।। अथ प्रथमोच्छ्वास:।।
स जयतु हरिरिह वीरो दरीनिवासी यदीयगर्जनेन।
दरादरीणां प्राणा अद्यापि भवन्ति कण्ठगता:।।
सञ्जाते जनतन्त्रे नयविक्रमरहितनेतृजनतन्त्रे।
विक्रमचरितं दुरितं हरतु जनानां च कातर्यम्।।
यद्यप्यशनादिरसे रसना मग्ना भृशं मदीयाऽऽस्ते।
वशमेष्यति किन्तु कथा-कथनेऽभिनवरससंवलिते।।
तज्जीवनं वृथा यत् क्षपितं दैन्यै च दूषितं दुरितै:।
क्षुद्रैरभिभूतं वा कर्म विना यत् तथा नष्टम्।।
इत्थं स्मृते स्वलक्ष्ये सन्धार्य शिवं च मन:कक्षे स्वे।
विक्रमचरितं वक्ष्ये विलसितनूतनयुगाख्यानम्।।
आसीद् राढापुरानाम्नि वनग्रामे घूकरो नाम शूकर:। स खलु ग्रामाधिपस्य तिलकसिंहस्य सौधं निकषाऽतिसङ्कीर्णायां शूकरबाहुल्यात् ‘प्राधान्येन व्यपदेशा भवन्तीति न्यायेन शूकररथ्येति व्यपदिश्यमानायां रथविरहितायां रथ्यायां क्वचिन्मुग्धाभिरुद्भिद्यमानयौवनाभि: क्वचिन्मध्याभिस्तारुण्यकर्कशाभि: क्वचित् प्रकृष्टरसाभि: प्रगल्भाभिर्विविधविधघूत्कारध्वनिमनोहराभी रिरंसारमणीयाभि: शूकरसुन्दरीभी रममाणो मलमूत्रदिग्धायां पूतिबहुलायां नानाकृमिकीटदंशमशकादिविहारस्थल्यां स्ववसतौ तिलकसिंहस्य सतिलकाभि: सीमन्तिनीभिर्वधूभि: प्रतिदिनं प्रक्षिप्यमाणमुच्छिष्टमन्नादिकं तस्यैव पौत्राणामादिवसं हदिता नानारसभूयिष्ठा विष्ठा अश्नन् सुचिरमुवास। आसंश्चास्य काश्चन कालागुरुकल्पा अपि दुर्गन्धयुता: काश्चन कृष्णशारवर्णा अपि मन्थरगतय: काश्चन सिता अपि भुवि विलुठनाद् धूसरा: षोडशशूकरसुन्दर्यो भार्या:। स चासां मध्ये गवां मध्ये वृषभ इव विहरन् विविधविधविकृतविपरिणतपदार्थान् खादन् यभमान आदिवसं तूलगोलकसदृशानवरतशूकरीसुरतसमुत्पादितान् कृष्णशशानिव रमणीयान् स्वदारकान् शूकरशावकान् दर्शं दर्शं स्वपौरुषाभिमानित्वात् तृणाय सकलं जगन्मन्यमानोऽवगाह्यावगाह्य पङ्कगर्ते सुरसरिति स्नातमिव स्वात्मानं कलयन् भीमकान्तैर्नृपगुणैरनुजीविनीनां शूकरीणामतिवल्लभतां गत आत्मानं बहु गणयन्नात्मनैव स्वमवलम्बमानो मदावलेपेन महता पङ्कावलेपेन बहलेन चाविष्टोऽभूत्।
एकदा तु नातिदूरोदिते नवनलिनदलसम्पुटभिदि भगवति गभस्तिमालिनि शौचत्यागाय सौधपृष्ठद्वारमुद्घाट्य त्रिवर्षकल्पं स्वतनयं बहिरानयन्त्यां तिलकसिंहस्य कनिष्ठवध्वां तदीयलावण्यकर्षित इवासौ घूकरो नाम शूकर: सहसा किमर्थं नेदानीमतिमहसा प्रविश्यानावृतेनानेन पृष्ठद्वारेण सौधं हस्तगतं करोमि साम्राज्यमस्य तिलकसिंहस्य, स्वशूकरीप्रियाणां सपर्यायां नियोजनयाम्यस्य वध्व इति विचार्यानुचतु:शालं दुद्राव। दृष्ट्वा च तं तथा सरभसमापतन्तं सापि कनिष्ठवधूर्भयचकितं