सम्प्लवः
प्रथम आर्वतः
अवगाहनम्
योऽस्मि सोऽस्मि
दासोऽस्मि वाण्या: सुरवाग्विकासो
भासोऽस्मि नाट्ये च कलाविलास:।
काव्येऽस्मि रम्ये किल कालिदासो
व्यासोऽस्मि नव्यश्च नव: समास:।।
धन्योऽस्मि सृष्टे: किल सर्वनिष्ठं
प्रेष्ठं वरिष्ठं च वहामि तत्त्वम्।
यद्यप्यतीवास्मि लघिष्ठ एव
प्रेष्ठो जनानां भवितुं समीहे।।
पूर्णायषा जीवनयज्ञपूर्ति-
र्यं श्लाघतेऽसौ वसुदेवमूर्ति:।
तस्मात् तनोम्यत्र च वाङ्मयाभ्रे
निस्तन्द्रचन्द्रार्कसमं प्रकाशम्।।
जीवनवने
(१)
मार्गं विन्दति नैव चैव च सुखं श्रान्तिं गत: सर्वथा
यत्र भ्राम्यति चङ्क्रमीति चकितो जन्तुर्भ्रमं प्रापित:।
दावाग्नि च निदाघमत्र सहते च शीतं भृशम्
कान्तारे किल भीषणेऽत्र गहने किं विद्यते जीवने।।
(२)
किसलयै: प्रणयै: समलङ्कृतं
सुचरितैर्विततं बहु पादपै:।
सुमनसा मनसा च विराजितं
वनमिदं च भवेन्मम जीवनम्।।
(३)
कलनिनादपरा च परम्पराऽ-
थ सकलापि कला च पराऽपरा।
भवति यत्र सदेव सुसङ्गता
सरिदिवाशु सृता सुधृता वृता।।
(४)
आसीद् यद् बहुधा विपर्ययमयं सङ्कल्पितं नाशितं
अद्य श्वो भवितैव चैतदखिलं माङ्गल्यमोदान्वितम्।
आशैषा प्रबलायते प्रतिदिनं क्षीणायते जीवने
सन्देह: कुरुते वनेऽत्र सततं शार्दूलविक्रीडितम्।।
(५)
आशङ्का च कुतर्कसंशयभयेर्ष्याद्या हि हिंस्रास्तथा
यत्र स्युर्न कदापि भैरवगुणा दुष्टास्तु ये जन्तव:।
सौजन्यं च शमस्तथैव मधुर: प्रेमा ह्यनन्तस्तथा
वासं यत्र समाचरन्ति मुनय: सत्यव्रता: साधव:।।
अभीप्सा
(१)
वृक्षोऽहं भूयासं
मूलं भूमौ विधाय दृढम्।
आकाशं स्वोच्छ्रायै:
स्पृशन्नन्तं विभुं सान्त:।।
(२)
वृक्षोऽहं भूयासं
लुनन्तु कामं जना यथेच्छं मे।
पत्रं फलं च पुष्पं
सकलं नयन्तु च काष्ठचयम्।।
(३)
स्रोतोवहो भवेयम्।
गङ्गोत्रीतो विनिर्गत: कश्चित्।
सिञ्चन् जगतीमखिला-
मन्तेऽनन्ते लयं यात:।।
(४)
दूर्वाङ्कुरो भवेयं
सततं हरितो धरामलङ्कुर्वन्।
छिन्नश्छिन्नो भूय:
रुहानि दृढं च स्वशक्त्या।।
संसारे
(१)
संसारे विपुले वसन्ति ननु ते सन्त: सहस्राधिका:
यै: सार्धं तु घटेलिमा न घटिता: सम्बन्धबन्धा मम।
चित्ते किन्तु लसन्ति शेवधिसमं कोशे दृढं स्थापिता-
स्तेषां स्मृतयो हि बुद्बुदसमा: याता लयं चोत्थिता:।।
(२)
संसारे विपुले वसन्ति ननु ते लक्षाधिका मानवा:
यै: सार्धं मम युज्यते स्म सहज: सम्बन्धबन्धो दृढ:।
यद्वाऽसौ घटितो यतो हि पथिभिस्ते यै: प्रयाता: मुहु:
स्पृष्ट्वा तांश्चरणौ पथो मम गतौ यद्वा क्वचिद्यास्यत:।।
(३)
संसारे निवसन्ति चार्बुदशतं देशेषु ते मानवा
ज्ञायन्ते किमु ते मया क्वचिदहो नाम्नाऽथरूपे रूपेण वा।
स्पार्शं स्पार्शमिमान् वहन्ति बहला लोके तु वाता मुहु-
स्तेमी मां किल संस्पृशन्ति बहुधा स्पृष्ट्वा स्पृशन्तश्च तान्।।
धराशिशुनर्तनम्
(१)
ब्रह्माण्डे वितते लसन्ति शतशो ये कोटिशस्तारका
दूराद् दूरमितो गता: कथमहो ज्ञातुं नु ते शक्नुयु:।
अत्यन्तं निविडं निलम्ब्य निभृतं बिन्दुप्रभे कोणके
सृष्टे: रङ्गमधि क्वचिच्छिशुसमा पृथ्वी नरीनृत्यति।।

(२)
ग्रावप्रख्यहिमार्द्रनेत्र इह तां चन्द्रो मुधा पश्यति
सूर्यस्तप्तरुषारुण: पुनरिमां निर्वर्णयन् संस्थित:।
सा चोत्तालसहास्यलास्यमधुरं नो भावयन्ती त्वमू:
स्वात्मन्येव रता वरा शिशुधरा भूयो नरीनृत्यति।।
(३)
नि:श्वासा बहुसीत्कृतानि रुदितं दु:खं च तद् दारुणं
