उद्यानवीथी
* रामनिवास:*
साङ्गानेरगोपुरसमीपवर्तिद्वारदेश-
मुल्लङ्घ्येममातुरचिकित्सालयमीक्षेथा:
'मेयो’मूर्तिमालोक्यैव जन्तुशालानिकटपथा-
द्वर्तुलविशालां बैण्डवेदिं प्रसमीक्षेथा:।
मञ्जुनाथ नानाविधविटपिनिरुद्धरवि-
रश्मिपुञ्जमेतं लताकुञ्जमभिवीक्षेथा:
वाञ्छसि सुखेन यदि संतापोपराममये
'श्रीरामनिवास’ नामपौराऽऽराममीक्षेथा:॥ १॥
साङ्गानेरगोपुरसमीपस्थं द्वारम् उल्लङ्घ्य। एतेन इत आरभ्यैव तद्दर्शनक्रम: सूच्यते। वायसराय लॉर्ड मेयोमहोदयस्य स्मारकरूपे स्वर्गीयमहाराजाधिराजश्रीरामसिंहदेवेन 'मेयो हॉस्पिटिल’ नाम्ना आङ्गलचिकित्सानुसारी सोयमातुरालयो निर्मापित:। अत्र हि नागरिका विना मूल्यमेव चिकित्सां लभन्ते। भारतवर्षीयप्रसिद्धातुरालयेषु परिगणितेऽस्मिन् सुयोग्या: सिविलसर्जना एव प्रधाना भवन्ति। अनेके च डाक्टरास्तदायत्ता नियतचिकित्सां कुर्वन्ति। अत्र हि दूरदूरतो नेत्र-व्रणादिरोगिण: समायान्ति। प्रतिवर्षं परोलक्षमुद्राव्ययो भवति। चिकित्सालय: आतुरनिवासश्चेत्युभय-संबद्ध: सोयम्! वर्तुलां वृत्ताकारां विशालां च बैण्डवाद्यवेदिं 'बैण्ड स्टैण्ड’। अये! यदि संतापोपरामं वाञ्छसि॥ १॥
* जन्तुशाला*
केसरसटावान् हरिरेकतोऽयमुद्गर्जति
मृग-शश-कीशादिकमन्यतोऽपदिश्यताम्
कङ्क-कलहंस-कोक-बक-जलकुक्कुटादे:
संमुखे कपोत शुक-लावादिकमिष्यताम्।
गर्तगतभल्लूकान्तिकेऽसावुष्ट्रपक्षी भाति
नानाजातिजन्तुसहसंस्थितिर्विमृश्यताम्
लम्बलोहजालाच्छन्नजन्तुगृहमाला, पुर:
सेयं राजकीयपशुशाला परिदृश्यताम्॥ २॥
अपदिश्यतां दर्शनाय व्यवह्रियताम्। गर्तगतो यो भल्लूक: ऋक्ष: तस्य समीपे, उष्ट्रपक्षी 'शुतरमुर्ग:’, अनेन द्वयो: स्थानसंनिवेशो दर्शित:। नानाजातीयानां शुक-लावक-तित्तिरादीनामेकपञ्जरे स्थितिर्जन्तुस्वभा-वालोचकानां विशेषकौतुकावहेति सूच्यते। दीर्घेण लोहजालेन परिवृता जन्तूनां गृहमाला यस्यां सा॥ २॥
* ऐलबर्टभवनम् 'ऐलबर्ट हॉल’*
सूर्याचन्द्रमोभ्यां परिपालितमिवोपरितो
जैपुरनरेशैरग्रतोऽधिष्ठितमीयताम्
उपरिविलम्बि-विद्युद्वर्तिशतदन्तुरितं
काचमणिदीपाधारयुगलमुदीक्ष्यताम्।
श्रीमद्रामसिंहमहाराजेनैलबर्टकृते
निर्मापितमादर्शोऽयं शिल्पिकृतेर्वीक्ष्यताम्
हंहो प्रतिवत्सरं परीक्ष्यमाणबालमिदं
विशदविशालमेलबर्टहालमीक्ष्यताम्॥ ३॥
एलबर्टभवनस्य उपरिभागे एकत: सूर्यस्य अपरतश्चन्द्रस्य रथाधिष्ठितं चित्रं काचाच्छन्नजालि-कायामालोक्यते, तत्रोत्प्रेक्षा। द्वाराग्रभागे च-महाराजपृथ्वीराजमारभ्य अर्वाचीन-स्वर्गीयमहाराजश्रीमाध-वसिंहदेवपर्यान्तानां जयपुरराजानां विशालचित्राणि सन्ति, अतस्तदधिष्ठितमिदम् ईयतां प्राप्यतमाम्। विद्युद्वर्तिशतै: दन्तुरितम् उन्नतदन्तशोभितम्। दीपाधारयुगलं 'झाड’द्वयम्। महामूल्यं महाविशालं चेदं शिल्पकलाभृतं लोकानां विस्मापकमस्ति। इदं शिल्पिनां कृते: रचनाया: आदर्शभूतम्। परीक्ष्यमाणा: बाला यस्मिन् तत्। प्रतिवर्षं परीक्षाभवन (Examination Hall) रूपे व्यवहृति: सूच्यते।
ऐतिहासिकवृत्तम्-- प्रजानामानन्दार्थम् 'एलबर्ट एड्वर्ड प्रिंस आफ् वेल्स’ महोदयस्य स्मरणार्थं च स्वर्गीयमहाराजश्रीरामसिंहदेवेन तदिदं निर्मापयितुमारब्धम्। ६ फरवरी सन् १९७६ समये प्रिसं आफ् वेल्समहोदयेन निजहस्तद्वाराऽस्य शिलान्यास: कृत:। स्वर्गीयमहाराजश्रीमाधव-सिंहदेवस्य समये तदिदं पूर्णतया निर्मितमभूत्। 'एड्वर्ड ब्राडफोर्ड’ महोदयेन (एजेन्ट गवर्नर-जनरल राजपूताना) २१ फर्वरी सन् १८८७ समये स्वहस्तेनोद्घाटितम्। अस्य निर्माणे ४९४५४४) रूप्यकाणां व्यय: समभूत्॥ ३॥
विचित्रवस्तुभवन् (म्यूजियम)
रोचितचतुर्दिक्चतुर्गुल्मटिकागुल्मवृता
मर्मरकृताऽसौ चारुचूडा परिलोक्यताम्
मर्मरगवाक्ष-जाल-कट्टहरश्रेणिभृता
शिल्पिकृता पञ्चतलपङ्क्तिरुपश्लक्यताम्।
मञ्जुनाथ नीचैस्तले बौद्धकालचित्रच्छटा-
रुचिरपटावृतेऽत्र दृष्टिरुपढौक्यताम्
विभवविलसोदयात्स्वर्गपरिहासोद्यतं
श्रीरामनिवासोद्यानहर्म्यमवलोक्यताम्॥ ४॥
शीर्षदेशमारभ्य वर्णनमिदम्। रोचिता: शोभिता: चतुर्दिशो येन ईदृशेन चतु:संख्याकेन गुल्मटिकागुल्मेन (गुम्बज-बुर्ज-छतरी) वृता मर्मरपाषाणनिर्मिता चूडा शिरोभाग:। कट्टहर: 'कटहरा’। पञ्चतलानां खण्डानां पङ्क्ति: समूह: उपश्लोक्यतां श्लाघ्यताम्। बौद्ध-कालिकचित्रच्छटया रुचिरे, पटै: आस्तरण-जवनिकादिरूपै: आवृते।
ऐतिहासिकवृत्तम् - स्वर्गीयमहाराजश्रीरामसिंहदेवेन फतहसिंहराठोढस्य मन्त्रित्वे १८७६ तमे ख्रिष्टाब्दे तदिदं निर्मापयितुमारब्धं स्वर्गीयमहाराजश्रीमाधवसिंहदेवेन च कान्तिचन्द्रवन्द्योपाध्यायस्य मन्त्रित्वे १८८७ तमे ख्रिष्टाब्दे च तदिदं पूरितम्। एतद्भवनस्य निर्माणे ५१००३६) रूप्यकाणां व्ययोऽभवत्। वस्तूनि तु पृथक् समगृह्यन्त यानि अनन्तमुद्रामूल्यानि सन्ति। भवनस्य निर्माणं कर्नल एस्. एस. जेकबमहोदयस्य निरीक्षणे मीर तजम्मुल हुसेनस्य प्रबन्धे समभूत्। लालारामबख्श-शङ्करलाल-छोटीलालादिभिश्चित्र-शिल्पिभि: चन्दर-तारादिभिश्चित्रकारैश्चाप्यत्र निजशिल्पं प्रकटितमस्ति। दर्शनीयवस्तूनां संग्रहस्तु लेफ्टिनेंटकर्नल टी. एच् हेंडलीमहोदयस्य निरीक्षणेऽभवत्। अस्य कार्यारम्भ: सन् १८८१ वर्षे, उद्घाटनं च १८८७ वर्षस्य फर्वरीमासे समभूत्। श्रूयते यत् तस्मिन्काले नवनिर्मिते कौंसिलभवने नानादिग्देशागतै: समृद्धव्यापारिभि: 'मीना बाजार’नाम्ना नानाविधानि विविधदेशीयानि च शिल्पवस्तूनि प्रसारितान्यासन्। अतिबुद्धिमता यशस्विना च महाराजेन श्रीमाधवसिंहदेवेन तानि सर्वाणि राजकोषत: क्रीतानि। एतान्येव च वस्तूनि 'म्यूजियम’ भवने प्रतिष्ठाप्य कार्यारम्भ: कृतो योहि सांप्रतमत्युन्नतिं गत:। एतद्भवनं विश्वविदितेषु शिल्पस्मारकगृहेषु परिगण्यते। भूमण्डलस्य चतुर्दशाश्चर्येषु तदेतद्भवनमपि ससंमानमाख्यायते लौकै:। विचित्रवस्तुसंग्रहालयश्चायं भारतीयेषु एतेषु (म्यूजियम) अन्यतम:। अस्य हि दर्शनीयसामग्री शिल्प-इतिहास-शिक्षा-अर्थशास्त्र-इति चतुर्षु विभागेषु वर्गीकृता। या हि सम्प्रति भूयस्तरामुन्नतिं वृद्धिं च गमिता। अस्येतिहासो 'राजवीथ्यां माधवंसिंहमहाराजस्य जीवनचरिते’पि द्रष्टव्य:॥४॥
कुहचन नानाविधधातुवरशिल्पभृतं
कुहचिदनल्पशिलाशिल्पमुपभाल्यताम्
कुत्रचिदनेकदेश-भूषा-वेष-मर्त्यवृन्द-
मौषधिविशेष-जीवजातमधिपाल्यताम्।
क्वापि चैतिहासिकमनुष्य-मुद्रा-मूर्ति-युतं
क्वचिदुचितं नु चित्रजातमुपलाल्यताम्
विश्वमिव विष्वग्विधिविरचनचित्रवृतं
विविधविचित्रवस्तुवेश्म विनिभाल्यताम्॥ ५॥
रौप्य-ताम्र-पित्तलादिधातूनां वरेण शिल्पेन मूर्ति-पात्रादिरूपेण भृतम्। शिलाशिल्पं पाषाणस्य मूर्ति-गृहादिकलारूपम्। नानादेशीयानां भूषण-वेष-विन्यास-मनुष्याणां वृन्दम्। अधिपाल्यतां दृश्यतामिति यावत्। विष्वक् समन्तत: विधिविरचनस्य विधातु: सृष्टिरचनाया: चित्रैर्वृतं विश्वं जगत्। सर्वदृष्ट्या, चित्रै: जगति आश्चर्यभूतैर्वा पदार्थैर्वृतम्॥ ५॥
क्रीडाक्षेत्राणि
'क्रिकेट’ धावित्वाऽपरेण क्षिप्तमेतद्विकिटान्तरतो
लकुटाहतं चोच्छलत्खे गेन्दुकमीक्ष्यताम्
'टैनिस’ मध्ये जालमालम्ब्याऽथ जालकाष्ठपट्टिकया
गेन्दुकमाहन्यमानमेतत्सुपरीक्ष्यताम्।
'फुटबाल’ देशक्रीड़ाजातमिव पादघातमाहत्यैत-
दितस्तत: क्षिप्तं पादकन्दुकं समीक्ष्यताम्
पूर्वतनक्रीड़ानां प्रसह्य कण्ठपीड़ाकरं
नानाविधमेतच्छिशुक्रीड़ागृहं वीक्ष्यताम्॥ ६॥
अपरेण 'बॉलर’ इति ख्यातेन धावित्वा क्षिप्तम्। 'विकिट’ उभयप्रान्ते रोपितं यष्टित्रिकम्। लकुटेन 'बैट’ इति ख्यातेन आहतम् अत एव खे उच्छलत्। जालकाष्ठपट्टिका 'टैनिस’ क्रीड़ाया: रैकट। क्रीडाजातं क्रीडा समूह:। पादघातं पदेन हत्वा, णमुल्। पदेन आहत्य इतस्तत: क्षिप्तं देशीयक्रीड़ावृन्दमिव स्थितं पादकन्दुकं 'फुटबाल’ दृश्यताम्। आभि: क्रीड़ाभि: कबड्डीपालादिप्राचीन-क्रीडानां निर्वासनेन तासां कण्ठपीड़ा कृतेत्याशय:॥६॥
* 'बैण्ड’ वाद्यम्*
नानाविधपुष्पभरैर्नेत्रे परितर्प्य भृशं
शाद्वलहरित-हारि-क्षेत्रे परिघूण्र्यताम्
शिमलागृहेऽन्तर्ग्रीष्मविद्रावणमारचय्य
श्रावणसुभाद्रपदसुषमा निर्वर्ण्यताम्।
सरलसोपानपथमारुह्याऽथ दक्षिणेन
मञ्जुनाथ वाग्भिर्जलकुण्डमुपवर्ण्यताम्
सायं सोमसौम्ययो: समन्तादवबध्येक्षणं
बैण्डवेदिमध्ये बैण्डवाद्यमिहाकर्ण्यताम्॥ ७॥
शाद्वलेन हरितदूर्वापट्टेन हरिते हारिणि सुन्दरे क्षेत्रे 'फील्ड’। घूर्ण्यतां परिभ्रम्यताम्। श्रावण-भाद्रपदमासयो: सुषमा शोभा। अनेन-जलयन्त्र-साहाय्येन परितो भवन्ती वर्षा सूच्यते। अत एव 'सावन-भादवा’ इति नाम्नाऽस्य स्थानस्य लोके ख्याति:। दक्षिणेन मेयो हास्पिटलद्वारत: प्रविश्य पशुशालामुल्लङ्घ्य प्रत्यङ्मुखमागच्छत: पुरुषस्य कृते दक्षिणदिशि। सौम्यो बुधवार:। ईक्षणम् अवबध्य दर्शनव्यापारं त्यक्त्वा। नेत्रे निमील्य वा अनेन 'लय’शून्यस्य आङ्गलसंगीतस्य क्रम: सूचितो यो ह्यस्मिन् वाद्ये उपादीयते। लयमाधुर्यमन्विष्यता संगीतमार्मिकेण तदिदं वाद्यम् असह्यतया नेत्रे निमील्य यथाकथंचिदाकर्ण्यत इत्यर्थ:॥ ७॥
* मानप्रकाश 'सीनेमाभवनम्’*
सवै.-- बहुदूरत एव मिलत्प्रमदैर्निनदैर्जनमानसमोदमुदीक्षे।
निकटे त्विह रामनिवासतटे चपला-रुचिरुत्प्रकटेति परीक्षे॥
स्फुटवाग्भिरुदञ्चितचित्रपटै: प्रकटैव हि नाट्यकलेति समीक्षे।
नवकौतुकिनामभिलाषहुताशविकाशकमानप्रकाशमपीक्षे॥८॥
मिलन् प्रमद: (हर्ष:) येषु अर्थात् हर्षोत्पादकै: निनदै: गीतिस्वनै: दूरत एव जनानां मोदं पश्यामि। चपलारुचि: (विद्युत्प्रकाश:) उत्प्रकटा अत्युन्नततया दूरतो दृश्या। स्फुटा मनुष्यवाक् येषु तै: उदञ्चितै:, चलद्भि: चित्रपटैर्नाटकीया लीलाऽविकलं प्रदर्श्यत इति भाव:। अपि ईक्षे। 'मानप्रकाश’चित्रभवनमपि पश्यामीत्यर्थ:॥ ८॥
* नवनिर्मित: कालेजपरिसर:*
स्वस्वविषयेषु भूरिनिपुणो विपश्चिद्गणो-
ऽध्यापयति च्छात्रान् यत्र हर्म्यतले निस्तुले
विज्ञानोपयोगिबहुमूल्यवस्तुजालेनेह
वैज्ञानिकशालेयं विभाति नित्यनिर्मले।
क्रीड़न्ति हि छात्रा यत्र सायन्तनकाले पुर:
प्राङ्गणान्तराले दिव्यदूर्वाहरितस्थले
मानमहीपालेनोपवेशितो विशाले स्थले
राजकीयकालेजोऽयमालेख्यो मनस्तले॥ ९॥
विपश्चिद्गण: विद्वत्समूह:। निस्तुले अनुपमे 'सुन्दरे’। नित्यनिर्मले कालेजे वैज्ञानिकशाला 'लैबोरेटरी’ बहुमूल्यवस्तुसमूहेन विभाति। राजकीयकालेज: 'महाराजास् कालेज’, मनस्तले आलेख्य: अङ्कनीय:॥ ९॥
* फतह टीबा 'तोपध्वनि:’ *
गगनमवाप्य गाढगन्धवहाद्वेणीभवन्
बाढमवगूर्णो गिरिश्रेणीमभिगम्य ताम्
ध्वनितो दिगन्तरेषु यातो गिरिगह्वरेषु
मिलितो रवेण विहगानां परिभ्राम्यताम्।
मारुतमहिम्ना घनवृक्षमण्डलीषु मिलन्
कर्णशष्कुलीषु किरन् मोदं परिभ्राम्यताम्
क्लीबानभिधुन्वन् फतेटीबामध्यदेशेऽधुना
क्षीबायित: सोयं तोभनिर्घोषो निशम्यताम्॥ १०॥
गाढगन्धवहात् प्रबलवायोर्वशात् वेणीभवन् वेणीरूपेण उपरि गच्छन्नित्यर्थ:। गिरिश्रेणौ प्रतिध्वनिना बाढम् अवगूर्ण: गुञ्जित:। घनासु निबिडासु वृक्षमण्डलीषु। परिश्राम्यतां श्रमजीविनाम्, पूर्वं हि मध्याह्ने तोपध्वनिश्रवणोत्तरं तेभ्य: अवकाशोऽदीयत। क्षीबायित: मत्त इव सर्वत: प्रसरन्। तुभ्यते अनेनेति तोभ: 'णभ तुभ’ हिंसायाम्॥ १०॥
श्रीमानगुल्मटिका ('स्टेच्यू-सरकिल’)
दक्षिणतो यस्य मानसैन्योपनिवेशो भाति
नव्योपनिवेशो यस्य चोत्तरतो वीक्ष्यताम्।
पश्चिमतश्चोमूपतिसदनं समीक्ष्य, ततो
ह्यामुखतो भव्यभेषजायतनमीक्ष्यताम्।
