मानवसभ्यतायां जीवनस्य किमुद्देश्यं स्यात्?
पूर्वपश्चिमादिषु सर्वेष्वेव देशेषु शिक्षिता निजजीवनस्योद्देश्यं स्वस्वमत्यनुसारं स्थिरीकुर्वन्ति। तत्तत्साहित्यानि हि समुपदिशन्ति मानुषं यत्स कर्तव्यपथान्न किञ्चिदपि विचलेत्। वयं सर्वेऽपि स्वजीवनं व्यतिगमयन्तो यत्किञ्चित्कार्यमवश्यं कुर्म: कर्तुं वा विवशा भवाम:। जगन्मात्रस्य हिताय प्रवर्तमानानि विश्वसाहित्यानि (गीतादीनि) सोच्चैर्घोषमाघोषयन्ति- 'न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्।’ परं यदि शास्त्रनिकषे तत्कार्यं परीक्ष्यते तर्हि परिज्ञातं भवेद् यत् तत्कार्यं सर्वात्मना न निर्दोषं परिगण्यते। प्रत्येक मनुष्य: स्वकर्तव्यपथात्किञ्चित्किञ्चित् विमुखो वर्तते। हन्त! तर्हि किं सर्वेऽपि मनुष्या: कर्तव्यमार्गतो विभ्रष्टा: सन्ति? आम्, यदि सत्योत्तरश्रवणे न कश्चित्सङ्कोचस्तर्हि स्पष्टमहं वक्ष्यामि यत्सर्वैऽप्यधिकांशेन कर्तव्यविभ्रष्टा: सन्ति। सभ्यमात्रस्य प्रधानं प्रश्नोऽस्ति, वयं कस्य कृते जीवाम:? अस्माकं जीवनस्य किं लक्ष्यम्? किं चास्माकं हितानुबन्धि कर्तव्यं भवेत्?
संसारस्य निखिलान्यपि कार्याणि सम्भवन्ति देशकालानुसारीण्येव। अत एवास्माकं जीवनस्योद्देश्यमेवविधं तु न कदाचित्सम्भवेद् यद् यस्य पूर्तये जगदिदमयोग्यं भवेत्। यथा हि मत्स्यस्य जीवनयात्रायां किञ्चिदपि कर्तव्यं तथा न भवितुमर्हति यस्य हि सम्बन्धो जले न भवेत्, यच्च न शक्येत जले सम्पादयितुम्। एवमेव यदा वयं संसारे निवसामस्तर्ह्यस्माकं जीवनस्योद्देश्यं तादृशमेव भवितुमर्हति यस्य पूर्ति: संसार एव सुसम्भवा। किञ्चमानवसृष्टिरनादि-कालात्। अनन्तकालपर्यन्तं च परिचलेदग्रेऽपि। अत एवास्माकमुद्देश्यमेवंविधमेव सम्भवेद् यस्य पालनं वयं प्रत्येकसमय एव शक्नुयाम् कर्तुम्। नैवंविधं कार्यमस्माकं जीवनस्य लक्ष्यं भवितुमर्हति यस्मिन् हि समयस्य परिवर्तनं, राष्ट्रसम्बन्धिन्य उत्क्रान्तयो वा बाधिका: स्यु:। अत एव सर्वमिदं लक्ष्यीकृत्य साम्प्रतं समीक्षणीयं भवेद् यदस्माकं जीवनस्योद्देश्यं किं वा भवितुमुचितम्?
पाश्चात्त्यविपश्चित: कथयन्ति यज्जगत: प्रधानमुद्देश्यं जगत्सम्बन्ध्येव भवितुमर्हेत्। एतदर्थमेव हि संसारोऽयं समुचितं स्थानम्। वैभवार्जनम्, सम्मानैश्वर्यादे: प्राप्ति:, नानापदवीसन्धारणमित्याद्येव तु संसारेऽस्मिन्नस्माकमुद्देश्यं भवेत्। दृश्यतेऽपि लोकानां व्यवहारप्रवृत्तिरपि तथैव। किमेतदतिरिक्तमपि किञ्चिदस्मज्जीवनस्योद्देश्यं भवितुमर्हेत्? किन्तु विचारदृष्ट्या समीक्षिते सति स्पष्टमिदमवभासेत यदयं विचार: स्पष्टं भ्रमात्मक:। जीवनस्योद्देश्यं सांसारिकं न कदाचित् स्थिरीकर्तुं शक्यते। न च संसारोऽयं तत्कृते समुचितं स्थानमेव। कस्मैचित्कार्याय तदेव समुचितं स्थानं शक्येत् वक्तुं यत्राहि तत्कार्यं सरलतया, सौष्ठवेन, स्वल्पप्रयाससहनेनैव च सम्पादयितुं शक्येत। यत्र तु नानाविधानां दुर्लङ्घ्यविघ्नानां साम्मुख्यं सर्वदैव, नानाविधक्लेशानां समावेश: सार्वत्रिक:, मानसचिन्तानामन्यान्यबाधानां चाक्रमणमनिवार्यं तदेतत् सांसारिकक्षेत्रमुद्देशसिद्धे: स्थानं भवितुमर्हेत्?
प्रथमं तु धन-मान-भोगादि-सम्प्राप्ते: सामग्रीसंघटने एवानेकानि दु:सहकष्टानि भवेयु: सोढव्यानि। यथाकथञ्चित्तत्प्राप्तावपि तेषां सुरक्षिता-स्थायितासम्पादने निरन्तरचिन्ता- आर्थिकहानि: स्वास्थ्यहानि:- मानसिकक्लेशा अनिवार्या:। कदाचित्कदाचित्तु परिस्थितिवशादात्मनोऽपि हननमापतति कर्तव्यम्। एवं सङ्कटानि सुप्रसिद्धानि लोके, धनाढ्या: पदवीधारिणश्च सुपरिचिता: सर्वे सर्वेषाम्। धनमेव परिगृह्नीत पूर्वम्। एतस्यार्जनं संवर्द्धनं च मनुष्यमात्रमभिजानात्यात्मन: कर्तव्यम्। परमेतस्य कृते कियत्य: कठिनता:, कियन्त: क्लेशा: शारीरिक-मानसिक-आत्मिका: सोढव्या भवन्ति एवं विपत्तीनां कष्टानां च सहनेऽपि कियन्तो मानवा स्वेच्छानुसारं, धनार्जने भवन्ति पूर्णतया सफला:? पुनरनन्तकष्टै: सङ्गृहीतमपि धनं न केचिच्चिरकालपर्यन्तं स्वकीयं कर्तुं प्राभवन्। चक्षुषोर्निमीलने सर्वं शून्यम्! यावज्जीवं च दु:सहकष्ट साम्मुख्यम्।
योऽद्य राजा स एव श्वो रङ्क: सम्भवति। यदद्य गृहं धनधान्यपूर्णं तस्यैव जना: श्व: पथि भिक्षुका: प्रेक्ष्यन्ते। एवं दुर्घटसम्बन्धे धनप्राप्ति: कथं मानवजीवनस्योद्देश्यं सिध्येत्? इयमेव परिस्थितिर्मानवैभवपदप्राप्त्यादीनामपीति मन्ये न पृथग् बोधनीयं भवेत्। साम्प्रतं समयपरिवर्तनात्- राज्यशासनविपर्यासात्, देशविप्लवादे: कारणाच्च यानि हृदयविदारकाणि परिवर्तनानि प्रेक्ष्यन्ते तानि तु सुस्पष्टमेव सर्वेषाम्। एतानि सर्वाणि सुसमीक्ष्य को वा विवेकी साधयितुं समीहेत यत् मानवजीवनस्योद्देश्यं धनमानवैभवादे: प्राप्तिरिति।
तर्हि किमस्माकं जीवनस्योद्देश्यम्?
विवेकतो विचार्य सम्प्रति- वयं यत्किञ्चिदपि कार्यं कुर्म: परिणामे तस्य प्रभावोऽस्माकं जीवनोद्देश्ये पतति। तेन चास्माकं सर्वेषां कार्याणां कर्ताऽस्माकमन्तरात्मा प्रभावितो भवति। यै: कार्यैरात्मा उन्नतो भवति तानि सत्कार्याणि, यैश्चावनतस्तान्यसत्कार्याणि सिद्धयन्ति। उन्नते ह्यात्मनि सर्वं सुखकरम्, अवनते तु सर्वमपि दु:खमयमवभासते। उन्नतेनान्तरात्मना सर्वतोऽपि सुखमयमवालोक्यते। सुखमेव च मानवमात्रस्योद्देश्यमिति न नाम विस्तरेण बोधनीयं भवेत्। ततश्च जीवने ह्यस्मिन् यै: कैश्चिदप्युपायैरात्मन उदारताया:, उन्नततायाश्च सम्पादनं भवेत्तदेवाऽस्माकमुद्देश्यं जीवनस्य। उन्नतता-सम्पादने ह्यस्मिन् समयपरिवर्तनं देशविप्लवादि किञ्चिदपि न भवेत् प्रतिबन्धकम्। संसारे सर्वतोऽपि समीक्ष्यतां विवेकदृशा-किञ्चित्कार्यं हार्दिकवेदनाभि: परिपूर्णं तर्हि किञ्चित्कार्यं मानसिक्या अशान्ते: सार्वत्रिकं रङ्गस्थलम्। यदि कुत्रचित् आर्थिक-शारीरिक-हानयश्चरमसीमापर्यन्तमुपगतास्तर्हि कुत्रचिदात्मन: पतनं नीचै: सोपानपर्यन्तमुपनतम्। पर्यन्ततो निजात्मन उदारतासाधनं तादृशं कर्तव्यं सिध्येद् येन् भवान् परिणामे सुखं शान्तिं च पूर्णतया समधिगच्छेत्।
अत्र शङ्का सेयमुपतिष्ठति- यद्यात्मन उदारतासाधनमेव जीवनस्योद्देश्यम्, आत्मोन्नतिसाधनं च तत्सर्वदा सुखदायकमेव तर्हि गौतमबुद्धादि-महापुरुषैरपि निजजीवनकाले कथं कष्टान्यवाप्तानि, जनता कथं काले काले तेषां विरोधाय समुत्थिता? अन्यदेशेष्वपि समवलोक्यताम्, महात्मा सुकरात: दिव्यात्मा ईशुख्रिष्टश्च किं नास्तामुदारात्मानौ, पुन: कथं ताभ्यां घोराद्घोरतमं कष्टमधिगतम्? एकेन विषपानं कृतम्, अन्य: शूलारोपेण प्राणान् व्यसृजत्। भवन्मतानुसारमात्मन औदार्यसाधनमिदं यदि सुतरां निष्कण्टकं निष्प्रतिबन्धं च तर्हि कथं जनास्तयोरेकान्तत: सपत्ना: समभूवन् येन तयो: प्राणान्तमेव कृत्वा तृप्तिरभूत्तेषाम्?
अत्र हि नैतदपि समाधानं सम्भवति यज्जनास्तेषां विषये घोरतरमन्यायमेव कृतवन्त:। तयोनिर्दोषत्वनिरीहत्वेऽपि जनास्तयो: कृते दौरात्म्यमेव समवलम्बितवन्त इति। विप्रतिपत्तिरियमेवात्र समुत्तिष्ठति यत् महात्मनाम् (उन्नतात्मनाम्) जीवनोद्देश्यं कण्टकशून्यमेव चेत्प्रतिपद्यते तर्हि पूर्वोक्तानां महापुरुषाणामीदृशा: शत्रव एवं कथङ्कारं समपद्यन्त यै: कृतस्तेषां जीवनस्यान्त एव?
