दूर्वा
(१)
अनेकानि प्रसूनानि समृद्धा वाटिका सूते।
धरित्र्या: किन्तु शृङ्गारं करोत्येका हरिद्दूर्वा।।
(२)
प्रवृत्ते जीवने यज्ञे हवि: प्राणा: जगद् वेदी।
इयं तन्वी च कल्याणी भवेदेका समिद् दूर्वा।।
(३)
अविज्ञातं पदं धत्ते शनैर्वाणी प्रपञ्चे सा।
परिव्याप्नोति न: सर्वं लसच्छाया जगद् दूर्वा।।
(४)
समुच्छिन्ना क्वचिद् ग्रीष्मे पुनर्नीता समारोपम्।
कथं क्षेत्रं निजं मुञ्चेद् प्ररूढैषा सकृद् दूर्वा।।
(५)
धरित्री दाहदग्धेयं वनं दावाग्निना दग्धम्।
क्वचित्कोणे भवाटव्या: समुद्भिन्ना भवेद् दूर्वा।।
(६)
पदाघातैररवस्कन्द्य: प्रयान्त्वेनां त उन्मत्ता:।
हरिच्छाया तथापीयं नवीभूता लसेद् दूर्वा।।
(७)
समुत्था: सौधकान्तारा विलुप्ता हन्त कान्तारा:।
तवालोके पुरे किन्तु प्ररूढा सम्पतेद् दूर्वा।।
(८)
किमस्यां कालवन्यां कोऽपि बालो वा विजानीयात्।
इमां, या प्रस्तरव्यूहेऽङ्कुरं प्राप्ता भवेद् दूर्वा।।
हिमानीहतं जगत्
मनःपृक्तं नभःपृक्तं तथा पृक्ता इमे लोकाः।
तुषारैः शीतकालेऽस्मिन् बत क्लिन्नं जगत्सर्वम्।।
अमित्राणां च साम्राज्ये तथोक्तानां तु नेतृणाम्।
अये मित्र क्व लीनस्त्वं तमोलीनं जगत् सर्वम्।।
गृना रूद्धा गुहा रूद्धा सुखा मार्गास्तथा रूद्धाः।
समीरे वाति पाश्चात्त्ये हतं पूर्वं जगत् सर्वम्।।
प्रणष्टः स्तम्बवान् शालिः प्रणष्टस्तूप्तगोधूमः।
प्रणष्टा हालिकस्याशा प्रणष्टं ग्रामके सर्वम्।।
हिमानीमिर्हतो दीनः स केदारः परं म्लानः।
विलीनोऽभ्यन्तरे मीनस्तथाऽस्पृश्यं जलं सर्वम्।।
दुर्द्रिनम्
(१)
घनच्छन्नं नभो मेघैर्घनच्छन्ना जलैर्मेघा:।
जलैराप्लाविता पृथ्वी पृथिव्यां दुर्दिनं जातम्।।
(२)
सृता धारा धरापृष्ठे च धाराभिर्धुता कृष्टि:।
समं कृष्ट्या हता स्वप्ना: प्रजानां दुर्दिनं जातम्।।
(३)
धरायां लम्बिता मेघा: पुनर्मेघांश्च संस्पृष्टुम्।
धराया प्रोत्थिता वृक्षा इदं तद् दुर्दिनं जातम्।।
(४)
सुदीर्घा राजमार्गास्ते इमा रथ्याश्च सङ्कीर्णा:।
इमे धौता इमा: क्लिन्ना: इदं यद् दुर्दिनं जातम्।।
(५)
तम: सूचीविनिर्भेद्यं प्रकाशोऽदर्शनं यात:।
तमन्विष्यन्ति खद्योता इदं ताद्दुर्दिनं जातम्।।
(६)
विना वित्तं विना चान्नं दरिद्राणां गृहे नित्यम्।
विना मेघान् विना वर्षा दिनं यद् दुर्दिनं जातम्।।
तर्जनी
(१)
वारणे वा रणे तारणे सारणे।
योजिता मामका विद्यते तर्जनी।।
(२)
यामि शौण्डापणं यामि देवालयम्।
वारयन्ती तु मां द्योतते तर्जनी।।
(३)
नापराद्धं मया किन्तु मे सा सखे।
लाञ्छनं तेऽनिशं कुर्वते तर्जनी।।
(४)
किं नभो नम्यते किं धरा दीर्यते।
कथ्यतां यत् त्वयोत्थाप्यते तर्जनी।।
(५)
जायते नित्यशोऽन्यायमस्मद्युगे।
किं नरै: किन्नरैर्दर्श्यते तर्जनी?।।
(६)
वक्तुकामो यदा हृद्गतं खल्वहम्।
ओष्ठयो: कान्तया योज्यते तर्जनी।।
अङ्गुष्ठकम्
(१)
पङ्क्तिबद्ध: स्थितोऽहं क्रमे त्वागते।
दर्शितं तै: स्वकं मत्कृतेऽङ्गुष्ठकम्।।
(२)
किं मया वा कृतं कर्म यद् दीयते।
तैर्ललाटे तु मे स्वीयमङ्गुष्ठकम्।।
(३)
दर्शित: शिक्षकै: को दयाया लव:।
एकलव्यस्य यै: कृत्तमङ्गुष्ठकम्।।
(४)
विश्वकर्मोपमानां च वास्तौ विदाम्।
शिल्पिनां राजभि: कृत्तमङ्गुष्ठकम्।।
(५)
क्वापि दुग्धं विना हन्त चूषत्यहो।
क्षीरकण्ठ: शिशु: स्वीयमङ्गुष्ठकम्।।
(६)
वेतनं दीयते नैव तै: कर्गदे।
प्राप्यते सेवकानां मुदाऽङ्गुष्ठकम्।।
शब्दकल्पद्रुमे
(१)
सन्त्यसंख्या द्रुमास्ते भवारण्यजा:।
काप्यभिख्या मता शब्दकल्पद्रुमे।।
(२)
पाण्डुपत्रैर्जगच्छन्नमेषा नवा।
पल्लवालिस्तता शब्दकल्पद्रुमे।।
(३)
दृश्यते सर्वथा चाद्य मूल्यक्षय:।
रक्षिता मूलता शब्दकल्पद्रुमे।।
(४)
चीयतां नित्यमस्मात् फलानां चय:।
का क्षति: प्रापिता शब्दकल्पद्रुमे।।
(५)
जीवने यो निधिश्चास्ति कोशेऽमरे।
नास्ति कोशे त्वसौ शब्दकल्पद्रुमे।।
(६)
बन्धुता सा हता जृम्भते दुष्टता।
साधुता सङ्गता शब्दकल्पद्रुमे।।
(७)
कीदृशी तुङ्गता कापि चोदात्तता।
द्यौरहो नामिता शब्दकल्पद्रुमे।।
चुल्लिका
(१)
कुक्षिकायां क्षुधा धुक्षितेऽङ्गारके।
रन्धनार्थं क्वचिज्ज्वाल्यतां चुल्लिका।।
(२)
बाधतेऽयं घन: शीतकालो जड:।
तापहेतो: क्वचिद् दह्यतां चुल्लिका।।
(३)
अन्धकारस्तनुं गाढमालिङ्गते।
तत्प्रभार्थं क्वचिद् दीप्यतां चुल्लिका।।
(४)
सीम्नि यस्या मुदा भुञ्ज्महे स्मो वयम्।
सा विलीना क्वचित् प्राप्यतां चुल्लिका।।
(५)
रोटिका साधिता सर्वदाऽस्यां भवेत्।
सा जनानां गृहे भ्राजतां चुल्लिका।।
कया वाचा?
(१)
इदानीं जीवने रिक्ते विरक्ते रागबन्धे वा।
गुरूणां केवलं शिष्टा समर्चा शुष्कया वाचा।।
(२)
पणैर्विक्रीयते यैस्तद् युगेऽस्मिन् संस्कृतं शास्त्रम्।
गुरूणां गौरवं तेषां सखे बू्रम: कया वाचा?।।
(३)
अनुप्रासे च संसक्ते तथा श्लेषेऽपि संश्लिष्टे।
गुरूणां भावबोधानां प्रकाश: स्यात् कया वाचा?।।
(४)
परं प्रस्तूयते वाणि त्वदर्थं वल्लभेनैतत्।
गुरूणां काव्यबन्धानां प्रकर्ष: स्वीयया वाचा।।
ते द्वारम्
(१)
प्रवेशं प्राप्नुयां वान्तर्लभे ङ्क्ष वा बहिष्कारम्।
उपानद्भ्यां विहीनो यत् समायातोऽस्मि ते द्वारम्।।
(२)
न जाने कीदृशी मायाऽऽवृणोतीयं घनच्छायाम्।
विमुक्तं वर्तते कामं पिनद्धं भाति ते द्वारम्।।
(३)
दराद् दूरं स्थितश्चाहं कथाऽऽस्तामादरे दूरम्।
जनाकीर्णं सदैवास्ते दृढं रुद्धं च ते द्वारम्।।
(४)
महाभागोऽसि कामं भोरभिन्नां च स्थितिं धत्से।
परीतं वह्निना प्रेक्षे समन्तादेष ते द्वारम्।।
(५)
मया द्वारं नवं वाचां विनिर्मायि स्वपद्धत्या।
अतो दूरात् त्यजामीत: सुवर्णाढ्यं च ते द्वारम्।।
(६)
स्थित: कश्चिद् बहि: कक्ष्यां प्रतीक्षातत्परो जन्तु:।
अपावृत्तं कदा भूयात् प्रवेशायास्य ते द्वारम्।।
भोपाले केरला:
(१)
अवतीर्णा:
सान्ध्यनभस:
संख्यातीता: सघनतमालतमश्छाया:
प्रकाशसरित्सु सरन्ति
भोपालसरोवरमभित:
केरलकन्यासमूहा:
नीहारिकासु स्वैरं विचरेयुर्यथा।।
(२)
स्वल्पाहारगृहे
सितवस्त्रविभूषिता: कृष्णकाया:
परिवेषयन्ति सन्नद्धा:
कषायपेयं नि:स्पृहा: केरलीया: डिम्भा:
कषायपेयचषकेषु
तमस आवरणे लिप्ता:
पतन्ति विद्युद्दीपानां छाया:
केरलगतकठोरीभूतनारिकेलफलानि
आवृणते यथा हरितानि ज्योतिष्पुञ्जानि।।
(३)
श्यामायमानश्यामलोपत्यकानां
मरकतमेदुरमेचकमेदिन्यां
