।। अथ पञ्चम उच्छ्वास:।।
इतस्त्वसौ घूकरो मा पुनर्मां वृथैव खेदयितुमायाल्लोमशिकेति पल्वलगर्तं समधिकतरं गाहमान: कर्दममय: कर्दमाकारतां दधान: कृमिमलविष्ठापूतिपूरे निमग्न: क्षणं विक्रमसिंहप्रेषितं प्रत्यादेशं, तिलकसिंहनिराकृतिं, दु:शीलाया कृष्णमुख्या दौ:शील्यं कलङ्कवत्या शङ्काकुलतां सर्वं विसस्मार। सान्द्रबहलपूरे कर्दमपुञ्जे मुस्ताक्षतिं कुर्वाणोऽसौ परमानन्दमनुभवन् सुखं सुष्वाप।
अथ प्रभातायां रजन्यां परित्यजत्सु स्व-स्व-कुलायान् विहङ्गमेषु सरति सान्द्रमर्मरे समीरे विचलितवीचिचये नीरे सहसा पल्वलतटं प्राप्ता: पञ्चशृगाला: कर्तुं च प्रवृत्ता: सामूहिकं जागरणोद्घोषम्। यावद् घूकर: कुतोऽयं कर्कश: कलकल इति विस्फारितेक्षण: क्षणं परामृशति तावत् ते पञ्च शृगाला प्रभातस्तवं तस्येत्थं प्रस्तावयामासु:-
जय जय शूकर जय जय घूकर जय भूधर विश्रान्तमते
जय धरणीधर जय घोणीवर पीनश्रोणीजनितनते।
कर्दमचारिन् मलचयहारिन् सततं लेपितपङ्कतते
धरणीधारिन् जय जय नितरां मुस्ताक्षतिपातालगते।
श्रुत्वा च किमर्थं मामुद्दिश्य अयथातथमेते गायन्ति कथं च जानन्ति मदीयं नामधेयमिति सञ्जातकौतुक: क्षणं विमृश्यानामयं सर्वत: प्रपश्यन् घूकर: शनै: शनैरालिप्तपङ्कभारादञ्चितया गत्या समलङ्कुर्वन् पल्वलतटं बहिराययौ। क्षणमसौ तत्र स्थित:- किं ब्रवीमि, येन 'मितं च सारं च वचो हि वाग्मिते’ ति महाकवि सदुक्त्ययनुसारेण वाग्मित्वमपि मे विज्ञायेत, इमे च शृगाला मा वृथा मां खेदयितुमिह पुनरागच्छेयुरिति विचारयामास। अनन्तरं च न्यगादीत् कमनीयमिदं वचनीयम्- भो भो शृगालकुलावतंसा: किमिति भवद्भिरिहागत्य वसतौ न: गायनं वा काव्यं वा प्रस्तुतम् यत् किमपि प्रस्तुतं तद् रागकाव्यं वा स्तुतिर्वेति न विशदीभवति। तत्रापि प्रतिभादारिद्र्यदैन्यादतिस्वल्पसुभाषितेन रचयित्रा वर्णविच्छत्तिमात्रेण च्छादितं छन्दोवितानं, न पुनरुक्तिविशेषसौन्दर्येणोज्ज्वलीकृतो बन्ध:। मन्ये मामुद्दिश्यैव गीतिरियं विहिता। नाहं स्वीये चरिते स्तुतियोग्यं किमपि पश्यामि। अथ ब्याजस्तुतिरियं विहितेति चेत्, तदपि न श्लिष्यति यतो हि नाहं तथोपहासास्पदम्। वस्तुत: किमपि प्रयोजनमेवास्या: गीते: न प्रतिभाति मन्दस्य मम मतौ। 'प्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्तत’ इति यदुक्तं तदवधेयमत्रभवद्भि:। अन्यच्च- वाग्देव्या अवमानना खल्वियं यत् प्राकृतस्य जनस्य स्तुतिगानम्। तथा चाह कवि: कश्चित्-
वर्णयन्ति नराभासान् वाणीं लब्ध्वापि ये जना:।
लब्ध्वापि कामधेनुं ते लाङ्गले विनियुज्यते।।