तर्हि श्रूयतामवधानेन-महात्मनां जीवनस्य सुखदु:खानि वयमात्मन: सङ्कुचितैर्विचारै-स्तुलयाम:। अस्माकं यानि सुखदु:खानि तैरेव तेषामपि सुखदु:खानामनुमानमुपकल्पयाम:। किन्तु सुस्पष्टोऽयं भ्रमोऽस्माकम्। महापुरुषाणामन्तरात्मा नितरामुन्नतो भवति, स हि निजसमयादग्रिमम्, भूयस्तरामागामिनमपि समयं लक्ष्यीकरोति। अत एव भविष्यत्समये भाविनीनां यासां घटनानामनुभवं ते निजजीवने कुर्वन्ति वयं तासामनुमानमपि कर्तुं न प्रभवाम:। अद्य यानि कार्याणि वयं सुखदु:खयोर्विषयमवधारयामस्तान्यागामिनि काले न तेषां सुखदु:खयोर्निमित्तानि तेषां सुखदु:खे ह्यस्मदपेक्षया विभिन्ने एव, विभिन्नश्च तयोर्विषय:। लघीयान् शिशुर्निजदु:ख-कष्टे एव केवलमनुभवति मातृ-भगिन्यो:, समीपपरिचारकाणां चाऽपि दु:खकष्टयोर्न तस्याऽनुभव:। किन्तु यथा यथा संवर्द्धते तथा तथा निजकुटुम्बिनामपि दु:खादीनामनुभवस्तस्य जायते। पूर्णवयस्के तस्मिन् जाते तु न केवलमात्मीयस्वजनादीनामेव दुखकष्टान्यसौ जानाति, अपितु समाज-स्वदेशादीनामपि कष्टान्यसौ आत्मन: परिबुध्यते। एवमेवास्माकमन्तरात्मा शनै: शनैरुन्नतो भवति। पर्यन्ते स समयोऽस्माकमागच्छति यदा हि निश्छला प्रतीतिरस्माकं चेतस्युदेति-
अयं निज: परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम्।।
महात्मनामन्तरात्मा तु उन्नतावस्थायाश्चरमसीमानमधिरूढो भवति। ते हि स्व-स्वकुटुम्बसमाजादीनां दु:खे न निक्षिपन्ति नेत्रे अपि। एते हि निज क्षणिकदु:खं विस्मृत्य संसारमात्रस्य दु:खदूरीकरणे तथा निश्चलनिलीना भवन्ति यत् स्व स्वसम्बन्धिनां भानं दूरत: परिहरन्त: प्राणपर्यन्तमपि सुखं विसृजन्ति। निजमनोऽभिलाषसिद्धौ तेषां तथाऽऽनन्दो भवति यस्याग्रेऽस्माकं क्षणिकसुखस्य न काचिद् गणना। अस्तु, ये विषया अस्माकं कृते दु:खकारका भवन्ति, यानि च दु:खानि निजमानसिकभावनयाऽनुभवन्तो वयं बहुधा कथयामो यदेतेषां महात्मनां जीवनं दु:खमयं व्यत्येत्, तादृशदु:खानामुपरि नैतेषां महात्मनां भ्रूक्षेपोऽपि। सोऽयमस्माकं महान् भ्रमो यदात्मनोऽनुमानेन-महात्मनामपि दु:खकष्टादीनां वयं कुर्म: कल्पनाम्। तेषा मनस्तादृशे उच्चभावे विहरति यदलौकिकदु:खानां प्रतीतिरेव तच्चेतसि न जायते। हालाहलो विषो योऽस्माकं कृते जीवननाशकतया भयङ्कर: स हि निजकर्तव्यपालनावस्थायां महात्मनामेषां समक्षममृतायित:। सुखसामग्रीव दु:खसामग्रयपि महापुरुषाणां कृते भिन्नप्रकारैव, न सा सङ्कुचितहृदयानामस्माकमिव।
अस्तु, प्राचीनेतिहासेषु महापुरुषाणां चरित्राण्यस्मभ्यमिमामेव शिक्षां वितरन्ति यन्निजात्मानमुदारमुन्नतं च सम्पादयेदित्येव नूनं जीवनस्योद्देश्यम्। सत्यस्य स्थायिनो निष्कण्टकस्य च सुखस्यायमेव महानुपाय:। शाश्वतिकशान्तेरयमेव सर्वोत्तमो मार्ग:। अस्माकं शिक्षादीक्षादिकमस्मदात्मन: परिष्कारस्यैव साधनम्। गुरुभि: प्रदत्ता शिक्षा, जन्मावधि समभ्यस्तं शास्त्रम्, कष्टसहनपूर्वकं परिशीलता साधुचर्या चास्माकमान्तरात्मनमेवोन्नमयति, यस्मिन्नुन्नते सति सर्वमप्युन्नतमस्मभ्यमवभासते। उन्नतात्मनां समक्षे न कस्यचित्सामर्थ्य प्रभवति यत्सम्पादयेत्तेषां विपरीतम्। यदि किञ्चिद्विपरीतमपि सम्पादयेत्तदपि सोऽयमात्मनोऽनुमानेनैव। महात्मानस्तु निश्चलनिरवद्यया लोकहितप्रवणया निजजीवनचर्यया न तद्विपरीतं परिगणयन्ति। तत् कथं तेषां दु:खोदय:? अत एवोच्यते-
उद्धरेदात्मनाऽऽत्मानं नाऽऽत्मानमवसादयेत्।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मन:।
वर्तमानयुगस्य परीक्षाप्रणाली च संस्कृतशिक्षा च
भारतवर्षे शिक्षाया: क्षेत्रं पुरा एतावद्विस्तृतं नासीदिति स्वीकर्तुं शक्नुम:, किन्तु एतेन सहैव एतदप्यवश्यमासीद्यत् सा पुरातनी शिक्षा सेवावृत्त्यर्थं द्वारं द्वारमाहिण्डमाना घोरतममपमानमपि कदाचिदेव असहिष्ट। प्राक्तनशिक्षाया: कृते यद्यपि भूयान् समयोऽपेक्षितोऽभवत्, कष्टान्यप्यनेकानि सोढव्यान्यभूवन्, परं सा शिक्षा स्थायिप्रभावा बहुमूल्या चाभवत्। एषु दिनेषु कालेजस्था विद्यार्थिनो हसन्त: क्रीडन्तश्च स्वल्प एव वयसि एम्.ए अथवा आचार्यपदकाङ्किता भवन्ति, किन्तु पूर्वमाचार्यतासम्पत्त्यर्थं भूयस: समयस्य अनल्पस्य चानुभवस्यावश्यकताऽभवत्। एतदर्थं ते गुरुकुले तीव्रां तपस्याम् , कठिनां च गुरुशुश्रूषामकुर्वन्। गुरुकुले तदेतत्क्लेशसहनं काचिन्निन्दनीया वार्ता नासीत्, प्रत्युत अस्मिन् भूयानभिमानो गौरवं चाऽगण्यत। अनर्घराघवस्य कर्ता मुरारिकवि: साभिमानमाह- ''गुरुकुलक्लिष्टो मुरारि: कवि:।’’
गुरुगृहस्थो विद्यार्थी यस्मिन्समये स्वाभिमतां विद्यां परिसमापयत् तस्मिन् समये स निजमनसि कामं कीदृशीमपि कृतकृत्यतामभ्यमन्यत्, परं गुरुकृतां परीक्षां विना विद्यायां कृतकृत्यता न कथञ्चिदप्यमन्यत्। यद्यपि शिष्यस्य योग्यता गुरो: सकाशान्न कथञ्चिदप्यपरिचिता तिष्ठति, परम् अध्ययनानन्तरं गुरव: पुनरप्येकवारं विद्यार्थिनां परीक्षामकुर्वन्। वास्तविकपरीक्षानन्तरं विद्यार्थी गुरुकुलाद्विसृष्टोऽभवत्। देवोत्सवे, तीर्थस्थानेषु, राजसभादिषु च अवसरानुसारं यत्र यत्र पण्डितानां समवाय: समभवत् तत्रैव गुरुकुलागतानां तेषां नवीनपण्डितानां परीक्षा शास्त्रविचारद्वारा समभूत् । ये किल तस्यां परीक्षायां सफला: समभवन् तेषां नाम नानादेशेभ्य: समागतानां पण्डितानां तद्विद्यार्थिनां च द्वारा देशदेशान्तरेष्वतिशीघ्रमेव प्रासिद्धयत्। ते हि सर्वस्मिन्नपि देशे तद्विषयस्य आचार्या: स्वीकृता अभवन्।
यथा यथैव समयस्य परिवृत्तिरभूत् तथा तथैव शिक्षाया: प्रकारेष्वपि परिवर्तनमभवत्। गुरूणां गृहात् आश्रमेभ्यश्च शिक्षा निर्वासितेवाऽभवत्। विदुषां शिक्षालया: 'टोल’ नाममात्रार्थमवशिष्टा अभवन्। वर्तमानेन राजभाषाया: प्रवाहेण तेषां स्थाने 'स्कूलानाम् कालेजानाम्’ च सृष्टिरक्रियत। तेषु प्रतिवर्षं सहस्रसहस्रसंख्यासु शिक्षिता: समवेता: समभवन्। एतावद्विस्तृताया: संख्याया: पूर्वमिव सहसैव परीक्षणमपि नासीत्सामान्यं कार्यम्। अत एव एतेषां शिक्षितानां परीक्षणाय नानाविधपरीक्षाणां सृष्टिरभवत् । मन्येऽहम्, परीक्षायुगस्याऽस्यारम्भ: षष्टिसप्ततिवर्षेभ्य: पूर्वमेवासीत्। परीक्षायुगस्यारम्भे साम्प्रतमिव परीक्षानियमेषु कामं कठिनता न भवत्, पाठ्यग्रन्थेष्ववश्यं कठिनताऽऽसीत्। किन्तु तस्मिन् समये यादृशी परीक्षासु कठिनताऽऽसीत् तथैव तत्परीक्षासु परीक्षिता विद्यार्थिनोऽपि वर्तमानसमयापेक्षयाऽधिकतरं योग्या: सम्पन्ना अभवन्। संख्यायां कदाचन न्यूना अवश्यं भवेयु: परं विद्यायां न्यूना न कदाचिदभवन्।
भारतीयैस्तत्तद्विश्वविद्यालयैर्यानि किल विवरणानि (रिपोर्ट) वर्तमानवर्षेषु प्रकाशितानि तेषां द्वारा, प्रत्यक्षानुभवेन च विवेकिभि: सज्जनैस्तदिदं निर्धारितमस्ति यत् वर्तमानपरीक्षाभि: परीक्षिता अधिकांशा विद्यार्थिनो न तादृशव्युत्पत्तिशालिनो निष्पद्यन्ते यादृशा: किल ते अपेक्ष्यन्ते। राजभाषाया इव संस्कृतभाषाया अपि शिक्षा: परीक्षाश्च साम्प्रतं नवीनेनैव प्रकारेण प्रचलिता: सन्ति। अत एव एतया परीक्षाप्रणाल्या वर्तमानसमये संस्कृतशिक्षाया: का दशा समजनि, एतस्यां च शोधनस्यावश्यकतास्ति न वा, एतस्मिन्विषये संस्कृतपण्डितानामवधानमाकर्ष्टुं वर्तमानाया: परीक्षाप्रणाल्या: सम्बन्धे किञ्चिदधस्तान्निवेदयामि। मन्ये, संस्कृतहितैषिण: पण्डितास्तदेतत्सम्यग्विचार्य, अनन्तरकरणीयाय सज्जा भवेयुरिति।
वर्तमानाया: परीक्षाप्रणाल्या: प्रवर्तकै: एम. ए. अथवा आचार्यपरीक्षा सर्वाभ्य: परीक्षाभ्य उत्कृष्टा परिगणितास्ति। इमां परीक्षां यदा किल प्रविशति विद्यार्थी, तत: पूर्वमेव क्रमानुसारं स हि तद्विषयस्य बहुतरान् ग्रन्थान् परिसमापयति। एतस्यां परीक्षायां प्रविष्टेन तेन तद्विषयस्य उच्चतमा कठिनाश्च ग्रन्था अध्येतव्या भवन्ति। एतस्यां परीक्षायां कठिनकठिनानाम् उत्कृष्टोत्कृष्टानां च ग्रन्थानां स्थापनेन तदिदमाशास्यते यत् एतद्ग्रन्थानामध्ययनेन स परीक्षार्थी तथा योग्यो भविष्यति यथा अवशिष्टान् तद्विषयकग्रन्थान् स स्वयमेव द्रक्ष्यति, तेषां तत्त्वञ्च स्वयमेव भोत्स्यते इति। एतन्नास्ति यत एव ग्रन्थास्तद्विषयस्य सर्वस्वभूता इति। यद्येवमभविष्यत् तर्हि 'व्याकरणाचार्य:’ 'न्यायाचार्य:’ इत्यादिव्यापकं नामधेयं नाभविष्यत्। न्यायस्याथवा व्याकरणस्याचार्यो न भूत्वा स ह्याचार्योऽभविष्यत्केवलानां तेषां ग्रन्थानामेव। यथा ग्रन्थविशेषोपरि पूर्णाधिकारेण 'भाष्यब्रह्मचारी’ 'नैषधपण्डित:’ इत्यादिप्रसिद्धि: पूर्वकालात्प्रचलितास्ति। किन्तु आचार्यपरीक्षामुत्तीर्णवन्तो जना: स्वविषये तु पूर्णपण्डिता ह्यमन्यन्त एव किन्तु तज्ज्ञानबलेन ते सर्वस्मिन्नपि संस्कृतसाहित्ये नि:शङ्कं व्यहरन्, तत्र च पूर्णतां प्रापन्।
परीक्षायुगस्य मध्यसमये सोऽयं संक्षेपप्रकार: प्राचलत् यत् परीक्षार्थिन: स्वपरिगृहीतायां परीक्षायामेव नियतान् ग्रन्थान् यथावदभ्यस्यन्, तेष्वेव च पूर्णमधिकारं प्राप्नुवन्। परीक्षोत्तरणानन्तरं तु जीविकाद्युपार्जनकार्येषु संसक्ततया एकस्मिन्नेव शास्त्रे रुचे: प्रबलतया वा, इतोऽधिकानां ग्रन्थानां विलोकनस्य न तेषामवकाश: समभवत्। परं पठितेषु ग्रन्थेषु तेषां पूर्णोऽधिकार: समभवदत्र तु न सन्देह:।
इतोऽग्रे शनै: शनै: सोऽयं प्रकार: प्रारभ्यत-यत् परीक्षानियतेषु ग्रन्थेष्वपि मुख्यमुख्या अंशा एव सपरिश्रममधीयन्ते स्म, न किल पूर्णास्ते ग्रन्था:। परीक्षाप्रवर्तकैरधिकारिभि: कठिनकठिनास्त एते ग्रन्था: अनेनाभिसन्धिना नियमिता आसन् यत् एतेषां ग्रन्थानामध्ययनेन तद्विषयस्यान्ये ग्रन्था: सहजमेव बुद्धिगता भविष्यन्तीति। किन्तु संक्षेपप्रवर्तकै: परीक्षाचतुरैर्नरै: सेयं युक्तिराविष्कृता-यत् 'परीक्षानियतेषु ग्रन्थेष्वपि एतानि स्थलानि स्वयमेव बुद्धिगतानि भवेयुरेव। तथा च परीक्षायां नियत: सोऽयं ग्रन्थस्तदेतेन प्रकारेणावगत एव। एवं च इतोऽन्ये एतद्विषयका ग्रन्था: परीक्षोत्तीर्णविद्यार्थिनामञ्जसैव बुद्धिस्था भवेयुरिति सोऽयं परीक्षोत्तीर्ण: स्वविषयस्य पूर्णापरिज्ञाता भवेदिति स्पष्टमेव।’ यत्किमप्यस्तु, परीक्षार्थिनो जना यद्यपि परीक्षानियतेषु ग्रन्थेषु मुख्यमुख्यानुपयुक्तविषयानेव परिश्रमेण सह अध्यैयत, यतस्त एव विषया: परीक्षासु प्रष्टव्या आसन्, परं नियतग्रन्थस्य अन्यान्यस्थलान्यपि ते गुरुमुखादवश्यमपठन्। एतन्नासीद् यत् पूर्णो ग्रन्थस्तस्मिन् समये पाठित एव नाभूदिति।
वर्तमानसमये तु संक्षेपस्यापि पराकाष्ठा परिकल्पिता लोकै:। संक्षेप: किम्, ग्रन्थानां प्रक्षेप:, परिसमाप्तिमेव वा परिकल्पिता तै:। मुख्यमुख्यानामथवा कठिनस्थलानां का कथा, या: किल वार्ता: परीक्षायां प्रष्टुं शक्या:, अथवा गतवर्षाणां प्रश्नपत्रेषु ये ये विषया: पृष्टा:, तानेव बहव: परीक्षार्थिनोऽभ्यस्यन्ति, लोकेभ्यश्च तान्परिपठन्ति। परीक्षानियतग्रन्थानामूलचूडं पठन्त्येव न । यदि केनचित्कारणेन बलात् पठनीया अपि भवन्ति तर्ह्यपिग्रन्था अवगता भवेयुरिति धारणया न पठ्यन्ते। पठ्यन्ते केवलं परीक्षाप्रदानार्थमेव । इदानीं भवन्त एव कथयन्तु, परीक्षार्थिनां व्युत्पति: कथङ्कारं भवेत्?