समुल्लसतितरामिह
केरलीकपोलच्छवि:
सचिवालयभवनानि परिहरन्त: शङ्कया
आहिण्डन्ते भोपाले किल केरला:।।
चतुर्थ आर्वतः
सुषमासंवलनम्
केरलेषु भोपालम्
(१)
भोपालियो युवको गौर:
भार्या चास्य
मेचकश्यामवर्णा
केरलकन्या
दृष्टौ मयोपविष्टौ
केरलगामिनि याने
शायिकायां विश्रब्धं
किमपि किमपि मन्दं मन्दम्
आसक्तियोगान्मिथो जल्पन्तौ।।
(२)
कुसृतिमिव कुर्वाणेऽस्मिन्
कृष्णशारसदृशमपाङ्गविवर्ति
नयनं कूणयित्वा पक्ष्मविशालं
धिगित्यनया कथितं
मयावलोकितं
केरलेषु भोपालं विच्छुरितम्।।
उत्तराञ्चलम्
(१)
सर्पाकारा सरति सरणि: काष्ठगोधामपुर्या:
नि:श्रेणीत्वं वर्जति नयनामन्दिरं गन्तुमेषा।
उच्चैरच्चै: क्रमश इह सा क्रामति व्योमगात्रं
नैनीतालं नयति नगरं नेत्रनिर्वाणकल्पम्।।
(२)
यत् स्वप्नोपमसुन्दरं ननु दिवं भूमौ यथा नामितं
यद् गन्धर्वपुरोपमानललितं वा कल्पना निर्मितम्।
रेखाभि: प्रविकीर्य शुभ्रहरितैर्वर्णैस्तत: पूरितं
धात्रा चित्रमिदं हिमालयपदे सान्द्रैर्मसीकूर्चकै:।।
(३)
नेत्रप्राघुणिकीकृतं नयति यद् विश्रान्तिमात्यन्तिकीं
तालैर्नृत्यदिव प्रसन्ननिनद्धारै: प्रपातै: समम्।
भ्रान्ता प्राय इदं धरा भ्रमितमप्यभ्रं भ्रमोच्छेदनं
नैनीतालसमं परन्तु भुवने दृष्टं न रम्यं पुरम्।।
(४)
खिन्नश्चातिबुभुक्षितोऽपि विहसन् नग्नोऽपि लावण्यवान्
बाल: क्रीडति कोऽप्यसौ हिमगिरे: क्रोडे च लीलालय:।
दु:खे चापि सुखेऽपि नो त्यजति य: क्रीडां स्वकीयां सदा
पश्यन्नुन्नतदीर्घपङ्क्तिममलामद्रौ हिमानीपते:।।
(५)
अस्यैवाश्रुजलं प्रपातनिनदन्नित्यं नगोपत्यका
श्वभ्रेषु स्खलतीह गद्गदरवं तूष्णीं क्वचिल्लीयते।
अस्यैवैष तथाट्टहासजनितो राशिर्हिमस्यायत:
शुभ्रोच्छ: प्रविकीर्यते प्रतिदिनं सञ्चीयते पर्वते।।
(६)
या वै कश्मलवासना वसति मे सम्मीलिता मानसे
संस्कारै: परिशोधिता न गलिता सम्मर्दिता कीलिता।
श्लिष्टा सा हिमपात-वात-गलित-क्लिन्ना मुहुर्मूर्च्छिता
मल्लीताल-विशाल-विद्रुम-जल-प्लावे विलायं गता।।
(७)
उड्डीना विहगा शशा इव सृता वीथ्यां मृगा धाविता:
स्वैरं यान्ति तथापणे च पुरतो मत्ता गजा वा यथा।
सम्मर्दं रचयन्ति चापि कुसृति कुर्वन्ति चेक्रीडितै-
र्मेघाश्चञ्चलबालका इव मुहु: खेलन्ति मेलापके।।
(८)
केचिद् गोर्गलयो यथा गिरितटे निद्रान्ति जोषं स्थिता:
केचिन्नीलतमालवृक्षनिवहे ते कृष्णासारयिता:।
केचिच्चात्र पटायिता गिरिगुहाद्वारेषु वातैर्धुता
गर्जन्तो दधतीह केऽपि च पुन: शार्दूलविक्रीडितम्।।
(९)
दूरादेव रवो मृदङ्गजनित: संश्रूयते सुन्दरं
पश्चात्पार्श्र्वमुपे त्यसैष कटुक: कर्णाय सञ्जायते।
एवं दूरविभावितं सुललितं यद् वै पुरं भासते
स्वान्तर्मन्युविषादजर्जरमिवादो विद्यते वस्तुत:।।
(१०)
यत् पीडाकुल-दीन-हीन-जनता-नि:श्वासतुल्यं हिमं
क्रूराचारसमोऽत्र सोऽपि करकापात: परं क्लेशद:।
अस्थिच्छेदक-शीतवात-सदृशी सा शोषकाणां मति-
स्तेनान्दोलितमस्ति भारतभुवस्तत्तूत्तरं चाञ्चलम्।।
(११)
पाञ्चाल्या घनकेशपाशसदृशं दु:शासनैर्यद् वनं
भूयो भूय इदं घनं च हतकैश्चेच्छिद्यते सर्वत:।
वृक्षं वृक्षंमहो स्वबन्धुमिव सोऽप्यालिङ्ग्य गाढं दृढ:
सत्सङ्कल्पमयो ररक्ष यजने स्वात्माहुतिभ्यो जन:।।
(१२)
बन्धोद्योगविमर्दिता खलु मही चेखिद्यते टेहरी
प्रान्ते चान्तकतुल्यमत्र च शठैराभ्यते दुष्क्रम:।
कश्चिच्चात्र तथापि वै बहुगुणो रक्षां भुवश्चिन्तय-
न्नुद्युक्त: किल मुक्तये प्रयतते योगीव सन्नह्यते।।
आल्प्सपर्वते मेघदूतम्
(१)
आल्प्स: कश्चित् परमवितत: पर्वतो देवतात्मा
गुर्वीं शुभ्रा मुकुटसदृशीं धारयम् यो हिमानीम्।
प्रांसं स्विट्झर्जनपदततिं चाष्ट्रियां यो वगाह्य
योरोपाङ्के स्थित इह यथा मानदण्डो धराया:।।
(२)
सङ्घातोऽयं घनवनततेर्घट्टते मेखलायां
बघ्नात्येनं किमुं नगपतिं बन्धुरं दामिनीभि:।
एकीभूता: किमु तरलिता राशयो वा कुहूना-
माल्पसस्योच्चै: शिखरनिकरान्नामिता: प्रस्खलन्त:।।
(३)
शाखास्वेते घनवनततौ लम्बिता: कृष्णमेघा:
संख्यातीतं यवनरमणीकञ्चुकान्यञ्चितानि।
यद्वा वृक्षा जलदपटलीं दारयित्वा समुत्था
द्यामाकाशं पवनपदवीं प्राप्तुमुत्कायमाना:।।
(४)
तस्योत्सङ्गे शिशुरिव पितु: प्रस्खलद् वा हसद् वा
मन्द्रं गायंल्ललितमधुरैर्विभ्रमै राजमानम्।
आस्ते रम्यं लसितविभवं शालवर्गं पुरस्तद्
यन्त्राक्षिप्तं हृतमिव दिव: कान्तिमत् खण्डमेकम्।।
(५)
देशाद् देशाद् भ्रमणरसिका आगताश्चात्र पान्था
गायन्त्येते मुदितहदया लोकगीतानुनादम्।
सङ्गीयताय प्रहृतमुरजाश्चत्वरे चापणे वा
मौर्जाटस्य स्मृतिमपि मुहुर्वाद्यवृन्दैर्ददाना:।।
(६)
अद्रे रूपं सदनवदनैस्तुङ्गमभ्रंल्लिहाग्रै-
र्द्रष्टुं यद् वै शिखरसरणिं प्राप्तुमारोहतीव।
मेघालीनामसितसदृशा: प्रांशुलभ्या: पताका
गृह्नात्येभि: करतलगता लम्बितैर्वा गवाक्षै:।।
(७)
एकश्चाल्प्स: स्थगयति मन: शृङ्गभङ्गै: स्वकीयै-
रुच्छ्रायैर्वोच्छ्वसितमपि यद् दृष्टमात्रो रुणद्धि।
वक्तव्यं तत् किमु यदि गिरावद्भुत: श्यामकम्र:
संवर्तोऽयं समजनि पुनर्मेघवृक्षाभ्रयोगात्।।
(८)
सम्भेदोऽयं मसृणबहलो नीलिमानं विलिम्पन्
विस्तारो वा क्षितिजवितत: सानुभि: सृष्ट एष:।
आभा मृद्वी हरितशबला गुम्फिता पादपानां
संसर्पन्ती दिवमपि भुवं रञ्जयन्ती समन्तात्।।
माण्डवम्
(१)
यस्योदग्रं प्रथितयशसो दुर्गमावृत्य नद्धं
सैन्यं दृष्ट्वा ह्यजनि गजनेर्मेहमूदस्य भीति:।
जित्वा युद्धं भयपरिगतोऽसौ परावृत्य यात-
स्तस्यैवायं कथयति कथां भोजराजस्य दुर्ग:।।
(२)
द्यामुन्नेतुं स्थित इह बभौ प्रोन्नतस्तस्यकीर्तिं
राजर्षेस्ताममलधवलां मुञ्जराजानुपूर्व्या।
सौधोच्छ्रायै: स्फटिकधवलैर्भाजमान: समन्तात्
प्रत्यादेश: परबलततेर्माण्डवीयस्तु दुर्ग:।।
(३)
आनन्दानां निरुपमगुणं धाम मत्वैनमाहु:
सम्राजस्ते यवनकुलजा: 'सादियाबाद’- नाम्रा।
मत्वा क्षेत्रं प्रणयललितं माण्डवं माण्डवं मङ्गलाढ्यं
जाँहाँगीरो वसतिमकरोत् कान्तयाऽत्रैव सार्धम्।।
(४)
नादत्ते सा कवलमपि यन्नर्मदा तामदृष्ट्वा
ग्रामे स्वीये द्युसरिदुपमां प्रत्यहं पूजयन्ती।
तस्मात् तस्या: प्रणयमतिदृढं रक्षितुं रूपमत्या:
प्रासादोऽयं विहित उचितो बाजबाहादुरेण।।
(५)
ज्योतिर्लेखावलयमपि तच्छक्यते द्रष्टुमारात्
तल्पादस्मात् रजतधवलं पावनं नर्मदाया:।
अत्रस्था सा कलयति चिरं नेत्रनिर्वाणलाभं