चक्षुश्चतुर्दिक्षु विक्षिपन्ती वेपमाना परिमृदितमृणालीकल्पैरङ्गैर्गोपाय्य स्वदारकं वक्षसि चीत्कुर्वन्ती परिस्खलन्ती परिधावन्ती गृहाभ्यन्तरमधावत्। दारकोऽपि तदीयो भयविसृष्टमलमूत्रस्तदङ्के चक्रन्द। श्रुत्वा चानयोश्चीत्कृतीर्गामाधिपस्तिलकसिंह:- 'अरे कुतोऽयमकस्मात् कोलाहल’ इति पृच्छन् स्वयमेव बहिराययौ, समं च समेता: स्वस्वकक्षेभ्यो बहिर्विनिर्याता बलिष्ठास्तस्य पुत्रा:। 'शूकर आगत: शूकर आगत’ इति स्खलदसमञ्जसमञ्जुजल्पितै: सूचयन्त्यां कनिष्ठवध्वां,- 'कुत: शूकर: कुत: शूकर’ इति कुत:कारैर्दिशो गुञ्जयन्तो निर्बलनिर्धनकृषकप्रताडनपीनान् स्वस्वलगुडानुत्थाप्योत्थाप्य ते परिवार्य घूकरं शूकरं निर्दयं प्रहरन्ति स्म। तिलकसिंहस्य ज्येष्ठ: पौत्र: परम उद्दण्ड: चतुर्दशवर्षदेशीय: चञ्चलश्चामुण्डारायेत्यभिधान: उत्थाप्य दण्डं ज्वलन्तं गृहजनानां स्नानाय जलमुष्णीकर्तुं प्रज्ज्वालिताच्चुल्लकात् तेनोल्मुकेन घूकरं प्राहरत्। सोऽपि घूकरो घूत्कारघोररव: प्रतिप्रहरणमात्मरक्षार्थं प्रधावन् प्रतिदिशं चङ्कम्यमाणो विनिर्गमाय पृष्ठद्वारमपश्यन् भयविह्वलो विस्रस्तगात्रो नि:श्वासनि:सहश्चकितश्चीत्कृतिभिर्नभो विदारयन्निव यथा कथञ्चित् सौधपृष्ठद्वारमवाप्य बहि: पलायित:।
विनिर्गते च तस्मिन् 'बालक एष किमर्थं शौचालयं न याति, किमर्थं शूकरमण्डल्या जुष्टायां रथ्यायामेव हदितुं प्रयाति प्रतिदिनम्, अस्माकं विष्ठा अश्नन्नुदिनमसौ शूकरोऽतिपीवर: सञ्जात: कदाचिद् भक्षयेदेनम्, इति धमत्कारैस्ते तिलकसिंहतनयास्तां कनिष्ठां वधूं भीषयन्ति स्म। सापि श्रावं श्रावं परुषरोषग्रथितानि जल्पितानि तेषा फूत्कृत्य रोदितुमारब्ध। क्रन्दतीं तामवलोक्य सानन्दा बभूव ननान्दा। नाम्ना निरुपमा ननान्देयं सर्वथा निर्गुणापि निश्चप्रचं निरुपमानतामभजत भातृजायाधिक्षेपकर्मणि। ज्यायस्यौ च भातृजाये तस्यास्तां कनिष्ठवधूं परिवार्य समाश्वासयन्त्याविव वस्तुत: परिहसत: स्म।’
इतश्च सौधपृष्ठद्वारात् सावमानं कच्चर इव बहि: क्षिप्तो भग्नास्थिपञ्जरोऽर्धमृत इव स घूकरोऽवस्करशय्यायां निपपात। तं तथा दैन्यमापन्नमवलोक्य सर्वा: शूकरवनिता: करुणं विलपन्त्य एनं परिवार्य तस्थु:। पट्टमहिषी तस्य शूकरचक्रवर्तिनो ज्येष्ठा भार्या कलङ्कवती सस्नेहं तं परामृश्य सपरामर्शं सप्रणयं मुहुः मुहुः पप्रच्छनाथ, किमिति किमप्यनालप्यैवं मृत इव निगीर्ण इव निराशया, जीर्ण इव जरया, विशीर्ण इव शोकेन, शेषे शय्यायाम्। एवं तु स्वज्ञातिभिर्विप्रलब्धा मानवा गच्छन्ति हताशतां न वयं शूकरा’ इति।
