।।अथ अष्टम उच्छ्वास:।।
अथ प्रभातायां रजन्यां पुनश्चूङ्कुर्वत्सु नीडेषु कलरवं कलयन्तीषु तरुशाखासु स्फुटत्सु रविकरजागरितेष्विव पल्वलपङ्कप्ररूढेषु पङ्कजेषु घूकरो जजागार। जाग्रत एव च पल्वलतटीमपश्यत् समस्तै: दुर्गमवनप्राणिभि: परिवारिताम्। बभूव तत्रातिमहान् सम्मर्द: पशूनाम्। क्वचिदुपरि वृक्षान् चीत्कुर्वन्ति स्म दात्यूहाश्चातका: कलविङ्का: करेटव: काका: काकोला: कालकण्ठका: पिकानां मयूराणां च कलरवं न्यग्भावयन्त:। अधिभूमिमेकत: स्थिता व्याघ्रास्तरक्षवो वराहा भल्लूका गण्डाश्च। अन्यत्र शिवा अशिवं रवं व्यतेनु:। कोणके शल्यका शललानि सन्नह्य संस्थिता:। सुदूरं च स्वस्वयूथेषु जोषमासतुर्वातप्रम्य: कुरङ्गा ऐणेया: कृष्णसाराश्चमर्यश्च।
अहो किमसौ विक्रमसिंह सन्नह्यक्षौहिणीं चमूं मामुपरोद्धुं समायात:, अप्येते जन्तव: सम्भूय सर्वथा सम्मर्दयिष्यन्ति मामिति भयविह्वल: कथमपि गूङ्कारमकरोत् घूकर:। रक्षार्थमात्मनो यावदसौ श्यानपङ्कमयगर्तं प्रविशति तावच्चतुरिकाप्रेरितैर्वैतालिकशृगालैरिमां जागरणगीतिं गीयमानामशृणेत्-
प्रभो हे जागृहि जातं सुप्रभातम्।
अरुणकिरणविच्छुरितं धरामण्डलं
रचयति पल्वलजले धनुराखण्डलं
पङ्कमपि सुविमलं भवति प्रविभातम्।
क्षीराब्धौ विष्णुरसौ शेते शेषे
त्वमिह च पङ्के गाढं गाढे शेषे
भवतु वनमिदं सकलं त्वया विभातम्।
श्रुत्वा च प्रत्यग्रतां प्राप्त: सुखमुच्छ्वसित: शूकर: पङ्कशैयाया समुत्थित:। तत्क्षणं चतुरा चतुरिका पुरस्तस्यागत्य सप्रणामं सप्रश्रयं प्रार्थितवती- देव, सज्जा सामग्री अभिषेकस्य। आगम्यताम्, अङ्गीक्रियतां दुर्गमवनचक्रवर्तित्वम्।
शूकरस्तु दरसमुत्थापितविकृततुण्ड: कृतघूङ्कार: क्षणं प्रहस्य- 'अरे किमिति यूयं मह्यं शयितुमपि न दत्थ, आस्तां तावत्। उच्यतां किं करणीय’ मिति सभ्रूभङ्गं भङ्गीभिरानताङ्गं मुहुर्विहितपङ्कसङ्गमुवाच।
चतुरिका कम्बुकण्ठौ तु - 'अहो देवस्यौदार्यम्, अहो गाम्भीर्यम्, अहो अधृष्यत्वमहो दुरालोकत्वमिति दशकृत्वमहोकारं कारं कारं पृष्ठत उपस्थितं रटनपण्डितं नामशुकं संज्ञया प्रेरयामासु:, येनासौ तत्क्षणं विविधमन्त्रोच्चारपुरस्सरं शूकरराज्याभिषेकविधिं निर्वर्तयामास। प्रवाहितं च शूकरशिरसि समनन्तरमेव शृगालै: पल्वलस्य कर्दमकलुषितं जलम्। इत्थमसौ घूकरो दुर्गमवनसम्राट् सञ्जात:।’
