।। अथ तृतीय उच्छ्वास:।।
अथ सहसा 'विजयतां देव:, विजयतां महाराज इति कोमलशब्दै: प्रबोधितो घूकरो मनस्यकरोत्- 'अये किं नु स्वर्गे साम्प्रतमप्सरस: स्तुन्वन्ति माम्?’ इति। पुरोवर्तिनस्तडागादागच्छन्तं सरससारसक्रेङ्काररवं गन्धर्वगणोदीरितजयजयकारध्वनिं मन्वानो मूढोऽसौ पुनरपि हर्षनिमीलितनयन: क्षणनिद्रामन्वभूत्। चतुरिका तु मुहुर्मुहुर्मङ्गलशब्दै: प्रबोधयन्त्येनं विचारयामास- 'सर्वथा दुर्गमदुस्तरमलपङ्काविले पल्वले शयानो बीभत्सोऽयं जन्तुर्न मदीयमाह्वानं श्रोष्यति। किं करोमि- कथं प्रबोधयाम्येनम्। ननु पल्वलतटप्ररूढे कपित्थवृक्षे शाखासु शाखासु कूर्दमान: पारच्चरो नाम वानरो मया प्रार्थितोऽवश्यं साहाय्यं कुर्यात्। इत्थं मनसि निर्धार्य सा पाटच्चरं प्रोवाच- भद्रं, समायाताहं राजाज्ञया। आकारणीयो मया पल्लवे शयानोऽसो जन्तुः। नासौ मुहुर्मुहुः शब्दापितोऽपि शृणुते। अत: कथञ्चित् प्रबोधयैनमिति।’
श्रुत्वा च पाटच्चरोऽवचित्यावचित्य कपित्थफलानि लक्ष्यं बद्ध्वा घूकरे प्राक्षिपद्, येषां क्वचन कपाले क्वचन तुण्डे क्वचिच्च पृष्ठे प्रहारेणोद्वेजित:- किं गन्धर्वाणामप्सरसां च मत्कृते विहिताभि: स्तुतिभिरीर्ष्याकषायित इन्द्रो वज्रप्रहारैर्मा तुदति, किं वा इहापि स्वर्गे समायातास्तिलकसिंहस्य दुर्दान्ता: पुत्रा इति चिन्तयन् सहसा पङ्कराशेरुत्थायासौ परित: पश्यति- न तत्र गन्धर्वा अप्सरस इन्द्रो वा, न वा तिलकसिंहस्य पुत्रा अपितु कपित्थफलैस्तं प्रहरन्नुपरि दृष्टिपथमागात् पाटच्चरो वानर:।
तत्क्षणममर्षसन्धुक्षितो घूकरो घूङ्घूङ्कार पुर:सरं कपित्थवृक्षमुद्दिश्याधावत्। पाटच्चरस्तु दृष्ट्वा तं सरभसमायान्तं खीङ्खीङ्कारै: पुन: पुनस्तं परिखेदयन् दन्तावलिं प्रदर्शयन् सम्प्राप्ते घूकरे कपित्थवृक्षमध: पुरीषं मूत्रं च तन्मस्तके विससर्ज। महामस्तकाभिषेकेनानेन प्रशान्तक्रोध: परमाह्लादमनुभवन् घूकर: क्षणं तत्र सोच्छ्वासं जोषं धृततोषं स्थित:, यावच्चतुरिकापि सकौतुकं सहास्यं प्रत्यक्षीकृत्य पाटच्चरपाटवं निभाल्य च शूकरकर्मकौशलं दूरादेव जय-जय-कारैस्तं सम्बोध्य दन्तपङ्क्तौ शूकशिखाया: संसक्तत्वात् जिह्वया तन्निस्सारणाय दन्त्याक्षरबहुलां भाषां प्रयुञ्जाना बभाषे- 'स्वामिन्! सुन्दरवनस्यास्य सर्वे सत्त्वशीला: श्रीमतामत्र समागमनेन सम्प्रीता:, स्वयमेव स्थानस्यास्य सम्राट् श्रीमन्तं सभ्यत्वेन स्वसभायां सभाजयितुं समुत्सुक:। अत: स्वीक्रियतां समीहाऽस्माकम्।’
घूकरस्तु देवानां नासाद्रववर्षया स्नपित इदानीमपि तज्जन्येन मदेन घूर्णमाननयन: पाटच्चरविहितकपित्थफलप्रहारेण रुजमनुभवन् समं च स्फुटितानां कपित्थानामम्लरसगन्धेन समधिकमुन्मादितोऽधरोष्ठयो: क्षतत्वादोष्ठ्यवर्णविवर्जं व्याहरत्- 'चिरण्टि, चेतश्चेखिद्यते तेऽनेन कथनेन अहन्तु कासारस्यास्य राजा। न कुर्वेऽन्यस्य राज्ञो दर्शनानि।’ इत्युक्त्वा पुनरपि पङ्काधितलं गर्तं प्रविविक्षुर्गमनदिशि चक्षुर्व्यापारयामास।
