।। अथ षष्ठ उच्छ्वास:।।
इतस्तु समस्तेऽपि दुर्गमे वने- आदि वराहावतार: कश्चन शूकरो वनमिदमध्यास्ते प्रत्याख्यातश्च तेन राजा विक्रमसिंह: इति वार्ता दिशि दिशि प्रसृता। कम्बुकण्ठप्रेरिता: शृगाला दिवा गुहासु निकुञ्जेषु च निलीना सायं वा रात्रौ वा वने विहरन्तो यं यं पशुमासादयन्ति तं तं लवणमरीचिमिश्रणपुरस्सरं वार्तामिमां श्रावयन्ति। अरे परमभयावहोऽसौ पशु:, नि:श्वासमात्रेण विद्रावयति द्वीपिन:, चपेटापातमात्रेण हन्ति व्याघ्रान्, हस्तिनस्तु तमवलोक्य मुञ्चन्ति मूत्रम्, गण्डास्तन्नामश्रवणमात्रेण शकृद्विसर्जनं विदधति का कथा वराकानां महिषाणां, हरिणानां चमरीणां वेति कर्णाकर्णिकया किंवदन्त्य: स्यन्दन्ते।
इमाश्च वार्ता: राजानं विक्रमसिंहमपि चारेभ्य: प्रापु:। स च प्रागेव मनाग् विषण्णोऽपि मन्त्रणार्थं मन्त्रिपरिषदमाकारयामास। प्रधानामात्यं दूरदर्शिनं वर्जयित्वा प्राप्ता: सर्वे सभासदा:। चतुरिकापि राजमहिष्या समं सदसि समेयाय संस्थिता च तस्या: पार्श्वतः। सर्वे च विक्रमसिंहाभिमुखास्तल्लाटदर्शिन: किमयं वक्तीति प्रत्याशया जोषं संस्थिता:। विक्रमसिंहस्तु सविनोदं सस्मितमाह- अरे किमिति यूयं सर्वे सर्पेणाघ्राता इव तूष्णीं स्थिता:? अथवा मन्ये न सर्पेणाघ्राता अपि तु कस्यचिच्छूकरस्य देहात् समुत्थं दुर्गन्धमाघ्राय तद्दुष्प्रभावान्मुद्रितमुखा: स्थ! - 'इत्युक्त्वोच्चैरट्टहासमकरोत्। श्रुत्वा तदीयमट्टहसितं द्वित्रा: प्राणिन: क्षीणं जहसु: परमन्ये तथैव प्रतिमा इव तस्थु:। विक्रमसिंहस्तु पुनरपि सहासमाह चतुरिकाम् - अयि वासु, किमिति नाद्य पुरेव चूङ्कुरुषे! अयि चिरण्टि, क्व गतं ते चापल्यम्। मन्ये पञ्चबाणस्य निशितै: शरैर्विद्धा तथा व्यथसे यथा मुखोद्घाटनेऽपि न शक्तासीति।
श्रुत्वैव नर्मस्फिञ्जं नर्मस्फोटं च महाराजस्य चतुरिका सहसा वाष्पकषायकण्ठी प्रबलरुदितोच्छूननयनाऽश्रुजलपूरितनयनसम्पुटा वाष्पाभ:- परिपतनोद्गगनान्तराले विषादविद्धेव शोककीलितेव विक्रमसिंह पश्चिमं दर्शनमस्य यथा करोति तथा निर्वर्णयन्ती करुणापूरितदृशा वैनं स्नपयन्तीव क्षणं तस्थौ, अनन्तरं च अवृष्टिसंरम्भइव महाम्बुवाहो यथा निर्गर्जनं निर्मक्षिकं वर्षितुमारभेत तथा रोदितुं प्रवृत्ता।
अवलोक्य चतुरिकाया एतादृशीं शोच्यां दशां सर्वेऽपि द्वीपि-व्याघ्र-भल्लूकादयो मन्त्रिणो विस्मयस्तब्धास्तं प्रष्टुमारेभिरे- 'चतुरिके, किमेतत्? किमपि तु कथय। किं ते दु:खकारणम्?’ इति।
अथ महिष्या दक्षिणकरपल्लवसंवाहनेन सान्त्व्यमाना प्रथमं उच्चै: फूत्कृत्य फूत्कृत्य रुदित्वा तत: क्रमशो रोदनस्वरतारत्वं मन्द्रमन्थरविलम्बितं विधाय- 'किं कथयामीति कथयित्वा पुना रोदितुं प्रवृत्ता। तद् दृष्ट्वा विष्कम्भो नाम व्याघ्र उन्मितभ्रूलतं कूणितनासिकं जगाद- 'चतुरिके, किमिति सम्मुखमासीने परमप्रतापशालिनि चक्रवर्तिनि मानुषीव खण्डितेव विप्रलब्धेव रोदिषि? संहर कापुरुषानुरूपममुं व्यवसायम्।’
