।। अथ चतुर्थ उच्छ्वास:।।
अथ कम्बुकण्ठो बोधयामास चतुरिकाम्-सुन्दरि किमाप्तमाप्तैरस्माभिर्विक्रमसिंह नीति क्रमेण सेवमानै:? एहि संस्थापयाम: शूकरसाम्राज्यं, रचयामो नवीनमितिहासम्।
-कम्बुकण्ठ, अपि विक्षिप्तोऽसि? कथं नाम शूकरोऽकिञ्चित्कर: सति अनतिसाधारणधाम्नि विक्रमनाम्नि स्वामिनि राजपदं प्राप्स्यति? प्राप्यतां नाम वाऽसौ। को नाम तेन नो लाभ:?
इत्यविश्वासजुषीं चतुरिकां तां पुनराह कम्बुकण्ठ: - पश्य, कलौ शूद्रा एव राज्यं करिष्यन्तीति युक्तमवितथमुक्तं भगवता व्यासेन पुराणेषु। एते चोच्चवर्गीया: शुकाद्या: द्विजास्तथैव सिंहाद्या: क्षत्रिया: सदैवास्कन्दन्ति दलितान् जन्तून्। हीना अपि न्यूना अपि निम्नवर्गीया: प्राणिनो यदा उत्थिता: स्युस्तदा धूलिसाद् भविष्यन्त्येतेषां सत्ताया: सप्तभूमिप्रासादा: प्रभूनाम्। अतो दलितचेतनाया अग्निं प्रज्ज्वालयाम:। तज्ज्वालासु निगीर्ण उच्चवर्गीयानां राज्ये आवां शैत्येन दैन्येनार्दितास्तत्तापे सुखोष्णतां च प्राप्स्यावो मुष्णन्त इमानपि दीनान् जन्तून्।
-दलितानां चेत:सु यदि सत्ताकामनाया अग्नि: सन्धुक्षिता तदाऽऽवामपि तस्यां भस्मसाद् भविष्याव इति किं न प्रेक्षसे मूढ़!- तथापि कम्बुकण्ठेन चिरमुच्चावचं प्रबोधिता चतुरिका कृच्छ्रेणान्वमन्यत।
क्रमेण च निस्तीर्णवियोगदु:खदाहौ विरहगुणितं तं तमात्माभिलाषं परिणतशरच्चन्द्रिकायां क्षपायां निर्वाह्यान्येद्यू राजसभासमये तौ विक्रमसिंह- गुहासमीपं प्राप्तौ। कम्बुकण्ठस्तु दूर एव तस्थौ, चतुरिका च सहासं सस्मितं प्रहरिभि: स्वागतं व्याह्रियमाणा चारुगतिश्चञ्चलाक्षी उत्तीर्णसप्तकक्ष्या राजानमुपासर्पत्। आह च तं महाराज्ञ्या सह सानन्दमुपविष्टं विजयतां देव:। देव गतास्मि तमद्भुतं जीवमालपितुम्। असौ वस्तुत इदानीं यावदवसधिपातालम्, पाताले य आदिवराहस्तस्यासौ वंशजमात्मानं भणति। कतियुगै: कतिशताब्दैस्तत्रायं रमत इति कालगणनां न जानाति। अथ गतमासे शेषनागस्य भगवत: सहस्रफणेषु कस्मिंश्चित् फणे समुत्पन्नायां कण्डूतौ तन्निवारणाय चालयति तस्मिन् फणततिं विदीर्णा भू:। असौ च पातालात् भूविवरं प्रेक्ष्य कौतुकवशात् तस्मात् विवरान्नि:सृतो भुवमारूढ:, समागतश्चेदं दुर्गमवनम्। परावर्तनाय यावत्तदेव विवरं गवेषयति, तावत्पुनरपि समुत्पन्नायां शेषनागसहस्रफणेषु कस्मिंश्चित् कण्डूतौ पुनश्चाल्यमाने फणे दोलायितायां धरित्र्यां स विवरोऽकस्मात् पूरित:। अतोऽसौ महावराहवंशज इत एवाहिण्डते प्रतीक्षते चावसरं पुन:पातालप्रवेशाय। अथायमवादीन्माम्- 'अयि दूति, उच्यतां मद्वचनात् सुन्दरवनसम्राड्विक्रमसिंह: - यावद् भगवान् शेष: कण्डूतावुत्पन्नायां पुन: शिरांसि चालयति, पुनश्च कश्चन पातालोदरवर्ती विवरो जायते तावदहमिहैव स्थास्यामि। अतश्च ससेनापतिना सामात्येन त्वया विक्रमसिंहेन मद्वशवर्तिना भाव्यम्, नो चेत् सान्वयं सप्रजं सान्त:पुरं त्वामहं विनाशयिष्यामि। महावराहलब्धप्रभावान्मम नि:श्वासमात्रेण म्रियन्ते जन्तव:।’
श्रुत्वैतद् विक्रमसिंहस्य विक्रमैकरसस्य वक्रा बभूव भ्रू:। निपेतुर्नयनाभ्यामङ्गारका:। अमुञ्चच्चासौ प्रकम्पितनिखिलदुर्गमवनां गर्जनामाह च 'अरे यद्यसौ शूकरो महावराहवंशजस्तर्हि वयमपि देव्या दुर्गाया वाहनस्य महासिंहस्य सगोत्रा:। उच्यतामसौ- यदि सुन्दरवने वासोऽभिप्रेतस्तर्हि मदधीनतां नतेन मूर्ध्ना स्वीकृत्य तिष्ठत्वसौ, नो चेद् द्विधा विपाट्य तनुस्तस्य विदार्य धरणीं पातालोदर एव क्षेप्स्यामि तामिति।’
चतुरिका तु- 'अहो देवस्य शौर्यं गाम्भीर्यं स्वाभिमान इति मुहुर्मुहु: प्रशसन्ती, यथा आज्ञप्तं प्रभुणा महामतिना धृतधृतिततिना कृतिनेति विनिवेद्य प्रणम्य सुदूरस्थितेन कम्बुकण्ठेन सङ्गता। उभौ च विक्रमसिंहस्य पुरोभागितां चिरमुपजहसतु:। अनन्तरं लाङ्गूलेन लाङ्गूलं घट्टयन्तौ तौ तत: प्रचलितौ।
विक्रमसिंहस्त्वनेन व्यतिकरेण सञ्जातया शिरोवेदनया विकलो विवेश गुहाभ्यन्तरं सिंहनीं च भामिनीमाह- यद्यागच्छति कश्चन जन्तुर्मां मिलितुं, नास्मा अवसरो दातव्य इति। सिंहिन्यपि- सुखं शेरतां भर्तेति कथयित्वा दौवारिकं राज्ञ: सन्देशेनावगतार्थं व्यदधात्। वैतालिकश्च हूहू: सहूहूकारं पपाठेमां स्वस्तिवाचनिकाम्-
क: क: कुत्र नु घुर्घुरायितघुरी घोरो घुरेत्सूकर:
क: क: कं कमलाकरं विकमलं कर्तुं करी नोद्यत:। के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यत: सिंहीस्नेहविलासबद्धवसति: पञ्चाननो वर्तते।।
तदानीमेव वृक्षात् वृक्षं समुड्डीनोऽदीनोऽदीनोऽपि तदानीमुड्डयनश्रमाच्चिन्तया च दीन: प्रधानामात्यो दूरदर्शी तत्र भूपतिनिवासगुहाद्वारमाययौ प्राह च- दौवारिक, उच्यतां महाराज:। अत्ययिकं कार्यं वरीवर्ति। क्षणं दातुमर्हति प्रभुर्मह्यं वचनावसरम्।’ इति। दौवारिकश्च सप्रश्रयमाह- आर्य, अधुनैव देव्या सिंहिन्या निषिद्धोऽयं जन: न कस्मा अपि अवसरो देयोऽन्त: प्रवेशायेति। तथापि श्रीमत: सन्देशं गत्वा विज्ञापयामि। गत्वा चासावाभ्यन्तरकक्षां क्षणेन प्रतिनिवृत्त: प्राह- आर्य, बलवती शिरोवेदना बाधते चक्रवर्तिनम्। महाराज्ञी च विज्ञापयाति- अनवसर: प्रतीहारस्य। क्षन्तुमर्हत्यमात्य:। यदि वाचिकं किञ्चिन्महाराजस्य कृते देयं, तदमात्यो महाराज्ञ्यै विज्ञापयितुमर्हति।