हाहाकाररवाश्च घोरविकटास्तत् क्रन्दनं शोकजम्।
उच्छ्वासा बहला: क्षणा: सुखघना: आनन्दरूपायिता:
सर्वं चैतदहो धराशिशुकृते सम्मिश्रितं नर्तने।।
(४)
अल्पा यद्यपि किन्त्वभूद्धि महती कालेन चैतावता
कोटीभि: किल कोटिकोटिजनतामाता तु जातास्ति यत्।
सेयं संस्खलतीह चापि पतिता चोत्तिष्ठते नर्तने
सोन्मुक्तापि न जायते क्वचिदियं स्वस्या धुरो विच्युता।।
(५)
मध्येऽस्या रशनायितौ प्रविततौ पूर्वापरो तोयधी
पादेऽस्या: स च नूपुरायित इह प्रत्यङ्महासागर:।
हस्तेऽस्या वलयायिता हि सरितस्तेकर्णपूरायिता:
सानुभ्य: स्खलिता: क्वणद्ध्वनियुता: स्रोत:प्रवाहा सुखम्।।
(६)
दूरात् द्रष्टुमिमां क्वचित् प्रयतते नीहारिकायां स्थित:
कश्चिद् वृद्धग्रहो ग्रहेण नयनं व्यापारयन् व्याकुल:।
दृष्टिर्यावदमुष्य चात्र घटते पश्येत् स यावत् धरा-
मब्दा: कोटिशतं प्रकाशगणितास्तावद् व्यतीता: पुन:।।
(७)
को जानाति ग्रह: स कालगिलितो वा शिष्यते सम्प्रति
शिष्टा यद्यपि चास्ति तस्य पतिता रश्मिर्धरासङ्गता।
तां रश्मिं परिगृह्य खेलति पुनश्चैषा प्रसन्ना धरा
कृत्वाऽस्या: किल नूतनां च ललितां क्रीडाकलापुत्तलीम्।।
छन्द:
(१)
त्रुटिते छन्दोबन्धे
लययतिभङ्गे समं सञ्जाते।
किमपि किमपि यद् रचितं
तदपि तदपि समजनि च्छन्द:।।
(२)
उन्मीलिता नवीना
मार्गा दृष्टा नवीनपद्धतय:।
छन्दश्चलितं भूत्वा
पाथेयं दीर्घयात्रायाम्।।
(३)
सत्त्वं शब्दे निहितं
दूरीकरोति रज:पटलं मनस:।
वाङ्मयकुठारधारा
विदारयतीह तमोजवनीम्।।
शब्द:
(१)
भ्राम्यन्नस्ति नरो वसुमतीपृष्ठे वृतो बन्धनै-
र्भाम्यत्यत्र धरा च विश्वपटले सन्धारयन्ती धुरम्।
विश्वं भ्राम्यति बद्धमत्र तारकगणैश्चाकृष्टिशक्त्या दृढं
यस्यां विश्वमिदं निलम्बितमहो सा वाचि धूर्यार्यते।।
(२)
आकाशे त्वविनश्वरं विनिहित: शब्दो हि सन्तिष्ठते
शब्द: सम्प्लवते त्वपारजलधावर्थस्य नौकासमम्।
शब्दो मानसरोवरं ह्युडुपवन्मे मानसं गाहते
कृष्टज्ये धनुषि प्रधारितशर: शब्दश्च सन्धीयते।।
(३)
आदौ रिङ्गति चाभिधावसुमतीपृष्ठे स सङ्केतितं
प्राप्यार्थं रभसा विमुञ्चति धरां वृत्तिं श्रयंल्लक्षणाम्।
दीर्घाद् दीर्घतरं रयं प्रकटयन् व्यक्त्या प्रकृष्ट: पुन-
व्र्योम्नोऽनन्तपथं प्रयाति सहजं शब्दो विमानप्रभ:।।
द्वितीय आर्वतः
प्रश्नविवर्ताः
पत्रमञ्जूषा
(१)
पत्राणामिह वार्तां जानातु कथं पत्रमञ्जूषा।
क्रोडीकुरुते येषां निकरं नित्यं खरं ह्येषा।।
(२)
स्खलदक्षरमालाभिर्लुलुलितमसीबिन्दुभिर्व्याप्तम्।
लिखितं स्वयमानीतं लगुडकरेणानतगात्रेण।।
(३)
वृद्धेन व्याकुलितां दृष्टिं क्षिपता वेपथुमताऽस्याम्।
पत्रं मञ्जूषायां क्षिप्तं हस्तेन कम्पितेन।।
(४)
निगिलन्ती सा पत्रं निरपेक्षं पत्रपेटिकाऽऽस्ते।
दर्शं दर्शं त्वेनामुच्छ्वसिति मुहुर्मुहु: स्थविर:।।
(५)
सप्रत्ययमामृष्टा पत्रं क्षिप्त्वा क्षणं च साकूतम्।
वक्रमुखी मञ्जूषा निभृतं वृद्धेन कूणिताऽपि।।
(६)
अथ सा किं जानीते मञ्जूषा लौहनिर्मिता शोणा।
प्रोषितपुत्रो लब्धा पत्रं न वाऽस्य तु वृद्धस्य?।।
(७)
कोपाटोपभटोऽसौ तूर्णमपूर्णं युवाभियोगपत्रम्।
परिवर्तनकामी तत् पत्रं निदधौ रुषा ज्वलित:।।
(८)
भृतिमिह वाञ्छन्नन्यो मुग्ध: कश्चन मुखेऽस्या यत्।
मञ्जूषाया सोत्को दत्वा पत्रं प्रयाति झटिति।।
(९)
कार्यालयभृत्योऽयं निरुत्सुकं प्रकिरतीह तानि तानि।
