।।अथ नवम उच्छ्वास:।।
घूकरस्तु- यावदियमासन्दिका वर्तते मन्नितम्बमधस्तावदेव कथं इत: सुदुर्लभान् भोगान् भुक्त्वा भुक्त्वा जीवनरसमनुभवामीति विचार्याविरतसुख- प्रसक्त: प्रवृद्धसुरततृष्णो यथा शूकरसुन्दरीषु तथा कम्बुकण्ठप्रहितासु तरुणशृगालीष्वपि रेमे। आसंस्तदीया बहवश्चाटुकारा भक्ताश्च रासभेषु वेसरेषु वा। ते कदाचित् सद्योनिहतशशानां पिशितमादाय तत्पुरत उपस्थिता भवन्ति स्म, क्वचिच्च स्वादं स्वादमपि विविधविधमांसमयं विष्ठायै लेह्यायै लिप्सत इति तदनुरूपं व्यवस्थापयाम्बभूवु:।
इत्थं शूकरक्षेत्रे जन्तूनामनवरतसेवया शूकरराज: सद्य एव परमपीवरोदर उन्नतघोण: स्निग्धमेदुरमेचककेशनिचितश्यामलगात्रोऽभूत्, शूकरीणां मनांसि च जहार। विलाससंसक्ते तस्मिन् प्रजाकष्टं न कोऽपि न्यभालयत्। सर्वत्र गृध्रा वकाश्चिल्ला व्यचेरु: मुग्धान् जीवितानपि द्विजान् संत्रास्य संत्रास्य जहसुश्च। किं बहुना सर्वथा दुष्ट ताऽदर्शयत् प्रभुत्वम्, नग्ना च ननर्त धूर्तता।
इतस्तु विक्रमसिंहो दुर्गमवनस्यातिदुर्गमायां गुहायामेकस्यामेकाकिजीवनमयापयत्। विरक्तास्तस्मान्मन्त्रिपरिषदो भूतपूर्वा: सदस्या:। विष्कम्भो नाम व्याघ्र इतस्तु शूकरा: सुखेन निवसितुं न ददतीत्युक्त्वा पलाय्य विदेशे वसतिमकरोत्। कुम्भो नाम गजस्तु स्वयूथेन सह सुदूरं तीर्थयात्रार्थमगच्छत्। द्वित्रा पवित्रहृदया: प्राणिन एव क्वचित् क्वचित् विक्रमसिंह दृष्टुमायान्ति स्म। गुहायां प्रायश: स च भार्या चास्य सिंहिनी निवसत: स्म।
एकदा च सिंहनी पूर्वदिवसानां साम्राज्यसौख्यस्य च स्मरन्ती सर्वमेतदनुचराणां विश्वासघातस्यैव दारुणो दशापरिणाम इति विचार्य विक्रमसिंहमाह- नाथ नूनं तथा चतुरिकया कम्बुकण्ठेन च विप्रलब्धावावाम्। श्रूयते तावुभाविदानीं शूकरसाचिव्यं निर्वहन्तौ सर्वे सर्वा: सञ्जातौ।’’ विक्रमसिंहौ विहस्याह- प्रिये किं तेनावयो:? स्वैरं सुखं गुहायां निश्चिन्तं निवसाम:। इह नास्ति शूकराणां गन्धलवोऽपि। यैर्वयं विप्रलब्धास्तेषां चर्चापि न रोचते मे।’
राज्ञी च साऽतितरां खिद्यन्ती अहो कथमेतत् सर्वं समजनि, कीदृशोऽयं विपर्यास:, मन्ये चक्रवर्ती चाप्यन्तर्गूढघनव्यथो बहि: सर्वाकारप्रकट सौख्य: पुटपाकप्रतीकाशस्तिष्ठति, तत् किमत्र विधेयमित्यनिशमचिन्तयत्। गूढाभिश्चारीभि: सा चतुरिका - कम्बुकण्ठयो: सर्वमपि वृत्तमविन्दत्।