दर्शं दर्शं सहजकुतुकान्नर्मदां रूपराज्ञी१।।
(६)
रेवाकुण्डे पयसि विमले रूपमस्या: प्रसन्नं
छायाप्रख्यं प्रखरमसृणं बिम्बितं रूपदेव्या:।
रूपं चास्मिन् सहजकुतुकात्स्वस्य निर्वर्य तस्मिन्
पश्यत्येषा रुचिररुचिरं नर्मदाया: स्वरूपम्।।
(७)
रेवाकुण्डे पयसिविमले चेतसीव प्रसन्ने
छायात्मासौ प्रणयविशदो बिम्बितो नर्मदाया:।
उच्छ्वासं सा व्रजति सुचिरं प्रेमगाथा पुराणी
नि:शब्दं च ध्वनति करुणं प्रस्तरे प्रस्तरे सा।।
(८)
सिन्धौ स्वैरं सरति विपुला मन्थरं कापि नौका
न्यक्कुर्वन्ती ललितगतिभी राजहंसं यथा स्यात्।
वीचीवातैर्नभसि डयते स्व:पदं गाहमानो
जाहाजाख्यस्तरति सरसि स्वैरमुच्चैर्विमान:।।
(९)
हिण्डोलाख्ये विपुलभवने खे च दोलायमाने
सङ्गीतार्थ- प्रहतमुरज- स्पर्धमानाभ्रवृन्दात्।
शक्या श्रोतुं श्रुतिसुखकरी रागहिन्दोलगीति:
साऽप्रत्यक्षं गमकनिपुणं गीयमाना पुरस्तात्।।
(१०)
अत्रस्ता सा प्रकटितकला गायने रूपराज्ञी
सङ्गीतेनानुकृतिमकरोत् तुम्बुरोर्नारदस्य।
उद्यानेऽस्मिन् सुरभिकुसुमे चैतयोर्वास आसीत्
प्रेम्ण: साक्ष्यं ददति निखिला माण्डवे दृश्यबन्धा:।।
(११)
एतल्लीलाभवनमनयोर्गीतशाला तथेयं
मन्द्रास्तारा द्रुतलययुता यत्र नादा अगुञ्जन्।
श्रुत्वाऽभूवन् सजलनयना वाजिनो मन्दुराया-
मित्यागन्तून् रमयति स दिग्दर्शक: श्यामलाङ्ग:।।
(१२)
कामार्तोऽसौ खल इत इतश्चाधम: खान२ आगात्
पादक्षेपं व्यधित कृपणो रूपराज्ञीं दिदृक्षु:।
क्षिप्तो नीचै: पुनरकबरादेशतोऽसौ दुरात्मा
तल्पादस्मात् परममधमस्त्वाधम: प्राप मृत्युम्।।
(१३)
घोरं दृष्ट्वा विशसनमहो तादृशं रूपराज्ञ्या:
सेनानीं तं घृणितहृदयं दण्डयित्वा दयालु:।
स्मारं स्मारं प्रणयचरितं रूपमत्याश्च लीलां
कारुण्यात् सोऽकबरनृपोऽत्यन्तदीनं रुरोद्।।
(१४)
चिन्तादीना प्रणयविकला सङ्गरे विक्रमाढ्या
गीतिं सान्त्यां स्वयमिह जगौ माण्डरागे निबद्धाम्।
कामासक्तं परमकृपणं क्रूरसेनापतिं सा
धिक्कुर्वन्ती तनुमिह जहौ नैव शीलं स्वकीयम्।।
(१५)
वाग्देव्या: ललितमथुरा रूपदेवी स्वमूर्ति:
सङ्गीताय स्वयमिह जहौ स्वं कुलं स्वं च गेहम्।
दिव्यं लोकं यतिलयमयं रागरम्यं स्वगीतै-
र्या दुर्गेऽस्मिन् विततमकरोद् बाजबाहादुराख्ये।।
(१६)
रम्या रम्या सरसरुचिरा त्वेतयो: प्रेमगाथा
प्राप्ता चान्ते परिणतिमहो सन्धिहीनेव शोके।
मन्दाक्रान्ता क्रकचसदृशी मर्मपीडां विधत्त
कारुण्यं सा किरति हृदये त्रासदी नाटिकेव।।
(१७)
भ्रान्तोऽद्यापीत इत इव तत्क्षिप्तचेता: स्वराज्ञी-
मन्विष्यंस्तां भ्रमति विधुरो बाजबाहादुराऽसौ।
निध्यायन्ती सजलनयना विद्यते रूपराज्ञी
तल्पे चास्मिन् विहितवसतिस्तं तमेवाह्वयन्ती।।
(१८)
स्वप्ना माया मतिरतियुताश्चैनमाविश्य दुर्गं
निर्मान्त्येकं मधुमयजगन्माण्डवध्वंसशेषे।
निर्वृत्त यच्चिरमपि पुरातीतमैतिह्यजातं
प्रत्यक्षं तत् स्फुटति घटते भासते नाट्यरूपम्।।
(१९)
भावैस्तैराकुलितहृदय: कल्पनाजालबद्धा-
मारोप्य स्वां मतिमितरथा माण्डवस्य प्रदेशे।
सोच्छ्वासो वा भवति पथिक: क्राम्यतीव स्वकालं
भित्वा भित्तिं समयपरिधे: पश्यति प्रत्नवृत्तम्।।
(२०)
यातास्ते ते क्षपितविभवा भूमिपाला: प्रशास्य
मृत्युग्रस्ता: कुटिलमतयोऽन्यायदीक्षा य आसन्।
साऽरण्यानी स च नगपतिर्माण्डवं दुर्गमाराद्
व्याप्य स्थित्वा स्थितिमविहतां व्यङ्क्त एतावुभौ ताम्।।
(२१)
प्रध्वस्ता सा सरसि समभूद् याऽपि सोपानपङ्क्ति-
र्मुञ्जस्यास्मिन् क्वचिदिह वृतिर्भ्रष्टतल्पे प्रणष्टा।
अभ्यागारं विदधति च मुहु: शाहहोशङ्गपीठे
चञ्चत्पक्षा: शतश इह ते भाङ्कृतिं चर्मचारा:।।
(२२)
चित्रं रम्यं लिखितमिह यन्माण्डवं भूमिपृष्ठे
सोच्छ्वासं सध्धसति मसृणं वर्णसावर्णरम्यम्।
कालेनादः सकलमिदा स्वैरमेव प्रणष्टं
द्रष्टुं शक्यं मलिनमपितद् धूमिलं धूसरं च।।
(२३)
गाढं गाढं कलितबहलैरिन्द्रजालै: पिनद्धं
चित्तं द्रष्टुं प्रभवति न तन्माण्डवाद् बाह्यदृश्यम्।
याथातथ्यं प्रवहति बहिर्जीवनस्य प्रवाहो
व्याप्तं विश्वं प्रसृतमतुलं स्पन्दते धूर्णते तत्।।
(२४)
निर्जीवेऽस्मिन् व्यपगतरुचौ सञ्चये प्रस्तराणां
भग्नस्तोमे कथमिह जना बुद्धिमन्तो रमन्ते।
क्रान्त्वा सर्वं विलसति यदा माण्डवध्वंसशेषं
ग्रामे हट्टे स्फटिकविशदं जीवनं स्पन्दमानम्।।
(२५)
दीर्घाकारा: शरदि विपुला: सन्ति ते क्षीरकाणां३
स्तूपा: शुण्डां स्वयमपहसन्त्यत्र चैरावतस्य।
राशीभूता गिरय इव ये ग्रामसीमासु पण्या
आनीयन्ते विपुलशकटैर्नागरेष्वापणेषु।।
(२६)
क्रेतुं चोत्क: पणति कुटिलो मृण्मयैरेव मूल्यै-
र्दीर्घापाङ्गा प्रबलरभसा नागरं तं रुणद्धिं।
सभ्रूभङ्गं न-न-न-न-नेत्यक्षरैर्दृप्तरोषा
बाला हस्तत्वरितगतिभि: क्रय्यमाच्छाद्य सद्य:।।
(२७)
ग्रामे ग्रामे विविधकलया प्रत्यहं कन्यकाभि:
सन्ध्यादेवी बलिकुसुमधृग् गोमयैर्निर्मिता सा।
कुड्ये कुड्ये यतिलययुतै: पूज्यते लोकगीतै-
र्गेहे गेहे स्मृतिरिह पुनर्जीव्यते रूपराज्ञ्या:।।
(२८)
क्षिप्तं दूरं भ्रमणरसिकै: कौतुकान्नागरैर्यत्
लुण्ठन्त: खल्वहमहमिकापूर्वकं रूप्यकं तत्।
कुण्डस्याप्सु च्छपछपदिति स्वैरमेते विगाह्य
स्मर्तव्यास्ते तरणनिपुणा डिम्भका नग्नगात्रा:।।
(२९)
हास्ये तेषां स्फटिकविशदे कूर्दने वा सझम्पं
दुर्गस्याभ्रान्मुहुरपि मुहुर्निझरा झङ्कृतास्ते।
द्रष्टा भूय: खिलखिल इतीवात्र रम्यं हसन्ती
साक्षात् तेषु प्रणयकलिका बाजबाहादुरस्य।।
१. रूपमती राज्ञी माण्डवशासकस्य बाजबाहादुरस्य प्रणयिनी सङ्गीतसाधनायां तत्सहकर्मिणी च।
२. आदमखान: अकब्बरसेनापति:
३. खीरा इति भाषायाम्।
छायातपम्
(१)
मेघच्छाया भूमौ सर्पति सूर्यस्य रश्मिभिर्बद्धा।
छायातपसंवलने कर्बुरितोऽनुपम: संयोग:।।
(२)
करनिकरं स्वं प्रखरं प्रसार्य तृष्णातुरो दिनकरोऽयम्।
सीकरततिमाचामति बलाहकानां तलेऽत्र वितते।।
(३)
क्वचित् सप्तवर्णाभा निरुपमरूपेन्द्रचापरेखास्ता:।
आस्कन्दन्त उपेता: सघना एते घनव्यूहा:।।
(४)
तूलानामिव राशौ प्रसृतायां च घनसन्ततावस्याम्।
तिरश्चीनमिव शल्यं वपति दिनकर: करैस्तु स्वै:।।
(५)
चित्ते प्रश्न: कीलति सततं प्रसभं नियन्त्रित: सन्नपि।
अनुत्तरितमिव पत्रं पञ्जीपुञ्जे यथा लुप्तम्।।
(६)
आविर्भूता दिनकररश्मिर्मेघोदरं ततं विदार्य।
चित्तध्वान्ते चान्ते जागत्र्याशा पुन: पुनश्च।।
नवा न वा?
