक्षक:’ 'ट्यूटर’श्रीयुतसूर्यनारायण शर्मा एम.ए.।
दो.-- दीनदयालुतिवारि -तनयस्तथ्यविचारधृक्।
सरल-संयताचारि-शिवकिशोरशर्मा लसति॥ ४६॥
एतत्पिता दीनदयालुतिवारी अधिकरणकार्येषु लब्धकीर्तिर्न्यायपर: स्वयोग्यतया जयपुरेन्द्रं प्रीणयन् सचिवपदमण्यलंचकार॥ ४६॥
क.-- गाम्भीर्य-प्रभावशालिवाक्कीलेन येन पुरा
लेभे नगरान्त: सुप्रतिष्ठेत्युपवीक्षध्वम्
हिन्दी-संस्कृतादिभव्यभाषास्वनुरागवतोऽ-
प्युर्दूशब्दमिश्रा गीतिरचना निरीक्षध्वम्।
साम्प्रतमबाधेऽस्मि'न्नपील’ न्यायशासनेऽद्य
राधेश्यामनामध्वनिसत्संगं समीक्षध्वम्
भक्तमण्डलीषु मिलद्भूरिभक्तिनादमिमं
मथुराप्रसादमञ्जुमुंशिनमुदीक्षध्वम्॥ ४७॥
गीतिरचना तु 'मथुरेशभजनमाला’ दिका बहुश: प्रसिद्धा॥ ४७॥
* तोमरच्छन्द: *
पुरप्रथितपुरन्दकुलभवस्य । कृतसुरसरस्वतीपरिचयस्य।
विबुधेषु यस्य विनय: पुनाति। भगवानदीनसुकृती स भाति॥ ४८॥
पूर्वार्द्धोक्तं षष्ठ्यन्तं पदद्वयं यस्येत्यस्य विशेषणम्।
जयपुरेन्द्रमहाराजरामसिंहदेवस्य कृपापात्रं पुरन्दराख्य: पूर्वं प्रभावशाल्यभवत्, तत्कुलजात: सोऽयम्॥ ४८॥
दो.-- न परिजना: कवलीकृता न गृहमरण्यमुशन्ति।
पुण्यालय'नायब’मिमं कथमु नृसिंहमयन्ति॥ ४९॥
नृसिंह: नृणां कृते सिंह:। उशन्ति इच्छन्ति, 'वश’ कान्तौ। अयन्ति जानन्ति, गत्यर्था ज्ञानार्था:॥४९॥
सुधीचत्वर:
* गुरुवरश्रीलक्ष्मीनाथशास्त्रिचरणा: *
येषामाधिपत्ये पाठशाला पाठशालाऽभव-
त्पाण्डित्येऽद्वितीयांस्तान्न कीर्तयन्प्रयस्यामि
शब्दशास्त्रशैलीपरिशोधकानधिकतमं
जयपुरशिक्षाप्रतिबोधकान् वदिष्यामि।
वात्सल्यानुरक्तशिष्यकृतपरिचर्यान् सदा
मन्त्रशास्त्रधुर्यान् गुरुवर्यान् वरिवस्यामि
नित्यमेव निर्मलनिसर्गिणो निपुणगणे
स्वर्गिणोऽद्य लक्ष्मीनाथशास्त्रिणो नमस्यामि॥ ५०॥
पाठशाला (राजकीयसंस्कृतकॉलेज:) पाठशाला उत्कृष्टपाठशालाऽभवत्। कीर्तयन् न प्रयस्यामि, माहात्म्यातिशयशालिनां तेषां कीर्तने मे प्रयासो न भवतीत्याशय:। परिशोधकानिति. पूर्वं हि व्याकरणपाठनशैली जयपुरे अन्यादृश्येवाऽभवत्। गुरुचरणैरेव काशीप्रक्रियया परिष्कृतमध्यापनं प्रचारितमित्याशय:। अधिकं किम्, न केवलं व्याकरणशिक्षाया एव अपि तु, शिक्षामात्रस्य प्रतिबोधकान् उन्नायकान् वदिष्यामि। यतो हि पाठ्यक्रमपरिशोधनम्, सुव्यवस्थित: श्रेणिविभाग:, नियमानुसारं परीक्षाव्यवस्था च श्रीमतामेव समये समभवत्। निपुणमणे निर्मलस्वभावान्॥ ५०॥
सो.-- जटिलविषयगहनेषु संचरतामपि संततम्।
सुप्रसन्नवचनेषु येषाममृतमिवाऽस्रवत्॥ ५१॥
व्याकरण धर्मशास्त्रादीनां जटिलविषयाणां गहनेषु सततं संचरतामपि येषां सुष्ठुप्रसादगुण-युक्तेषु वचनेषु। एतस्य निदर्शनं 'चरित्रसंग्रहे’द्रष्टव्यम्।
* चरित्रसंग्रह:*
श्रीमत्पूर्वजानामादिनिवासो मद्रासप्रान्ते त्वासीदेव परमुत्तरभारते सर्वत: पूर्वं काश्या-मागमनमभूत्, यत्र हि रामघाटसविधे श्रीमतां पारम्परिकं गृहमद्यापि विद्यते। जयपुरे तु पारम्परिकनिवासो ब्रह्मपुर्यामासीत्। श्रीमद्रुरुचरणपितामहानां द्राविडब्राह्मणानां पं. काशीनाथ-शास्त्रिणां रामनाथशास्त्री (अन्नाजी), कामनाथशास्त्री (मन्वाजी), इति द्वौ पुत्रावभूताम्। तयोर्ज्येष्ठेभ्य: श्रीरामनाथशास्त्रिभ्य: १९०८ तमे विक्रमवत्सरे श्रीगुरुचरणानां जन्माऽभवत्।
जन्मत एव मेधाविन: श्रीगुरुचरणा: भारते सुप्रसिद्धवैयाकरणानां प्रात: स्मरणीय-श्रीबालशास्त्रिणां शिष्या आसन्। स्वर्गीयश्रीतात्याशास्त्रिदामोदरशास्त्रिगोविन्दशास्त्रि, म.म. शिवकुमारमिश्रमहाभागप्रभृतय: श्रीमतां सहाध्यायिनोऽभूवन्। स्वर्गत-म.म.श्रीगङ्गाधरशास्त्रि-प्रभृतयस्तु श्रीमतामुत्तरकालपाठिन: सतीर्थ्या बभूवु:। १९३० तमे वि. वत्सरे व्याकरणा-दिशास्त्राणां पूर्णं पण्डित्यमधिगम्य श्रीमन्तो गुरुचरणा जयपुरं पराववृतिरे। श्रीमतां ख्यातिस्त-स्मिन्समये प्रसिद्धप्रसिद्धपण्डितेष्वासीत्। शास्त्रार्थप्रक्रियायां व्याकरणक्रोडपत्रेष्वपि च श्रीमताम-साधारणी मेधा बभूव। किन्तु जयपुरमागतानां श्रीगुरुचरणानां विद्याप्रसारप्रसङ्गेऽपि सुमहानेको विघ्न: प्रथममुपस्थितोऽभवत्। अत्रागत्यैव जयपुरराज्यदत्ताया ग्रामादिसंपत्तेरधिकार-प्राप्त्यर्थमधि-करणेऽभियोगप्रचालनमावश्यकमभूत्। यतो हि श्रीमतां पितृव्या मन्वाजीति प्रसिद्धा जयपुरेन्द्रात् ग्रामाष्टकं गुरुपदवीं चाधिगत्य पारम्परिकग्रामसंपत्तेरपि संपूर्णाधिकारिणो बभूवु:। पारम्परिक-जीविकायां गुरुचरणानां यो भागोऽभवत्सोपि न तै: समदीयत। अत एव अनिच्छायामपि निजस्वत्वप्राप्तये श्रीमतामभियोगप्रचालननिवार्यमासीत्। अस्मिन् दु:प्रसङ्गे बहूनि वर्षाण्यत्यगु:, नास्मिन्नवसरे कदाचिदपि विद्याप्रसारायाऽवकाश: सममिलत्। या हि शास्त्रार्थप्रक्रिया (व्याकरण-परिष्कारस्य कोटित्रोटय:) तस्मिन्समये देशे प्रचलिताऽऽसीत्तस्यां हि इयतां वर्षाणामेवमन्तराय: कियन्मलिनीकारको भवेदिति तु जानीयुर्मार्मिका एव। किन्तु स्वाभाविकमेधासंपन्ना: श्रीगुरुचर-णास्तदनन्तरमपि तथा शास्त्राण्यपाठयन्, दृढं च निजपाण्डित्यं तथा प्रासारयन् यथान्त:कषायित-मनसोपि विपक्षपण्डिता हतप्रतिभा इव समभवन्
स्वर्गीयो महाराजाधिराज: श्रीरामसिंहदेवो जयपुरमागतेभ्य: श्रीमद्भ्य: स्वाज्ञया नवीनं निर्मीयमाणस्य धर्मशास्त्रग्रन्थस्य निर्माणमाज्ञापयद् यत्र हि पं. श्रीराजीवलोचनमैथिला:, गुरुवर-श्रीकृष्णशास्त्रिचरणा अपि सह न्ययम्यन्त। श्रीरामसिंहमहाराजस्य श्रीमत्सु पूर्णा गौरवदृष्टिरासीत्। महाराजे दिवंगते गुरुचरणा: कियन्ति वर्षाणि केवलं 'मोदमन्दिर’नाम्न्या धर्मव्यवस्थासभाया एव सदस्या: समभवन्। यदा तु बाबूहरिदासशास्त्रिमहोदयो राजकीयाङ्गल-कालेजस्याध्यक्षोऽ-भवत्तदाऽसौ गुरुचरणान् कालेजे संस्कृताध्यापकानकरोत्। अनन्तरं च १९४८ तमे वि. वत्सरे पण्डितवर-श्रीरामभजनशर्ममहाभागेषु स्वर्गमधिरूढेषु श्रीमन्त: संस्कृतकालेज-स्याऽध्यक्षा अभूवन्। आगत्यैव श्रीमद्भि: संस्कृतपाठशालाया: सुमहान् परिष्कारोऽक्रियत। सर्वत: पूर्वं पाठ्यप्रणाल्या: शोधनं विधाय परीक्षाप्रणाली प्राचार्यत। व्यवस्थित: श्रेणिविभाग: पर्यकल्प्यत। व्याकरणादिप्रसिद्धशास्त्राणामध्यापनस्य रुचिरा शैली निरधार्यत। शास्त्रिपरीक्षातोऽअधिक:, आचार्यपरीक्षापर्यन्त: पाठ्यक्रम: प्रथमतया श्री मद्भिरेव प्रवर्तित: अन्यथा पूर्वं शास्त्रिपरीक्षापर्यन्त एवाध्ययनक्रम: समभवत्, यस्य हि सर्वत: प्रथमं शास्त्रिपदवीं लभमाना: पं. श्रीरामचन्द्रशर्माण: (ज्यौतिषिका:) भूतपूर्वप्रवेशिका-गणिताध्यापका: प्रमाणं सन्ति।
लेखे विस्तरो भवेत्, परं जानीयुस्तदभिज्ञा यद् राजकीयसंस्कृतकालेजस्योन्नतिक्रम: श्रीगुरुचरणैरेव तथाऽऽरभ्यत य: सम्प्रति पूर्णमात्रायां वर्तते, येन चायं कालेज: काशीकालेज-कल्प: कल्प्ते कोविदैरद्य। श्रीमतामध्यक्षताकालो यथा नियमसौष्ठवस्याऽऽरम्भकोभूत्तथैव व्युत्पन्नानां दृढपण्डित्यानां सर्वतो लब्धकीर्तीनां स्नातकानां बाहुल्यार्थमपि प्रशंसनीयोऽभवत्। एतस्मिन् काल एव ते विद्वांसो निरमीयन्त ये साम्प्रतं जयपुरराजकीयसंस्कृतकालेजस्य प्राय: सर्वेष्वेव विभागेषु अध्यापकपदमधितिष्ठन्ति। एतदतिरिक्तं भारतस्य दूरदूरप्रदेशेष्वपि जयपुरराजकीयकालेजतो लब्धविद्या: पण्डिता: प्रतिष्ठितपदान्यधितिष्ठन्ति। यस्मिन् कालेजे ३२ अध्यापका भवेयु: सर्वेपि च ते तस्मिन्नेव कालेजे अधीतवन्तोऽपि स्यु:, किमिदं सौभाग्यं यस्य कस्यचिद्विद्यालयस्य भवेत् ?
श्रीमतां शिष्येषु प्रधानतया उल्लेखनीया इमे सन्ति -
व्याकरणशास्त्रि - पं. लक्ष्मीनारायणशर्मा चतुर्वेदी।
पं. रामकुमारशर्मा गौड़:।
जयपुरराजगुरुश्रीहरिदत्तशर्ममैथिला:।
दाधीच पं. भवदत्तशास्त्री (अजमेर-गवर्नमैण्टकालेजस्य भूतपूर्व: प्रधानपं.)