इत्थं च मुहुर्मुहु: प्रबोध्यमानोऽपि ताभि: षोडशभार्याभिरसौ घूकर: मन्दं मन्दं घूत्काररवमात्रं सकष्टं निरुद्धनि:श्वासनि:सहं स्वघोणया मुमोच, न किमपि निजगाद। तं तथा त्रपयाविष्टमश्रुपूर्णाकुलेक्षणं दृष्ट्वा कलङ्कवती तदङ्कमारोढुं समापतत: शूकरशावकान् साधिक्षेपं विनिवार्य निर्मक्षिकं कृतवती।
चिरं च तत्रावस्करराशावसौ घूकरो मृत इवाशेत। विविधा विचारास्तदीये मानसे परिदुद्रुवु:। - नाहं नर: कश्चन य एवं निराकृतोऽपि जीवेयम्। पश्यन्तीनां मम भार्याणां शूकरसन्ततीनां च तिलकसिंहतनयै: सर्वथा मनुष्यमारं मारितोऽस्मि। विष्टौ गृहीता अपि श्रमिका नेत्थं ताड्यन्ते। तत् किमनेन पराभवपराहतेन जीवितेन?- इति बारं बारं मनसि कुर्वन्नसौ नितरां लगुडताडनत्रुटितगात्रेषु पीडामनुभवन् कथञ्चित् तन्द्रया स्पृष्ट: स्वप्नमेकमपश्यत्। स्वप्ने च क्रूरदुर्दान्तशत्रुणा तिलकसिंहेन महतासैन्यसहितेन स्वात्मानमाक्रान्तमथ नानाशस्त्रप्रहारैर्धरायां निपातितं गतप्राणं चापश्यत्। स्वप्नेनानेन सर्वथा विच्छिन्नजीविताशो घूकरो नैराश्यमहागर्ते गतोऽतिकरुणं मन्दं मन्दं स्वघोणया घूदकरोत्। अथाकस्मात् स्वमुण्डे तुण्डे कपोले चातिकोमलं स्पर्शमनुभूय किमेतदिति चकित इव विस्फार्य चक्षुषी व्यलोकयत्। सम्मुखमासीच्छोडषशूकरसुन्दरीषु ज्येष्ठा कलङ्कवती करुणरसधारया स्नपयन्तीव तम्।
सेयं प्रथमपरिणीता कलङ्कवती स्वविशालभाण्डोदरस्य भूमिं स्पृशतो भारात् हस्तिनीव मन्दं प्रयान्ती, अञ्चितैर्गतागतैरिदानीमपि घूकरस्य मनो जहार। परन्तु दृष्ट्वा तां क्षणमसौ शोकविह्वल: पुनरपि सकष्टमुच्छ्वसन्नयने न्यमीलयत्।
अवलोक्येतादृशीं तस्य दीनदशां दूनहृदया कलङ्कवती शनै: शनैरतिकोमलया श्लक्ष्णया गिरा मन्दस्वरेणाह- 'नाथ, किमेतत्? उपस्थितो मध्याह्न:। गगनमध्यमारूढो दिनमणि:। आप्रात: किमपि न भुक्तं पीतं वा स्वामिना। अनादृत्य दैन्यं निरस्य नैराश्यमिदानीमुत्थीयताम्। सज्जा: सन्ति प्रणालिकातटे विविधाविधा प्रत्यग्रहदिता विष्ठापुञ्जाः। किमप्यश्नन्तु पिबन्तु च प्रणालिकाजलं येन भवतां स्थितिमेतादृशीं दर्शं दर्शं सीदन्तीनां सपत्नीनां मम च पतिव्रताया जीवनालम्बनं जायेत। वयमपि तावन्निवृत्ताहारे स्वामिनि पारणां कुर्म’ इति।
घूकरस्तु- भद्रे, प्रातरेव ग्रामाधिपस्य दुष्टतिलकसिंहस्यास्य दुर्दान्तैस्तनयैर्मनुष्यमारं मारितोऽस्मि। सीदन्ति मम गात्राणि। वेपथु: प्रजायते। परिशुष्यति मुखम्। घूर्णते शिर:। विचलति चेत:। असार: प्रतीयते संसार: काष्ठप्रायं च शरीरम्। न तथा बाधते लगुडताडितस्य देहस्य वेदना यथा मनुष्यविहितनिराकृतिवेदना। आस्तां तावत्। कुर्वन्तु भवत्य: सर्वा: कोमलाङ्ग्योऽनभिज्ञा: प्रायोपवेशनानां बाह्या एवंविधव्यथानां सर्वा अपि शूकरवनिता: स्वैरं साकमपत्यैराहारम्। परित्यज्यतामेकाकी चास्मिन्नवस्करपुञ्जे जनोऽयमिति।