तस्माच्च दिनादारब्धं दुर्गमवने शूकरसाम्राज्यम्। चतुरिका तु घूकरेण प्रधानमन्त्रित्वे साग्रहं विनियुज्यमानापि ''किं ममोच्चपदेन परिपोषितमदेन, केवलं देवपादानं चरणपङ्कसेवामेव वाञ्छामीति बारं बारं सशपथं व्याजहार। तेन सा राज्ञो वैयक्तिकसचिवपदं लम्भिता। तदनु तत्परामर्शाच्छूकरो दुर्गमवनजन्तुष्ववचायमवचायं यं वा तं वा यद् वा तद् वा पदमलम्भयत। तथाहि - मन्दमतिर्नाम रासभो गृहमन्त्रित्वे, कम्बुकण्ठ: खाद्यमन्त्रित्वे प्रज्ञाचक्षुर्नामोलूकश्च रक्षामन्त्रित्वे नियोजित:। हर्षिता बभूवू रासभा महिषा वेसरा: शृगाला लोमशिकाश्च। गजा व्याघ्रा द्वीपिनो विषादमापु:। हंसा उड्डीयोड्डीय मानसं जग्मु:। वृक्षेषु व्यवर्धत कृष्णमुखानां कटुकषाय: काकानां कूजितम्। सारसा रसातलमिव प्रविष्टा:। वर्तिका विप्रकृष्टेषु तडागेषु वसतिं चक्रु:। चन्दनकुञ्जेषु निलिल्यिरे भुजङ्गा:। मौनमालम्ब्य तस्थुरवाङ्मुखा पिकाश्च शुकाश्च। मयूराणां कण्ठेष्वेव स्खलिता: केका:।
नियुक्तेषु मन्त्रिषु घूकरो मन्त्रिपरिषद: प्रथमसभां सम्बोधयन् हर्षनिर्भरतया विनि:सरन्नासिकाद्रववशात् क्लिन्नवदनाग्रो मुहुर्मुहुश्चालयन् मुण्डं निजगाद- भवतां स्नेहेनास्य पल्वलस्य चिक्कणपङ्कसदृक्षेन सर्वथा विलिप्तोऽस्मि। क्व पुरीषावृतोऽयं जन: क्व च दुर्गमवनस्यास्य सर्वथा दुर्गमं दुर्लभं दु:शासनीयं च चक्रवर्तिपदम्। परन्तु काल एवायमीदृशो येनास्मादृशा दलिता दीना हीनाश्च राजपदं नीता:। अत एव सर्वत्र अस्मादृशानां दलितानां दीनानां च यथा स्थानं भवेत् तथा प्रयत्नो विधेय:। सामाजिको न्याय एतेभ्यो देय:। अस्मिन् महोद्यमे भवतां मुक्तकण्ठेन सहयोगं प्रार्थये। दाढर्यमुपैतु शूकरसाम्राज्यम्।’’ इति।
अखिला च मन्त्रिपरिषन्महाराजस्य वच: सतालिकावादनमभिननन्द। बहिश्च घूकरमहाराजस्य जयजयकारध्वनिर्जुगुञ्ज। अनन्तरं च कम्बुकण्ठ आह- अस्या मन्त्रिपरिषदो मन्त्रिपरिषदिति नाम पुरातनं निरर्थकं चेति नामास्या: शूकरपरिषदिति यदि विधीयेत तर्हि सर्वथा शोभनं स्यादिति। सर्वेऽपि प्रस्तावममुं सहर्षं स्वीचक्रु:।
सञ्चालिताश्च शूकरपरिषदा दुर्गमवनविकासाय विविधा योजना:। तद्यथा- चतुरिका कदाचित् प्रस्तावमकरोत्- दुर्गमवनमिति नाम न शोभतेऽस्य राज्यस्य। श्रूयते कदाचित् दुर्गमसिंहो नाम राजात्र शास्ति स्म। तेन दुर्गम वनमिति संज्ञास्य विहिता। सर्वथा गर्हिमेतद् यत् कस्यचित् क्षत्रियस्य नाम्ना देशस्य नामकरणमिति। अत्रैव मनुवादो विजृम्भते। अत एव नाम परिवर्तनं विधायास्य देशस्य नाम शूकरक्षेत्रमिति विधीयत इत्यहं प्रस्तवीमि।
श्रुत्वा चतुरिकाया: प्रस्तावं सर्वेऽपि मन्त्रिपरिषत्सदस्या 'अहो चातुर्यमहोदूरदर्शिता, का बुद्धि: को विचार:, ननु नाम्न्येव सर्वं प्रतिष्ठितम्, नाम यदि स्वायत्तं तर्हि सर्वमेव साधितम्, नाम्नि परिवर्तिते परिवर्तितं पुरातनं शासनं सवर्णानाम्, ध्वस्तीकृता रूढय:, नीतं समग्रमपि राष्ट्रं प्रगतिपथ’’ इति प्रशशंसु: सर्वसम्मत्या च चतुरिकाया: प्रस्तावं पारयामासु:।