अत एव प्राकृतस्य मादृशस्य स्तुतिगानं भवतां नाहमभिनन्दामि। न वाहं भवद्भ्योऽस्य कृते दक्षिणां वा पुरस्कारं वा दास्यामि। अत एव सर्वथानुत्थानोपहत एव भवतां स्तुतिक्रम:। किं बहुना, गम्यतामित:। न पुनरिह वृथोलूखले शिरो देयमागत्येत्युक्त्वा परावृत्य प्रचलित:।
अथ विचक्षणो नाम शृगालस्तेषु पञ्चस्वग्रणी: प्राह- 'अहो श्रवणाभिरामं वच:। कर्णेषु न: सर्वथा पीयूषधारैव वराहमूर्तिना विष्णोरंशभूतेन भगवता भवता वान्ता। यच्चास्माकं कल्याणाय श्रीमता सन्दिष्टं – न प्रकृतो नरः स्तोतव्य इति तेन वयं कृतार्थोः। यद्वा न सामान्यजनाः शंसनीया विष्णोरवतारभूतोऽहं तु शंसार्ह एवेति परोक्षतया भगवता यदुपदिष्टं तदवधारितमस्माभि:। यथा- ब्राह्मणा: प्राहु: - परोक्षप्रिया वै देवा इति।
इत्थं च बहुधा वचोवितानमुत्तोल्यासौ धूर्त: पुनरपि घूकरं शूकरं स्तोतुमारब्ध सहचतुर्भिरन्यै: शृगालै:। शूकरस्त्वसौ पल्वलपङ्कावगाहनाय एकत: गच्छति अपरतश्च तेषां स्तुतिगानेनाकृष्ट: तत: तान् प्रति यातीति सोऽनिश्चयान्नापि ययौ न तस्थौ तरंस्तरङ्गेष्विव राजहंस:। अन्ततश्च कथमिमे शृगाला सप्रसभं शिरसि लग्ना वैताला इव प्रणश्येयु: कथं च पुनरपि सुखं स्वापं लभे इति चिन्ताचर्चितचित्त: स तान् पुनराह- 'भो भो फेरवा: कामं मनो हरन्ति वो रवा:। तथापि मलिनपल्वलविचरणपटु: शूकरोऽहम्। किं सिद्ध्येत मत्पुर: काव्यपाठेन। तेन काव्यप्रयोजनानि न पूर्येरन्। काव्यप्रयोजनानीत्थं प्रतिपादितानि वाग्देवतावतारेण मम्मटाचार्येण-
काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये।
सद्य: परनिर्वृतये कान्ता सम्मिततयोपदेशयुजे।।
इह तावद् भवतां काव्यपाठो न यशो न धनं न व्यवहारज्ञानं नाप्याविर्भावयति शिवेतरक्षतिम्, का कथा सद्य:पर:निर्वृते: कान्तासम्मिततयोपदेशानां वा। अन्यच्च- काव्यपाठोऽपि भवतां न निर्दोष:। तत्र स्खलिताक्षरत्वं यतिभङ्गं लयक्षतिं च लक्ष्यीकृतवानस्मि। अहं तावत् काव्यपाठेनैव कवित्वसिद्धिं मन्ये, न भणितिगुम्फनपाटवमात्रेण। युक्तमुक्तवान् राजशेखर:-
करोति काव्यं प्रायेण संस्कृतात्मा यथा तथा।
पठितुं वेत्ति स परं यस्य सिद्धा सरस्वती।।
श्रुत्वा शूकरवचस्तद्दुर्गन्धविघूर्णितमानस: कूणितनासिको विचक्षणो विनयावनत: साष्टाङ्गं प्रणिपातं नाटयन् दशकृत्वमहोकारं पञ्चकृत्वं साधुकारं च कृत्वा 'अनुगृहीता वय’ मिति त्रि: कथयित्वा पुनश्च 'धन्या वय’ मिति षट्कृत्वं भणित्वाऽनन्तरमाह- अहो शेमुषी, अहो वैदुषी, अहो वैदग्धी। के भावा: के विचारा: किं चिन्तनम्। सर्वमेव स्वामिनो विलक्षणं विशिष्टं विमलमतिनिभालितं च। सम्यगुपदिष्टा वयम्। सम्यक् शासिता वयम्। ननु प्राप्तोऽद्य जन्मलाभः। सम्प्रति इयमेव केवलं वरीवर्ति वाञ्छा यत् प्रतिदिनं प्रात: इह समेत्य स्वामिपादानां चरणारविन्दमाराधयाम: श्रावं श्रावं च कर्णामृतरसायनं सदुपदेशवच: श्रीमतां सफलयाम: स्वजीवित’मिति।