चत्वारो विशालपथाश्चञ्चन्ति हि चतुर्दिक्षु
यस्य मञ्जुता च महत्ता च सुपरीक्ष्यताम्
मानमह्यमानसरमिरजाप्रसाद्यमान-
मानभूरिमान'मानगुल्मट’ मुद्रीक्ष्यताम्॥
मानसैन्योपनिवेश: 'मानगार्ड’। नव्योपनिवेश: 'न्यूकौलोनी’ [प्राचीन गन्दी-मोरीसमीप-वर्तिनवीनसंनिवेश:]। भव्यभेषजा.-- 'लेडी विलङ्गडन हॉस्पिटल’। मानमह्यमान. - मानेन श्रीमन्मानसिंहनरपालेन मह्यमान: सत्क्रियमाणो यो मिरजा इस्माइलमहोदयस्तेन प्रसाध्यमानम् अलंक्रियमाणम्। मानभूरि.-- मानेन दैर्ध्यायामादि-परिमाणेन बहुमानम् (अधिकसमादरम् भूरिकृतादरमित्यर्थ:)।
'मानगार्ड’
'रामोद्यान’सदेशविनिवेशितपुरुपरिसरम्।
'मानसैन्यविनिवेश’ मभिनिवेशतो व्रज सखे॥
'रामबाग’ समीपे स्थित: पुरु: (भूयान्, विशाल:)परिसरो यस्य तम्।
'मानसैन्यसंनिवेश:’ ['मानगार्ड’] अभिनिवेशत: (आग्रहेण उत्साहेन)।
'हास्पिटल’
नासा-नेत्र-कर्ण-दन्तरोगाणां चिकित्सां यत्र
रोगिण: पृथक् पृथग् विभागशोऽवकोकेरन्
विस्फोटकगुल्माश्मरीदीर्घरोगिणोऽपि यत्र
चित्रं शस्त्रकर्मणा सुशान्तिमुपढौकेरन्।
आतुरनिवासमथ 'एक्सरे’ विभासमितो
वस्तूनां परीक्षणविलासमुपश्लोकेरन्
वैद्यकचिकित्साक्रमे येषां विचिकित्सा भवे-
न्नूतनचिकित्सालयमेते परिलोकेरन्॥ १॥
अवलोकेरन् प्राप्नुयु:। 'कुकु वृक’ आदाने। उपढ़ौकेरन् प्राप्नुयु:। वस्तुपरीक्षाविलास: 'लैबोरेटरी’। उपश्लोकेरन् श्लाघेरन्।
* मोतीडूंगरी *
साँगानेरगोपुरमतीत्य दक्षिणायां दिशि
पक्षिरवरम्योद्यानपद्धतिरुदीक्ष्यताम्
मध्ये मञ्जुवाटिकासु पौरजनगोष्ठीसुखं
गायद्भूरिबिम्बोष्ठीकदम्बकमपीक्ष्यताम्।
मञ्जुनाथ, भङ्गाघूर्णमाननयनानामिदं
चूर्णमादिभव्यभूरिभोजनं समीक्ष्यताम्
दधती पुरस्ताद् गणनाथनाम ज्योती रहो
रम्याराममञ्जु 'मोतीडूंगरी’ निरीक्ष्यताम्॥ ११॥
पक्षिरवेण रम्याणाम् उद्यानानां पङ्क्ति:। भङ्गापानेन घूर्णमाने नयने येषां (जनानाम्)। चूर्णमा 'चूरमा’ 'चूर्यूँ’। पुरस्ताद् गणनाथ (गणेश)नामकं ज्योति: रह: दधती। रम्यारामै: मञ्जु:॥ ११॥
* टीबेश्वर *
भ्रमणरसक्षीवेषु टीबेश्वरभूरपि सुखा।
भङ्गाऽऽश्रयिजीवेषु जीवातुर्जलमुत्तमम्॥ १२॥
भङ्गासेविनो जीवा: उत्तमं जलमेव जीवनौषधं मत्वा एवंविधेष्वपि स्थानेषु अनुरज्यन्तीत्यर्थ:॥ १२॥
* झालाना *
प्रावृषि प्रफुल्लकच्छकेतककुसुममिदं
चक्रे जलबन्धान्मुदं नन्दनाऽवहेलकम्
निर्यज्जलनिर्झरे ननन्द यत्र चोपवने
गोष्ठीगतमिन्दुमुखीवृन्दमतिवेलकम्।
मञ्जुनाथ भाग्यवैभवेन वनमेतदभू-
द्भग्नद्रुमभूमौ भ्रमद्भूयिष्ठक्रमेलकम्
बालानामिदानीं पूर्वकालानां कथेयमभू-
ज्झालानाधरणिजातमञ्जुतममेलकम्॥ १३॥
नन्दनवनस्यापि तिरस्कारकमिदमुपवनं पूर्वं 'जलबन्ध’ कारणान्मुदं चक्रे। अतिवेलं भृशम्। उपवनमपि शुष्कबालुकामयत्वादुष्ट्रगम्यं वनमभूदित्यर्थ:। झालानास्थाने जातं वनसोमवारमेलकं साम्प्रतिकानां बालानां कृते इतिहासकथेवाभूदित्याशय:॥ १३॥
* रामबाग *
कलितकपाटतुङ्गतोरणवितानयुता
विततविटङ्कवरवातायनजालेयम्
पुष्पितपलाशिभि: प्रशस्तपवनेन सुखा
विद्युद्दीपदर्शनीयचारुचन्द्रशालेयम्।
मञ्जुनाथ नानाविधवास्तुशिल्पकौशलेन
प्राघुणिकीभूतभूरितोषितनृपालेयम्
श्रीमन्मानसिंहमहीपालेनोपनीतोन्नति-
रारामान्तराले रामबागहर्म्यमालेयम्॥ १४॥
वितता: विटङ्का वराणि वातायनानि जालिकाश्च यस्यां सा। विटङ्क: कपोतपालिकासाम्यात् तुङ्गतमो देश:, 'किरीटवेदिकाविटङ्कपीठोल्लुठितारुणाङ्गुलि’ इति बाण:। चन्द्रशाला: शिरोगृहा:। वास्तुशिल्पं भवन-निर्माणकला। शिल्पकौशलेन-आगन्तुकीभूता: भूरि तोषिता: नृपाला: यया सा॥ १४॥
* नगरसमीपस्थानि कतिचिदुद्यानानि*
विहर विनायकास्थदेवीमुपगम्य सुखं
पश्य स्नानसेवी बलदेवदुर्गरम्यताम्
किं धावसि दूरे चन्द्रशिखरे'हजारिबुर्ज’-
सेतु-रङ्ग-निर्झरेषु निर्भरं विरम्यताम्।
मञ्जुनाथ 'वाटिकाहनूमान्’ 'तातवाटिका’वा
'चन्दूवाटिका’वा गानगोष्ठीकृते गम्यताम्
हरिते दिगन्ते स्थलचिन्तेयं नु किं तेऽभव-
ज्जयपुरनगरपुण्यपर्यन्तेषु रम्यताम्॥ १५॥
'विनायका’ग्रामस्था देवी। तदिदं मन्दिरं दर्शनीयवनशोभं सिंहाद्यधिष्ठितत्वात्साह-सिभिर्गम्यम्। बलदेवदुर्गं ('बुर्ज’) पुरातनघट्टस्योपरिष्टात् पर्वतकूटे वर्तते। वर्षाकाले पूरितजल-टङ्कमिदं स्थानं स्नानाय वनशोभादर्शनाय चानुपमम्। 'चन्द्रशिखरं’ नाहरगढ़ीयपर्वतस्यैकतमं शिखरम्। 'सेतुनिर्झरा:’, 'पाज की खोल’, 'रङ्गनिर्झरा:’, 'रांग की खोल’ इति प्रसिद्धा:। एतानि स्थानानि नाहरगढ़स्याधस्तात्। 'वाटिकाहनूमान्’ 'बाडी का बालाजी’अजमेरीगोपुराद् बहि: शाकक्षेत्रान्तरत:। तातवाटिका 'दादाबाड़ी’ मोतीडूंगरीमार्गे। चन्दूवाटिका 'चन्दू का बाग’ आम्बेरस्य मार्गे। अत्र हि विशालं हर्म्यं सुन्दरं कुण्डं चेति गोष्ठ्यां सङ्गीतप्रबन्धार्थं रम्यमभवत्सांप्रतं तु राजपरिकरप्रबन्ध:। वर्षाकाले परितो दिगन्ते हरिते जाते जयपुरस्य चतुर्दिक्ष्वेव रम्यतमानि स्थानान्युपलभ्यन्ते। अत: केयं ते स्थलचिन्तेत्याशय:॥ १५॥
* चरणमन्दिरं गणेशगढं च*
शैलशिखरेऽस्मिन्नीरनिर्झरनिनदधरे
सलिलभरेण सस्यसुषमामपेक्षेथा:
दंशरकवृक्षैर्भृते भ्राम्यन्भूरि शैलपथे
चरणचकासि हरिमन्दिरमिहेक्षेथा:।
दूरदूरदृश्यान्यथ पश्यन् गिरिशृङ्गगतं
नत्वा गणनाथमध्वखेदमप्युपेक्षेथा:
बान्धवगणेगस्त्वं गणेश्वरचतुर्थ्या: पर
गहन'गणेशगढ़’गौरवमवेक्षेथा:॥ १६॥
दंशरका: 'डांसर्या’ इति ख्यातास्तेषां वृक्षैर्भृते। भगवच्चरणाभ्यां चकास्ति शोभते तादृशं मन्दिरं 'चरणमन्दिरम्’। इदं स्थानं 'जयगढ’ दुर्गसमीपस्थमिति न सर्वदा साधारणैर्गम्यं केवलं भाद्रशुक्लपञ्चम्यां (गणेशचतुर्थ्या द्वितीयदिने) मेलकदिने दर्शनीयम्। बान्धवगणे गच्छतीति बान्धवगणेग: तत्पुरुषे कृतीत्यलुक्। संघीभूतैरैव तादृशं स्थानं गम्यते विनोदाय सिंहादिभयापनोदाय च। गणेशगढ़वर्णनम-स्मत्पूर्वजश्रीकृष्णभट्टकविकलानिधीनां 'साहित्यवैभव’स्य वंशवीथी ५६६ पृष्ठे द्रष्टव्यम्॥ १६॥
* लालडूंगरी *
पूर्वदिशि सूर्यदेवगोपुरमतीत्य ततो
वामभागतोऽसौ वनमार्ग: पर्यवेक्ष्यताम्
घनतमबालुकासमुद्रमवरुह्य मनाक्
मध्येवनमेषा वृक्षवाटिका परीक्ष्यताम्।
रामगढबन्धाऽऽनीतनीरयन्त्रशालामेक्ष्य
गणपतिमूर्ति: सुविशालाऽसौ समीक्ष्यताम्
धाराधरकाले दृश्यवैभवमयीयमद्य
मृत्तिकामयीव लालडूँगरी निरीक्ष्यताम्॥ १७॥
जयपुरनगरस्य पूर्वदिशि 'सूर्यपोल’गोपुरम् उल्लङ्घ्य वामभागे। समीक्ष्यतामित्यनेन अपरभागे मोतीडूंगरीस्थाने यादृशी गणपतिमूर्तिस्तादृश्येव विशाला लालडूंगरीस्थाने स्थापितेति द्वयोरालोचना सूच्यते। अद्य ग्रीष्मादिकालेषु॥ १७॥
* गलता*
जयपुरनगरपूर्वगोपुरमुपेत्य पुरा-
शिल्पपरिपाटीकृता 'घाटी’ स्यात्पुरोगता
मध्ये गिरिसानुगतमुन्नतमुदेति दृशो:
श्रीमद्भानुमन्दिरं हि यस्मै जनता नता।
मञ्जुना कदम्बकुण्डनिकटगतेन यथा
यज्ञवेदिकुण्डतटगाऽसौ सरणिर्गता
मालवमहीव नक्तमालवनविच्छुरिता
गालवमहर्षिमधुराश्रममही मता॥ १८॥
पूर्वदिशो गोपुरम् 'सूर्यपोल’। पुराशिल्पपरिपाटी प्राचीनस्थापत्यप्रकार:। घाटी पर्वतारोहमार्ग:। नक्तमाल: चिरबिल्ववृक्ष:॥ १८॥
सवै.-- परितो गिरिराजिरुदञ्चयते परितोषमियं मरुता चलता
नवनीपसमिद्धसुगन्धवहाऽप्यवनी बहु भाति विरूढलता।
अयि मञ्जुलनाथ विभाति मनाक् सरसी कृतसीकरशीतलता
गिरिगह्वरगोमुखतो गलता सलिलेन सुखं कुरुते गलता॥ १९॥
गिरिसमूह: चलता पवनेन परितोषं जनयति। विरूढा: लता: यस्यां सा। नीप: कदम्ब:। कृता जलसीकरै: शीतलता यया ईदृशी सरसी (सूर्यकुण्ड:)। गलता पतता सलिलेन॥ १९॥
* गलतामेलक:*
क.-- कोविदकमठबन्धात्सिक्तजनखण्डेऽधुना
स्वैरं सूर्यकुण्डे स्नानकौतुकमुदीक्षेथा:
नीचैर्बृहन्मन्दिरेषु भूरिभक्तवृन्दोच्चितं
दर्शनीयहिन्दोलनसंभारं निरीक्षेथा:।
कदलीकुलान्ता: किल केलिकुण्डमेतं सखे
स्वच्छसुखसलिलसमिद्धमभिवीक्षेथा:
हिन्दोलकमेलकेषु किं दोलितचित्तोऽस्यये
गालवाश्रमेऽद्य सुखसंदोहं समीक्षेथा:॥ २०॥
कमठबन्ध:--जले कूद्र्दनकालिक: 'कमठा’ इति ख्यातो बन्धविशेष:। सिक्ता: जन-खण्डा: यस्मिन्। कमठबन्धस्य एषैव प्रशंसा यावदुपरिभागात् कूर्द्दयते तावत्पर्यन्तं जलोच्छलनं भवेत्। अत एव अहमहमिकया कूर्द्दनकोविदैर्घाट्या गच्छन्तो जनसमूहा: सिच्यन्ते। केलिकुण्ड: 'केल का कुण्ड’। अये दोलितचित्त: इतस्ततो भ्रान्तचित्त: किम् असि। संदोह: संभार:॥२०॥
वाणी-भारती-सरस्वतीत्याद्युपनामकानामस्मत्पूर्वजश्रीद्वारकानाथ*कवीन्द्राणां
गालवगीतम्
* छप्पय*
''निर्यन्निर्झरनीरनिनदनृत्यन्मायूरे
क्वचन कोकिलाकण्ठकुहूकलनि:स्वनपूरे।
घनतरुलताविचित्रशिखरिसुन्दरकन्दरवति
मृदुतरशाद्वललसितमृगीमृगशावकरुचिभृति।
इति सरस्वती भणति स्फुटं गालवस्य नामाङ्किते
इह कस्य मनो नाश्रमपदे लग्नं मुक्तजनाश्रिते॥ १॥’’
मायूरं मयूराणां समूह:। कुहू इति कलो नि:स्वनपूरो यस्मिन् (आश्रमपदे)॥ १॥
इह पर्वतदेशेषु वृक्षवीरुद्गुल्मेषु
स्फुटबद्धेषु सुमेषु फलेषु कलेषु दलेषु।
स्वैरं नीरनदेषु विशेषस्थलवलयेषु
स्थितिशालिषु गतिमत्सु पशुषु पक्षिषु मनुजेषु।
प्रेमप्रियाणि 'वाणी’ मुखादिति वचांसि शृणु संनिधौ
श्रीरामनाम लिखितं श्रुतं सिन्धोरिव बन्धनविधौ॥ २॥
यत्रोपक्रममेत्य कोकिल: कूजति चूते।
तमनु कलापिकुलं नु गायति क्ष्माभृति पूते।
परे पत्ररथगणा वाद्यझङ्कृतिमथ सुवते
गुणिनो मरुत: परं लतासु स्वस्ति ब्रुवते।
श्रीराममहारसविलसितं शिक्षन्त: किमु तत्परा:
तन्वन्ति रासमण्डलमधिस्तबकं स्तबकं मधुकरा:॥ ३॥
सिन्धुसेतुबन्धने पाषाणेषु यथा रामनाम लिखितं तथाऽस्मिन्स्थाने पर्वतदेशदिषु लिखितमित्याशय:॥ २॥ पत्ररथा: पक्षिण:। 'स्तबकेषु स्तबकेषु अधि’-अव्ययीभाव:। मधुकरा: कोकिलगानादिना सह रासमण्डलमिव कुर्वन्ति॥ ३॥
रोषादिव मा कृथा वृथा नयनद्वयमरुणम्
तद्रूपं तव वपुर्जातमित्यूचे करुणम्।
वाचंयमता शुभा तादृशो वाच: पक्षात्
अस्मन्मतमातिष्ठ हरित्वं भविता पक्षात्।
किं कुहूकुहूकथने वरं कुरु चित्तं वैष्णवमखे
उपदिशति शुक: पिकनिकरमिह रामनाम वद हे सखे॥४॥
तादृश्या वाच: पक्षात् (अपेक्षया) वाचंयमता शुभा। पक्षात् (मासार्द्धात्)॥४॥
यन्दन्मकरन्दस्य बिन्दुभिश्चन्दनचर्चाम्
वृन्तकच्छपीकलितपुष्पमणिपुष्पैरर्चाम्।
निर्यन्निर्यासेन सुरभिधूपं दधुरग्रा-
च्चम्पककोरकदीपमथो फलभोगमुदग्रा:।
मैलिन्दमञ्जुगुञ्जारवै: सामस्तोत्रं पर्वते
पञ्चोपचारमिव रघुपतेरुरवस्तरव: कुर्वते॥ ५॥
व्यासाश्रम इव शुकप्रचुरवचनामृतशाली
वल्मीकाश्रम इव प्राप्तकुशलवपरिपाली।
कौशिककाश्रम इव प्रणयिलक्ष्मणानुषङ्गी
वाशिष्ठाश्रम इव स्वरसशिष्टागमसङ्गी।
समरचतुराश्रमपूजाविधौ यत्र हरि: कुक्षिम्भरि:
श्रीगालवाश्रम इति मतो वरीवर्त्ति सर्वोपरि॥ ६॥
वृन्तकच्छपी, पुष्पवृक्षविशेष:। मैलिन्दै: मिलिन्द(भ्रमर)संबन्धिभि:। उरव: विशाला: तरव:॥५॥ शुकादय: श्लिष्टा:। समा: समानतया स्थिता ये ब्रह्मचार्याद्याश्रमा: तत्कृतपूजाविधौ॥६॥
शुकपिकचातकचटककोककलहंसचकोरा:
निजनिजभावभरेण मन:कृतरामकिशोरा:।
परितो हरितो मिलत्सुधारससरितो रोधे
क्रीडन्ति स्म सुखेन मग्नकरणा भृशबोधे।
किमुताऽनुरागशीला जना रासरसामृतचुलुकिन:
संततसमाधि-निर्बाधहरिचिन्तनधृततनुपुलकिन:॥ ७॥
शिखरिणि यत्र विचित्रसानुमति सर: पवित्रम्
मणिनिबद्धनि:श्रेणि सुरभि शिशिरं मधुमित्रम्।
गालवतप:प्रभावसदासमुदितपीयूषम्
पयोहारियोगीन्द्रकृष्णदासस्थितिभूषम् ।
नक्षत्रशतप्रतिफलमिलद्यस्य जलं जाने बुधा:!