तस्माच्च दिनाद् दुर्गमवने सकलानां स्थानानां नदीनां पर्वतानामुपवनानां च नामपरिवर्तनक्रम: प्रचचाल। तथाहि- दुर्गमवनमारात् प्रववाह मालिनी नदी। - अस्या मालिनीति नाम्नि सामन्तवादगन्ध उज्जृम्भत इति तै: शूकरानुयायिभि: घूकरमहाराजस्य मातु: पूतिकर्या नाम्ना तस्या नद्यी: पूतिकरीति संज्ञया व्यपदेश आरब्ध:।
प्रत्यहं नामपरिवर्तनमहोत्सवेषु सम्पाद्यमानेषु, आयोज्यमानेषु चोद्घाटनपर्वसु शासनतन्त्रं पक्षाघातहतमिव पङ्गु इव सञ्जातम्। शूकरपरिषत्- सदस्या राज्याधिकारिणश्च जनताकष्टदर्शनेऽन्धा:, तद्दु:खश्रवणे बधिरास्तन्निराकृतौ चानङ्गा अजायन्त। शूकरराज्ये सर्वत्र स्तूपीभूता: शकृद्राशयः। विष्ठाया पर्वता उत्थिता:। मलमूत्रदिग्धा बभूव राजधानी। सर्वत्र कण्टकिता: पादपा: वीरुध: नानागुल्माश्च। शकृत्पर्वतपृष्ठेषु सघन- पल्वलपङ्केषु वा निलीना शूकरसेना आत्मानं सिंहसैनिकेभ्यो ररक्ष, प्रतिदिनमभिनवां च व्यूहरचनामकल्पयत्। तथापि भयमतितरामभिनिविशते स्म समग्रमपि शूकरसमाजं कुक्कुरसमुदायं शृगालसङ्घं च। ते परस्परस्मादबिभ्यन्। इयं चतुरिका सत्यमेव चतुरिका अनया विक्रमसिंह प्रणाश्य राजाहं विहितः कदाचिन्मामियं नाशयित्वा सगन्धं शृगालं कम्बुकण्ठं वाऽन्यं वा राजानं विदध्यात् किं नोक्तं महाकविना सर्वः सगन्धेषु विश्वसितीति घूकरो वितर्कयति स्म। चतुरिकापि नाम्नैवायं चक्रवर्ती कर्मणा तु तृणादप्यवर:, अस्य नाम्ना सर्वं श्यामं श्वेतीकुर्वाणाहं क्वचिदात्मानमेव महति सङ्कटे पातयेयमिति आशङ्कमाना सभयं सचकितं तृणेऽपि चलति पत्रेऽपि कम्पमाने समुद्विग्नाऽभूत्। कम्बुकण्ठस्तु- इयं शृगाली पुंश्चलीव येन केनापि रमणे रुचिशीला विहाय शीलं शूकरेण सुरतमाचरेत्, मां च सम्प्रति निरुपयोगिनं मत्वा घातयेदिति सततमचिन्तयन्। चतुरिका तु चतुर्विंशतिहोरा: कण्ठावसक्तप्राणा इव निरुद्धनि:श्वासनि:सहमतिष्ठत्। सममेव धरणीतलेन मलीमसायन्ते स्म समेषां जन्तूनां मनांसि शूकरसाम्राज्ये। दुर्गन्धेन समं प्रससार वैमनस्यम्। शूकराणां चीत्कृतिभि: सार्धमवर्धत कलह:।
शूकरसम्राट् तु सम्प्राप्य राजसत्तां तां तां केलिं कुर्वाण: कां कां लीलां नाततान। क्वचिदयं सेव्यमानोऽपि नवयौवनाभि: शूकरीभि: शृगालीनां मृदुतरैरग्रहस्तै: स्वदेहं संवाहयामास। यथैव शूकरीषु तथैव कुक्कुरीषु सहजं सुरतं चकार। क्वचिदयं प्राप्तेन्द्रपदो नहुष इव इन्द्राणीं सिंहिनीमभिसारायामन्त्रणं प्रेषयामास। क्रमेण च कृतमस्य वपुषि पल्वल इव पङ्केन पङ्क इव कीटसमूहेन कीटसमूह इव रोगेण मदेन पदम्। आत्मानमसौ महामहेश्वरं जगत्कर्तारं विश्वप्रसवितारममन्यत।