कुम्भो नाम गज आह- राजसभेयम् अभूमिरविनयानाम्। इत्थमकारणरुदितं नाम राजावज्ञैव। इत्थं चान्यैरपि पशुभिर्भर्त्सिता सान्त्विता च शनै: शनै: विशदीकृत्य कण्ठं प्रौञ्च्छ्य नासिकां करकर्पटेन चतुरिका अवादीत्- देव किं कथयामि। स्मरामि भगवतो व्यासस्येमामुक्तिम्-
अतिक्रान्तसुखा: काला: प्रत्युपस्थितदारुणा:।
श्व: श्व: पापीयदिवसा: पृथिवीगतयौवना।।
किं बहुना। नूनमुपस्थितोऽयं घोर: कलिकाल:। नेदानीमेतादृशै: कुम्भ-निकुम्भ-विष्कम्भादिभि: सत्क्षत्रियैरमात्यै: परिवृता भवादृशाश्चक्रवर्तिनो नृसिंहा इव सिंहा राज्यं करिष्यन्त्यपितु केचन खरा शूकरा वेति विभावयामी’ त्युक्त्वा पुनरपि फूत्कृत्य रोदितुं प्रवृत्ता।
श्रुत्वेनमुपन्यासं व्याघ्रो विष्कम्भ: परिस्फुरदधरो भयावहं चीत्कारं विमुञ्चन्नाह- अरे किं वयं सर्वे मृता येन विद्यमाने देवे विक्रमसिंहे खरा वा शूकरा वा प्रभवेयु:। अद्यैव सर्वान् खरान् शूकरांश्च कवलयाम:।
विक्रमसिंहो जगाद- चतुरिके मा रोदी:। पूर्वमेव दत्तास्यभयम्। विशरीकुरु भयकारणम्।
एवं च राज्ञा तैस्तै: प्रधानामात्यसचिवसेनापत्यादिभि: प्रणोदिता चतुरिका क्रमशो घूकरेण शूकरेणात्मनो वार्तालापमित्थं वर्णयामास- 'समवाप्य महाराजस्य देवाधिदेवस्याज्ञां गतास्म्यहं पुनरपि तं शूकरमालपितुम्।’
प्राप्तमात्रायामेव मयि पल्वलतटमसौ दूरादेव वीक्ष्य मां घूत्कारपुरस्सरं नि:श्वासममुञ्चद्, येन प्रचलिते प्रचण्डे प्रभञ्जने प्रायशोऽर्धयोजनदूरमहं क्षिप्ता क्षिप्तायां च मयि दूरमसौ दुरात्मा दुर्दान्तो दुर्योधन इव मामुपसर्पति। यथा यथासौ मामुपसर्पति तथा तथा स्वत एव पादा मे पृष्ठत: परिस्खलन्ति। - अरे कथमहं नात्मन: प्रभवामीति वा किं केनापि अदृष्टेन परिचालितास्मीति वा मनसि कुर्वन्ती प्रथमहं देवाधिदेवं महाराजं स्मृतवती, अनन्तरं च वराहपुराणप्रवक्तु: वराहस्य स्तुतिमहं कृतवती। सद्य एव स्थिरीभूता मे पादा:। स च शूकरो मदीयतप:प्रभावाद् दूरमेव तस्थौ, पपृच्छ च माम्- अयि मल्लोममात्रे लोमशिके, वद पुन: किमर्थमायाते’ति। तच्छ्रुत्वा सञ्चित्य साहसं संहृत्य धैर्यं संस्तभ्य भयविगलितं चित्तमहं प्रोक्तवती- अरे वराहवंशधर, भगवत्या दुर्गाया वाहनभूतो नश्चक्रवर्ती समादिशति त्वाम्- अङ्गीकुरु मे वशवर्तितां, नो चेत् भोक्ष्यसि स्वस्याविनयस्य फल’मिति।
श्रुत्वासौ शूकरोऽट्टहासान्वितामतिविचित्रां शीत्कृतिममुञ्चत् समं च मामुद्दिश्य फूच्चकार। तदीयफूत्कृत्याहमुपरि दुर्गमवनवृक्षान् मध्येऽन्तरिक्षमुदपतम्। भयविशकलिता कालगिलितेव यावन्नीचै: पतामि तावद्दक्षिणतोऽस्य वनस्य विद्यमाने वटवृक्षे भागीरथीव शिवजटाजूटे जटिलजटातालेऽहं निबद्धा। दृष्ट्वा मां तथा संसक्तामात्मानं मोचयितुं विचेष्टमानां पुनरप्यसौ शूकर: साट्टहासं फूदकरोद् येन चकम्पिरे गहनसङ्कुलास्तस्य वटवृक्षस्य जटाः त्रुटितानि मे जालानि निपतिता चाहं धरायाम्। स चोपहसन्निव मामाह- उच्यतां मद्वचनादसौ सिंहाधमो यदित: सप्तमेऽहनि मया सहास्यैव पल्वलस्य तटवर्तिनि प्राङ्गणे द्वन्द्वं विदधातु, स्वीकरोतु वा मदधीनताम्। नो चेत् स्वघोणया उत्थाप्य निखिलामिमां दुर्गमवनमहीं प्रवेशयिष्यामि पातालम्। इति। सर्वं चैतद् वृत्तं भयकम्पितसर्वाङ्गोऽसौ कम्बुकण्ठो नाम शृगालो य: प्रभोराज्ञया राजसभाया बहिष्कृतस्तत्रैव पल्वलप्रान्ते निवसति सोऽपि प्रत्यक्षीचकार। काममाकार्य तं प्रष्टुमर्हति देव इत्युक्त्वा पुनरपि रुदित्वा रुदित्वा प्रणम्य च विरराम चतुरिका।