अस्माकं महर्षीणां सर्वत: प्रधानं लक्ष्यमासन् भगवन्तो वेदा:। ते हि बलपूर्वकमाज्ञापयन्ति 'ब्राह्मणेन निष्कारणो धर्म: षडङ्गो वेदोऽध्येयो ज्ञेयश्च।’ अस्माकं प्रतिष्ठाऽऽसीद् दर्शनग्रन्थै:। अस्माकमाध्यात्मिकतत्त्वोपरि उन्नतम्मन्या अपि वैदेशिका: साम्प्रतमपि पूर्णतया न प्रगतवन्त:। आर्षग्रन्थानामनुवादेन यद्यपि तैर्भूयानुपकार: कृत: परं तन्मर्मपर्यन्तमद्यापि ते यथावन्न प्राप्तवन्त: । ये वैदेशिका विद्वांसोऽस्माकं दर्शनानां यत्किञ्चन तत्त्वमधिजग्मुस्ते उन्मुक्तहृदयेन प्रशंसति- ''यस्मिन् देशे उपनिषत्सदृशानि ग्रन्थरत्नानि प्रसूयन्ते, अवश्यं स देशो ज्ञानज्योतिषामाकरभूत:।’’ कथनस्य सारमेतदेव यद् भारतीयानामार्याणां चरमं ध्येयमासीदात्मतत्त्वम्।
आत्मतत्त्वपर्यन्तां गतिं सम्पादयितुम्, भाषाया उपरि अधिकारमधिगन्तुं प्रथमतो व्याकरणस्य न्यायस्य चाध्ययनं प्रचलितमभूत्। यतोहि व्याकरणादि परिज्ञानं विना शास्त्रग्रन्थेषु सम्यक्तया प्रवेशयोग्यता न भवति । अत एव पण्डितमण्डल्यां प्रसिद्धमभूत्-''काणादं पाणिनीयं च सर्वशास्त्रोपकारकम्।’’ इति ।
पुन: किञ्चित्समयानन्तरमिदमभूत् यद् व्याकरणन्यायसदृशे एकस्मिन् शास्त्र एव लोकानामध्ययनविरामोऽभवत्। तेषां मनसि दृढाग्रहोऽभवत् यत् यावत्किल व्याकरणन्यायसदृशानां गहनशास्त्राणां पूर्णतत्त्वज्ञा न भवाम तावत्पर्यन्तं शास्त्रज्ञतैव कीदृशी। एवं किल मध्यसमये एकैकशास्त्राणां पाण्डित्यं बहुलतया प्राचलत्।
अस्तु नाम, एतदपि सम्यगेवासीत्। अस्माकमेकैकशास्त्राणां रक्षा तु यथाकथञ्चिदभवत्। यद्येकैकशास्त्रेष्वेव निपुणा बहवो विद्वांसो भवेयु: कश्चन न्याये, कोऽपि व्याकरणे, कश्चिच्च मीमांसायां धुरन्धर: स्यात्तर्हि तेषां द्वारा पठनपाठनप्रचारे सति पूर्वोक्तानां रक्षा सहजमेव सम्भवेत्। परमग्रे गत्वा अस्यामपि प्रणाल्यां संक्षेपप्रकार: सोऽयं कर्तव्योऽभूद्यदत्रापि परीक्षाप्रकारो नियमनीयोऽभवत्। परीक्षार्थिनो बाला: लघुकौमुद्यादित आरभ्य भाष्यपर्यन्तान् कठिनकठिनग्रन्थान् पूर्वं गुरो: सकाशादपठन् ततो ग्रन्थाधिगमोत्तरं तास्ता: परीक्षा: अददु:। परीक्षोत्तरणानन्तरं तु गुरुसकाशादधिगतस्य ज्ञानस्य बलेन अन्यान्यानपि ग्रन्थान् स्वयमवलोक्य अपेक्षितं वैदुष्यं सम्यक् सम्पादयामासु:।
एतेषु परीक्षाप्रकारेष्वपि क्रमश: सङ्क्षेपे प्रचलति-प्रचलति साम्प्रतमियत्पर्यन्त-मुन्नतिरभूत् यत्परीक्षैव सम्प्रति एकतमं शास्त्रं सञ्जातास्ति। बहवो महात्मान: प्रगतवर्षाणां प्रश्नपत्राण्येव सम्यग् रटित्वा परीक्षाप्रदानस्य साहसं कुर्वन्ति, संयोगाच्च ते तस्यामुत्तीर्णा अपि भवन्ति। सम्प्रति हि प्राय: सर्वासामेव परीक्षाणां गतवर्षीयाणि प्रश्नपत्राणि मुद्रितान्युपलभ्यन्ते। पण्डितमहाभागै: द्रव्यलाभलोभेन तदुत्तराण्यपि मुद्रापितानि सन्ति । अनेनैव प्रकारेण, सिद्धान्तकौमुद्या: पङ्क्तीनां व्याख्या अपि 'पङ्क्तिप्रकाश’ 'पङ्क्तिचन्द्रिका’ दिनानानामधारिण्यो मुद्रिता: सन्ति। गतवार्षिकेषु प्रश्नपत्रेषु पृष्टानां पङ्क्तीनां विशदीकरणमेभिरेव पुस्तकै: परीक्षार्थिनो रटन्ति, तासामाशयस्तेषां हृदयेऽङ्कितो भवेन्न वा इति त्वन्यत्। परीक्षायां येन केनचित्प्रकारेण उत्तरणमेव तेषां चरमं लक्ष्यम्। यतो हि शतपूर्णाङ्केषु त्रयसंत्रिशद्योग्यताङ्कलाभ एव तेषां कृते शास्त्रज्ञतायाश्चरमा सीमा। ये पण्डितमहोदया: संस्कृतोपरि किञ्चित्कृपां कृत्वा स्वयमपि किञ्चित्परिश्रमं कर्तुं वाञ्छन्ति ते परीक्षायां नियतानि यानि काव्यानि सन्ति तच्छ्लोकानां व्याख्यां स्वयं लिखित्वा निजसमीपे स्थापयन्ति। परीक्षाकाले सन्निहिते ते पञ्जिकामेतां विद्यार्थिभ्य: समर्पयन्ति येन ते तां व्याख्यां लिखित्वा रटेयु:।
प्रथमं तु परीक्षाप्रवर्तकैरेव पाठ्यग्रन्थेषु सरलताया: परिसीमा समापितास्ति। काश्यादिस्थानेषु सिद्धान्तकौमुद्या: परीक्षा चतुर्भिर्वर्षैर्भवति। पूर्वपूर्ववर्षे कौमुद्या: यो भाग: पठ्यते (नहि नहि यस्य भागस्य परीक्षा दीयते) अग्रिमवर्षेषु स भागो विद्यार्थिभि: स्पृश्यतेऽपि न, यतो हि अग्रतनवर्षेषु पूर्वभागस्य परीक्षा न भवति। यस्मिन् समये विद्यार्थी चतुर्थखण्डे कौमुद्या अन्तिमभागस्य परिक्षां ददाति तावत्पर्यन्तं प्रथमखण्डे पठितं भागं स हि बहुतरं विस्मरति। प्रकाशं तु स सिद्धान्तकौमुदीं समापयति परम् इतो बोधविषये स तां सर्वकालार्थं विसर्जयति। आचार्यपरीक्षायामयं नियम आसीत्पूर्वम् यत् परीक्षार्थी स्वेच्छानुसारं खण्डविनिमयं कर्तुमशकत्। स यद्यवाञ्छत् तर्हि चतुर्थं खण्डं प्रथमददात् पुन: स्वसौकर्यानुसारं चरमसमये प्रथमखण्डस्य स्पर्शमकरोत्। अस्तु, इदानीं तु परीक्षार्थिभिरस्मिन् विषये एतावदुन्नति: कृता यत्ते पाठ्यग्रन्थै: साकमेव अधिकं सम्बन्धं न स्थापयितुं वाञ्छन्ति। ते हि तैर्विषयै: स्थलैर्वा सहैव ऐच्छिकं सम्पर्कं पुष्णन्ति ये किल परिक्षासु प्रष्टुं शक्यन्ते। अत एव ते पुरातनप्रश्नपत्राणां द्वारा, अथवा गुरुमहोदयस्य हस्तलिखितानां पञ्जिकानां द्वारा तत्तत्स्थलानि बुद्धिस्थानि कुर्वन्ति, तैर्ग्रन्थै: साकं तेषां साक्षात्सम्बन्ध: कियान्?
मम परिचिता एके महोदया आसन् येषां नामप्रकाशनेनापि न किञ्चित्फलम् यतो हि तेषां देहावसानं जातमस्ति। ते प्रथमप्रथमं साहित्यस्याचार्यपरीक्षामुदतरन् किन्तु तदनन्तरं ते प्राय: प्रत्येकवर्ष एव यस्य कस्यचिद्विश्वविद्यालयस्य आचार्यपरीक्षां वा तीर्थपरीक्षां वा अवश्यमददु:। ते हि 'आत्मैव गुरुरात्मन:’ इत्याभाणकस्य प्रत्यक्षमुदाहरणमासन्। स्वबुद्धिबलेनैव ग्रन्थान् दृष्टवा वेदान्तसांख्यन्यायादीनां, न जाने कियतां कियताञ्चन शास्त्राणां तै: परीक्षा दत्ता अभूवन्। एकदा मया पृष्टास्ते मित्रताया: सम्पर्कान्मामवोचन्-यदा हि परीक्षाया दिनानि सन्निहितानि भवन्ति तदाहमेकवारं नियतग्रन्थानेतान् सामान्यतया विलोकयामि। मम तावाननुभव: सञ्जातोऽस्ति यत् अस्मिन्ग्रन्थे एतान्येतानि स्थलानि प्रष्टुं शक्यन्त इति। अथाहं स्वयम्, अन्येषां पण्डितानां वा साहाय्येन तानि स्थलानि परीक्षोपयुक्तानि सज्जीकरोमि।
एवं किल पूर्वोक्तप्रकारेण व्याकरणादिशास्त्राणां परीक्षा उत्तीर्यन्ते किन्तु व्याकरणाध्ययनस्य फलं यत् शब्दसाधुत्वं व्युत्पत्तिर्वा, तत् कथमपि न भवति। अस्यां दशायां 'व्याकरणाचार्या’ इत्यनुक्त्वा 'परीक्षाचार्य’ इत्युक्ति: समञ्जसा स्यात्, अथवा 'व्याकरणं पठितम्’ एतस्य स्थाने 'तत्परीक्षा पठितास्ति’ इति कथनमुचितं भवेत्।
पूर्वं हि रक्तपीतादिवर्णै: रत्नानां भस्मौषधानां वा बाह्या परीक्षा समभवत् किन्तु सम्प्रति कृत्रिमोपायैस्तान् तान् रक्तपीतादिवर्णानुत्पाद्य कृत्रिमरत्नानि भस्मौषधयो वा चतुरै: सृज्यन्ते यानि हि समर्घमूल्येन देशेऽस्मिन्नितस्ततो विकीर्यन्ते। एवं किल प्रत्यक्षं पश्यतामेवास्माकं कृत्रिमसृष्टि: (इमीटेशन) प्रारब्धास्ति। धावनादिना शरीरस्वास्थ्यं भवतीति विचार्य किञ्चिद्दूरस्य यत्किञ्चित्परिमाणं स्थिरीकृत्य तत्र हि सङ्केतितं किञ्चिद्वस्तु स्थाप्यते, घोष्यते च यो वा जन एतद्वस्तु नियतसमये समानेष्यति स एव वीर: परिगणयिष्यत इति। किन्तु चतुरम्मन्या नरा: स्वास्थ्यस्य विचारमकृत्वा येन केनापि धौर्त्येन सङ्केतितं तद्वस्त्वेव आनेतुं वाञ्छन्ति तावद्दूरं धावनस्य कष्टं न ते सोढुमिच्छन्ति। परं शारीरिकव्यायामेन य: किल लाभो भवेत्स एतस्यां प्रवञ्चनायां कुत: सम्भवेत्?
मम विचारानुसारम् एतस्मिन्व्यतिकरे परीक्षार्थिनां तावान् दोषो नास्ति यावान् किलाध्यापकमहाभागानाम्। अनेन अकर्मण्येन अध्यापनरूपप्रतारणेन वयं बालकानां जीवनं सर्वथा क्षतिग्रस्तं कुर्म: यतो हि संस्कृतमधीयाना जना: संस्कृते व्युत्पत्तिशैथिल्यात् आत्मतत्त्वाद्यन्वेषणद्वारा जायमानमदृष्टलाभमपि न प्राप्रुवन्ति। तथा स वै दृष्टलाभोऽपि (सांसारिकलाभ:) तेषां दुष्प्रापो भवति यो हि राजभाषाद्यध्ययनद्वारा साम्प्रतमुपलभ्यमानो विलोक्यते। एवमुभयतो भ्रष्टास्त इमे संस्कृताध्यायिन: स्वाध्यापकानपि घोरतरापराधस्योत्तरदायिनो निर्मान्ति।
उचितवय: सम्पन्नानां तेषां विद्यार्थिनां कथां साम्प्रतमहं परित्यजामि-ये किल उच्चपरीक्षाप्रदानार्थमस्मत्समीपे समागच्छन्ति। ये मुग्धा बालका: प्रथमां परीक्षां दातुमस्माकं पाठशालायां समागच्छन्ति तै: साकं वयं किं कुर्म:? वयं हि स्वपरिश्रमस्य समयस्य च लाघवाय पुरातनलिखिता: पञ्जिका: प्रश्नपत्राणि च घोषयित्वा तान्परीक्षातो यथाकथञ्चिदुत्तारयाम:। परमेतेन तेषां किञ्चिज् ज्ञानं सम्पन्नम्? स हि अव्युत्पन्नो जडमतिरेव अनेनैव प्रकारेण उच्चपरीक्षास्वपि यथा कथञ्चित् प्रक्षिप्तं पाठान्तरमिव रिङ्गन् रिङ्गन् बलात्प्राप्रोत्येव। एतस्मिन्काण्डे मूलतोऽपराधो कोऽस्ति? अहं जाने बालकस्यात्रापराधो नास्ति। भवन्तो बालस्य लक्षणं कुर्वन्ति-'अनधीताऽमुक शास्त्रो बाल:’ इति। एव हि अज्ञोऽस्ति तदैव तु भवत्सविधे समागतोऽस्ति। इदानीं श्रीमतामेव कर्तव्यमस्ति यत्तस्मै भवन्त: समुचितं पन्थानमुपदिशेयुरिति। किन्तु भवन्तस्तम् इति भ्रष्टं कृत्वा परित्यजन्ति। यदि स श्रीमतामनुग्रहेण पाठ्यपुस्तकस्य बोधेऽपि समर्थ: स्यात्तदापि किञ्चित्चत्कार्यं जातमिति कथञ्चित्सन्तोष: स्यात्। परं भवन्तस्तु तद्द्वारा केवलं परीक्षामेव दापयन्ति, बोधविषये तु शून्यतैव सर्वथा विलोक्यते। भवतामिदमविदितं नास्ति 'यत् अयं बाल: पुस्तकविषयं किञ्चिदपि न बुद्धवानस्तीति’। अत एव तु भवन्त: पूर्वप्रश्नपत्त्राणामुत्तराणि तं रटयन्ति। यदि तज्ज्ञानस्योपरि भवतां विश्वासोऽभविष्यत् तर्हि भवन्त: शुष्करटनार्थं घोरामिमामाज्ञां कदापि न अदास्यन्।
स्पष्टकथनं चेत्क्षन्तव्यं भवेत्तर्हि अहं सविनयं निवेदयिष्यामि यत् बहव: स्वयं पण्डिता एव एतेनैव प्रकारेण परीक्षामुत्तरन्त: प्रमाणपत्त्राणां बलेन अध्यापकपदं लब्धवन्त: सन्ति। देवमन्दिरे धर्मपूर्वकं चेत्पृच्छ्येत तर्हि स्वयं त एव आत्मनस्तादृशीं योग्यतां स्वीकर्तुं न शक्नुयु:। परं पाठशालाया: सञ्चालकस्य श्रेष्ठिमहोदयस्यानुरोधेन, जीविकाया लोभेन, किं वा अप्रतिष्ठाया भयेन ते आत्मानं तदभिज्ञं प्रख्यापयन्तो महामहाग्रन्थानप्यध्यापयितुं बाध्या भवन्ति। इदानीं श्रीमन्त एव विचारयन्तु, यद् वराकाणां तेषां सविधे सम्प्रति एतमुपायमन्तरा वा काऽन्या गतिरस्ति यत्ते येन केनाप्युपायेन तान् विद्यार्थिन: परीक्षामुत्तीर्णान् कारयेयु:। अत एव ते ग्रन्थस्य वास्तविकतत्त्वं बोधयितुमप्रभवन्तोऽपि बाह्यैरुपायै: स्वशिष्यान् परीक्षासूत्तारयन्ति। ते च शिष्याभासा: अनया प्रवञ्चनया उत्तीर्णा: सन्तोऽस्माकं मिथ्याकीर्तिस्थापनस्य निस्सारसाधनानि सम्पद्यन्ते। वयमुपरित: सन्तुष्यामो यदस्माकं शिष्य: शास्त्रिपरीक्षायामुत्तीर्ण: परं जगत्साक्षिण्या: सरस्वतीदेव्या: सन्निधाने भगवतो धर्मस्य च दृष्टौ अस्माकमन्तरात्मा नितान्तं व्यथते यद्वयमज्ञा: सन्तोऽपि मुधैव पाण्डित्यदम्भं कुर्म:।
प्राचीनपण्डितानां श्रूयते वृत्तं यत्ते पाठनीयग्रन्थेषु यत्स्थलमसंलग्नमभविष्यत्तर्हि तदर्थं ते स्पष्टमकथयन-यत् इदं स्थलं समयान्तरे सम्यग् द्दष्ट्वा पुन: कथयिष्याम:। अथवा इदं स्थलममुकपण्डितस्य सविधे पठ इत्यादि। परमेतदर्थमपि अध्यापकस्यात्मबलमपेक्ष्यते। ये वराका: आदित आरभ्य अन्तपर्यन्तमपक्वा: सन्ति ते एतादृग् बलं कथमिव लभेरऩ्?
अस्तु, इदानीमेतदेव कर्तव्यं प्रतीयते यत् परीक्षोत्तीर्णानां संख्यावृद्धौ अधिकमवधानं न क्रियेत। सम्यग् ग्रन्थाभ्यासे सत्येव विद्यार्थिभ्य: परीक्षादानार्थमनुमतिर्दीयेत। परीक्षा किल शास्त्रज्ञानस्य परिचयिकामात्रम्। सा निजस्थान एव तिष्ठतु नाम। सा स्वयमेव शास्त्रस्वरूपं न धारयेदिति अवधातव्यं भवेत्। यदि भवतां सकाशाद् द्वावप्युत्तमौ विद्यार्थिनौ परिनिष्ठितौ भविष्यतस्तर्हि भवद्भ्य: कीर्तिमाशीर्वादं च दद्याताम्। रत्नं किल एकमप्युत्तमम्। प्रस्तराणां राशिस्तु द्वारोपान्ते एवमेव सुलभोऽरून्तुदश्च। भवन्त एव तु कथयन्ति-'एक: शब्द: सम्यग् ज्ञात: स्वर्गे लोके कामधुग् भवति’। श्रीमन्तस्तावदपक्वान् इमान् पण्डिताभासानुत्पाद्य असाधुशब्दसृष्टेरक्षय्यमाकरमिव निष्पादयन्ति येन हि कालान्तरेऽपि असाधुशब्दसृष्टिर्न निरुद्धा भवति। किमेष व्यतिकरोऽस्मान् नरकं न दर्शयेत्?