(१)
सा भूमिस्ते वृक्षा जीर्णा दग्धा: पुरातनाश्च।
क्वापि तथापि च विलसति शाद्वलराजिर्नवा नवा।।
(२)
पूर्वं श्रुतापि बहुशो गायति रागात् कुमारगन्धर्वे।
अलखनिरञ्जनविषया गीतिर्विभाति नवा च नवा।।
(३)
ते प्रस्तरसङ्घास्ते त्वतिशयपरुषा: शिलोच्चया वैन्ध्या:।
आषाढस्य प्रथमे दिवसे वृष्टिर्नवा च नवा।।
(४)
यद्यपि मलिना त्रुटिताऽपगतवर्णवैभवा सञ्जातास्ति।
तव सान्निध्ये जीवन-रेखा सततं नवा च नवा।।
(५)
जीर्णे चिनारवृक्षे शतं समाभ्य: स्थिरं च संस्थितेऽत्र।
किसलयराजी नूनं रोहति पुनरपि नवा च नवा।।
(६)
शापावधौ समाप्ते प्रियासकाशं प्रयातवति यक्षे।
रामगिरिप्रान्तेऽस्मिन् तस्य स्मृतिस्तु नवा च नवा।।
(७)
नैव सुतनुका विलसति नापि प्रियश्च तथा देवदत्त:।
उभयोरनयोश्छाया रामगिरौ सा नवा च नवा।।
(८)
अर्थास्ते ते शब्दा असकृत् कथिता: पुरातनै: कविभि:।
राधावल्लभकाव्ये विच्छित्ति: सा नवा च नवा।।
रङ्कव:
(१)
हिमगिरिमेखलासु
मसृणघुसृणकस्तूरिकामोदेन
समुन्मादिता
मुहुरुन्नतघोणा
धावन्ति मृगा:
कस्तूरिकां मार्गमाणा
अजानस्तस्या
नाभिगह्वरे सततं सन्निहितं स्वे
निधानं प्रत्यक्षम्।।
(२)
धावन्ति मृगा इदानीं ते
नगरेषु चत्वरेषु हट्टेषु वीथिषु
सततविनिर्गतधूमोत्पीडे
द्रव्यजल-प्रस्तरजल-ज्वलन-जनित-दुर्गन्धव्यूहे
प्रचलित-द्विचक्र-त्रिचक्र-चतुश्चक्र-वाहनसमूहे
अहमहमिकया शङ्कया वाञ्छया स्पर्धया
धावन्तो निरवकाशम्
आमोदमपि कस्तूर्या:
सम्प्रति विस्मृतवन्त:।।
युग्मकम्
(१)
अप्रगल्भयवसूचिकोमलं
परुषत्वे पृथिवीसमं
तप्ताय:पिण्डवद्दीप्तं
रसार्द्रं पदवीं वायो-
रधिरूढं समुत्थितं
शब्दवन्मातुमाकाशं
प्रसृतौ वेधसा नूनं
विनिर्मिमेतत्
महाभूतसमाधिना।।
(२)
कति कति धारा अश्रूणां
नोत्सेधनिपातचूर्णिता अस्मिन्
अतिनिर्मलं च कतिधा
हसितं विच्छुरितं न वैतस्मिन्
मुक्तानां सा कान्ति: शुभ्रा
नि:श्वासै: कतिधा न विदलिता।।
(३)
आस्फालयति शिर: स्वीयं
विषमोपलघट्टिता विन्ध्ये
यथा रेवा तथा सर्वा
विशीर्णा सा मानवता चास्मिन्।।
(४)
प्रत्यादेशं पशुताया:
कर्तुममेतद् व्यवस्थितम्,
तरलिता वात्सल्यच्छाया
अन्तरा चान्तरैतस्मिन्,
स्त्रिय: समग्रा ग्लानि-
र्वेपमाना च तथाऽवमानना
पुञ्जीभूय निलीने चास्मिन्,
(५)
कस्यचित् क्षुद्रकवे: काव्ये
सहसा प्रतिभासितम्
शब्दार्थयगलमिव भास्वरम्
प्रेमकल्पद्रुमवल्यां
निलम्बितमिव
अमृतसम्भृतफलयुगलम्
भवति च तत् कदाचित्
प्रणयप्रसारितकरतलगतम्।।
अयि ग्रावन्
(१)
अयि निश्चिल ग्रावन्!
कथमेकाकी शून्यमनस्क:
विजनकानने अपगतराग:
वर्तसे त्वम्,
नि:स्पन्दम्?
(२)
धीरं धीरं
संवहन्नेष कुसुमसुरभिसम्पृक्तसमीर:
तरङ्गयति रे किं
न ते अन्तरालम्?
अयमविरलानोकहनिकुञ्जसंस्थ:
कूजति पुंस्कोकिल:
तनोत्यानन्दस्यन्दिनीं
कल्लोलकाकलीं,
चुलुकयति रे कथं नायं
चेतनां त्वदीयमा?
अयि अपगतचेतन, जडताया आगार!
(३)
अयि प्रस्तर विरक्तिमय!
तव उत्कोटिविपाट्यमानजलधारा
इयमुल्लोलवीचिमालासङ्कुला
अभिसरति त्वामुल्लासमयी
कलनिनादपरा निर्झरिणी
आत्मानं तव क्रोडे
विनिपातयितुमुत्का,
आलिङ्गितुमिच्छति त्वां
वीचीभुजा: प्रसार्य,
त्वं तथाप्यनभिभूत:
नाटयसि निश्चलताम्,
अयि निष्प्राण ! निष्ठुरताया आगार!
(४)
अयि निष्क्रिययोगिन्!
प्रचण्डचण्डरश्मेरातपतप्त:
सन्तापविहीनस्त्वम्,
प्रावृषि प्रलयकालघोराया
जलधाराया
अविच्छिन्नसम्पाते
कथमसि प्रशान्तस्त्वम्,
कथं न बाधते त्वाम्,
अस्थिविकम्पितशीतम्,
प्रचण्डपवनोद्धूततरुलतागुल्मायां
वर्तसे रे कथम्
अचञ्चलो झञ्झायाम्?
अयि अविचल! स्थिरताया आगार!
(५)
अयि मिथ्यागर्वविदुन्दिल!
मधुरझर्झररवेयं
कलनिनादिनी नदी
एकदा
गमिष्यति प्रचण्डतां
सम्पूरितेयं समन्ताद्
उत्तालतरङ्गपूरै-
र्विलोपयिष्यति त्वाम्,
गहनताया गहनतायाम्,
आगमिष्यति सोऽपि काल:
मन्दसुरभितसमीरो यदा
गमिष्यति प्रभञ्जनतां
सञ्चूर्णयिष्यति त्वां
प्रबलझञ्झाप्रवाहै:
मधुरं कूजन्नयं पुंस्कोकिल:
गायति यश्च प्रीतिरागम्,
गास्यति तदानीं ते
मृत्युगीतम्,
अयि नश्वर, निश्चल ग्रावन्!
रसवती
पलाण्डुच्छेदने निर्गतं नयनयो-
र्लावण्यमयं वाष्पजलम्,
सहैव चैव विच्छुरितं
मधुरमधुरं स्मितं तथोष्ठयो:
एतद्वयमपि सम्मेल्य कटाहे
घृतेन भर्ज्यते यदा
उत्तिष्ठति धूमस्तदा कषायमधुरो रसवत्यां
देवानामावाहनं विधत्ते
अथ हरिद्रासदृशमुज्ज्वलं रूपं धृत्वा
सौगन्ध्यकं वितन्वाना कुस्तुम्बर्या:
अवतरत्यन्नपूर्णा साक्षाद्
रसवत्यामस्याम्,
अन्नब्रह्म साकारयन्ती।
कृष्टि:
(१)
धरित्र्या गात्रेषु
आरक्त बालातपच्छेदच्छवीनि
अद्यापि विकसन्त्यरविन्दानि
कियन्ति कियन्ति
गोष्पदेष्विव पङ्कप्रायेषु
पुष्करेषु
बङ्गेषु वा कलिङ्गेषु वा।
(२)
अरविन्दानि न जातु मनागपि
क्षीयन्ते
पुनरुत्फुल्लन्ति।
एकस्मिन् म्लाने
अपरमुत्फुल्लत्यरविन्दम्,
उन्मुखं खे
तापमापिबद् रवे:।
यावती पङ्किला सङ्कुला पिच्छिला कर्दमैर्मेदुरा
पुरातनी चिरन्तनी च सुस्थिरा च शाश्वती
विद्यते च खिद्यते च जीर्यते वसुन्धरा
तावती नवीनता भव्यता प्रवर्धते च रक्तिमा
कृष्टौ किल चैतेषाम्
यौवनमेतदरविन्दानाम्।।
मदनदहनम्
(१)
न सन्ति सम्प्रति ते माकन्दा
येषु मदनोऽघ्यवात्सीत्।
रतिर्भ्रमति निरानन्दा।
माकन्देभ्यो गता मञ्जर्यो
मञ्जरीभ्यो गतो रस:।।
(२)
मदनदहनमनु,
भ्रमति रतिर्भयग्रस्ता
शृङ्गारभयानकयो:
कीदृशोऽयं सम्प्लव:।
(३)
अवतरति वसन्त:
शनै: शनै:
रसालतरोरस्यां शाखायाम्,
निषण्णपूर्व एवायं
रसालतरोरस्मिन् विटपे
मदनो निभृतनिभृतं
सज्जीकुर्वन् कुसुमचापम्,
अङ्कुरिता, कोरकिता, विकसिता किलैषा
सहकारतरोरस्यां शाखायां
पुन: पुनर्जायमाना रसालमञ्जरी।
(४)
सन्धत्ते यावदसौ
पुष्पबाण: कुमशरासनम्,
आरोपयितुं प्रसूनशिलीमुखान्
निषण्ण एतस्यां शाखायां
तावदेव सहसा
कुठारदारुसंयोगेन
अवान्तरव्यापारेण
कश्चन चिच्छेद शाखामेनां तरसा
चिक्षेप चैनाम्,
अत्युल्बणं दन्दह्यमाने भ्राष्ट्रे।
(५)
संहर संहर दुरुद्यममिति,
यावद् गिर: खे मरुतां चरन्ति,
तावत् स वह्निर्विकरालज्वालाभि-
र्मदनं कवलयाञ्चकार।
सचटत्कारं दग्धा कर्बुरभस्मचये
कुतो दृश्येत रसालमञ्जरी
रतिस्तु तथापि तूष्णीं स्थिता,
नैव रोदिति,
नैव विलपति
प्रतिपालयति केवलं
पुनर्भवं मदनस्य।
जीवनकाव्यम्
(१)
विद्यच्चुम्बितलौहकान्तसदृशं सम्भावनागर्भितं
निस्तन्द्रं निमिषन्नवं प्रतिनवं सञ्जायमानं सदा।
निष्यन्दै: सरितां वहद्भिरनिशं नित्यं नवै: पूरितं
स्रोतोभिर्जलधिप्रभं विलुलितं तद् विद्यते जीवनम्।।
(२)
सम्यक् साधुपदप्रयोगनिकषैरर्थाप्तिसम्भावितं
नानामार्गविलक्षणं च गमितं सल्लक्षणं वक्रताम्।
सालङ्कारमपि प्रसादमधुरं चोजस्वि श्लिष्टं तथा
च्छन्दोबन्धलस्यैश्च वृत्तिसहितैर्लावण्यकान्त्यादिभि:।।
(३)
शृङ्गारै: करुणैर्भयानकनयुतैर्हास्यैश्च वीरैस्तथा
बीभत्साद्भुतरौद्रशान्तसुभगैर्नानारसै: सङ्कुलम्।
अङ्गाङ्गित्वमुपेतमेतदुभयं वान्योन्यसम्मिश्रितं
