।। अथ द्वितीय उच्छ्वास:।।
अस्ति राढापुर ग्रामं परितोऽतिविस्तीर्णं तालतमालहिन्तालसमाकुलं वटनिम्बाश्वत्थाद्यधिष्ठितं खर्जूरै: प्रियालै: पनसैर्धवै: शाल्मलीभि: सङ्कुलं नामानुरूपस्वरूपं दुर्गमं नाम महावनम्। वनमिदं प्रशास्ति नाम्नैव जितारातिश्चरितेन दान्त: क्रान्तसमस्तजङ्गलजन्तुरिति पशुपतिरूपं दधान:, कश्मीर देश इव केसर विभूषित: कलिङ्ग इव साहसिक: गौड इव समररसिक: बङ्ग इव मसृणचरितो राजा विक्रमसिंह:। महाराजोऽयं विक्रमसिंहो गीतनृत्तवाद्यादिकलास्वबाह्य: विनोदचतुरो विदग्धोऽपि तेजसा प्रदीप्ताङ्ग इव विलक्षणोऽपि सुलक्षण: विभीषण इव श्रितारामो रसिकश्चासीत्। सदैव हास्यलास्यं तदानने ननर्त। प्रायशस्तदीयं सामोदमट्टहासं गर्जितमिति मत्वा बिभ्यन्ति स्म सुकुमारा जन्तव:। परन्तु हृदयेनासौ कोमल: कारुण्यपूर्ण: कलामर्मज्ञश्चासीत्।
तस्मिंश्च विक्रमसिंहे शासति दुर्गमवनं निर्भया विगतक्लेशा जन्तव: सुखं रेमिरे। सर्वमुपपन्नं निरामयं च तत्राभूत् यावन्न घूकर: शूकरस्तद् वनं जगाह।
स तावद् घूकरोऽर्धरात्रे प्रव्रजितो राढापुरग्रामाद् विहाय सुखमयसंसारं क्रमाद् ग्रामरथ्या अतिक्रामन्नुपशल्यमुपेतस्तुण्डमुत्थाप्य वातमाघ्रातवान्। तत्क्षणं शुद्धसमीरेण नासापुटप्रविष्टेनाघूर्णत तच्छिर:। - 'अहो कुत्र समेतोऽस्मि, नास्त्यत्र राढापुर इव पुरीषसम्पर्करम्य: समीर:। न जाने कस्माद् रसालकुञ्जात् कस्या जम्बूवाटिकाया समायान्तीमे चम्पकयूथिकापाटलादिघृणितदुर्गन्धमूर्च्छिता मर्मदारणा भ्रमिमरतिमलसहृदयतां तम: शरीरसादमतितरामुत्पादयन्तस्तीक्ष्णगन्धा गन्धवहा:। किं करोमि, क्व यामि इति मनसि कृत्वासौ आत्मनैवात्मानवमलम्ब्य द्रुतं तत: प्रचचाल। ततोऽप्यग्रे घनं वनं गाहमानस्य तस्य चेत: समधिकमुद्वेजयन्ति स्म असनशिरीषपारिजातादिवासिता मलयवाता:। - ‘आ: सर्वथा मूर्च्छां नृत्युं च प्रापितोऽस्म्येभिर्विचित्रकुसुमदुर्गन्धदूषितैर्वातैरिति प्रलपन्नितस्ततोऽटाट्यमान: कथञ्चिदर्धशुष्कं कर्दममयं पल्वलमेकमासमाद। तत्र च प्रचुरबहलं कदमं गाढमवगाह्य सुखं सुष्वाप।
अथ प्रभातायां रजन्यां कवोष्णैर्भास्करकरै: प्रबोधितोऽसौ उपोषितत्वाद् गाढस्वापाच्च सन्धुक्षितबुभुक्ष: पल्वले प्रचुरकृमिकीटसङ्कुले मुस्ताक्षतिमारब्धवान्। क्रमेण च निस्तीर्णबुभुक्ष: पल्वलस्य भद्रमुस्ताद्यौषधानां कवलीकरणादात्मनि। महद्बलमनुभवन् विश्वस्त: ससंरम्भं वनेऽटाट्यायै विनिर्ययौ। तुण्डे मुण्डे उदरे पादेषु च पल्वलस्य बहलकर्दमलिप्तत्वात् तद्गन्धेन नासिकायां व्याप्तत्वान्न प्राभावयत् तं मलयानिल: चन्दनादिवृक्षसंस्पर्शरम्य: समीर:। अतिकृशचरणै: पृथुलकायस्य महद्भारमुद्वहन् शनै: शनैरसौ सञ्चचार। सहसा च सम्मुखमापतन्तं किमपि हिंस्रसत्त्वमवलोक्य भयस्तब्धगात्रस्तस्थौ।
सम्मुखमासीदस्य घोरं चीत्कुर्वन्नामिषलोभेन क्रकचसदृशीं दन्तपङ्क्तिं प्रकटीकुर्वन् काल इव क्रूरो यमदूत इव मृत्युसंवादवाहको दन्दशूको नाम वृक:। दृष्ट्वा च तं घूकर: पदात् पदमपि गन्तुमशक्नुवन्, कम्पमानैश्चरणै: परावर्त्य धावनेऽसमर्थो शकृन्मूत्रमुसृज्य जोषं स्थित:। अचिन्तयच्च- 'अहो कोऽप्ययं महाविकरालो मुखं व्यादाय सम्मुखं समायाति वृक:। बुभुक्षितोऽयं प्रतिभाति, मदीयपिशितैरेवाभीष्टास्य क्षुत्पूर्तिरिति मन्ये। किं करोमि, हा प्रिये कलङ्कवति कालकवलित इदानीं भवति ते हृदयवल्लभ:। हा शूकरचलि कृशोदरि, सम्प्रति सुखं विहर रमस्व च। हा स्वैरिणि कृष्णमुखि, स्मर्तव्या वयम्’, इत्थमतिकष्टं सकरुणं मशकरवसदृशं पिन्-पिनेति स्वरेणासौ व्यलपत्।
दन्दशूकस्तु- अरे शूकर! कुतस्त्वमत्र वने प्रविष्ट:, वैदेशिक इव प्रतिभासि, न जानासि दुर्गममिदं वनमशक्यं त्वादृशै: क्षुद्रजन्तुभिश्चरितुमिति सगर्जं सतर्जं व्याहरन् घूकरं प्रत्याक्रमणाय बद्धालीढस्तदनुसोत्फालं सझम्पं तदुपरि निपपात। परन्तु घूकरस्यातिगाढपङ्कलप्रलेपं भेत्तुं नाशक्नोत् तस्य पञ्चकं पल्वलपङ्कस्यातिचिक्कणत्वादसौ दन्दशूकस्तत्र स्खलितमात्मानं भुवि पतितमविन्दत। समं च भयविह्वलो विननाद तारतरक्रेङ्कारविस्वरं घूकर:। तदीयनादं विजयसिंहनादमाकलय्य वेपमान: सहसाऽपलायत दन्दशूक:। घूकरस्तु- 'अरे किमिति मां कवलीकर्तुमुद्युक्तोऽपि बलवत्तरोऽपि तीक्ष्णनखदन्तमयोऽप्यसौ वृक: सहसा प्रणष्ट इति चिन्तयन् किमपि रहस्यं ज्ञातुं न प्राभवत्।
सर्वमिदं वृत्तं चतुरिका नाम लोमशिका लताप्रतानजवनिकापृष्ठे निलीना प्रत्यक्षीकृतवती। सा तु कथमसौ दन्दशूक: शूकरादमुष्माद् भीत: पलायित: किमत्र रहस्यमिति कौतूहलविद्धहृदया शनै: शनैश्चकितचकितं सावधानं दूरादेव घूकराभिमुखी प्रोवाच - 'अहो प्रतापो भगवत:। येन दर्शनमात्रेणैव भीत्या पलायितोऽसौ वृको वराक:। स्वामिन्नस्य काननस्य चक्रवर्तिनो विक्रमसिंहमहाराजस्य विक्रमैकरसस्य केसरिण: प्रमुखसचिव- भूतेयं चतुरिका प्रणमति श्रीमन्तम्। नूनं भगवतो वराहस्यावतारभूतो भवान्। नूनमस्माकं स्वामी विक्रमसिंहमहाराजोऽपि भवतां दर्शनं प्राप्य कृतार्थ: स्यात्।’ इत्युक्त्वा प्रत्याशया प्रत्यभिमुखी प्रणामाञ्जलिं विप्रकृष्टस्थैव समर्प्य विरराम। घूकरस्तु - अरे किमनयाऽभिहितं किं च मया प्रतिविधेयमित्यजानन् क्षणं घूत्काररवं विमुच्य जोषं तस्थौ। तदीयं घूत्कारं स्वीकारं जनन्ती चतुरिका सचातुर्यमवादीत्- ''धन्या वयं यत् स्वीकृत: स्वामिना प्रथमोऽस्मत्प्रणय:।’’ इत्युक्त्वा सा दृष्टिपूतं पादं निक्षिपन्ती किञ्चिदुपासर्पद् घूकरं, तत्क्षणं च शूकरशरीरसमुत्थितेनाशुचिना दुर्गन्धेन भिन्ननासापुटा दत्तनवनस्येव गृष्टि: समधिकं सूँ-सूँ शब्दं कुर्वन्ती स्तब्धेव, लिखितेवोत्कीर्णरेखेव तस्थौ। घूकरस्तु तामुपसर्पन्तीं प्रेक्ष्य दन्दशूकवृकइवेयमपि कवलीकर्तुमुपैति मामिति मन्वान: सभयं कूँ-कूँ ध्वनिं कुर्वाणो द्वित्राणि पदानि पृष्ठे प्रास्खलत्। अथ तां तथाभूतां निश्चेष्टामवलोक्य - 'भद्रे, क्लान्तोऽस्मि, श्रान्तोऽस्मि, अस्नातोऽस्मि, गच्छामि सम्प्रति पल्लवमवगाहनाये’ति कथयित्वा प्रथमं सचकितं शनै: शनैस्तदनु द्रुतं तदेव स्ववासं कर्दमकीर्णं पल्वलमाजगाम, पङ्कमवगाह्य च नि:शङ्कं सुप्त:।
इतश्च चतुरिकानाम सा लोमशिका- अहो, कीदृशोऽयं जन्तु: सुन्दरवनं समागत:, कथमितो निस्सारणीय उत्सारणीय उत्थापनीयो वेति विमृशन्ती राजसभामियाय ददर्श तत्र सुन्दरवनशासनमत्रासनं विहितसुस्थिरासनं भीमकान्तैर्गुणैरन्वितं रम्योज्ज्वलदर्शनं मन:कर्षणं ज्योतिर्वलयपरिवारिताननं पञ्चाननं विक्रमसिंहं राजानम्। परिवार्य च तं तस्थुस्तदानीममात्यास्तस्यविष्कम्भो नाम व्याघ्र: कुम्भो नाम गज: निकुम्भो नाम गण्ड: उपरि सहकार वृक्षं च महामात्यो दूरदर्शी नाम शुक:।
लोमशिका तु नाम्नैव जितारातिं, राजसिंहमपि छत्रचामरविहीनं पशुपतिमपि चिताभस्मशून्यं निहतगजारिमपीभचर्मरहितं प्रतिक्षणं शत्रुविमर्दनशीलमप्यजातशत्रुं भीषणमपि रम्यमेकाननमपि पञ्चाननम् अतुलितपरबलधामानमपि तुलितपरबलधामानं प्रलम्बकेसरमप्यनास्वादितकेसरं तं चक्रवर्तिनं दूरादेव प्रणम्य तस्थौ। सोऽपि विक्रमसिंहोऽसम्भ्रान्तस्तामसम्भ्रान्तकुलजातां तथा सम्भ्रान्तामवलोक्य लोमशिकां सविनोदं नोदितखेदमनुयुयोज- 'अयि चतुरिके, किमिति सद्योविहितपुरुषसम्पर्केव पुरन्ध्री भीतेव चकितेव लज्जितेव कम्पमानेव दृश्यसे। अद्यापि स्तनवेपथुं जनयति ते श्वास: प्रमाणाधिक:। शोच्या च प्रियदर्शना च मदनक्लिष्टेव संलक्ष्यसे। तत्कथय किमत्याहितम्?’ इति। चतुरिका प्राह- 'देव, कश्चनातिविचित्रो जीव: शूकराकृति: परमहंस इव परमलीनोऽपि तेजसावृतो मया सद्यो व्यलोकि, येन स्पृष्टमात्रो भीत्या पलायितो वृको दन्दशूक:। प्रत्यक्षीकृतमेतन्मया। कथञ्चित् कृतसाहसा वराहावतारविष्णुमिव विहितशूकरवेषं पृथिव्युदधारकर्दमक्लिन्नं तं महात्मानममहमुपसर्प्यालपितवती। स तु क्षुद्रामपात्रीं मां मत्वा अदत्वा प्रतिवचो यथागतस्त्थागत:।’
विक्रमसिंहस्तु विक्रमैकरस: रावण इव पशुलोकविद्रावण: नित्यनवीनशत्रुगवेषणाहितमतिरनवरतयुद्धाभ्यासबद्धपरिकरो लोमशिकाया विज्ञापितं श्रुत्वा मनस्यकरोत्- 'अहो कोऽप्येष वीर: पशुर्नवावतारं विहितवान् वनेऽस्मिन्। का चिन्ता? मया तेन सम्मर्दं विरचय्य पूरणीयं वीरव्रतम्। यदि सत्यमसौ वराहावतारतर्हि तेनसह सम्मर्देन प्राणत्यागे ममाक्षय्या कीर्तिर्मुक्तिश्च। यदि सामान्य: कश्चन पशुस्तदापि तं हत्वा प्रसारयिष्याम्येव स्वप्रभावम्। तदुक्तं भगवता श्रीकृष्णेन- 'हतो वा प्राप्स्यसि स्वर्गं हत्वा वा मोक्ष्यसे मही’ मिति। महाकविरप्याह- 'वरं विरोधोऽपि समं महात्मभि’ रिति। यद् वा तद् वा भवतु यशस्तु न परिहातुं दास्ये। युक्तमुक्तं महाकविना- 'यशस्तु रक्ष्यं परतो यशोधनै’रिति।
इत्थमूहप्रत्यूहविनिक्षिप्तमनसि विक्रमसिंहे सझम्पं सचीत्कारं विष्कम्भो नाम व्याघ्रोऽवादीत्- देव किमित्युदास्यते? कोऽयं शूकर: क्व वयं परमचक्रवर्तिनस्तव किङ्करा:? अहं वा निकुम्भो वा यो वा कोऽपि तमद्य वा श्वो वा परश्वोवाऽवश्यं विनाशयिष्यति। तदलं चिन्तया।’
श्रुत्वैतत् स्वरचनापाटवप्रदर्शनावसरं प्रतीक्षमाणो मयूरकवेर्वंशजोऽहमिति सदैव स्ववंशकीर्तिसमुद्घोषगर्वितो कुकविरपि शिरोमुकुटस्य बर्हाणां च विचित्रतया राजकविपदं लम्भितो मधुरेशो नाम मयूर आह- महाराज, चिन्तामधिकृत्य चिन्तापनोदिनी मनोविनोदिनी कवितैका दासेनानेन सद्य एव रचिता। तस्या: पद्यमेकं श्रीमच्चरणपद्मयोरर्पयामि। श्रूयताम्।’’ इति कथयित्वा गलनलपरिष्कारायादौ दिवास्त्रि खिच्-खिच्-ध्वनिं कण्ठान्निस्सारयामास। तदनु काव्यस्मृतिं निरूपयामास।