अहं पूर्वं लिखितवानस्मि सत्सैषा परीक्षाप्रणाली नाऽद्यतनी। अस्या: किल प्रचलिताया: व्यतीतानि बहुतराणि वर्षाणि। परं प्राक्तना: पण्डिता: स्वशिष्यं सम्यक्तया शास्त्रेषु विनयन्ति स्म। प्रतिदिनं पूर्णपरिश्रमं कृत्वा कारयित्वा च ग्रन्थानामभ्यासं विद्यार्थिभ्यो दृढतरं कारयन्ति स्म। तत: समये लब्धे सति परीक्षाप्रकाराणामपि तान् विद्यार्थिन: परिचितानकार्षु: गतवार्षिकाणि प्रश्नपत्राणि दर्शयित्वा पठितग्रन्थानामावृत्ति विद्यार्थिभि: कारयन्ति स्म। एतन्नासीद् यत्ते प्रश्नपत्रद्वारा अनुचितं लाभमुपार्जयामासुरिति। यस्मिन् समये तेषां शिष्य: पठित्वा परिनिष्ठितोऽभवत्, ततस्ते यत्र कुत्रापि कठिनात्कठिनेऽपि परीक्षकविश्वविद्यालये तमेतं विद्यार्थिनं परीक्षार्थं प्राहिण्वन्। अकथयन् यदिदमस्माकं सुवर्णं विशुद्धमुच्चकोटेश्चास्ति। य: कोऽपि स्वर्णपरीक्षकस्तदेतन् निकषेण स्वैरं परीक्षतां नाम, काऽस्माकं भीति:?
किन्तु अद्यत्वे वयमीदृशं विश्वविद्यालयमन्वेषयामो यस्मिन् हि परीक्षायामत्यन्तमेव सारल्ये भवेत् 'खण्डे खण्डे च पाण्डित्यं’ प्राप्य शीघ्रमेव आचार्य: संपद्येत। इदृशेभ्य: परीक्षास्थानेभ्यो वयं बिभिमो येषु हि एकवारमेव सर्वेषां ग्रन्थानां परीक्षा भवति, प्रतिवर्षं च प्राक्तनपठितानामपि भागानां परीक्षार्थमावृत्ति: करणीया भवति। वयं वाञ्छामो यद्विद्यार्थी द्वित्रैरेव ग्रन्थै: 'तीर्थो’ भवेत्। इदमवसरान्वेषणमेव सूचयति-यद् भवतां वस्तुनि काचित्त्रुटिरस्तीति। यदि भवतां सुवर्णं विशुद्धं सत्यं चास्ति तर्हि अन्धप्रायं नाणकपरीक्षकम् (सर्राफ )किमित्यन्वेषयथ? मध्येराजमार्गं परीक्षणं किमिति न कारयथ?
अहं हि परीक्षाप्रणाल्या अन्धविरोधी नास्मि। यतो ह्यहमपि एतस्मिन्नेव परीक्षायुगे शिक्षितगोष्ठ्यामन्तर्गणनायोऽस्मि संवृत्त:। यदा ह्यस्मिन्समये वर्तमानं परीक्षाप्रकारं विना एतावत्संख्याकानां लोकानां शिक्षासमीक्षणं सम्भवत्येव न, तदा एतं प्रकारं विहाय अन्य उपाय एव क:? किन्तु वर्तमानेषु कतिपयवर्षेषु परीक्षार्थिभिर्जनै: परीक्षाप्रकारस्य योऽयमेकान्ततो दुरुपयोग आरब्धस्तस्याहमवश्यं विरोधी अहमेव किम्, संस्कृतशिक्षाप्रचारमभिलषन् प्रत्येकं सज्जन एव मन्ये एतस्य विरोधी भवेत्। बहव: किल सज्जना: परीक्षायुगमेवाऽन्यदृष्ट्या पश्यन्ति। मयापि 'साहित्यवैभवे’ प्रोक्तम्-
(छप्पय)
''यदि गतिमुरीकरोषि सखे शिक्षासुखसिन्धौ
चिरतरममरीकरणगुणाऽमृतझरीसुबन्धौ।
तर्हि चपलफ लकरी रीतिरुररीकरणीया
यदिह परीक्षातरी परीक्षणयुगेऽवनीया।
अयि मञ्जुनाथ नवयुगपरीवाहविपुलवैभवकरी
वरविद्यासिन्धूपरिचरी नौरियमधुना जयकरी।।’’
चिरकालार्थममरीकरणगुणस्य या अमृतझरी (प्रवाह:)तस्य मित्रभूते शिक्षासिन्धौ यदि गच्छसि तर्हि शीघ्रफलकरी इयं रीति: स्वीकार्या यत् परीक्षातरि: (नौका) रक्षणीया। नवयुगप्रवाहे- विद्यासिन्धो: उपरिगामिनी इयं परीक्षारूपा नौकैव जयकरी। उपरिचरीत्यनेन- परीक्षया शास्त्रसिन्धोस्तलस्पर्शो न भवति, उपरितो गतिर्भवतीति सूच्यते इत्याशय:।
पूर्वं शास्त्रविचारेण योग्यतापरिचयोऽभवत् इदानीं परीक्षाप्रमाणपत्रैर्भवति। शास्त्रविचार: कुत्रापि भवतु तदर्थमवसरान्वेषणं नाभवत्। इदानीमपि व्युत्पत्तिं वास्तवज्ञानं च वाञ्छद्भिर्जनै: कठिनात्कठिनेऽपि विश्वविद्यालये परीक्षाप्रदानान्न विमुखीभवितव्यम्। भवन्त: सुवर्णसङ्ग्रहसमये कियतीं वा परीक्षां न कारयन्ति? भवन्तो नाणकम् (सिक्का) कियद्वा परीक्षयन्ति, इदं न भवेत् यत् अवसरे एतदयोग्यं कूटं च सिध्येत्। एवमेव निजान् बालकान् वास्तवव्युत्पत्तिशालिन एव किमिति न सम्पादयथ? सरलतरपरीक्षास्थानान्वेषणात्तु एतदेव प्रतीयते यद् भवन्त: केवलं परीक्षाप्रमाणपत्रमेव वाञ्छन्ति येन कुत्रचिद् भृतिकार्यं लभ्येत। ज्ञानस्य नाऽपेक्षा प्रतीयते।
विद्याध्ययनस्य मुख्यतमं फलं हृदयपरिष्कारो ज्ञानं च। समयमहिम्ना ये किल महोदया धनलाभमेव शिक्षाया: प्रधानं प्रयोजनं मन्यन्ते तेषां कृते उपरि वर्णितं नेदं सर्वम्। किन्तु धनलाभार्थमेव चेद्विद्याऽधीयते तर्हि पठ्यतां सामयिकी विद्या! अथवा यदि धनोपर्येव प्रधानं लक्ष्यं दृढतरं बद्धमस्ति तर्हि क्रियतां तूलग्रन्थ्यादीनां व्यापार:। आश्रीयतां 'तेजीमन्दी’ व्यवसाय:! किं वा सर्वत: शीघ्रमेव धनिकतासम्पादको द्यूतापरपर्याय: फाटका, नीलाम, फीचर्स व्यापारो वा निषेव्यतां यस्मिन्नध्ययनकृत: परिश्रम एव न सोढव्यो भवति। किन्तु विवेकिनो जना जानन्ति यत् एभि: कार्यैर्धनमवश्यं लभ्यते, परं ज्ञानरूपो निधि येन हि हृदये प्राञ्जलभाव: समेति, न हस्तगतो भवति। नवीनशिक्षाप्रणाल्या देशे शिक्षाया: स्वरूपमेव विपरिवर्तितम्; उद्देश्यमेवान्यथा सम्पादितम्। अद्यत्वे हि नवीनपद्धत्या शिक्षिता अपि लोका: शिक्षाया वास्तविकं फलं नाधिगच्छन्ति। घोरपरिश्रमं कृत्वापि नाममात्रार्थं लाभो भवति एतद्विषये मम ये विचारास्ते 'साहित्यवैभवे’ अंशत: प्रकाशिता मया। मन्ये, अत्र तेषां सूचना पाठकानां नारून्तुदा भवेदिति कतिचित्पद्यानि भावार्थसहितानि अधस्तादुद्धरामि -
कवित्त-घनाक्षरी
चित्तपरिष्कारे या हि शिक्षा भूरिदक्षाऽभव-
द्वित्तपुरस्कारेणैव साऽद्य सुपटीयसी
पूर्वपुरुषाणां पुरा पद्धति: प्रकृष्टाऽभव-
न्नव्यपुरुषाणामद्य सरणिर्गरीयसी।
मञ्जुनाथ जानीयाम दूरदूरदेशकथां
'को धर्मोऽथ, के वयम्’कथेयं तु दवीयसी
वर्तमानकाले बत शिक्षावधूभालेऽलेखि
कालेजेन चारुचित्रमालेयं महीयसी।। १।।
या शिक्षा चित्तस्य परिष्कारे शोधने निपुणा आसीत् सा अद्य धनप्राप्त्यैव उत्तमा गण्यते। पूर्वं हि पुरातनपुरुषाणां रीतिरुत्तमा अगण्यत, अद्य तु नवीन-लोकानां पद्धतिरेव महती मन्यते। वयं भूगोलेतिहासपुस्तकानां द्वारा दूरदूरदेशानां कथां जानीम: परं वयं के, अस्माकं धर्म: क:, इत्याद्यात्मकथा तु दवीयसी-अतिदूरस्था अत एव 'कालेजेन’ शिक्षावध्वा ललाटे इयं चित्रमाला (यत् आत्मानमपि वयं न जानीम:, इति आश्चर्यमयी, आलेख्यमयी च) अलेखि।। १।।
बाल्यादेव भूरि भूरि पुस्तकानि घोषन्तोऽपि
शिक्षायां न सन्तोषं सृजन्ति जना मीयताम्
पूर्वपरिचयाय पाठ्यमितिहासाद्यपि
देशभाषां त्यक्त्वा हूणभाषया ह्यधीयताम्।
सर्वमेतत्सोढ्वापि च भ्रम्यतां बुभुक्षावशात्
शिक्षाफ लमाध्यात्मिकशान्ति: क्वोपनीयतां
मन्दतममाटीकितविद्यावृक्षवाटीसुखा
वर्तमानशिक्षापरिपाटीयं निपीयताम्।।२।।
बाल्यादारभ्य बहूनि पुस्तकानि परीक्षार्थमधीयाना अपि जना: शिक्षायां सन्तोषकरं फलं न दर्शयन्ति, इत्यनुमीयताम्। पूर्वजानां परिचयाद्यर्थम् इतिहासो भूगोल च पठ्यते, परं नवीननियमानुसार सोऽपि इंग्लिशभाषाद्वारैव पठ्यताम्। एतत्सर्वं सहित्वापि भृतिकार्यस्याऽलाभे बुभुक्षापरवशैर्भृतिकार्यान्वेषणार्थं भ्रम्यताम्। ततश्च शिक्षाया: फ लम् या आध्यात्मिकी शान्ति: सा क्व उपलभ्यताम्? अत एव अतिमन्दं यथा तथा आटीकितं (प्राप्तम्) विद्यारूपाया: वृक्षवाट्या: सुखं यया ईदृशी। वर्तमानशिक्षाप्रणाली, निपीयताम् अतिशयेन परिशील्यताम्।।२।।
वैदेशिकभाषाचाकचक्याऽऽचान्तचित्तस्थले
रोहति,विमोहजलै: सिक्तो यो विधीयते
आत्ममातृभाषात्यागखाद्यपरिपुष्टो यो हि
गौरवगरिष्ठो गर्वशाखाशतैर्गीयते।
चित्रं बहुकालाज्जात-'बी.ए.एम.ए.’ पुष्पोदयो
नेत्रद्युतिमन्दताऽऽमयोऽपि सह नीयते
भाग्यतोऽभिरूढराजतन्त्रभृतिभिक्षाफ ला-
द्वर्तमानशिक्षाकुब्जवृक्षात्को महीयते?।।३।।
वर्तमानशिक्षारूपो य: कुब्ज: (लघुर्वक्रश्च) वृक्ष: तस्मात् को वा जन महीयते महितो भवति? न कोपीऽत्यर्थ:। इदानीं शिक्षायां वृक्षस्य रूपकं साधयति-वैदेशिकभाषाया: चाकचक्यम् (नेत्रमोहकचमत्कार: 'चमक’)तेन आचान्ते अभिभूते चित्तरूपे स्थले स वृक्ष: रोहति। विमोह: आत्मभाषागुणेषु अगुणत्वदर्शनम् स एव जलम्। तादृशैर्जलै: सिच्यते। आत्ममातृभाषाया: त्याग: एव खाद्यम् (वृक्षाणां कृते 'खाद’) तेन परिपुष्टो य: अभिमानरूपै: शाखाशतै: गौरवगरिष्ठो विपुलोन्नाह: गीयते कथ्यते। बी.ए., एम.ए. रूपाणि पुष्पाणि चिरादुत्पद्यन्ते, किन्तु एतेन सहैव नेत्रद्युतेर्मन्दतारूप: रोग: सह नीयते। भाग्यत: अभिरूढं राजतन्त्रसकाशात् भृतिभिक्षाप्राप्तिरूपं फलं यस्य। अर्थात् राजतन्त्रसकाशाद्वैतनिकताप्राप्तिरूपं यदस्या: शिक्षाया: फलं परिगण्यते तत्तु भाग्यादेव भवति।।३।।
अस्मिन् धनलोलुपताया अपि युगे सत्यं सत्यान्वेषणं यदा क्रियेत तदा साधारणबुद्धिरपि जनो धनापेक्षया ज्ञानस्य गौरवं सुस्फुटमभिमन्येत। निष्किञ्चनावस्थायां निवसतो ज्ञानिन: अद्यापि जना आदरं कुर्वन्ति। 'खद्दर’मयं कौपीनं धारयन् आध्यात्मिकतासम्पन्नो ज्ञानी अद्य समस्तेऽपि विश्ववलये महापुरुष: परिगण्यते। यदा च ज्ञानस्य शिक्षायाश्च गौरवं धनेन न परिमातुं शक्यते तदा वास्तवज्ञाननिधि: सेयं संस्कृतशिक्षा कस्मान्न समीक्ष्यते श्रीमद्भि:? भारतायैव किं समस्तस्य विश्वस्य कृते आध्यात्मिकताया मनुष्यसभ्यतायाश्च आदिमशिक्षयित्री संस्कृतभाषां विहाय काचिदन्या दृश्यते? यदि नास्ति तर्ह्येतस्या वास्तविकतत्त्वोपरि किं न दृष्टि: श्रीमताम्? केवलं परीक्षासु तल्लब्धप्रमाणपत्रेष्वेव श्रीमतां सतृष्णा दृष्टि: किमिति निपतति? परिश्रमपूर्वकं साधुरीत्या शास्त्रमधीयताम्। ग्रन्थाभ्यासे सति, उत्साहितेन बलपूर्णेन च ह्यदयेन परीक्षासु प्रविश्यताम्, उत्तमश्रेणौ चोत्तीर्यतां येन परीक्षोत्तरणानन्तरं ज्ञाननिधिरपि श्रीमतां सविधे सन्निहितो भवेत्।
लोका: परीक्षासम्पत्तिं विना परिश्रमं स्वल्पश्रमेण वा अधिकर्तुमिच्छन्ति। कतिपयकाकिणीभिरेव निधिमाहर्तुमिच्छन्ति। एतत्किल एतेनैव सिध्यति यत्परीक्षानियमेषु दिनं दिनं कठोरता करणीया भवति। ''अमुकपरीक्षोत्तरणानन्तरम् अग्रिमा परीक्षा द्वाभ्यामेव वर्षाभ्यां दातुं शक्येत। पाठशालायां प्रतिशतम् एतावत्य उपस्थितय अपेक्ष्यन्ते।’’ इयत्पर्यन्तमेतस्य नियमस्य कठोरता यत् स्वयमधीयानानाम् (प्राइवेट) अपि परीक्षार्थिनां कृते समयनियमोऽपेक्ष्यते। यतो हि पूर्ववर्णितयुक्तीनां द्वारा द्विचतुर्मासैरेव लोका: तत्तत्परीक्षामुल्लङ्घयितुमिच्छन्ति। अत एव, अनिच्छासत्त्वेऽपि नियमपारवश्यादेव किञ्चिन्न किञ्चित्तु अवश्यं पठितव्यं भवेदेतस्मादेव कारणात् परीक्षासु समयनियम: कृतोऽस्ति। यदि सत्या ज्ञानलिप्साऽभविष्यत्तर्हि कतिपयमासेषु एवं विधानां परीक्षाणां प्रदानमेव कथं सभूतमभविष्यत्, यदर्थमेवंविधा नियमार्गला अपेक्षणीया भवेत्।
इदानीं तु नाममात्रपरीक्षाणामपि परिश्रमं जना न सोढुमिच्छन्ति। संप्रति हि विना परीक्षामेव 'साहित्यधुरीण’ 'विद्याभास्कर’ 'महोपाध्याय’ 'साहित्यरत्न’ इत्यादय: पदव्यो लभ्यन्ते, यासां द्वारा बाह्यमाडम्बरं सज्जयन्तश्चतुरा: प्रतिष्ठायास्तद्द्वारा च जीविकाया मार्गं प्रशस्तं कर्तुमिच्छन्ति। यत्किमप्यस्तु, वर्तमान-परीक्षायुगस्य यथादृष्टमिदं वृत्तं श्रीमद्भयो निवेदितम्। अस्मिन् हि भगवत्या: संस्कृतभाषाया: सत्यानुरागिणां पण्डितमहाभागानां दृष्टिनिक्षेपो नितान्तमावश्यक। यद्ययमेव क्रमो निर्निरोधं प्रक्रान्तो भवेत्तर्हि स्वल्पेष्वेव वर्षेषु उपाधिधारिणस्तु बहवो लभ्येरन् किन्तु तत्तच्छास्त्रीयग्रन्थरहस्यबोद्धारो जना इतिहासपुस्तकानां पत्रेष्वेवान्वेषणीया: सम्पद्येरन्। सर्वेश्वरो भगवान् मैवं क्रियात्। एवं विधदुर्दिनस्य सम्भवात्पूर्वमेव संस्कृतपक्षपातिन: पण्डिता: प्रतीकारार्थं सन्नद्धा भूयासुरित्यलम्।