काव्यं जीवनमस्ति जीवनमिदं सत्काव्यकल्पं तथा।।
परन्तुकम्।
(१)
नो कृष्णो नो राधा नो वंशी नो तटं च यमुनाया:।
वृन्दावनं विरचयति विन्ध्यस्तुलसीक्षुपै: परन्तु।।
(२)
नो भक्तिर्नो शक्तिर्नो रक्ति: प्रस्तरेषु वा ममास्ति।
दर्शं दर्शं विन्ध्यं दुरितं दूरं सृतं परन्तु।।
(३)
कर्मणि सततं सक्त्या नावापि शर्म न वाऽपि नर्म मया।
चेत:कमले करुणासीकरकणा: पतिता: परन्तु।।
पञ्चम आर्वतः
दण्डकारण्यम्
विन्ध्याचलदण्डकम्
समदशकुनिरावगुञ्जद्गुहो दृश्यतेऽयं स विन्ध्याचलो बर्हिणां तीव्रया केकयाऽऽकारित: स्याद् गुहोऽसौ यथा तित्तिरैरातुरैरित्वरैर्वा वकै: खञ्जनैर्मञ्जुलै: काष्ठविस्फोटकैस्तै: कपोतै: शुकै: काकपुंस्कोकिलै: टिट्टिभै: किं नवां मार्जनां सारयत्याततां तन्तुवाद्यान्वितां तां घनैर्दत्ततालं समायोजिताम्।
उषसि कुतकुतं करोतीव पादेषु वा मेखलास्वस्य रिङ्गन्नसौ बालसूर्य: प्रभापुञ्जमाञ्जिष्ठरक्ताञ्चितै: कोमलै: स्वै: करैस्तेन निद्रामयं सन्त्यजत्याशु विन्ध्याचलो जृम्भते तैर्दरीणां मुखै: स्त्यायतेऽम्बूकृतं चास्य वै निर्झरै:।
यमकमुरजखड्गबन्धैर्यथा पीड्यते चित्रकाव्यैरियं संस्कृता काव्यवाङ्माधुरी व्यञ्जना सा यथा हन्यते ते तथा जन्तव: पक्षिण: सौनिकैर्घातकैस्तैर्भुशुण्डीकरैर्गृघ्नुभि: क्रव्यलुब्धै- र्मुहुर्हन्यमाना इमे स्वल्पशेषा शशा मृग्यमाणा मृगा जालके बध्यमानाश्च ते तित्तिरा लावका गृह्यमाणा शकुन्तास्तथा किंशुके किंशुके कर्कशा चीत्कृतिस्तै: शुकैस्तन्यते सा यदा हन्यते स्नेहसंवर्धनार्हा वनप्राणिनां सन्ततिर्नाश्यते संसृतिर्नीयते च क्षयं प्राप्यते न्यक्कृतिं धातुरेषा कृति:।
क्वचिदिह खलु सान्ध्यकालेष्वयं निष्कुलायं स्थित: कौशिक: कोपितोऽसौ सुरै: स्याद् यथा कौशिको मौनमालम्ब्य घोरं तम: कृन्ततीव स्वदृष्ट्या स्फुटां भैरवीं स्फारयत्याकुलां चीत्कृतिं तेऽपि गोमायव: सान्ध्यकाले निशीथेऽथवा क्वापि मायाविनश्चाशिवं स्वं शिवाभि: समं तन्वते चातितीव्रं समूहे रुतं तस्करास्तेऽथ नक्तञ्चरा: कुर्वते मन्त्रणां ताममूल्यां पुरातत्त्वसम्पत्तिमस्य प्रदेशस्य वा च्छद्मना विक्रयार्थं विदेशावनिं प्रापणार्थं खला:।
लसति शिखरिणीभिराच्छादिता क्वापि विन्ध्याटवी मालिनी भात्यहो सा विचित्रै: शुभै: सत्फलान्याशु पथ्यानि वक्त्रं नराणां नयन्ती शुभा पथ्यवक्त्रा क्वचित्, कीचकैर्मारुतापूरितैर्वशिकां वादयद्भिस्तथा शोभते गीतिकेव क्वचित्, भाति वैतालिकी लासिनी पङ्क्तिभिर्हसमाला क्वचित्, प्रस्तरैस्तै: कठोरैरियं चेन्द्रवज्रेव वा क्वाप्यसौ सन्तनोतीह शार्दूलविक्रीडितं दोधकं त्रोटकं मोटकं भद्रकं धारयन्ती क्वचित्, चन्द्रलेखान्विता पद्मिनी चापि नान्दीमुखी श्रीधरा चित्रलेखापि सा चञ्चला शालिनी शालवृक्षैस्तथा श्येनपातेन वा श्येनिका वल्लरीभिः समन्ताद् वृता क्वापि वा स्रग्विणी तैर्विचित्रच्छदै: पुष्पिताग्रा तथा मेघविस्फूर्जिता सिंहविक्रीडिता मत्तमातङ्गसञ्चारिणी भाति मत्तेभविक्रीडिता साहिती च्छन्दसां संहति: संहता स्याद् यथा तामिमां दुर्लभां दुर्जनै: काष्ठविक्रेतृभिर्लुप्यमानां वनालीततिं विन्ध्यवन्यश्रियं भावये कामये वर्धमानां तथा सा श्रिये चामृतायास्तु मे बभ्रुवर्णा क्वचित् कृष्णवर्णा क्वचित् रक्तपीतप्रभा कुत्रचिद् भारते हृत्प्रदेशस्थिता राजते पावनी कापि विन्ध्यावनि:।
अमलधवलवारिपूरायिता मस्तके धारिताऽनेन मन्दाकिनी भाति सोष्णीषवत् सापि चर्मण्वती चर्मनद्धं करोत्यस्य देहं पुन: केन नाशंसिता केननद्या इमा आप आराद् धृता अंसयोरस्य दूरं दुकूलायिता मध्यवस्त्रायते वेत्रतुल्या तथा बेतवा राजते नर्मदा शर्मदात्री पदं क्षालयत्यस्य विन्ध्यस्य सन्ध्याविधिं कुर्वत: प्रत्यहम्।
विविधशिखरबन्धुरे दुर्गमे प्राङ्गणे दुर्गयाऽधिष्ठितं तैर्विभिन्नै: पुराणैश्च कान्तारदुर्गैर्युतं चण्डसत्त्वस्वनं चित्रबिम्बैर्नितम्बैर्गुहालेख्य शिल्पान्वितं सत्कलासौष्ठवैर्मण्डितं श्यामलै: स्निग्धदूर्वाङ्कुरैर्निर्मलैर्निर्झरैरन्वितं कुम्भयानिप्रतीक्षारतं नीलशैलैर्विशालैद्र्रुमैराचितं सत्फलैरानतं पुष्पशोभाङ्कितं भूमिदेव्या अध:सारितं वाऽञ्चलं सादरं नौमि विन्ध्याचलम्।
हरिद्वारम्
प्रवहति खलु जाह्नवी सा हरिद्वारदेशे सदा चेतनोवोच्छलन्ती व चानारतं भासमाना हिमार्द्रा शुभानाविलानाकुला शीतलां पावनी भास्वरा सत्त्वरा चेत्त्वरां शाश्वती भास्वती स्यन्दतेऽनर्गलं चार्गलां कुण्ठितां मानुषे मानुषे मानसस्यापनीयाञ्जसात्यद्भुतं सर्वोभद्रकं पद्मबन्धं लताबन्धमाराद् विचित्राकृतीश्चित्रकाव्यं यथोल्लासयन्ती कवे: कल्पना।
कनखल इह सा कलं लपन्ती शिवं निर्मलं निश्छलं तत्समस्तं मलं क्षालयन्ती किलालं च न: कश्मलं कल्मषं मार्जयन्ती तथा प्रेरयन्ती शुभं चार्जवं सन्मन:सूषस: सा प्रभां तज्जलं स्फाटिकं विद्यतेऽदो यथा सा तथा चेतसि स्त्यायतां शान्तिदा कान्तिदा मुक्तिदा गाङ्गवारिच्छटा।
उषसि बहुश उत्तराद् दक्षिणात् साधुसङ्घोऽत्र चायाति योऽसौ पुर: सर्पतीवाञ्जसा दूरत: पार्श्र्वतोऽटाट्यमानो मुहुर्मन्दिरान्मन्दिरं याचमानोऽनिशं भिक्षमाणश्च ता रोटिका: प्रातरेवात्र या: साधिता: प्रापिताश्चैकहस्तात् परं हस्तमादापिता: स्वादहीनाश्च या: कच्चरा: शर्करा: कर्करा यासु ताश्चर्विता दन्तपङ्क्तौ व्यथा भावयन्त्यो भृशुं किन्तु तां जाठरीं दीपितां वह्निजां वैक्लवीं शान्तिमापादयन्त्येव ता भुञ्जते साधवो ये गृहस्थाश्रमं त्यक्तवन्त: श्रमं कर्तुमिच्छन्ति नो चङ्क्रमन्तेऽन्तत: प्राप्नुवन्त्येव तां साध्वनिश्चिन्तताम्।
यदि पुनरपसारितं कञ्चुकं स्यादमीषां तदैतेषु कश्चिद् भवेद् रामलालोऽपि वा श्यामलालोऽपि धूलसिंहोऽथवा फूलसिंहोऽपि वा यादव: स्यादहो कोऽपि वा माधव: स्यादहो कच्चिदस्मासु कश्चिज्जन: स्यादहो नव्यकाषायवस्त्रावृतास्ते तृणच्छन्नकूपोपमा: सन्ति धर्मध्वजा:।
अथ नगपतिमेखलाधिष्ठितात् कुष्ठरोगाश्रमात् प्रातरेवात्र ये निर्गता एकतो राजमार्गैकभागे स्थिता: पङ्क्तिबद्धा जडा शीतभीत्यार्दिता मृत्युनाऽऽलिङ्गिता कुष्ठरोगेण लज्जापिता: भीषिता जानुसङ्कोचपूर्वं तथाऽत्यन्तसङ्कोचपूर्वं प्रसार्यप्रकोष्ठं स्वकं यत् कराग्रेण हीनं च दीनं तथा खण्डितं गालितं च श्लथं च व्रणैर्जर्जरं केवलां दीनदीनां दृशं सारयन्तोऽनिशं नो वदन्तो वचो निश्चितं निर्धना: सन्ति ते साधव: सज्जना धीधना: साधुसङ्घे परं ते कथं प्राप्नुयुर्वा पदं यत्र काषायिता कुष्ठरोगेण वा हीनता एव सा साधुता।
पुनरपि जनताततिर्दृश्यते सर्वतश्छादयन्ती तटं विस्तृता व्याप्य पीठं हरे: कुर्वती सान्ध्यपूजां तथा सारयन्ती शिवान् पत्रले पत्रलेऽसंख्य दीपान् प्रभादीप्रभासोज्ज्वलान् कज्जलं कश्मलं चान्धतामिस्रजं कर्तयन्तो जले ये सृता: क्षीणदीपप्रभां ध्वंसयत्येव सा सूचिभेद्यं तम: का कथा या पुन: पङ्क्तय: नैकश: सारिता दीप्यमाना जले भान्त्यहो कानने कानने स्यात् तमालव्रजे साऽऽगता ज्योतिषो वा सरित्।