शुष्कपरुषपत्राणां मञ्जूषाऽऽस्ये च पुञ्जितानि।।
(१०)
प्रतिपालयन्ति कति कति संहतय: सन्त्यहो जनानां ता:।
पत्रोत्तरमित्येषा मञ्जूषा वेत्ति जडाऽपि किम्?।।
(११)
परिस्फुरद्भि: पत्रै: प्रतिदिनमियमतितरां प्रपूरिताऽपि।
खचिता भूमौ गाढं सुदृढमचलमिह जडा स्थितैव।।
(१२)
पत्रं कृतसन्धानं तीक्ष्णं शस्त्रं यथा द्रुतं प्रहितम्।
मर्मणि नास्या: कुरुते लवलेशमपि व्यथाततेस्तु।।
(१३)
चिन्ताशङ्कासूयारोषोपालम्भदीनताशबलै:।
भावैस्तैराकुराकुलितं पत्रनिकरमपि सदैव पचति।।
(१४)
ऊष्मा किल चैतेषामायसमस्या: कदापि तु गालयेत्।
विचलिष्ययति मञ्जूषा पत्राणामूर्जया कदापि।।
तमसातीरे
(१)
गङ्गा मयाऽङ्गसङ्गा विहिता विलसिततरङ्गभङ्गाऽसौ।
अमुना तथैव यमुना गात्रेण मुहु: परामृष्टा।।
(२)
सम्प्रति तमसातीरे तमसा मुक्तश्च शुद्धमनसाऽहम्।
निर्मलजलैस्तदीयैरपगतमलश्च सुखी स्याम्।।
(३)
एवं कृत्वा स्वीये मनसि प्राप्तस्तटं तमसाया:।
नगरनिकाशं यानागमनाकुलितेन मार्गेण।।
(४)
ग्रीष्मे भीष्मेऽङ्गारं प्रकिरति वहति च तप्तसघनवाते।
शुष्का तमसा दृष्टा शिथिला रेखेव केवलं शीर्णा।।
(५)
नो क्रोञ्चो नो व्याधो नो वा दृष्ट: स चादिकवि: क्वचिच्च।
दृष्टा दूरे गृध्रा अश्नन्तस्ते तथा पिशितम्।।
किम्?
(१)
रेखा स्मितनिर्मितां सुरुचिरामोष्ठद्वये कुर्वती
यासौ केलिकलाकलापकलने दृष्टिं ददौ नूतनाम्।
यासीच्छैशवलालिता सहचरी वृत्तिस्तु सा कौतुकी
सुप्ता किं नु मृता नु किं मनसि मे लीना विलीनां नु किम्?
(२)
कल्याणी कविकालिदासरचिते काव्यव्रजे झङ्कृता
नाट्ये या भवभूतिना विरचिते रङ्गे तरङ्गायिता।
पाञ्चालीव च बाणभट्टरचिते गद्ये बभौ भारती
सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम्?।।
(३)
दुष्यान्तान्वेषितशावकेन सदृशी भूयो मया मार्गिता
दृष्टा दृष्टिपथात् तथा पुनरपि यासौ स्वयं गूहते।
बारम्बारमिदं तथेत्थमपि या सम्भाविता लक्ष्यभू:
सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम्?।।
(४)
आयातोऽस्मि चिराद् गतेऽर्धशतके स्वस्यायुषो ग्रामकं
दृष्ट्वा मां समुपेक्षया प्रचलिता मार्गे जना: शङ्किता:।
नित्या मे सहजा शिवा परिचिति: तै: साकमासीत्तु या
सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम्?।।
(५)
उल्लासं न विलोकयामि नयने कस्यापि नो विस्मयं
कार्यव्यापृतिराजनीतिनिरतां पश्यामि तां व्यग्रताम्।
गीर्णा या नगरेण चास्य सहजा ग्रामस्य सा ग्रामता
सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम्?।।
(६)
यस्यां स्नातमनेकश: प्रमुदितैर्मित्रैश्च सार्धं मया
क्रीडद्भि: शिशुभावनित्यसरलं नास्त्यत्र सा वै नदी।
स्वच्छन्दोच्छलदच्छवारिभरिता सौख्यावगाहाय सा
सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम्?।।
(७)
या निम्बार्जुनशालतालसरच्छाया मनोहारिणी
नद्या नास्ति कुतोऽपि भिन्नपुलिना चास्यास्तटी विस्तृता।
सन्ध्यायां विहृतं मयेह सुचिरं क्रीडा: कृता यत्र सा
सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम्?।।
(८)
सीमान्ते भवति स्म कापि वितता यत्राम्रनाटी शुभा
स्थानं तत् किल सप्तभूमिभवनैस्तुङ्गैरतिक्रामितम्।
सा चास्या: सहकारमञ्जुसुरभि: पुस्कोकिलानां रुति:
सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम्?।।
कथं नु?