निबन्धलेखस्य विराट् प्रवाह:
निबन्धरचनाया इतिहासे महात्मन ईशुख्रिष्टस्य सेयं विंशी शताब्दी 'क्रान्ति’-कारकरूपेणस्माकं सम्मुखमुपतिष्ठते। अस्यां हि शताब्द्यां सर्वस्मिन्नपि भूमण्डले इतस्तत: सर्वत्रापि, निबन्धरचनायाश्चर्चा शिक्षितसमाजे समाकण्र्येत। धार्मिके विषये, सामाजिके प्रसङ्गे, साहित्यक्षेत्रे, शिक्षाया: प्रचारे, वैज्ञानिके वाऽऽविष्कारे सर्वत्रापि साम्प्रतं निबन्धगुम्फनस्य सर्वतोमुख: प्रचार: परिदृश्यते। धार्मिकं वा सामाजिकं वा यं कञ्चन नवीनं परिष्कारं प्रजासु प्रचारयितुमिच्छन्ति जनास्तदा तद्विषये लघुलघून् निबन्धलेखान् 'ट्रेक्ट’ प्रकाशयन्ति तदधिकारिण:। साहित्यक्षेत्रं तु निबन्धानां पूरोपप्लव एव ('बाढ’) सम्प्रति समुपस्थितोऽस्ति। प्रत्येकं सम्मेलने निबन्धपाठ: अनिवार्यरूपेण प्रबन्धनीयो भवति। कामं निबन्धपाठसमये सामाजिकमहाशया: परस्परं संलापसुखं निद्रां वा केवलमनुभवन्ति, परं निबन्धपाठोऽपि सम्मेलनस्यैकमावश्यकमङ्गं परिगणनीयमस्ति।
प्रसिद्धप्रसिद्धानि मासिकपत्राणि प्रतिवर्षमात्मनो 'विशेषाङ्कान्’ प्रकाशयन्ति बृहत्काया: किलैते महाङ्का दीर्घदीर्घां निबन्धमालां वहन्त: साहित्ये नवीनामेवच्छटां विच्छुरयन्ति। कतिपयमासत: पूर्वमेव दीर्घतरा सेयं निबन्धसूची सम्मुद्रय्य प्रसिद्धप्रसिद्धानां साहित्यसेविनां सविधे सम्प्रेष्यते। ये किल नामाङ्किता: साहित्यमहारथिनो भवन्ति तेषां द्वारे एतस्या: निबन्धसूच्यास्तया साकं प्रेषितस्य प्रार्थनापत्रस्य च बहुकालं यावत् प्राप्तिसूचनैव दुष्प्रापा भवति। बहून् वारांस्तु अयमपि सन्देहो भवति यत् प्रार्थनापत्रं न तेषां सविधे प्राप्तमस्ति। मध्य एव केनचिदलक्ष्येण पत्रप्रेषण: (डाक) पिशाचेन तन्निगीर्णमस्तीति। द्वित्रिवारान् पुन: पुनरनुरोधपत्रप्रेषणेन-'कार्यव्यस्तस्य न मे समय:, तथापि भवदादेशानुरोधात् यतिष्ये’’ इत्येवंविधान् नानारूपविभ्रमविलासान् प्रदर्शयन्तस्ते पत्रप्रेषकस्य मस्तके पूर्णमुपकारभारं समर्प्य अत्यन्तानुनयविनयैर्यथाकथञ्चित् प्रबन्धलेखं स्वीकुर्वन्ति। नियतो निबन्धप्रेषणस्यावधि: कतिपयान् मासानुल्लङ्घय्य तेषां प्रतीक्षया बद्धाञ्जलिस्तिष्ठति। पत्राणां का कथा, तडित्पत्रं यदा प्रेष्यते यत् - ''निबन्धा बहवो मुद्रिता:, अतिशीघ्रं प्रतिज्ञातो निबन्ध: प्रेष्यताम्’’ तदा सागरस्यापि धीरगम्भीरतां लङ्घयन्तस्ते यथाकथञ्चिदात्मनो निबन्धं प्रेषयन्ति।
यदि मम विश्वासो न भ्राम्यति तदाहं स्पष्टमेव निवेदयिष्यामि यत् सुप्रसिद्धेषु साहित्यमहारथिषु विरला एव तावत् समयोपरि तात्कालिकनिबन्धरचनायां श्रमं स्वीकुर्वन्ति। अन्यथा केचित् पुरालिखितं यं कञ्चन निबन्धं प्रेषयितुं प्रत्युत्तरयन्ति, केचित्तु स्वीकृतस्य निबन्धस्य स्थूलं विषयनिर्देशमेव (आउट-लाइन) कृत्वा आत्मन: कृतितां प्रदर्शयितुमिच्छन्ति। निबन्धप्रकाशकास्तु ''नामाङ्कितानां तेषां यदि पङ्क्तिद्वयमेव प्रकाशनाय लभ्येत तर्हि सफलता भवेत्’’ इति हृदये बहुमन्यमानं तं निबन्धाभासं बहुगौरवेण स्वीकुर्वन्ति प्रकाशयन्ति च। प्रत्यक्षं किल विलोक्यते यत्सम्प्रति साहित्यक्षेत्रे ख्यातिरेव बहुधा पूज्यते। ये किल उदीयमाना नवलेखका: सन्ति, येषां ख्याति: साहित्यसेवकेषु साम्प्रतं प्रचलन्ती अस्ति, त एव परिश्रमपूर्वकं निर्दिष्टनिबन्धलेखे पाटवं प्रकाशयन्ति। तेषामेव च निबन्धा अन्वेषणपूर्वकं लिखितत्वादुपयोगि-नोऽपि भवन्ति। ये तु देशे प्रख्यातिं लब्धवन्त:, साहित्यक्षेत्रे कृतकार्यतया प्रसिद्धा अभूवँस्ते तु प्रार्थनाया उपरि निबन्धलेखनोपयुक्तं समयमेव न प्राप्नुवन्ति, अथवा सत्यपि समये तथा कर्तं न वाञ्छन्ति।
प्रत्यक्षं पश्याम:-सुप्रसिद्धानां पत्राणां ये वा विशालकाया: विशेषाङ्का: प्रकाशिता भवन्ति तेषु नामाङ्कितमहोदयैर्लिखितानां निबन्धानां मध्ये विरलेष्वेव स्थायितया सङ्ग्रहणीय: सारभागो भवति, अन्यथा तु केवलं 'शीर्षक’-मात्रसारा भवन्ति। शीर्षकं भवति 'ईश्वरसिद्धि:’ इति। सर्वविश्वविद्यालयमहनीय-पी.एच.डी. इत्यादिपदकविभूषिता एतस्य लेखकमहोदयास्तु पादोनपृष्ठ एव उपक्रमोपसंहारसहितं सम्पूर्णं निबन्धं परिसमाप्य ईश्वरसिद्धिमेतां प्रदर्शयन्ति, सदैव च अलौकिककर्मसाधने मणिमन्त्रन्यायस्मारिकामात्मनोऽप्यद्भुतां सिद्धिं प्रकाशयन्ति। कुतो वा न स्यात्? 'सर्व हि महतां महत्’।
तत्त्वतो विचारे नायं सर्वोऽपि दोषो वराकाणामेषां सुप्रसिद्धलेखकमहोदयानामेव। सोऽयं दोषो गड्डरिकाप्रवाहस्यैव। सर्वेऽपि प्रकाशका वाञ्छन्ति यदस्माकं पत्रे प्रसिद्धप्रसिद्धपुरुषाणां निबन्धा भवेयु:। तेषां मध्ये कश्चन सारो भवेन्न वा, परं प्रसिद्धिं प्राप्तवतां लेखकानां नामधेयं दृष्ट्वा प्रकाशका: पाठकाश्चेत्युभयमेव व्यामुग्धा भवन्ति। 'गुणा: पूजास्थानं गुणिषु न च लिङ्गं न च वय:’ इत्यादय आभाणका: केवलं पुस्तकस्था एव। व्यवहारे तु प्रसिद्धिरेव पूजास्थानमिति स्पष्टमवलोक्यते। इदानीं स्पष्टमिदं प्रत्येतव्यं भवति यत्-देशप्रचलितेषु सर्वेष्वेव पत्रेषु निबन्धप्रदानार्थं ते वराका: समयं कस्य वा विधातु: सकाशादानेष्यन्ति ? फलमिदं भवति यत्प्रकाशकैर्बहुधा अनुरुध्यमानास्ते यत्किञ्चिल्लिखित्वा प्रेषयन्ति। बुभुक्षिता: प्रकाशकाश्च स्थूलस्थूलैरक्षरै: 'अमुकमहोदयेन लिखितो निबन्ध:’ इति सगर्वघोषणं सूचयन्तस्तं बहुमानेन प्रकाशयन्ति। अस्मादृशानां स्थूलमतीनां दृष्टौ तु नेदं साहित्यस्य गौरवाय प्रत्युत साहित्यविषयकदारिद्र्यदर्शनायैवेदम्। किन्तु प्रसिद्धिप्रलोभनचक्रि काया घर्घरारवे को वा ईदृशानुपदेशान् प्रति कर्णं दातुं शक्नुयात्? अस्यां हि चक्रिकायां नवनवोत्साहिनां बहूनामेवाभिनवलेखकानामुदीयमाना भूयांस एव निबन्धाश्च तत्सम्बन्धिन उत्साहाश्च निर्दयतया चूर्ण्यन्ते।
एष किल शुद्धस्य साहित्यक्षेत्रस्य लिख्यमानानां निबन्धानां वृत्तान्त:। यदि त्वस्मिन् साहित्ये अर्थकरी काचिद्विद्यापि सम्मिलिता भवति तर्हि तु तन्निबन्धानां मूल्यमवाङ्मन-सगोचरमिव भवति। अनुमीयतां यदि आयुर्वेदसम्बन्धिनां निबन्धानां कश्चित् प्रामाणिक: सङ्ग्रह: प्रकाशनीयो भवेत् तर्हि तदर्थे का: का वा संघटना: कर्तव्या भवेयु: ? अस्मिन् हि क्षेत्रे प्रसिद्धिं प्राप्ता निबन्धलेखका महामहान्तो वैद्यकविराजा एव प्रार्थनीया भवेयु:। एते च सर्वे धनकुबेरायिता एव। सुप्रसिद्धो गुणवान् वैद्यविद्यापरिनिष्ठितश्च यदि भिषग्वरो भवेत्, अवश्यं स हि प्रभूतस्य धनस्य स्वामी अपि भवेत् अन्यथा तस्य ख्यात्या वैदुष्येण च किं फलमुपलब्धम्? एतेषु हि महाभागेषु एवंविधा अपि भाग्यवन्त: सन्ति ये एकदिनस्य चिकित्सार्थं प्रत्यहं सहस्रं मुद्रा: केचिच्च पञ्चशतानि मुद्राणां गुहण्न्ति। एकवारस्य रोगिदर्शनस्य निष्क्रयं चतु:षष्टिरूप्यकाणि प्राप्नुवन्ति। इदानीमेतेषां महापुरुषत्वं स्वयमनुमातव्यं स्यात्।
श्रीमत्या: लक्ष्मीदेव्याश्च य: स्वभाव: सोऽपि विश्वविदित एव। एषा हि पुराणमपि पुरुषं भोगशयानं विदधाति। कर्णवन्तमपि दीनवच:श्रवणे अकर्णमिव सम्पादयति। एतदुपर्यपि कुष्ठे खर्जू: सेयं यदेते सिद्धा: प्रसिद्धाश्च वैद्यकविराजा: सन्ति। पर:सहस्रमुद्रोपहारेण यथैते धनिकांश्चिकित्सन्ते तथा शतवारान् निजदेहली-प्रणामं कारयित्वा मध्यवित्तान् दीनांश्चापि भेषजैरनुगृह्णन्ति। आतुर: किलैते प्राणाभिसराणामेषामवसरं प्रतीक्षमाणा निजनिजदु:खसंकथा: सङ्कीर्तयन्त्येषां पुरत:। एते तु निरन्तरं परवेदनाश्रवणाभ्यासितया शनै: शनैस्तथा धीरोदात्तहृदया: सम्भवन्ति यथा एकद्विवाराणां प्रार्थना तु नैषां महोदयानामाभिमुख्यमपि सम्पादयति। यावदनुभवी प्रसिद्धो धनिकश्च वैद्यो भवेत्तावदेव तस्य धीरगम्भीरतापि अनिवार्या स्यात्। निरन्तराभ्यासदृढीभूता सा मनस्वितैव निबन्धलेखसिद्धावपि अर्गलायिता भवति।
नानाविधसाध्यसाधनाभिर्निजसमकक्षस्य कस्यचन वैद्यपुङ्गवस्य भूयसाऽनुरोधेनापि सर्वदेशप्रसिद्धानां महामहावैद्यानां निबन्धास्तु बहुशोऽप्राप्या एव। अस्ति हि तेषां सिद्धान्त:-'महावैद्यस्य देहोऽयं क्षुद्रकामाय नेष्यते’। तेषु ये केचिल्लोकानुग्रहकाम्यया केनचिदभिसन्धिना वा निबन्धप्रेषणे मन: कुर्वन्ति तेऽपि महतानुग्रहेण कञ्चन निजं विद्यार्थिनं प्रेरयन्ति। स एव तेषां मनोभावान्निबन्धरूपेण सङ्गृह्य, विशृङ्खलरूपेण पूर्वलिखितं तेषां सन्दर्भे वा निबन्धशृङ्खलया नियम्य प्रेषणानुकम्पां करोति। प्रेषणावधिस्तु तेषामिच्छानुसारं स्वैरं दीर्घदीर्घतरीभवतीति तु अकथितमपि विज्ञैर्बोध्यमेव। हन्त! एवं विधतपश्चर्याभि: प्राप्तोऽपि सोऽयं निबन्ध, प्रकाशकस्य कृते पुन: परिश्रमप्रसूर्भवति। मुद्रणयन्त्रालयस्था: कथयन्ति 'नायं लेख: पठितुं शक्यते। विरामविच्छेदचिह्नान्यपि लुप्तानि। यत्र तु कृतानि तत्र विरुद्धमेव भावं सृजन्ति’। अन्ततो गत्वा तस्य लेखस्य पुन: प्रतिलिपि: कारणीया भवति। परं प्रतिलिप्या किं भवेत्? विधातृलिपिर्यदि सहसा सर्वैर्वाचनीया भवेत् तर्ह्यस्यामपि चञ्चुप्रवेशो भवेत्। कुत्रचित् कुत्रचिदक्षराण्येवं लिखितानि भवन्ति-'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह।’ सन्देहे सति निबन्धलेखकमहाभागं प्रति प्रश्नुस्तु समुद्रं प्रति पारगमनप्रार्थनाप्रश्न:! स्वल्पतमेऽमिस्मन्नवकाशे अतलस्पर्शिनोऽस्य लेखस्य कं कं वा सन्देहं कथं केन वा प्रकारेण पृच्छेद्वराक:? धैर्यस्य दृढकपाटं भित्त्वा यावत्तेषामुत्तरं प्राप्येत तावता प्रकाशनस्य समय एव सर्वो व्यतिगच्छेत्। इतो यन्त्रालयस्था: प्रतिदिनं नानाविधयन्त्रणां प्रदद्यु:। अत एव शोधकस्य क्रोध:, निजभाग्यं प्रत्यनुतापो वा वराकस्य हृदय एव जीर्यति।
अशुद्धे मुद्रिते प्रकाशकस्य शिरसि जनतादत्त: कलङ्कलेपस्तु सुस्थिर एव, परं निबन्धलेखकानां पक्षादपि तस्या अशुद्धेर्दायित्वभार: प्रकाशकस्योपर्येवापतति। निबन्धेन सह तेषां कृपापत्रमागच्छति-'अस्माकमवकाशो नास्तीति पूर्वं सूचितमेवासीत् परं श्रीमतामाग्रहातिशयात् सोऽयं निबन्धोऽतिशयशीघ्रतया लेखित:, अत एव यदि काचिदशुद्धि: स्यात्तर्हि सानुकम्पं शोधनीया। परिश्रमार्थं क्षमामभ्यर्थये इत्यादि’’। निबन्धमालाप्रकाशनस्य सुखप्रदं परिणामं प्रतिपदं भावयन् वराक: सर्वमिदं यावच्छक्यं करोति, बलाद्वा कर्तव्यं भवति। किन्त्वेतत् सर्वं सहित्वापि निबन्धैर्लाभ: सामान्यप्राय एव भवति। यतो हि येषां महानुभवशालिनां निबन्धैर्जनताया भूयानुपकार: प्रतीक्षितोऽभूत ते सिद्धवैद्यास्तु औषधव्यवस्थापत्रं विहाय लेखनीचालनस्य शपथमेव कृतवन्त:। इदानीं ये निबन्धाँल्लिखन्ति, उपयुक्तांश्च लिखन्ति ते तादृशा एव सन्ति ये वैद्यव्यवसायक्षेत्रे प्रविविक्षव: सन्ति, प्रविष्टमात्रा वा सन्ति। एतेऽपि यदा अनुभविवैद्यपदमधिकरिष्यन्ति तदा एतेषामपि लेखावकाश: खपुष्पायितो भविष्यति, लेखनी वा हस्ताद्विसर्जिता भविष्यति। अधुना तु-वैद्यसमाजेऽस्माकं प्रसिद्धि: स्यादित्युत्साहेन एते गवेषणापुरस्सरं लिखन्ति निबन्धान्। एतेषामेव चोत्साहेन एवंविधा निबन्धमाला गुम्फि तापि भवति, अन्यथा महामहावैद्यानां कृपया तु अस्या: सूत्रमेव विच्छिन्नं स्यात्का वा कथा गुम्फ नस्य ?