मसूरी
अथ परममनोहरे रामनामाङ्किते श्रीहरिद्वारमध्यस्थिते त्वाश्रमे कल्यमुत्थाय सर्वे वयं प्रस्थिता: कारयानेन यत्रासते मन्दास्यच्छटानन्दनो मारुतेर्नन्दनो व्याससूर्य: सुधी: स व्यवस्थाधुरीणैकव्रती सा सती श्रीमती मे प्रियाऽर्धङ्गिनी सङ्गिनी कन्यकानां त्रयी तां मसूरीं पुरीं द्रष्टुमुत्कायिताः प्राप्तवन्तः समं रामदोलालसल्लक्ष्मणश्लक्ष्णदोलाञ्चितं राजितं गाङ्गवारिच्छटाच्छादितै: सैकते सर्वतोऽवस्थितैराश्रमै: शाङ्कर: केशजूटो यथा धारयन् जाह्नवीं विष्णुपादात् स्रवन्तीं समेतां च तां पादयोराशिषां राशिभिर्वर्धयेत् कश्चनर्षिस्तथा स्थितप्रज्ञवत् संस्थितं चर्षितुल्यं प्रभामण्डलैरन्वितं चर्षिकेशं पुरं सद्य एवावलोक्य स्पृशन्तोऽत्र तत् पावनं गाङ्गमम्भस्तत: कारयानार्थमेते त्वरानोदिता धाविता मा वृथा भूच्च कालव्ययोऽन्योन्यमेवं वदन्त: समे।
अलमधिकरायितेनेति मा यात दूरं त्वरा वर्तते यद्यहो शिष्यते जीवनं तर्हि चायाम एते पुना रोचकेऽस्मिन् स्थले साम्प्रतं साधयामो वयं चेति ता बालिका बोधयन्तो बलात् सामदानादिभिर्याहि याहीति गन्तुं सृतास्ता: समादाय सर्वे वयं प्रेरिताश्चोत्तरम्।
अहह कियदिवातिवक्रो वरीवृत्यते पर्वतारोहिमार्ग: कियान् प्रस्थकूटो वरीवृत्यते प्रोन्नतश्चेति सङ्केतयन्तो मिथ: कीर्तयन्तश्च तास्ता: कथा: विस्मिता आस्म सर्वे वयं यत्क्षणे वाहनं तच्छनैरारुरोहोच्चकूटं गिरे: सर्पिला सर्पिणीवच्च रथ्या व्यधात्छ्वासनि:श्वाससन्देहदोलायितं निर्गतं कायतश्चित्तमस्माक मासीत्तदा सङ्कटस्यानुभूत्या मनो जातमत्कण्ठितं यत् कथञ्चित् स्खलेत् प्रस्खलेद् वाहनं श्वभ्रगर्ते तदाभ्रमेते वयं पातिता: काललीलावशं प्रापितास्तत्क्षणं मृत्युनाऽऽलिङ्गिता: स्याम चैवंविधैस्तर्ककौतूहलै कम्पमानेन चित्तेन यातास्तथा चान्यथावृत्तितां मन्दमन्दं सृतं वाहनं सा भ्रमिश्चास्य सम्भ्रान्तिमस्मासु सञ्चारयन्ती भ्रमैर्विलुप्तं सर्वसाधारणं कारयन्तो मन: सह्यतां प्रापिता धैर्यसन्धारणै:।
तदनु च समुपागता दृष्टिमार्गं पुरी सा मसूरीति संज्ञां गता सूरिभि: शंसिता रम्यरूपान्विता स्याद्यथा कापि दुर्लालिता चेत्वरी धृष्टताप्रेरिता बालिका क्रीडया हेलया लीलया द्रष्टुमुत्का दिवं सा प्रगल्भा गिरेस्तातपादस्य तस्योन्नतं स्कन्धमारुह्य चानन्दिता सोल्लसन्ती हसन्ती सितां दन्तपङ्क्तिं च तां शुभ्रहर्म्यैमुदा दर्शयन्ती मुहु: सामि सोल्लुण्ठनं साचि सोत्प्रेक्षितं कूणयित्वा तथा नासिकां सानुकूटोच्चयां सोपहासं किशोरी यथा खेदयेद् राधिकावल्लभम्।
लसति सुतनुकेव चेयं पुरी शैलविस्तारितेऽस्मिन् स्थले दुर्लभा दुर्गमा सज्जिता स्थापिता रूपदक्षेण चाङ्ग्लेन वैदेशिकेनात एव प्रतीक्षारता तत्कृते विद्यते खिद्यतेऽद्यापि सा तन्निमित्तं च तस्यैव नामारटन्ती तदीया: स्मृतीर्जीवयन्ती यथा प्रोषिते स्वे प्रिये स्वैरिणी स्वागते व्याहरन्ती पुन: केवलं चेश्वराणां धनस्फीतिविस्मापितानां कृते।
विपणिविरचितानि तानीह वस्तूनि नानाविधा राशय: क्रय्यजातस्य ते चाकचक्यैर्मनो विस्मितं हीनभावेन दष्टं भृशं कुर्वतेऽस्मिन् मसूर्या महार्घे महारत्नराशिप्रभे चापणे हट्टसङ्घट्टसंसारकोलाहलै: सञ्चरन्तस्तथाऽनन्तरं ट्रालिना प्राप्य तं गन्हिलं नाम कूटं गिरेस्तुङ्गमभ्रंल्लिहं विश्रमं नायिता रञ्जिता: प्रेक्ष्य तामुत्तराद्रेर्महाविस्तृतिम्।
उपरि बदरिकाश्रमान्मानसं विप्रकृष्टं च यच्चोद्भवस्थानमासीद् द्वयं यामुनं जाह्नवीयं सुरम्यं च लोकोत्तरं दृश्यमेतत् समस्तं विचित्रं समक्षं च नश्चक्षुषा गोचरं जातमासीत् तदानीं च तद्दर्शनार्थं भृशं रोमराजि: शरीरे समेषां तथा प्रोत्थिता रम्यतां सम्पुपोषात्र सा दृश्यावली प्रेक्षिता येन केनापि वा दृष्टिमार्गं गता।
कुसृतिमियमहो करोतीत्यमुं पार्वती भर्त्सयन्ती वरीवृत्यते सोऽपि गौरीपति: शङ्करश्चानपेक्ष: स्थितोऽस्या: कृते गर्विता मानिनी किन्तु सेयं करोत्येव मोट्टायितं दर्शयत्येव बिब्बोकमेषोच्छलन्ती दरीदृश्यते मेघसोपानपङ्क्तिं समारुह्य कैलासमेव स्पृशन्ती मसूरी पुरी।
विततनभ:स्थलमञ्जे विलसति नृत्यति नटीव सैवेयम्।
रम्या पुरी मसूरी प्रकृति: पुरुषेण दृष्टेव।।
षष्ठ आवर्तः
गद्यवीथी
उपशारदाविवाहम्
शारदाया विवाहवेला निकषायते। वेलाया: पारं गर्जति अज्ञातानां सम्भावनानामाशङ्कानां पारावार:। अध्यापकस्य शारदा-पितुर्मन उत्कायते। शिष्टानि द्वित्राणि दिनानि। समयो न शिष्यते। मनो रिच्यते।
जना जनवासं यान्ति। गत्वा गत्वा व्यवस्थामवलोकयन्ति। अव्यवस्थितं व्यवस्थापयन्ति। तथापि बहु वरीवर्त्यव्यवस्थितम्। अवस्थितं भयम्। यद्येवं क्रियेत तर्हि एवमेवं स्यादिति विकल्पा उच्चीयन्ते। शङ्कास्तथापि न क्षीयन्ते।
नवीने जन्यवासे निखिलं नवायते। इमानि सन्नह्यन्ते प्रतिकक्षं नवीनानि विद्युद्व्यजनानि। वरपक्षीया भवन्ति कोपकषाया:। नवीनो जन्यवास:। नवा व्यवस्था। वरपक्षीयाणां नव: कोप:। एतानि विद्युद्व्यजनानि तत्प्रशमनायालं स्यु: शीतलै: स्वकीयैर्वातै:। प्रतिकक्षं लसन्ति वकपक्षसितै: प्रच्छदपटैराच्छादितानि स्रस्तराणि। पुन: पुन: क्षालितो नवायते जन्यवासकुट्टिम:। वरपक्षीयाणां प्रतीक्षायां प्रतीक्ष्यै: कन्यापक्षीयैरास्तीर्यन्ते नयनपुटानि। आस्तीर्यन्ते नयनपुटानीव तोषकाणि तोषाय तेषाम्। तोषकाणां राशिरिव पर्वतायते प्रतीक्षावरयात्राया आगमनस्य। पर्वतायते नवीनवस्तूनां सम्भारो जन्यवासे। नवायते शङ्का। नवायते प्रतीक्षा। नवीने जन्यवासे निखिलं नवायते। एवं दिनं जीर्णायते। नवं दिनं जायते।
अयमिह नववध्वा: शारदाया भ्राता श्यामोऽतिपुरातनपटच्चरचर्चितेषु स्पर्शमात्रेण चरचरेति स्फुटत्सूपधानेषु नवीनान्याच्छादनानि योजयति। इमे आकार्यन्ते सम्मार्जका:। अयमिह दीयते पूतिपूरितेषु शोचालयेषु नवीनं फेनाविलम्१ स्थाप्यन्ते पुरातनीनां विवर्णानां हस्तप्रक्षालनद्रोणीनां२ पार्श्र्वे सुरम्य रह:पर३मण्डितानि फेनिलानि४। इयमानीयते दग्धमुखी कृष्णकलेवरा मृत्तैलचुल्ली५ आगतमात्रेषु वरपक्षीयेषु सद्योनिर्मितचायपेयपरिवेषणाय। इमे शरावाश्चषकाश्च सझणत्कारमवतारमवतारं पेटकेभ्य: भण्डारे स्थाप्यन्ते। भण्डारे वस्तूनामुपचयो जायते। नवीने जन्यवासे निखिलं नवायते।
समागतो विवाहदिवस:। मध्याह्नवेला जायते। प्रातरेव नववादनं यावत् प्राप्स्याम इति प्रतिश्रुतवान् वरपिता कथं चिरायते। चिन्तया वरपक्षीयाणां मन उत्कायते। कदा प्राप्स्येत वरयात्रेति प्रश्न: समेषां मन:पट्टिकासु निकषायते। आशङ्का उत्कटायते, प्रतीक्षा प्रसरायते। मन्यामहे- प्राप्तप्राया एव त इत्याश्वासनभङ्गी चेतांसि त्रायते। सर्वमुपपन्नं स्यादिति शारदाया ज्येष्ठेन पितृव्येन, अशेषं साधयिष्याम एव कार्यमिति तन्मातुलेन, अद्य रात्रौ विक्रीतपण्यो वणिगिव प्रत्यर्पितन्यास इव शयीथा इति समवयस्कैराश्वस्त: शारदापिता स्वमनो धारयति। प्रतिपलमुत्कण्ठा नवायते। शङ्कया मन: कलुषायते। विश्वासो दृढायते। प्रतीक्षा पुनरपि दीर्घायते।