पं. रूपनारायणशर्मा दाधीच:।
पं. गोविन्दरामशर्मा गौड़:।
म.म.पं. गिरिधरशर्मचतुर्वेद: (राजकीयसंस्कृतकालेजस्य वर्तमानोऽध्यक्ष:)
वर्तमानराजगुरुपं. श्रीचन्द्रदत्तमैथिलमहोदय:।
पं. सूर्यनारायणाचार्य: (महाराजाकालेजस्य प्र. सं. पण्डित:)
पं. मदनाचार्य (सं. कालेजे धर्मशास्त्राध्यापक:)
मन्दमति: एतासां पङ्क्तीनां लेखक:।
एते संस्कृतकालेजेऽधीतवन्त: श्रीमतां शिष्या: सन्ति। ये तु आङ्गलविद्यालये श्रीमतां शिष्या: समभवन्, तेषु जयपुरराज्यस्य भूतपूर्व: प्रधानसचिव: श्रीईशानचन्द्रमुकर्जी, अविनाश-चन्द्रसेन:, भगवान्दासो बी.ए. एल.एल.बी, आदय: समुल्लेखनीया: स्यु:।
गुरुचरणानां व्याकरणधर्मशास्त्रादिषु प्रकृष्टं पाण्डित्यं तु विश्वविदितमासीदेव, परं साहित्ये काव्यनिर्माणेपि च श्रीमतां तथा प्रौढिरासीद् यां दृष्ट्वा आजन्मतस्तत्कर्म कुर्वाणा अपि भृशं विसिष्मियिरे। अध्यक्षताकाले श्रीमद्भि: कतिचित्संस्कृतपाठ्यपुस्तकानि निरमीयन्त। यथा- 'भारतीयेतिवृत्तसार: (भागचतुष्टयम्, भारतीयमैतिहासिकवृत्तम्, संस्कृतभाषाया इतिहास-श्चापि यथोपलब्धं संस्कृते समुपनिबद्धोऽस्ति। सुरुचिरया यस्य भाषया मार्मिका अपि हृदयत: प्रसीदन्ति), प्रवेशिकापाठ: (अस्मिन् प्रवेशिकाप्रधानश्रेण्या: कृते गद्य-पद्य-काव्यानां सुमनोहर: संग्रह: कलितोऽभूत्।)
राजाज्ञया निर्मितो धर्मचन्द्रोदयस्तु श्रीमतां लेखसौष्ठवसाक्षी स्यादेव, किन्तु नाऽसावस्मा-भिरालोकितो दृग्भ्याम्। परं स्वर्गीयमहाराजाधिराजश्रीमाधवेन्द्रस्याज्ञया निर्मितो जयपुरराजवंशस्ये-तिहासो मया न केवलमालोकित एव अपि तु लेखन्या लिखितोऽप्यस्ति, यस्मिन् हि श्रीगुरुचरणानां चरमं काव्यनिर्माणमार्मिकत्वं प्रत्यक्षरं खेलति स्म। तद्वृत्तान्तस्त्वयम्-यन्महाराज-श्रीमाधवसिहंदेवेन कतिपयवर्षेभ्य: पूर्वं संस्कृतभाषामयं जयपुरेतिहासं लेखितुं तस्मिन्नकाले प्रसिद्धास्त्रय: पण्डिता आज्ञप्ता आसन्। तेषु सूर्यवंशादारभ्य पौराणिकराजानां कालं यावत् आदिमभागनिर्माणं श्रीगुरुचरणैरङ्गीकृतमासीत्। मध्यस्य निर्माणं गुरुवरश्रीकृष्ण-शास्त्रिचरणा-नामधीनम्, चरमं च म. म. पं. श्रीदुर्गाप्रसादद्विवेदानामायत्तमासीत्। मध्यं च चरमं च कियच्च कीदृशं च निर्मितमिति नास्ति विदितम्, परमादिमभाग: सोयं मया स्वलेखन्या प्रायो भूयान् लिखित:। कारणमेतस्य-मदुपरि आरम्भादेव गुरुचरणानां विशिष्टोऽनुग्रह: समभवत्। प्रत्यक्ष-मेतस्य प्रमाणमिदमेव-यद् गुरुवरै: पाठशालानियतकालादृते स्वगृहे व्याकरणस्य सर्व एव ग्रन्था मे पठिता: सन्ति। ममैवेदं सौभाग्यं येन सिद्धान्तकौमुदी, मनोरमा, परिभाषेन्दुशेखर:, शब्देन्दुशेखर:, वैयाकरणभूषणम्, महाभाष्यं चापि श्रीमतां गुरूणामेव सकाशादधीतम्। अस्तु,
ममाक्षराणि सुन्दराणीति केवलं मदुपर्यनुग्रहं प्रकाशयन्त: श्रीमन्तो बहुधा मत्सकाशादेव यत्किञ्चिदलेखयन्। अन्यथा श्रीमच्चरणानामेव तथा सुभगानि सुभङ्गीनि चाक्षराण्यासन् यान्यालोकयतां चित्रीयते स्म चतुराणामपि चेत:। हा हन्त! पारितोषिकपत्रेषु यानि श्रीमतामक्षराणि साम्प्रतमपि विलोक्यन्ते तानि श्रीमतां लेखसौष्ठवं यथा, तथाऽन्तेवासिजने असाधारणीं कृपामपि अन्त:करणे अकस्माज्जागरयन्ति। अस्तु, जयपुरराजाज्ञया निर्मीयमाणस्य तत्काव्यस्यादिमो भाग:, यावत्स्मरामि तावत् सोयं सर्गद्वये पूरितोऽभूत्। तयोर्मध्ये प्रथमस्तु समग्र एव सर्गो मया लिखित:, द्वितीयस्य तु कश्चिदंश:। नासीदिदं पूर्वं विदितं यदस्मद्दौर्भाग्यात्तदिदं काव्यं केवलं परिश्रमप्रसूरेव भवेत्, न प्रकाश्येत, न वा लिखितमेवोपलभ्येत। अन्यथा मनोहरतमस्यास्य एका प्रतिलिपिरन्याऽप्यकारिष्यत। किन्तु हा हन्त साम्प्रतं तत्समग्रमेव लुप्तमभूत्। गुरुणां गृहमेव बद्धतालकमासीत्। एवं राजेच्छा 'क्षणे क्षणे नवा नवा भवति जायमाना’ इति प्रसिद्ध्यनुसारं जयपुरेन्द्रस्यापि सा इच्छा अन्याभिर्लहरीभिरभिभूयमानाऽभवत्। अत एव तत्समग्रं काव्यवैभव-मनन्तकालार्थं कालस्य क्रोड एव लीनमभूत्।
मनोरारभ्य सूर्यवंश: श्रीमद्भिराख्यातोऽभूत्, तत्र प्रथमं पद्यमद्यापि मे मनसि वर्तते। पावनी सेयं स्मृतिरिति कृत्वा, आदर्शविधया तदिदं लिख्यते। काव्यमार्मिका: अनेनैव निर्मातुर-साधारणमधिकारम्, समञ्जसां च शब्दशय्यामंशत: परिचिनुयु:--
'आसीदसीमसौभाग्यनिधिर्विधिरिवाऽपर:।
आद्योऽस्य नरसर्गस्य नाम्ना वैवस्वतो मनु:॥’
श्रीमद्भिर्लेखिता: परिभाषेन्दुशेखरोपरि परिष्कारास्त्वद्यापि विद्यन्ते ये हि वादसमय-स्याऽतिक्रान्तत्वादग्रे च तदाशाऽभावात्केवलं मूषकमहोत्सवायैव मे मन्दस्य गृहे दृश्यन्ते। श्रीमतामन्तरङ्गसुहृत्सु गुरुवरश्रीकृष्णशास्त्रिचरणा आसन्। पण्डितवरश्रीशिवराममहोदयान् स्वर्गीयगुरुवरश्रीजीवनाथमैथिलप्रभृतींस्तु गौरवदृष्ट्याऽपश्यन्। श्रीमतां धर्मश्रद्धा, मन्त्रशास्त्रेऽभि-निवेश्च विशेषतयोल्लेखनीय आसीत्। शिवस्तोत्रेषु स्तुतिकुसुमाञ्जलि: श्रीमतां परमप्रियोऽभूत्। हन्त संप्रति मे चक्षुषोर्गुरुचरणानां सा मूर्ति: प्रत्यक्षमुत्कीर्णेव दृश्यते, या हि अध्यापनार्थमस्मदादीन् निरीक्षमाणाऽतिष्ठत्। संस्कृतपाठशालाया: कार्यालये (श्रीमतामध्यापनस्थानमपीदमेवाऽऽसीत्) वेत्रासनमधितिष्ठन्त: श्रीमन्त: पाठनाद-वकाशसमये-
'यस्य शस्यमहसो निरर्गलं योगमाप्य चरणाब्जरेणुभि:।
अद्भुतां दधति नीरजस्कतां तं जगत्पतिमुमापतिं नुम:॥’
इति कुसुमाञ्जलीयं पद्यं सभक्ति सस्वरं च जगु:। अन्तेवासिनामुपरि श्रीमतामसाधारण: स्नेहो दया चासीदिति जानन्त्येव तद्विद:। 'गुरुर्न कञ्चिच्छात्रं विद्यां पानकमिव पाययतीति’ लोके कथ्यमानं श्रूयते। परमहं तु इदं सत्यं सत्यमेव जाने यस्योपरि श्रीमतां हार्दी कृपा समभवत्, स विद्वानप्यभूदिति प्रत्यक्षमेवाऽऽलोकितमस्ति मार्मिकै:। गुरुचरणानां मध्यसमयस्य शिष्या: कृपाभाजनं च म. म. पं. गिरिधरशर्मराजगुरु-श्रीचन्द्रदत्तमैथिल पं. सूर्यनारायणशर्म-मदनाचार्या: सन्ति, ये हि सोत्साहं च सदयं च सौच्चै:स्वरं च स्नेहेन पाठिता: समभवन्। किन्तु-आसां पङ्क्तीनां लेखकोयं श्रीमतामन्तिम: शिष्योऽस्ति यस्योपरि असाधारणी विशेषकृपा-ऽऽसीत् यस्या उल्लेख: पूर्वं कृत:। स समयो गुरुचरणानां वार्द्धक्यस्यासीत्, नासीत्पूर्वं इव स किल यौवनसहचर: समुत्साह:। परं कर्तव्यवशाद्दयावशात् मत्सौभाग्यवशाद्वा यद् यद् गुरुचरणै: पाठितं तत्तत्सर्वं वरप्रदानमिव मे सुस्थिरविद्यावताराय चिराय समभवत्। प्रतिदिन-व्यावहारिक-विषयेष्वपि स्नेहेने भर्त्सनया च यद्यत् शिक्षितं तत्तन्मे जीवनसाफल्याय समभूत्। अस्तु-पावनं तदिदं स्मरणमप्यंहसां निवृत्तय एवेति यदप्यनुकूलं तथापि स्मर्यमाणेनानेन हृदयान्तस्तले काचित्पीडेव समुदेतीति विरम्यते विक्षोभात्।
गुरुचरणानां पौत्र: श्रीविश्वनाथ: साम्प्रतं मातामहाभिजने यवतमाल-(बरार)-प्रदेशे निवसन् व्यवसायकार्यं करोतीति श्रूयते।
* गुरुवरश्रीकृष्णशास्त्रिचरणा: *
येषां धर्मकर्मणि तपसि सत्यनिष्ठाऽभव-
त्पाण्डित्यप्रतिष्ठाऽतो गरिष्ठाऽभूद्विसंदेहम्
चर्याव्यवहारे चतुराणां शुद्धभावोऽभवद्-
ब्राह्मणोपकारे येषां मानसममन्देहम्।
राजकीयविद्यालये साहित्योपदेशकास्ते
गुणगणनीयं स्मरणीयं येऽवहन्देहम्
नानादेश-नानाजन-नानाकथा-नानारस-
वर्षिणोऽद्य श्रीमत्कृष्णशास्त्रिणोऽभिवन्देऽहम्॥ ५२॥
अत: (निष्ठात:) पाण्डित्यप्रतिष्ठा नि:सन्देहं प्रभावशालिन्यभवत्। अमन्देहम् अमन्दा ईहा चेष्टा यस्य तत्। ब्राह्मणोपकारे सदा सचेष्टमानसा अभूवन्नित्यर्थ:। नानादेशादीनां या नानाकथास्तासु नानाविधरसवर्षकान्॥ ५२॥
* संग्रह: *