सुस्नातदेवरमणीपतद्भूषणमिति सन्नो मुधा॥८॥
मनसिकृतो (ध्यात:) रामरूप:किशोरो यैस्ते।
शुकादिपक्षिण: सरितो दिशाश्चैव यत्र ब्रह्मज्ञाने मग्नकरणा: तन्मयेन्द्रिया:,
तत्राश्रमपदे जना हरिस्मरणपुलकिन: स्यु: किमुत किमाश्चर्यम्॥७॥
कृष्णदास स्थितिरेव भूषा यस्य तत्। नक्षत्रप्रतिबिम्बयुक्तं यस्य जलं स्नोतोत्थितदेवरमणी- पतद्भूंषणयुक्तमिति सत् सत्यं, मुधा नो॥ ८॥
सुकृतसमयमधिकृत्य समागतशिष्टनृदेवम्
स्नानदानजपहोममानितश्रीपतिदेवम् ।
क्वणितरणितभणितेषु यस्य शब्दितमतिमधुरम्
नामध्वनिकलितं नु लक्ष्यते कलकलविधुरम्।
नित्यं निसर्गनिर्गतजलं यत्र गोमुखं राजते
केनापि कृता मालेव यत्परित: पदवी भ्राजते॥ ९॥
समागता: शिष्टा: नृदेवा: राजान: यस्मिंस्तत्। वाद्यादिशब्देषु सत्स्वपि यस्य गोमुखस्य शब्दितं कलकलरहितं नामध्वनियुक्तमिव लक्ष्यते। गोमुखस्य चतुर्दिक्षु मार्ग: मालेव भ्राजते॥९॥
गालवमन्दिरमहितमेरुवरभालवकलिता
भित्तिसूत्रसंचरज्जानपदजनमणिललिता ।
अच्छाऽतुच्छसमुच्छलत्कजलसच्छविकिरणा
प्राक्तनसुकृतविपाकजातनवगुम्फाऽऽभरणा।
केनापि निबद्धा पद्धतिर्गोमुखस्य मालेव या।
मणिमध्यनायकप्रतिकृति: सरोवरस्थिरतिशया॥१०॥
मन्दिरमतिसुन्दरं यत्र मन्दरमनुकुरुते
दर्पणमसृणशिलासु रुचि: प्रतिबिम्बं कुरुते।
भित्तिषु विपिनविचित्रमहीरुहलतिकाललितम्
केकिकोककलविङ्कककुभकोकिलकुलकलितम्।
तुङ्गं विजेतुमुत्थितमेव प्रतिरवमिषतो गर्जयत्
दिवि मारुतधुतवसनाञ्चलै: कलिमागतमिवतर्जयत्॥११॥
गालवमन्दिरमेव मेरुवर: मालायां सुमेरुस्तस्य भालवेन कान्तिलेशेन कलिता। जानपदा- जनपदवासिनो ये जना: त एव मणय: तै: ललिता। उच्छलज्जलमेव मालाया: किरणा:। प्राक्तनसुकृतेन अस्या मालाया गुम्फो जात:। सरोवरस्थिति: नायक:-- मध्यमणिसदृशी। गालवमन्दिरं मालाया: सुमेरु:, सरोवरं च नीचैर्लम्बिततरलस्थानीयम्। सूत्र-मणि-किरण-सुगुम्फनादिभिश्च गोमुख्या: सविधस्थिताया उत्प्रेक्षणमित्याशय:॥ १०॥ यस्य मन्दिरस्य कान्ति: प्रतिबिम्बम् उत्पादयति। कलिं विजेतुं तुङ्गतया उत्थितम्, अत एव गर्जत् ध्वजैस्तर्जयच्च॥ ११॥
उरसि यस्य वनदाम, शिरसि शिखिपक्षापीडम्
अलिके गैरिकतिलकमीक्षते य: सव्रीडम्
मञ्जुलकर्णतटाऽवलम्बिगुञ्जासरशोभी
मकराकृतिकुण्डलविटङ्किकर्णस्थललोभी।
पीतोत्तरीयकच्छांशुक: शृङ्गवेणुवादनरति:
गोपालवेषधारी सदा यत्र विहारी रघुपति:॥१२॥
श्रीरामोपि गोपालवेषधारी सदा विहरति। एवं हरिरपि रामवेषधारी लसतीत्यग्रे सूक्ति:॥ १२॥
हेमहीररवरजटितकिरीटप्रसृमरकान्ति:
श्रुतिविटङ्किकुण्डलमरीचिभृतकुन्तलतान्ति:।
कुसुमदामवक्षा ललामकञ्चुकपरिधान:
कृपाशालिदृक्पालिकटाक्षच्छटा दधान:।
सुरतरुच्छायमणिवेदिकारत्नपीठमध्यम्भरि:।
भुवि सकलसतां निर्वाणदो धनुर्बाणहस्तो हरि:॥ १३॥
रूपजलनिधौ कोकनदप्रसर: करचरणम्
चिकुरनिकरमपि वेद्मि तत्र शैवालस्फुरणम्।
मुखमिन्दुर्नयनद्वयं नु मीनायितमस्मिन्
वचनममृतमधरो विरोचिकुरुविन्दममुष्मिन्।
तत्रैव कौस्तुभो भानुमान् किरतितरां परित: करान्
उल्लस्य तनु: कादम्बिनी वर्षति मधुरिमसीकरान्॥ १४॥
कुण्डलकिरणै: भृता केशान्तं तान्तिर्विस्तारो यस्य स:। दृक्पाल्या: कटाक्ष-च्छटा:॥१३॥ भगवतो लावण्यरूपे जलधौ करचरणं कोकनद (रक्तकमल) विस्तार:, चिकुरादय: शैवालादय: इति॥ १४॥
व्यतिभाते सीतावरस्य चरणे नखललिते
स्थिते वैरमवधूय किं नु पद्मे शशिकलिते।
पुनरुद्भवति स्मरे विभौ सेवितुमभिजातम्
किं च तूणयुगलं नु पञ्चपञ्चेषुविभातम्।
अथ सरस्वती भणति प्रियं भक्तभवाम्बुधितारणे
स्थाने सदैव जानेतरां नौके सुखविस्तारणे॥१५॥
नखललितयो: चरणयो: चन्द्रसहितयो: पद्मयो: संदेह:। अत एव वैरत्यागोत्प्रेक्षणम्। एवमेव चरणयो: तूणयुगलसंदेह:। पञ्चाङ्गुलय: पञ्चबाणस्थानीया:। किञ्च भवाम्बुधितारणे इमे चरणे नौके जानामि इति स्थाने॥ १५॥
* नया घाट *
पर्यन्ते पलाशि-वरवल्लरी-वितानयुता
मध्ये मञ्जुकञ्जा जललहरी प्रकाशते
फुल्लल्लोलपाटलाप्रसूनमकरन्दवहा:
सन्ततममन्दगन्धवाहा: समुपासते।
मञ्जुनाथ गायत्कञ्जनयनाविलासवशो
निबिडनिकुञ्जमसौ लोको न जिहासते
कान्ताजनविभ्रमविराजदुदकान्ता सेयं
नौविनोदकान्ता 'नवघट्ट’भूर्विभासते॥ २१॥
पलाशिनो वृक्षा:। पाटलम् 'गुलाब’। निबिडनिकुञ्जं न जिहासते न हातुमिच्छति, 'ओहाङ्’। ध्वनिना समागमलालसापि सूच्यते। विराजन् उदकान्त: (जलतटम्) यस्याम्। नौविनोदेन कान्ता मनोहारिणी, सति राजपरिचये नौकारोहणसौकर्यं सूच्यते॥ २१॥
* जलयन्त्राणि *
पर्यन्ते बहुलतमबालुकासनाथमपि
चित्रं वीरुदन्ते जलं स्रवति समन्तत:
श्रावणसुमासि वनसोमवारदिव्यदिने
दीव्यति हि दोलारूढयुवति समन्तत:।
मञ्जुनाथ नीचैरवरुह्य पश्य यन्त्रगृहं
विस्मयावहं यद् धृतिं धुवति समन्तत:
अनलबलेन चलन्नलजलनालमिदं
'नव्यघाट’मक्ष्णोर्मुदं सुवति समन्तत:॥ २२॥
बालुकामये स्थानेपि जलस्रवणं चित्रम्। वीरुदन्ते लतानामन्तिके। श्रावणस्य शोभने मासि, सुवृष्टियुक्तं इत्यर्थ:। दोलारूढा: युवतयो यस्मिन् तत्। यन्त्रगृहम्। 'Water Works' धृतिं धुवति कम्पयति। यन्त्रप्रभावं दृष्ट्वा जनश्चित्रितो भवेदित्यर्थ:। अग्निबलेन चलन्त: नलानां 'पाइप’ जलनाला: यस्मिन्॥ २२॥
* झाडख़ण्ड: रावलजलबन्धश्च *
मार्गे मञ्जुमीलन्मधुमालतीसुगन्धयुत-
रावलरचितजलबन्धमभिवीक्षेथा:
निर्यज्जलकोलाहलकौतुकमुदीक्ष्य तत:
समयं समीक्ष्य नवनौविनोदमीयेथा:।
मञ्जुनाथ पश्चिमेन सेनासंनिवेशतटे
नीरनिकटेऽमुं नवप्राकारं प्रविन्देथा:
खेलत्खण्डपरशुपरीष्टये प्रयातं दिव:
खण्डमिव मोदाज्झाडख़ण्डमभिवन्देथा:॥ २३॥
मीलन्त्य: उन्मीलन्त्य: (मालत्य:)। समयानुसारम् (यावान् समयो भवेत्) नौचालनविनोदम् ईयेथा: प्राप्नुया:, ईङ् गतौ। क्रीडत: खण्डपरशो: शिवस्य परीष्टये प्रतीक्षायै आगतं दिव: खण्डमिव स्थितम्॥ २३॥
* पुराना घाट *
परितो हरितशस्यशालिशैलमाला भाति
तदधो विशालाऽऽक्रीडसरणिर्विभासते
भ्राम्यन्ती कुसुमवाटिकासु पादपानां तले
शोभायामतुल्या जलकुल्या भूरि भ्राजते।
मञ्जुनाथ चित्रं गिरेरङ्के चन्द्रशाला भान्ति
कर्कशशिलानामङ्के बालुका प्रकाशते
विभ्रमविहारभूमिरिव भो: प्रकृतिदेव्या
भाग्यै: सुखसेव्या घाटवसुधा विराजते॥ २४॥
आक्रीड़ानाम् उद्यानानां सरणि: पङ्क्ति:। यदा हि 'झालाना’ जलबन्ध: पूरितोऽभूत्तस्मिन् समये प्राचीनघट्टे आरामेषु वृक्षाणां तले भ्राम्यन्ती जलकुल्या भूरि शोभते स्म। पर्वतस्य अङ्के उत्सङ्गभागे शिरोगृहा:, शिलानां समीपे च बालुका प्राप्यते इत्येव चित्रम्। य: किल पर्वतमय: प्रदेशस्तत्र स्वर्णसदृशी कोमलबालुका दुर्लभा, यश्च बालुकाप्रदेशस्तत्र पाषाणा: अप्राप्या:। इह तु द्विविधमपि सौष्ठवं दृश्यते, अत एव प्रकृतिदेव्या: विलाससूचिका विहारभूमि:॥ २४॥
आरम्भादन्तपर्यन्तो घाटसंनिवेश:
विशदशिलाऽवबद्धमुल्लङ्घ्याऽवरोहपथं
श्रेष्ठिनिर्मितोपवने मोदमधिविन्दाम:
पश्चाच्चूडसिंह-व्यास-रम्याराममुद्वीक्ष्याल-
माज्ञया निरीक्ष्यान् भूभृदारामान्निरिन्दाम:।
मञ्जुनाथ पौरन्दरमारामं निरीक्ष्य ततो
जैनचैत्यशिल्पं वीक्ष्य चेतसाऽतिचन्दाम:
घाटगोपुरस्य पुर: प्राचीरं प्रलङ्घ्य परं
प्राचीनप्राञ्चले प्राचीनघाटमभिनन्दाम:॥ २५॥
अवरोहपथ: 'गूणी’। श्रेष्ठिनिर्मितं माणिकचन्द्रस्योपवनम्। राजाज्ञया दर्शनीया: विद्याधर-रुपनिवासाद्या: राज्ञ: आराम:। निर् इन्द्राम: 'इदि परमैश्वर्ये’ द्रष्टुं समर्था भवाम इति यावत्। जैनचैत्यं 'नसिया’। चन्दाम: प्रसीदाम:, चदि आह्लादे। प्राचीरं कोट्ट:। प्राचीप्राञ्चले पूर्वदिग्भागे॥२५॥
फुल्लकुसुमासु लसदारामावलीषु यत्र
रामा विहरन्ति गीतगोष्ठ्यां मोदमागता
भूपतिनिवासोचितसौध-सुखसज्जायुता
यद्रूपनिवासोद्यानमाला महदायता।
मञ्जुनाथ निर्यज्जलवेणीविरहेण सेय-
मद्याऽऽरामश्रेणी हन्त तान्तिं समुपागता
नन्दनवनीव मोदजननी विबुधहृदा-
मन्यथा बभूव सेयमवनी सतां मता॥ २६॥
मोदमागता: भूपतिनिवासेत्यत्र मध्ये विसर्गलोपो बोद्ध्य:। जलवेणी कुल्या। तान्तिं शोभाकार्श्यम्। अन्यथा जलवेणीसत्तायाम्। नन्दनवनी विबुधानां देवानां मोदजननी, इयमवनि: देवानां पण्डितानां च॥२६॥
* घाट के बालाजी*
वारिदधरेषु वल्गुवर्षावासरेषु सखे
बालुकोत्करेषु हारि हारित्यं प्रतीयताम्
मञ्जुनाथ घाटस्योत्तरेण वनवीथिपथे
दर्शनमनोरथेन यात्रा प्रविधीयताम्॥
पर्वतसमीपे पुर: प्राकारेण गूढतरे
तुङ्गमन्दिरेऽस्मिन् साधुसोपाने ह्यभीयताम्
नूनं नेत्रराजीवेन वीक्ष्या वनराजी तर्हि
घाटोद्यानराजी बत बालाजी समीयताम्॥ २७॥
बालुकोत्करेषु बालुकास्तूपेषु 'टीबा’। नेत्रकमलेन यदि वनपंक्तिर्दर्शनीया तर्हि घाटोद्याने राजते तच्छील: णिनि:, 'बालाजी’हनुमान् समीयताम् उपगम्यताम्॥ २७॥
* प्रभातपुरीनिर्झर:*
हरितमनोज्ञशस्यशाली गिरिरस्ति पुर:
पुष्पितकदम्बभूरुहालीयं विमृश्यताम्
उच्चै: शैलमौलित: प्रपातिगिरिनिर्झरोऽसौ
तत्स्रुतजलाशयोऽसौ स्नानार्थं निविश्यताम्।
मञ्जुनाथ धारावर्षिधाराधरकालेऽधुना
किमसि विषण्णमना जोषं नोपविश्यताम्
अम्बरनगरमार्गमध्यादुपयातपथा
सुप्रभातमायेच्चेत्प्रभातपुरी दृश्यताम्॥ २८॥
तस्मात् गिरिनिर्झरात्स्रुतस्य जलस्य आशय: ह्रद:। असौ निर्झर: असौ जलाशय इति प्रत्यक्षमङ्गुल्या निर्देश:। किमिति खिन्नचित्त: असि ? उत्तिष्ठ, जोषं तूष्णीं न स्थीयताम्। अम्बरमार्गात् उपयात: पन्था: यस्या: सा। यदि सुप्रभातम् आयेत् आगच्छेत् तर्हि। स्थानस्या-लौकिकसौन्दर्यं व्यज्यते॥ २८॥
* आम्बेर *
अम्बरनगरपरिदर्शनमभीप्ससि चे-
च्चेतो ध्रुवगोपुरमतीत्य बहिर्गम्यताम्
मध्ये मानसागरमवेक्ष्य जलसौधान्यपि
कालमहादेव-गोविन्दोपवने रम्यताम्।
मञ्जुनाथ घाटीमधिरुह्य नूतनेन पथा
देलरामशिल्पपरिपाटीयं निशाम्यताम्
अम्बरनरेश-राजसौधसुषमामयीह
विपुलविभामयी शिलामयी प्रणम्यताम्॥ २९॥
हे चेत:! ध्रुवगोपुरम् 'ध्रुव पोल’। जलसौधानि 'जलमहल’। देलरामशिल्पम् 'दलारामस्य’ आरामे। निशाम्यताम् दृश्यताम्। राजसौधस्य शोभासर्वस्वभूता शिलामयी भगवती॥२९॥
ऐतिहासिकवृत्तम्-- शिलामयी मानसिंहमहाराजेन उडीसादेशादानीता। इयं हि गायत्र्या: अनेकपुरश्चरणानां केवलं सिद्धशिलैवासीत् पूर्वम्। सेयं प्रतापादित्यस्य इष्टदेवताऽभूत्। पश्चाच्च कायस्थराजं केदारं विजित्य आम्बेरनगरमानीय राजसौधेषु प्रतिष्ठापिता। महाराजमानसिंहस्योपरि भगवत्या: पूर्णानुग्रहोऽभूत्, अत एव तदादेशानुसारमस्यां शिलायां महिषमर्द्दिन्या मूर्तिराम्बेरनगरे उत्कीर्णाऽभवत्। एषैव सिद्धमूर्तिराम्बेरराजभवेनषु प्रतिष्ठितास्ति, यस्या दर्शनार्थं वङ्गादि-दूरदूरदेशतस्तद्भक्ता: समायान्ति। एतस्या: पूजका: वङ्गदेशादानीता: सन्ति ये साम्प्रतं जयपुरीयाचारा: समभवन्। शिलामय्या: कृते प्रत्यहं जयपुरराजप्रबन्धतश्छागबलिर्दीयते, नवरात्रेषु विशेषत:। प्रत्यक्षप्रभावाया अस्या मूर्तेर्विषये बह्वय: किंवदन्त्य: प्रसिद्धा: सन्ति। एतस्या: स्तुतिपद्यं 'साहित्यवैभवस्य’ छन्दोवीथी ३७३ पृष्ठे द्रष्टव्यम्॥ २९॥
* आम्बेरराजभवनानि *
कारुकार्यरम्यं राजसभागृहमेक्ष्य तत:
प्रथमं गणेशगुण्यगोपुरमुदञ्चये:
जगज्जयसौभाग्यादिमन्दिराण्यवेक्ष्य ततो
निजबहुरूपतामथैकतो निदर्शये:।
अन्त:पुरदेशे चन्द्रशालाश्चारुचित्रशाला
मज्जनगृहेषु जलजालान्यभिलोकये:
स्वर्गोपमालाभोचितामुन्नतगवाक्षमाला-
मम्बरनरेशहर्म्यमालामवलोकये:॥ ३०॥
राजसभागृहम् 'दीवाने आम’, एतद्धि देहलीसम्राजो राजसौधानुकारेण निरमीयतेति प्रसिद्धि:। गणेशगोपुरम् 'गणेशपोल’ एतद्धि जयपुरनगरप्रतिष्ठापकेन जयसिंहमहाराजेन निर्मापितम्। जगन्मन्दिरम्, जयमन्दिरम्, सौभाग्यमन्दिरम् एतदादिनामकानि। एकत: काचमणिमण्डिते मन्दिरे च निजस्य बहुरूपतां पश्ये:, तत्र हि काचान्येवंरूपेण भित्तौ जटितानि सन्ति येष्वेकस्यैव पदार्थस्य युगपद्बहव: प्रतिबिम्बा दृश्यन्ते। जलजालानि जलवेण्या आगमनस्य तथा जालमार्गा निर्मिता: सन्ति येभ्यो निष्पतज्जलं प्रसृतपटाकारम् 'चादर’ अद्भुतं विलोक्यते। किञ्च राजमहिषीणां पदप्रक्षालनकौतुकाय भुवि मर्मरपाषाणस्य सुन्दरनालिकास्तथा निर्मिता: सन्ति यासु श्यामपाषाणस्य लहरिरचना जलप्रवहणकाले अद्भुतैवालोक्यते। उन्नता उत्कृष्टा गवाक्षमाला 'झरोखे’ यस्यां सा। विशालविशालेषु वातायनेषु एकस्मिन्नेवातिव्यायते बहुमूल्यमर्मरपाषाणे तथा जालशिल्पं दर्शितमस्ति यद्धि शिल्पमार्मिकानपि चित्रयते॥ ३०॥
* जयगढ़*
दूरादवलोकय पताकामिवाऽऽलोकगृहं
द्वारं वैरिलोकदुर्निरीक्ष्यं सुसमीक्ष्यताम्
निशितशतघ्निशतस्थानान्यवगच्छ पुर:
प्राकारे नियच्छ दृशं शिल्पं सुपरीक्ष्यताम्।
लक्षावधिसैन्यजलसौकर्याय सन् योऽगोपि
रत्नाकरसागरोऽपि भाग्ये सति वीक्ष्यताम्
दुर्दान्तैर्द्विषद्भिरपि दुर्गं दृढ-दीर्घतया
ध्वस्तवैरिवर्गं जयदुर्गं प्रसमीक्ष्यताम्॥ ३१॥
आलोकगृहम्--एतद्धि दुर्गस्याग्रतस्तुङ्गे स्थाने तथोन्नतं निर्मितमस्ति यथा अस्मिन् प्रकाशे प्रज्वालिते पर्वतस्याधस्ताद्दूरदूरपर्यन्तं प्रकाशो भवेद्येन समवेतस्य सैन्यस्यान्धकारक्लेशो न स्यात्। वैरिलोकदुर्निरीक्ष्यम्, एतद्द्वारपर्यन्तं वैरिणामागमनमेव दु:संभवं मध्य एव विजितानां तेषां पलायनात्। किञ्च अस्य दुर्गस्य प्राचीरे द्वारं तथा शिल्पेन निर्मितं यथा पर्वतोपरि स्थितस्याप्यस्य सर्व: प्राकारो दूरतो दृश्यते, न तु द्वारम्। शतघ्नी'तोभ:’। दुर्गे यदि सैन्यसंग्रह आवश्यको भवेत्तर्हि तस्य जलसौकर्याय 'रत्नाकर सागर’ नामको जलबन्धो निर्मितोस्ति, यो हि विशेषावसरं विना न केनचिद् द्रष्टुं शक्यते। एष सागरो गुरो: रत्नाकरपौण्डरीकस्य नाम्ना जयसिंहमहाराजेन प्रसेधित:। दुर्गं दु:खेन गन्तुं शक्यम्। एतद्धि दुर्गं प्राचीनेन मानसिंहमहाराजेन, 'मिर्जाराजा’ जयसिंहदेवेन चाधिकाशंतो निर्मापितम्। जयपुरनगरप्रतिष्ठापकेन सवाईजयसिंह-महाराजेन चेदं सर्वाङ्गतया पूर्णीकृतम्। अस्य निर्माणारम्भ: षोडशशताब्द्याम् पूर्तिश्च अष्टादशशताब्द्यामासीत्॥ ३१॥
* आम्बेरस्य कतिचित्स्थानानां क्रमशो दर्शनम्*
दादुद्वारमालोक्यैव न्यायालयपार्श्वात्तत-
'श्छीलाबाय’वाराह्यादिदेश: स्पर्शनीयस्ते
जगति शिरोमणिमवेक्ष्य महन्मन्दिरं तत्
श्रीमन्नरसिंहोऽप्यम्बिकेशो मर्शनीयस्ते।
मञ्जुनाथ नृत्यन्नरमुण्डे स्नानकालावधि
पन्नामियाकुण्डे धर्मखेद: कर्शनीयस्ते
धर्मेपि हि भूरिवहत्पाथोरवरम्यस्ततो
गीतगुणगाथो हर्षनाथो दर्शनीयस्ते॥ ३२॥
न्यायालय: 'निजामत तहसील’। 'छीलाबाय’ चातुर्मास्ये पूरितातिस्वच्छजला। गभीरतमा वापिका। 'वाराही देवी’, अत्र हि शिशुमातर: शिशूनां शीतलाद्यारोग्यार्थं यात्रां कुर्वन्ति। आदिपदेन 'बटुकभैरव-दांदू का भैरवादयो बुध्यन्ताम्’। शिल्पेन जगति शिरोमणिस्थानीयं 'जगतशिरोमणि’ इति ख्यातं विष्णुमन्दिरम्। इदं हि मानसिंहमहाराजस्य ज्येष्ठपुत्रश्रीजगत्सिंहस्य स्मरणार्थं वि. सं. १६७७ तमे तन्मातुरादेशान्निरमीयत। नरसिंहमन्दिरं प्राचीनराजहर्म्याणां सविधे वर्तते, अत्र प्रातरष्टवादनपर्यन्तमेव देव-दर्शनं कर्तुं शक्यम्। अम्बिकेश: अतिप्रत्न: शिव:। इदं मन्दिरं भूमेरधस्ताद्वर्तते, चातुर्मास्ये जलपूरितं भवति। स्नानकालपर्यन्तं मेलकावसरेषु नृत्यन्ति तरतां जनानां मुण्डानि यस्मिन् स:। तरणसमये उपरित: पश्यद्भिर्मस्तक-मात्रमेवावलोक्यते। पाथोरवरम्य: जलकलकलमनोहर:। हर्षनाथभैरवमन्दिरे 'रत्नाकरसागरस्य’ कुल्या सर्वदा प्रवहति॥ ३२॥