कदाचित्तु गुहामुखात् नभसि डयमानानां मन्त्रपाठपावनाधरचञ्चुपुटानां द्विजानां यात्रां प्रयान्तीमसौ ददर्श। भो द्विजा:, कुत्रात्रभवद्भिर्गम्यत इति च स्वयं नारीसुलभसङ्कोचमपाकृत्य ताननुयोज। तेष्वन्यतम: शुक: कश्चन प्राह- भवति श्रूयते दूरदर्शी नाम प्रधानामात्य: पूर्वराज्ञोऽपरस्मिन् वने भागवतप्रवचनं करोति। असौ महापण्डितो गूढतमं तत्त्वमपि नितरां सुबोधं विधत्ते। तत्रैव गम्यतेऽस्माभि: तस्य सभामिति।
तच्छ्रुत्वा राज्ञी सहसा संस्मार दूरदर्शिन:। - अरे यद्यसौ पण्डितोऽत्र स्याद् दूरदर्शी तर्हि दुर्दशेयं नाभविष्यदिति चिन्तयन्ती सा चकितचित्तेनास्मरत् तस्य दिवसस्य यदा तया द्वारादेव दूरदर्शी निवारित:। - अहो, तस्यैव मेऽविनयस्य दुर्विपाकोऽयम् अस्माभिरिदानीमनुभूयते।’ इति। किं क्रियते, कथं च दूरदर्शिन: पण्डितस्यानुग्रह: क्षमा वा प्राप्येतेति चिन्तयन्ती राज्ञी न कमप्युपायमविन्दत।
एकदा तु पुराणवस्तुषु कदाचिदन्तर्वस्त्रमन्विष्यन्ती सा तन्मध्ये विनिक्षिप्तां भोजपत्रचिटिकामेकामपश्यत्। लिखितमासीत् तस्याम्-
सुप्यति स्त्र्याहितभारो निशमयति स्त्रीमुखेन च वाचिकम्।
नृपतिर्नश्यति सद्यो भग्नं भवति च तथा राज्यम्।।
पठित्वा चार्यामिमां राज्ञी सस्मार यच्चिटिका सा दूरदर्शिना लिखिता आसीत्। एतदेव प्रक्षालनावसर: स्वापराधस्येति विमृश्य ससङ्कोचं साकूतं चिटिकां सा राज्ञे प्रादर्शयत्। - किमिदमिति पृष्टवति तस्मिन्नाह सा- आर्यपुत्र! तेन शूकरेण सम्मर्दात् प्राक् दूरदर्शी पण्डितो द्वारमस्माकमुपेत: किमप्यान्त्यन्तिक कार्यं राज्ञा सह वर्तत इत्याह च, परं विश्रान्ते भवति मया मूढयाऽसौ द्वाराद् विनिवारित:। तेन च 'राजा यदा जागर्ति तदाऽस्मै चिटिकेयं देये त्युक्त्वा चिटिकेयं दत्ता दौवारिकाय। दौवारिकोऽपि मह्यमेवैनां ददौ। अहं चैनां यत्र वा कुत्र निक्षिप्य विस्मृतवती।
विक्रमसिंहस्तु चिटिकां पठित्वा कियत्कालं विचारमग्नस्तूष्णीं तस्थौ। अन्तत: प्राह- नूनं दूरदर्शी चतुरिका- कम्बुकण्ठयो: कैतवमविन्दत। तद्विषये च ममसौ प्रबोधयितुमागतः हतभाग्यतयाऽस्माकं स च तपस्वी द्वारान्निराकृतो जगाम। अहो मौग्ध्यं मे। के प्रवञ्चका: के च विश्वसनीया इति मया न ज्ञातम्। तद्दिनादनादृतो गत: स न दृश्यते।’
राज्ञी प्राह- श्रूयते तत्र भवान् दूरदर्शी भागवतप्रवचनं करोति इत: पञ्चक्रोशं पञ्चक्रोशवने। तत्रैव गत्वाऽस्य दर्शनं कुर्म:।
विक्रम: विरक्तयाऽऽह- तेन किं स्यात्?
