।।अथ सप्तम उच्छ्वास:।।
तथापि मनोगुहाया महातमसि घूकरस्य व्यवर्धत् तमोमयी भीति:। क्वाहं रथ्यापङ्कविलुण्ठनपर: शूकर: क्व चासौ प्रखर: प्रबल: प्रकृष्टो विक्रमैकधनो युद्धरसिको विक्रमसिंह:, सर्वथा शृगालभाषितैर्मोहितोऽस्मि, अनेन संरभेण निश्चप्रचं मरणं प्राप्स्यामि, इत: पलायनमपि कर्तुं न प्रभवामि, यतो ह्यनिशं रक्षन्ति समस्तं पल्वलतटं बद्धपरिकरा इमे फेरव: नैते दास्यन्ति मां पदात् पदमपि बहिर्गन्तुम् नन्वयं दुरभिसन्धि: सर्वथेतो भ्रष्टस्ततो नष्टोऽस्मीति परामृशन्नपि यथासौ क्रूरो वृको मम स्पर्शमवाप्य स्वयं पलायितस्तथा मन्ये केनापि चमत्कारेणायं विक्रमसिंहोऽपि मयि सम्मुखीने प्रणष्ट: स्यात्, यथैते लोमशिकादय: कथयन्ति सत्यमेवादिवराहस्यांशो मयि स्यात्, अहमेव स्वात्मानं न वेद्मि। सर्वैर्जन्तुभिरात्मा ज्ञातव्य:। तथा चाह भगवती श्रुति: - ''आत्मा वा अरे ज्ञातव्य: श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति।
इत्थं चात्मानं बहु विगणयन्नपि नात्मनैवात्मानं नावलम्बमान:, स्वयमेव स्वात्मानमाश्वासयन्, तृणेऽपि चलति शङ्कापिशाच्या परिकम्पमान: संशयविस्मयमये मनोलोके विचरन् पल्वलगर्तेषु निलीयमान आत्मानं ररक्ष चतुरिकाया: कम्बुकण्ठाद् वैतालिकेभ्यश्च शृगालेभ्य:।
तथापि वैतालिकशृगालानामनुदिवसमुपचीयमानं स्तुतिगानमदीपयत् तच्चेत:। कदाचिदसौ- ननु विक्रमसिंहेन सञ्जायमाने सम्मर्दे सम्भाव्यते मम सर्वनाश इति चेतसि कलयति, कदाचिच्च- अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्रेति न्यायेन कदाचिदहमेव विजयी भवेयमिति, न च सर्वथा भाग्यायत्तं समस्तं वस्त्विति मन्वानेन मया विश्रान्तेनैव भाव्यम्, पौरुषमपि स्वीयं रक्षणीयं परीक्षणीयं च। यथोक्तं माघकविना-
नालम्बते दैष्टिकतां न निषीदति पौरुषे।
शब्दार्थौ सत्कविरिव विद्वान् द्वयमपेक्षते।। इति
अथोपेयुष्याषाढे, कज्जलचयेष्विव घनघटासु नभसि च्छटामनुपमां प्रकटयन्तीसु सहसा पूगस्थूलं ववर्ष मघवा। सद्य:सीरोत्कषणसुरभि समभवत् समस्तं वनप्रान्तम्। उन्मीलितानि कुटजपुष्पाणि। चम्पकश्चमत्कृतिमाततान। निस्तीर्णचिरविरहव्यथा: कामिन्य इव रोमाञ्चाञ्चिता प्रतिभान्ति स्म स्फुटकोरका: कदम्बयष्टय:। आतुरातुरा इव तीव्रं चुकूजुर्मयूरा: द्विधा भिन्ना: षड्जसंवादिनी: केकांश्चानेका: कलयन्त:। हरिततृणमयं नीलचोलकं परिधाय नववधूरिव प्रतीयाय वसुन्धरा। प्रावहन् पदे पदे प्रणालिका:।
दैवयोगाद् पल्वले घूकराध्युषितेऽमिलद् राढापुरग्रामात् प्रवहमाणं मनुष्याणां विष्ठाभि: रथ्यासु सङ्कीर्णेन मलेन मिश्रितं कर्दममयं जलम्। तेन भीषणं दुर्गन्धमुवाह तत् पल्वलम्। घूकरोऽपि- किं करोमि, क्व गच्छामि मदीयं तु जीवनमस्मिन् पल्वल एवेति चिन्तयन् समधिकतरं तस्मिन् शकृत्पिण्डपिच्छिले पङ्कश्यानजलेऽवगाढ आत्मानं घृणितदुर्गन्धमयपङ्केन लिम्पंस्तदाकारतां दधान: प्रतीयाय विग्रह इव बीभत्सरसस्य।