(१)
विद्वांसो भुवि भारतेऽत्र ससमारोहं बहिर्न्यक्कृता:
सत्ताधीनजना विलासमदिरोन्मीलन्मदाघूर्णिता:।
आस्ये धास्यति कस्य लास्यमधुना धन्यस्य सा संस्कृता
पीयूषप्रतिमश्च सत्कविगिरां दिव्यो विलासोऽशवा?।।
(२)
दृश: पृथुतरीकृताश्चलितमस्तकै: श्रोतृभि:
स्फुटाधरमुखै: कृतोऽधिकतरश्च साधुध्वनि:।
रसो न परिशीलितो न विदित: कवेराशय:
कथं नु मतिचुम्बिनी भवतु काव्यकादम्बिनी।।
संयोग:
(१)
संयोग एष नगरेऽद्य न कर्फ्युरासीत्
कश्चिन्नरो विनिहतो न च विक्षतो वा।
नो वा किमप्यघटनीयमपि प्रजातम्
हट्टं गत: सकुशलं च परागतोऽहम्।।
(२)
वार्ता न दृष्टा किल वृत्तपत्रे
चौर्यं वधं चापि निवेदयन्ती।
योषित्कुमारी न बलात्कृता किं
क्वापिति चाश्चर्यमभूद् महन्मे।।
(३)
संयोग एष च बभूव विलक्षणो यद्
दृष्टा वसन्ततिलका नवमञ्जरी सा।
आताम्रनीलपरिपाण्डुनवीनकान्ति:
कस्यापि कम्रसहकारतरोरकस्मात्।।
(४)
उन्नम्य हस्तमवचित्य नयामि गेहं
संस्थापयामि च समुल्लसित: पुनस्ताम्।
कक्षस्य कोणनिहिते किल पुष्पपात्रे
भूय: प्रसन्न-मनसा च निभालयामि।।
(५)
तावच्छ्लथा विगलिता किल पुष्पपात्रात्
सा वै निपत्य धरणीतलमाससाद।
किं वा क्षिपामि पुनरेव च पुष्पपात्रे
संस्थापयाम्युत किलेति न वेद्मि सोऽहम्।।
शुनो लाङ्गूलम्
(१)
प्रकृत्या यद् वक्रं परिकलितचक्रं च कुटिलं
धृतं यत्नाच्छश्वत् सरलनलिकान्त: समतया।
अपि स्नेहैर्वर्षं मृदितमपि संवाहितमपि
शुनो लाङ्गूलं तद् भवतु समरेखं कथमहो?।।
(२)
समायान्तं दृष्ट्वा करकलितयष्टिं तु पुरुषं
त्वधो यातं काये प्रविशति तथा ''क्याङ्’’रवसमम्।
प्रतिद्वन्द्विव्यूहे ध्वज इव समुत्थाय च जवा-
च्छुनो लाङ्गूलं तद् भवति विजयाध्मातविततम्।।
(३)
कणं योऽन्नस्यासौ वितरति च भर्ता तृणमिव
समक्षं वीक्ष्यामुं चरणयुगलेऽस्यानतमिव।
परं श्रद्धाभक्तिप्रणयकृपणं दैन्यकरुणं
शुनो लाङ्गूलं तद् भवति भुवि दोलायितमहो।।
हंस:
(१)
आस्तां सा किल मानसस्य सरसा वार्तापि दूरं स्थिता
पद्मश्री- शतपत्र- काञ्चन- चलत्सौरभ्य -सम्भाविता।
नो लभ्यं बत पल्वलस्य यदपि स्वल्पं जलं प्रागभूत्
पङ्के शैवलकिट्टकल्मषमये सीदन् मराल: स्थित:।।
(२)
कलं सा गायन्ती क्षणमिह विरम्य स्थितवती
'गिरां देवी वीणा गुणरणनहीनादरकरा’।
उलूक: श्रीमान् य: प्रभवति दिवाप्येष, सहसा
तदीयं हंसं च प्रबलरभसाऽऽक्रामति मुहु:।।
मयूरान्योक्ती
(१)
बर्ही बर्हजिघृक्षुहिंस्रवणिजस्त्रातुं स्वजीवं दरा-
दूर्ध्वोर्ध्वं डयते द्रुतं कथमपि प्राणान् पणीकृत्य स:।
नो जानाति च यत्र याति शिखरे वृक्षस्य यस्योन्नते
नि:शङ्कं किल तत्र मांसनिरता गृध्रा: स्थिता: गृघ्नव:।।
(२)
मेघैर्मेदुरितं नभो, नभसि तद् दृष्ट्वा स्वतो नि:सृतां
केकां षड्जमनोरमां तव शिखिन् भिन्नां द्विधा मूर्च्छिताम्।
लोको वाञ्छति नैव पश्यति च नो मेघाकुलं वा नभ:
क्रय्याक्रय्यविचारणे हतरुचिर्बर्हाय लालायित:।।
चञ्चा
(१)
युक्तं कर्षकचीत्कृतिं कटुरवां जोगुञ्जितां पक्षिण:
श्रुत्वा यान्ति दरादमी द्रुतमहो दूरं समुड्डीय यत्।
एतच्चित्रमहो न यान्ति निकटं क्षेत्रं त्यजन्त्येव ते
दर्शं दर्शमिमं भयाद् विगलिताश्चञ्चामनुष्यं जडम्।।
(२)
नि:श्रोत्रं शृणुते निमेषरहितो नेत्रं बिना लोकते
मस्तिष्के घटनिर्मितेऽस्य निहितं गाढं तम: केवलम्।
कार्यं सर्वमसौ करोति सुस्थिरतया वा सर्वकारप्रभ:
नव्यां शासनरीतिमेव सहजां जानाति चञ्चा नर:।।
(३)