न स्यात् किमपि। भागवतमेव श्रोष्याव:। अयं हि परमो लाभ: स्यात्। भार्याया अनुरोधं रिरक्षन्ननिच्छन्नपि विक्रमसिंहो गमनायोद्यक्त:।
चिरकालाद् गुहावासं परित्यज्य बहिरायातो विक्रमसिंह: सर्वत्र दु:स्थितिं राज्ये ददर्श। अदूयत तस्य हृदयम्। द्वित्रा: पञ्चषा: दुर्गमवनवासिनो मार्गे तमित्थं सपत्नीकं व्रजन्तं दृष्ट्वा सचकितं विस्फारितनयनैर्निर्वर्णयन्त: सादरं प्रणम्य प्रणम्यास्य कृते दूरान्मार्गं जहु:। विक्रमसिंहोऽपि तान् कुशलं पृच्छन् सगौरवं सभाजयन्नग्रे ससार सह श्रीमत्या।
क्रमाच्च क्रमान्तावद्रितटांस्तांस्तांश्च कान्तारभागान् प्रापतुस्तौ पञ्चक्रोशवनं यत्र पञ्चलक्षं प्राणिनो निगमकल्पतरोर्गलितं फलं शुकमुखादमृत द्रवसंयुतमिव भागवतं रसं सतृणं पिबन्त आसु: व्यासासने च समासीन: पण्डितो दूरदर्शी मध्ये मध्ये दृष्टिं निक्षिपन् पुरत: स्थापिते पुस्तके प्रसन्नगम्भीरौदारया वाचा श्रीमद्भागवतं व्याचष्ट।
सभार्यो विक्रमसिंहस्तत्र तूष्णीं श्रोतृसमाजे निषण्ण:। श्रोतृषु केचन प्रेक्ष्य भूतपूर्वं महाराजं राज्ञीं च सम्भ्रान्ता सविनयं तयो: कृते स्थानं ददन्त: शनैरपसरन्तो विक्रमसिंहेन साकूतं ससमाश्वासनं निवारिता मा भागवत- प्रवचनेऽन्तरायो भूदिति। दूरदर्शी तु विषयविवेचने तदाकाराकारितचित्ततया न विक्रमसिंहस्य सभार्यस्यागमनं लक्षीकृतवान्।
भागवतकथावसाने सम्पन्न आरात्त्रिक्ये शनै: शनै: प्रणम्य व्यासपीठस्थं दूरदर्शिनं श्रोतारो जग्मु:। विक्रमसिंहो राज्ञी च भामा समं चान्ये द्वित्रा विश्वस्ता सहचरा दूरदर्शिनोऽवशिष्टा:। दृष्ट्वा च सभार्यं विक्रमसिंहम्- अहो महानयं हर्षविषयो यत् पश्यामि महाराजमिहे त्युक्त्वा दूरदर्शी व्यासपीठादवतीर्य विक्रमसिंहं प्रत्युदगच्छत्। विक्रमसिंहोऽपि सस्मितमेनं निवारयन्नाह- द्विजवर, आस्यतां तत्रैव पीठे। शोभते श्रीमांस्तत्र निषण्ण:। न मयाद्यावधि विज्ञात: श्रीमतामिह भागवतकथोपक्रमोऽन्यथा प्रागेवागत्य श्रावं श्रावं कथां पावनीं धन्योऽभविष्यमिति। भामाप्यवसरं प्रतीक्षमाणा तदानीं सप्रणाममाह दूरदर्शिनम्- ब्रह्मन्, द्वारमुपागते तप:पूते भवति विप्रे तद्दिने मया अज्ञानात् स्त्रीसुलभचापल्याद् भवान् निवारित:। क्षम्यतामियमपराधिनी। सम्यग् लिखितमासीच्छ्रीमता तद्दिने तस्यां चिटिकायाम्-
सुप्यति स्त्र्याहितभारो निशमयति स्त्रीमुखेन च वाचिकम्।
नृपतिर्नश्यति सद्यो भग्नं भवति तथास्य राज्यम्।।
तदेतद् भवता दूरदर्शिना त्रिकालवेदिना या भविष्यवाणी विहिता सा सत्यतां गतेति।