तस्मिंस्तु शूकरसाम्राज्ये धावल्यं कुमुदेषु न प्राणिषु, गौरवं पर्वतेषु नाधिकारिषु, शीलं शिलासु न नारीष्वभूत्। चतुरिका- कम्बुकण्ठादयश्च प्रलोभ्य तं मूढं शूकरं सर्वत्र स्वप्रभुत्वं विस्तारयामासु: स्वस्वगेहांश्च वित्तै: पूरयामासु:।
कदाचिच्छूकरपरिषदि प्रस्तावं पुरस्कृत्यसर्वसम्मत्या च तं पारयित्वा कम्बुकण्ठ: शूकरक्षेत्रविकासपरिषदं स्थापयामास। तस्यां च परिषदि स्वभातृव्यान्, भातॄन्, तनयांश्च तेषु तेषु पदेषु नियोजयामास।
इतश्च विक्रमसिंहस्य स्वामिभक्ता द्वित्रा: मनसा पवित्रा प्राणिन: एकाकिन: दु:खेन समयमत्यवाहयन्। विक्रमसिंह: क्वास्ते किं वा करोतीति नाज्ञायत। बहवो जन्तवो विक्रमसिंहादपि घूकरादपि च विरक्ता- यो वा को वा राजा भवतु किं नश्छिन्नमिति तटस्था लोकयात्रामात्रविचारपरास्तस्थु:। अन्ये च- काल एवैतादृश आगतो यच्छूकरा राज्यं करिष्यन्ति, किं कुर्म इत्यकथयन्। केचिदपरे प्राहु:- सत्यं महावराहावतारोऽयं शूकरो येनासमविक्रमेण पराजित्य विक्रमसिंहं क्रमोऽयं नूतन: स्थापित:। तेषु एकेन मिथ्याव्रतशास्त्रिनाम्ना रासभेन 'आदिवराह- घूकरशूकरयोश्चरितस्य तुलनात्मकमध्ययन’मिति शोधप्रबन्धो विरचित:, विद्यावारिधिरित्युपाधिश्च लब्ध:। अनन्तरं महता समारोहेण तस्य शोधप्रबन्धस्य मुद्रितो ग्रन्थो लोकार्पणं नीत:। अन्येन केनचित् मलकान्तनाम्ना शुना घूकरमहाराजचरितं नाम महाकाव्यं पूरितं प्रकाश्यतां च नीतम्। तदधिकृत्यासौ लक्षरूप्यकमितेन श्रीशारदापुरस्कारेण सम्मानित:। अन्यच्च- आदिवराहावतारभूतोऽयं महाबली घूकर इति सर्वत्र पटहध्वनिपुरस्सरं क्रियमाणं प्रचारे वराहपूजाया अतिमहत् प्रचलनमभवद् दुर्गमवने। सर्वत्र रथ्यासु, चत्वरेषु, आपणेषु वा वराहमूर्तय: स्थापिता:। मूर्तिकाराणां शिल्पिनां रजतं स्वर्णमभवत्। वराहमुद्राङ्किता पणा: प्रचालिता: शूकरराज्ञा। प्रकाशका वराहस्तोत्राणि वराहवंशावलीश्च प्रकाशयामासु:। कवयस्तु घूकरस्तुतिशतकम्, घूकरचरितयश:सौरभम् घूकरभैरवी घूकरवैजयन्तीत्यादीनि काव्यानि रचयामासु:। कश्चन काव्याभासनिबन्धनपटुर्बटुकदत्तो नाम पण्डितो घूकरायणम् नाम महाकाव्यं पञ्चषैर्दिवसै: प्रणीय महाकविमूर्धन्योऽभूत्। अपर: कश्चन राजशेखरस्य काव्यमीमांसाया-
नमस्तस्मै वराहाय लीलयोद्धरते महीम्।
खुरयोर्मध्यगो यस्य मेरु: खणखणायते।।
इति पद्यं स्वोपज्ञं विज्ञाप्य खणखणकविरिति विरुदभागभवत्।
परन्त्वादिवराहोद्धृता पृथिवी शूकरसाम्राज्ये पङ्कगर्ते पतति स्म। सर्वत्र दुर्गन्धेन सममराजकता वर्धते स्म। मलेन सहाव्याप्नोति स्म मलीमसत्वम्। कच्चरेण सह विस्तृता बभूव कदर्थना। दुर्जना आसन् प्रसन्ना: सन्तश्चातीतदिवसानां स्मरन्त: कथञ्चित् कालं यापयाम्बभूवु:।
।। इति विक्रमचरितआख्याने अष्टम उच्छ्वास:।।