श्रुत्वा लोमशिकावचो निखिलापि साभिरूपभूयिष्ठापरिषन्मन्त्रविद्धेव निवातस्थिततृणगुल्मराजिरिव तस्थौ। अनन्तरं विचारमग्न इव शोकसभायां सम्मिलित इव शवयात्रायां जिग्मिषुरिव धीरगम्भीरेण स्वरेण शनै: शनै: कुम्भ: प्राह- देव, यथेयं लोमशिका वक्ति, तथा तेन कम्बुकण्ठेन शृगालेनापि प्रत्यक्षीकृतमिदं वृत्तम्। वसति चासौ तत्रैव पल्वलतटे यत्र वसतिस्तस्य दुर्दान्तदैत्यस्य। अत:सोऽप्याकार्य प्रष्टव्य:। मन्येऽसौ शूकरविषयेऽधिकतरं जानाती’ति।
अथ निकुम्भो नाम गण्डोऽवादीत्- 'प्रागेव राजसभाया निष्कासितोऽसौ कम्बुकण्ठो शत्रुणा मिलित: स्यात्। यदत्र प्रतिविधेयं तदस्माभिरेव चिन्तनीयम्। अत: कुम्भस्य वचो नाभिनन्दामि। सन्धि-विग्रह-यानासन-संश्रय-द्वैधीभावेषु षाड्गुण्यभावेषु विग्रहं तु सम्प्रति साम्प्रतिकं न मन्ये। सन्धिरेव श्रेयानिति मे मति:।
विष्कम्भो नाम व्याघ्र: सचीत्कारं सरोषमाह- अरे किं सर्वे वयं मृता:? किं वयं मानवा य इत्थं भयकातरा भवेम? कियती मात्रा तस्य पल्वलपङ्कपतितस्य जन्तो:? यदि देव आज्ञापयति तर्हि अधुनैव गत्वा एकेनैव झम्पप्रहारेण नाशयामि तम्।’
इत्थं बहुतरं गर्जति विष्कम्भे राजसभायां कलकलमजनि। महाराजस्तु इतस्ततो दृष्टिं ददन्नपृच्छत्- प्रधानामात्या दूरदर्शिनो न दृश्यन्ते। अपि ज्ञायते क्व ते सन्ति?
-ते द्विजसमाजसम्मुखं भागवतप्रवचनं कीर्तनं च कुर्वन्त: सन्ति सम्प्रति’- इत्यसूचयत् चारश्चपलो नाम वनविडाल:।
- अरे किमयमवसरो भजन- कीर्तनादिकस्य? कीदृशीयं दूरदर्शिता दूरदर्शिनो यत् सङ्कटसमये विहाय सर्वान् न: प्रवचनेऽसौ भीरुर्ब्राह्मणः संलग्न:। - इति सर्वे दूरदर्शिनं निनिन्दु:। चतुरिका तु देव, क्वाहं नितरामल्पमतिर्नारी क्व च महामतिर्महामात्य:, तथापि प्रकरणेऽस्मिन् महामात्यस्य भूमिकां सन्दिग्धां पश्यामीति साकूतं यत्किमपि कथयन्ती दूरदर्शिनो निन्दां समेधयामास।
अन्ततो मन्त्रिपरिषत् कुम्भस्य मन्त्रणामभिननन्द। तत्क्षणमेव कम्बुकण्ठ आनीयतामिति विक्रमसिंह आदिदेश। कम्बुकण्ठस्तु लोमशिका- कथितं कपोलकल्पितमपि वस्तु प्रत्यक्षीकृतमिव तथा वर्णयामास यथा शूकरस्यातिप्राकृतचरितमधिकृत्य नाशिष्यत शङ्कालवलेशोऽपि समेषां जन्तूनां मन:सु। अनन्तरं चतुरिकाकम्बुकण्ठयो: परामर्शमूरीकृत्येत: सप्तमेऽह्नि शूकरस्य पल्वलदुर्ग आक्रान्तव्य इति निर्धार्य विसृष्टा विक्रमसिंहेन राजसभा।
अथ चतुरिकाकम्बुकण्ठौ प्रतिदिनं शृगालवैतालिकै: शूकरं प्रोत्साह्य तथा नभसि चटयामासुर्यथासावात्मानमेव परमेश्वरं चक्रवर्तिनं महामहेश्वरं वा मन्यमान विक्रमसिंहेन भाविनं विमर्दं प्रतीक्षमाणस्तस्थौ।
।।इति विक्रमचरिते आख्याने षष्ठ उच्छ्वास:।।