श्रुत्वैतन्निर्वेदसमवेतं मर्मदारणं वचस्तदीयं कलङ्कवती साशङ्कं सासूयं च जगाद - 'नाथ, नश्यतु सदारापत्यस्तिलकसिंहोऽयम्। अस्य गोत्रान्वया: प्रणालिकाया दुर्गन्धमयं जलमपि मा लभन्तां पानाय का कथा स्नानस्य। अथवा - किमनेन नरपिशाचेन? वयं विहायास्य सौधपरिसरं ग्रामाद् बहि: पक्कणे वसतिं साधयिष्याव:।
घूकर: प्राह - तत्रापि चाण्डाला एकैकश: कवलीकरिष्यन्ति न:। एतेषां महाजनानां भीत्या ते इह नायान्त्यतो वयमिह निर्भयं वसाम:। तेऽपि श्ववराहकलहसमुत्पादिने निपुणा:। कलङ्कवती पपृच्छ-नाथ कोऽयं श्ववराहकलह:?’
घूकर आह - मांसाशनया चाण्डाला शूकरे शुनं मुञ्चन्ति। अथ यदि शूकर: बलवान स्यात्, सङ्घट्टेत शुना, घातयेच्च तम्, तर्हि ते शुनो मांसं पचन्ति। यदि श्वा एव हन्ति शूकरं, तर्हि स्वैरं स्वदन्ते ते शूकरमांसम्। अयमेव श्ववराहकलह:। भट्टिकाव्ये शास्त्रे चायं निरूपित:।
एवं हतजीविताशमिव निरपेक्षपरिवारमिव तमालपन्तं तमालकल्पं विषदिग्धं घूकरं निकषा स्थिता शूकरी कलङ्कवती सहसा फूत्कृत्य रोदितुं प्रवृत्ता। श्रुत्वा तस्या: प्ररुदितानि परिदेवनानि करुणाप्लुतानि च सम्बोधनानि शिष्टा अपि पञ्चदश भार्यास्तस्य घूकरस्य घूत्काररवविस्वरं रोदितुं प्रवृत्ता:।
एवं च भृशं प्ररुदतां तेषामवसितं दिनम्। अस्ताचलमारुरोह भगवान् भास्कर:। विहगाश्च शूकरसमाजरोदने सङ्गतिमिवाचरन्तस्तीव्रं कूजन्त: स्वकुलायान् शिश्रिरे। पार्श्वस्थो वटवृक्ष: प्रतिशाखं विपञ्चीर्वादयामास। शनैश्च कुलायेषु निलीना विहगा:। शूकरविहारस्थल्यां परिव्याप्तं गाढपङ्कमिव श्यानं तमोऽवततार धरणीम्। शनैर्निर्वातनिष्कम्पमिव समजनि तत् स्थलम्। झिल्लीनां तीव्रा झङ्कृतिर्मध्ये मध्ये मौनं विदारयामास। प्रज्ज्वलिता मृत्तैलदीपास्तिलकसिंहस्य सौधे। तैर्निस्सारितं तमो बहिर्निपपात्, निविष्टं च तत: शूकरसन्तते: कृष्णगात्रेषु। नालिकामुपरि दंशमशका मण्डलमारचयन्।
मध्ये मध्येऽभिभवन् झिल्लीनां झङ्कृतिं चक्रवाकानां च चीत्कृतिं परिहसन्निव शूकरघूत्कारध्वनिमुत्तस्थौ तिलकसिंहस्य वासगृहात् तदीयनासाध्वनीनां श्रवणभैरवो रव:। क्रमाच्च सुप्तेषु सर्वेषु शूकरशावकेषु, इतस्ततस्तन्द्रामनुभवन्तीषु शूकरीषु सूचीभेद्ये तमसि समुद्घाटितचक्षु: पलायनपथस्य दिदृक्षु: स्वप्राणरक्षाभिक्षु: तिलकसिंहसर्वनाशोपायं शिशिक्षु: दूरगतां कलङ्कवतीं प्रति तद्विषये विवक्षुर्घूकर: स्वकनिष्ठां भार्यां कृशोदरीं सपत्न्या कृष्णमुख्या सहालपन्तीं शुश्राव। उक्तवती कृशोदरी- 'सखि, स्वैरं विहृतं मया तेषु तेषु विच्छिलपल्वलप्रदेशेषु तरुणै: शूकरैरत एव प्रथमप्रणयसहचरोऽप्ययं घूकरो न सम्प्रति तथा मनोहर:। किं बहुना,