किं मीमांसकदुर्दुरूढसदृशो मांसं बिना मांसते
किं वैयाकरण: खसूचितरथवा व्याचष्ट भाष्यं बिना।
आत्मन्येव रतस्तथोपकुरुते चात्मानमेवात्मना
वेदान्तेषु यमाहुरेकपुरुषं तत्तुल्यतां गाहते।।
वृथापुष्टविलसितम्
(१)
विनिमार्य श्वासै: स्रजमिव निजैर्दैवतगणं
द्युसंस्थं पूजाभिर्नमयितुमलं चास्म हि वयम्।
परं व्यर्थं पूजा व्यरचि सुमनोदामभिरियं
वृथापुष्टो नीतो मुहुरिह नर: पूज्यपदवीम्।।
(२)
वृथापुष्टो मञ्चं श्रयति च तुन्दं च पृथुलं
तदीयं तस्यौर्वोर्भवति सहजं स्थापितमहो।
अधिग्रीवं माला कुसुमरचिता याऽपि निहिता
तदीये तुन्दाग्रे ग्लपितविभवा तिष्ठति जडा।।
(३)
न दायित्वं वोढुं भवति तथाऽलं न वचनं
वृथापुष्टो भारं किल सुमनसां किं स सहताम्।
अतो मालां कण्ठात् स तदनु वियोज्यैव सहसा
झटित्येनां दूरं क्षिपति सुखं चोपविशति।।
(४)
वृथापुष्टे मञ्चादवतरति चायोजनमहे
समाप्ते सर्वस्मिन्नपसरति सद्यो जनगणे।
विमर्दे सम्मर्दे कुसुमनिचय: क्वापि मृदित:
पदाघातैश्छिन्नो विलपति स मालाविघटित:।।
(५)
वृथापुष्टो नित्यं भवति न कायेन विपुल:
कृशो वा स्थूलो वा लघुरपि स दीर्घोऽपि भवति।
अभिज्ञातुं शक्य: स विविधविशेषैरनुपमै:
वृथात्वावच्छिन्नैरपि खलु विभिन्नैर्निजगुणै:।।
(६)
वृथावादो जल्पो हसितरुदितं स्यादपि वृथा
वृथा पानं गानं भवति च वृथायानमपि तत्।
वृथापुष्टस्यास्ते सकलमपि कार्यं खलु वृथा
प्रणाशश्चैक: स्यात् क्वचिदिह वृथा नास्य भुवने।।
(७)
वृथापुष्टस्तुष्टो भवति न कदाचिन्न मुदितो
जलौकातुल्योऽयं पिबति किल नृणां हि रुधिरम्।
न सद्योऽयं मुञ्चेद् यदि लगति गात्रे स्पृशति वा
द्विजिह्वोऽयं क्षिप्रं दशति सहसाऽज्ञातमपि वा।।
नगरे सिंह:
(१)
एकाकी विचरन् सदैव विजने भीतैर्जनैर्दूरतो
हातो, दृप्ततयाऽऽदरस्य च दरस्यासीत् स पात्रं पुरा।
उद्यानं किल सर्वकारविहितं सम्प्राप्य सम्मानितो
वन्यप्राणिविहारसंज्ञकमसौ सिंह: शृगालायित:।।
(२)
मांसं खादति पालकेन पुरत: क्षिप्तं स नित्यं मुदा
सन्तुष्ट: स्वपितीह चत्वरबलीवर्दप्रभ: प्रत्यहम्।
शृण्वन् वानर-कुक्कुरादिविहितं कोलाहलं चाभितो
मन्दं चीत्कुरुते कदाचिदसकृद् बालै: शठै: खेदित:।।
(३)
मार्जारै: शशकैर्मयूरनिवहै: सर्पौर्दिवजिह्वैगजै:
कीरै: कोटिविधैस्तथाऽन्यपशुभि: स्वं पिञ्जरं संश्रितै:।
सोऽयं तिष्ठति संवृतोऽतिकुटिलैश्छात्रैरदम्यै: खलै-
र्विद्यापीठगतो यथा कुलपति: कार्यालये संस्थित:।।
(४)
गुञ्जत्कुञ्जकुटीरपर्वतदरीदीर्घा मुहु: स्फारिता:
कान्तारे ध्वनयोऽस्य गर्जनकृता: स्तब्धा इदानीं तु ते।
क्रीडापुत्तलकत्वमत्रनगरे प्राप्तस्य सिंहस्य तत्
क्वेदानीं खलु दृश्यमस्तु सहजं शार्दूलविक्रीडितम्।।
(५)
किं वा न स्मृतिमेति चास्य मृगया वन्या च सा पद्धति:
स्वच्छन्दं गमनं च तद् विहरणं तच्छासनं कानने?।
तद् भुक्तं स्वपराक्रमेण सहजं व्यापाद्य मृग्यं स्वयं
हेलानिर्जितमाशु सत्त्वविधृतं प्राज्यं स्वराज्यं च तत्?।।
नगरे गाव:
(१)
दोहं दोहमिमा: प्रभातसमये गोपालकैरुज्झिता:
खाद्याखाद्याविवेकधीविरहिता गाव: क्षुधा पीडिता:।
हट्टे वस्तुसमाकुलेऽत्र बहुधा कुर्वन्त्यटाट्यामिमा
उच्छिष्टस्य गवेषणाय परित: सङ्कीर्णशृङ्गाटके।।
(२)
स्वैरं ता: प्रविशन्ति सार्वजनिके शौचालयेऽनावृते
चुभ्रूश्चुभ्रुरिति प्रकृष्टवदना: स्वैरं स्वदन्ते मलम्।
दिग्धं स्वं गलकम्बलं च मलिनं विस्रेण नो जानते
मूत्रक्लिन्नविभुग्नतुण्डमथवा व्यापारयन्त्योऽन्यत:।।
(३)