* भूतेश्वर:*
हर्षनाथभैरवविभूतिमनुभूय तत-
स्तूत्तरेण पर्वतचरेण पथाऽभीयेथा:
शैलशिखरस्थगोप्यगोपुरमतीत्य ततो
हरितघनेषु दूरविपिनेषु लीयेथा:।
हरितवनान्ते साधु सोपानं समधिरुह्य
सानन्दं शिवेन शान्तशमलो विधीयेथा:
पूर्वं पुरुहूतेन प्रभूते वारि वृष्टे ततो
जीमूतेऽथ भूते भूरि भूतेश्वरमीयेथा:॥ ३३॥
हर्षनाथस्योत्तरत:। अभीयेथा: अभिगच्छ। मार्गे शैलशिखरोपरि राजप्रबन्धात् गोप्यं गोपुरं लभ्यते। शान्तशमल: शान्तपाप:। पूर्वम् इन्द्रेण प्रचुरे वारि जले वृष्टे, तदनन्तरमपि जीमूते मेघे भूते जाते सति। प्रचुरवारिवर्षया स्थाने स्थाने जलनिर्झराश्च वनहरितता च, मेघाडम्बरेण आतपरक्षा प्राकृतशोभा च। एतादृशमेव स्थानमिदम्। अत्र हि राजानुमतिपत्रं विना न गन्तुं शक्यम्॥ ३३॥
प्रसङ्गेन जयपुरराज्यान्तर्गतानामन्यस्थानानामपि वर्णनम्
जमुआ रामगढ़ (बन्ध)
दूरदूरवर्तिशैलमालाप्रतिरोधनेन
विस्तृतिं विशालां वीक्ष्य विस्मितो विधीयेथा:
वर्षासमये तु घनघोरवारिवर्षामाप्य
पयस: प्रकर्षात्पूरवृद्धिं प्रसमीक्षेथा:।
तटनिकटे च जगदम्बामवलोक्य, निशि
केसरिकदम्बानां निनादेनापचीयेथा:
तिसृषु दिशाषु शैलसन्धावम्बुसंधानेन
रामगढज़ातजलबन्धान्मुदमीयेथा:॥ ३४॥
जलबन्धस्य विस्तृतिम्। तिसृषु दिक्षु पर्वता:, एकतस्तु जयपुरराज्यनिर्मापिता वेला, इत्यनुमीयतां महाविस्तार:। घना निबिडा घोरा च वर्षा। सिंहसमूहानां नादेन अपचीयेथा: भयात् दुर्बलो भवे:। शैलसंधौ पर्वतानां मध्यावकाशे, जलप्रतिरोधनेन। 'कर्नल जैकब’ निर्मापित: सोऽयं जलबन्धस्तथा कौशलेन रचितो यथा वारिवृद्धौ उपरितो जलनिर्गमेऽपि नास्य भङ्गभयम्। अयं तथा विशालो यथाऽस्य भङ्गे सति भरतपुरराज्यस्याऽलवरस्य च विनाशो भवेदत एव एतत्कृते जयपुरस्य दायित्वम्। अस्य कुल्याभिर्बहुक्रोशपर्यन्तं कृषिसेक: समभूत्। सांप्रतं तु विद्युद्यन्त्रद्वारा जयपुरनगरे जलनलप्रबन्ध: कृतोस्ति। अस्मिन् हि पञ्चाशल्लक्षेम्योप्यधिक-मुद्राणां व्यय: समभूत्। लार्ड इरविनमहोदयेनाऽ-स्योद्घाटनमक्रियत॥३४॥
* सवाई माधवपुरम्*
गोपुरसमीपे तुङ्गमन्दिरमुपेत्य ततो
भैरवादिदर्शनतो भरितो भवे: सुखे
जयनगरानुकारिणीषु राजरथ्यास्वहो
चिनुहि चतष्पटीक्रमं च बत संमुखे।
नानाफलपुष्पशाखिशालिन्यामुपत्यकायां
सावधानमेया न चेदेया मृगराण्मुखे
धावद्धूमधोरणीप्रधानस्थितिधामधरे
माधवपुरेऽस्मिन्नचिरेण विचरे: सखे॥ ३५॥
पूर्वगोपुरस्य समीप एव हस्तिद्वयाधिष्ठिततोरणमतितुङ्गं भैरवमन्दिरं तत्समीपे च गोपालादिमन्दिर-मस्ति। अत्र हि राजपथानां निर्माणं जयपुरवत् वर्तते, तथैव च 'चौपड’क्रम:। उपत्यकायां पर्वतासन्नभूम्यां सावधानम् एया: (आ इया: आगच्छे:), न चेत् मृगाधिपतिमुखे एया:। संभावनायां लिङ्। धावन्त्या: धूमशकट्या: प्रधानं यत्स्थितिस्थानम् (जंक्शन् स्टेशन) तद्धारके। इदं नगरं सवाईजयसिंहमहाराजस्य पुत्रेण श्रीमाधवसिंहदेवेनावासितम्। महाराष्ट्रान् विजित्य पूर्वं रणस्तम्भवरदुर्गमधिकृतं तत्समीपे च-१८१२ तमे विक्रमवर्षे इदं नगरं प्रतिष्ठापितम्॥३५॥
* रणथंभौरदुर्गम्*
छप्पय--माधवपुरपश्चिममहिभृति मानसमुपढौकय
रणस्तम्भवरदुर्गसर्गमद्भुतमवलोकय।
यत्र तड़ागद्वितयतटे पशुपतिरधिराजति
तत्सविधे हम्मीरवीरमस्तकमुद्भ्राजति।
अतिनिबिडशैलमालावृते गणपतिमानम दिनमुखे।
हम्मीरवीरलीलासखे दुर्गेस्मिन् विहरे: सखे॥ ३६॥
पश्चिमपर्वते मानसम् उपढौकय प्रेरय। दुर्गसृष्टौ अद्भुतता सेयं यन्महाविशालमपि तदिदं दुर्गं समीपागमनं विना दूरतो न कैश्चिद् दृश्यम्। दुर्गस्थस्तु पुरुषो बहुक्रोशान्तरितमपि पश्यति। दुर्गस्य परित: पर्वतवेष्टनानि सन्ति। तड़ागद्वितयम् 'जौंरा, भौंरा’। दिनमुखे प्रात:। पश्चाद् गणपतिदर्शनसौकर्यं न भवेत्।
ऐतिहासिकवृत्तम्-- हम्मीर: सम्राट्पृथ्वीराजवंशज:। अस्य पिता जयत्रसिंहोऽभूत्। पृथ्वीराजे दिवंगते तत्पुत्रो गोविन्दो दिल्ली-अजमेरादीनां राजाऽभवत्। एष हि पृथ्वीराजभ्रात्रा राज्यादपवाहित: सन् रणस्तम्भवरदुर्गे न्यवात्सीत्। अस्यैव वंशे जयत्रसिंह आसीत् यस्य पुत्रो महावीरो हम्मीरोऽभूत्। अनेन भूयांसि युद्धानि विजितानि। अस्य प्रशंसामयानि प्रसिद्धानि बहूनि काव्यानि। अस्य दुर्गस्योपरि जलालुद्दीनस्य अलाउद्दीनस्य च भयंकराक्रमणान्यभूवन्। अन्ते १३५८ तमे विक्रमवर्षे हम्मीरो वीरलीलां प्राप, रणस्तम्भवरदुर्गे च खिलजीसम्राजोधिकार: समभूत्। अस्मिन् दुर्गे कियत्कालपर्यन्तं उदयपुरराजस्य बुंदीराजस्य चाष्यधिकार: समभूत्। किन्तु, अकबरसम्राज: समये तेन विजित्य तदिदं दिल्लीसाम्राज्ये संनिवेशितम्। पुरश्च औरङ्गजेबोत्तरं यदा दिल्लीसाम्राज्यं शिथिलमभूत्तदा दुर्गोपरि महाराष्ट्राणामाक्रमणान्यभवन्। एतस्मिन् समये शिथिलेन दिल्लीसाम्राज्येन महाराष्ट्रानपसारयितुं जयपुरराज आज्ञप्त:। सप्तानां सेनापतीनामाधिपत्ये जयपुरस्य सैन्यं दुर्गाभिमुखं प्रतस्थे। भयङ्करयुद्धोत्तरं महाराष्ट्रान् पराजित्य जयपुरराज्येन स्वाधिकार: कृत:। आसीत्तस्मिन् समये जयसिंहमहाराजाधिराजस्य द्वितीय: पुत्र: श्रीमाधवसिंहदेवो जयपुरराज्यस्य स्वामी॥ ३६॥
शेखावाटी
खेलच्चण्डवेगमरुल्लहरीतरङ्गायिता
स्वर्णरुचिरङ्गा बालुकाऽसौ परिमृश्यताम्
वारिणे तपस्यन्निव कानने निरुद्धकरो
मार्गे चित्ररूपो दुर्गकूपोयं विमृश्यताम्।
मञ्जुनाथ नानाविधनामभिर्विशाला मनाक्
श्रेष्ठिस्थापिताऽसौ पाठशालाततिरिष्यताम्
श्रेष्ठिगणलक्ष्मीलवलेखालालितापि मिलन्-
मरुरुचिरेखा शेखावाटी परिदृश्यताम्॥ ३७॥
चण्डवेगो यो मरुत् (पवन:) तल्लहरीभि: तरङ्गायिता तरङ्गाकारयुक्ता, सुवर्णकान्ति-सदृशरङ्गा बालुका। ग्राममार्गेषु-दुर्गसदृशा: अत्युन्नतवेदिक:, चतुर्दिक्षु रचितचतुर्गुल्म: अत एव विचित्राकार:, चतुर्हस्तानुत्थाप्य वारिणे जलाय (जलप्राप्त्यर्थम्) तपश्चर्यां कुर्वन्निव कूप:। उन्नतवेदिकायां दूरतो दृश्याश्चत्वार: स्तम्भास्तथा प्रतीयन्ते यथा हस्तानुत्थाप्य अभिसूर्यं स्थित: कूपो दुर्लभजलप्राप्त्यर्थं तपश्चर्यां करोतीत्याशय:। साधारणेन एक-मात्रेणाध्यापकेनाश्रितापि 'वेद-वेदाङ्ग-पाठशाला’ इत्यादिभिराडम्बरयुक्तैर्नामभिर्विशाला। कलिकत्तादिप्रदेशेषु धनमुपार्जितवत: श्रेष्ठिगणस्य लक्ष्मीलवलेखया (धनलेशसरण्या) लालिता शोभितापि वास्तवे मिलन्ती मरुदेशस्य रुचिरेखा (कान्तिलेखा) यस्याम्। श्रेष्ठिनां धनवैभवतो मण्डितापि प्रकृतिनियमानुसारं शुष्कायां मरुभूम्यामियमधिविष्टेत्याशय:॥ ३७॥
दो.-- कियदिव वीरा सा धरा यद्वणिजोऽप्यधिशान्ति।
दूरादपि भूपरिसरान्नीत्वा श्रियमायान्ति॥ ३८॥
अन्यत्र देशेषु क्षत्रियादयो वीरा: दूरदेशेभ्यो युद्धादिद्वारा श्रियं नीत्वा (विजित्य) आयान्ति। अत्र तु हीनबलत्वेन ख्याता वणिज: अपि, अधिशान्ति युद्धादिकं विना शान्त्यैव, वर्मादिदूरदूरभूप्रदेशात् श्रियं गृहीत्वा आयान्ति। अत एव इयं भूमि: कियद्वीरा स्यादित्यनुमीयताम्॥३८॥
अभिनन्दनवीथी
चित्रचत्वर:
सो.-- चारु चिकीर्षसि 'चित्र-चत्वर’ चयनं चित्त! चेत्।
चरणं चित्रचरित्र - चित्रणचतुरं चिन्तये:॥ १॥
विचित्रस्य चित्रणे (प्रत्यक्षप्रकटने) चतुरम्॥ १॥
* शिबिकाबन्ध: *
भास्वद्वंशावतंसङ्गुणगणगणनाऽतीतमातङ्कतङ्कं
सापत्सापत्नपङ्क्तौ सकलकविकलाविश्रमास्थानभूमिम्।
सक्षेमं पालयन्तं विपुलजयपुरीमुल्लसद्भूरिभोगां
साधून् संमोदयन्तं हयवदनहरिर्मानसिंहं विपुष्यात्॥ २॥
गुणगण.-- गुणगणस्य गणनम् अतीतम्, अगणनीयगुणमित्यर्थ:। सापत्.-- सापदाम् आपत्तियुक्तानां सापत्नानां (शत्रूणाम्, सपत्न एव सापत्न:, प्रज्ञाद्यण्) पङ्क्तौ आतङ्कौत्तङ्कनकरम्, आतङ्कदायकमिति यावत्॥ २॥
* चक्रबन्ध:*
यद्राज्याऽवनिमावसन् कलयते संमोदसौख्यं जन:
यश्चायं गुणपुञ्जमञ्जुलतम: संमोदते निर्भरम्।
स श्रीमाननवद्यनीतिललितै: प्रीणात्यलं सुव्रतै-
स्तैस्तैरायतगेयकीर्तिसरसैर्न: सत्पुरं चेष्टितै:॥ ३॥
स श्रीमान् (मानसिंहदेव:) अनवद्यया निर्दोषया नीत्या ललितै:, सुश्लाघ्येन व्रतेन नियमेन युक्तै: आयतया (सर्वत्र विस्तृतया) गेयया च कीर्त्या सरसै:, तैस्तै: चेष्टितै: (सत्कार्यै:) न: अस्माकं जयपुरं प्रसादयति। पूर्वार्द्धं स्पष्टम्॥ ३॥
* अष्टकोणबन्ध: *
लोकानां भव्यदानाय यज्ञानां प्रसवाय च।
समिद्धधनपूर्णश्रीर्भासते मानभूपति:॥ ४॥
अपि भूमौ च नाके च य: सदा गणनाऽतिग:।
विभवायतधर्मिष्ठ: स न: पूरयते श्रियम्॥ ५॥
समिद्ध-- समिद्धेन दीप्तिशालिना धनेन पूर्णा शोभा यस्य स:॥ ४॥
गणनातिग: लोकगणनामतिक्रान्त:, अनुपम इति यावत्। विभवा.-- विभवेन आयत: महान्, धर्मिष्ठश्च। स: (माननरेन्द्र:) न: श्रियं पूरयति॥ ५॥
* छत्रबन्ध: *
मानसिंहमहीपाल: माननीयगुणोज्ज्वल:।
वाहयन्धरणीभारं वामगुण्यो जयेच्चिरम्॥ ६॥
धरणीभरं वाहयन् परिचालयन्। वामगुण्य: वामानां विरुद्धानामपि कृते प्रशस्तगुणयुक्त:॥६॥
* चामरबन्ध:*
य: प्रजारञ्जनोन्माननवकीर्तिसुधालय:।
नभस्तततमोमोकोन्नतचन्दिरसद्यशा: ॥७॥
न कोन्मो मोतततभ:, नतदृक्कविवाग्वशा।
तस्य नीतिलसच्छास्तितन्त्रस्य मतिरस्ति या॥८॥
तद्वैभवभरा शास्ति तन्त्रस्य मतिरस्तिया॥
य: (भूपति:) प्रजारञ्जक: (अस्ति), तथा उत्कृष्टमानाया: नवकीर्तिरूपाया: सुधाया: आलय: (अस्ति) तथा नभसि (आकाशे) तत: विस्तृत:, तमोमोके अन्धकारविनाशे उन्नतश्च, यश्चन्दिर: (चन्द्र:) तद्वत् सत् यशो यस्य स:॥ ७॥
किञ्च-- (स:) कोन्म: न? कवत् विरञ्चिवत् उत्कृष्टा मा लक्ष्मीर्यस्य तादृश: नास्ति? अपि त्ववश्यमस्तीति काक्वा अर्थ:। किञ्च-- मया लक्ष्म्या ऊता (मोता), तता (विस्तृता) च भा (कान्ति:) यस्य तादृश: सोस्ति। नतदृशां कवीनां वाक् तस्य (राज्ञ:) वशा। तस्य राज्ञो महिमानमालक्ष्य कवयो नतदृश: सन्त: प्रभावातिशयेन स्ववाचं तद्वशां कुर्वन्तीत्याशय:। नीतिलसच्छासनतन्त्रस्य तस्य (राज्ञ:) या तन्त्रस्य (प्रजानियमनस्य) मति: तद्वैभवयुक्ता, अस्तिया ('अस्ति’ परलोकादिकमिति विश्वासं यातीति) आस्तिकविश्वासयुक्ता मति: शास्त्रमतिरेव शास्ति प्रजा: पालयति। राष्ट्रशासनबुद्धैर्वैभवं सहकारिरूपेण सह आदाय तस्य धार्मिकमतिरेव प्रजा: शास्तीत्यर्थ:। तस्य शासने राष्ट्रशासनबुद्ध्या आस्तिकतामतिर्न अभिभूता, प्रत्युत आस्तिकतामतिरेव शासने प्रधानम्। राष्ट्रशासनबुद्धिस्तु उपकरणभूता इत्याशय: ॥ ८॥
* खड्गबन्ध:*
सार: सर्वक्षितीशानां सम्पत्सौभाग्यभाजनम्।
नन्दयेद्वसुधामेतां मानसिंहनृपोऽञ्जसा॥ ९॥
साऽऽटोपाऽरिकुलध्वंसी दुर्द्धर्ष: क्षात्रतेजसा।
साडम्बराऽसिविलसद्दोर्दण्डो नृपसिन्धुर:॥ १०॥
साटोपं सदर्पं यदरिकुलं तस्य नाशक:। सोपकरण: साटोपो वा य: असि:, तेन विलसन् भुजदण्डो यस्य स:। नृपसिन्धुरो राजश्रेष्ठ:॥ ९-१०॥
* धनुर्बन्ध:*
दाक्षिण्यपुण्यविभवो विद्वत्कुमुदचन्द्रमा:।
माराऽभिरामो जयतान्मानसिंहनृप: सदा॥११॥
माराभि.-- कामवद् अभिराम:। चन्द्रमा: माराभिराम इत्यत्र विसर्गलोपो बोध्य:॥११॥
* शरबन्ध:*
कच्छवाहकुलोत्तंसो दिगन्तविततप्रभ:।
तेजसा सादिताऽराति: सुचिरं रञ्जयत्विलाम्॥ १२॥
तेजोबलेनैव सादिता: नाशिता: अरातय: (शत्रव:) येन स:। इलां पृथिवीम्॥१२॥
* शक्तिबन्ध:*
जयपत्तनमूर्द्धन्य धन्य दत्ताऽऽश्रिताऽभय!।
यज भक्ताऽऽर्तिहं शौरिममरेन्द्रसमप्रभ।।१३॥
भक्तार्तिहं शौरिम् (विष्णुम्) यज पूजय॥ १३॥
* गोमूत्रिकाबन्ध:*
राजन् जयपुरीनाथ प्रजासापेक्षकार्यकृत्।
राकाब्जविपुलोन्नाहा प्रशंसा रक्षणेऽर्यमन्!॥ १४॥
प्रजासापे.- प्रजानाम् अपेक्षासहितानि (प्रजानुमतानि) कार्याणि करोति स:। रक्षणे अर्यमन् सूर्यस्य! रक्षाकार्ये ते प्रशंसा (कीर्त्ति:) राकाचन्द्रवत् विपुलोत्कर्षा॥१४॥
* हारबन्ध:*
सदाशिवस्स्वयं धत्ते यदभेदमभागत:।
सदा शिवमयं द्राक् ते प्रदत्तादभ्रभागत:॥ १५॥
स्वयं सदाशिव: (शम्भु:) अभागत: भागं विना नि:शेषमिति यावत्, यस्य (तव, मानभूपस्य) अभेदं धत्ते धारयति। लोकपूज्यतायां शिवादभिन्नस्त्वमित्यर्थ:। अभ्रभा-गत: कण्ठे मेघकान्तियुक्त: अयम् (शिव:) सदा सर्वदा झटिति ते तुभ्यं शिवं मङ्गलं प्रदत्तात् देयात्॥ १५॥
* अष्टदलकमलबन्ध: *
समस्तसामन्तसमर्हणीय:
असीमशौर्योत्तरनीतिशाली।
कवीन्द्रसंगीतयश:प्रशस्ति:
प्रमोदतां संततमेष देव:॥ १६॥
असीमशौर्यम् उत्तरं प्रधानं यस्यामेवंविध-नीतिशाली॥ १६॥
* 'लाकेट’बन्ध: *
सौभाग्यभृतराज्यश्री: श्रीमानमरराडिव।
बन्ध: सुमनसां नूनं नन्दतान्मानराडसौ॥ १७॥
सौभाग्येन युता राज्यलक्ष्मीर्यस्य स:। अमरराट् (इन्द्र:) सुमनसां देवानां वन्द्य:, अयं तु सुमनसां साधुचेतसां वन्द्य:। अत एव इन्द्रसदृश: असौ मानराजो नन्दतात्। चित्रकाव्ये विसर्गादीनां भेदो न परिगण्यत इति राज्यश्री: श्रीमानिति विसर्गाभाव: समाधेय:॥१७॥
* श्रीफलबन्ध:*
राकेशसुन्दरमुख: सुधोपमवचश्चय:।
य: सताममृतं सूते यद्गुणज्ञा वसुन्धरा॥ १८॥
चन्द्रवत्सुन्दरमुख:, सुधोपमो वचनसमूहो यस्य स:। य: सज्जनानाम् अक्षय्यं सुखमुत्पादयति। स जयपुरेन्द्रो जयत्विति प्रकरणाल्लभ्यमेव॥ १८॥
भाषासमकम्
'हिन्दी’
[अर्थात् हिन्दीभाषामयमपि पद्यं संस्कृतबद्धं भवति]
दो.-- हे शङ्कर आनन्द कर सदा सु मङ्गल चार।
मानसिंह भूपाल के अव कर जय जय कार॥ १९॥
हिन्दीभाषायां स्पष्ट एवार्थ:। संस्कृते तु आनन्दं करोति तत्सम्बुद्धौ हे आनन्दकारक! सदा सुङ्गलं चारयति प्रजासु विस्तारयति तादृश!। अवकर! अवौ (रक्षकौ)करौ यस्य तत्सम्बुद्धौ, स्वहस्ताभ्यां लोकस्य रक्षाकारकेत्यर्थ:। हे शङ्कर! मानसिंहभूपालके जयकार त्वं जय। मानसिंहभूपतौ विजयं सृजन्नेव त्वं सर्वोत्कर्षेण वर्तस्वेत्यर्थ:॥ १९॥
जय जयपुरधरणीधनी दारद भय कर दूर।
सदा छत्रछाया तले प्रजा सु सुख भर पूर॥२०॥
संस्कृतम्-- दारदभयकरदूर! विषभयकारकान् दूरयति तत्सम्बुद्धौ, प्रजाऽनिष्ट-कारकेभ्यो रक्षकेत्यर्थ:। 'दारदो वत्सनाभश्चे’त्यमर:। निजच्छत्रच्छायायास्तले प्रजासु सुखभरं पूरयति तत्सम्बुद्धौ। जयपुरधरण्या: स्वामी त्वं जय॥ २०॥
जयपुरधरणी धरण हित, जय जय मान महेन्द्र।
सकल नरनि चित कामा पूरण कर मनुजेन्द्र!॥ २१॥
संस्कृतम्-- जयपुरधरण्या धरणे हितकारक ! सकलनरनिचितकामनापूरणकर! सकलनरै: निचितानां कामनानां पूरणकारक! मनुजेन्द्र हे मानमहेन्द्र! त्वं जय जय॥२१॥
* जयपुरीयहिन्दी*
विघ्न हरण मङ्गल करण, नमो नमो गणराज।
अव वाञ्छा पूरण करो, देवो बुद्धि दराज॥ २२॥
संस्कृतम्-- (बुद्धिदानां राजा तत्सम्बुद्धौ, बुद्धिदायकेषु देवेषु श्रेष्ठतमेत्यर्थ:) वाञ्छापूरणकारक: देवस्त्वम् अव, श्रीमन्तं मानसिंहदेवं रक्षेत्यर्थ:। अन्यत्स्पष्टमेव॥२२॥
* भाषाचित्रम्*
[अग्रत: पृष्ठतो वा पठनेन यत्र भाषान्तरवाक्यं नि:सरति।]
* विवाहकालिकं हिन्दीचित्रम् *
अग्रत:
श्रीमद्भानुवंशवैजयन्ती भासतेऽसौ पुरो
मानमुन्नयन्ती कच्छवाहानां कुलक्रमे
नव्यसुमहार्हवरवसनविभासिनोऽमी
भूपा भूषयन्ति सभामग्रया मानसंभ्रमे।
पण्डिता: प्रगल्भन्ते कवित्वे मञ्जुनाथगिरा
कीर्तिस्ते दिगन्ते भातु भूयो जगत्संक्रमे
जयपुरराजमान मानमहाराजमणे!