य: कौमारहर: स एव हि वरस्ता एव चैत्रक्षपा-
स्ते पूतिप्लवकर्दमप्रसरिता: प्रौढा: प्रणालानिला:।
सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ
पङ्कप्रायविशालपल्लवलतटे चेत: समुत्कण्ठते।।
अन्यच्च - तिलकसिंहतनया: कदाप्येनं घातयिष्यन्ति दुर्मतिं घूकरम्। सम्प्रति चातुर्थ्यमुपेतोऽयमुचितानुचितविवेकमपि विसस्मार रभसा सहसाद्य प्रात: प्रविष्ट: पृष्ठद्वारेण सौधम्। अतिकामुकोऽप्ययमस्मानेव षोडश सुन्दरीस्तर्पयितुमक्षमः किं तिलकसिंहस्य स्नुषाभी रन्तुमिच्छति मूढमतिः। यद् वा तद् वा स्यात्। अद्यैव सायं श्रुतो मया ज्येष्ठो भूमिपतिपुत्रो मानसिंहः सेवकानादिशन्-इमे शूकराः पृष्ठवर्तिन्यां रथ्यायां बहुधा मालिन्यं प्रसारयन्ति। सर्व इमे उत्सारणीया: श्व एव श्वपचानाहूय इति। अतो यावदियं न: स्वैरविहारस्थली नाक्रम्यते श्वपचैनोत्सार्यन्ते नीयन्ते वधाय सर्व इत: शूकरास्तावदेवावां द्वे शूकर्यौ पलाय्य द्रुतमित: प्रयाव’ इति।
श्रुत्वानयोर्लपितानि प्रवृद्धरोष: प्रगुणितनिर्वेदो मनस्यकरोद् घूकर:- अहो अस्या रण्डाया: कृशोदर्या: कौटिल्यं कृष्णमुखत्वं च तस्या: कृष्णमुख्या:! सेयं कैशोर्यसमये कदाचित् पक्कणे बलिष्ठाभिर्दुदान्ताभि: शूकरीभिराक्रान्ता मनुष्यमारं प्रहृता बभूव। तदा मयैवेयं रक्षिता आनीता चास्यां सुरक्षितायां रथ्यायाम्। सुरतसमागमेष्वियं मया सह सहस्रश आनन्दनिमीलितनयना तस्थौ। सशपथमियं शतशोऽभिव्यानक् स्वीयमनन्यनिष्ठं प्रेमाणम्। यद्येतस्या: शूकरचल्या एवं चित्तचाञ्चल्यमयं च विश्वासघातस्तर्हि मन्येऽवशिष्टा अपि पञ्चदश भार्या मम नास्या विशिष्टा:। स्वार्थपरिपूर्त्यै ता मया प्रसक्ता: नाकृत्रिमप्रेमरसाभिरामं रमन्ते। यद्वास्वार्थमयमेव सर्वं जगत्। न विद्यत इह निश्छल: स्नेहो, नास्ति निर्व्याजं प्रेम। श्रुतो मया सत्यनारायणकथां वाचयन् मध्ये मध्येऽन्यानि वचांसि निवेशयन् पण्डित इच्छाराम: श्लोकमिममुदाहरन् - आशया छ्लिष्यति जगन्नास्ति निष्कारणस्वता इति।
उक्तमेव महाभारते - अर्थस्य पुरुषो दासो ह्यर्था दासा न कस्यचिदिति। वस्तुत: सर्वमेव मिथ्या। तथोक्तं वेदान्ते - ब्रह्म सत्यं जगन्मिथ्येति। तर्हि किमर्थमस्मिन् प्रपञ्चे संसक्तोऽस्मि? पालयामि स्वधर्मम्। प्रव्रजामि वनम्। धर्मं शरणं यामि। धर्मो रक्षति रक्षित:। धर्म एव पशून् मनुष्येभ्यो विशिनष्टि। यदुक्तम्-