दूरदर्शी तु सविनयमाह- देवि, न सा आर्या आर्याया: कृते मया लिखिता। जानामि भवत्या: शीलं चाभिजात्यं च। मया तु चतुरिकादीनां कृते तत्रेङिगतमकारि। तेषां दुरभिसन्धे: सर्वोऽयं दुर्विपाक:। अहमपि तेषां घृणितचरितदर्शनं परिहरन्निह भागवतप्रवचने आत्मानं न्ययोजयम्। परन्त्वत्र ये श्रोतार आयान्ति ते मामयोग्यस्य राज्ञ उत्सारणाय मुहुर्मुहु: कथयन्ति। किमपि कर्तुम्। आस्तां तावत्। परमेश्वरस्येच्छया अवश्यं शोभनं भविता। इदानीं विधीयतां विश्राम:। श्व: क्वचिदस्मिन् विषये चर्चा स्यादिति।
अन्येद्युश्च विक्रमसिंह: पञ्चक्रोशवनमागत इत्युदन्तमाकर्ण्य तस्य पूर्वमन्त्रिण: कुम्भो नाम गजो निकुम्भो नाम द्वीपी विष्कम्भो नाम च व्याघ्रस्तत्राययु:। दूरदर्शिनो भागवतकथावसाने ते तेन सह राजानं मिलिता:। सर्वैश्च विक्रमसिंहो विज्ञापित: - महाराज, असह्या सर्वथा जाता दुर्गमवने व्यापता अराजकता शूकरराज्ञो मदान्धता कुनीतिश्च। विनाश्य तं पुनरपि चक्रवर्तित्वं भूषयतु देव:।
विक्रमसिंह आह- इदानीमपि स एवास्मि विक्रमसिंहो विक्रमैकरस:। इदानीमपि परिस्फुरन्ति बलवत्तरेण सत्त्चेन सम्मर्दाय गात्राणि। यदि तेजसा मत्तुल्य: कश्चन मया योद्धुमिच्छति तर्हि आकार्यतामसौ। परन्तु घृणितोऽसौ विष्ठया कृमिकीटैश्च विलिप्त: शूकरस्तु न स्पर्शार्ह:।
दूरदर्शी अवादीत्- असौ शूकरो मलेनात्मानं रक्षति न वीर्येण। प्रथमं तावदसौ निर्मलो यथा भवेत् तथा अस्माभि: करणीयम्। तथात्वे न स्यादसौ राजा।
पण्डितस्य दूरदर्शिन: प्रस्तावं सर्वेऽभ्यनन्दन्। चिरं विमृश्य तै: शूकरस्य राज्ञो विनाशाय कापि योजना निरमायि, अनन्तरं च सर्वे विक्रमसिंहमापृच्छ्य स्वस्वस्थानं जग्मु:। अथासौ दूरदर्शी लम्बकर्णं दीर्घापाङ्गं च सर्वं वृत्तं न्यवेदयत्। आह च- भ्रातरौ, यावदसौ शूकर: तथैव मलिनस्तिष्ठति, न तावत् महाराजो विक्रमसिंहो एनमुपसर्पिष्यति, का कथा द्वन्द्वस्य। अत एवासौ यथा घृणितं मलिनं वेशं परित्यज्य शुचिर्भवेत् तथा यत्नो विधेय:।
अन्येद्युश्च दूरदर्शिप्रेरिता: पञ्चदश: द्विजा शूकरसभायां कलिकल्मषविग्रहायामुपस्थिता:। दूरादेव ते रसालतरुमेकं संश्रित्य शूकरस्य स्वस्तिवाचनं व्यदधु:।
घूकरस्तु पङ्कासनमासीनो मुद्रितनयन: सुखं शुश्राव स्वस्तिवाचनम्। अनन्तरमाहूय सेवकं समादिशत्- अरे किमिति इमे कीरा मम स्तुतिं गायन्ति। एभ्य: दक्षिणां देहि।