यशसा विराजसे विवाहोत्सवसंगमे॥ २३॥
कुलक्रमे वंशपरम्परायाम् कच्छवाहानां तद्वंशीयराजपुत्राणां संमानम् उन्नयन्ती उच्चै: कुर्वती असौ भानुवंशस्य वैजयन्ती [पञ्चरङ्गध्वज:] भासते। मानसंभ्रमे मानमर्यादायाम्, अग्र्या: श्रेष्ठा: भूपा: सभां भूषयन्ति। जगत्संक्रमणे [कल्पान्तेऽपि] ते कीर्तिर्भातु। अत्र हि अग्रिमाक्षराणां पठनेन 'श्रीमानभूप की जय’ इति वाक्यं सिध्यति॥२३॥
* उर्दूचित्रम्*
[अग्रत: पृष्ठतश्चापि पठनेन यत्र उर्दूपद्यखण्डो नि:सरति]
चैत्रे मासि मोदन्ते मृगाङ्कं वीक्ष्य यद्वन्नरा
नन्दति तथैव त्वयि वीर! सुप्रजा प्रजा
जैत्रीयं विभाति भूमिभर्त्री सुर-धेनु-विप्र-
पुञ्जपरिपालनोपकर्त्री भवतो भुजा।
रञ्जयसे मर्त्यान्मञ्जुनाथ निजनीतिक्रमे
मेदिनीयमामोदं दधाति त्वयि नीरुजा
रज्ज्यल्लोकलोचनचकोरकृते चन्द्रबिम्ब
हे नृप तवावलम्बमर्हति महाऽब्धिजा॥ २४॥
सुप्रजा सुसन्ततियुक्ता प्रजा। देव-गो-ब्राह्मणसमूहस्य रक्षणे उपकर्त्त्री, भूमिभारधारिणी ते जैत्री भुजा भाति । भुज: स्त्रीलिङ्गेऽपि -'अथो भुजा। द्वयोर्बाहौ करे॥’ इति मेदिनी। रज्यतां लोकलोचन-चकोराणां कृते चन्द्रबिम्बसदृश! हे नृप! महाब्धिजा लक्ष्मी:, तवाऽवलम्बनस्य योग्या। त्वं तस्यै अवलम्बं ददासीति योग्यमेवेत्याशय:। अत्र हि अग्राऽक्षराणां अन्त्यवर्णानां च योगेन 'चैन जैपुरमें रहै राजा प्रजा में जा ब जा ('स्थाने-स्थाने’) इति उर्दूपद्यखण्डो नि:सरति॥ २४॥
* सांकेतिकभाषाचित्रम् *
दो.-- जन्तयपुन्तुररन्तसारन्तमणे दन्तक्ष।
अन्तयि चिन्तिरमिन्तिमान्मन्तनुजान्रन्तक्ष॥ २५॥
लोका: मध्ये, 'न्त’, 'द्र’ इत्यादिवर्णान्संमिश्र्य सांकेतिकभाषां सुहृद्भिर्व्यवहरन्ति। तदनुसारम्-- 'जयपुररसारमणे दक्ष! अयि चिरमिमान्मनुजान् रक्षेति’ वाक्यं संपद्यते।।२५॥
* बहुभाषामिश्रणचित्रम्*
['जौहरीबाजार’स्थले नानादेशीयजना: दशहराद्वितीयदिनभावि'सलक’ मेलकं विलोकयन्त: संलपन्ति।]
क.-- 'ओह लुक दैट एलिफेन्ट इज कमिङ्ग हियर’
'जर्क बर्क अस्प मानिन्दे परिन्द ये तमाम’
'एइ दिके एसो हेरो की बहार पोशाकेर’
'किंमत कुबेरनी करी छै जरा जूओ आम।’
'वाह वा सरस सहनाई ये सुनो तो सही’
'कांई खयी जाय यां चिरागच्यां को भार्यो काम’
'महाराजां चे भाऊ बन्धु आले हे पहा मित्र’
'मानमहीपाले मङ्क्षु दृष्टिर्दीयतांतमाम्’॥२६॥
अष्टभाषामयेऽस्मिन् तत्तद्देशीयानां स्वभावरुचि: सूचितेति सूक्ष्ममालोचनीयम्। अंग्रेजमहोदयो ब्रूते—Oh Look! That Elephant is coming here' अयि पश्य, स हस्ती इत एवाऽऽगच्छन्नस्ति!’ पञ्चरङ्गध्वजयुतं हस्तिनं विलोकयतो द्वीपान्तरवासिनस्तद्दर्शनात्कौतुकं प्रतीयते। उर्दूभाषामुल्लपन् 'पर्शियन’ पण्डित: कश्चिन्माहम्मद आह-- 'जर्क बर्क.’ 'सुवर्णमया: सर्वेऽपीमे अश्वा: गमने पक्षिसदृशा:।’ अनेन हि धनचाकचक्यलोलुपता अश्वगुणवेदिता च व्यज्यते। वाङ्गमहाशयो भाषते-- 'एइ दिके.’ इत एहि, पश्य,वस्त्राणां कीदृशी शोभा। एतेन वङ्गीयानां स्वाभाविकी वस्त्र'पारिपाट्य’ रुचि: परिचीयते। धनवैभवं विलोकयन्विस्मितो गुर्जरदेशीय: कथयति-- किंमत कुबेरनी.- 'कुबेरस्यापि मूल्यं कृतम्, इतस्तु किञ्चित् पश्य!’। अनेन गुर्जराणां धनव्यापाररुचि: सूच्यते। ब्रजवासी जल्पति-- 'वाह वा सरस.’-- 'साधु साधु! सरसं सहनायीवाद्यं तु शृणु तावत्। अनेन हि सर्वत्रापि रसिकतां प्रकाशयतो व्रजवासिन: सहजसुभगैरक्षरै: कवितानुकूलं हृदयं परिज्ञायते। जयपुरीय: संलपति 'कांई खई जाय’ 'किंवा कथ्यताम्, एतेषां दीपाधारवाहिनां विषमं कार्यम्’। पूर्वं हि राजपरिचारका द्विशृङ्गकान्दीपाधारान् ('दुसंखा’) आदाय अग्रतश्चलन्ति स्म, येषामुभयतो बद्धा लेखा रुचिरा प्रतीयते स्म। कदाचिदतिनिकटमागतानां दर्शकानामपसारणकार्यमप्यनेन अग्न्याधारेण विधीयते स्म। तादृशमेव व्यतिकरं प्रत्यक्षमात्मोपर्यनुभवतो जयपुरीयनागरिकस्य सेयमुक्तिरिति प्रायो बहुत्र व्यग्रता, व्याकुलता वाभिव्यज्यते। महाराष्ट्रमहोदयो व्याहरति 'महाराजाचे.’ नरेन्द्रस्य भ्रातृबान्धवा: आगता:, पश्य मित्र!, अनेन स्वाभाविकवाक्येन मरहट्टबन्धूनां प्रेमप्रवणता प्रतीयते। 'मानमहीपाले.’-- अनेन तु सर्वमवमुच्य तत्त्वोपरि दृष्टि: संस्कृतभाषाप्रणयिन: प्रकटीभवतीत्यलं विज्ञेषु॥ २६॥
* भाषाद्वयचित्रम् *
कीर्तिपटलस्य यस्य सा काचन लक्ष्मीर्भाति
राकापतिरीक्ष्यते यदग्रे पुरुपिण्याकी
तादृगसौ गीयतेऽद्य राजसम्पदायां यतो
यस्य तुलनायां नरैर्नीयते न वै नाकी।
मञ्जुनाथ यस्य यशो गीतिमुपवर्णयितुं
त्वमपि विभासि देशभाषासूक्तिसम्पाकी
''तेज तुङ्ग ताजा बीर विक्रमके बाजा बजैं
राजा हू नजर करैं मानमहाराजा की ।।’’ २७॥
पुरुपिण्याकी अत्यन्तं खलयुक्त:। नि:सार इत्यर्थ: । 'तिलकल्के च पिण्याक:’ अमर:। राजवैभवे असौ (मानमहाराज:) तादृग्गीयते यस्य तुलनायां नाकी (इन्द्र:) अपि न नीयते। हे मञ्जुनाथ ! यस्य यशो वर्णयितुं त्वमपि देशभाषासूक्तिषु सम्पाकी परिपाकयुक्त:(अर्थात् प्रौढ:) भासि। का सा देशभाषा, तामाह--''तेज तुङ्ग.’’ तेजोयुक्तानि तारस्वराणि वा, उन्नतानि नवीनानि यस्य नरेशस्य वीरपराक्रमस्य वाद्यानि ध्वनन्ति। सीकरखेतरी प्रभृतीनां राजानोऽपि यस्य महाराजस्य राजसभायामुपायनमुपहरन्ति॥2७॥
* वर्णपरिवर्तनचित्रम् *
[अर्थात् एकस्य वर्णस्य स्थाने वर्णान्तरस्थापने यत्रार्थान्तरचमत्कार: संपद्यते।]
लास्यलीलाभाजनं भृतश्रीर्बलकर्षी सदा
नूनं नव्यवाहननिविष्टोऽसौ सुखायते।
मीननयनोऽथ मन्यमानो वरणीयधनो
वाहाऽऽकुलगेहो मतस्नेहो जनै: ख्यायते।
मञ्जुनाथ तावद्वर्ण्यतेऽसौ तव वैरिगणो
यावन्मुखभागे हेतिसङ्गो न विभाव्यते
श्रीमन्मानमेदिनीश! पश्यामोऽर्थविकलमिमं
सकलपदादौ हेतियोगो यदि जायते॥२८॥
हे श्रीमन्मानमेदिनीश! मुखभागे संमुखत: यावत्तव हेतीनां शस्त्राणां सङ्ग: न दृश्यते, तावत्तव वैरिगण:--'लास्यलीलाभाजनम्’ (नृत्यादिदर्शनपात्रम्) भृतश्री:, (संभृता शोभा लक्ष्मीर्वा यस्य), बलकर्षी (सैन्यं कर्षति सह नयति तच्छील:), नव्येषु अश्व-रथादिवाहनेषु निविष्ट:, सुखकारको भवति। तथा मीननयन:, लोकै: मन्यमान:, वरणीयं गुणिजनद्वारा प्रापणीयं धनं यस्य स:, वाहै: संकुलं गेहं यस्य, मतस्नेह: (जनै: आदृत: स्नेहो यस्य स:) च ख्यायते।’ यदि तु सकलपदादौ सकलानां शत्रूणां पदादौ चरणाद्यङ्गेषु, हेतियोग: शस्त्रसम्बन्ध: जायते, तर्हि तव इमम् वैरिगणम् अर्थेन पुरुषार्थेन विकलं रहितं पश्याम:। तव शस्त्रस्पर्शे जात एव सर्वेपि वैरिणो निरर्थका: (मृतप्राया:) भवन्तीत्याशय:। वास्तवे तु सकलानां कृतसमासानां पदानाम् आदौ 'ह’ इतिवर्णस्य सङ्गो यावन्न दृश्यते तावदेव 'लास्यलीलाभाजनम्’ इत्यादिरूपेण तव वैरिगण: वर्ण्यते। यदि तु सकलसमस्तपदानाम् आदौ 'ह’ इतिवर्णस्य योग: जायते तर्हि पूर्वेण वाच्यार्थेन विकलं पश्याम:। अर्थात् आदौ 'ह’ कारपरिवर्तनेन अर्थान्तरमेव संपद्यते यथा-- 'हास्यलीलाभाजनम् जनानाम् (उपहासपात्रम् ), हृतश्री:, हलकर्षी (राज्यच्युतत्वात् हलकर्षणेन जीवनशील:), अत एव असौ हव्यवाहननिविष्ट एव अग्निसात्कृत एव सुखं लभते, पूर्वमनुभूतराज्यसुखत्वादस्य मरण एव सुखं भवेदित्याशय:। हीननयन:, हन्यमान:, वनं गत: वनेचरादिद्वारा हरणीयधन:, हाहाकाराऽऽकुलगेह:, अत एव जनै: हतस्नेह: असौ ख्यायते॥२८॥
* मकारादिचित्रम्*
मत्तारातिकुलस्य मानहरणो मित्रार्तिचिन्ताहरो
मीलन्मानिजनाय मुक्तविभवो मूर्द्धाभिषिक्ताऽग्रणी:।
मेधावन्मनुजेषु मैत्ररुचिरो मोघेतरश्रीसखो
मौर्वीभृन्महिपेषु मंजुमहिमोन्म: स्यात्स मानप्रभु:॥२९॥
मत्तस्य वैरिकुलस्य मानहारक:, मित्राणाम् आर्तिचिन्ताया हारक:, मीलते दैन्यं गच्छते मानिजनाय दत्तवैभव:, बुद्धिमत्पुरुषेषु मैत्रेण(मित्रभावेन) रुचिर:, अमोघाया: श्रिया: सखा, मौर्वीभृत्सु(धनुर्धारकेषु) राजसु मञ्जुमहिम्ना श्रेष्ठमाहात्म्येन उन्म: उत्कृष्टलक्ष्मीक: स:(प्रसिद्ध:) मानसिंहप्रभु: स्यात्। प्रार्थनायां लिङ् ॥२९॥
* बहिर्लापिका*
[प्रश्नस्योत्तरं पद्यतो बहिर्भूतमेवेत्यर्थ:]
दो.-- संबोधय संमानमथ क: स्वामी विपिनेषु।
जयपुरमण्डलमविति कस्तिलक: क्षितिपालेषु॥ ३०॥
संमानं संबोधय, अर्थात् मानस्य किं सम्बोधनम्? उत्तरम् 'मान’! । विपिनेषु क: स्वामी? उत्तरम्-- 'सिंह:’। क्षितिपालेषु तिलकायित: क: जयपुरमण्डलम् अवति? संमिलितमुत्तरम्--'मानसिंह:’॥ ३०॥
* अन्तर्लापिका*
[प्रश्नस्योत्तरं पद्यान्तर्गतम्]
सिंहमाह मुग्धा नु किम्, मनुजै: क्व रतिरभाजि।
क्व मुदमयति जयपुरधरा, 'मानसिंहनरराजि’॥३१॥
मुग्धा नायिका हस्तादिषु स्पृशन्तं सिंहम् किम् आह? उत्तरम्-- 'मा’ 'न’ सिंह! (हे सिंह! मा स्पृश, न खेदयेत्यादि)। प्रजाजनै: क्व प्रीति: अभाजि(अकारि? उत्तरम्-'नरराजि’)॥३१॥
* द्वादशराशिचित्रम् *
मेषयुद्धमङ्गणेषु, भूरिभारवाही वृषो,
मिथुनं तवैव, रथं कर्कोऽञ्चति सोत्सवम्
सिंहस्यापि विक्रमं विहंसि, पुरे कन्या: शतं
न्यायतुला द्वारे, याति वृश्चिक: पराभवम्।
किं बहुना हस्ते धनुर्मकरोस्ति कुण्डलेषु
कुम्भो जलवाही, मीनमीक्षे तव दृक्स्तवं
स्फीतयशोराशिसुप्रकाशिगुणवश्यतया
भाषितमिदं ते राशिवलयेन वैभवम्॥३२॥
तव अङ्गनेषु 'आतिश प्रभृति-पशुयुद्धक्रीडाक्षेत्रेषु मेषाणां युद्धम्’ (भाति)। मिथुनं तवैव, त्वमेव श्रीश्रीमत्या महाराज्ञा: सहकारेण मिथुनीभूतोऽसीत्यर्थ:। तव रथं कर्क: (श्वेतोश्व:) वहति। 'पृष्ठ्य: स्थौरी सित: कर्क:’ अमर:। मृगयाक्रीडायां सिंहस्यापि पराक्रमं पराकरोषि। राशिचक्रे एकैव कन्या (राशि:), भवत: पुरे शतं कन्य इत्याशय:। भवतो द्वारे न्यायस्य तुला, भवत: शासने विवदमानानां जनानां सुसमीक्षितो न्यायो भवतीत्याशय:। वृश्चिक: (तत्सदृशो दुष्ट:) तिरस्कारं गच्छति। मीनं तव दृशो: स्तुतिकारकं वीक्षे। स्तौतीति स्तव:, दृशो: स्तव: दृक्स्तव:, पचाद्यच्। विशदेन यशोराशिना सुप्रकाशिनो ये गुणा: तद्वशीभूततया, राशिवलयेन एवं ते प्रभुत्वं सूचितम्, अर्थात् राशिचक्रमपि तवानुगामि सदनुवर्तत इत्याशय:। क्रमशो मेषवृषादिराशय: सूचिता इति रत्नावली॥३२॥
* षडृतव:*
हेमन्तागमोऽस्ति मदमत्तमल्लिकाभरेषु
क्षेमं तावदस्तं कीर्तिशिशिरेऽरिकञ्जानाम्
सूरिसहकारकुले वीक्ष्यते वसन्तोदयो
दृश्यते दुरन्तो ग्रीष्मगरिमाऽज्ञगुञ्जानाम्।
मञ्जुनाथ वैरिवधूवीक्षणेषु वर्षाऽऽगमो
लसति सहर्षा शरत्कारुकाशकुञ्जानां
सपदि समस्तानृतूनेवमिह तूल्लिखामि
मध्येऽहं महीन्द्रमानसिंहयश:पुञ्जानाम्॥३३॥
मदोन्मत्ता जना एव मल्लिकावृक्षसमूहा: तेषु तव यश:पुञ्जा: हेमन्तर्तुविकाससदृशा:। हेमन्ते यथा मल्लिका म्लायन्ति तथा तव यश: श्रुत्वा मदमत्ता भयेन स्वाविनयं त्यजन्तीत्याशय:। कीर्तिरूपे शिशिरर्तौ वैरिरूप-कमलानां क्षेमम् अस्तम्। शिशिरर्तौ कमलानीव, तव कीर्त्या अरय: प्राप्तपराभवा: क्लेशं लभन्त इत्याशय:। अज्ञरूपाणां गुञ्जावृक्षाणां दुरन्तो ग्रीष्ममहिमा दृश्यते। ग्रीष्मे यथा गुञ्जा: शुष्यन्ति तथा मूढास्तिरस्क्रियन्ते। वैरिवधूनेत्रेषु प्रावृडागम:, दयितविरहाकुलास्ता: सर्वदा रुदन्तीयर्त्थ:। कारव: कृतिशीला: शिल्पिनस्तद्रूपाणां काशगुल्मानां शरत्, भवत: सकाशात्प्राप्तपारितोषिका: कर्मचतुरा: प्रफुल्लन्तीत्यर्थ:। इह तु--एवं यश:पुञ्जमध्ये षडपि ऋतून्समर्थयामीत्याशय:॥ ३३॥
* द्वादशमासा:*
चैत्ररथचारावमी आरामे विभान्ति द्रुमा
वैशाखाऽवनम्रा अपि ज्येष्ठा गुणं जानताम्
आषाढोपपन्ना मुनयोऽपि यश:श्रावणाय
भाद्रपदे भान्तो यान्ति चाश्विनोपमानताम्।