तैलङ्गब्राह्मणानां श्रीमतामादिमो निवासो मद्रासप्रान्तस्य कुम्भघोणेऽभवदिति श्रूयते। श्रीमन्तो हि निजदेशं विहाय बाल्यादेवोत्तरभारते न्यवसन्। गृहस्थाश्रमप्रवेशात्पूर्वं भूयांसि वर्षाणि यावत् श्रीमद्भिर्बदरिकाश्रमप्रान्ते ब्रह्मचर्यनियमेन तपश्चरणमक्रियत। जयपुरेऽपि यदा प्रथमप्रथममुपयाता: (सं. १९४८ वि.) तदापि श्रीमन्तो ब्रह्मचारिवेष एवासन्।
एतस्मात्कालात्पूर्वमुत्तरस्यां दिशि कुल्लू-मण्डीराज्येष्वपि श्रीमतां निवासोऽभवत्। मण्डीराज्ये तु कतिचिद्वर्षाणि श्रीमद्भिर्धर्मशासनपदमपि किञ्चिदधिष्ठितमिति श्रूयते। जयपुर-मागतेषु श्रीमत्सु स्वर्गीयमहाराजाधिराजश्रीरामसिंहदेवस्य विशेषत: कृपा समभवत्। श्रीमता हि धर्मचन्द्रोदयस्य निर्माणाय पूर्वमेते न्ययम्यन्त, 'मोदमन्दिर’ सभाया: सदस्याश्चकल्प्यन्त। अनन्तरं तु १९४८ तमे विक्रमवत्सरे कालेजाध्यक्षेण श्रीहरिदास-शास्त्रिमहाशयेन इमे संस्कृतपाठशालायां साहित्यप्रधानाध्यापका नियमिता:। श्रीमतां धर्मश्रद्धापरोपकारादिषु सुतरां व्यासक्तिर-भूदिति तु सर्वत्र सुप्रसिद्धम्। विश्वविदितं पाण्डित्यमप्यस्मादृशैरकिञ्चित्करै: प्रस्तूयेत, एषापि लघोर्मुखान्महती वार्तास्ति। द्वयोरपि शास्त्रिचरणयोर्विषये जयपुरविलासे प्रोक्तम् - 'राजीवलोचन-बुधेन समस्तशास्त्राण्यालोच्य रामवचसाऽरचि धर्मचन्द्र:। याभ्यामपूरि स ततोऽन्विह कृष्ण-लक्ष्मीनाथौ बुधौ कथय कस्य न संमतौ तौ॥’
* पण्डितवर-श्रीशिवरामशर्ममहाभागा:*
येषां शब्दशास्त्रे प्रौढपाण्डित्यं प्रसिद्धमभू-
द्वेदान्तेऽपि मार्मिका न केन स्माऽभिनन्द्यते
राजमोदमन्दिरेऽपि मान्या यद्व्यवस्थाऽभव-
द्विद्यायै वदान्या येऽद्य विद्भिर्मुहुरिन्द्यन्ते।
अध्यापनसिद्धा: शान्ति-धैर्यार्जवमुख्यैर्गुणै:
सर्वविधसौख्यैर्जीवने ये स्माऽतिचन्द्यन्ते
आदर्शायितोच्चसदाचाराञ्चितचर्या: सदा
श्रीश्रीशिवरामसूरिवर्या: प्रणिवन्द्यन्ते॥ ५३॥
व्यवस्था धर्मशास्त्रीया। 'मोदमन्दिरं’जयपुरराज्यस्य धर्मव्यवस्थापक सभा। वदान्या दानशौण्डा:, य: कोऽपि विद्यार्थी व्याकरणस्य लघुं वा महान्तं वा ग्रन्थमपठत्, सप्रेम तमपाठयन्। इन्द्यन्ते परमैश्वर्येण स्तूयन्त इत्याशय:, 'इदि परमैश्वर्ये’। ये सर्वविधै: सौख्यै: जीवने अत्यन्तं चन्द्यन्ते स्म आह्लाद्यन्ते स्म। चदि 'आह्लादे’। सदाचरेण अञ्चिता पूजिता।
* संग्रह: *
पर्वतीयसारस्वतब्राह्मणा: पं. श्रीशिवराममहाभागा: त्रिगर्तदेशस्य (काङ्गडा-प्रान्तीय'गुलेर’ ग्रामाञ्चलस्य) राजपुरोहितवंशजा: समभवन्। तत्र हि श्रीमंद्वशजानां 'मणिवन्त:’, 'मणिवाले’ इति प्रसिद्धिरासीत्। बाल्यावस्थायां गृहगतामतिविषमां दीनदशामनुभूय परमं विरज्यन्त: श्रीमन्तो विद्याध्ययनाय काशीं प्राऽतिष्ठन्त।
कौमार एव जगतीतलजागरिष्य-
त्कीर्तिप्रभाप्रकटनेऽस्य मतिर्बभूव।
तस्मादसौ गुरुजनाऽविदितोऽन्वयासी-
द्वाराणसीमखिलवाङ्मयलास्यभूमिम्॥ १॥
नासीत्तस्मिन्समये यात्रार्थं बाष्पशकट्यादीनां सौकर्यम्, नापि चासीदार्थिकी शक्तिरेव। अत एव सुदूरतमादपि देशात्पद्भ्यामेव व्रजन्तोतिक्लेशेन चिरात्काशीमुपागमन्।
तत्र प्रसिद्धबुधमण्डलमान्यगौड-
स्वाम्यन्तिके विभवरामसमीपतश्च।
शब्दागमप्रमुखदुर्गमशासनेषु
प्राशस्त्यमाप स हि षोडशभि: समाभि:॥ २॥
तत्र हि 'भाष्यब्रह्मचारी’ति प्रसिद्धेभ्य: श्रीअभयराममहाभागेभ्य: साङ्गं व्याकरण-शास्त्रमपाठि। भूतपूर्वजयपुरराजकीयसंस्कृतपाठशालाध्यक्षा: पं. श्रीरामभजनसारस्वतमहाभागा: श्रीमतां सहाध्यायिनोऽभूवन्। समापितविद्या: श्रीशिवराममहाभागास्तस्मिन्समये काशिकपण्डितानां संतोषभाजनमभूवन्। सभायां वादपाण्डित्यमालोक्य परमं प्रसन्ना जयपुरमहाराजाधिराजा: श्रीरामसिंहदेवा: पण्डितमहोदयान्निजराजधानीमानयन्। १९२५ तमे त्रिंशे वा विक्रमवत्सरे श्रीमतामत्रागमनमभूदिति श्रूयते।
अत्रागता: श्रीमन्तो राजकीयसंस्कृतपाठशालायामध्यापका:, 'मोदमन्दिर’ सभाया: सदस्याश्चाऽभवन्। प्राचीनव्याकरणे श्रीमतां सुदृढं ज्ञानमासीत्। अध्यापनकाले च प्रसन्नमुखा: श्रीमन्तोऽतिशान्त्या परमप्रेम्णा च विद्यार्थिन: समबोधयन्निति प्रत्यक्षमनुभूतम्। गुरुचरणानाम-ध्यक्षतायां पण्डितमहोदया: पाठशालायां वेदान्ताध्यापकपदमधिष्ठिन्तो दृष्टा:। महाराज-श्रीरामसिंहदेवानां श्रीमाधवसिंहदेवानां चापि समये श्रीमतां परम: सम्मान: समभवत्। भूतपूर्वो जयपुरराज्यप्रधानामात्य: श्रीकान्तिचन्द्रमुकर्जीमहोदय: पण्डितमहोदयानां परमं गौरवमकरोत्। राज्ये साधीयसी प्रतिष्ठा, लक्ष्मीदेव्या: कृपा, आज्ञाकारिणो विद्वांसश्च पुत्रा:, नैरुज्यपूर्णं पूर्णं च वय:, इत्यादि सर्वविधमेव लौकिकं सुखं श्रीमतामुपपन्नमासीत्। अत एव 'सर्वसुखिन:’ इति सुहृत्पण्डितगोष्ट्यां श्रीमन्तोऽभ्यनन्द्यन्त।
पण्डितमहाभागानां त्रय: पुत्रा: समभवन्। तेषु ज्येष्ठ: श्रीचन्द्रधरशर्मा गुलेरी (बी.ए.) अजमेरनगरस्थमेयोकालेजस्य जयपुरराजकीयभवनप्रबन्धकर्ता (मोहोतमिद जयपुरकोठी) तात्कालिक'खेतडी’नरेशस्याऽध्यापकश्चासीत्। एष हि महाभागो यथाऽऽङ्गलविद्यायां तथा संस्कृतपाण्डित्ये हिन्दीसाहित्ये चापि परमं परिनिष्ठितोऽभवत्। अयं जयपुरात्प्रकाश्यमानस्य 'समालोचक’पत्रस्य काशीनागरीप्रचारिणीपत्रिकायाश्च सम्पादकोऽभवत्। एतल्लिखिता: 'पुरानी हिन्दी’ इत्यादयो गवेषणापूर्णा निबन्धाश्चमत्कृतवन्तो मार्मिकसमाजम्। हन्त हन्त यस्मिन्समयेऽस्य प्रतिभा प्रकामं प्रौढिमध्यगच्छत्तस्मिन्नेव समये सोयं महाभागो माननीयश्रीमदनमोहनमालवीय-महाभागेन काश्यां नीत्वा हिन्दूविश्वविद्यालये संस्कृतविभागस्याध्यक्षो नियमित:। परं विद्वत्समाजस्मरणीयस्य सरलोदारचरित्रस्यास्य हन्त स्वल्प एव काले सर्वदार्थं काशीवासोऽभवत्। हिन्दीसाहित्ये प्रसिद्धस्यास्येतिवृत्तं 'हिन्दीकोविदरत्नमालायाम्’ मुद्रितमपीति किञ्चित्स्मरामि।
पण्डितमहाभागानां मध्यम: पुत्रश्च पं. सोमदेवशर्मा गुलेरीति प्रसिद्धो मोदमन्दिरसदस्यतां संस्कृतपाठशालाध्यापकतां चात्रैवाध्यतिष्ठदिति जानन्त्येव तद्विद:। परं सोऽप्यकाल एव परलोकमगात्। कनिष्ठस्तु पुत्र: पं. जगद्धरशर्मा गुलेरी एम. ए. सम्प्रति लायलपुरनगरे (पंजाब) राजकीयस्य कृषिमहाविद्यालयस्य (एग्रिकल्चर कॉलेज)प्रबन्धकपदमध्यापकपदं च ससंमानमधितिष्ठतीति हर्षास्पदम्। पण्डितमहाभागानां विषये प्रोक्तं जयपुरविलासे -
'आस्ते महाभाष्यमहाचमत्कृति: स्फुरन्महा व्याकृतिपाठिनां गुरु:।
सारस्वतो रामभज: स यस्य स सखा सतीर्थ्य: शिवरामपण्डित:॥’
* विद्यावाचस्पतिपं. श्री मधुसूदनशर्ममैथिला: *
धार्मिकविमर्शनेष्वभिज्ञा: सर्वदर्शनेषु
वेदान्तेष्वधर्षितमनीषा उपनम्यन्ताम्
वेदेष्वसमानां 'यज्ञमधुसूदन’ नामाऽऽकरो
नूनं ब्रह्मविज्ञानादिग्रन्था अवगम्यन्ताम्।
मञ्जुनाथ सांख्यदैशिकानां चतुराणां नये
निगमपुराणाऽद्भुततत्त्वानि निशम्यन्ताम्
वादिमदसूदनसमञ्जससमीक्षाचया:
श्रीमन्मधुसूदनमहाशया: प्रणम्यन्ताम्॥ ५४॥
राजगुरुश्रीहरिदत्तशर्ममैथिला:
दो. - विवृतशब्दशास्त्रोदयान् परमसहृदयान् स्तौमि।
श्रीहरिदत्तमहोदयान् सदयान् संप्रति नौमि॥ ५५॥
विवृत: कृत: व्याकरणशास्त्रस्य उदय: प्रचारो यैस्तान्, एतेषामेव द्वितीयाध्यापकतायां व्याकरणस्य मार्मिका: साम्प्रतिकविद्वांसो निरवर्त्यन्तेति सूच्यते। परमसहृदयान्, इत्यनेन तेषां नैषधमाघादिकाव्यरसिकत्वं रसानुभवमार्मिकत्व चाभिव्यज्यते।
राजकीयसंस्कृतपाठशालायां परम्परातो व्याकरणाध्यापकानां जयपुरराजगुरु-श्रीनरहरि-शर्ममैथिलमहाभागानां ज्येष्ठतनुजेन्मान एते पैतृकमध्यापकपदं राजगुरुत्वं चाऽध्यतिष्ठन्पूर्वम्। दिवं गतानामेषामनुजन्मान: श्रीचन्द्रदत्तमहोदया: साम्प्रतं व्याकरणाध्यापका राजगुरवश्च सन्ति, येषां परिचयोऽग्रे। श्रीनरहरिशर्मणां विषये तु प्रोक्तं जयपुरविलासे -