कोशाध्यक्षस्तु जानुदग्धो नाम शृगालो यावद् राजकोशे कीराणां कृते अमृतफलानि आमलकानि वा शीर्णानि जीर्णानि अन्विष्यति, तावदेव दूरदर्शीप्रशिक्षित: तस्य महाशब्दो नाम सुत: सादरं पदद्वयमग्रे चलित्वोवाच शूकरम्- विजयतां शूकरक्षेत्रमहाचक्रवर्ती महानुभावो महातेजा: महावीरो महाप्रभु: महाराजो घूकर:। देव, शूकरक्षेत्रस्य द्विजमहासभा महाराजस्य महाभिनन्दनं कर्तुमिच्छति। तदर्थं पक्षिविहारे विनिर्मितो महामञ्च:। श्वस्तत्र समेत्य महाभिनन्दनं स्वीकुर्वन्तु महाभागा: महोत्साहं च महतानुग्रहेणास्माकं वर्धयन्तु इति उक्त्वा सप्रश्रयं सप्रणामं विरराम।
घूकरस्तु कथमेते द्विजा इह सम्प्राता: कोऽत्र दुरभिसन्धिरिति विचारयन् शनै: शनैरुदीयामास- ''भो द्विजा:, महाभिनन्दनस्य प्रस्तावोऽयं प्राप्तो मया। एष प्रस्ताव: शूकरसभाया: कार्यकारिण्यां स्थापयिष्यते। यदि कार्यकारिणी एतत्प्रस्तावं स्वीकरोति, तर्हि निश्चययेव महाभिनन्दनस्वीकरणाय समपुस्थित: स्याम्।’’
इत्युक्तवति घूकरे सर्वेऽपि पञ्चदश शुका महाशब्देन महाशब्दपुरस्सरं प्रेरिता: 'जयतु जयतु देवो घूकर: शूकरोऽयम्।’ इति जय जय शब्दं तास्वरेणोद्घोषयामासु:। पुन: पुन: जयकारं तारं समुद्घोषयन्तस्ते कीरा: विलिल्यिरे।
अथ गतेषु तेषु घूकर: सम्राट् शूकरसभाया: कार्यकारिणीमाकारयत्। अकथयच्च- प्रिया: शूकरबन्धव:। विचारणीय: प्रश्नः उपस्थित:। कश्चन प्रस्तावो वर्तते। द्विजमहासभा मम महाभिनन्दनं कर्तुमभिलषति। एतत्महाभिनन्दनं मया स्वीकरणीयं न वेति भवन्त: सर्वे विचारयन्तु।
तच्छ्रुत्वा विकृतघोणो नाम शूकर: प्राह- 'तस्मिन् महाभिनन्दने किं प्राप्स्यतेऽस्माभि: ओदनं वा पक्वान्नं वेति प्रथमं विज्ञेयम्।’
अन्ये तं प्रतिवदन्त: ऊचिरे- विकृतघोण, नायमाहारविचारावसर:। इयं कापि गम्भीरा राजनैतिकी समस्या आपतिता। द्विजमहासभा इदानीं यावन्महाराजं विरुणद्धि स्म। कथं सहसा ते तथा ऋजव: सञ्जाता यत् विस्मृत्य विरोधं शिरोधार्यं विधातुमुत्कायन्तेऽस्माकं राजानम्। अवश्यमत्र कश्चन दुरभिसन्धि: स्यात्।’’
घूकरस्तु एतच्छ्रुत्वाऽतीव विकल: मनसि भीत: इतस्ततो दिक्षु विनर्तयन् चक्षु: प्रोवाच- चतुरिका न दृश्यते। ज्ञायतां क्वास्ते सा। यद्यत्र दुरभिसन्धिस्तर्हि नूनं सा जानीयात्।
निर्ग्रीवो नाम शूकर: चतुरिकायै भृशमसूयमानो रोषद्वेषेर्ष्याकषायित: कष्टमुच्छ्वसन् शूत्कृतिततिभिर्नि:श्वसन्नाह सा चतुरिका! सा गाढं परितप्यते भवतामभ्युदयं वीक्ष्य। द्विजमहासभा भगवन्तं शूकरमभिनन्दतीति तस्याश्चेतसि लुठिता फणधारा:। अत: सा कथमत्र दृश्येत।