श्रुत्वास्य पावकमिव दाहकं वचनविन्यासं चतुरिका क्षणं विस्मृतचातुर्याऽन्यत् किमप्ययं वक्ष्यतीति प्रत्यवेक्षमाणा तस्थौ। घूकरस्तु- किमर्थं नेयमिदानीमपयाति भद्रेति तां विद्रावयितुं घूङ्-घूङ्-शब्दमकरोत्। कपित्थवृक्षस्थित: पाटच्चरश्च वृत्तमिदं प्रेक्ष्य खीङ्-खीङ्- ध्वनिसमन्वितं जहास। चतुरिकापि पुन: पल्वलपङ्कावगाहनाय प्रचलितं प्रेक्ष्य घूकरं तत: प्रचचाल विचारमग्ना। आसीच्चास्या मनसि- यद्यसौ सामान्य: कश्चन शूकरस्तर्हि किमेतेन जुगुप्सितजीवितेन, आस्तां तत्रैव घृणितमलपङ्काविले पल्लवे। अथ यदि कश्चन छद्मवेषधृक् महद्विभूतिमत्सत्त्वं प्रच्छादितात्मतत्त्वं दुर्गमवनमवतीर्णं तर्हि महदिदमाशङ्कास्थानम्- इति शङ्कातर्कविचारवीचिनिचये सा सन्तरन्ती मुहु: पाथोधौ प्रचचाल विक्रमनृपं प्राप्य नो निश्चयम्।
मार्गे ताममिलत् काम्बुकण्ठो नाम शृगाल:। कथमियमनवेक्ष्य मां किमपि ध्यायन्ती याति चतुरिकेत्यसौ मार्गे निरुध्य तां, सदैव प्रतिश्यायपीडितत्वात् स्फुरन्नासिकाविहित सूँसूँकारपुरस्सरमनुस्वारबहुलां पृथुलां पुष्पितां च वाचमुदाजहार- सुमुखि किं किं किं दृष्टिपथमपि परिहरसि न:। क्व क्व क्व गतास्ते नर्मालापा:, तानि रहस्यवचांसि रहसि कथितानि, तानि मम नवलनामाक्षराणि त्वन्मुखोदीरितानि, तानि रभसविलसितानि, मयासह कृतानि गतागतानि, ललितानि च तानि तानि मञ्जुभाषितानि यानि अभिमतानि ते च मे चासन्निति। स्मारं स्मारं तानि सहवासदिनानि दर्शं दर्शं च त्वामययथाभूतां हे सुभ्रु हे भामिनि अयि चण्डि फुरफरायते मे जिह्वा ज्ञानकवेरिमां गजलगीतिं प्रोक्तुम्-
दृशोरावर्जका: कल्याणि सम्भारा: क्व यातास्ते?
हृदिस्फूर्जां वितन्वाना अलङ्कारा: क्व यातास्ते?
शिरोवक्षोजयोराधाय मे केशेषु साकूतम्।
स्मितैर्विद्योतमाना अङ्गुलीचारा: क्व यातास्ते?
चतुरिका तु व्याक्षिप्तचित्ता व्यग्राऽग्रेसरन्ती पतदुपनेत्रं मुहुर्मुहुर्नासिकोपरि सारयन्ती 'नास्मै अवसर आलापाय देयोऽन्यथा वृथावादैरधिकतरं मामुद्वेजयिष्यतीति कृत्वा 'कम्बुकण्ठ, अरिक्तका तावदहं सम्प्रति। बहुकार्यं मे। नियोजितकृत्या राजानो विलम्बं न सहन्ते। क्षणेनान्यथावबोधयन्ति भूपतिं सरलमतिं धूर्तास्तु कर्णेजपा:। अतो मर्षयतु भवानिदानीमित्युक्त्वा सुदूरमवलोकयन्तीव सोपनेत्रत्वाच्चतुर्दिक्षु चक्षुर्विक्षिपन्तीव विक्षिप्तहृदयापि सर्वथा सुस्थतां नाटयन्ती सत्त्वरमग्रे ससार।’
कम्बुकण्ठ आह- अयि सुन्दरि, अपि शूकरदर्शनेनोद्वेजितासि। अपि पृथुलै: पूतिगन्धै: प्रघूर्णितं ते शिर:। अपि अक्षतमविदीर्णं तिष्ठति नासपुटयुगलम्। अहो कीदृशा राजानो ये एतादृशीं मसृणगात्रीं सुकुमारमतिं तन्वीं बालां घृणितकृत्ये नियोजयन्ति। ननु इदं नीलोत्पलपत्रधारया शमीतरोश्छेदनं, सप्रसभं निवेशनं रौरवनरके उत्पत्तिपरिपूताया: साध्व्या:। अयि वासु, वृथैव विद्धेव वीतरागेव विद्रवसे। अयं ते शुभचिन्तक:। अयमपि किमपि साहाय्यमेव ते करिष्यतीति-