'सिद्धान्तकौमुद्युचितो बुधग्रणी: समुच्छलच्चामरवीजितच्छवि:।
सन्मैथिल: सौम्यपवित्रदर्शनो राज्ञो गुरु श्रीनृहरिर्विराजते’॥
* प्रवेशिकाध्यापका: काशीनाथशास्त्रिण:*
व्याकरणाधानात्पठदन्तेवासिमानसेषु
प्रोद्भासितसंस्कृतार्ग्यमार्गा ये समह्यर्न्ते
कविताविमर्शे सानुरागा: शब्दशास्त्रपरा-
मर्शे नानुमेनिरे गरिष्ठबुधवर्यं ते।
मञ्जुनाथव्युत्पत्ते: प्रवेशहेतवस्तेऽभव-
न्येषामुपदेशगिर: प्रायो नातिचर्यन्ते
सरलतयैव सुप्रकाशीकृतदेवगिर:
काशीनाथशास्त्रिमहाभागा मुहु: स्मर्यन्ते॥ ५६॥
व्याकरणस्य आधानात् दृढसंस्कारात्। संस्कृतस्य अर्ग्य: श्रेष्ठो मार्गो यै:। कविताविमर्शे सानुरागा:, अनेन रत्नाकरादिषु कविता-समस्यापूर्त्यादिकं सूच्यते। शब्दशास्त्रस्य विचारे प्रक्रान्ते, कस्मिन्नपि पक्षे दृढाग्रहे संजाते गरिष्ठमपि बुधवर्यं ते न प्रमाणीचक्रु:। न अतिचर्यन्ते उल्लङ्घ्यन्ते॥५६॥
एते हि संस्कृतकालेजे प्रवेशिकाप्रधानश्रेणौ व्याकरण-काव्याध्यापका आसन्। सुदृढाभ्यासद्वारा विद्यार्थिन: परिश्रमपूर्वकमपाठयन्निमे। दतियाप्रान्तादुपागता एते। इमे हि गुरुवराणां श्रीलक्ष्मीनाथशास्त्रिचरणानां सम्बन्धिनोऽभवन्। गुरुपितामहानां काशीनाथशास्त्रिणां पुत्री 'मङ्गलाबाई’ नाम्नी आसीत्। एतस्या: पुत्रीं भाऊशास्त्री परिणीतवान् यो हि श्रीकाशीनाथचरणानां लघुभ्राताऽऽसीत्। एतेषां विषये जयपुरविलासे प्रोक्तम् -
'जीयादजस्रं जिनपाठशालागुरु: पुरुप्रीतिचरुर्गुरुश्री:।
भङ्गाप्रकाशी कविरेष काशीनाथ: सनाथ: प्रततैर्यशोभि:॥’
शब्दशास्त्रबोद्धारोऽपि हेलयाऽन्यशास्त्रगतं
पाण्डित्यं प्रदर्शयन्त: कैर्न वरिवस्यन्ते
स्थूलकृष्णकायैर्ज्ञातनानाविधोपायैरहो
चाणक्यैरिवैतै: किल के वा न निरस्यन्ते।
'श्रीजीकी मोरी’मभिमण्डयन्तो हवनभरै-
र्ये रीतिं श्रयन्तो वैदिकानामनुदृश्यन्ते
निशितसमीक्षाशरा: कुपितदृशाऽस्त्रिणोऽमी
द्राविडास्ते वीरेश्वरशास्त्रिणोऽद्य शस्यन्ते॥ ५७॥
निरस्यन्ते तिरस्क्रियन्ते। 'श्रीजीकी मोरी’ इति निवासस्थाननिर्देश:। क्रूरसमालोचनैव शरो बाणो येषाम्। कुपितां दृशम् अस्त्रमिव क्षिपन्त:॥ ५७॥
ज्योति:शास्त्रसिद्धान्ताऽवबोधनप्रसिद्धान्, भूरि-
तन्त्रमन्त्रदीक्षाऽऽगमसिद्धान्प्रसमीक्षध्वम्
दुर्गमत्रिकोणक्षेत्रमितिकलनाढ्यान्पुन-
श्चातुर्वर्ण्यवर्णनाप्रवीणान् सुपरीक्षध्वम्।
काव्यमर्मविज्ञान् श्राव्यरचनाचमत्कृतिकान्
महामहोपाध्यायान्मुनिप्रायानपेक्षध्वम्
राजकीयपाठशालाऽध्यक्षान् स्थूललक्ष्यान् सदा
श्रीदुर्गाप्रसादकृतिदक्षानभिवीक्षध्वम्॥ ५८॥
सिद्धान्तावबोधनेति-सिद्धान्तग्रन्थाध्यापने प्रथितान्। काव्यमर्मेति. अनेन साहित्यदर्पण-टिप्पणभूमिकादिकृतिर्ध्वनिता। त्रिकोणमिति-क्षेत्रमित्यो: संकलनममीभि: कृतम्। चातुर्वर्ण्येति.- एभि: कृता 'चातुर्वर्ण्यसमीक्षा’परीक्ष्यग्रन्थेषु नियता। रचनेति. देवराजचरित-प्रसादशतक दशकण्ठवधाद्या: प्रथिता:। स्थूललक्षान् वदान्यान्॥ ५८॥
दुर्लभमहार्हग्रन्थसंपादनसिद्धहस्त-
मेतत्कृतटिप्पणसुशोधनमिहाऽऽनुवे
ओर्येण्टलविद्यालयाध्यापनप्रसिद्ध-
मर्थसंग्रहसुसिद्धमथ सरलमतिं ब्रुवे।
वार्द्धकेपि बाल्य इव व्याकरणोत्सेधवशा-
न्नानाविधशब्दवेधसंसक्तं न संह्नुवे
महामहोपाध्यायाख्यसत्तमपदकपदं
श्रीमच्छिवदत्तपटुपण्डितमुपस्तुवे॥ ५९॥
आनुवे स्तौमि, 'आङि नुपृच्छ्यो:’। अर्थसंग्रहे धनार्जने। बाल्य इवेति. व्याकरणस्य पठनदशायामेव तदुत्सेधस्य (व्याकरणोत्कर्षस्य) वशात् नानाविध: शब्दवेधो भवति। (वीन् लुनातीति विलावी मार्जारी, जयेन ऊर्जते इति जयोर्ज: 'जार्ज’ इत्यादि) परम् अयं वार्द्धकेऽपि तत्संसक्त:। अत एव एतं न संह्नुवे, न गोपयितुमिच्छामि। एतत्सूचनायैव 'श्रीमच्छिवे’ति व्याकरणानुकूल: संधि:। संग्रहे द्रष्टव्यमिदम्। पदकस्य पदम् आस्पदम्॥५९॥
* चरित्रसंग्रह: *
श्रीमतो जन्म सं. १९०८ तमे वि. वत्सरे मार्गकृष्णदशम्यां समभवत्। राजकीयपाठ-शालायास्तात्कालिकाध्यक्षेभ्य: पं. रामभजनमहाभागेभ्यस्तदनन्तरं च पं. श्रीशिवरामशर्ममहा-भागेभ्य: श्रीमद्भिर्व्याकरणादिविद्याध्ययनमकारि। वैदुष्यसंपादनोत्तरं सं. १९४७ तमं वत्सरमारभ्य पञ्चवर्षाणि यावत् राजकीयसं. पाठशालायां स्वपितु: स्थानेऽध्यापनकार्यमकुर्वन्। एतदनन्तरं सं. १९५२ त: १९८४ पर्यन्तं लाहोरनगरे ओरिएण्टलसंस्कृतकालेजस्य प्रधानसंस्कृताध्यापकपद-मध्यतिष्ठन्।
म. म. पं. श्रीदुर्गाप्रसादमहोदयै: संपाद्यमाना अनेकेषां दुर्लभसंस्कृतग्रन्थानां प्रकाशयित्री 'काव्यमाला’ समयेस्मिन् भूयस्तरां प्रसिद्धिमलभत। पञ्चविंशतिवर्षाणि यावत् श्रीमतापि तत्संपादनमकारि। शोधनादिकार्ये श्रीमत: प्रावीण्यं सहृदयैर्भूयस्तरामभ्यनन्द्यत। एतदतिरिक्तम्- निर्णयसागरे मुद्रितानां सटीकाऽमरकोष-शिशुपालवध-सिद्धान्तकौमुदी-काशिका-निरुक्तादीनां बहूनां संस्कृतपुस्तकानां श्रीमता संपादनं शोधनं चाऽकारि। सिद्धान्तकौमुद्या: 'सरला’ नामधरं रूपान्तरमेवाऽकारि, यत्र तिङन्तं पूर्वमवस्थाप्य षङ्लिङ्गकारक-समासादीनां पश्चान्निवेशोऽक्रियत। परं सेयं प्रक्रिया जनताया: कृते कठिनाऽभवदिति नाऽस्या: प्रचारोभवत्। व्याकरणमहाभाष्यस्य तु सत्यं सत्यमुद्धार एव चिकीर्षितोऽभूद् यत्र हि (एकदेशिभाष्यम्) (आक्षेपभाष्यम्) (सिद्धान्ति-भाष्यम्) इत्यादि शीर्षकं पृथक् पृथक् प्रकोष्ठके दत्वा भाष्यविषयस्याऽत्यन्तं सुबोधता कृताऽऽसीत्। किन्तु दुर्दैववशादध्यायद्वयमेवैतादृशं मुद्रितमभवत्। अस्मिन्कार्ये महानध्यवसाय:, पूर्णा च तत्वज्ञता, अपारश्च परिश्रम: समपेक्षितोऽभूत्। अनया विधया संपूर्णं चेदमुद्रयिष्यत तर्हि भाष्यस्य भूयस्तरां स्पष्टता श्रीमतां चाऽऽकल्पममरता समभविष्यत्। श्रीमतां वैदुष्यत: संतुष्टेन राजतन्त्रेण श्रीमद्भ्य: 'महामहोपाध्याये’ति विद्वत्पदकमदायि।
वार्द्धक्येऽपि पुस्तकप्रकाशनादिषु श्रीमताममन्द उत्साहोऽभूत्। व्याकरणविषये चाधीयानानामिव स्फुरत्प्रतिभता चाऽनल्पं च परिज्ञानमासीत्। आसीत्किल श्रीमतो विचारो यद्भाषान्तरस्था: सर्वेपि शब्दा: शुद्धसंस्कृतस्यैव सन्ति। अत एव स्वर्गवासात्कतिपयवर्षेभ्य: पूर्वं तादृश्येका पुस्तिका प्राऽकाश्यत यत्र हि हिन्दी-उर्दू-अंग्रेजी-आदिशब्दानां व्युत्पत्ति: संस्कृतव्याकरणतोऽकारि। यथा - मजादार (मचाधार:), जोरु: (जयोरू: जयौ ऊरू यस्या: सा), खरच: (खं शून्यतां रचयति) 'काइण्डली’ Kindly (काण्डं लिनाती-त्यादि)।
महामहोपाध्यायमहाभागस्य स्वभाव: अतिसरलो निरभिमानश्चासीत्। वस्त्र-विन्यासादिष्वतीव सारल्यमलक्ष्यत। अन्तिमे वयसि संन्यस्तचिह्नानां श्रीमतां १९८६ तमे वि. वर्षे पुण्यधामनि काश्यां कैलासवासोऽभूत्। पं. भवदत्तशास्त्री, पं. विष्णुदत्तशास्त्री चेत्यग्रे उपवर्ण्यमानौ श्रीमतां विद्वांसौ द्वौ पुत्रौ। श्रीमद्भिर्या किल संस्कृतभारत्या: सेवा कृता सा हि चिरकालं यावत्सहृदयानां स्मरणीया भवेत्। प्रोक्तं जयपुरविलासे -
'व्याख्याविशेषैर्लघुकौमुदीं स्फुटीचकार यो व्याकृतिकल्पितश्रम:।
व्युत्पत्तिवित्तोऽमरवृत्तिशोधको न स्तूयते कै: शिवदत्तपण्डित:॥’
उल्लाला भङ्गाऽभङ्गश्लेषपरं भङ्गारससङ्गात्
चङ्क्रमन्तमन्तर्गृहं तु मातङ्गाऽऽरङ्गात्
यस्य हि 'जयपुरपञ्चरङ्ग’मुखगुम्फमुदीक्षे।
बुधतल्लज-कविमल्लमिमं हरिवल्लभमीक्षे॥ ६०॥
सभङ्गे अभङ्गे च श्लेषे तत्परम्। एतस्योदाहरणानि रसिकेषु प्रसिद्धानि, तल्लिखितपञ्जिकासु स्थितानि च। मातङ्गारङ्गात् हस्तिन इव मदानुगुणप्रकारात्, हेतु:। गुम्फो रचना-जयनगरपञ्चरङ्ग-कान्तावक्षोजशतोक्ति-ललनालोचनोल्लासश्लोकबद्धदश-कुमारचरितप्रभृति: प्रकाशिता। सं. रत्नाकरेपि च समये समये मुक्तकसूक्तय: प्रकटिता:। सूक्तिनिदर्शनसापेक्षमेतस्य जीवनवृत्तं विस्तृतमुचितं स्यादिति स्थानान्तरे प्रकाशनस्येच्छा।