ये किल महोदया मत्कथनमत्युक्तिकोटौ संघटयेयु: ते हि प्रतिवर्षभाविनीषु अखिलभारतीयवैद्यसम्मेलनसदृशीषु संस्थासु परीक्षां कुर्वन्तु। अत्र हि प्रतिवर्षं निबन्धपाठो नियततया निर्द्धारितोऽस्ति। परं तत्र निबन्धपाठको लेखकाश्च त एव भवन्ति ये वैद्यव्यवसायक्षेत्रमचिरात्प्रवेक्ष्यन्ति साम्प्रतमेव प्रविष्टा वा। सिद्धास्तु निबन्धपाठसमये साक्षिवत्तटस्था एव भवन्ति। उचितमपि चेदम्-यावता कालेन ते निबन्धे मस्तिष्कं क्षपयेयुस्तावता ते यदि कस्यचन महाजनस्य चिकित्सां कुर्युस्तर्हि कियान् लाभो भवेत्?
एवं किल साहित्यक्षेत्रे नानासुखै: प्रबलतमं प्रवहति निबन्ध-सिन्धुप्रवाहे वर्तमानयुगेनानेन पुनरेका प्रोद्दामतमा लहरी तस्मिन्प्रवर्तिताऽस्ति। अधुना हि कस्यचिद्विशिष्टपुरुषस्याऽभिनन्दनार्थमपि निबन्धानामुपयोगिता सञ्जातास्ति। पूर्वं हि कविताभि: प्रशस्तिपत्रैश्चाप्यभिनन्दनकार्यमक्रियत, परं सम्प्रति तु निपुणतमै: साहित्यशिल्पिभिर्गुम्फि तां निबन्धमालामेव वक्षसि ससमादरं समर्प्य निजाभिनन्दनीयस्य पुरुषस्य सम्मानं प्रकटीकर्तुं शिक्षितं शिक्षितै:।
शिक्षाया: क्षेत्रे तु निबन्धलेखप्रबन्धो बहो: कालादेव प्रचलितोऽस्ति। स्कूलकालेजेषु हि प्राथमिकशिक्षात आरभ्य उन्नतोन्नतशिक्षापर्यन्तं सर्वास्वेव परीक्षासु निबन्धलेखस्य नियमो निर्धारितोऽस्ति। संस्कृतशिक्षायामपि निबन्धरचनाया: सर्वतोमुं साम्राज्यम्। संस्कृतशिक्षाया युगक्रमानुसारी इतिहासो न केनचित्प्रकाशितोऽस्ति,येन वयं स्पष्टं जानीमो यत्प्राचीनकाले पाण्डित्यस्य परिमाणार्थं को वा मानदण्डो निरधार्यत तै:। किन्तु मध्यकाले वर्तमानशताब्द्या: पूर्वपर्यन्तं शास्त्रविषयकैर्वादानुवादैरेव संस्कृतपण्डितानां वैदुष्यपरिचय: प्रसिद्धोऽभूद्देशे, यस्या: किल प्रथाया भग्नावशेष इदानीमपि काश्यादिस्थानेषु यत्किञ्चिदवलोक्येत, यस्याश्च पद्धत्या लिखितप्रमाणानि नवीनन्यायस्य व्याकरणस्य च क्रोडपत्त्राणि सन्ति यानि हि वादमात्रपाण्डित्यानां वावदूकमहाभागानां जीवितस्थानीयान्यभूवन्। एतानि हि निजविजयस्य प्रधानशस्त्राणीति मनसि सुभृशमाश्वस्य पण्डितमहाभागैर्न कस्मैचिददर्श्यन्त। स्वान्तेवासिभ्योऽपि सेवारूपां पूर्णदक्षिणामादायापि नोन्मुक्तहृदयेन नि:शेषं प्रदातुमशक्यन्त। अस्तु, विवादतो दूरं पलायमानेऽस्मिन् समये अनधिकारिपुत्रमहाशयहस्तपतितान्येतानि अवकरबन्धनान्यासेवन्ते मूषकमहोत्सवाय वा जायन्ते।
गत: स समय:। सम्प्रति लेखपरीक्षायुगेऽस्मिन् निबन्धैरेव पाण्डित्यपरिचय: प्राप्यते मार्मिकै:। कीदृशोऽपि शास्त्रविषयो भवतु, परीक्षणकाले व्युत्पत्तिप्रदर्शनं तु तावन्निबन्धैरेव भवेत्। अत एव तदर्थं परीक्षासरितमुत्तितीर्षूणां विद्यार्थिनां नितान्तमिह चिन्तासन्तानो विलोक्यते। पाठ्यग्रन्थानामुल्लङ्घनार्थं तु अव्यभिचरितप्राया नानाविधा उपाया आविष्कृता: परीक्षार्थिभि:,येषु हि गतवर्षीयाणां प्रश्नपत्त्राणां विमर्श:, परीक्षणीयग्रन्थेषु प्रष्टव्यस्थलानामनुसन्धानमित्यादय: प्रमुखा उपाया: प्रसिद्धा एव। किन्तु निबन्धलेखदिने तेषां चञ्चुप्रवेशो नांशतोऽपि भवति। यत्किञ्चन व्युत्पत्तिं विना बाह्यैरुपायैस्तद्दिने साफल्यलाभ: प्रायो दुष्प्राप एव। यद्यपि निबन्धरचनापत्रे यदि कस्यचित्काव्यादेरपि निवेशो भवेत्तर्हि तद्व्याख्याऽनुशीलनेन उत्तरणोपयोगियोग्यताङ्कलाभ: सम्पाद्यते तैस्तयापि व्युत्पत्तिप्रदर्शनदिने सेयं प्रबन्धरचनापिशाची तेषां हृदयदेशमुत्पीडयत्येव। एतदर्थमपि नानाविधोपायानामारम्भ: सञ्जातोऽस्ति। निबन्धरचनादर्श:, प्रबन्धचिन्तामणि: इत्यादीनि पुस्तकानि निर्मितानि निर्मीयन्ते च येषामनुशीलनेन संस्कृतशिक्षार्थिनो निबन्धरचनाविषये बहुतरं साहाय्यं लभेरन्। हिन्दीभाषायां तु एतद्विषयकाणि बहून्येव पुस्तकानि सन्ति, निर्मीयन्ते च सम्प्रति। अस्तु, सोऽयं विषय: स्वतन्त्रोऽस्ति। नास्मिन् लेखे तल्लेखनप्रकारो निदर्शनीयो मे। सेयं रचना काव्यसंघटनैवाऽन्यतमा। अत एव एकद्वैर्निबन्धै: सहसा सेयं निरूपयितुमपि न शक्येत। किन्तु ये महोदया निबन्धान् लिखन्ति प्रेषयन्ति च ते लिप्यामेव कीदृशीं विशृङ्खलतामुत्पादयन्ति, चिह्नानां कीदृशं दुरुपयोगं कुर्वन्तीति प्रसङ्गतस्तदेतत्प्रकटयितुमिच्छामि।
लिपिविषये निवेदनम्
सुवाच्यलिपि:
'निबन्धरचना’ स्वतन्त्र एको विषयोऽस्ति। तन्निबन्धनशैलीप्रदर्शनं नास्य लेखस्य विषय इति पूर्वं निवेदितवानस्मि। किन्तु निबन्धरचनोत्तरं प्रकाशकस्य सविधे प्रेषणे,ये ये बाह्याश्चावश्यकाश्च विषया उपतिष्ठन्ते तत्सम्बन्धे यत्किञ्चिन्निवेदयितुमिच्छामि। सर्वत: पूर्वं लिपे: प्रश्न उपस्थितो भवति। लिपिर्मौक्तिकानुकारिभि: सुन्दराक्षरैर्मनोहरा यदि न भवेत्तर्हि सुवाच्या त्ववश्यं भवेदिति को वा न मंस्यते? अस्माकं नागराक्षराणां लिपिर्दर्शने मनोहरा, पठने च निर्भ्रमेति सर्वसम्मतम्। अस्यां यद्विलिख्यते तदेव पठ्यते। अन्यान्यलिपिवत् अन्यल्लिखितम् वाचकैरन्यदेव पठ्येत इति घोरारम्भो नास्ति किन्तु भारतीयसाहित्ये निबन्धरचनाया: क्षेत्रवृद्धिर्यथा यथा भवति तथा तथा लिपिसौष्ठवस्य क्षेत्रं प्रत्यहं सङ्कुचितं भवतीति दृश्यते। मुद्रायन्त्राणामाविष्कारेण सुन्दराक्षरलेखकानां लिपिकराणामुद्भवस्तु बहो: कालादेव निरुद्ध:। साम्प्रतं तु-अक्षराणि वाचयितुं शक्येरन् एतावदेव लेखकस्य कृतित्वं परिबुध्येत। परं वर्तमानसमये अस्मिन्विषयेऽपि उत्तरोत्तरं ह्रास आरब्धोऽस्ति। लेखकमहोदया यथा यथाधिकान् लेखान् लिखन्ति तथा तथैव समयाय संक्षेपमभिलषन्तो नागराक्षराणां रूपमेवान्यथा सम्पादयन्ति। ये ये महान्त: पत्रसम्पादका: सन्ति, ये वा नामङ्किता लेखका: सन्ति तेषु साम्प्रतं विरला एव तादृशा: लभ्येरन् ये हि धैर्येण यत्किञ्चिल्लिखेयु:। अन्यथा लोहमुखीं लेखनीं पत्रोपरि हरिणीप्लुतै: प्लावयन्तस्ते तादृशं लिखन्ति यत् पठनकाले अन्यस्तु भ्रमं गच्छेदत्र आश्चर्यमेव किं परं कदाचित्कदाचित्स्वयमपि तत्पठने व्यामुह्यन्ति। प्राचीनमाभाणकं१ ते सर्वथा सत्यं कुर्वन्तीति बहुवारान्मया प्रत्यक्षमनुभूतम्।
सोऽयमेकताया: समय इति मनसि कृत्वैव पूर्वं पूर्वमक्षरम् उत्तरोत्तरेण तथाऽऽश्लिष्टं स्थापयन्ति यथा अद्भुतैव एका सरणिरालोक्यते। अथवा 'जीवनसङ्ग्राम:’ इति पाश्चात्यशिक्षां प्राप्तवन्तस्ते अक्षरलिप्यामपि तथा दृश्यं दर्शयन्ति यथा महाभारतस्य युद्धचित्रमिव पत्रं परस्पराक्षरसङ्कुलं चित्रलिपिपूर्णमिवाऽलोक्यते। सनातनधर्मिणो लोका: समाजाद्वर्णसाङ्कर्यं यथा यथा निवारयितुं प्रयतन्ते तथा तथा तत्प्रतिस्पर्द्धयेव लिप्यामप्येते वर्णसाङ्कर्यं प्रत्यह सृजन्ति। रेफ : कोष्ठकचिन्हमिव' (’वक्र रेखामात्रे परिणतोऽस्ति। महाराष्ट्राणामिव 'ण’ कारं लिखन्तस्ते द्रुतलिप्यां तं पकाररूपे परिणामयन्ति। यकारपकारयोर्लिपिप्रकारस्तथा संश्लिष्ट: प्रचलितोऽस्ति यथा अर्थप्रसङ्गेनैव तयोर्भेद: परिज्ञातो भवति। ख’कारस्य, रव इति रेफवकारयोश्च लेखने तथा लाघवं प्रदर्शयन्ति यथा द्वयो: परस्परं भेदो विचारमार्गप्रहितेन चेतसैव परिगृह्यते। एतस्य फलमिदं भवति यत् 'खण्डं खण्डं युयुर्घना:’ इति लिखितेऽपि 'रवण्ड रवण्डं पपुर्धना:’
इत्यव्युत्पन्नै: पठ्यते। सर्वोदाहरणप्रदर्शनेन लेखे अतिप्रसङ्गो भवेत्परम् अनया द्रुतलिप्या कीदृशी वा अर्थबोधे कठिनता प्रचारितास्तीति स्थालीपुलाकन्यायेन विवेकिभिर्विज्ञातमेव भवेत्।
बहवो महाभागा मनसि मन्यन्ते यदक्षरलेखनस्य एतदेव प्रयोजनं यदन्यो यथा कथञ्चित्तत्पठेत्। तत्र निरर्थक सौन्दर्य-सम्पादनं समयस्य दुरुपयोग एवेति। एतस्योत्तरे किञ्चिद्विस्तारेण निवेदयितुमिच्छामि। महाभागा:! निबन्धगुम्फोऽयमेकप्रकारेण गद्यकाव्ये-ऽन्तर्गतो भवति। काव्यं तु प्रसादपूर्णं तदेव प्रशस्यते यस्य दर्शन-श्रवण-मात्रेणैवार्थप्रत्ययो भवेत्। अत एव हि द्राक्षापाक: प्रशस्यते, यस्यास्वादमात्रे झटिति रसप्राप्तिर्भवति। न तु पाषाणपाकमभिरोचयन्ति यत्र हि कष्टशतैरर्थबोधसम्भव:। अर्थाधिगमे क्लेशप्राप्तिरेव रसस्य बाधिकेति सर्वस्य सार:। सन्दिग्धनिहतार्थादिषु (काव्यदोषेषु) विलम्बेनार्थबोधकतैव दूषकताबीजम्। एवमेव भ्रामकलिप्यामपि अर्थबोधे महत्काठिन्यमु-पतिष्ठते, ततश्च किं रसास्वादो न विहतो भवेत्? पुस्तकपाठे रसाविष्ट एक: पाश्चात्त्यलेखकोऽ-लिखत्-''मुद्रायन्त्रालयकर्मचारिभि: अच्छिन्नपत्रं तत्पुस्तकं पठन् स्वहस्तेनैव च क्षुरिकया पत्राणि पृथक्कुर्वन्, रसास्वादे अतीवान्तरायमगणयम्। क्रोधाविष्टस्य मे मनस्यभवत् यत् अनया क्षुरिकयैव तस्य कर्मचारिणो वक्ष: स्थलम्....’’। हन्त! यदा पत्रपृथक्करणमेव अर्थव्याघातकतया तादृशक्रोधकारणं मन्यते तदा नानाविधैरूहापोहैर्यत्र अर्थसङ्गति: करणीया भवति तादृशी दुर्लिपि: किं वाचकस्य हृदये चन्दनचर्चेव शान्तिकारिणी सिध्येत्?