अथ भीतभीतोऽपि घूकरोऽभिनन्दनलोभात् स्वीचकार द्विजमहासभाप्रस्तावम्।
अभिनन्दने व्यवस्था सर्वाऽत्यन्तमेव रुचिकरी शोभना चासीत्। रङ्कुभि:कस्तूरिकामोद: सर्वत्र सभास्थले परिस्तीर्यते स्म। मसृणचन्दनघुसृणविलेपित: गात्रा सञ्चरन्ति स्म अभ्यागतान् सुगन्धिद्रवैवसियन्तो वृषभा: प्रहरिण:।
जय जय शूकरमहाराजेति जयकारै: समं सभामण्डपं विशति घूकरे सहस्रश: शुका: स्तवं व्यदधु:। घूकरस्स्त्वतिमात्रं प्रह्लादित: समुल्लासित: नभसि समुत्थापित इव दिवि डयमान इव मध्येसभं समानीत:। विंशतिशूकरास्तं परिवार्य तस्थु:।
प्रथमं विविधतीर्थजलै: सुगन्धिद्रव्यैश्च शूकरराज्ञोऽभिषेकोऽक्रियत अथ शूकरमहाराजस्याभिनन्दनपत्रं पठति सञ्चालके कमलनयन- नाम्नि शुके सहसा ''कुतोऽयं कथमयम्, किं करिष्यत्ययमिति शूकरसमाजे प्रससारोपजाप:। घूकरस्तु कथमेते ममैव गोत्रजा ममाभिनन्दन एव विघ्नं कुर्वन्तीति रुषा घूङ्कारेण मन्देन तान्निवारयामास। तदनु अभिनन्दनपत्रशुश्रूषया निमीलयामास नयनयुगलम्।
शनै: शनै: प्रखरसूर्यकरैरपसार्यमाणा सघनतमिस्रेव, झञ्झया दूरीकृता मेघमालेव शूकरसंहतिर्विहाय घूकरमपसर्तुमारेभे। कमलनयनोऽपि मध्ये मध्ये विरम्य शनै: पपाठ प्रशस्तिपत्रम्। प्रशस्ते: श्लक्ष्णमसृणकोमलकान्तपदावलीं श्रावं श्रावं मुकुलीकृतलोचनो भावं भावं प्रशस्तिरसं विज्ञातुं च श्रोतृवर्गे तत्प्रभावं घूकरो मनागुद्घाटयामास चक्षुषी। उद्घाटितचक्षुश्च समक्षं वीक्ष्य वीरं विक्रमसिंहं चकित: सन्नगात्र: स्तब्धो बभूव स:।
विक्रमसिंहस्तु दृष्ट्वा तं मधुरं जहास। उवाच च सनर्मव्यङ्ग्यं- शूकरमहाराज, सुखमास्यताम्, श्रूयतां च प्रशस्तिपाठम्। अहं तु केवलं भवदनामयं प्रष्टुमेवायात:। मयपि निमन्त्रणं प्राप्तमस्य द्विजमहासभासमायोजितस्य भवतां महाभिनन्दनस्य। प्रात: स्नानं स्वाध्याय: ईश्वरभक्ति: प्रणिधानं चेति नित्यनैमितिकै: कर्मभि: समाप्तैर्मम विलम्बोऽजायतेहागमने। परन्तु अनागमनाद् विलम्बेनागमनं श्रेय इति मत्वा आगत इवेत्युक्त्वा विक्रमसिंह पुनरपि जहास।
घूकरस्तु कुतोऽयमाकस्मिकमुल्कापात: कुतो वज्रनिर्घोष इति भयाक्रान्तश्चकित: स्तब्ध: इत: पलायनमेव वरमिति विचिन्तयन्नपि पदात् पदमपि गन्तुमशक्त: सिंहासने सक्तस्तस्थौ। विक्रमसिंह: पुनरपि सहासं ससान्त्ववचनं कमलनयनमाह- द्विजवर पठ्यतामभिनन्दनम्। अलं मत्कृत उपचारेण। यस्याभिनन्दनं तस्यानादरो मा भूत्।’’