सम्मर्दे जनसङ्कुलेऽतिनिविडं रुद्धे च मार्गे मुहु-
र्यातायात-निवृत्ति-वृत्तितुमुलव्यूहे समूहेऽथवा।
नि:शङ्कं प्रचरन्ति वाहनकुलान्नैता मनाग् बिभ्यति
श्रुत्वा नापसरन्ति कर्णकटुकं सङ्केतरावं तथा।।
(४)
उद्याने विकचप्रसूननिचिते घण्टापथे मार्जिते
ता मुञ्चन्ति च गोमयस्य पृथुलान् पिण्डानकस्मात् पृथून।
धावन्ति प्रसभं दिशो दिशमित: कुर्वन्ति हम्बारवं
डिम्भैर्दण्डकपाणिभि: सकुतुकं चाकारिता: सर्वत:।।
(५)
आस्था: पूर्वतनीर्यथा किल हृता: प्रश्नैरिदानीन्तनै-
र्हन्यन्ते लगुडप्रहारमनिशं पाषाणघातं त्विमा:।
श्रद्धा क्वापि पुरातनी क्वचिदनूचानै: स्वयं पोषिता
गावश्चैवमिमा हताश्च विधुता: सम्पूजिता वा क्वचित्।।
(६)
काप्येषा निभृतं हि सागरतटे शुष्के मरौ गौ: स्थिता
किं सा ध्यायति तन्मुहुस्तरणिजातीरं तमालाश्रयम्।
गोपीगीतमतीव कर्णमधुरं चित्रं च वंशीरवं
गोपालं च कमप्यतीवघटनाचित्रं च चित्रार्पिता।।
(७)
कापि भ्राम्यति चापणे पुनरियं त्वेकाकिनी भर्स्तिसता
निर्विण्णेव यथा तथैव सहते लोष्टप्रहारान् भृशम्।
मध्याह्ने व्रजतीति तप्तपथि सा चोड्डामरे डामरे
भूयो भूयमहो हता च विधुता यष्ट्या पुन: पामरै:।।
(८)
एतस्या: क्व गतास्तु शष्पकवलाश्छायाद्रुमा: पुष्पिता-
स्तोयान्यच्छदिशोऽनुकूलपवनास्ते कुत्र याता लयम्?।
कण्डूति: स्वकरेण दंशमशकादीनां च निष्कासनं
गोपैर्मातुरिव स्वयं च विहिता भक्त्या सपर्या क्व सा?।।
(९)
गेहं गोमयलिप्तमेव गृहिणीसम्मार्जितं यत्नत:
सा वध्वा प्रथमा च भोजनविधौ निस्सारिता रोटिका।
सा लेढिश्च रसामृतै: स्नुतपयस्तत् पीवरोधश्च्युतं
त्वस्यास्तत् स्मृतिसंस्थमस्ति वधिकैर्या नीयते गौ: पथि।।
(१०)
गोधूलिर्नहि जायते न सुदिनं गोष्ठी न गोपायनं
ध्वस्ता सापि तथा गवेषणमतिर्गोरोचनायाश्छवि:।
गोत्रेषु स्खलितं विगलितं गोजागरो मूर्छित:
सर्वं गोष्पदमग्नमेव नितरां गोलोकलीनं नु वा।।
(११)
भूमि: सङ्कुचिता तृणान्यपि पुन: सौकर्यलभ्यानि नो
प्राप्यन्ते न जलान्ययपीह विमलान्यासां गवां वा कृते।
अत्युच्छ्रायविसारिसौधनिवहैरुत्थापिते जङ्गले
त्रस्ता गाव इमा प्रयान्तु विलयं सीतेव किं भूतले?।।
(१२)
गोवाहीकनिषेवितं स्थलमिदं शून्या: समस्ता दिश:
स्थानं वा कतमद् गवेषणपरा: कुर्वन्वशून्य त्विमा:।
स्वै: पुत्रैरपमानिता गतघृणं गेहाच्च निर्वासिता
माता पश्यति सन्ततिं सकरुणं सेयं गवां सन्तति:।।
नगरे वृषभ:
(१)
नन्दी वा हरवाहनोऽयमिति वा मुक्तो विहाराय य:
सद्धर्मस्य च पुण्डरीकममलं मत्वा स्म सम्पूज्यते।
स्वच्छन्दं विहरन् रुणद्धि सकलं व्यापारमेवापणे
यातायातगतागतं च निखिलं संस्तम्भयामास य:।।
(२)
धर्मस्य त्वरितां गतिं प्रबलमप्यस्य प्रतापं तथा
य: संस्मारयति स्म शङ्खनिनदप्रख्यैर्निजैर्हुङ्कृतै:।
आतङ्कं विपणे विधाय बहुशो यो हेलया लीलया
सोल्लुण्ठं किल लुण्ठतिस्म बहुश: खाद्यान् पदार्थानदन्।।
(३)
प्रोथं यद् भयहेतु शाकनिवहे हट्टेऽथवा चापणे
दत्तं जग्धुमरं च वस्तु विघसव्याकीर्यमाणं बभौ।
उच्छूनं वणिजां तदेव लगुडाघातैर्मुहु: प्रेरितै-
र्भुग्नं नैव विराजते वलिमयं भूयोऽवमानान्नतम्।।
(४)
कामार्ता: कतिधा मुधाऽस्य सविधं तूर्णं पुनर्धाविता
गावस्ता: प्रजनेच्छयाऽहमिकया चैकं त्वमुं शिश्रिरे।
लोष्टै: कर्दमचर्चितां तनुमिमां निघ्नन्ति ते बालका:
कीटा: सम्प्रति चाननं बहुविधा: स्वैरं लिहन्त्यस्य ते।।
(५)
श्रद्धाभक्तिसमन्विता: शिवमहे त्वानर्चुरेनं दरात्