अथ सम्प्राप्ते पूर्वघोषिते द्वन्द्वयुद्धदिवसे दैवयोगान्मुहुर्वर्षति देवे पूरोत्पीडमापेदे क्षुद्रमपि तत्पल्वलम्। घूकरश्च आत्मानं तज्जले सान्द्रपङ्कसम्भिन्ने ब्रुडनाद् रक्षितुं पल्वलतटमाययौ।
तस्मिन्नेव समये पुंस्कोकिलपुरोहितनिर्दिष्टे विजयमङ्गलमुहूर्ते विक्रमसिंह: पल्वलदुर्गमाक्रान्तुं विनिर्जगाम।
अथ जयघोषणां कुर्वत्सु वैतालिकशृगालेषु वादयत्सु सचीत्कारं चक्रवाकेषु तूर्यम्, शङ्खध्वनिं गुञ्जयत्सु गजेषु, सम्मुखमापतिते गर्जति विक्रमसिंहे घूकरोऽयं मा भयेन पलायेतेति चतुरिका-कम्बुककण्ठाभ्यां विनियोजिता विंशतिसंख्याका: शृगाला ‘विजयतां चक्रवर्तिप्रमुखो महाराजो घूकर’ इति घोरैर्घूत्कारैर्घोषयन्तस्तं परिवार्याग्रेऽग्रे प्रणुदन्त: प्रचेलु:।
घूकरस्तु- 'नूनमयमागता पश्चिमवेला, पल्वलवेलायामस्यां प्राप्तमिदं जीवनावसानम्, इमे कण्ठगता एव प्राणा यदयं मद्रक्तपिपासुरिव जिघांसुर्मर्मविदारयितुमायाति पुरो विक्रमसिंह:। हा कलङ्कवति, त्वामपश्यन्नेव त्यजामि जीवितम्। हा कृष्णमुखि, कामं विस्मर माम्। हा दु:शीले कृशोदरि सुखं विहर युवभि: शूकरै:। हा मदीया: पुत्रा: पौत्रा: दुहित्र्यो नप्तार: स्मर्तव्योऽयं युष्माकं पूर्वपुरुष’ इति सकरुणं मनसि विलपन्, विकरालं कालमिव विक्रमसिंह दर्शं दर्शं भयेन कम्पमान: शृगालसमूहविनिर्मितव्यूहात् पलाय्य विनिर्गन्तुमप्यशक्नुवानो भयार्तश्चीत्कारमकरोत्। श्रुत्वा तच्चीत्कारम्- 'अहो विजयदुन्दुभि: स्वयं निनादितश्चक्रवर्तिना महाराजघूकरेण, विजयतां देव- इति घोषयन्त: पुनरपि जयजयकारमकुर्वन् पृष्ठवर्तिन: शृगाला:।’
विक्रमसिंहस्तु- 'अरे नीच शूकर, अयं न भवसी’ त्युक्त्वा सहसा सरभसोत्फालमुत्तालमुत्पत्य विशालं स्वकायमधिशूकरं निपातयन्निव दुद्राव। शूकरोऽप्यात्मत्राणार्थं सन्नह्यमान: पदत्रयं पृष्ठवर्ती यावद् भवति तावत् तन्नेदीयान् विक्रमसिंहो नासापुटविदारणनिपुणेन घूकरदेहोद्गतेनासह्यदुर्गन्धेन घूर्णितशिरा आकस्मिकचपेटाघातेनेव स्तब्धनां नीत:। - अयमिदानीं कवलीकृतोऽस्मि कालेनेति प्रतीक्षमाणो घूकरस्तु पुनरपि शृगालैर्जयजयकारपुरस्सरमग्रे सर्तुं नोदित: शनै: शनैर्वेपमान: स्रस्तगात्र: नयनयुगलमुन्मील्य जोषं स्थितं विस्मृतगर्जनं घूर्णितमस्तकं कूणितघ्राणेन्द्रियं विक्रमसिंहं समक्षमीक्षाञ्चक्रे। 'किमिति मामयं सिंहो न प्रहरति’ - इति साश्चर्यं विचारयन् पुनरपि पलायनं विमशृन् स पृष्ठवर्तिभि: शृगालैरग्रेसर्तुं नोदितो यथाकथञ्चित् पदद्वयमग्रे ससार। तेन स उत्कटतरेण दुर्गन्धेन बाधितो विक्रमसिंह: पदत्रयं पृष्ठवर्ती बभूव। - अरे किमर्थमयं मां परिजिहीर्षति, अस्पृश्यवि मन्वानो मत्तो जुगुप्समाण इव पृष्ठवर्ती भवति पश्यति मां जुगुप्सयेति विस्मितो घूकर: प्रोत्साहितोऽग्रे सरणाय वैतालिकै: शृगालै: सङ्कुचन्नपि भयसम्पिण्डितगात्रोऽपि पुर: पदमेकं तदनु पदद्वयं च ददौ। दरनेदीयसि तस्मिन् महता दुर्गन्धेन पुन: परिक्लिष्टो विक्रमसिंह: पदत्रयं पृष्ठत: ससार। दृष्ट्वैतच्छूकरोऽपि