इतश्च जन्यवासे तव च मम च विवाह एतादृश एव जन्यवासे विहरिष्याम ससुखमिति वधूभ्रातु: श्यामस्य सुहृदां परिहासश्चञ्चलायते। वाणी नवोढायते। अन्तरालो वर्षासु समागतासु प्रथमोदबिन्दुरिव सुखायते।
अनन्तरं च न समागता वर्षा अपितु झञ्झेयं कापीति प्रतीतिमुत्पादयन्ती अवशानिव कन्यापक्षीयान् विदधती बसयानादवततार वरयात्रा।- ''अरे प्राप्तं वाहनम्, आगतास्ते’’ इति कोलाहलो महानभूज्जन्यवासपरिसरे।- ''अरे कीदृशा: पशव इमे कन्यापक्षीया:, कथं न कृता व्यवस्था मार्गेऽस्माकं प्रातराशस्येति कस्यचन पशोरिव चीत्कार: स्त्यायते।- ''तूष्णीं भव, न तत्कालमेतादृश: कलहडम्बर उद्घाटनीय’’ इति कस्यचित् वृद्धस्य स्वर: श्रूयते। मनस: पताका दोधूयते कन्याभ्रातु:। कोलाहलो मूकायते जन्यवासस्थितानां तदीयसुहृदाम्। भण्डारे पात्राणि स्थापयन् भृत्यो स्तब्धायते। प्रवेशद्वारे स्वागतसुत्सुकानां कन्यापक्षज्ञातीनां पङ्क्तिर्दण्डायते।
अथोत्ताललास्यम्, सहासं सोल्लासं विहितसभ्यतानाशं विशति वरयात्रा जन्यवासम्। सेयमवराणां समूहभूतापि वरा, इत्वरापि न सत्त्वरा, उन्मुक्तप्रेतपतिसेनाप्यशिवा न कुत्रापि यान्त्यपि वर्तते वरयात्रा। कीदृशमिदं कषायं चायम्, अत्र तु शर्कराया कणमपि नास्ति, अरे प्रागेव कथितमासीदस्माभि: शर्करारहितं चायपेयमानेतव्यमिति, कथमिदं शरवतमानीतम् चायनाम्निकलङ्कभूतमिदम्, कीदृशोऽयं शौचालय:, अस्मिंस्तु शूकरोऽपि प्रवेशे हृणीयेत, क्व सन्ति प्रोञ्छनानि, कथं न स्थापितं नापितद्वयं क्षौरकर्मसम्पादनाय, अयमेको नापितनाम्ना प्रस्तरमूर्तिरेव न जानाति हस्तं चालयितुं नास्ति किं दन्तमञ्जनं, अये विकृतगन्धीनि विदारयन्ति नासापुटमुपधानानीमानीति ससंरम्भं साटोपं सगर्जनं समर्मदारणं क्रन्दनं कुर्वन्ति वरयात्रीया:।
अपशब्दावली समृद्धायते, विकृता पदावली स्तूपायते, गालीनामवलिर्निबन्धायते, विडम्बना डामरायते कलहडम्बरश्च शम्बर इव प्रबलायते। नवीने जन्यवासे निखिलं नवायते।
अपीयं वरयात्रा अन्यैव सामग्रया व्यरचि विधात्रा, अपीमे मानवा उत दानवा किं वा भूतवैताला:, शिवगणा वावतीर्णा: निगीर्णा यै: सभ्यता, धुता शालीनता हता मानवता। एतेषां पादप्रहारै: प्रकम्पिता धरणीं दीर्यते, राजमार्गे प्रकीर्ण: पुष्पमालानिचयो विशीर्यते, मनो विकीर्यते च कन्यापक्षीयानाम्, क्वचिच्च रोषावेगस्तेषु सञ्चीयते, अमर्षोऽङ्गेषु जीर्यते। अभूतपूर्व एवायमनुभूतस्तिरस्कार इति भावो मनसि दृढायते। नवीने जन्यवासे निखिलं नवायते।
गोधूलिवेला जायते। लग्नसमयो निकषायते। स्वपितुरेव सम्पदिति कृत्वा मदिराकुतुपशतमुदरीकृत्य युवकजनसमूहो मत्तायते। अभ्रं भ्रमितुमिव भ्रमायते, पृथिवीं स्वपदाघातैरास्कन्दितुं सन्नद्धो जायते, द्यामुल्लिखितुमिवोत्कायते दिशां चक्रवालमिव घूर्णयितुं भ्रान्तायते।
अथेयं प्रचलति वरयात्रा। शनै: शनै: पुन: पुन: प्रवर्तिता: प्रेरिता: प्रचोदिता इमे प्रचलन्ति चपला बालका वरयात्रासङ्गता:। चलिताश्चकितास्तै: समं काश्चन् चिरण्ट्य:। इमा वरस्य भगिन्यो वा भ्रातृजाया वा भवेयु: गच्छन्ति पार्श्व: पृष्ठतो वा प्रौढा:, शनै: शनैश्च रिङ्गन्ति वृद्धा:। स्यन्दते जलौघै: परिपूर्यमाणेव जनोघै: सङ्घट्यमाना वरयात्राविषमतरङ्गिणी कूलङ्गषा कूलद्वयमिव कुलद्वयं निपातयन्ती। इयं निपातयति तटवृक्षानिव ज्ञातिजनान्, आप्लावयति शुष्कानिव प्रपतितान् पर्णान् वाद्यवृन्दवादकान्, आवर्तयत्यावर्तभङ्गानिव विकटविवर्तननिरतान् यून:, स्फोटयति बुद्बुदानिव सम्बन्धिनां विविधमनोरथान्। इयमवरुणद्धि प्रतिकूलमागतानि वाहनानि, निपातयत्यनुकूलमपि चलितानां पदातिजनानां सङ्घान्। तटस्थास्तिष्ठन्ति वटवक्षसदृक्षा विज्ञा पुरुषा नि:स्पृहमेनामवलोकयन्त:। सचरणघातैर्मृद्नन्तो महीं रज:पटलमिव सृजन्तो युवानो नरीनृत्यन्ति। नरीनृत्यन्ति विस्मयवृत्ता दर्पनिकृत्ता: सुरापानमत्ता युवान:। स्पन्दन्ते मनांसि, स्कन्दन्ते स्कन्धा उत्फाल्यन्ते फालकुद्दाललाङ्गलतुल्या पादा हस्ता नितम्बा:। त्रुट्यन्ति तथादर्शबिम्बा:। अप्रतर्कितविधेयं त्रुटितलयगेयं विचित्राभिनेयं क्रमशून्यतया हेयं निरस्ततालं प्रक्षिप्तहस्तपादजालं विरचितविरूपतालवालं विध्वस्तविवेकमालं नृत्यन्ति युवान:। वलितनितम्बा विस्रस्ताननबिम्बा सचीत्कारं धरां घ्नन्ति पादाघातै:। आकाशं ताडयन्ति मुष्टिसङ्घातै:। दुष्पूरयन्ति नभोऽपशब्दै: कर्णकुहरविदारकै:। नवकिन्नराणां किन्नृत्तमिदमवलोकयितुमुभयतो राजमार्गं स्थितेषु भवनेषु उपगवाक्षमास्तृणोत्यक्षपटलं केशोरीणां गण:। दरमुकुलितनयना दर्शं दर्शं विहसन्ति महिला:। अभ्यक्तमिव स्नाता: शुचियोऽशुचिमिव विलोकयन्ति विचक्षणा एते वानराणामिव कूर्दनमुच्छलनं च। केचन वयसा परिणता: पलितकेशा अपि निरस्तलज्जालेशा मनसाबाला: सझम्पं स्वगलं नर्तकमण्डल्यां दातुमुत्कायन्ते। अपरे पुनर्वरस्य ज्येष्ठा भ्रातरो वा सबलात्कारमाकृष्य नीयन्ते मध्ये नर्तकसमाजम्।
प्रचलति वरयात्रा। गच्छति संस्काराणां शवयात्रा। अस्या: समक्षं कियती मात्रा वराकस्य कन्यापक्षस्य? अस्माकं लल्लुकस्य श्वशुरालय इति कृत्वा निखिलमेव नगरं कवलीकर्तुमियं सुरसेव स्फारयति स्वाननम्। प्रचलतीयं दुर्गामिवाक्रान्तुं, पातकावगाहिनी शुम्भनिशुम्भवाहिनीव।
न सन्ति गाव:। न वर्तते गोधूलि:। चिराद् व्यतीता गोधूलिवेला। धूलिसाद् भवन्ति सद्गुणसम्पद:। प्रतीक्षते कन्यापक्ष:। वर्तते मार्गे वरयात्रा। मार्गे लुठन्ति रूप्यकाणि। मार्गे निरुद्धं जीवनम्। प्रसक्ता तथापि जीवनयात्रा। प्रचलन्ति चेयं वरयात्रा।
१. फिनाइल इति पदार्थ:।
२. ''वाश् बेसिन’’ इति संज्ञप्तानाम्।
३. रेपर इत्याङ्ग्लभाषायाम्।
४. साबुन इति हिन्द्याम्, सोप (soap) इति आङ्ग्ल्याम्।
५. स्टोव्हसंज्ञका।
अनुशारदाविवाहम्