किञ्च-यथाकथञ्चिद्वाचनमेव अक्षरलिपे: प्रयोजनमिति ये महाभागा: कथयन्ति, तत्राप्यस्ति सन्देह:। अर्थबोधे जातेऽपि सुन्दरलिप्या मानसस्योपरि य: प्रभाव उत्पद्यते, तस्यापलाप: कर्तुं न शक्येत। जानन्त्येव सर्वेऽपि-यत् काव्यगता: शब्दा: स्वीयमर्थमुपस्थाप्य पठितुश्चेतसि तत्तादृशं चमत्कारं सृजन्ति। ततश्च तादृशचमत्कारं प्रति अर्थस्यैव कारणत्वम्। शब्दास्तु अर्थबोधनमात्रप्रयोजनका न स्वातन्त्र्येण कारणभूता:। एवं सत्यपि-जगति काव्यगतानामक्षराणामभ्युपगम्यत एव कश्चित्प्रभाव:, अर्थे समाने सत्यपि एवं विधैरक्षरैरयमयं रसो वा भावो वा भृशमभिव्यक्तो भवतीति। अत एव अर्थबोधे समाने सत्यपि सभ्यसमाजन सुन्दरा: सुश्राव्या एव शब्दा: प्रयुज्यन्ते न साधारणा:। एवमेव सुश्राव्यशब्दानां द्वारा अर्थबोधेन सह सुन्दरलिपे: प्रभावोऽपि दुरपह्नव एव। यद्यर्थबोध एव अक्षराणां प्रयोजनमभविष्यत्, तर्हि सुन्दरलिपिसम्पादनार्थमेतावान् प्रयत्नो निरर्थक एवाभविष्यत्। अद्य हि मुद्रिताक्षराणां मनोहरतासम्पादनाय यन्त्रालयाध्यक्षा: पर:सहस्रमुद्राणां व्ययं कुर्वन्ति। वयमपि च नयनमनोहारिणमेव मुद्रणप्रकारमभिरोचयामो न दरिद्रप्रायम्। एतस्यैव कारणेन प्राचीना: 'लिथोमुद्रायन्त्रालया:’ सर्वदार्थं निमीलितनयना: समभवन्। इदानीं कथयत अर्थबोधे नास्ति किं लिपे: प्रभाव: कश्चित्?
अपि च-द्रुतलिप्या व्याजेन येयं भ्रष्टलिपि: साम्प्रतं प्रचरितास्ति, तस्या अन्तरालेऽप्येकं निगूढमस्माकमकर्मण्यताया: कारणमन्तर्हितमस्ति। जानन्त्येव सर्वेऽपि विवेकिनो यन्नवीनशिक्षिता हिन्दीलेखकमहाभागा हृदयेन पाश्चात्त्यरीतिमेव अभिरोचयन्ति। 'हौणी’ लिपिलेखका: पाश्चात्त्याश्च-'लेखनसमये लेखनी नोत्थापनीया भवेत्, किन्तु परस्पराश्लिष्टानामक्षराणां तथा सरणिरङ्कनीया, यथा गोमूत्रिकासरणिरिव एका व्रततिशृङ्खलेव मध्ये मध्ये विरता अक्षरलेखा सम्पद्यते, एतादृशीं लिपिमेव कारणविशेषै: प्रचारयितुमिच्छन्ति। तेषामक्षराणां लेखनप्रकारोऽपि स्वभावतस्तादृश एव। अत एव ते सुवाच्यतापेक्षया समयन्यूनतामेव बहु मानयन्तस्तादृशीं लिपिमङ्गीकुर्वन्ति। एतस्य फलमिदं जातं यत्स्पष्टलेखनस्य प्रकार एव विच्छिन्नोऽभूत्, तदर्थं च 'अक्षरलेखकयन्त्रस्य’ (टाइपराइटर) आविष्कारोऽभवत्। इदानीं न कोऽपि सभ्यमानी लिखित्वा पत्रं प्रार्थनापत्रं वा प्रेषयितुमिच्छति। न्यायालये, व्यापारे, परस्परव्यवहारादिषु च सर्वत्रैव 'टाइपराइटिङ्ग’मेव व्यवहृतमभवत्। एतत्कारणात्स्वक्षरलेखका जनास्तत्समाजे गवेषणीया अभवन्। अनुकरणपरा भारतीयमहोदया अपि तामेव पद्धतिमनुव्रजन्ति। नागराक्षराणां पृथक् पृथग् लेखनीयत्वेऽपि आङ्ग्लानुकरणेन साम्प्रतिका महामहोदयास्तथा लिखन्ति, यथा नागरलिपिरपि- दूरत आङ्ग्ललिपिमनुहरति। अत एव स्पष्ट-सुन्दरलिपे: कृते नागराक्षरलेखकयन्त्रम् (हिन्दी टाइपराइटर) इहाप्यावश्यकमभूत्। इदमतिसन्निहितमस्ति जातप्रायं चापि, यत् स्पष्टसुन्दरनागराक्षरलेखका: सहस्रेषु गवेषणीया: सम्भवेयु:। एतदर्थं वयमपि 'टाइपराइटरस्य’ मुखप्रेक्षका भविष्याम:। अस्तु, स्पष्टलिपेरुपरि अवधानमावश्यकमिति वक्तव्यस्य सार:। ये महाशया: साम्प्रतमनुकरणरसान्धा न किञ्चिच्चेतयन्ते, तेऽप्यग्रे दुष्फलमनुभूय अनुतस्यन्ते इति भविष्यतो गर्भे निलीनमस्ति।
विराम-विच्छेदौ
प्राचीना परिपाटी आसीद्यद् अक्षराणां पङ्क्तौ मध्ये स्वल्पौऽपि विच्छेदो न भवेत्, मौक्तिकस्रगिव सा वर्णपरम्परा आरम्भादन्तपर्यन्तमेकधारा भवेदिति। परं सेयं सरणिर्वर्तमानयुगे भ्रमपूर्णा सिध्यति। इदानीं हि पदच्छेदपूर्वको लेख एव सामान्यैरप्याद्रियते। यत्र हि पदद्वयमध्ये स्वल्पमप्यन्तरं न भवेत्तत्र सम्प्रति समासभ्रमो भवति। यथा 'मधुसूदन वेणुना विनोद:’ अत्र मधुसूदनेति सम्बोधनपदेन सह 'वेणुना’ पदं यदि व्यवधानरहितं लेखिष्यते, तर्हि मधुसूदनस्य वेणुरिति समासभ्रमेण भूयानर्थभेद: स्यात्। त्रिंशच्चत्वारिंशद्वर्षेभ्य: पूर्वंपर्यन्तं यानि पुराणादिपुस्तकानि मुद्रितानि तेषु पदच्छेदो नास्त्येव, तानि हि धाराप्रवाहरूपेण मुद्रितानि। किन्तु साम्प्रतं किञ्चिदपि पदविच्छेदाभावे लोकानामरुचिरुत्पद्यते। एतद्विषये अधिकलेखनस्य नास्त्यावश्यकता। 'पुरा पत्राणि महर्घाण्यासन्। एतदर्थं तालपत्रेष्वपि लेखनमावश्यकमभूत्। ततश्च पत्रसङ्कोचादेव धारालिपि: प्रचरिताऽभूदिति’ तु न वयं कल्पयितुं प्रभवाम:। अस्ति हि मनोरुचि: सेयम्। पुरातना अविच्छिन्नामेव लिपिं प्राशंसन्। किन्तु तस्यां पदच्छेदादिकल्पनापूर्वकमर्थप्रतीतौ भूयान् मनोव्यापार: समयव्ययश्च भवतीति को वा अनाग्रही न मन्येत?
सन्धि:
एवमेव सन्धिसम्बन्धेऽपि बहु विचारणीयमस्ति। सहस्रद्विसहस्रवर्षेभ्य: पूर्वलिखितानि पुस्तकानि तु न सर्वेषां प्राप्याणि। तानि यदि भवेयुस्तर्हि पुरातनवस्तुसङ्ग्रहालये (म्यूजियम-पुरातत्त्वविभाग) निबिडनिबद्धानि भवेयु:। किन्तु बहुपुराणसमयस्य यानि तन्त्रादिपुस्तकान्युपलभ्यन्ते, तेषु व्याकरणस्य घोरनियमानुसारीणि सन्धिकार्याणि न विलोक्यन्ते। सर्वेषां सरलतया स्याद् बोध इत्येव तेषां तात्पर्यम्। सर्वेष्वेव पुस्तकेषु सुबोधताया उपरि प्रधानतया दृष्टिर्दत्तास्ति। भाषैव तेषां दृश्यतां कीदृशी सरला सुबोध्या चास्ति यां साधारणव्युत्पन्नोऽपि सम्यग् बोद्धुं पारयति। अत एव तेषां यदि तात्पर्य सर्वबोध्यताया उपर्यस्ति, तर्हि अर्थस्य दुर्बोधतासम्पादकानि क्लिष्टानि सन्धिकार्याणि तेषामिच्छानुसारीणि न सन्तीति स्पष्टं सर्वै: प्रतीयेत। तेष्वपि पुस्तकेषु यदि घोरव्याकरणनियमानुरोधीनि सन्धिकार्याणि कृतान्युपलभ्येरन्, तर्हि मध्यकालिकानां लेखकमहाशयानां सेयं हस्तचातुरीति स्पष्टं प्रत्येतव्यं भवेत्। मध्यकाले (यस्मिन् हि समये एकैकशास्त्राणां क्लिष्टं पाण्डित्यमेव प्रतिष्ठायै अभूत्) शास्त्रानुगमदर्शनार्थं प्राचीनै: पण्डितैर्बलादाकृष्याकृष्य क्लिष्टातिक्लिष्टानि सन्धिकार्याण्यवश्यं कृतान्यभूवन्। आसीत्सोऽपि समयो यत्र हि पुस्तकस्यान्ते-'आलोकटीका समाप्तिमफाणीत्’ इत्यादीनि मनोहराण्यक्षराणि लेखितव्यान्यभूवन्। सन्धिकार्यस्य केवलप्रपञ्चार्थमेव 'संस्कर्त्ता’ इत्यस्य अष्टोत्तरशतं रूपाणि कल्पितानि, विद्यार्थिद्वारा घोषितानि च। परं प्रगत: स समय:।
भगवती संस्कृतभारती साम्प्रतमस्माकं भागधेयैर्विरलप्रचारा संवृत्ता। द्वितीयभाषारूपेणैव सम्प्रति साधारणजनतया यदि स्कूलकालेजेषु सेयं पठ्येत, तर्हि महद् भागधेयं परिगण्यते। ब्राह्मण्यजीविकामात्राश्रया: केचन विप्रपरिवारास्तामेतां एतस्या: प्रतिदिनभाविनं विरलप्रचारं दृष्ट्वा एतत्सेवका एतस्या: प्रसारक्षेत्रवृद्धयर्थं प्राणपणेन प्रयतन्ते। यथास्या: सर्वसाधारणेषु प्रचारो भवेत्, यथा चास्यां लोकानामनुराग: स्यात्तदर्थं नानाविधा उपायास्तैरनुष्ठेया:, यदि वास्तवं ते गीर्वाणवाणीसेवका:। अस्मिन् हि समये एतस्या सर्वबोध्यतैव कामनीया, न पुनर्जटिलता। अत एव सरलसुबोधपदप्रयोगद्वारा यथा सेयं सरला सम्पाद्यते तथैव सन्धिकार्यैर्जायमानाप्येतस्या: क्लिष्टतापि परिहरणीयैव। नाधुना समयो यत् सन्धिकार्यसूत्रेषु विकल्पाज्ञायामपि वयं बलात् 'अमुमुयङ्ख्षण्मुख:’ प्रयुञ्ज्म:। किं नु भवाञ्च्शास्त्रीति 'साम्प्रतं सुबोध्यं भवेत्? किन्तु सन्ति तादृशा अपि महानुभावा ये राम: पठति’ अत्र विसर्गस्थाने उपध्मानीयावेव नियमेन लिखेयु:। निबन्धप्रेषकेष्वपि एतादृशानां त्रुटिर्नास्ति।
सर्वे जानन्ति यदेतेषां व्याकरणबलं सारस्वतपूर्वार्द्धम्। एतदनन्तरं च निजप्रज्ञाबलेन अध्यापनकार्यार्थं परीक्षार्थं वा लघुकौमुद्यपि दृष्टा। किन्तु तेऽपि निजस्य व्याकरणाभिज्ञतां साधारणेषु ख्यापयितुं स्वकाव्ये लिखन्ति-'वसन्तसमीपे न हि जातु दध्यौ’ 'दाक्षिण्यवान्त्सोऽस्य कृते’ इत्यादि। किं वा फलमनया चपलचर्यया? उक्तौ हि प्रसाद: प्रशस्यते न तावदकाण्डे क्लिष्टता। ननु-अस्माकं व्याकरणस्य नियमशृङ्खला विच्छिन्ना भवेत्। यदि सरलतादृष्ट्या सर्वेऽपि तादृशान् प्रयोगान् परिहरेयुस्तर्हि तादृशप्रयोगो कुत्रचिद् दृष्टे कथं वा लोकानामर्थबोधो भवेत्। अत एव एतादृशा: प्रयोगा आवश्यका एव’ इत्यप्याज्ञापनं न मे दृष्टौ सम्यक्। महानुभावा:! यत्र हि शास्त्रानुगमो दर्श्यते श्रीमद्भि: स्ववैयाकरणताप्रकाशस्य वा योऽवसरस्तत्र कामं प्रयुज्यतां तादृशं यदि प्रयुयुक्षाव्याकुलो भवान्। किन्तु ये निबन्धा: सहृदयानां मनस्तोषाय, साधारणानां च संस्कृतरुचिवर्द्धनाय मासिकादिपत्रेषु दृश्यन्ते तेषु यदि सन्धीनां घोरप्रयोगो न भवेत्तर्हि प्रत्यवायो भवेत्? अस्ति विकल्पाज्ञया तस्मिन्व्याकरण एव प्रत्यवायपरिहारोऽपि। अस्तु प्रसङ्गेन बहु प्रोक्तवानस्मि। अस्मिन्विषये विशेषतो वक्तव्य स्वतन्त्रे निबन्ध एव निवेद्येत। इह तु एतदेव निवेदनीयं यत् संस्कृतभाषाया: सरलतासम्पादनार्थं सन्धीनां क्लिष्टता परिहरणीयैव। मादृशा: स्वल्पबुद्धयस्तु-यदि सन्धिकार्यं न क्रियेत पृथग् द्वयो: पदयो: प्रयोगश्चेत्क्रियेत तदापि न दोष:, सुबोध्यतैव सर्वात्मना सम्पाद्येति सम्मन्यन्ते। निबन्धलेखकमहाभागा यथारुचि समनुतिष्ठेयु:। पृथक् पदयोर्मध्ये 'वा पदान्तस्य’ इति विकल्पानुशासनात्सन्धिकल्पनं क्लिष्टकल्पनैव।