सम्भ्रान्ता महिला ददुश्च तिलकं शृङ्गान्तरे सादरम्।
सोऽयं चातितरामुपेक्षित इवाध्वानं न जानन् क्वचित्
खिन्न: संस्खलतीह याननिवहव्यूहे तथा सङ्कुले।।
(६)
उन्मादोऽस्य गतस्तथा च विगता त्रासस्य सर्वा कथा
आतङ्क: स च विस्मृतो हतगतेर्भ्रष्टा च दन्तावली।
भग्नं पादममुष्य दुर्घटनया चैकं द्वितीयं पुन:
यानास्कन्दितमस्ति चान्यदपि तद् यष्टिप्रहाराध् हतम्।।
(७)
उन्मत्तो मदनाकृतिश्च मदनो मन्दारपुष्पच्छवि:
राजायं खलु राजते स्म धवलो निस्तन्द्रराजद्युति:।
सोऽयं जीर्णजरद्गवो गतरयो गत्या स्खलन्त्या शनै-
रेकेनैव पदेन याति च कलावस्मिन् सकष्टं श्वसन्।।
(८)
नन्दीयं नवयौवनो नवगतिश्चेत्थं भृशं श्लाघित:
हुङ्कारोऽस्य मृदङ्गमांसलरवो जोगुञ्जते स्मापणे।
मूक: सम्प्रति सोऽयमस्ति शिथिल: स्रस्तश्च गात्रै: क्वचि-
च्चैकाकी विधुरो विषीदति जनै: सम्भर्त्सितो धिक्कृत:।।
नगरे गृध्रा:
(१)
नगरे गृध्रा: संख्यातीता स्वैरमिमे आहिण्डन्ते।
नगराद् बहिश्च गृध्रा: सन्ति विषण्णा: श्मशाने ते।।
(२)
गृध्रास्ते च विषण्णा इत्थं दीना मनस्यन्ति निभृतम्।
प्रेतवनेऽपि निवास: सम्प्रति सम्भव इहास्ति नैव कथम्।।
(३)
उपशल्यं त्यक्त्वेदं याम: किमु हिमगिरिं सुदूरं वा।
अपशिष्टानां राशौ वसतिर्न सम्प्रति शक्यतेऽत्र।।
(४)
प्रेतवनस्थैर्गृध्रै: मृतपशुकललं हि केवलमदद्भि:।
नगरं रक्षितमेतत् सम्प्रति नाशोन्मुखं विभाति।।
(५)
परितो डयमाना ये नभसि पिशुनयन्ति मङ्गलमेवस्म।
गमनं नगरात् तेषां परमममङ्गलमिदं नूनम्।।
नगरे महिष्य:
(१)
मध्याह्ने जनसङ्कुले कलकलै: कोलाहलापूरिते
एता यान्त्यति मन्दमन्थरगतैर्मार्गै महिष्य: सुखम्।
उत्तप्ते पथि सूर्यरश्मिनिकरैर्मार्गं कृतं स्वर्णिमं
तासां कृष्णवपूंषि तत्र चलिता: कृष्णायसो मूर्तय:।।
(२)
नैता बिभ्यति वाहनं किमपि न: पार्श्वात् पुरो वा गतं
सङ्घट्य क्षतिमाचरेत् त्रिचक्रमथवा कञ्चिद् द्विचक्रं पुन:।
दूरादेव निरुद्धमत्र महिषीयूथं तथा चाभितो
यानं चक्रचतुष्टयेन विरतं दध्म्रौ च शङ्खान्वितम्।।
(३)
रूपं प्रेक्ष्य बलं तथैव सहजां कृष्णाममीषां छविं
क्षीणत्वं च विवर्णतां गतवति प्रागेव शृङ्गाटके।
शृङ्गार: परमद्भुत: स महिषीवर्गस्य किं वर्ण्यतां
शृङ्गाग्राणि समुत्थितानि बहुशो येनात्र शृङ्गाटके।।
(४)
एका सा महिषी समस्तमपि तद् रोद्धुं त्वलं स्यादिदं
यातायातगतागतं च निखिलं हट्टे जनै: सङ्कुले।
किं ब्रूम: पुनरत्र यद्धि दशकं चासां कृतं गोचरं
हट्टक्षेत्रमिदं सुखं विदधति क्षेत्रं तथा गोचरम्।।
नगरे शूकरा:
(१)
धन्या कालवनी कलाकलापमहिता सेयं पुरालङ्कृति-
र्यत्रैताश्चपलाश्चलन्ति चकिताश्चञ्चच्चिरण्ट्य: सुखम्।
मध्येमार्गमितश्च सूकरवरा दारैश्च पुत्रै: समं
निश्चिन्तं विलुठन्ति पङ्कनिवहे कुर्वन्ति मुस्ताक्षतिम्।।
(२)
चीत्कारै: प्रविलम्बितै: क्वचिदिमे चालापमातन्वते
घूत्कारैरपि च द्विधा प्रकटितं षड्जं तथा मध्यमम्।
थूत्कारै: प्रथयन्ति तानसुभगां गीतिं मुहुर्गुञ्जितां
गान्धर्वं पटु सूकरै: प्रतिदिनं संयोजितं जायते।।
(३)
नो वेल्लन्ति चलन्ति नैव सहजा: सन्तो यथा निर्भया
निर्यातेषु समागतेषु चकिता यानेषु नेमे क्वचित्।
मौनं प्राप्य च निश्चला अकलुषा कालेन नो बाधिता
अर्धं नेत्रमिमे निमील्य मुनयो ध्यानस्थिता: स्वाश्रमे।।
(४)
स्वैरं याति शनै: समाकुलपथे कीर्णे जनैरापणे
स्वच्छै: श्वेतकपोतबभ्रमृदुभि: सञ्छादितो रोमभि:।