आहारनिद्राभयमैथुनानि
सामान्यमेतत् तु नरै: पशूनाम्।
धर्म: पशूनामधिको विशेषो
धर्मेण हीनास्तु नरै: समाना:।।
तत् किमर्थं न परित्यजामि जगादिदमखिलं, किमर्थं न निवेशयामि चञ्चलमिदं मन: परमतत्त्वे? अद्यैव प्रव्रजामि। उचितमाहुर्धर्मशास्त्रकारा: - यदहरेव विरज्येत् तदहरेव प्रव्रजेत्। तत्र यामि यत्र मम मम तपसि मनुष्या विघ्नं नोत्पादयेयुः। श्रुतं मया – ग्राममिदमभितो वरीवर्ति महाविशालं स्तैस्तैः पुष्करै: पल्वलैश्च युक्तं मानवैरगम्यत्वाद् दुर्गमनाम्ना ख्यातं वनम्। तत्र सन्ति बहूनि पङ्कमयानि सरांसि, येषु प्ररोहन्ति भद्रमुस्तादयो नाना औषधय:। तेष्वेव कस्मिंश्चित् पल्वले पङ्काढ्ये प्ररूढपद्मे स्वैरं मुस्ताक्षतिं कुर्वाण: स्वात्मनि विश्रान्त: सुखेन नेष्यानि कालम् इति।
अथ निशीथे प्रसुप्तासु षोडशशूकरसुन्दरीषु अवधूय मोहं छित्वा स्नेहपाशं घूकरो नाम स शूकरो जहौ ग्रामं जगाह च वनम्।
विनिर्गते तस्मिन्नस्तचन्द्रमिव नभ:स्थली शून्या निष्प्रभा च बभूव शूकररथ्या। अन्येद्युरेव घूकरप्रिया: शूकर्य: कान्तमपश्यन्त्य: करुणं विलपन्त्य इतस्ततस्तदन्वेषणायाहिण्डमाना: सशावका पथि पथि परापतन्त्य: क्रमेण तद्दर्शनं प्रति नैराश्यं गता: परित्यज्य शूकररथ्यां काश्चन क्षुद्रपल्वलतटे काश्चन चाण्डलवसतौ अपराश्चान्यस्मिन् प्रतिवेशे वसतिं कल्पयामासु:। शूकररहिताऽभवच्छूकररथ्या। तथापि तत्रत्यैर्मनुष्यनामधारिजीवैस्सा चिरकालं शूकररथ्येति नाम्नैव व्यपदेशमनीयत। शूकराणामभावे रथ्यायां तस्यां विष्ठाया उच्छिष्टान्नस्य दुर्गन्धबहुलमलानां च राशय: सञ्चिता अभूवन्। प्रोद्गता: कच्चरराशीनां पर्वता:। तेन सा रथ्या अपितु मलावस्कराणां दुर्गमव्यूह इव प्रतीयाय। शूरा एव तस्मिन् व्यूहे पद्धतिमन्विष्य सञ्चरणे क्षमन्ते स्म। नासापुटयुगलं करकर्पटेन अङ्गुष्ठाङ्गुलिभ्यां वा पिधायैव तत्र गतागतं कर्तुं शक्यते स्म। घूकरदत्तशापवशादसौ तिलकसिंहो वेश्यागामित्वात् एड्ससंज्ञकेन दुश्चिकित्स्येनासाध्यव्याधिना ग्रस्त: सद्यो ममार। तस्य तनया: सम्पत्तेर्विभाजनमधिकृत्य परस्परेण विवदन्त: न्यायालयेऽभियोगभाजस्तत्कार्यवशान्नगर एव निवासं कल्पयामासु:। शून्ये भग्नावशेषतां याते तिलकसिंहस्य सौधे कपोताश्चर्मचरा मण्डूका गण्डव: सर्पाश्च वसतिं चक्रु:। तत्पृष्ठवर्तिनी रथ्या केवलं प्रतिवेशस्य बालवृद्धवनिताभिर्मलत्यागायैवाप्रयुज्यत। अत एव बहो: कालादनन्तरं जना: शूकररथ्येति तदीयं नाम विस्मरन्त: हदनथ्येति तां कथयितुमारब्धवन्त:।
।। इति विक्रमचरित आख्याने प्रथम उच्छ्वास:।।