एतदवस्थं तं दृष्ट्वा धूम्राज्ञो नाम पुंस्कोकिलो विहसन्नाह- अरे चिन्तामधिकृत्य लिखितस्य काव्यस्य पाठात् प्राक् किमिति स्वयमेव चिन्ताचकितचित्त: स्थितो भवान्? यदि श्रावयितुमिष्यते तच्छ्राव्यतां, नो चेत् प्रकृतमनुसराम:।’
-श्राव्यतां श्राव्यतामित्यपरे जन्तवो नेदु:। मधुरेशस्तु पुनरपि द्विस्त्रिर्गलनलेन खिच्खिचं कृत्वा प्राह- देव श्रूयताम्।
चिन्ता चैव चिता चैव नैव तुल्ये कदाचन।
एका दहति गात्राणि त्वन्या गात्रं च मानसम्।।
श्रुतमात्रेणैवार्थमविचार्य वल्लाहेति केचित्, साधु- साध्वित्यपरे, वाह-वाहेत्यन्ये, शोभनं शोभनमिति च तथान्ये तत्काव्यमुपहासध्वनिभि: ब्याजस्तुतिमिव प्रयुञ्जाना: प्रशशंसु:।
खर्वो नाम वेसरस्तु- 'अन्यच्छायायोनि: काव्यमिदम्। पुनश्चोत्तरार्धे 'तु’- प्रयोगोऽधिकपददोषमुत्पादयतीति यावत् विनिन्दति मधुरेशपठितं श्लोकं तावच्चतुरिका प्राह-आस्तां तावत् काव्यचर्चा। तस्याद्भुतजन्तुन: किं विधेयमिति प्रकृतमनुस्रियताम्।’
निकुम्भो नाम गण्ड:, प्राह- किमत्र विधेयम्। सज्जीभवतु सैन्यम्। अभिषिच्यताम् सेनापति:। क्रियतां प्रस्थानम्। अद्यैव तं विचित्रजन्तुं समरसम्मर्दे विनाशयाम:।
श्रुत्वा अनल्पदम्भसम्भृतं तस्य जल्पम् 'इत्थमिमौ विष्कम्भ- निकुम्भौ स्ववावदूकतया राजानं वशीकुर्यातामिति विचार्य प्रत्याख्यानपरायण: शनै: शनैर्विचारगर्भसुन्दरं गम्भीरं मर्मावगाहनमिव निजगाद कुम्भो नाम गज:- देव, कामं लघ्वी मात्राऽयं जन्तुस्तथाप्ययुक्तं प्राकृतमपि रिपुमुपेक्षितुम्। प्रथमं कोऽयं कीदृशोऽयं कुतस्त्योऽयमिति चारान् प्रयुज्य ज्ञायताम्। युक्तमुक्तं नीतिशास्त्रे- 'राजानश्चारचक्षुष’ इति।
श्रुत्वा तस्य वच: एवं क्रियतामिति सर्वे तदभिननन्दु:। विक्रमवीरस्तु सर्वदा सर्वकार्येषु निर्णयाय प्रधानामात्यमुखापेक्षी अधिसहकारं संस्थितं संस्थितमर्यादं सदैव सत्कृत्येषु सहकारतत्परं शुकं दीर्घदर्शिनमुत्तोल्य चक्षुषी ददर्श। मम मन्तव्यं राजा ज्ञातुमिच्छतीति सोऽपि सविवेकमाह- यथा चतुरिका वदति तस्माज्जन्तोर्भीतो दन्दशूको वृक: पलायित:। तर्हि प्रथमं दन्दशूक एवाकार्य प्रष्टव्य:- कस्माध्धेतोरसौ बिभाय, कश्च तस्य तथाकथितविचित्रप्राणिन: प्रभाव: को वा महिमेति।