क.-- आयुर्वेदसंहितासु मार्मिक: प्रमितवचा
धार्मिक: समस्तसाधुलोकैरपि शस्यते
भारते चिकित्साकर्मचतुराणामन्यतम-
श्छन्दोविचिकित्सा विदाममुना निरस्यते।
मञ्जुनाथ शिष्यगणघोषितविपुलयशा
धीरशान्तसत्यब्रह्मचारी वरिवस्यते
नामी वैद्यपण्डितेषु चामीकरतुल्यतनु:
स्वामी स हि लक्ष्मीरामसुकृती प्रशस्यते॥ ६१॥
प्रमितवचा: प्रमितं वचो यस्य स:। विदां विदुषां छन्दोविचिकित्सा छन्द:-शास्त्रविषयक: संदेह:। छन्द:शास्त्रपाण्डित्यमिदं श्रीमत: पारम्परिकम्। श्रीमतां गुरवश्चन्दनदासस्वामिनश्छन्दसि निपुणा आसन्। 'छन्दोविन्मण्डन’ नामक एतेषां ग्रन्थ: संमुद्रितोऽप्यस्ति। एते च सुप्रिसिद्धकविश्रीकृष्णरामभट्ट-महाभागै: 'छन्दश्चन्दनदासत:’ इति छन्दोगुरुत्वेन गीता:। चामीकरं स्वर्णम्॥ ६१॥
कुण्डलिया-- अव्याजं बुधसमुदये समयमवेक्ष्य ददाति।
आर्थिकसहाय्यं सदा सोयं स्वामी भाति॥
सोयं स्वामी भाति संदधत्सर्वान् सुधिय:।
औषधजातममूल्यमेव दीनेषु दिशति य:॥
विद्यालयमुपरोप्य चोन्नयन् स्वामिसमाजम्।
लक्ष्मीरामस्वामिवर: श्लाघ्योऽस्त्यव्याजम्॥६२॥
अव्याजं निष्कपटम्, वृद्धिं विना च। संदधदिति.-- ये ये विद्वांस: प्रथिता: सन्ति ते ते श्रीमत: सुहृत्कोट्यामिति। अमूल्यं बहुमूल्यम् विना मूल्यं च। विद्यालय: 'दादूमहाविद्यालय:’। धन्वन्तर्यौषधालयस्थापनादिवृत्तावगतये स्वामिमहोदयस्य विशेषपरिचयार्थं च रत्नाकरस्य 'आयुर्वेदाङ्क:’ संद्रष्टव्य:।
क.-- साहित्यादिमार्मिकोऽथ दर्शनविमर्शवहो
महामहोपाध्यायादिबिरुदोऽयमिष्यताम्
रत्नाकरवाही महाकाव्यसंग्रहादिपर:
प्रायश: प्रवासी वक्तृताऽर्थेऽयाद्यशस्यताम्।
ग्रहिल: कदाचिदेव, सरल: स्मिताऽऽस्य: सदा
कार्यशतव्यापृत: सुदीर्घाह्निको दृश्यताम्
वेदोदितविज्ञानप्रकाशनेष्वखेदोदयो
गिरिधरशर्मचतुर्वेदो भूरि शस्यताम्॥ ६३॥
संस्कृतरत्नाकरस्य वाहक: (प्रकाशक:)। ग्रहिल: आग्रही। अखेदोदय: नास्ति खेदोदयो यस्य॥६३॥
प्राप्य संनिधाने यस्य काव्य-कथाऽऽलापादिभि:
सकलजनस्य मनस्तोषं प्रसमीक्षध्वम्
तन्त्रे सुप्रगल्भं शब्दशास्त्रपरिष्करे पटु-
मौचित्योपचारे परिनिष्ठितं परीक्षध्वम्।
पाठशालावातायनमध्ये मञ्जुमूर्त्या स्थित-
मध्येतृषु, भृत्येष्वपि मृदुलमुदीक्षध्वम्
शान्तिकरीं मुद्रामाप्य विबुधकरीन्द्रसमं
राजगुरुचन्द्रदत्तचौधरीं निरीक्षध्वम्॥ ६४॥
आ-आप्य। विबुधेषु करीन्द्रसमम्, ऐरावतसमं वा। चौधरीतिमैथिलजातीयोपाधि:॥६४॥
माध्यन्दिनशाखामाप्य काश्यां समधीत्य श्रुतिं
व्युत्पत्तिप्रकाश्यामथ विद्यामधिगत्य ताम्
सदसि घनान्तवेदपाठी पुन: श्रौतविधा-
वग्निचयनान्तक्रियाकुशलोऽवधार्यताम्।
जयपुरराजकीयशालावेदपाठकोऽयं
शिरसि विशालां दधदुष्णीषिकामिष्यताम्
व्यञ्जन्नात्ममानं वैद्यसंमेलने षोडशेऽथ
गोडशेगणेशशास्त्री वैदिको विभाव्यताम्॥ ६५॥
आ-आप्य अवलम्ब्य। व्युत्पत्त्या प्रकाश्या विद्या. व्याकरणकाव्य कोषादि:। जयपुरे जायमाने षोडशे वैद्यसम्मेलने (प्रारम्भे) वेदोक्तमङ्गलं कर्तुं प्रार्थितो गोडशेमहोदय:-'ईदृश्यां सार्वजनिकसभायां वेदश्रवणाऽनधिकारिणो यवनादयोपि तिष्ठन्ति। अत एव वेदमर्यादाभिज्ञस्य वैदिकस्य मे नेदं कर्तव्यम्’ इति सविनयं प्रत्याख्यत्। अयमासीत्पूर्वं संस्कृतकालेजस्य यजुर्वेदप्रधानाध्यापक:। इदानीमेतस्थाने वेदाचार्य: शिवप्रतापमहोदय: पाठयति॥ ६५॥
अध्यापकमुच्चराजकीयाङ्गलविद्यालये
भाषामेतदीयामाप्य सिद्धं सभ्यसंचये
सरलसरलसाधुसंस्कृतसुशिक्षापर-
मविरलगाम्भीर्याभिमानमुन्नताशये।
हेलयैव कवितागवीनां मूर्ध्नि केलिपरं
सूरिसमुद्वेलितसभासु भान्तमुक्तये
सामाजिकशोधकरणाय मण्डलान्त: स्थितं
व्याकरणाचार्यसूर्यनारायणाख्यं श्रये॥ ६६॥
उच्चो राजकीयाङ्गलविद्यालय: 'महाराजा कॉलेज’। एतदीयाम् आङ्गलभाषाम्। सरलसरलेति. संस्कृतशिक्षायां सारल्यपक्षपातिनम् 'सरलसंस्कृतशिक्षक’ विधातारं च। उन्नते निजस्याशये अविरल: अनल्प: गाम्भीर्यस्याभिमानो यस्य तम्। कवितागव्य: कवितागिर:। किञ्च वराक्य: कविता: गोसदृश्यो दीना:, अत एव तन्मूर्ध्नि य: कोपि केलिकरो भवति। विद्वत्पूरितसभासु उक्तये व्याख्यानाय भान्तम् शोभमानम्। सामाजिकेति. पूर्वमयं 'समाजसुधारकमण्डलस्य’ मन्त्री आसीत्॥ ६६॥
न्यायशास्त्रशैलेभ्योऽथ भाईनाथमैथिलेभ्योऽ-
धीततर्कतन्त्रं नीतमन्त्रं प्रसमीक्षध्वम्
तत्तत्कालिकेभ्यो राजतन्त्रपरिचालकेभ्यो
गाढव्यावहारात्प्राप्तलाभमभिवीक्षध्वम्।
व्यङ्ग्यवाग्रसिकमानुकूल्ये मित्रगोष्ठीप्रियं
स्वल्पप्रातिकूल्ये रक्तवदनं परीक्षध्वम्
बद्धसुहृद्भावं भूरि वैयाकरणानां गणे
नैयायिकवर्यं तं कन्हैयालालमीक्षध्वम्॥ ६७॥
शैलेभ्य: शैलवत् अविचलेभ्य:। नैयायिकप्रवराणामेतेषां विषये प्रोक्तं जयपुरविलासे-
'यो जागदीशीं सगदाधरीं विदन्नैयायिको मैथलविप्रपुङ्गव:।
प्रियाद्वयीलालितपादपङ्कज: स भायिनाथोऽस्ति सभासभाजित:॥’
स्वल्पेऽपि प्रातिकूल्ये सति क्रोधोदयेन रक्तवदनता भवतीति परीक्षध्वम्॥६७॥
लब्धाचार्यगौरवो यो ज्यौतिषेऽप्यमन्दीभवन्
पत्रादिषु दर्शनीयहिन्दीलेखमर्माऽयम्
सर्वविधसाहित्यानुरागी लघुलेखपटु-
र्मित्रमण्डलीषु मिलन्मर्मस्पर्शिनर्माऽयम्।
चक्रोष्णीषधारी भाति गुरुतां दधानोऽधुना
प्राप्तराजविद्यालयाध्यापकत्वकर्माऽयम्
वार्ताप्रौढिभावाद्भूरिवेदी परामृश्यतां च
दृश्यतां द्विवेदी गिरिजाप्रसादशर्माऽयम्॥ ६८॥
पत्रादिषु सरस्वती-माधुरी-आदिमासिकपत्रादिषु। सर्वविधं संस्कृत-हिन्दी-बङ्गला-अंगे्रजीमयम्। नर्म हासपरिहास:। गुरुताम् उभयथा, शरीरेण अध्यापनेन च। यो भूरिवेदी स द्विवेदी कथमिति विरोध:, बहुज्ञो यो 'द्विवेदी’त्यवटङ्क इति तत्परिहार:॥ ६८॥
सर्वविधपुस्तकसंग्राहकस्य यस्य गृहे
परितोऽप्युदस्य पत्रराशिमुपलालय
आगन्तुकलोकेभ्य: प्रदर्शयितुर्यंन्त्रगृहं
गेह एव यस्य मुद्रायन्त्रमुपभालय।
ज्यौतिषे गरिष्ठमथ साहित्ये निविष्टतमं
तं हब्बुलगारकुतुकस्थमनुपालय
'काव्यमाला’संपादनगीतगुणगाथमिमं
पण्डितकेदारनाथमचिरान्निभालय॥ ६९॥
यदि किञ्चित्पुस्तकं पत्रं वा तव जिघृक्षितं तर्हि गृहे परितोपि विकोर्ण पत्रराशिम् उदस्य इतस्तत: प्रक्षिप्यं उपलालय अन्वेषय। यन्त्रगृहं राजकीयज्योतिर्यन्त्रशाला 'ऑब्जरवेटरी’, अन्यत्किञ्चिन्न बोध्यम्। मुद्रायन्त्रम् 'पण्डितप्रेस’। हब्बुलगारं त्वस्मदविदित: कश्चित्पदार्थोऽस्ति, यस्य सहयोगेन पुष्टदर्पणोपरि मन्दाघाते कृते वृष्टिर्भवतीति महोदयस्याऽस्य कौतुकास्पदं विज्ञानम्॥ ६९॥
फलितोपसन्ना मतिरस्ति तव ज्यौतिषे चे-
ज्जगन्नाथज्यौतिषिवरिष्ठमुपढौकय
ज्यौतिषे गृहीताचार्यपदमुपनीताऽऽगमं
राजभाषाविज्ञमेतत्सूनुमनुमोदय।
राजकीयशालां दर्शनोपलक्ष्ये गच्छसि चे -
दुत्तरदिक्कक्ष्ये तर्हि दृशमुपरोपय
आयसशलाकान्तिके मत्तगजतुल्यस्थितं
दुर्गादत्तगणकवरेन्द्रमवलोकय॥ ७०॥
फलितोपसन्ना फलितज्यौतिषानुगामिनी। उपढौकय अनुगच्छ। उपनीतागमम् अधीतशास्त्रम्। राजभाषा अंग्रेजी। एतत्सूनुम्, एतस्य श्रीजगन्नाथज्यौतिषिवरिष्ठस्य पुत्रम्। अनुमोदय अभिनन्द। राजकीयशाला संस्कृतपाठशाला। उत्तरदिश: प्रकोष्ठं तदस्ति यस्मिन् साम्प्रतं पुस्तकालयोस्ति। तत्रैव लोहशलाकावेष्टितस्य महावातायनस्य सविधे महोदयस्यास्य पूर्वमासनमासीत्। अत एव आलानस्य सविधे मत्तकुञ्जरवदास्थितम्॥ ७०॥
श्रीमत्कृष्णशास्त्रिमहाभागाज्ज्ञातसाहित्यं हि
मुन्शिप्रवरेण नित्यं मुदितमपेक्षेथा:
वृत्तावुन्नतत्वेपि च वस्त्राद्युन्नतत्वे सदा
भूरिसरलत्वेन प्रवृत्तं सुपरीक्षेथा:।
आलङ्कारिकत्वेपि च वेषेङ्गितसाम्यवशाद्