तूष्णीं निधेहि चरणौ गृह एतस्मिन्। शनै: शञ्चर बन्धो गृह एतस्मिन्। सत्यम्, सम्पन्नं परिणयमङ्गलं किल शारदाया:। यामिमां पश्यसि वृद्धां वरण्डके शयानां सैवास्ति शरदाया जननी। नैव तया भुक्तं किमपि विगतदिवसयो:। उपवसतिस्म ह्यो दिने तु तपस्विनी। अथ प्राघुणिकान् निभालयन्ती न गणयति स्म भोजनवेलां स्वकीयाम्। अपराह्णे सम्प्राप्ता वरयात्रा। गोधूलिवेलायां भविष्यत्सु लग्नेषु, परं चिरायितायां वरयात्राया यात्रायामतिप्रदोषमधिदेहल्युपागते दुर्लभे वरे आत्मानमपीयं विसस्मार, का कथा भुक्तस्य पीतस्य वा? अथार्धरात्रे समाप्तिं नीते वैवाहिके विधौ विरतेषु लोकाचारेषु विरतेषु गीतवाद्येषु विमनायितेषु परिजनेषु अन्त:प्रत्युप्ततिरश्चीनालातशल्यविदीर्यमाणहृदयेव लोलोल्लोलक्षुभितकरुणोज्जृम्भणस्तम्भनार्थं प्रयतमानेषु स्वजनेषु सैकतान् सेतून् भित्वा भित्वापसरन्त इवौद्या: बलाच्चेतोविकारा एनामभिभवन्ति स्म। विग्ना कुररीव मुक्तकण्ठमियं चिरं प्ररुरोद। प्रयातामपि वरयात्रायां गतायां शारदायां न विरराम रुदितमस्या:। स्मारं स्मारं शारदायास्तं तं चरितसम्भारमपारमभूद् दुर्वहं दु:खभारजातमस्या:। त्रुटितमौक्तिकगलन्मुक्तासरणिरिव ससार वाष्पावली। लुठति स्म जर्जरकणा धरणीम्। शारदा गालिर्ददो तद्दिने मह्यम्, शारदा कलहायते स्म तद्दिने मया, एवमुक्तं तद्दिने तया; इति तस्या: सीवनम्, इति तस्या: काढनम्, इति तस्या: रन्धनम्, इति तस्या: क्रन्दनम्, शारदा नाभूत् तनया सा, ममैव मातात्वभूत् सा- इत्थं प्रलपन्त्या: स्वानि भाग्यानि निन्दन्त्या अस्यास्तनौ न मान्ति स्म शोकावेगा:। स्फुरदधरनासापुटतया चिरमाध्मातहृदया पूरोत्पीडयमानशोकातटबन्धा शक्तिमतिक्रम्य रुरोद। अनन्तरं नि:सत्त्वेवमूर्च्छाधीनेव तन्द्राकीलितेव निरन्वयविपर्यासविप्रलम्भवृत्तान्ताघातवज्रपातहतेव निपत्यात्र वरण्डके दुस्सहवेदनाविवशीभूता उष्णं नि:श्वसन्ती नि:संज्ञेव शेते। क्षणलब्धनिद्रायामपि व्याकुलोन्मथितहृदयगतकरुणापारावारोर्मिभिरियं विवर्तते विचेष्टते। मा भूत् तव पदक्षेपोऽन्तरायोऽस्या: क्षणिकस्वप्नसुखे। अतो ब्रवीमि-तूष्णीं निधेहि चरणौ गृह एतस्मिन्। शनै: सञ्चर बन्धो गृह एतस्मिन्।
तूष्णीं निधेहि चरणौ गृह एतस्मिन्। शनै: सञ्चर बन्धो गृह एतस्मिन्। पूर्वत एवार्शसङ्गृहिण्यादिविविधव्याधिजर्जरतनुरयमध्यापक:। स च निखिलमपि भविष्यनिधिं सेवानिवृत्तौ प्राप्तं ज्येष्ठाया: दुहितु: शारदाया वैवाहिके यज्ञ आजुहाव। विगतसान्ध्यकालेऽन्धो दु:खेन, प्रणर्तित इव कालेन सम्पादयन् वैवाहिकानि नैमित्तिकानि कृत्यानि, विद्युत्प्रकाशचाकचक्यचर्चिते भवनेऽन्धकारमिव प्रसर्पन्तं हृदयसदने हृच्छयभिव संशयमयमन्वभूत् – किमिति व्याधेभ्यस्तु नैविर्पिता वत्सतरीव वत्सा शारदेति? रोदितुं न पारयति स्मायम्। वैक्लव्यं चेतस्येव रुणद्धि स्म। कण्ठस्तम्भितवाष्पवृत्तिकलुषश्चिन्ताजडदर्शन:- भगवन्नियं यौतकपरिच्छदजातस्य सूचि:, एतत्सर्वं परिच्छदजातम्, गणयन्तु मेलयन्तु, सेवका वयम्, किङ्करा वयम्, यद्यादेशस्तर्हि सर्वमिदं परिच्छदजातं स्थापयामो वाहन इति वरपितरं प्रह्वीभूतो मुहुर्मुहुर्निवेदयन्, यन्त्रचालित इव, व्यग्रोऽप्यव्यग्र इव, सचक्षुरचुक्षुरिव, सकर्णोऽकर्ण इव, साकारो निराकार इव, सुस्थोऽप्युन्मत्त इव निर्वापिते कलहवह्नौ प्रशमिते डम्बरे प्रयाते वाद्यवृन्दवादकसङ्घे निवृत्ते यौतककौतुके, विसर्जितायां वरयात्रायाम् अधुना तल्पेऽनल्पं भागधेयनिर्वृत्तं दु:खं विनोदयामि, रोदिमि स्वस्यैव कूर्परे निधाय स्वललाटमिति कृत्वा ज्ञातिजनसङ्कुलं तल्पमुपेत्य, अवाप्य च रिक्तमेकं तत्र कोणकं लुठितस्तत्र चिन्तासन्ततितन्तुजालनिविडस्यूतं मनो धारयन् सादयन्नात्मानं न जाने कदा निद्रया नयनावलम्बिन्या ललाटदेशादुपसर्प्य क्षणं विसंज्ञो जात:। मा भूदेतस्य चिरजागरणकर्षितस्य पीडा। अत एव तूष्णीं निधेहि चरणौ गृह एतस्मिन्, शनै: सञ्चर बन्धो गृह एतस्मिन्।
तूष्णीं निधेहि चरणौ गृह एतस्मिन्। शनै: सञ्चर बन्धो गृह एतस्मिन्। कोष्ठेऽस्मिन् यमवलोकयसि जानावुत्तानं जानु निधाय पृष्ठेन शयानं युवानं स वस्तुतो न स्वपिति। शयितमेव नैवानेन आ पञ्चरात्रिभ्य:। आ चतुर्भ्यो दिवसेभ्योऽयं चक्रवत् चङ्क्रमीति स्म। अयं शारदाया अनुज: श्याम:। वरयात्राया: सत्कारविधौ वरस्य मित्रैर्बहुशो धिक्कृतो मर्मोपघातिभिर्वज्रकीलायितै: शब्दैस्तिरस्कृतो धारित: स्थापित: रथविरैरयम्, अन्यथाऽन्यथैव किमप्यकरिष्यत्। अथ यौतकविषये प्रवृत्ते कलहडम्बरे कौरवसदसि कृष्यमाणे पाञ्चालीपरिधान इव पितु: सम्माने न मर्षयन्नयमब्रह्मण्यं उत्तोलयन् प्रस्फुरन्तौ बाहू उत्तस्थौ प्रत्यादेशाय। ''अहो पराकाष्ठा धाष्टर्यस्य, लक्षद्वययोग्यस्यास्माकं डिम्भस्य कृते एकतस्त्वियान् स्वल्पोऽर्थराशि:, तदुपरि इदं नेत्रप्रदर्शनमस्य बटो:, एतन्न मर्षयाम:, भवतु व्रजाम:। साधयाम:। त्रुट्यतु सम्बन्ध:। उत्थाप्यतां वरो मण्डपा’दिति समुत्थिते वरयात्रासमूहात् कलहकोलाहले- ''प्रसीदन्तु प्रसीदन्तु महोदया:, यौवनमस्यापराध्यति दुर्ललितस्य, न दुर्विनयो युष्मान् प्रति, करिष्यामः पूर्क्तिं सद्य एवावशिष्टस्य यौतकराशेरिति मुहुर्मुहुः साञ्जलि निवेदयत्सु उष्णीषमवतार्य चरणयोर्वरपितुर्निक्षिपत्सु मातुलपितृव्यादिषु, अनन्तरं कृच्छ्रेणानुनीतेषु सम्बन्धिषु, सम्पादितासु भ्रामरीषु विहिते ध्रुवदर्शने अत्रागत्य शून्यमना इवापहृतसर्वस्व इवापमानेन मृदित इव शोकेन कीलित इव ग्लान्या ग्लपित इव कूणितः कोष्ठेऽस्मिन् शारदायाः सौप्रस्थानिकसमयेऽपि बहिर्न निस्ससार। उदधिरिवौर्वाग्निनायमन्तर्ज्वालं ज्वलंस्त्वामपि दाहयेत्। अतस्तूष्णीं निधेहि चरणौ गृह एतस्मिन्। शनै: सञ्जर बन्धो गृह एतस्मिन्।
तूष्णीं निधेहि चरणौ गृह एतस्मिन्। शनै: सञ्चर बन्धो गृह एतस्मिन्। याश्चतस्र: कन्यका: सङ्कुचितास्तत्र कोणे ता: शारदाया: यवीयस्यो भगिन्य:। गायन्ति स्म नृत्यन्ति स्म एताश्चतस्रोऽप्या चतसृभ्य: शर्वरीभ्य उन्मादरसमग्ना:। वरयात्रापरावर्तनवार्ता एतासामपि श्रुतिपथमगात्। अवेपन्त एतासां कुसुमसुकुमाराणि हृदयानि। भीषिता एता इदम्प्रथमतया जीवनविभीषिकाया:। तदनु च सर्वमेव कुशलमधुना पराहतममङ्गलमिति वचो निशम्य गुरूणामेता: पुनरपि क्वचिद् रुदन्त्य: क्वचिच्च हसन्त्यो मिश्रीकृतरसक्रममपि शोकान्तं प्रकरणं नाटयामासु:। अथ सर्वा: शारदाया: कण्ठेन समं लग्ना रुदितैश्चीत्कृतैर्निखिलमपि गृहमान्दोलयामासु:। क्रमेण शान्ते शोकवेगे अधुनैव प्रसुप्ता:। मा च्छिन्दि एतासामवशिष्टान् स्वप्नान्। तूष्णीं निधेहि चरणौ गृह एतस्मिन्। शनै: सञ्चर बन्धो गृह एतस्मिन्।
तूष्णीं निधेहि चरणौ गृह एतस्मिन्। शनै: सञ्चर बन्धो गृह एतस्मिन्। एषु दिवसेषु ज्ञातिजनानां कोलाहलैर्गायनवादननर्तनशब्दैर्जोगुञ्जितं गृहमिदं प्रस्थापितायां वध्वामधुना मथितचर इवार्णव: प्रशान्तायां झञ्झायां विपर्यस्तमिव वनमन्त:सुप्तझषसमुदायमिव महासर: प्रशान्तं प्रतिभाति। अव्यक्तवेदनाविकलेयं शान्ति: सन्धिवेलाया:। सम्पन्ने मङ्गलकृत्येऽमङ्गलाशङ्काऽन्तरैवोत्कायते। प्रभातवेलापि साशङ्का दूरत एव गृहमेनं परित्यजन्ती तिष्ठति। सद्य एवेदं प्रबुद्धं स्याद् गृहम्। पुनरपि प्रवहेज्जीवनप्रवाह:। अथ प्रचलिष्यति परावर्तनं सङ्गृहीतानां वितान-प्रतान-कटाहादि-परिच्छदसम्भाराणाम्। संहार आरप्स्यते निखिलस्याप्येतस्येतस्ततो विकीर्णस्य वस्तुजातस्य। पुनरपि प्रचलिष्यति लोकयात्रा। परापतिष्यति पुनरपि चिन्तानां सन्तति:। बद्धपरिकरो भविष्यति पुनरपि रोगजर्जर: शारदाया: पिता। इतरासां कन्यकानां सम्बन्धबन्धाय। पुनरप्यालोडयिष्यन्ति गृहमिदमाशङ्का आकुला: प्रश्ना: अट्टहासा उल्लासरवा रुदितानि हसितानि तानि तानि निगदितानि। साम्प्रतिकी शान्तिरियमस्ति केवलं सन्धिवेलाया:। अस्यामपि शान्त्यां नि:शब्दमिदं सहाहाकारं पृच्छति गृहमिदम्- इह करिष्यति न वा पदं पुनरपि शारदेति।