तत्क्षणं राजादेशेन पिशुनो नाम जम्बुको विकटो नाम वानरश्च दन्दशूकान्वेषणाय प्रचलितौ। लब्धश्च ताभ्यां क्वचन वनविडालस्य ह्यो निहतस्यास्थिशकलं चर्वयन् जम्बूनिकुञ्जपरिसरे दन्दशूक:। राजाऽऽकारयतीति श्रुत्वा भयात् तस्य हस्ताभ्यां शुका उड्डीना:। सभयं साशङ्कमयं दूतद्वयेन प्रचचाल। मार्गे किमिति मह्यं कुप्यति राजा, किं वाऽपराद्धं मयेति पृच्छति तस्मिन् पिशुनो लवणमरिचमिश्रणं विधाय शूकरवृत्तान्तमस्मै प्रकटयत्। दन्दशूको व्यचारयत्- यदि पङ्कदुर्गन्धजुगुप्सयाहं तं शूकरं परिहाय प्रचलित इति यदि वक्ष्ये, तर्हि सर्व उपहसिष्यन्ति माम्, अतो यथा चतुरिका अन्यथेव शूकरापसदं विषयीकृत्य घटाटोपं घटितवती, अहमपि तथैव मायाजालमेवावलम्बयामीति।
अथ पिशुनविकटाभ्यामानीतं कृतप्रणामं तं विक्रमसिंहोऽपृच्छत्- दन्दशूक, सत्यमाचक्ष्व। श्रुतमस्माभि: कस्माच्चिज्जन्तोस्त्वं भीत: पलायित:। अपि सत्यमेतत्?
दन्दशूक उवाच- देव, नाहं प्राकृतेभ्योर्जन्तुभ्यो बिभेमि। विमर्दयामि वनविडालान्, चूर्णयामि कुक्कुरान्, निहन्मि महिषान्, विपाटयामि हरिणान्। किं बहुना वराहानपि तृणाय मन्ये। परं कोऽप्यसौ धूमकेतुरिव भयदो महसत्त्वो विचित्र एव जन्तु: सहसा सम्पतितो नयनयोरग्रे। तत्तेजसा मुद्रिते मे नयने। तथापि सहसा सञ्चितसमस्तसाहसस्तमहमाक्रान्तवान्। परन्तु स्पृष्टमात्र एवासौ मां राम इव मारीचं सदयमेव प्रेरितेन चपेटापातमात्रेणैकेन क्रोशार्धदूरमक्षिपत्। श्रुत्वा देव: प्रमाणम्।’ विक्रमसिंहस्तु- 'प्राकृतेतरपराक्रमसम्पन्नोऽयं प्रतिभाति जन्तु:। द्वन्द्वयुद्धेऽयं मया निपातनीय उत मैत्रीभावप्रस्तावपुरस्सरं स्नेहभाजनं विधेय इत्यत्र चिन्त्यम्। किं कथयति प्रधानामात्य:।’ - इत्युक्त्वा तरुशाखासंस्थितं दूरदर्शिनं ददर्श।
दूरदर्शी तु - अकारणमेव विग्रहं नोचितं मन्ये। पूर्वं साम प्रयोक्तव्यमिति निगदन्ति नीतिकारा:। सन्धि-विग्रह-यानासनादिषाड्गुण्येऽपि सन्धिरेव श्रेयान्। पूर्वमेव चतुरिका तमालपितवती। स चास्या वचनमुपेक्ष्य स्ववसतिं जगाम। अत इदानीमस्मासु कश्चन तं सत्त्वं महानुभावं समुपेत्य साम्ना दानेन भेदेन भीत्या वा वशीकृत्येहानयेत् चक्रवर्तिनो वशवर्तिनं विधायेत्याह। श्रुत्वा विक्रमसिंह: प्राह- 'चतुरिकैव किमर्थं न गच्छेत्। इयं तं जन्तुं जानाति। इयं तेन दृष्टपूर्वा। इयं तं परिचिनुते। सोऽप्येनां परिचिनोति। उभयोस्तारामैत्रकं जातम्। यदि वार्ता न जाता प्रीतिवार्ता सापि भविष्यति। इयं सत्यमेव चतुरिका। जानातीयं सभ्रूभङ्गै: प्रणयवचनैर्यं वा कं वा प्राणिनं वशीकर्तुम्। अथवा किं भणति चतुरिका।’