एवंविधैर्वचोवितानैश्चतुरिकायाश्चित्तमधिकतरं भ्रमयन् कम्बुकण्ठ: सहानया प्रचचाल। चतुरिका तु मौनमालम्ब्य कथमयं जानाति रहस्यमिति चिन्तयन्ती मनाक् शिथिलयामास गतिम्।
कम्बुकण्ठ उवाच-
अद्याप्यशोकनवपल्लवरक्तहस्तां
मुक्ताफलप्रचयचुम्बितचूचुकाग्राम्।
अन्त:स्मितोच्छ्वसितपाण्डुरगण्डभित्तिं
तां वल्लभामलसहंसगतिं स्मरामि।।
चतुरिका तु सचातुर्यं निरपेक्षतां नाटयन्ती दरमसृणया वाचा ईषद्विहसितमुवाच - 'कम्बुकण्ठ, अद्यापि ते तदेव शैशवम्। नाहं सा नवयौवना मुग्धा, न च त्वं स तरुण:। मयेव त्वयापीदानीं गाम्भीर्यं धैर्यं च धारणीयम्। एतादृशचापल्यवशादेव निष्कासितोऽसि प्राङ् महाराजविक्रमसिंहसभाया:।’
एतच्छ्रुत्वा कम्बुकण्ठस्य हृन्मर्मव्रणान्युद्घाटितानि। स्मृतयस्तन्मनोरङ्गे क्षणं ननर्तु:। सनि:श्वासमसौ मनस्यकरोत् - हन्त, ते हि नो दिवसा गता:। तदानीं महाराजस्य मुखलग्नोऽहमासम्। कोशाध्यक्षपदमसौ मह्यं प्रदाय सर्वदा सर्वकार्येषु मन्मुखापेक्षी बभूव। मयापि सोत्कोचग्राहं सचौर्यं धनं तदानीं प्रचुरं सञ्चितम्। इयं च चतुरिका मयैव राजसभायां प्रतिष्ठापिता। तदानीमियं सर्वथा मद्वशवर्तिनी बभूव, रमयामास मां, प्रसादयामास माम्। इदानीं चिरण्टीयं मामेवोपदिशति। अथवा जिह्वालौल्यमेवात्र कारणम्। तद्दिने चक्रवर्तिन आहाराय प्रत्यग्रनिहतहरिणस्य साधितमभून्मासं यावदसौ स्नात्वा सन्ध्योपासनं च कृत्वा आयाति तावन्मया स्वादग्रहाय दत्तं तस्मिन् मुखम्। तेन दुष्टेन दूरदर्शिना शुकेन सर्वमुपरिवृक्षं स्थितेनैतदवलोक्य निवेदितं महाराजाय। तद् दिनं चैतद् दिनं च। यद्यपि सन्ति मम कोशा वित्तनिचया गूढं स्थापिता विविधेषु स्थलेषु परं राजकोपोपनिपातपूर्वकमभिशप्तं जीवनं धारयामि। जीवन्नेव न सम्प्रति भवामि किमावहामि। राजसभाया: पञ्चक्रोशपरिधावपि प्रवेष्टुं न मया शक्यते। सर्वथा नश्यति राजकोपेन जीवनम्। अथायमपरो गण्डस्योपरि विस्फोटो यद् दूरदर्शिन एवाध्यक्ष्ये वित्तार्थं विहितानां मम कदाचाराणां कृतेऽन्वेषणायोग स्थापित इति।
अथ सायासं स्मृतिकुज्झटिकाभ्यो विनिस्सार्य चित्तं निरस्तदैन्य: कम्बुकण्ठ: पुनरपि चतुरिकां प्रीतिस्निग्धैर्लोचनैर्निर्वर्णयन् कृत्रिमैरप्यकृत्रिमैरिव प्रतीयमानै: काव्यनाट्यादिगतविभावानुभावादिनिर्विशेषैर्वचोभि: प्रसादयामास - वामे, निवारितमपि मनो मे प्रधावति त्वां प्रत्यसंस्तुतमिव यथा प्रतिवातं नीयमानस्य केतो: कौशेयांशुकम्। विवेकप्रध्वंसादुपचितमहामोहगहनो विकार: कश्चन मन्मनोऽन्तर्जडयति। अनिशं तवैव स्मरामि। एवमप्यात्मानमगणयन्नात्मनैवात्मानमवलम्बे। प्रेमा मे एतावता कालेऽयमभोगादुपचितरसो राशीभूत: पर्वतायते विन्ध्यायते हिमालयायते। युक्तमुक्तं महाकविना-