कार्तिकसमस्य ते भयेन मार्गमीयुश्चला:
पौषकमलाकरा इवाऽगु: खला म्लानतां
माघे भानुभास इव मन्दा: संयदन्ते द्विषो
वीक्षन्तेऽनिशं ते फुल्लफाल्गुनसमानताम्॥ ३४॥
वै (निश्चयेन) शाखावनम्ना अपि गुणाभिज्ञलोकानां कृते ज्येष्ठा: (प्रशस्ता:) अमी द्रुमा:, चैत्ररथवत् कुबेरारामवत् चारौ सुन्दरे तवाऽऽरामे भान्ति। पलाशदण्डेन युक्ता: मुनयोऽपि, भद्राणामिदं भाद्रम्, भद्रलोकसंबन्धिनि पदे (सिंहासन इत्यर्थ:) भान्त: सन्त: प्रख्यातस्य तव यशस: श्रावणाय शुभ्रवस्त्रावृतत्वात् आश्विनसमानतां यान्ति। श्वेतवसनधारिणो मुनयोऽपि त्वामागत्य तव प्रशस्तिं गृणन्तीत्याशय:। चपला राजान: गुहसमानवीरस्य तव भयेन मार्गं सन्मार्गम् ईयु: अनुसस्रु:। पौषमासे कमलषण्डा इव खला म्लानताम् अगु: प्रापु:। माघमासे या भानो: भास:(द्युतय:) तथा मन्दीभूता: वैरिण:, संयदन्ते (समरान्ते) नवपराक्रमस्य फाल्गुनस्य अर्जुनस्य समानतां ते वीक्षन्ते। सदा युद्धे त्वामर्जुनवत्पराक्रमिणं वैरिणो जानन्तीत्याशय:॥३४।।
* सप्त वारा: *
श्रीमानयमादित्यो विभाति तव वंशधरो
नित्योदितसोमसोदरास्ते कीर्तयोऽञ्चन्ते
मङ्गलमनोज्ञास्तव सर्वविधयोऽमी बुधा-
स्तुलितबृहस्पतयो नित्यमुपतिष्ठन्ते।
मञ्जुनाथ कविमण्डिता ते सभाभूमिर्भाति
शनिवदशनिहता: शत्रवोऽद्य वेपन्ते
अन्योन्यं विभज्यमान-सेवाऽवसरास्त्वाममी
सप्ताऽपि च वासरा: सरागमभिषेवन्ते॥३५॥
अयम् आदित्य: तव वंशप्रवर्तक:। नित्योदितसोमस्य(चन्द्रस्य)सोदरा: समानास्ते कीर्तय: अञ्चन्ते परित: प्रसरन्ति। प्रसद्धिश्चन्द्र: क्षयमपि गच्छति, परं नित्याभ्युदय-शालिनश्चन्द्रस्य समानास्त्वत्कीर्तय इत्याशय:। तव सर्वविधय: (सर्वकार्याणि) मङ्गलेन अभ्युदयेन मनोज्ञा:, तव सर्वकार्येषु स्वत एव मङ्गलं भवतीत्यर्थ:। बृहस्पतिसमाना: अमी पण्डितास्त्वां नित्यं संगच्छन्ते। यथा शनिग्रहेण हतास्तथा अशनिनापि(इन्द्रवज्रेणापि) आहतास्ते शत्रवो भयात्कम्पन्ते। एवं परस्परं त्वत्सेवावसरं विभज्य, आदित्यसोमाद्या: सप्तापि वासरास्त्वां सेवन्ते। कवि: शुक्रोपि॥३५॥
* श्लोक: *
आदित्यस्तव कीर्त्यतां कुलगुरु:, सोमोपमानं यशो
भूमौ भातु, सदैव मङ्गलमयी मूर्तिस्तवाऽऽलोक्यताम्।
स्तौतु त्वां बुधमण्डली, गुरुजनस्त्वामाशिषा मण्डयेत्
श्रीमन्मानवशक्र! शुक्रमपि ते शत्रौ शनिर्जायताम्॥३६॥
ते शुक्रं शौर्यम्, शत्रौ शनि: (शनिवद् भयङ्करम्) भवतु॥३६॥
* अलङ्कारा: *
उपमाविचित्रचारुचूडामणिचित्रा, श्लेष-
कुण्डलविचित्रा, हेतुहारमियमीयते
ललितललन्तिका प्रतीपपत्रपाश्यासुखा
रूपककेयूरमल्पमूर्मिकाऽप्युदीयते।
काव्यलिङ्गकङ्कणनिरुक्तियुक्तिकाञ्चीयुता
सारहंसको विनोक्तिनूपुरोऽपि नीयते
दीव्यदलङ्कारैर्भूरिझङ्कारितदेहलता
सेयं सूक्तिसुन्दरी त्वदङ्काऽऽगममीहते॥३७॥
उपमाऽलङ्कारविचित्राऽलङ्कारावेव चारुचूडामणिस्थानीयौ ताभ्यां चित्रा आश्चर्य-कारिणी। इयं (सूक्तिसुन्दरी) हेत्वलङ्काररूपं हारमीयते प्राप्नोति। प्रतीपालङ्कार एव पत्रपाश्या (ललाटभूषणम्) तया सुखकारिणी। रूपकरूपं केयूरम्, अल्पालंकार एव ऊर्मिका (अङ्गुलीयकम्) उदीयते। काव्यलिङ्गं कङ्कण:, निरुक्तियुक्त्यलङ्कारौ काञ्ची एताभ्यां युता। सारालङ्कारो हंसक: पादकटक:। दीव्यद्भिरेभिलङ्कारै: झाङ्कारयुक्ता देहलता यस्या: सा इयं सूक्तिसुन्दरी भवदङ्काऽऽश्रयं वाञ्छति। कविताऽधुना भवत: अङ्कागताऽस्ति, इदानीं तत्सभाजनं त्वदधीनमिति सूच्येते॥३७॥
* श्लोक: *
दृष्टान्तस्त्वमिलाभृतां परिकरस्ते प्रत्यनीकाऽपह:
सारो वाचि, विकस्वरास्तव गुणा:, कस्ते प्रतीपो भवेत्।
उल्लासो मनसि, प्रहर्षणगुणाद्वक्रोक्तिरस्तं गता
नानाऽलङ्कृतिसार भास्करकुलाऽलङ्कार जीव्याश्चिरम्॥ ३८॥
त्वम् इलाभृतां (राज्ञाम्) दृष्टान्तभूत:। ते परिकर: (परिजन:) शत्रुनाशक:। प्रहर्षणगुणात् सदाप्रसन्नतारूपाद् गुणात्, वक्रभाषणं त्वयि नास्त्येव। नानाविधभूषणानां सारभूत! (अर्थात् भूषणनामपि भूषक)। पक्षे दृष्टान्तादयोलङ्कारा: सूच्यन्त एवेति मुद्रा॥३८॥
* छन्दांसि*
श्रीस्ते पञ्चचामरमरुद्भिर्मदलेखाऽऽवहा
लक्ष्मीरतिलेखा तव हस्ते लोकनीयेयम्
पृथ्वी त्वपराजिता जयाय ते रथोद्धताऽद्य
चित्रं स्वागताय संप्रहर्षिणी त्वदीयेयम्।
आर्याणां मनोरमा नरेन्द्र गुणगीतिरहो
चित्रा वैरिलोकेष्विन्द्रवज्रायिता जातेयं
वंशस्थाऽङ्कशालिनी सुवृत्तपरिपालिनी ते
कीर्तिर्जयमालिनी मन:सु माननीयेयम्॥। ३९।।
तव श्री:(लक्ष्मी: शोभा वा) पञ्च-चामराणां पवनै:, मदचिह्नधारिणी। त्वं चामरपवनै: प्रमदितचित्तो भासीत्याशय:। तव हस्ते राजलक्ष्म्या: रते: प्रीते: लेखा(रेखा) दर्शनीया, तव हस्ते तथा सौभाग्यरेखास्ति यथा-- राजलक्ष्मीस्त्वां प्रतीत्येव सदानुसरति। तव जयाय(विजययात्रायै) रथद्वारा उद्घृष्टा, अपराजिता अन्येन राज्ञा न विजिता, त्वदीया इयं पृथिवी, तव स्वागतविधानार्थं प्रहर्षयुक्तास्तीति चित्रम्। हे नरेन्द्र! तव गुणगीति: आर्यजनानां मनोरञ्जिकाऽपि वैरिषु इन्द्रवज्रसदृशी पीडाकारिणी जाता इति इयं गुणगीतिर्विचित्राऽस्ति। अत एव वंशस्थेन अङ्केन (चिह्नेन पञ्चरङ्गध्वजादिना) शोभमाना सद्वृत्तपालिका विजयमालाधारिणी ते कीर्ति: सज्जनानां मनसि संमाननीया। अत्र हि क्रमश: श्री-पञ्चचामर-मदलेखा-लक्ष्मी-रतिलेखा-पृथ्वी-अपराजिता-जयकरी-रथोद्धता-चित्र-स्वागता-प्रहर्षिणी-आर्या-मनोरमा-नरेन्द्र-गीति-चित्रा-इन्द्रवज्रा-वंशस्थ-शालिनी-कीर्ति-मालिनी छन्दांसि नामत: सूचितानि भवन्ति। बहूनि वृत्तरत्नाकरे, बहूनि च छन्द:प्रभाकरे (हिन्दीग्रन्थे) द्रष्टव्यानि॥३९॥
* श्लोक: *
मन्दाक्रान्तामव तव यश:शालिनीं वीर पृथ्वी-
मार्योन्नेयां प्रथयतु भवान् भानुवंशस्थगीतिम्।
विद्युन्मालाललितभवने श्रीर्जयस्रग्धरा स्ता-
त्कामक्रीडा तव रिपुगणेष्विन्द्रवज्रायिताऽस्तु॥४०॥
हे वीर! साम्प्रतं मन्दजनैराक्रान्ताम् तव यश:शोभमानाम् इमां पृथ्वीम् (जयपुरवसुन्धराम्) अव मन्दान् बहिनि:सार्य रक्ष। भानुवंशस्थां यशोगीतिं भवान् आर्यजनवर्द्धनीयां विदधातु। विद्युद्दीपमालाभिर्ललिते भवद्भवने राजलक्ष्मी: विजयमाल्यधारिणी भवतु। तव कामकेलि: रिपुगणेषु इन्द्रवज्रमिव पीडाऽऽवहास्तु॥४०॥
* सिंहावलोकनम् *
मीयन्तां मधुद्रवेण वाचो मानभूमिपते-
र्नीतिनैपुणेन परिपन्थिनो विनीयन्ताम्
नीयन्तां समस्तसुखसौभगं विनीता: प्रजा:
कीर्तयो दिगन्तरेषु निर्भरं निधीयन्ताम्।
धीयन्तां प्रजामन:सु मुद्रा: शुभकार्यशतै-
र्धर्मविपरीता: क्रूरकृतयो विगीयन्तां
गीयन्तां शुभाशिषो गृहे गृहेऽद्य मञ्जुनाथ
मानमेदिनीन्द्रगृहे संपद: समीयन्ताम्॥४१॥
मानभूपालस्य वाच: क्षौद्रद्रवेण उपमिता भवन्त्वित्याशी:। नीतिनैपुणेन प्रतिकूला अपि विनीता: क्रियन्ताम्। आज्ञाकारिण्य इमा जयपुरप्रजा: सुखसौभाग्यं अनु (भवता) प्राप्यन्ताम्। शुभकार्यशतद्वारा प्रजामानसेषु निजप्रभावस्य मुद्रा: अङ्क्यन्ताम्। तथाविधानि प्रजाहितावहकार्याणि क्रियन्तां यैर्हि प्रजानां मनसि भवत: प्रभावस्य मुद्रा अङ्किता भवेदित्याशय:। क्रूरा: कृतय: (प्रजानामुत्पीडककार्याणि) विगीयन्तां मनस: अपसार्यन्ताम्। अत एव 'मानभूपस्य गृहे संपत्तय: समेता: (संगता:) भवन्तु’ इति शुभाशिष: प्रजानां गृहे गृहेऽद्य गीयन्ताम्। एवं सत्कार्यै: सुप्रसन्ना: प्रजा: गृहे गृहे भवत: संपदभिवृद्धेराशिष: प्रददत्विति कवयितुराशी:॥४१॥
* नीतिनिवेदनम् *
* सोरठा*
जयपुरनगरनरेश भानुवंशवारिधिविधो!।
अवधारय सनिवेशमेतां सुजननिवेदनाम्॥४२॥
सनिवेशम् अभिनिवेशपूर्वकम् अवधानपुरस्सरमित्यर्थ:॥४२॥
क.-- भारतविभासमानश्रीमन्मानभूमिभुजा
कीर्तिवल्लरीयं परिगोपिता निषिच्य ताम्
विद्यास्वनुरागवता तदनु विवर्द्धिताऽसौ
जयसिंहभूमिभृता पुष्प्यन्तीं विविच्य ताम्।
गुणिजनतोषकेण श्रीमद्रामभूमिपेन
मञ्जुनाऽथ माधवेन पुष्टाऽसौ विविच्यतां
भानुवंश्यभूमिपतिकुञ्जर महीप मान
सेयं भवताऽद्य दानवारिणा निषिच्यताम्॥४३॥
भारतवर्षे सर्वत्र विभासमानेन (प्रख्यातेन) श्रीमता मानसिंहभूपालेन (प्रथमेन) तां (मानसिंह-कालिककीर्तिवल्लर्या: हृदये स्मरणेन परोक्षनिर्देश:) अथवा तां मूलकन्दलीं (जड़) निषिच्य, इयं (अस्मिन् समये वर्तमानेति समक्षनिर्देश:) कीर्तिरूपा वल्ली परिगोपिता रक्षिता। तदनु तदनन्तरम्, विद्यासु अनुरागवता सवाईजयसिंहदेवेन (द्वितीयेन) तां पूर्वोक्तां कीर्तिवल्लरीं पुष्यन्तीं विकसन्तीं विविच्य ज्ञात्वा असौ कीर्तिवल्लरी वर्द्धिता। श्रीमज्जयसिंहदेवस्य प्रख्यातो विद्याऽनुराग:। अनेनैव हि स्थाने-स्थाने ज्यौतिषयन्त्रशाला: स्थापिता: सन्ति, या विस्मापयन्ते दर्शकान्विदुष:। तदनन्तरम्-- गुणिजनानां सन्तोषकेण श्रीमद्रामसिंहदेवेन (अर्वाचीनेन)। अथ पित्रा प्रतिष्ठापिताया राजपद्धते:, गुणिजन-जीविकायाश्च यथावन्निर्वाहणात् मञ्जुना अभिरूपेण(प्रशस्येन) श्रीमन्माधवसिंहदेवेन (अर्वाचीनेन) च असौ कीर्तिवल्ली पुष्टा (सुतरां वर्द्धिता), इति विविच्यतां विचार्यताम्। तस्मात् भानुवंश्यानां भूमिपतीनां मध्ये कुञ्जर श्रेष्ठ! हे मानमहीप! सा इयं कीर्तिवल्लरी अद्य भवता दानवारिणा मदजलेन निषिच्यताम्। कुञ्जरो मदजलेन निषिच्य स्वाभीष्टां वल्लीं यथा वर्द्धयति तथा भवता दानसामयिकेन अर्ध्यजलेन निषिच्य इयं कीर्तिवल्ली वर्थ्यताम् इति माननरेन्द्रं प्रति दानौदार्यं प्रार्थ्यते। किञ्च शब्दशक्तिमहिम्रा-''भवता दानवारिणा दानवानां दैत्यानाम् अरिणा विष्णुरूपेण सता’’ निषिच्यतामयमर्थोपि ध्वन्यते। ''समये समये आविर्भूय यथा हरिर्दुष्टान्दमयित्वा त्रिभुवनीरूपां कीर्तिलतां गोपायति, तथा दानवानामरिणा दुष्टदण्डकेन सता भवता, इयं कीर्तिवल्ली निषिच्यताम्।’’ तथा च नरेन्द्रस्य विष्णुसमानत्वं ध्वन्यते॥४३॥
सर्वविधशोभाशालि जयपुरराज्यमहो
पालितं पुराणै: प्राज्यमेतत्परिगीयते
श्रीमद्भानुवंशोप्यद्य यावद्भाविभूपवरै-
र्लम्भितप्रशंसोऽस्तीति केन न वा स्तूयते।
मञ्जुनाथ राज्यस्याऽस्य जात: कर्णधारो भवान्
भानुकुलाऽऽधारोऽप्यद्य भवति निरूप्यते
जयपुरराष्ट्रस्याऽष्टचत्वारिंशल्लक्षदृशा-
मेकमात्रलक्ष्यमसि श्रीमन्मानभूपते॥४४॥
प्राचीनै: राजभि: पालितं जयपुरराज्यमिदं शिल्प-कलादिद्वारा मनुष्यकृतशोभया, गिरि-निर्झर-बालुकाप्रान्तरादिबहुलतया प्राकृतिकशोभया च भूषितं प्राज्यं सुसम्पन्नं च परिगण्यते। भानुवंशोप्ययम् अद्ययावत्संजातै: राजवरै: प्रापितप्रशंस:। एतदवधिसंजातै-र्नृपैर्भानुवंशस्य प्रशंसैव प्रचारितेति सर्वैरेव स्तुति: क्रियते। निरूप्यते दृश्यते। राज्यनिवासि-चतुर्विंशतिलक्षसंख्याकलोकानाम् अष्टचत्वारिंशल्लसंख्यानां नेत्राणां त्वमेव एकमात्रं लक्ष्यमसि। निजोन्नतिनिमित्ते सर्वा: प्रजास्त्वामेव साभिलाषमीक्षन्ते इत्यर्थ:॥४४॥
राज्याऽनुग्रहेण नलयन्त्राज्जलमाप्यतेऽद्य
मार्गमार्गमध्ये दीपपङ्क्तिर्दीप्यते भृशम्
प्रान्ते प्रान्त एव शिक्षासत्त्रमुपपन्नमस्ति
यत्र निर्निरोधमेषा शिक्षां लभतेऽनिशम्।
एवमनपायां भवदीयच्छत्रच्छायां प्राप्य
भूयोऽप्युन्नतीनामद्य सैषा वहते तृषं
हंहो भूपतीनामीश! सेयं त्वदधीना प्रजा
तव भुजदण्डोपरि दीना दधते दृशम्॥४५॥