घूकरस्तु कथमिमे शृगाला: स्वप्तुमपि न दद्युरिति खिन्न: विचक्षणविहित चाटूक्तिभिस्तुष्टोऽपि- अपि नामैते कस्मिन्नपि सङ्कटे मां पातयितुमुपक्रमन्ते, अप्यत्र वरीवर्ति कश्चन दुरभिसन्धिरिति शङ्कमानो 'भवतु विषयममुमधिकृत्य गाढपङ्कमवगाह्यैव सम्यक् विचारविमर्शं विधास्यामीति कृत्वा यावत् पुनरपि पङ्कप्रवेशाय मतिं करोति तावदेव चतुरिका-कम्बुकण्ठौ पल्वलतटं प्राप्तवन्तौ। घूकरस्तु दृष्ट्वैव चतुरिकां चलितेन्धनाग्निरिव सन्धुक्षितकोपो विहितघटाटोपो जगर्ज-अरे चिरण्टि, तवैवायं दुरभिसन्धिर्यदिमे शृगाला इहायान्ति कर्णयोर्मे प्रस्रावं कुर्वाणा विघ्नमाचरन्ति। श्व: प्रभृति न कोऽप्यत्रागच्छेत्। अन्यथा कलिन्दनदनन्दिनीमिवेमां पल्वलतटीमहं हलधर इव विपर्यासं नेष्यामि’ इति।
चतुरिका तु क्षणं निरीक्ष्य कम्बुकण्ठाननं ईषत्स्मितेन पल्वलपङ्के मृणालकाण्डानिव विक्षिपन्ती स्वरमाधुर्याद् द्राक्षापाकं विलक्षीकुर्वन्ती निजगाद- देव, मर्षणीयोऽयं प्रथमोऽस्माकमपराध:। परन्तु प्रजातान्त्रिके विधौ क्व प्रशासकानां विश्रान्ति:? तथा चाह कवि:- अविश्रमो ह्ययं लोकतन्त्राधिकार: इति। अत्र खेदस्तु भवति, स च खेद: मर्षणीय एव श्रीमता। यथोक्तम्-
नाति श्रमापनयनाय यथा श्रमाय
राज्यं स्वहस्तधृतदण्डमिवातपत्रम्।
इदं च दुर्गमवनं शासनीयं श्रीमतैव। इमे क्षुद्रा: वराकास्तपस्विन: शृगाला:। इमे तावत् श्रीमतां प्रजा:। एतेषां धर्म एवायं राज्ञ: स्तुतिसम्पादनमिति। यदि भवतां स्तुतिमिमे न कुर्युस्तर्हि कस्य कुर्यु:? अतएव निवेदयामि- क्षम्यतां सर्व एषोऽविनय इति।
शूकर उवाच- किमाह भवती? नाहं राजा नापि शासक:। यत् किमपि त्वया अभाणि तस्य लवमात्रं मया नाज्ञायि।
श्रुत्वा तद्वचश्चतुरिकाकम्बुकण्ठौ- 'अहो विनय:, अहो ऋजुता, अहो अपरिग्रह:। किं तप: को विचार: को भाव इति त्रिस्त्रिरहोकारेण ककारेण च तं प्रशंशतु:। यावच्च घूकरश्चमत्कृतस्तयोरभिप्रायमवगन्तुं मनो ददाति, तावत् कम्बुकण्ठ: सप्रश्रयं साञ्जलि च प्राह- प्रभो! किं ब्रूम:। फलितानि भागधेयान्यस्य दुर्गमवनस्य यद् भवानिह धन्यतया न: समेयाय। सर्वेऽपि वयं जन्तवो विक्रमसिंहस्यात्याचारै: खिन्ना: निर्विण्णा विषण्णाश्च स्मो दु:खार्णवे मग्ना:। निरस्यैनं कुनृपं स्वीकरोतु श्रीमान् राजक्ष्मीम्। -'न याचे राजलक्ष्मीं, न वा राजपदवीम् इयं पङ्कलक्ष्मीरेव वरम् अभीष्टा च मत्कृते वर्तते पल्वलतलपदवी - त्युक्त्वापुन: पङ्कशय्यामधिरोढुं प्रतिष्ठमानं तं निवार्य चिरं चतुरिकाकम्बुकण्ठावालपत: स्म। 