दूरदर्शी तु क्षणं विचार्याह - भद्र नास्ति किमपि वाचिकम्। नाहं स्त्रिया मुखेन राज्ञ: कृते वाचिकं प्रेषयामि। तदास्तां तावत्।
श्रुत्वा चावाचि स्थिते दौवारिके दूरदर्शी तत: प्रचलित:। द्वित्राण्येव पदानि गत्वा किमपि विचार्यासौ पुन: प्रतिनिवृत्य झोलकात् स्वीयाद् भोजपत्रं लेखनीं च निस्सार्यार्यामिमां लिलेख-
सुप्यति स्त्र्याहितभार: निशमयति स्त्रीमुखेन च वाचिकम्।
नृपतिर्नश्यति सद्यो भग्नं भवति तथा च राज्यम्।।
लिखित्वा च दौवारिकाय भोजपत्रचिटिकां ददन्नाह- 'भद्र, यदा नृपतिर्जागर्ति, तदास्मै चिटिकेयं दीयताम्।’ - अनन्तरं च स्वैरं समुड्डीनो विटपान्तर्हित:।
दौवारिकस्तु अनभिज्ञोऽक्षराणाम् आभ्यन्तरकक्षां प्रविश्य महाराज्ञ्यै चिटिकां दत्वा- यदा नृपतिर्जागर्ति तदास्मै चिटिकेयं देये’ त्युक्त्वाऽमात्येनेयं दत्ता, तत: परं देवी प्रमाणम्’ इत्यवादीत्।
राज्ञी तु चिटिकां पठित्वा चिन्तयामास- अहो शाठ्यमस्य दूरदर्शिन:। यस्यां स्थाल्यां खादति, तामेव छिद्रयति। महानयं सङ्कटसमय:। सान्त्वनीय इदानीं महाराज:! अयं च धूर्तो यद्वा तद्वा लिखित्वा खेदयितुमिच्छति राजानम्’- इति कृत्वा तां चिटिकां गुहाया अन्धकोणे प्राक्षिपत्।
तस्माद् दिनाद् दूरमभूद् दूरदर्शी राजसभाया:। राज्ञी चापि राजानं विक्रमसिंह ररक्ष तत्समबुद्धिभिरमात्यै:। चतुरिका तु प्रवेशं प्राप तदन्त:पुरे बभूव विश्वासभाजनं राज्ञ्या:। सा च कम्बुकण्ठस्य कौटिल्येन प्रेरिता प्रायो निनिन्द दूरदर्शिप्रभृतीनमात्यान् घूकरेण सह युद्धाय सन्नाहं विरचयन्तीव राजानं राज्ञीं च न मनागपि शङ्का, विजयोऽवश्यम्भावी चक्रवर्तिन:, अमी नियोजिता शतं पुरोहिता जयश्रीप्राप्त्यै यज्ञसम्पादने, इदं सज्जीभवति सैन्यम्, क्व वराक: शूकोऽकिञ्चित्करो घूकर: क्व च समरविजयी सम्राडस्माकमिति प्रोत्साहयन्ती, युद्धस्यावश्यम्भावितां प्रत्यायन्ती वचोवितानै राजानं राज्ञीं च विभ्रमयन्ती विभ्रममयी रेमे प्रत्यहं च कम्बुकण्ठं सर्वं राजवृत्तं व्यजिज्ञपत्।
।। इति विक्रमविजय आख्याने चतुर्थ उच्छ्वास:।।