अग्रे यद्भवेत्तदस्तु, परम् अद्य (वर्तमानसमये) राजतन्त्रस्यानुग्रहेण जलयन्त्रेभ्यो जलं प्राप्यते। राजद्रव्येणैव प्रत्येकमार्गस्य मध्ये विद्युद्दीपपङ्क्ति: प्रकाशते। प्रान्ते प्रान्ते राज्यस्य प्रायो बहुषु स्थानेषु शिक्षाया: सत्त्रम् 'सदावर्त:’ उपपन्नं सुलभम्। सत्त्रपदेन 'शुल्कं विनैव राज्ञा विद्यालयेषु शिक्षा प्रचारितेति शुल्कपक्षपातिषु राज्याधिकारिकतिपयेषु पूर्वतनराजानामौदार्यनियम: सूच्यते। एषा(प्रजा)। अनिशमिति 'हिन्दीसाहित्य-रात्रिपाठशाला’ प्रमुखविद्यालयेषु रात्रिशिक्षापि प्रचारिते’ति सूचितम्। अनपायाम् हानिभयरहितां त्वत्कृतां रक्षां प्राप्य इदानीम् इतोऽधिकानामुन्नतीनां तृष्णां धारयति। जल-आलोक-शिक्षादीनां नि:शुल्कप्राप्तिरूपा उन्नतिस्तु पूर्वत एवास्ति, इदानीं श्रीमता निजराज्यप्राप्तेरुपलक्ष्ये का नवीना अस्या: प्रजाया उन्नति: क्रियते इति उन्नतिविषये त्वत्सापेक्षिणी अत एव दीना प्रजा तव भुजदण्डोपरि दृशं दधते स्थापयति 'दध धारणे’। भवान् हि सीकर-खेतरीप्रभृति-राजपदाङ्कित-सामन्तानामीश:। अत एव अतिसमृद्धस्य तव प्रजानामुन्नतिकार्ये द्रव्यविनियोग: सुकर एवेति स्वत एव भवता विचार्य समयोचिता उन्नति: कार्या। राजभक्ता जयपुरप्रजा तु प्राप्याधिकारबलं प्रदर्श्य न किञ्चित्प्रार्थयितुमर्हति, तदेव 'दीना’ इत्यनेन ध्वनितम्। अन्यथा अस्मिन्समये अन्यान्यदेशेषु प्रजा तु राज्ञां सकाशाद्बलेन निजमधिकारं लिप्सते इति तां नीतिं प्रति जयपुरप्रजाया उपेक्षा च सूचिता॥४५॥
नानाविधकाम्यकरजालात्परिमोचिताऽऽसी-
न्निजनरपालादुन्नताऽसौ सुकृतैरहो
नि:शुल्कौषधालयादिसंस्थाभि: सुरक्षिता च
नि:शुल्कं सुशिक्षिता च साधुशिक्षितैरहो।
हंहो जयपत्तनपुरन्दर! धुरं दधत-
स्त्वत्पुरोऽर्थयन्ते बुधा विनयशतैरहो
पूर्वतोऽनुभूतभूरिभव्या भवदीया प्रजा
न व्याजेन वञ्च्या भवेन्नव्याधिकृतैरहो॥४६॥
पूर्वैर्जयपुरराजै: नानाविधात् काम्यात् (स्वेच्छया योजितात्) करजालात् ('टैक्स’ समूहात्) इयं प्रजा रक्षिता। सुकृतै: (सौभाग्यवशात्) निजात् नरपालादेव चेयमुन्नता अभूत्। शुल्करहिताभि: औषधालय-'हॉस्पिटल’-'म्युनिसिपिलटी’ प्रभृतिभि: संस्थाभि: इयं प्रजा पालिता, नि:शुल्कम् उत्तमशिक्षणै: शिक्षिता च। हे नरेन्द्र! जयपुरराज्यभारं गृहीतवत: तव पुरस्तात् इमे बुधा: (बुद्धियुक्ता:, अत एवैषां विनीता प्रार्थना नोपेक्ष्येति) शतविनयपूर्वकं प्रार्थयन्ते-- ''त्वत्कृपया, पूर्वकालादारभ्य अनुभूतनानाकल्याणा सेयं प्रजा नवीनतया अस्या आन्तरिकीमावश्यकतामजानद्भिर्नवीनै: पदाधिकारिभि: केनापि मिषेण न प्रतारणीया भवेत्’’॥४६॥
भूरिलक्षमुद्राभिर्न्यवेशि विद्युदस्मिन्पुरे
'गैस’ रुचिरेखां बहुमूल्यामपनीय ताम्
लक्षव्ययै: कृष्णश्लक्ष्णपृष्ठा कृता राजपथा
राजगृहा रङ्गादिभिर्नीता रमणीयताम्।
किन्तु कृपानाथ! बहिर्दर्शनीयसौन्दर्याऽपि
सेयं पुरी त्वन्तर्यातसारा परिचीयतां
शिल्पपरिष्कारं विना व्यापाराऽधिकारं विना
राजधनाऽऽधारं विना पारं कथमीयताम्॥।४७॥
बहुमूल्यां 'गैस’ प्रकाशपङ्क्तिम् उत्पाट्य, बहुलक्षमुद्राणां व्ययेन विद्युत् (Electricity) न्यवेशि स्थापिता। लक्ष-लक्षमुद्राणां व्ययै: राजमार्गा: कृष्णवर्णा: मसृणपृष्ठाश्च कृता:। नवीनशिल्पचातुर्यमप्रदर्श्य केवलं रङ्गादिभि: उपरितनसंस्कारै: राजगृहा रमणीयतां नीता:। बहिस्तो दृश्यसौन्दर्याऽपि अन्तर्भागे तु सेयं पुरी धनवृद्धिं विना गतसाराऽस्तीति परिज्ञायताम्। पूर्वं यद्धि श्रेष्ठिनां व्यापारकार्ये प्रसृतमासीत्तस्य राजकीयद्रव्यस्य साहाय्यं विना प्रजेयं निजनिर्वाहविषये कथं वा पारमीयताम् पारंगता भवतु, ईङ् गतौ॥४७॥
श्रीमन्तं समेत्य भूरि मोदते विनीता प्रजा
धार्मिकं भवन्तं वीक्ष्य विज्ञ: कुरुते स्तुतिम्
शिक्षापथदीक्षितो भवानपि च राज्यं प्राप्य
जाने यत्सभाज्यं कर्म कुर्वन् लभते द्युतिम्।
मुञ्जुनाथ किं जल्पामि नीतिसारविज्ञो भवान्
वारं वारमेतत्किंतु यातु भवत: स्मृतिं
तव भुजदण्डोपर्यखण्डोदयशालिन्विभो!
जयपुरभव्यभूमिखण्डो वहते धृतिम्॥४८॥
यदि भवान् धार्मिको भवेत्तर्हि श्रीमन्तं, धर्मस्य राजनीतेश्च विज्ञो जन: स्तुतिं कुर्यात्। अहमपि चैतज्जाने यत् प्राप्तशिक्षो राज्यं प्राप्य भवान् स्वत एव सज्जनै: सभाज्यं (अनुमोदनीयम्) कर्म कुर्वन् कीर्तिं लभते। भवत: स्मृतिं यातु, भवान् सदा स्मरतु इत्यर्थ:। किं तदाह--''हे अखण्डाभ्युदयशालिन्! तव भुजदण्डोपरि भव्योयं जयपुरखण्डो धैर्यं धारयति’’। भारवहनक्षमेण निजकरेण त्वमेव रक्षां समयोचिताभ्युदयदानादिकं च करिष्यसीति धैर्यादेव सोयं मौनमास्ते इत्याशय:॥४८॥
जीविकामनाप्य जना नूतनप्रबन्धोदये
यान्ति दीनबन्धो! दूरे क्रोशकसहस्राणाम्
मासि मासि मोदन्ते विदेशाऽऽगता मुद्राशतै-
र्मासिकमलभ्यं किन्तु दीनैर्दशमुद्राणाम्।
किं कुर्यु: कृपानिधान ! धान्यं सुमहर्घमभू-
द्याति बहिर्भूरि ततो निद्रां विद्धि विद्राणां
यावन्न भवेयुरभिधार्या: शिल्पकार्यालया-
स्तावदपसार्या कथं दुर्दशा दरिद्राणाम्॥४९॥
नवीनप्रबन्धे जीविकाम् न आ- आप्य (अप्राप्य) नरा: क्रोशसहस्राणां दूरे यान्ति। विदेशेभ्य आगता: पदाधिकारिणस्तु मुद्राशतै: (अपरिमितमुद्राभि:) प्रतिमासं मोदन्ते। धान्यं भूरिपरिमाणे बहिर्देशेषु याति, तत:(तस्मादेव दु:खात्) निद्रां विद्राणां पलायितां विद्धि। अभिधार्या: स्थापनीया:॥४९॥
* छप्पय*
निजकार्येष्वधिकारिजनात्सहकारमलब्ध्वा।
कृषिका: कृषिकार्यं त्यजन्ति विनिकारं लब्ध्वा॥
जन्मभूमिमवमुच्य वेतनाद्यान्ति विदेशे।
प्रचुरकृषिक्षेत्राणि वन्ध्यतां विदधति शेषे॥
अयि धरणिधुरन्धर! धरणिरियमेति सरणिमेतां हि चेत्।
कथमृद्धिरयेन्नृपकोषजा पुन: प्रजापि च किं पचेत्॥ ५०॥
निजकार्येषु कृषिकार्येषु 'नाजिम तहसीलदार’ प्रभृतिपदाधिकारिगणात् सहयोगम् (सहायताम् कृषिकार्ये सौकर्यप्राप्तिरूपाम्) अलब्ध्वा, प्रत्युत तिरस्कारं प्राप्य कर्षका: कृषिं त्यजन्ति। वेतनात् वेतनं प्राप्य। ततश्च शेषे परिणामे प्रचुरकृषियोग्यानि क्षेत्राणि वन्ध्यताम् अकृष्टताम् ('बंजर’) धारयन्ति। इयं धरणि: शनै: शनैरेतामेव सरणिं (वन्ध्यतारूपाम्) चेत् एति, तर्हि राजकोषजा ऋद्धि: कथमयेत्? कृषिं विना कोषस्थापनोचितं द्रव्यं कथमागच्छेत्? कृषिं विना दीना प्रजापि किं पक्त्वा भुञ्जीतेत्याशय:॥५०॥
* धर्मपालनविषये निवेदनम्*
क.-- भारतमेवाहुर्बुधा आद्यसभ्यताया गुरुं
तस्योत्कृष्टता या मौलिमान्या सा महीयसाम्
कौटिलीयशस्त्रगतनीतिरेतदीया देव!
दर्पादर्चनीया ह्यपि पाश्चात्त्यस्थवीयसाम्।
भानुवंशभूषण! भवन्तं भूरि भाषे किमु
भारतीयरीति: सुप्रकाशेयं गरीयसाम्
सर्वोपि हि साचीकृताऽसूयमुपयाची भवे-
त्प्राचीनप्रथाया: परिपालनपटीयसाम्॥ ५१॥
तस्य भारतस्य या उत्कृष्टता सा न तिरोहिता, अपि तु अतिशयेन महतामपि जनानां शिरसा वन्दनीया। एतस्य प्रत्यक्षं प्रमाणं निर्दिशति-- हे देव! कौटिलीयाऽर्थशास्त्रगता एतद्भारतसंबन्धिनी राजनीति: पाश्चात्यानामपि गुरु-पुरुषाणां गर्वपूर्वकं सत्करणीया। अत एव प्राचीनप्रथाया: पालनचतुराणां नृपाणामग्रे सर्वोपि जन: (देशवासी वैदेशिकश्च) तिरोहिताऽसूयम् (असूयां त्यक्त्वा) उपचायी भवेत् आनुगत्यप्रार्थी भवेदित्यर्थ:॥ ५१॥
किं नाऽभवन्भारतीयभूमौ भूरिभूपाला हि
कीर्तिं विना कालात्स्मृतिर्येषां मार्गणीयेयम्
कीर्ति: किल कच्छकुलजानां धर्मकृत्यैरेव
पौरपरिस्तुत्यैरिति वार्ता द्रढनीयेयम्।
किं बहुना श्रीमद्रामसिंह-माधवेन्द्रमुखै-
रखिलसुखैश्चरितै: ख्यातिरर्जनीयेयं
हंहो भानुवंश्यभूप! सूरिसुविचार्यै: शुभ-
कार्यै: कला कच्छकुलकीर्ति: कलनीयेयम्॥ ५२॥!
भारतभूमौ बहवो भूमिपाला: अभवन् परं कीर्तिं विना येषां भूपानां स्मृति: कालवशादिदानीमन्वेषणीयैव। इतिहासेषु येषां कीर्ति: प्रख्यायते, त एव सर्वै: स्मर्यन्ते अन्येषां तु स्मृति: कालगर्भे विलीनेत्याशय:। सा कीर्तिस्तु कच्छवंशप्रसूतानां राज्ञां पौरजनद्वारा स्तवनीयैर्धार्मिककार्यैरेव भवतीत्येषा वार्ता दृढीकरणीया। बहुना प्रमाणेन किम्? श्रीरामसिंहमाधवसिंहप्रमुखै: (अस्यामेव शताब्द्यां प्रख्यातै:) राजभि: सकलप्रजासुखकारकै: धर्माचरणैरेव इयं ख्याति: अर्जनीया अभूत्। अत एव अस्मिन्नेव भानुवंशे प्रसूत हे भूप! सूरिभिरपि मननीयै: सुविचार्य कृतैरित्यर्थ:। शुभकार्यै: कच्छवंशस्य कीर्ति: कला मनोहारिणी कर्तव्या॥ ५२॥
* प्राक्तननीतिनिर्वाहार्थं निवेदनम्*
येषां पूर्वपूरुषा नृपार्थे जहुर्जीवनानि
राष्ट्रमङ्गलार्थे भवेत्तन्मतिर्न नेया किम् ?
दूरदूरदेशान् जातिवेषान्परिहाय पुन:?
प्रतननरेशानाश्रिता ये तेऽद्य हेया: किम् ?
सुप्रसिद्धग्रन्थान्स्वामिनाम्ना निर्मिमाणैर्यैश्च
कच्छकुलकीर्ति: कृता नाऽद्य जगद्गेया किम् ?
हंहो जयनगरनिवेशनौकाकर्णधार!
तेषामधिकारमनु धारणा न धेया किम् ? ॥ ५३॥
येषां सामन्तानां पूर्वजा: राजनिमित्तं निजजीवितानि त्यक्तवन्त:, मौलानां तेषां संमति: राष्ट्रस्य मङ्गलार्थं किं न नेतव्या भवेत्? अपि तु राजकार्ये तेषां संमतिरवश्यं ग्राह्या। ये च दक्षिण-कान्यकुब्जादिदूरदूरदेशान्, निजजातिस्वीकृतवेषांश्च त्यक्त्वा प्राक्तननरेशान् आश्रितवन्तस्ते हि राज्याश्रिता: पुरुषा: अस्मिन् युगे किं हेया:? निजजात्यां प्रतिषिद्धं भूप्रतिग्रहादिकं ये गृहीतवन्त:, जयपुरराज्यस्य प्राक्तननीतेरनुसारेण (सर्वेपि राजपरिगृहीतं वेषं भाषाञ्चैव स्वीकृत्य राज्यहितकार्येषु एकभाषा एकवेषाश्च सन्तस्तद्देशाभिमानिनो भवेयुरिति) यैर्निजजातीयताभिमानं त्यक्त्वा निजस्वाम्याश्रयाऽभिमान: सबहुमानमङ्गीकृत:, ते चिरन्तनाश्रिता: साम्प्रतं कथं वा त्यागमर्हन्तीत्याशय:। येश्च राजाश्रितैर्निजाश्रयस्य जयपुरनरेन्द्रस्य नाम्ना सुप्रसिद्धान् ग्रन्थान्निर्माय तस्य कीर्ति: जगद्गेया किं न कृता? अपि तु जगत्प्रसिद्धा कृता। अत एव जयनगरसंनिवेशरूपाया नौकाया: संचालक हे मानभूप! तेषां चिरन्तनाश्रितानां लोकानाम् अधिकारं प्रति किं धारणा न स्थापयितव्या? अपि त्ववश्यमवधानं दातव्यम्॥ ५३ ॥
* प्रजार्थं निवेदनम्*
दैवोत्पातदस्युदु:ख-दुर्भिक्षाद्युपद्रवेभ्यो
राष्ट्रोपप्लवेभ्योऽप्यसौ त्राता खलु खेलया
यूरोपीययुद्धे प्रजालोकान्माधवेशोऽप्यवन्
कोषाद्ददौ द्रव्यं दययैव समुद्वेलया।
मञ्जुनाथ नन्देन्ननु राजा प्रजासम्पदैव
शोभा कैव राज्ञां प्रजाशून्ययाऽनयेलया?
पूर्वत: प्रजातपरिपालनप्रमोदां प्रजा-
मेवं प्रजानाथ! किं प्रजानास्यवहेलया।। ५४॥
महामारीप्रभृतिदैवोत्पातेभ्य:, देशोपरि लुण्टाकादीनामाक्रमणादिदस्युदु:खेभ्य:, दुर्भिक्षाद्युपद्रवेभ्य: राज्योत्क्रान्तिप्रभृतिभ्यो राष्ट्रोपद्रवेभ्यश्च असौ प्रजा पूर्वतनैर्जयपुरेन्द्रै: क्रीडयैव (न तु क्लेशं मत्वा) रक्षिता। अस्मिन् यूरोपीयमहासमरे भारतसम्राज: साहाय्यप्रार्थनायां सैनिकसमृद्ध्यर्थं निजप्रजालोकानदत्वा, उद्वेलितया दयया निजकोषाद्बहुलं द्रव्यमेव माधवसिंहदेवो ददौ, न तु दयापरवश: प्रजालोकान्प्रेषयामास। राजा प्रजानां सम्पदा समृद्ध्या एव नन्देत्। प्रजाशून्यया अनया इलया पृथिव्या राज्ञां कीदृशी शोभा? अत एव पूर्वकालात् संजात: परिपालनस्य प्रमोदो यस्यास्तामिमां जयपुरप्रजामेवं साधारण्येन किं परिचिनोषि। अपितु पूर्वजातभूपालानां समये सम्यगनुभूतपालनसुखामिमां प्रजां विशेषरूपेण परिजानीहि। यतस्त्वं हि सर्वस्या: प्रजाया नाथ:। अत एव सावधान: सर्वदा इमां परिपालयेति प्रार्थना॥ ५४॥
आसीद्भानुवंशे भूमिभर्ता रघुवीरमणि:
स्मर्ता चरितानि यस्य लोको याति धन्यताम्
अन्येऽप्यत्र विख्याता: सुवंशे भूरि जाता नृपा:
साक्षी नो यदंशेऽद्येतिहास एव मन्यताम्।
मुञ्जुनाथ मध्ये मानसिंह: स बभूव नृपो
य: शत्रूनपोह्य भारतेऽयासीदनन्यतां
तस्मिन्नेव वंशे लब्धराज्यो भासि भूपमणे!