श्रुत्वा सलज्जमधोमुख्यां लज्जारुणायां स्मयमानायां चतुरिकायाम् 'अयि वासु, सत्यं परिहसितासि विदग्धेन महाराजेन,’ 'अयि चण्डि, किमिति जोषं स्थितासि,’ अयि सुभ्रु! किमपि लज्जया जडीकृतेव, त्रपया त्रस्तेव, सङ्कोचेन सङ्कुचितेव, नतेव विनतेव दरीदृश्यसे।- इति सर्वे प्राणिनश्चतुरिकामुपजहसु:। अपरे च - ''अहो चक्रवर्तिनश्चातुर्यं यद् दूरदर्शिनाप्यदृष्टं राजनीतिसारं समुन्मीलितमव्याहतज्योतिषा चक्षुषा, अहो वचनपाटवमहो वैदग्धी चाहो वैदुषी चाहो शेमुषी अहो असदृशी मतिरहो असाधारणी धृतिरिति शतकृत्वमहोकारपुरस्सरं विक्रमसिंह प्रशशंसु:। तत्क्षणं पर्वतोपत्यकागुहाश्च तेषामहोकारशब्दं प्रतिध्वनिभिर्विडम्बयाम्बभूवु:। दूरदर्शी तु राजानं नमस्कृत्यापृच्छ्य च तूष्णीं तत उड्डीय स्वनीडं संश्रितवान्। विक्रमसिंहश्चाह चतुरिकाम्- 'चतुरिके, गम्यतामसौ जीव:। साम्ना च प्रबोध्य:। उच्यतां चास्मद्वचनात्- भद्र, दुर्गमवनसम्राडसौ सौहार्देन त्वामाह्वयति राजसभायामुपस्थातुमिति। किं बहुना- 'स्नेहाच्च बहुमानाच्च स्मारये त्वां न शिक्षय’ इत्यप्यन्ते निवेद्यमिति।
अथ विसर्जितायां राजसभायां गमनप्रणामलालासानां प्राणिनां सम्मर्देन कोलाहलेन प्रकम्पितमभूत् तत् स्थलम्। तेन च निखिलां धरित्रीं बिभ्राणो भगवानन्त: सहस्रफणेष्वन्यतमे मनाक् कण्डूतिमन्वभूत्। प्रतिष्ठिते च राज्ञि ससम्भ्रमं प्रचलतां व्याघ्रभल्लूकशृगालादीनां तत्पादाघातसमुत्थितो रेणुरुथायाच्छादयन् रविमण्डलं रचयन् सूर्यास्तसमयं स्वर्गे चेन्द्रसभायां प्रनृत्यन्तीनामुर्वशीप्रभृतीनामप्सरसां पीनपयोधरेषु निपपात नि:शङ्कं च विवेश देवानां नासापुटेषु येन च सहसा प्रतिश्यायपीडामनुभवतां त्रयस्त्रिंशत्कोटिदेवानां क्षुतैर्दोलायिताऽमरावती। तन्नासिकानि:सृतैर्विप्रुड्भि: सहसा पूगस्थूलै: पृषन्तिभिरिव वियद् ववर्ष। ताश्च वर्षा: दुर्गमवने कर्दमं रचयन्त्य: तस्मिन्नपि पल्लवे पेतुर्यत्र सान्द्रपङ्के घूकर: शूकरस्तन्द्रामन्वभूत्। दिव्यनासाद्रववर्षाभिरसावुच्छ्वसित: सन्तर्पित: पुनरपि सञ्जाते श्यानतरे पङ्केऽविरलमवगाह्य ससुखं सुष्वाप।
।। इति विक्रमचरित आख्याने द्वितीय उच्छ्वास:।।