वाक्यसंनिवेशेऽपि च स्थौल्यगुणं वीक्षेथा:
नस्यभराऽऽधारीकृतनासिकानिकटतटं
काव्यशास्त्रपारीणं बिहारीलालमीक्षेथा:॥ ७१॥
मुन्शिप्रवर: स्वर्गीयो रामप्रतापमहोदयस्तत्प्रतिवेशी। वृत्तावुन्नतत्वेपि संस्कृतकालेजे अध्यापकानां मासिकवृत्तौ उन्नतिर्जाता किन्तु असौ वस्त्रादीनाम् उन्नतिविषये सरलतया प्रवृत्तोऽभवत् अर्थात् न चकार। हन्त जीवितदशायामुपनिबद्ध: सोयं सुहृत्परिहास: स्वर्गं गते तस्मिन्प्रकाश्यत इति खेद:॥७१॥
गणितविभागे यथा भूरिपरिणद्धमतिं
फलितविभागे तथा विज्ञतमं जानीथा:
जाग्रज्ज्जौतिषागमनिविष्टमतेरस्य मुखा-
दद्भुतविशिष्टशतश्लोकानुपगृह्णीथा:।
उज्जयिनी-देहलीप्रभृतियन्त्रशालासखं
वार्द्धकेऽप्यखण्डगतिशक्तिमिमं मन्वीथा:
राजकीययन्त्रशालातन्त्रपरिभावनाय
श्रीगोकुलचन्द्रभावनाय नमस्कुर्वीथा:॥ ७२॥
यन्त्रशाला: जयपुरराजकीयज्यौतिषयन्त्रशाला:, तत्सखं तासां जीर्णतोद्धारकर्तारमित्यर्थ:। सखम् अखम् इति प्रास:। अखण्डा गतिशक्ति: यातायातसामर्थ्यं यस्य। तन्त्रपरिभावनाय प्रबन्धपरिचालकाय, ज्यौतिषयन्त्रशालाया ज्यौतिषिकायेत्यर्थ:। 'भावन’ इति 'गौड’ब्राह्मणानामवटङ्क:। 'भावनाय’ इति चतुर्थी तु 'नमस्कुर्मो नृसिंहाये’ तिवत्॥७२॥
* संग्रह: *
महोदयस्यास्य जन्म १९०९ तमविक्रमवर्षस्य शिवरात्रिदिनेऽभवत्। एपि हि प्रथमप्रथमं जयपुरराज्यान्तर्गते सवाईमाधवपुरे राजकीयप्राथमिकविद्यालयेऽध्यापनमकरोत्। ततो मथुराया: प्रसिद्धश्रेष्ठिमनीरामस्यायं प्रधानज्यौतिषिकोऽभवत्। अनन्तरमेतस्य ज्यौतिषपटिष्ठतामवगत्य जयपुरनरेशेनास्मै १९५५ वि. वर्षे ज्यौतिषयन्त्रालये ज्यौतिषिकपदमदीयत। एष हि यथा गणिते तथा फलितज्यौतिषेऽपि स्फुरत्प्रतिभोऽभवत्। 'पञ्चाङ्गशोधनसमित्या’ मोहमय्यामस्मै भूयसी प्रतिष्ठा 'विद्याभूषण’ इत्युपाधिश्चादायि। एष ज्यौतिषयन्त्रशोधनादिकार्येषु नितरामनुभवी समभूत्। विश्वविश्रुतेन सवाई-श्रीजयसिंहमहाराजेन जयपुरे दिल्ल्यां, काश्याम्, उज्जयिन्यां च ज्यौतिषयन्त्र-शाला निरमीयन्त। तासां जीर्णोद्धार: अनेनैव महाभागेन पुनरक्रियत। उज्जयिनी-यन्त्रकार्यात्संतुष्टेन गवालियरनरेशेनाऽस्मै सुमहत्पारितोषिकमभिनन्दनपत्रं चादीयत। शेखावाटीप्रान्ते फतहपुरनगरेऽपि रामप्रतापचमडियामहोदयेन स्वोपवने ज्यौतिषयन्त्राणि कानिचिदस्थाप्यन्त। तेषामपि स्थापना भावनमहोदयस्य हस्तेनैवाऽभवत्।
अनेन महाभागेन-पञ्चाङ्गकल्पवल्ली-ग्रहलाघवसारिणीमेलापकसारणी-आदयो ज्यौतिषनिबन्धा निरमीयन्त। बालबोधनामकं प्रारम्भिकहिन्दीशिक्षकं प्राणायि। मिथ्याज्ञान-विडम्बनप्रहसनस्य पूर्ति: संशोधनं चाकारि। एतल्लिखितो 'भारतीयवेधपथप्रदर्शक’ नामको हिन्दीग्रन्थ: स्मरणीयोऽस्ति, यस्मिन् ज्यौतिषयन्त्रद्वारा वेधप्रकारस्तद्विषयकं विज्ञानं च प्रदर्शित-मस्ति। अनेन सहैव 'ताराविलास’ नामको नक्षत्रविद्याग्रन्थोपि मुद्रितोस्ति। एष महोदय: सरल-स्वभाव: साहित्ये च परमसहृदय: समभूत्। संस्कृतस्य हिन्द्याश्च चमत्कृतमनोरञ्जककवितानां तु भाण्डागार एवासीत्। सरलतमो धन्यश्चायं ७६ वर्षवयस्क: सन् १९८४ तमे वि. वर्षे लोकान्तरमगात्। परलोकप्रयाणमप्यस्याश्चर्यजनकमेवासीत्। एष हि शिवरात्र्यामेव जन्म लेभे, शिवरात्रिदिन एव च कैलाशवास्यभवत्।
संस्कृतसरस्वतीप्रविष्टोपि रसातिशया-
दिंग्लिशपयस्वतीनिविष्टोऽसौ निरीयते
गौडब्राह्मणेषु 'बावल्या’ प्रसिद्धियुक्तोऽप्येष
विद्याग्रहणे तु सावधानो व्यवसीयते।
लक्ष्मणपुरस्थराजकीयाङ्गलविद्यालये-
ध्यापनं प्रणीयाऽधुना सुस्थमवस्थीयते
पूर्वं न्यायशास्त्रीभवन् एम.ए. पदजुष्टस्ततो
बद्रीनाथशास्त्री सप्रशंसं संनिधीयते॥ ७३॥
य: एकस्यां नद्यां प्रविष्ट:, स: अन्यनदीत: कथं निर्गच्छेत्। परमयं संस्कृतसरस्वती-प्रविष्टोऽपि विद्याध्ययने तथा रसाविष्टोऽभूद् यथा तदनुषङ्गेण इंग्लिशसरस्वतीप्रविष्ट: सन् निरीयते निर्गच्छति। चतुर्थचरणे स्पष्टीकृतमेतत्। 'बाबळ्या’प्रमत्त: (जयपुरीयहिन्दी), गौडब्राह्मणानामवटङ्कश्च। लक्ष्मणपुरम् लखनऊ॥ ७३॥
छप्प. धीरभावमयमुक्तिनिकरमधिसभमुपयुञ्जन्।
संततसुजनसभासु साधुसहभावं युञ्जन्॥
मुद्रायन्त्रयुतोऽपि शिथिलतन्त्रं मुहुरञ्चन्।
चतुरतया तु धनस्य मूलमन्त्रं न विमुञ्चन्॥
रामसभासंयोजनात्प्रकृतधर्ममल्लो जयति।
सपदि तु जपमालां करे बालचन्द्रशास्त्री नयति॥ ७४॥
धीरभावमयम् धीरस्वरयुक्तम्। अधिसभं सभामध्ये। मुद्रायन्त्रं 'बालचन्द्रयन्त्रालय:’। शिथिलतन्त्रं मुहु: गच्छन्, वारंबारं तत्प्रबन्धे प्राचीनगतिमनुसरन्नित्यर्थ:। प्रकृतधर्ममल्ल: सत्यो धर्मवीर:॥ ७४॥
* संग्रह: *
१९१२ तमस्य विक्रमवर्षस्य पौषशुक्लचतुर्थ्यां श्रीमतो जन्माऽभवत्। श्रीमता हि भारतप्रसिद्धगुरूपनामकश्रीजीवनाथमैथिलेभ्यस्तथा तर्कमूर्तिश्रीभाईनाथमहाभागेभ्यश्च न्यायशा-स्त्राध्ययनमक्रियत। यस्मिन्समये श्रीमतो यौवनमासीत्तस्मिन्नेव समये भारते आर्यसमाजस्यापि प्रसृतिरभवत्। प्रसङ्गतश्च आर्यसमाजस्य प्रवर्तक: स्वामी श्रीदयानन्दमहोदयो जयपुरं प्रापत्। धार्मिकजनतायां मा किञ्चन शैथिल्यं भूदिति विचारेण धार्मिकविदुषां साहाय्याच्छ्रीमता 'रामसभाया:’ स्थापनाऽकारि, सदाचारमार्तण्डनामकं मासिकपत्रं च हिन्द्यां प्राकाश्यत। अतिसफलतापूर्वकं सेयं सभा बहूनि वर्षाणि जयपुरे धर्मप्रचारमकरोत्। धार्मिकविषयेषु व्याख्यानादिनापि श्रीमता भूयसी धर्मसेवा कीर्तिश्चातुला समपादि।
एष हि महोदय: खेतड़ीनरेशस्य अन्यान्येषां च कतिचित्सामन्तानां मन्त्रदो गुरुरासीत्। सर्वत: पूर्वं श्रीमतैव १९०३ तमे वि. वर्षे प्रजापक्षान्मुद्रणालयस्थापना जयपुरेऽकारि। एष हि महाभागो गौडज़ातिपरिष्कारेऽपि भूयांसं भागमग्रहीत्। जातौ कुरीतिनिवारणस्य यानि यानि कार्याण्यभवन् तेषु तेषु श्रीमत एव प्रधानं हस्तावलम्बोभवत्। सोयं धार्मिकमल्ल: श्रीमान् श्रावणशुक्लद्वादश्यां (१९९१ वि. वर्षे) धर्मसेवाया: प्रसिद्धं पन्थानं प्रदर्श्य वैकुण्ठवास्यभवत्। एतस्य पं. हरिश्चन्द्रशर्मा बी. ए. एल. एल. बी., पं. मोतीलालशास्त्री (शतपथब्राह्मणादि-भाषान्तरकर्ता) इति पुत्रद्वयमस्ति यद्धि पितु: कीर्तिमुज्ज्वलामेव कुर्यात्।
सर्वदा प्रसन्नमुखमुद्रादर्शनीयतमं
वार्तारसविद्रावितरोगिरोगमीक्षेथा:
जयपुरराज्यपूर्वसामन्तप्रदत्तभूरि-
भूमिमपि सरलनिसर्गं प्रसमीक्षेथा:।
रामानुजसम्प्रदायसारं वहदस्य गृहं
विद्युच्चमत्कारं भेषजागारं परीक्षेथा:
रुचिरचिकित्सयैनमाबालप्रसिद्धनाम-
श्यामलालराजवैद्यमौलिमभिवीक्षेथा:॥ ७५॥
सामन्तै: प्रदत्ता भूरिभूमि: यस्मै, तादृशमपि सरलस्वभावम्। रामानुजेति. - साम्प्रदायिकशैली-चित्रादियुक्तं मन्दिरं वहद् गृहम्। चिकित्सया आबालं प्रसिद्धं नाम यस्य, ईदृशम् एनम्। एतस्य महोदयस्यजीवनवृत्तादिकं तु 'आयुर्वेदाङ्के’ द्रष्टव्यम्॥ ७५॥
आयुर्वेदतन्त्रे प्राप्य मान्यमिहाचार्यपदं
कार्यनैपुणीं यो बहिर्भ्रान्त्वा परिचीय ताम्
नव्यरीतिभव्यभेषजालयमुदञ्चन्निह
दीर्घरोगदावदृढाऽऽघाती संनिधीयताम्।
अर्थेऽवदधान: क्षेमेन्द्रोक्तिचञ्चरीको भृशं
जोषं प्राप्य भूरिवैखरीकोऽसौ समीयताम्
औषधालयैकनिलयत्वाच्चारुचर्य: सदा
श्रीदुर्गाप्रसादवैद्यवर्य: परिचीयताम्॥ ७६॥
बहि: हरिद्वार-देहल्यादिषु। तां नैपुणीम्। उदञ्चन् उद्घाटयन्। दीर्घरोगरूपो यो दाव: (अनल:) तस्य दृढतया प्रतीकारकर्ता, प्रसिद्धश्च वयस्येषु तथा। क्षेमेन्द्रोक्ति: समयमातृकादि: तत्र भ्रमर:। जोषं प्रीतिम्, भाषाप्रसिद्धाम्, उत्तेजनां वा भूरिवैखरीक: सोत्तेजनोत्साहबहुवक्तृताक:। निलय: स्थानम्॥ ७६॥
सवै. चरकादिपुराणभिषङ्निगमे भृशमेतमुपेतमतिं ह्यवगच्छत
गुरुदत्तसमस्तभिषग्विभवं नृपवंशचिकित्सकमच्छलमृच्छत।