स्नेहानाहु: किमपि विरहे ध्वंसिनस्ते त्वभोगा
दिष्टे वस्तुन्युपचितरसा: प्रेमराशीभवन्ति।
किं बहुना कुवेरस्येव राज्ञो विक्रमसिंहस्य शापेनास्तङ्गमितमहिमा विरही यक्षोऽहम्। त्वं च मे सैव चिरन्तनप्रिया यक्षिणी।
चतुरिका तु साट्टहासमाह- आस्तां सर्वमिद्। कियता कालेन मामनुसरसि, किं किं त्वया श्रुतं किं वा जानासीति वद। कम्बुकण्ठोऽवादीत् - 'प्राणेश्वरि, अनिशमहं त्वामनुसरामि, ध्यायामि त्वामेव, चिन्तयामि च त्वद्रूपस्मृतिचुलुकितेन त्वद्विभ्रमविभ्रान्तेन त्वद्बुद्धिवैभवचमत्कृतेन चेतसा त्वामेव। त्वं किं करोषि, क्व यासि, केन कुत्र किमालपसीति सर्वं निभृतं जोषं च स्थित्वा दुर्गमवनगुल्मेषु वृक्षेषु लतामण्डपेष्वन्तर्हित: प्रेक्षे। त्वयि निबद्धरतिरनुरागवशात् त्वच्चिन्ताचर्चितचित्तत्वाच्च त्वद्धितमनीषानोदितमना यतो यासि ततो यामि, यत्र भवसि, तत्र भवामि। दुर्गमवनस्यास्य पिच्छिलायां भूम्यां यत्र यत्र त्वदीयं कोमलचरणचिह्नमङ्कितं तदुपरि अहमेव स्वकठोरपादविन्यासं विधाय प्रचलन् त्वत्समागम सुखमनुभवामि। यत्र त्वं मूत्रयसे प्राणेश्वरि, तत्रैव पश्चाद् गत्वा मूत्रितेन सुरतसुखमिव त्वया सह प्राप्नोमि। शूकरमधिकृत्य जिज्ञासावती भवतीति मन्ये। ननु तस्मै शूकराय प्रीये इदानीं, योऽसौ पूतिषु प्लवमानोऽपि आवयो: सम्पर्कहेतवे सेतूयते अन्यथा तु कियतो मात्रा तस्य वराकस्य ग्रामशूकरस्य। तस्य सर्वमेवैतिह्यं हस्तामलकवत् स्थितं मम। सन्ति केचन शृगाला समीपवर्तिनो वनग्रामस्य वास्तव्या मम मित्राणि। ते निशीथे विडालान् कुक्कुरडिम्भान् वाऽत्तुं क्वचिद् राढापुरग्रामं गच्छन्ति। तेष्वेकेन लल्लूलालनाम्नाऽद्यैव प्रातरहं सूचित: यत् कश्चन घूकरो नाम शूकरो मनुष्यमारं मारितो ग्रामाधिपेन तिलकसिंहेन निर्विण्णो निर्जगाम राढापुरान् समेतश्चात्र दुर्गमवनम्। सोऽयं घूकर एवाद्य त्वयालपित:।
श्रुत्वा तस्य वचश्चतुरिका चिन्तारहितचित्ता प्रीतिपेशलाभ्यां नयनाभ्यां निर्वर्णयन्ती तं स्निग्धं बभाषे- 'कम्बुकण्ठ, एहि कलकलनिनादतरलायास्तरङ्गभङ्गसङ्कुलाया अस्या मालिनीनद्यास्तटे सैकतस्थल्यां स्वैरं समुपविश्य मन्त्रणां कुर्व इति।
अनन्तरं चतुरिकाया अन्घ्रौ अन्घ्रिं नितम्बेन नितम्बं गण्डेन गण्डं च घट्टयन् तस्या रूपसुधां नयनचषकाभ्यां पिबन् तस्या वचनं शृण्वन् तस्यास्तन्वीं तनुं स्पृशन् तद्गन्धं जिघ्रंस्तया सह मृतप्राप्तस्य सिंहाद्यैरर्धोपभुक्तस्य कस्यचिद् हरिणस्य मांसमश्नंश्चिरं जहार।
चतुरिकापि तदभिप्रायं विन्दती तस्माज्जुगोपात्मानमत्रस्ता तत्सङ्गतिमनातुरा भेजे। क्रमेण च निस्तीर्णचिरविप्रयोगजनितासंस्तवौ निवारितोपेक्षाभस्मसन्धुक्षितप्रणयाङ्गारकौ तौ चिरं चतुरिकाम्बुकण्ठौ विजह्रतु: शूकरमाश्रित्य च रहसि मन्त्रयामासतु:।
।। इति विक्रमविजय आख्याने तृतीय उच्छ्वास:।।