सञ्चितसाहस: प्रत्यार्पितप्राण इव मनाक् त्वरया पदत्रयं तमभिमुखश्चचाल। सिंहस्तु तत्स्पर्शं परिजिहीर्षु: तद्- दुर्गन्धेन जुगुप्समानस्तथापि शूकराय पृष्ठं दर्शयितुमनिच्छन् त्रीणि पदानि वलितग्रीवं पृष्ठत: ससर्प। सर्वेऽपि तन्मन्त्रिणस्तद्विषया वा सभयं चकित चकितं अप्रत्याशितमिदं वृत्तं प्रत्यक्षमप्यविश्वसनीयमभूतपूर्वमपि भूतपूर्वं ददृशु:। शूकर आक्रामति, सिंहस्तु तं परिहरति किमिदमापतितमिति ते परस्परं गूढेङ्गितै: पपृच्छु:। पुनरपि समभिमुखं सरति शूकरे सरीसृप इवोर्ध्वग्रीवोऽपि सिंहस्तस्माद् दूरवर्ती बभूव। एतेन सर्वथा प्रगुणितोत्साह: शूकरमस्तु- 'अरे दुरात्मन् विक्रमसिंह, अद्य नाशयामि त्वा’- मित्युच्चैरुक्त्वा सरभसं सोत्फालं तमाक्रान्तुमधावत्। सिंहस्तु घृणितोऽयं प्राणी स्पृक्ष्यतीदानीं मा’ मिति बीभत्समानो मुखं परावर्त्य दुर्गन्धविनिवारणाय निरुद्धनासिकत्वान्मन्दं गूङ्कारमेव प्रकुर्वन् विस्मृतगर्जनस्त्वरया धावंस्तस्मात् स्थलादुदग्रप्लुतत्वाद् वियति डयमान इव प्रधावन् दूरीभूतो दुर्गमं दुराधिरोहं दुर्गं पर्वतगुहास्थितं शिश्रिये। चतुरिकाकम्बुकण्ठाभ्यां प्रेरिता: शृगाला: विजयतां महाराजश्चक्रवर्ती शूकरशिरोमणिर्घूकर इति डिण्डिमध्वानं घोषं गुञ्जयाम्बभूवु:।
अनेन समयेन परिणतो दिवस:। च्युतसंस्काराकाण्डप्रथनाकाण्डच्छेदादि दूषितं काव्यं श्राव्यं श्रावमिव समीक्षकशिरोमणि:, अतिबीभत्सभयानकादिसंवलितं कुकविकृतं नाटकमिव प्रयुज्यमानं दर्शं दर्शं दर्शको दिनमणिरस्ताचलविनिहितमौलि: किमपि दध्यौ। विहाय भूतलं तदनु तरुमूलं तत: स्तम्बान् शाखाश्च वृक्षाणां शिखरान् शिश्रिरे तत्करा:। निज-निजनीडेषु निलीना विहङ्गमा:। शूकरसन्ततिरिव तमस्तोमो नभसोऽवततार। घूकरदेहे विलिप्तं श्यानपङ्कमिव पुञ्जीभूतोऽन्धकारो धरादेहमालिलिङ्ग। कज्जलपर्वता इव समुद्गता: पल्लवपङ्के। दरप्रकटतारकं मसृणाञ्जनलिप्तं परमपुरुषनयनमिव नभ: प्रतीयाय।
क्रमेण च शान्तेषु शूकरविजयोद्घोषरवेषु श्व एव दुर्गमवनचक्रवर्तित्वे भवन्तमभिषेक्ष्याम इति संसूच्य सादरमापृच्छ्य गतवतोश्चतुरिकाकम्बुकण्ठयो: स्वप्नाधीनोऽस्मि वा जाग्रतोऽस्मि वेति विचारयन् घूकर: प्रविवेशपल्वलस्य पङ्कप्रायप्रदेशम्। किमिदं सञ्जातं, किमर्थं पलायित: परमपराक्रमी पुरुषार्थैकधनो नो भर्तेति विस्मयाविष्टा किमपि वक्तुमपारयन्तो गज- द्वीपिव्याघ्रादयो विक्रमसिंहामात्या नतमस्तका जोषं स्वस्ववसती: प्रति चेलु:। अन्ये च जन्तव: अत: परमयमेव भर्ता भविष्यति न इति शूकराय प्रणामाञ्जलिं समर्पयितुकामा सकुतूहलमधिपल्वलतटं स्थिता:। - बन्धव: सत्यमेवायमादिवराहावतार इति कम्बुकण्ठनियोजिता वैतालिकशृगाला तानूचु:। - गम्यतां, गम्यताम् इदानीं प्रधर्षितविक्रमसिंहो विश्राम्यति चक्रवर्तीति तेषु केचन स्वयमेव दौवारिका भूत्वा साधिक्षेपमब्रुवन्। प्रयातेषु तेषु निखिलमेव वनं गर्भवासमिव जगाम।
।। इति विक्रमचरितआख्याने सप्तम उच्छ्वास:।।