पदच्छेदोत्तरं 'प्रघट्टक’ विच्छेदस्य (पैराग्राफ) कथा उपस्थिता भवति। कैश्चिन्महोदयै: प्रेषितानि निबन्धस्य पत्राणि तादृक्सङ्कुलतया भरितानि भवन्ति यत्र मध्ये प्रघट्टकविच्छेदस्य चिह्नमपि नावलोक्यते। प्रकरणविच्छेदावसरे सत्यपि तेषां लेखसौष्ठवे बाधको भवति 'पूर्वोऽभ्यास:’। प्राचीनरीतेरनुगततया ते मध्ये-मध्ये सन्दर्भविच्छेदं न विरचयन्त्येव, अथवा वाञ्छन्तोऽपि कर्तुं न प्रभवन्ति। पङ्क्तेरादिभागे द्वित्राङ्गुलिपरिमितो भागश्चेदलिखितस्त्यज्येत तर्हि नवीन: प्रघट्टक: प्रारभ्यत इति मुद्रणालयस्थानां सङ्केत:। एवं कृते सति वाचक-महाभागानां पाठरुचिर्न व्याहन्येत। अन्यथा अदृष्टपारे पारावारे इव पाठकमहाभागानां प्रवृत्तिर्भयाकुलेव अनिच्छया व्याप्रियेत। भोजनपत्रावल्यां मनुष्यभोजनोचितं भोज्यमेकवारमेव परिवेष्य कश्चित्सहृदयश्चेद्भोक्तुमादिश्यते तर्हि भोजनरुचि: प्रतिहता भवतीति बहूनां स्वभाव:। तदेवं भोज्यं कमश: कतिवारांश्चेत्परिवेष्येत, तर्हि सरुचिसुखं स भुंक्ते। एवमेव प्रघट्टकविच्छेदेन पुरस्कृत: पाठ्यविषयो न वाचकानां रुचिविघातको भवतीति वाचकमहोदयानां श्वासग्रहणावकाशदानार्थं प्रघट्टकविभागेऽपि अवधातव्यं स्यात्।
चिह्नविचार:
मुद्रणीयनिबन्धेषु साम्प्रतं लेखचिह्नानामुपयोगोऽप्यावश्यक: सम्पन्न:। चत्वारिंशद्-वर्षेभ्य: पूर्वं यानि पुस्तकानि निबन्धा वा मुद्रिता:, न तेष्वेतावान् चिह्नानामतीव मार्मिकी मीमांसा प्रारब्धाऽस्ति। द्विशतवर्षेभ्य: पूर्वं लिखितेषु अर्द्धविराम-कोष्ठक-संयोजकप्रभृतिचिह्नानां चिह्नं नावलोक्यते किन्तु सम्प्रति घट-पटादिसाध्यताऽवच्छेदकाऽऽच्छन्ना अपि, 'जौ है शौ हिन्दीभाखा गौर्वाणी की बिरोधिनी है’ इत्यादि वाक्यामृतं वर्षन्त: पण्डितपर्जन्या अपि पूर्णविरामचिह्नम् 'पाई’(।) इत्याख्यं तु स्वलेखे प्रयुञ्जत एव। न्यायस्य व्याकरणस्य वा 'फाकी’ -(फक्किका)-विषयं मुद्रणाय प्रेषयन्तो महाभागा अपि साम्प्रतं पूर्वोक्तचिह्नानामुपयोगं स्वलेखे कुर्वन्तो दृश्यन्ते। अन्यचिह्नस्य स्थाने अन्यकृत्वा 'विनायकं प्रकुर्वाणो रचयामास वानरम्’ इत्यस्य दृष्टान्तभूता भवन्ति इति त्वन्यत्। परमेवंविधानां चिह्नानां प्रयोगस्तल्लिखित-पत्रेष्ववश्यं दृश्यते इति तु सर्वेऽपि द्रष्टार: साक्षिणो भवेयु:। एवंविधचिह्नानामाङ्ग्लभाषा-प्रचारकाल एवोपलभ्यमानत्वादन्वयव्यतिरेकाभ्यां राजभाषासम्बन्धिसामग्री सेयमिति मादृशानां बुद्धौ स्फुरति। एतस्या अपि मूलं केषुचिदार्षग्रन्थेषु चेत्केचिदाविष्कुर्युस्तर्हि किमत: परं सौभाग्यम्? अस्तु,
एतेषां चिह्नानां प्रयोगविषये निबन्ध-कवितादिप्रबन्ध-लेखकमहाभागानां सेवायां सविनयं निवेदनं साम्प्रतमावश्यकं संवृत्तम्। यतो हि बहुष्वेव निबन्धेषु-मुद्रणात्पूर्वं तच्छोधनं कर्त्तव्यमापतति। अत एव प्रतिवाक्यमावश्यकानां प्रधान-प्रधानचिह्नानामुपयोगस्थलं किञ्चिन्निवेदयितुमिच्छामि। यद्यपि हिन्द्यादिभाषासु एतद्विषयकाण्यपि कानिचित्स्वल्पकायानि पुस्तकानि मुद्रितानि सन्ति, परं संस्कृतप्रकाण्डपण्डिता न तानि व्यवहारे आनयन्तीति तेषां सदयदृक्पातमाकर्ष्टुं सोऽयं व्यवसाय:। किञ्च-यदि मद्बुद्धौ तदुपयोगविषये भ्रमो भवेत्सोऽपि तन्मार्मिकै: पण्डितैर्निरस्येत इत्याशया अंशतस्तदुपयोगस्थलमधस्तादुल्लिखामि। ये महोदया निबन्धलेखनविषये सर्वप्रकारैर्मल्लायिता न तेषां कृते सोऽयमारम्भ:, किन्तु ये तद्रङ्गस्थले व्यायाममेवारब्धवन्तश्चिह्नानामुपयोगे स्वैराचारं चिकीर्षन्ति तेषां सविधे तदिदं निवेदनम्-
पूर्णविराम:- वाक्यस्य पूर्णतायामवसाने सरलैकरेखाकारं-(।)-तदिदं चिह्नं प्रयुज्यत इति नास्य विषये निवेदनीयम्।
अर्द्धविराम: 'कॉमा’ इति। यत्र वाक्यस्य सर्वथा समाप्तिर्न भवति किन्तु तदन्तर्गतम् अवान्तरवाक्यमेकं समाप्यते तत्रेदं प्रधानतया प्रयुज्यते। यथा-'न हि मृतेयं संस्कृतभाषा’ मृतास्तु वयमेव ये नास्या: प्रभावोर्जितं महिमानमाकलयाम:। 'अत्र’ न हि मृतेयं संस्कृतभाषा’ इत्यवान्तरवाक्यस्य समाप्तिसूचनाय अर्द्धविरामचिह्नम् (' ’) एतदाकारकं प्रयुज्यते। एकस्मिन् वाक्ये बहूनां पदानां समवाये सति पदानां पृथग्विभागार्थमप्यस्य चिह्नस्योपयोग: क्रियते। यथा-'य: त्यागी,कुलीन:,विद्यारत:, कलानां च स्थानम् भवेत्स एव नायक: प्रशस्यते’। अत्र हि त्यागी कुलीन: इत्यादिपदानामवान्तरविभागप्रकटनार्थमस्योपयोग: कृतोऽस्ति। अस्य चिह्नस्योपयोगे कृते चिह्नादग्रिमेण पदेन सह सन्धिकार्यं नोचितम्। यतो ह्ययं विराम इत्युच्यते। विरामे च द्वयो: खण्डयो: संहिताऽभावात्सन्धिकार्यस्यौचित्यं न। यथा 'धनमत्तो न गुरून्, न पूजनीया: स्त्रिय:, न चावसराऽनवसरौ, अर्थमनर्थं वापि नावेक्षते’। अत्र अर्द्धविरामचिह्नस्य प्रयोगे सन्धिकार्यं न कृतमिति प्रत्यक्षमेव।
उद्धरणचिह्नम् (इन्वरटेड कॉमा)- यत्र हि कस्यचिद् भागस्य अविकलमुल्लेख: कर्तव्यो भवति तत्रेदं चिह्नम् उद्धरणीयभागस्याद्यन्तयो:(' ’) प्रयुज्यते। यथा -आचार: परमो धर्म:’ इति ह्यस्माकं घण्टाघोष:’। अत्र आचार: परमो धर्म: इति शास्त्रीयं वाक्यमपरिवर्तितरूपे इहोद्धरणीयमस्तीति तच्चिह्नचिह्नितमिह प्रयुक्तम्। उक्तिप्रत्युक्तयोरपि तदिदं प्रयुज्यते। यथा-'हे बालिके किं तत्र न गन्तासि?’ 'राजन्! अधुनैव तत्र प्रतिष्ठे’। शिष्टप्रयोगानुसारं द्विगुणमपीदं प्रयुज्यते यथा-('' ’’) इति।
परं दृश्यते-बहव: शिष्टायिता महाभागा अपि अर्द्धविरामादि-चिह्नानामुपयोगेऽपि सन्धिकार्यं कुर्वन्तीति। यथा-'वासस्थानं,वयो, विवाहितत्वाऽविवाहितत्वे, रोगपरीक्षाया सहायका भवन्तीति’। अत्र यदा विभाजकचिह्नस्योपयोग: कृतस्तदा मकारस्थानेऽनुस्वार:, 'वय:’ इति विसर्गस्य स्थाने रुत्वोत्वकार्यं नोचितमेव। निर्णयसागरसदृशविवेकिमुद्रणालयेष्वपि कुत्रचिदुपर्युक्तचिह्नयोरुपयोगे सन्धिसम्भेदरूपो भ्रमो दृष्ट:। यथा-'धर्म: सहायको भवती’ त्येव तद्विवक्षितम्’। पर्वतो वह्निमान् धूमादि’ति। इत्यादि। एवंविधस्थलेषु चिह्न विभाजकचिह्नस्योपयोगे संहिताकार्य न कथमप्युचितम् यदि च सन्धिरिष्टस्तर्हि एवं विधनामुपयोगो न कर्तव्य:। न हि उत्फुल्लगल्लत्वं सशब्दं हास्यं च युगपदेकस्मिन्पुरुषे सम्भवत:। तस्मादेवंविधस्थले 'धर्म: सहायको भवति’ इत्येव। 'पर्वतो वह्निमान् धूमात्’ इति असन्धिक: प्रयोग एव चिह्नोपयोगे सति समीचीन:।
प्रक्रमसम्बन्धसूचकं (डेश) चिह्नम्- यथा-भगवान् पुनरवोचत्-'स्वागतं वो महाभागा:’। अत्र भगवान् पुनर्यदवोचत् तद्विषयस्यारम्भसूचनाय अग्रेतनभागेन च तस्य सम्बन्धसूचनाय (-) आयतरेखाकारमिदं चिह्नमुपयुक्तमस्ति। यथा वा-'महर्षिणा मनुना धर्माचरणविषये यदुक्तं तद्यथा- अत्र मनोर्वचनस्य प्रक्रम: अग्रतनेन च सम्बन्धो वक्तुरभीष्ट इति सूचनाय तदिदं चिह्नं प्रयुज्यते। यथा-'पुण्य-पाप-सुख-दुखादीनि कर्मभ्यो जायन्ते’। अत्र पुण्यपापेत्यादिपदानां परस्परसम्बद्धत्वसूचनाय तदिदं चिह्नं मध्ये प्रक्षिप्तमस्ति। पत्रस्यायुर्भागे (मार्जिन) यत्राक्षरपङ्क्तिस्तु समाप्यते परं पदं न समाप्यते तत्र द्वितीयपङ्क्तिगतभागेन सह सम्बन्धसूचनाय स्वल्परेखाकारम् 'हाइफन’ (-) तदिदं चिह्नं व्यवह्रियते। यथा-'रामो द्विर्नाभिभाष’ इत्यक्षरैरेव यत्र पङ्क्ति: पूर्यते तत्र द्वितीयपङ्क्तेरादिभागे स्थितस्य 'ते’ इत्यक्षरस्य सम्बन्धसूचनाय तदिदं चिह्नं प्रयुक्तमस्ति।
बहवो महाभागा अस्यापि चिह्नस्यास्थाने उपयोगं कुर्वन्ति। केचिद्वाक्यस्यान्ते विरामचिह्नमिव सर्वत्र प्रयुज्यते। अपरे च-राम: यास्यति इत्यादि पदयोर्मध्ये अकारणमेव तदिदं चिह्नं प्रक्षिपन्ति,येनाक्षरयोजकानां नानाभ्रमो भवति।
सम्बोधनप्रश्नचिह्नम् - सम्बोधनपदस्याग्रिमपदात् पार्थक्यसूचनाय(!) तदिदं चिह्नं प्राय: प्रयुज्यते विज्ञै:। यथा-'कृष्ण! गोपगणमीक्षसे न किम्’। अत्र निर्विभक्तिकं कृष्णपदं गोपपदेन न संयुज्येत, किन्तु तदिदं सम्बोधनपदमस्तीति सूचनाय तदिदं व्यवहृतमस्ति। आश्चर्यादिप्रबलभावविशेषसूचनायापि तदिदं चिह्नं द्विस्त्रिर्विभज्य वाक्यस्यान्ते दीयते। यथा 'अहो एकस्मिन्पल एव सर्वो हिमो द्रवीभूत:! हं हो कीदृग् भीषणस्ताप:!!’ इत्यादि।
यत्र वाक्येन प्रश्नार्थ: परिफ लितो भवति, तत्रान्ते (?) इदं चिह्नं प्रयुज्यते यथा-'एतस्मिन् धनस्य कियान् भागो व्ययितो भवेत्, एतद्विचिन्तितं केनापि?’ यद्यपि काक्का, किम्शब्दादिप्रयोगेण वा सोऽयं प्रश्नार्थो बुध्यत एव सर्वै:, परं स्पष्टप्रतिपत्तिसौकर्याय तदिदं चिह्नं प्राय: सर्वैरेव व्यवहर्तुमारब्धम्।
अस्तु, एवं किल नानाविधानि चिह्नानि मुद्रणीयेषु निबन्धेषु विज्ञै: प्रयुज्यन्ते, प्रयोक्तव्यानि च भवन्ति। तदुपयोगविषयस्तद्विषयकै: पुस्तकैरेव बोद्धव्यो नात्र तेषां सर्वेषां व्यवहारस्थलं निदर्शयितुं निबन्धमारब्धवानस्मि, परं प्रतिपदमावश्यकानां प्रधानप्रधानचिह्नानां स्थूलस्थूलं प्रयोगविषयमेवं निदर्शितवानस्मि, येन महाभागानामुपयोगभ्रमो न भवेत्। सोऽयं निबन्धलेखस्य विराट् प्रवाह: संस्कृतक्षेत्रे सुफलप्रसूर्भूयादिति शम्।