'आदिवराहावतारमुद्घोष्य भवन्तं भगवन्तमिति ख्यापयिष्याम: कांश्चित् पण्डितान् विनियोज्य शूकरपुराणं वा भवत्प्रशस्तौ विरचयिष्याम:, सिंह-द्वीपि-व्याघ्र-भल्लूकादिभिर्जन्तुभिस्तवाज्ञां शिरोभिर्वाहयिष्याम:, एकच्छत्रमकण्टकं च त्वदीयं राज्यं दुर्गमवने स्थापयिष्याम इति विविधाभिर्वक्राभिरपि ऋतुतयाप्रतीयमानाभिरुक्तिभिस्तं प्रबोध्य सर्वथा मन्त्रविद्धमिव फणधरं घूकरं वशीकृतवन्तौ चतुरिकाकम्बुकण्ठौ। चतुरिकायाश्चाकचक्यचर्चिताभि: कम्बुकण्ठस्य च कौटिल्यकीलिताभिरपि कलमधुराभिर्गीभि: सर्वथा विप्रलब्धो विश्वासं गमित: स्वप्नलोकं प्रवेशित: सर्वत्रात्मन एव राज्यं विलोकयन् विस्मतश्चकितो मदावलिप्तोऽभूद् घूकर:। सविनयं नतिततिसहितमापृच्छ्य प्रचलितयोश्चतुरिकाकम्बुकण्ठयोर्यावदसौ घुङ्कारेणाहङ्कारं प्रकटीकुर्वन्, अनेन सुमधुरेण स्वरेण सर्वथा विलक्षीकृतो मया तुम्बुरुरिति विभावयन्, शुष्कास्थिप्रायेणापि स्वचरणचतुष्टयेन प्रकम्पितामिव पृथिवीं कलयन् विशति पङ्काढ्यं प्रदेशं तावदेव सर्वमिदं वृत्तं प्रत्यक्षीकृतवता पार्श्वस्थे कपित्थवृक्षे कूर्दता पाचच्चरेण वानरेण- 'किमिति रे शूकर अनयोर्लोमशिकाशृगालयो: खलयो: प्रवञ्चनया आत्मन: शिर उलूखले ददासि। मरिष्यस्यनया राज्यलिप्सया। क्व विक्रमैकरसो महावीरो विक्रमसिंह: क्व च त्वं मलिनपङ्कदिग्ध: शूकर:। अथवा- मर्त्तमिच्छसि चेत्, कामं म्रियस्वेति कथयित्वा सखीङ्खीङ्कारमहासि।
घूकरस्तु- अरे जानात्ययं सर्वं रहस्यमिति विभाव्यावादीत् - भद्र जानामि चतुरिकायाश्चरित्रं कम्बुकण्ठस्य कौटिल्यं च। प्रकृत्या सरल: शूकरोऽहम्। किं न श्रुतं त्वया-
यद् वञ्चनाहितमतिर्बहुचाटुगर्भं
कार्योन्मुख: खलजन: कृतकं ब्रवीति।
तत्साधवो न न विदन्ति विदन्ति किन्तु
कर्तुं वृथा प्रणयमस्य न पारयन्ति।।
इति। अत एव नान्यथा कर्तुं पारयामि प्रणयं चतुरायाश्चतुरिकाया:। तच्छ्रुत्वा पाटच्चर: प्राह- रे प्रिय शूकर, विज्ञ एव प्रतिभासि। राजासन्दिकया आकृष्टोऽसि। इयमासन्दिका नैकान् नेतृब्रुवान् निगीर्णवती। अत एवोक्तं अधृष्येनाभिगम्येन भीमकान्तगुणेन केनचित् कविना-
यां विधातुं करस्थां न किं किं कृतं
चातुरीभ्राजितैर्नेतृवर्यब्रुवै:।
यां समासाद्य विस्मर्यते तैर्जनो
वन्द्यतां कापि सा शासनासन्दिका।।
जानाम्यहमासन्दिकासुखलुब्धो न करिष्यसि वचो मे स्वीये चेतसि। तथापि काले स्मरिष्यसि मदीयं वच:। यद्वा कालश्चालयति प्राय: पण्डितान् पामरानपि इत्युक्तेरिदानीं कालेन चलितोसि, तेनैव भ्रामित: पतिष्यसि कदाचिदिति।
घूकरस्तु पाटच्चरप्रोक्तानि पटिष्ठानि वचांसि चेतसि चिन्वान् आत्मानं विषमप्रपञ्चसक्तं मन्वान: पुनरपि पल्वलपङ्कावगाहनाय प्रचचाल।
।। इति विक्रमचरित आख्याने पञ्चम उच्छ्वास:।।