भवसि सभाज्यो यथा सर्वैस्तथा तन्यताम् ॥ ५५ ॥
भानुवंशे रघुवीरमणि: श्रीरामो भूमिभर्ता आसीत् यस्य चरितानि स्मर्ता (चरितानां स्मारक:, तृन्) जनो धन्यतां याति। अन्येपि बहवो नृपा अस्मिन्वंशे जाता:, यदंशे (यस्य प्रामाण्यांशे) अयं भारतेतिहास एव न: अस्माकं साक्षी। मोगलसम्राजां समये श्रीमानसिंहो नृप: स आसीद् य: पठानान् अपोह्य निर्वास्य भारते अनन्यतां (नास्ति अन्य: समानो यस्य, असाधारणताम्) ययौ। अत एव सर्वैर्जनैर्यथा त्वं प्रशंसनीयो भवसि तथैव तन्यतां, किं विशेषप्रार्थनया।। ५५॥
कच्छकुलस्य तदा कृतिता जनता यदि निर्भरमुन्नतिमेयात्
दानमपास्य न यूथपतिर्नृपतिश्च लसेत्किल केवलगेयात्।
नीतिमिमां परिचिन्त्य चलेरखिलेशहरि: करुणां त्वयि धेयात्
मानसमर्थयमानमिदं भुवि माननृपो बहुमानमुपेयात्॥५६॥
जनता यदि प्रचुरं यथा स्यात्तथा उन्नतिम् एयात् (आ-इयात् प्राप्नुयात्), कच्छकुलस्य कच्छवंशजातस्य भूपसमूहस्य तदा कृतिता कुशलता। दानं मदम् वितरणं च अपास्य केवलात् गेयात् कीर्तिगानात् यूथपति: कुञ्जरो नृपतिश्च न शोभेत। चले: व्यवहरे: (लिङ्)। अखिलेश: सकलस्य स्वामी हरि:। (यतो हि) इदं मे मानसम् एतत् प्रार्थयमानम् अस्तियद्भूमौ माननरेन्द्रो बहुमानं प्राप्नुयादिति। लोकस्य सकाशात् भवत: संमानकामनयैव सेयमुपर्युक्ता नीति-प्रार्थना मया निवेदितेति भाव:॥ ५६॥
श्रीमन्मानमहीन्द्रमण्डनमणे ! भूम्यङ्गणे ते यशो
माधुर्यं हरिदन्तरेषु विलसन्नूनं वसन्तेऽप्यगात्।
तन्मार्गन्ति मृणालिनीषु मधुपा: काङ्क्षन्ति केलीशुका-
स्तद्गायन्ति कलाकलापकुशला: प्रोद्यत्कलं कोकिला:॥
इह भूमौ सर्वदिगन्तरेषु यस्ते यशोमधुरिमा प्रसृत: स एव वसन्तेपि संक्रान्तो यद्वशात् कमलिन्यादिषु मधुपादयस्तन्माधुर्यमद्याप्यन्विष्यन्तीति भाव: प्रोद्यन् विलसन् कलो गम्भीरमधुर: स्वरो यस्मिन् तथा॥
* आशीर्वादा:*
श्रीलगणनायकतो भातु गणनायकता
सकलसहायकता श्रीपतेरुदीयताम्
पारिजातपादपादुदेतु कामपूरकता
पावकता सेयं पुन: पावकात्प्रणीयताम्।
मञ्जुनाथ नित्यं महामहिमा महेन्द्रादथ
चन्द्राल्लोकलोचनचमत्कृतिरभीयतां
निर्जरनिकरदत्तसद्गुणसमूहधर-
जयपुरनगरनरनाथो मुदमीयताम्॥ ५७ ॥
श्रीमद्गणेशात् गणस्य (समाजस्य) नायकता भातु। श्रीपते: विष्णो: सकाशात्। पावकाद् वह्ने: पवित्रीकारकता। महेन्द्रात् शक्रात्। अभीयताम् आगच्छतु। पूर्वोक्तप्रकारेण-गणेशविष्णुप्रभृतिदेवसमूहदत्तानां समाजनेतृत्वादिगुणसमूहानां धारको जयपुरेन्द्रो मोदम् प्राप्नोतु। छन्दोऽनुरोधाद्भाषाप्रसिद्धं 'जैपुर’ इति नाम पाठ्यं ततश्च छन्दसि नाक्षरवृद्धि:॥५७॥
श्रीमद्भानुवंशवरवारिधिरगाधतमो
महसा समिध्यमानसुषमोऽभ्युदयताम्
श्रीमत: समन्तात्सुखशासनमिहोपलभ्य
संपदमनन्तां सर्वजनता कलयताम्।
मञ्जुनाथ शिक्षाऽऽगमदीक्षितेन देवेनाऽद्य
शिक्षणविभागोऽनिशमुन्नतिं रचयतां
माननीयराजोचितसद्गुणविराजमान-
श्रीमन्मानसिंहवीरतिलको विजयताम्॥ ५८ ॥
महसा क्षत्रियोचिततेजसा समिध्यमानसुषम: वर्द्धमानशोभ:, अगाधतमो वंशगतगौरवेण अतिगभीर: भानुवंशरूप: श्रेष्ठो वारिधि: अभ्युदयं गच्छतु। श्रीमत: (माननरेन्द्रस्य)। शिक्षितेन मानसिंहदेवेन (कारणभूतेन) शिक्षाविभाग: प्रतिदिनमुन्नतिं यातु ॥ ५८ ॥
जृम्भतां जनेषु जयपत्तनविकासिविभा
भानुवंशभासा भूमिरेषा सुविश्रम्भताम्
श्रम्भतां विरोधलोकलक्ष्मीर्मानभूमिवपते!
भूरिविभवस्ते सतां यायादवलम्बताम्।
लम्बतां प्रजासु गुणमाला तव भूपमणे !
धर्माचरणेषु भवत्प्रीति: प्रतिजम्भताम्
जम्भतां जगत्सु जयलक्ष्मीस्तव पुण्यफला
काम्यकला कीर्ति: किञ्च भूरि समुज्जृम्भताम् ॥ ५९ ॥
जयपुरस्य प्रसरणशीला विभा लोकेषु जृम्भतां वर्द्धताम्। भानुवंशस्य भासा कीर्त्या भूमि: सुविश्रम्भतां विश्वसितु। विरोधिलोकानां लक्ष्मी: श्रम्भतां प्रतिहता भवतु। 'श्रम्भु’ प्रमादे। प्रतिजम्भतां प्रवर्द्धताम्। पुण्यं पवित्रं फलं परिणामो यस्या: ईदृशी जयलक्ष्मी: जम्भतां वर्द्धताम्। काम्या कामयितुं योग्या, कला मनोहारिणी च ॥ ५९ ॥
* सवैया (दुर्मिल)*
हरहाससुधासितयद्यशसा
वसुधा परितो भरिताऽतिमदा
अपि भानुकुलोज्ज्वलकल्पलता
हरिता यमवाप्य न भाति कदा।
बत मञ्जुलनाथमनोघटना
प्रमना यमवेक्ष्य न माति मुदा
मतिमानवनीन्द्रगुणैर्द्युतिमा-
निह माननृप: सुखमेतु सदा ॥ ६० ॥
यम् अवाप्य हरिता (नवीभूता) भानुकुलकल्पलता कदा न भाति, अपि तु सर्वदैव भातीत्यर्थ:। यम् (माननृपम्) अवेक्ष्य प्रमना: हृष्टमानसा मञ्जुनाथस्य मन:कल्पना, मुदा आत्मनि न माति। अवनीन्द्रगुणै: राजोचितगुणैद्र्युतिशाली ॥ ६०।।
का.-- श्रीमन्मानमेदिनीपुरन्दरमधिपमाप्य
यातु महिमानमिह सुजनसमाजोऽयम्
भाविनि प्रकर्षमये समये प्रमोदयता-
ज्जयपुररत्नगर्भां सहयुवराजोऽयम्।
मञ्जुनाथ शिक्षापथगौरवं विभावयता
देवेनाऽभ्युदेतु शिक्षायज्ञगोऽनुयाजोऽयं
रञ्जयतज्जनतामथोन्नतिमुदूर्जयता-
ज्जयतान्महीन्द्रमानसिंहमहाराजोऽयम्॥ ६१ ॥
श्रीमन्मानसिंहरूपं मेदिनीपुरन्दरम् (भूमीन्द्रम्) अधिपं प्राप्य। अभ्युदयशालिनी भाविनि समये युवराजसहित: अयं जयपुरवसुन्धरां प्रमोदयतात्। अग्रे कुमारो जायतां सोऽपि च श्रीमदग्र एव यौवराज्योचितो भवत्वित्याशीर्वाद:। 'प्रकृत्याशिषी’ ति सहस्य प्रकृतिभाव:। शिक्षाया गौरवं विचारयता भवता (कारणभूतेन), शिक्षायज्ञसंबन्धी अनुयाज: (शिक्षाऽभिवृद्धिरूप:) अभ्युदयं गच्छतु। अयं मानसिंहमहाराज: जनतां रञ्जयतात्, तस्या उन्नतिम् उत् (अत्यन्तम्) ऊर्ज्जयतात् वर्द्धयतात्--अत एव मानमहाराज: अयं जयतात्॥६१॥
* श्लोक: *
श्रीमद्भास्करवंशवारिधिसमुल्लासाय कीर्तिच्छटा-
विन्यासाय, सतां मन:कुमुदिनीसंपद्विकासाय च।
उद्भासाय विशुद्धनीतिसरणे: संविद्विलासाय न:
श्रीमान्मानमहीन्द्रशारदशशी शश्वत्समुज्जृम्भताम्॥ ६२॥
शशिन: समुज्जृम्भणं वारिधेरुल्लासाय, अस्य शशिन: पूर्णोपचयस्तु भानुवंशरूपस्य सागरस्याभिवृद्धये इत्यादि। कीर्तिरूपाया: छटाया:(कान्ते:) स्थापनाय। न: अस्माकं संविद: प्रेक्षाया: प्रतिभाया इतियावत्। विलासाय ॥ ६२॥
श्रीश्रीमानयमिह मानमेदिनीन्द्रो
गोपाय्याज्जयपुरमण्डलं चिराय।
किं चेयं रविकुलकीर्तिकल्पवल्ली
संभूयादमितफलप्रहर्षिणी न:॥ ६३॥
रविकुलस्य कीर्तिरूपा कल्पवल्ली, अमितेन फलेन न: प्रहर्षकारिणी भूयात्। छन्दश्च तन्नामकमिति मुद्रा॥ ६३॥
सोल्लासप्रसृमरसद्गुणैकसिन्धो:
श्रीश्रीमज्जयनगराऽधिराजमौले:।
सोन्नाहामनुदिनमुन्नतिं समन्ता-
दाशास्ते मतिरतुलप्रहर्षिणीयम्॥ ६४॥
सोल्लासं यथातथा प्रसरणशलिनां सद्गुणानां सागरायितस्य श्रीजयनगराधिराजश्रेष्ठस्य (मानभूपस्य) वास्तविकाऽभ्युदयसहितां समन्तात् (सर्वेषु विषयेषु) उन्नतिम् इयं न: अतिहर्षशालिनी मतिराशास्ते ॥ ६४॥
श्रीमद्भानुकु लस्य भूषणसमो भाग्यायितो भूभृतां
दिक्कान्तामुखमण्डनायितलसत्कीर्तिप्रभाभासुर:।
विभ्राजज्जयपत्तनाऽवनिमुदे राकासुधादीधिति:
श्रीमान्मानमहीन्द्रमण्डनमणि: शश्वद्विजेजीयताम्॥६५॥
भूभृतां राज्ञां भागधेयसदृश:, नरपतीनां महद्भागधेयं यत्तेषु श्रीमान्माननरेन्द्रोपि परिगण्यत इत्याशय:। दिक्कान्ताया: मुखमंडनसदृश्या कीर्तिप्रभया भासुर:, राजमानाया: जयपुरवसुन्धराया: आनन्दाय पूर्णिमाचन्द्ररूप:, मानाभिधो महीन्द्राणां मण्डनमणि: अतिशयेन विजयताम्॥ ६५॥
लक्ष्मीरुन्मदमेतु कच्छकुलभूसौरभ्यसंभारिणी
भूमेर्जाड्यमपास्य भातु भुवने नित्यं प्रतापस्तव।
मोदन्तां जनतालतास्तव यशोज्योत्स्ना भ्रमेद् भूतले
श्रीमन्माननरेन्द्र! ते गुणगणैर्भूयाद्वसन्त: सदा ॥ ६६॥
वास्तववसन्ते सौरभसंभारिणी लक्ष्मीरुन्माद्यति। ते गुणगणै: कच्छकुलजानां कीर्तिसौरभ्यसंभारिणी राजलक्ष्मी: उत्कर्षं यातु। वसन्ते शैत्यं निरस्य तापो भुवने भाति। एवमत्रापि पृथिव्या: जडतां (उचित-शिक्षणद्वारा) अपास्य तव प्रतापो भातु। एवमादिभिस्ते गुणगणै: सदा वसन्तो भवतु लोके शोभा-प्रसारकत्वात्॥ ६६॥
श्रीमत्समस्तगुणगौरवगुम्फितश्री-
र्वीराग्रणीर्विजयतां जयपत्तनेश:।
यद्भूरिभीमभुजदण्डपराक्रमेण
प्राप्ताऽभया प्रमदमावहते प्रजेयम्॥ ६७॥
भयदायिनां कृते भूरिभीमस्य यद्भुजदण्डस्य पराक्रमेण प्राप्ताऽभया जयपुरप्रजा आनन्दं धारयति॥६७॥
श्रीमद्भानुकुले सुकीर्तिकृतिमान् मर्मस्थले नीतिमान्
विद्यायां मतिमान् कलासु रतिमान् पूर्वक्रमे प्रीतिमान्।
धात्रीधूर्भरधारणेऽथ धृतिमान् धर्मोत्क्रमे भीतिमान्
श्रीमान् मानमहीपति: सहसुत: संजायतां स्वस्तिमान्॥ ६८॥
सुकीर्तिकृतिमान् सुकीर्तिसंपादिका या कृतिस्तद्वान्। मर्मस्थले अतिसावधानतास्थाने। पूर्वक्रमे प्राचीनपद्धत्याम्। धर्मोत्क्रमे धर्मस्य लंघने॥ ६८॥
राज्यश्रीर्विततेयमस्तु महिते वंशेऽत्र भासां पते-
र्लक्ष्मीलाभवते सदाऽस्तु भवते स्नेह: सतां संगते।
प्रीति: पूर्वजसंमते मुनिमते निर्धूतशङ्कास्तु ते
श्रीमन्मानमहीपते तव सुते लक्ष्मीपते: स्याद्दया ॥ ६९॥
भासां पते: सूर्यस्य महिते पूज्ये वंशे अत्र अस्मिन्। भवते तुभ्यं त्वां तोषयितुमित्यर्थ:, क्रियार्थोपपदस्येति चतुर्थी। सतां संगते मैत्र्याम्। पूर्वजानाम् अभिमते मुनिमते ऋषिप्रतिपादिते राजधर्मे। निर्धूतशङ्का नि:शङ्का ॥ ६९॥
श्रीमद्भास्करवंशवैभवकरे साद्गुण्यरत्नाकरे
दृष्ट्या दूरितदुर्नयव्यतिकरे विद्वत्प्रतिष्ठाकरे।
नीत्या निर्जितनिष्ठुरारिनिकरे दानाय राजत्करे
श्रीमन्ममानसुधाकरे विजयतां लोकस्य नेत्रोत्सव: ॥ ७०॥
प्रतिष्ठाया: करे कारके। राजन् शोभमान: करो हस्तो यस्य॥ ७०॥
पृथ्वी भातु रथोद्धता तव सदा सुस्वागतोपस्थिता
वाणीयं प्रमिताक्षराऽथ रुचिरा मूर्तिर्जयस्रग्धरा।
आर्याणां प्रमदाय वंशलतिका ते पुष्पिताग्रा भवेत्
श्रीमन्मानमहीप शत्रुषु भवेच्छार्दूलविक्रीडितम्॥ ७१॥
रथेन उद्धता क्षुण्णा। सुस्वागताय उपस्थिता (पृथ्वी)। जयस्रग्धरा रुचिरा ते मूर्तिर्भातु। अत्र क्रमश:-- पृथ्वी-रथोद्धता-स्वागता-उपस्थिता-प्रमिताक्षरा-रुचिरा-स्रग्धरा-आर्या-प्रमदा-वंशस्थ.-पुष्पिताग्रा-शार्दूलविक्रीडितच्छन्दसां सूचना ॥ ७१॥
वीराणां द्युमणि: सुधैर्यधरणिर्द्वेषिद्विपानां सृणि-
र्दैन्यापत्तरणि: परार्थघटनाचातुर्यचिन्तामणि:।
सत्संपत्सरणिर्विवेकविपणिर्मानीन्द्रचूड़ामणि:
श्रीमान्मानमहीन्द्रमण्डनमणिर्विभ्राजतां भूतले ॥ ७२॥
द्युमणि: सूर्य:। सृणि: अङ्कुश:। दारिद्र्यापत्तिरूपाया: सरित: तरणिर्नौका। परार्थसाधन-चातुर्ये चिन्तामणि:॥ ७२॥
* दोहा*
सुविमलदिनकरकुलजलधिविशदशरत्कुमुदेश।
जयनगरीनायक नमय मत्तान्माननरेश!॥७३॥
दिनकरकुलरूपस्य जलधे: कृते शरच्चन्द्र ! माननरेश अभिमानमत्तान् नमय॥ ७३॥
कच्छवंशवरवारिरुहविलसत्सुदिनदिनेश।
मानसिंह नृपकुलतिलक जय जयपुरपरमेश॥ ७४॥
कच्छवंशरूपं यद् वरं वारिरुहं तस्य कृते विलसत: सुदिनस्य (न तु मेघच्छन्नदिनस्य) दिनेश सूर्य !॥ ७४॥
* बरवै*
मिहिरवंशमणिमण्डन तुलितमहेन्द्र।
प्रकृतीश्चिरमनुरञ्जय जयनगरेन्द्र।।७५॥
सूर्यवंशस्य शोभायै मणिमंडनसदृश!॥ ७५॥
क०-- हंहो भानुवंशभानु-श्रीमन्मानभूमिपते! स्यूता संस्कृ तेन स्तुतिभारती मदीयेयम्
नव्ययुगवैभवान्न भायात्तव चेतसि चे-
त्तदपि न खेदश्चित्तरचना स्वकीयेयम्।
किन्तु नरनाथ बहो: कालान्मञ्जुनाथकुले
भास्करकुलेशनृपकीर्ति: कवनीयेयं
तस्मादेव नूनं नरदेव! दिव्यदेवगिरा-
ऽप्याशीर्वादमाधादेवमुक्तिरस्मदीयेयम्॥ ७६॥
भानुवंशस्य प्रकाशकरत्वाद् भानुरूप हे मानभूपते! संस्कृतभाषया स्यूता संग्रथिता इयं ते स्तुतिवाणी नव्ययुगस्य वैभवात् तव चेतसि चेत् न रोचते, तदापि खेद: न। यत: इयम् चित्तस्य स्वकीया रचना। चेतसस्तरङ्गेण स्वत इयं रचना जाता। अत एव कस्यापि तोषो भवतु मा वा भूदित्याशय:। किन्तु हे नरनाथ! मञ्जुनाथस्य कुले बहो: कालादारभ्य भास्करकुलस्य ईशा ये नृपास्तेषां कीर्ति: इयं कवनीयाऽभूत्। मञ्जुनाथकुलस्य पूर्वजै: श्रीकृष्णभट्ट-द्वारकानाथ-जगदीशादिभि: सूर्यवंशीयराजानां श्रीजयसिंहदेवादीनां कीर्ति: कवितया निबद्धेत्याशय:। तस्मादेव कारणात् हे नरदेव! इयम् अस्मदीया उक्ति: दिव्यया देवगिरा (संस्कृतया) अपि एवम् (पूर्वोक्तप्रकारेण) आशीर्वादम् आधादेव अस्थापयदेव। पूर्वजरीत्यनुसारं भानुवंशीयस्य भवत: आशीर्वादरूपेण कीर्ति: संस्कृतभाषयाऽपि कर्तव्यानुरोधेन न्यबध्नामित्याशय:। 'देव’ पदस्य चतुर्वारं चतुर्धा निर्वाह: प्रेक्ष्य:॥ ७६॥