सरलस्मितभाषिणमृद्धमिमं गुणिगायकगीतिगुणानपि पृच्छत
तनुशोषक-रुक्परिशोषपटुं ननु नन्दकिशोरभिषङ्मणिमिच्छत॥७७॥
चरक-सुश्रुतसंहितादिर्य: प्राचीनो भिषङ्निगम: वैद्यकशास्त्रं तस्मिन्। एतम् भृशम् उपेतमतिं अनुगतबुद्धिम्। गुरुणा स्वामिमहाभागेन समर्पितसकलवैद्यकतत्त्वम्। अच्छलं यथा स्यात्तथा गच्छत। ऋद्धं धनशालिनम् इमं गुणिनां गायकानां गीतिवैशिष्ट्यमपि पृच्छत, संगीततत्त्वज्ञमित्यर्थ:। तनुशोषिका या रुक् तस्या: निर्मूलनपटुम्॥ ७७॥
सो.-- योयं युगलकिशोरनामा एम्. ए. पदवह:।
अनुज: सोऽस्य किशोर-वयसैव हि विनयोज्ज्वल:॥ ७८॥
अस्य नन्दकिशोरवैद्यस्य। अयं संप्रति राजकीयसंस्कृतपाठशालानां निरीक्षक:॥७८॥
क.-- व्याकरणाचार्यतया व्याकुर्वन् सुरत्नमिव
सूत्रवृत्तिसाधनिकासाधनेऽद्वितीयताम्
शुद्धतया यत्किञ्चिन्मुखाग्रगतमुच्चारयन्
धारयन्निजाऽधिकृतकार्ये माननीयताम्।
मञ्जुनाथ पण्डितेषु पञ्चरङ्गहस्तिसमो
रक्तहस्तिमन्दिरसमीपे परिचीयताम्
प्रख्यापितप्रश्नवरपण्डितसमाजोन्मेष
एष हि मदनमहाराजोऽमन्दमीयताम्॥ ७९॥
सुष्ठु रत्नं यथा प्रोयमानस्य सूत्रस्य व्यापारसाधनिकासाधने अर्थात् सूत्रगुम्फनसौकर्ये अनुपमतां प्रकटयति, तथा पाणिनीयव्याकरणस्य सूत्राणां वृत्तीनां साधनिकानाम् (सिद्धिप्रक्रियाणाम्) च साधने सम्पादने अनुपमतां प्रकटयन् (मदनमहाराज:)। निजाधिकृतेति अध्यापनादिस्वाधिकारकार्ये प्रामाणिकतां धारयन्। पञ्चरङ्गहस्तीति. - पञ्चरङ्गशालिजयपुर-राजपताकाचिह्नितो हस्ती यथा सर्वेषून्नतो भवति, तथा सर्वपण्डितेषूत्तुङ्ग:। रक्तहस्तिमन्दिरं 'लाल हाथी मन्दिर’ एतन्निवासस्थलम्। प्रश्नवर: 'प्रश्नोरा’ इति गुर्जरजातिभेद:। मदनाचार्यमहाभाग: ईयताम् उपगम्यताम्॥ ७९॥
जयपुरराजकीयपाठशालामध्यागतो
व्याकरणाध्यापनतो नन्दति गतच्छलम्
सायं पुन: कालीमन्दिरान्तर्मौनमुद्रासने
सेवते गरुडमुद्रां प्रत्यहमचञ्चलम्।
पञ्चकेशवैभवात्प्रपञ्चयन् स्वतान्त्रिकतां
नानाविधवार्तारसं योऽञ्चति निरञ्चलम्
मानसोपनीतचन्द्रशेखर-मधीतचन्द्र-
शेखर-मभीत चन्द्रशेखरमनर्गलम्॥ ८०॥
शालाम् अध्यागत: प्राप्त:। कालीमन्दिरान्त:, तस्मिन्समये मन्त्रगुरोस्तत्रैवाधिष्ठानात्। मौनमुद्रासने स्थित:। निरञ्चलं निरवसानम् अञ्चति अनुसरति। मानसे उपनीत: चन्द्रशेखर: शिवो येन। अधीत: चन्द्रात् (चन्द्रदत्तमहोदयात्) शेखरो येन। ईदृशं चन्द्रशेखरनामानं विद्वांसम् अनर्गलं निप्प्रतिरोधम् अभीत अभिगच्छत॥ ८०॥
सो.-- अपि नववयसि विराम-विद्या-विनय-विवेकभृत्।
रञ्जयते जयराम-दास: स्वामिसमाजग:॥ ८१॥
नववयसि अपि। विराम: विषयेभ्य उपराम:। रञ्जयते गुणै: सर्वाननुरक्तीकरोति। लक्ष्मीराम-स्वामिमहोदयानामुत्तराधिकारी सोयं संप्रति संस्कृतकालेजे आयुर्वेदद्वितीयाध्यापक:॥८१॥
दो.-- धन्वन्तरिभेषजभवनभव्यभिषक्प्रवराय।
स्पृहय सुकृतसेवाय शुभमति-मुकुन्ददेवाय॥ ८२॥
सुकृतं सेवतेऽसौ सुकृतसेव:। निम्बार्कसंप्रदायानुगतधर्मकार्याण्यनुतिष्ठतीत्यर्थ:॥ ८२॥
सो.-- चन्दनचर्चितभालमालम्बितहयरश्मिकम्।
गोपीनाथमिहाऽलमालक्षय भिषजां वरम्॥८३॥
आलम्बिता: हयस्य रश्मय: प्रग्रहा: (रास) येन, अग्रासनमारुह्य स्वयमेव हयशकटिं चालयन्तमित्यर्थ:। राजवैद्यश्यामलालमहाभागानां भ्रातृव्य: खाण्डलविप्रवर: सोयं वैद्यके प्रसिद्ध:॥ ८३॥
क.-- चिरमजमेरुराजकीयाङ्गलविद्यालयेऽ-
ध्यापननियुक्तो युक्तियुक्तोयं विमृश्यताम्
वैयाकरणोपि चित्रमादधाति रात्रिन्दिवं
मीमांसां प्रतन्वन्नर्थसंग्रहसुजुष्यताम्।
तत्रैवातिसक्तो जातु जयपुरमागतोऽपि
पण्डितसमाजे याति बहुलसदृश्यताम्
व्यञ्जितविभवदत्तगौरवाभिमानभरो
नूनं भवदत्तनामसूरिवरो दृश्यताम्॥ ८४॥
युक्तिर्मितव्ययिता, तद्युक्त:। य: वैयाकरण: स: 'अर्थसंग्रहस्य’ लौगाक्षिकृतग्रन्थस्य सुजुष्यताम् उपगम्यतां कुर्वन् रात्रिं दिवं मीमांसां। (तन्नामक शास्त्रम्) कथम् आदधाति ? इति चित्रम् विरोध:। धनसंग्रहप्रीयमाणतां धारयन् अहर्निशं तद्विषयिकां मीमांसामेव (विचारम्) धारयतीति तत्परिहार:। तत्रैव अर्थसंग्रहे एव। व्यञ्जित: धनवैभवदत्तस्य गौरवस्य (शरीरिकस्य प्रतिष्ठाकृतस्य चेत्युभयविधस्य) अभिमानभरो येन॥ ८४॥
कुहचन रम्यस्थले मोदकरगोष्ठीमाप्य
विविधविनोदपूर्णवार्ता हृदि नीयताम्
शनै: शनै: कालक्रमसंचितोऽर्थकोष इव
निकटगतोऽस्य गुप्तकोषोपि प्रतीयताम्।
विजयां निषेव्य नवव्याडीव प्रचण्डवचा
रेवाड़ीपुरेऽयं चिरात्पाठयन्नभीयताम्
प्राय: प्रभविष्णुदत्तसुरुचिरचित्तवहो-
ऽवश्यं विष्णुदत्तपण्डितोयं परिचीयताम्॥ ८५॥
मोदकरी सुहृद्गोष्ठी, मोदकचिह्नेन भोजनगोष्ठी च। गुप्तकोष: एतन्निर्मितो बृहत् त्रैमासिककोष: यो बहुवर्षेष्वतिक्रान्तेष्वपि न प्रकाशित:, अत एव गुप्त:। प्रचण्ड़वचा: दुर्धर्षवचन:। नवव्याडीति. - संग्रहकर्त्ता मन्ये अभिनवो व्याडी एव समागत:। अभि ईयताम् अभिगम्यताम्। प्रभविष्णुना ईश्वरेण दत्तं निश्छलं चित्तं वहति स:॥ ८५॥
सो.-- न्यायालयाऽनुबन्धि-धर्मविषयनिर्णयकर:।
भाति निर्भरानन्दि - लालचन्द्रमैथिलवर:॥ ८६॥
'अदालत दीवानी’ स्थानस्य धर्मशास्त्री (व्यवस्थाकर:)॥ ८६॥
क.-- जानुदघ्नमेकमङ्गरक्षकं विधाय तनौ
शिरसि निधाय चायमुष्णीषं युगन्धरम्
साक्षात्सुराचार्य इति प्रणतिप्रतीक्षयैव
नमति न पण्डितान्, निरीक्षते तु निर्भरम्।
'बादरमहल’वरणेन मन्त्रमूर्ति: स्वयं
नाऽऽदरमुपैति मार्मिकेषु प्रमदोत्तरम्
ओजायितकार्येष्वपि यो झावुकमूषसम:
सेव्यतां स ओझावंशभूषणो निरन्तरम्॥ ८७॥
जानुदघ्नं जानुपर्यन्तम् अत्युच्चमित्यर्थ:। अङ्गरक्षकम् 'अँगरखी’ वस्त्रम्। युगन्धरम् युगयुगान्तरस्य तैलचिक्कणमतिप्राचीनमित्यर्थ:। अयं साक्षात् सुराणां आचार्य:, न तु सुरायाम्। अत एव अन्यपण्डितकृताया: प्रणते: प्रतीक्षामेव करोति न तु पण्डितान् स्वयं नमति। एवं स्थितावपि अन्यदिङ्मुखो भवति इति न, अपि तु अप्रणमन्नेव तान् निर्भरं निरीक्षते। 'बादरमहल’ स्थानकृतेन राजकीयजपदुर्गापाठ-वरणेन। अत एव मार्मिकेष्वपि पण्डितेषु हर्षपूर्वकम् आदरभावं न उपैति। ओजायितं वीरता। झावुकमूष: 'झाऊ मूसा’ आत्मगोपने प्रसिद्ध:॥ ८७॥
उ.-- वेदाचार्यकपदमयन् वित्सु विनयमयमभिनयन्।
काश्यामध्यापनकरो विजयचन्द्रवैदिकवर:॥ ८८॥
'वेदाचार्य’ इति उपाधिम् अयन् प्राप्रुवन्। वित्सु पण्डितेषु। काशीराजकीयविद्यालये वेदाध्यापक:। हन्त सोयं स्वल्पवयस्येव दिवमारूढ इति खेद:॥ ८८॥
छप्प.-- हिन्दीसंस्कृतपद्ययोजनेऽमन्दीभूतम्
अधिसभमेतच्छ्रावणे च नि:स्पन्दीभूतम्।
प्राक्तनवैयाकरणकेसरित्वं कलयन्तम्
आङ्गलविद्यालये धनिकबालान्विनयन्तम्।
श्लाघयामि कृतिहेतवे सर्वजनश्लाघाकरम्।
सरभसमन्द्रध्वनिधरं विजयचन्द्रपण्डितवरम्॥ ८९॥
अधिसभम् सभायाम् एतेषां पद्यानां श्रावणार्थं नि:स्पन्दीभूतं सुस्थिरम्। धनिकबालान् सामन्तकुमारान् विनयन्तं शिक्षयन्तम्, 'नोबिलस्कूलपण्डितम्’। कृतिहेतवे स्वकार्य-सिद्ध्यर्थम्॥८९॥
राजकीयविद्यालयमध्ये काव्यशास्त्रमध्येजयते य:।
विविधोपायसमाहृतलक्ष्मीर्लक्ष्मीनाथबुधो ह्यवसेय:॥ ९०॥
अभ्येजयते अध्यापनेन प्रभासयतीत्यर्थ:। 'एजृ’दीप्तौ। विविधोपायै: अध्यापन-ज्यौतिष-कर्मकाण्डमहानसप्रबन्धादिभि: अर्जितलक्ष्मीक:। पं. लक्ष्मीनाथशास्त्री दाधीच:। अवसेय: ज्ञातव्य:॥ ९०॥
क.-- शास्त्रिपदधारी काव्य-साहित्यागमे श्रमेण
प्राप्ताचार्यचिह्न: पुनर्व्याकृतिमधीत्य ताम्
शुष्यन्मुखमण्डलस्य यस्य भ्रुवोर्मध्ये शोण-
शोभनस्त्रिकोणतिग्मतिलक: प्रतीयताम्।
चित्ते महामहाराष्ट्रभावनया भव्यीभवन्
प्रावेशिकपाठने परिश्रमी प्रणीयताम्
यो धर्माधिकारिपदचिह्नितो विभाति सदा
गोपीनाथशर्मा साधुकर्मा सोऽयमीयताम्॥ ९१॥