कमलनयनस्तु सर्वमेतत् पूर्वनिधारितं विक्रमसिंहागमनमिति जानन्नपि आकस्मिकतया सिंहागमनस्य क्षणमुद्भ्रान्त: कथञ्चित् समापयामासाभिनन्दनपत्रपाठम्। अनन्तरं च घूकराय माल्यार्पणमनैकेशो द्विजमहासभाया पदाधिकारिभिर्विहितम्। कन्दुकपुष्पदामभिर्भाराक्रान्त इव तत्सुगन्धिना घूर्णमानशिरा: घूकर आत्मनि आत्मानं व्यगर्हयत्- अरे किमर्थं मया एतेषां द्विजानां निमन्त्रणं स्वीकृतम्। निश्चप्रचं मां व्यापादयितुमयमेतेषामुद्योग:।
विक्रमसिंहस्तु सादरं शूकरमहाराजस्य पार्श्वेऽधिमञ्चमुपवेशित: सभायां सर्वं कार्यजातं सविनोदं सस्मितमवलोकयामास।
सभा समाप्तिं गता। विक्रमसिंहो घूकरमाह- राजन्, अहमस्य वनप्रान्तस्य भूतपूर्वो राजा भवांश्च अभूतपूर्व:। भवतामभिनन्दनेन प्रीतमना भवन्तमालिङ्गितुमिच्छामि। इत्युक्त्वा विहसन् घूकरं प्रति पदद्वयं ससार। शूकरस्तु द्रष्ट्राकरालं विकरालजिह्वं शोणितवर्षिनेत्रं तं मूर्तिमन्तं कालं मन्यमानो भिया पदद्वयं पृष्ठेऽसर्पत्। विक्रमसिंहोऽपि तद् दृष्ट्वा पुनरपि पदद्वयमग्रे दधौ तत्परिहाय शूकर: पृष्ठत: प्रसर्पन् मञ्चान्निपपात। तद् दृष्ट्वा अरे महाराजो निपतित इति सविस्मयं सस्मेरं साकूतं प्रवदन्त: पशवो विक्रमसिंहाय शूकरमुपसर्तुमवकाशदानाय दूरमपसृता:। विक्रमसिंहोऽपि अवितीर्य मञ्चात् शूकरसम्मुखमाययौ। प्राणिभिपरिचितैरिव परिवारित: भिया पदात् पदमपि गन्तुमशक्नुवन् आत्मानं मृत्युमुखे निपतितं जानन् शूकर: स्खलद्वाचा वाष्पावरुद्धकण्ठ: कथमपि प्रोवाच- महाराज विक्रमसिंह, क्षम्यताम् क्षम्यताम् शरणागतोऽस्मि प्रणतोऽस्मि विनयानतोऽस्मि दासोऽस्मि ते मयि कुरु प्रसादम्।’’ इति।
दृष्ट्वा शूकरराज्ञ इतादृशीं दयनीयां स्थितिं केचन द्वीपिन: गर्जनां चक्रु-वध्यतामयं शूकर:।
विक्रमसिंहस्तु सान्त्वयन् शूकरमुवाच - भद्र, इमास्त्वदीया प्रजा इदानीं त्वामेव घातयितुं सन्नद्धा:। अतस्त्वरितमित: पलायस्व। रक्षात्मानम्। नाहं शूकरान्निहन्मि, न वृथा घातमनुमन्ये। परन्तु परिवार्य त्वदीया एव प्रजा यदि त्वां घ्नन्ति तर्हि नाहं समुदायमिमं निवारयितुं शक्त:।’’
शूकर: प्रकम्पमान उवाच - पलायनं तु करोमि, परं मार्गे एव मां परिवार्य घातयिष्यन्ति प्राणिन:। अतोऽहं पलाये, भवांश्च पृष्ठत: आगच्छतु येन भवतां भयान्न कोऽपि मामुपसर्पिष्यतीति।
विक्रमसिंहस्तु तथेत्युक्त्वा पलायमानं शूकरमनुपदं कियद्दूरमधावत्। शूकरस्तु सर्वात्मभावेन जङ्घाबलमवलम्ब्य द्रुतं दुद्राव दुर्गमवनस्य गुल्मेषु च लीन: पुनरपि स्वसाम्राज्यस्य स्थापनाया: स्वप्नं पश्यन्नतिष्ठत्।
।। इति विक्रमचरित आख्याने नवम: उच्छ्वास:।।
।। समाप्तं चेदमाख्यानम्।।