सोऽयं सूकरडिम्भ इत्वर इव प्राप्त: परागान्वितं
शङ्के पङ्कजनिर्गतं नु जलजं सञ्चारि चेहागतम्।।
(५)
एषा पाययति प्रसन्नविभवा देशागतप्रत्यया
शावान् स्वस्तनलम्बितान् रसमिव स्वीयं पय: शूकरी।
मातृत्वं जननीमनश्च महितं जानन्तु ते वा कथं
डिम्भा मानवडम्बरा मुहुरिमां निघ्नन्ति लोष्टैस्तु ये।।
(६)
आक्रम्य स्वमदावलेपमुखर: सर्वा धरित्रीं सुखं
खे ध्यायन् कटुघुर्घुरायितघुरीघोण: खर: शूकर:।
आत्मानं बहु मन्यमान इव चावस्करस्यासने
तिष्ठत्येष उपेक्ष्य सर्वजनतां सम्राड् यथा विस्मित:।।
(७)
सर्वत्र प्रविकीर्यमाणकच्चरचयां सम्मार्जनाभावतो
मज्जन्तीं मलमूत्रपङ्कनिवहे चाब्धौ यथा वै पुरा।
उद्धर्तुं धरणीमथावतरिता एतेऽवतारा यथा
पुण्या आदिवराहलब्धजनुष: दूतायिता: सूकरा:।।
बहुगुणकाव्यम्
(१)
मृत्स्नाराशि: पतति हि गिरे: श्वभ्रगर्ते सनादं
एतत् किं वा पतति हृदयं क्रन्दमानं धरित्र्या:।
कम्प: कोऽयं दलितभुवनश्चोत्तराखण्डभूमे-
र्ध्वंसो यस्माद् भवति हि महान् ग्रामनाशं प्रकुर्वन्।।
(२)
भूमेरेतत् पवनविधुतं दूरत: सारितं किं
याच्ञायां खे प्रणयविततं ह्युत्तरं चाञ्चलं स्यात्।
दीनाक्रन्दस्फुटितमपि तद् वर्णविच्छित्तिरम्यं
देवेभ्योऽद: स्वकृपणगतेरुत्तरं याचमानम्।।
(३)
देवास्ते वा ददतु नु कथं किं समाधानमस्यै
क्रौयैस्याग्रे विवशविवशास्ते नरस्येह सन्ति।
एक: कश्चिद् ध्रियते इह यो धारयंस्तां धरित्रीं
खिन्नास्ते तु स्वयमपि समालोकयन्त्येनमेव।।
(४)
उत्थे तस्मिन् विनमति नभो दीर्यते च द्युलोको
याते चास्मिन् व्रजति जनता दोलते च धरित्री।
पादाक्रान्त: प्रविशदिव गां लक्ष्यते पर्वतोऽयं
कम्पन्ते ते कृपणमतय: स्वार्थसाध्यैकलक्ष्या:।।
(५)
अस्थ्नां शेषो भवति हि लघु: केवलं सञ्चयोऽयं
क्षीण: काये मनसि सुदृढो टेहरीबन्धरोध:।
एकस्तस्मिन्ननशनविधौ सर्वकारं विरुण्वन्
प्रत्यादेश: किल बहुगुण: सुन्दरश्चापि लाल्य:।।
तृतीय आर्वतः
गलज्जलम्
वर्तमानेऽस्मिन्
(१)
प्रकाशो लम्बते दूरात् तदीया दृश्यते रेखा।
तम: सञ्चीयमानं तत् तु नद्धं वर्तमानेऽस्मिन्।।
(२)
कथाभिर्वा प्रथाभिर्वा व्यथाभिर्वाऽस्त्यनुस्यूतम्।
अतीतं वर्तुलाकारं पिनद्धं वर्तमानेऽस्मिन्।।
(३)
ससन्देहैस्तथोत्प्रेक्षाभिराहो भाविकैर्भावै:।
भविष्यच्चाप्यलङ्कारैर्निबद्धं वर्तमानेऽस्मिन्।।
(४)
गता चैका सहस्राब्दी समायातीह चान्यैषा।
मनो मे चानयोर्मध्ये प्रबद्धं वर्तमानेऽस्मिन्।।
(५)
छलैर्जात्या वितण्डाभिस्तते वा निग्रहस्थानै:।
प्रमाणं केनचित् किं वा नु लब्धं वर्तमानेऽस्मिन्।।
(६)
गता ये किन्नु तै: कार्यं भवेयुर्येऽपि किं तैर्वा।
समस्तं 'वल्लभ’- प्रेम्णा तु सिद्धं वर्तमानेऽस्मिन्।।
नेत:!
(१)
समानं लक्ष्यमासीन्न: परं किं कीदृशं जातम्।
त्वमेव त्वं विभातो यद् वयं च स्मो वयं नेत:!।।
(२)
किमन्यद् ब्रूमहेऽनन्यं चरित्रं ते त्वसामान्यम्।
मनस्यन्यद् वचस्यन्यत् त्वदीयं सन्ततं नेत:!।।
(३)
चिरं साऽऽसन्दिका तिष्ठेन्न यस्यां स्थापितो लोकै:।
अखर्वं गर्वमाधत्सेऽविनीतस्त्वं नु किं नेत:?।।
(४)
स्वत: सत्यापितो नूनं त्वया नीञ्-प्रापणे धातु:।
सदा यत् प्रापिता क्लेशं बिना क्लेशं वयं नेत:।।
(५)
प्रयातं पारतन्त्र्यं किं स्वतन्त्रे भारते देशे।
शताब्दी याति याता कां गतिं वयं नेत:?।।
(६)
व्रजन् क्वापि स्वपद्धत्या त्वयि स्वार्थैकसंल्लीने।
शताब्द्यामेकविंशत्यां जनो गच्छेत् कथं नेत:?।।