व्याकृतिं व्याकरणशास्त्रम्। तिग्म: तीक्ष्णाग्रभाग:। पं. गोपीनाथ धर्माधिकारी ईयतां प्राप्यताम्॥९१॥
दो.-- नेया दृङ् नैयायिके नन्दकिशोरे नाम।
यस्तर्काध्यापकपदं संप्रति समधिजगाम॥ ९२॥ दृष्टिर्नेतव्या। संस्कृतकालेजे तर्कशास्त्रस्य द्वितीयाध्यापकपदम्॥ ९२॥
उ.-- बहुकालादध्यापयन् अधिसंस्कृतविद्यालयम्।
प्रवेशिकागणितोच्चयम् रामचन्द्रविद्वानयम्॥ ९३॥ प्रवेशिकायां प्रधानगणिताध्यापको ज्यौतिषशास्त्री पं. श्रीरामचन्द्रमहोदय:॥ ९३॥
क.-- भ्रातृवरमन्नालालगणकमवाप्य सह
संपन्नाऽचिरप्रसिद्धिमखिलसुधीचये
सदाचारविद्यालय-कन्यापाठशालाधिपं
व्यापारादिसंपादितसंपदमुदञ्चये।
एका गृहकार्यायाऽपराऽथ शिक्षाकार्यायेति
सर्वदाऽस्य भार्याद्वयमुचितं प्रतर्कये
लोकहितकारिसभाकार्याणाममन्दमति-
मिह शिवनन्दशर्मपण्डितमुदीरये॥ ९४॥
अखिलपण्डितसमूहे संजातशीघ्रप्रसिद्धिम्। अनेन हि व्यापारिणामार्थिकसहाय्यं प्राप्य 'चतुर्भुजमन्दिर’स्थ: सदाचारविद्यालयोऽस्थाप्यत। तत: स्वदत्तभवने 'सरस्वती-कन्या-विद्यालय:’ स्थापित:। अधुना च 'शिवरामछात्रालय’नाम्ना प्रारम्भिकशिक्षालय: स्थापित:। उदञ्चये अभिगच्छामि। लोकहितकारीति. - यथा हि बहूनि दिनानि यावत् 'सनातन-धर्ममण्डल’स्य मन्त्रिताकार्यं साभिनिवेश-मक्रियत। उदीरये वर्णयामि॥ ९४॥
उ.-- प्रहरिवदास्थितविप्रतति-महरिह वरणे योजयति।
डहरिमारुतिस्थानपति-लहरिगणकवर उल्लसति॥ ९५॥
राजान्त:पुरादिषु वरणप्राप्त्यर्थं प्रहरि (यामिक) वत् गृहे अवस्थितां ब्राह्मणमण्डलीम्। अह: एकदिनं यावत् वरणे स्थापयति। डहरिमारुति: 'डहर के बालाजी’॥ ९५॥
पञ्चाङ्गं यो मुद्रयति, समये सुमनसि संदिशति।
केवलगणकसुकुलमवति, स हि नारायण उल्लसति॥ ९६॥
सुमनसि दिशति पण्डिते ददाति। अन्योपि निजपञ्चाङ्गं पूर्वं गोपयति, तत: समयोपरि सुन्दरमानसे कस्मिंश्चित् समर्पयति॥ ९६॥
क.-- कैशोरे कवित्वबजीमाप्य कृतिमाकलयन्
लोकसाधुवादै: कृतिमानी सुकवीयते
साहित्यं समाप्य शास्त्रिपदवीप्रलब्धावेव
सिद्धिस्तव-वाणीलहरीषु व्यवसीयते।
नानाविधोपाधिभरैरुदरप्रशस्तिकरो
गर्वभरोन्नद्धो गुणजात्या गुरौ गीयते
नामावलदाधीचेषु नैपुणनिहितनामा
सूरिर्हरिनारायणनामा सोऽयमीयते॥ ९७॥
कृतिं कविताम्। सिद्धिस्तव-वाणीलहरीप्रभृतिरचनासु व्यवसीयते व्याप्रियते। नानाविधोपाधि-समूहै: 'कविभूषण आशुकवि महोपाध्याय’ प्रभृतिभि: (उपलक्षित:)। 'उदरप्रशस्ति’ नामककाव्यनिर्माता। गुरौ गुरुविषयेपि गुणजात्या गर्वभरोन्नद्ध: कथ्यते। 'नामावल’ इति दाधीचानां गोत्रावटङ्क:॥ ९७॥
सो.-- यस्य मनसि घनघोर-यत्नो वसति यश:कृते।
नन्दति नन्दकिशोरनामा नामावलवर:॥ ९८॥
साहित्याचार्य पं. नन्दकिशोरशर्मा दाधीच:, यो हि वृत्तिं प्रदाय गवेषणाकार्यशिक्षार्थं जयपुरशिक्षाविभागेन काश्यां प्रहित:। अयं महाभाग: सम्प्रति राजकीयसंस्कृतपाठशालायां साहित्यद्विती-याध्यापक: संजात:॥ ९८॥
क.-- पूर्वं भारतीसर्वस्वमङ्गीकृत्य, रत्नाकरे,
जयपुरवस्तुसङ्गी कुम्भजमुनीयते
शब्दोच्चारणेषु बहिरङ्गीकृतरेफगणो
भङ्गश्लेषभङ्गीदत्तचित्तोऽसौ समीयते।
पिङ्गलादधिकमेष डिङ्गलानुरागी, सभा-
मङ्गलाय पाण्डवीयस्यन्दन उदीर्यते
कार्यसाधनाऽभिधमबाधवनमालोडय-
न्माधवमहोदयोऽयमारात्परिचीयते॥ ९९॥
'भारतीसर्वस्व’ नाम्नो हिन्दीमासिकपत्रस्य प्रकाशनमारब्धमासीत्। जयपुरवस्त्विति.- जयपुरवस्तुप्रचारकार्यालयं विशालवीथ्यां संस्थाप्य व्यापार: प्रारब्धोऽभूत्। रत्नाकरे (संस्कृतरत्नाकरे) अगस्त्यायते, सोत्साहमङ्गीकृत्य तं प्रलोपयामासेत्यर्थ:। भङ्गश्लेषस्य भङ्गी यथा-मदरसा, मदर-सा मातृवत् पोषक: इत्यादि। समीयते संप्राप्यते। व्रजभाषासाहित्यं ''पिङ्गल’’ नाम्ना, राजस्थानीय 'चारण’भाषासाहित्यं च 'डिङ्गल’ नाम्ना प्रथितम्। सभासु मङ्गलाचरणे 'श्रीयदुनन्दन पापनिकन्दन पाण्डवस्यन्दन हांकन हारे’इत्यादि सवैयाछन्द: प्रायोऽधिकमाकर्ण्यते स्म। स्वकार्यसाधनरूपम् अबाधं वनं गाहमान:। माधव: (वसन्त:) वनं गाहमानो भवति। साध. बाध. माध. इति प्रासा:। 'आराद्दूर-समीपयो:’ उभयथापि॥९९॥
सो.-- कतिसमृद्धि-पदशुद्धि-सिद्धिषु पटुमनुविद्धि यम्।
बुद्धिषु को निरुणद्धि वृद्धिचन्द्रवरविद्धियम्॥ १००॥
कार्यकौशलम् शब्दानां साधुत्वम्, तेषां सिद्धि: साधनप्रक्रिया, एतेषु व्याकृतिकार्येषु यं (वृद्धिचन्द्रम्)पटुम् अनुविद्धि जानीहि। बुद्धिविषयेषु वृद्धिचन्द्राख्यस्य वर-विद: (श्रेष्ठविदुष:) धियं को निरुणद्धि? 'विद्धियम्’ यमक:। व्याकरणधर्मशास्त्राचार्य पं. वृद्धिचन्द्रशर्मा॥१००॥
श्रीमधुसूदनदत्त-वैदिकविज्ञानोदये।
साशं दृशमुपदत्त मोतीलालमहोदये॥१०१॥
विद्यावाचस्पतिश्रीमधुसूदनशर्ममैथिलैरुपदिष्ट: वैदिकविज्ञानस्योदयो यस्मै। साशम् आशया सहितं यथा तथा, एतत्सकाशात् वैदिकविज्ञानप्रचारस्य भूयसी आशेति भाव:। शतपथब्राह्मणादिभाषान्तरकर्ता बालचन्द्रमुद्रायन्त्रालयाध्यक्ष: पं. मोतीलालशास्त्री॥ १०१॥
क.-- यस्य हि पितामहोऽगदंकारेषु कीर्तिमधा-
त्काव्यकला-लङ्कारेषु चाऽगादुपश्लोक्यताम्
भङ्गरससेवकोऽपि गङ्गाधरस्तातो यस्य
वैदुष्याऽनुषङ्गाद्ययौ सद्भिरुपढौक्यताम्।
मञ्जुनाथशकटिनिधानतोऽतिहानिं गतो
विग्रहं विधाय वंशतोऽयात्खलभोग्यताम्
परिहरणीयेष्वपि पर-हरिभावाऽऽकुलो
नरहरिभट्ट: सैष सादरं विलोक्यताम्॥ १०२॥
पितामह: श्रीकृष्णरामभट्टमहोदय अगदंकारेषु वैद्येषु उपढौक्यताम् अनुसरणीयताम्। गृहे घोटकशकट्यादिस्थापनप्रभृतिभिर्व्ययबहुलकार्यै:। मञ्जुनाथस्य शकटिरति त्वर्थो नोचित:। वंशत: स्ववंशजै: सह कलहं विधाय गृहभेदसंतोषिणां खलानामुपभोग्यताम् अयात्। गृहे कलहप्रवर्तकतया सर्वस्वभक्षकतया च परिहरणीयेषु दूरतस्त्यक्तव्येष्वपि वाक्कील-'कामदार’ प्रभृतिषु 'अयम् अपर: हरि: (भगवान्)’ इति आदरभावा-ऽऽकुल:॥१०२॥
दो.-- धनविलासविन्मतिबलात्कृतिलालित्यमुपैति।
चित्रकलालवलास्यधृक् कलाधर: समुदेति॥ १०३॥
कृतिलालित्यम् दोहादिकवितामाधुर्यम्। कलाधर: कलाधरभट्टमहोदय:। अन्य: कलाधरोपि चन्द्रोऽपि चित्रं यथा तथा कलानां लास्यधृग् सन् उदेति। किञ्च तस्मिन्सयमये धनविलासविदां कामिनां मतिबलात् कामकलनालालित्यं प्राप्यते॥ १०३॥
क.-- बहुलं प्रजासु कर्मपाटवं विवृण्वन्नेव
क्रमशोऽयं राजकीयकार्यगो निरीक्ष्यताम्
कर्मकाण्डकूटस्थले कौशलेन जल्पन् वच-
श्चातुरीबलेन लब्धकीर्ति: प्रसमीक्ष्यताम्।
कर्मकाण्डतुल्यमेव नर्मकाण्डवेदी भृशं
प्रासङ्गिकवार्तापटु: प्रचुरं परीक्ष्यताम्
अधुनोपलभ्यमानवैदिकसच्चूडामणि:
सोयं बत बच्चूलालचौबे चिरमीक्ष्यताम्॥ १०४॥ कर्मपाटवं याजमानिककार्यकौशलम्। नर्म परिहास:। उपलभ्यमानेषु वैदिकेषु सन्॥१०४॥
सो.-- साहित्योन्नतिदायि-हिन्दीविद्यालयधरे।
गौरवमतिमुपयाहि गौरीलालकवीश्वरे॥ १०५॥
हिन्दीविद्यालय: 'कविमण्डल-हिन्दीसाहित्यपाठशाला’, तत्परिचालके। कान्यकुब्जवंशप्रसूतो जयपुरराजकीयकवीश्वराणामन्यतम: सोयं महाभागो नि:स्वार्थभावेन हिन्दीसाहित्यपाठशालाया अध्याप-कत्वमन्यान्यच्चानुषङ्गिकं तत्कार्यं निरुह्य तामेतां पाठशालां बहूनि वर्षाणि यावत्साफल्यपूर्वकं परिचाल-यामास। अस्यां पाठशालायामधीत्य, 'हिन्दीसाहित्य-संमेलन’ परिचालिता: प्रवरपरीक्षाश्च समुत्तीर्य बहव: स्नातका हिन्दीसाहित्यधुरां धरन्ति। हन्त सोयमकाण्ड एव लोकान्तरमुपययौ!॥१०५॥
दो.-- कविवरपद्माकरकुलजमसहजकविता यस्य।
गणय गिराधरकविमिमं कविगणने विन्यस्य॥ १०६॥
गोविन्दरावेतिख्यातनामकस्तैलङ्गभूसुरोऽयम्॥ १०६॥
सो.-- यत्पाठ: पुनरायमिश्रो भाति फलोदयात्।
सोयं सुन्दररायमिश्रो मञ्जुमना लसति॥ १०७॥
येन कृतो वाल्मीकिरामायणादेर्वरणपूर्वक: पाठ: आयेन धनागमेन मिश्र:।
अयं हि पारिश्रमिकं धनं नियतीकृत्य पाठपुण्येन लोकानां कार्याणि साधयामास॥ १०७॥