आदर्शरमणी
प्रथम: परिच्छेद:
अहो अद्य निकामं तमोऽन्धीकतदशदिशावकाशा भयङ्करी निशा। ततोऽपि मुशलधारावर्षं वर्षता पयोभता नितान्तमेव सन्तमसाडम्बरं समुज्जम्भितम। अस्यां निद्रितसमस्तजीवायां त्रियामायां जीर्णशीर्णबहदट्टालिकाकोष्ठे मुमूर्षुरेको मलसङ्कुलशयनीयमधिशेते। शयनी-यस्याऽधस्ताच्च वत्सरमात्रवयस्कां कामपि कन्यकां क्रोडे गह्णती युवती तिष्ठति। सैषाऽविरलगलद्वाष्पनिष्प्रभनयनयुगा वारं वारं निरीक्षते भर्तुर्मुखम्। बालिका च प्रगाढनिद्राभिभूता।
कतिपयक्षणानन्तरं कथङ्कथमपि कष्टादुक्तं मुमूर्षुणा ''प्रभावति”!
युवत्या पत्युर्निकटे वदनं नियम्य पष्टम् ''किमस्ति”?
मुमूर्षु: - मदग्रे कुरु प्रतिज्ञाम्।
युवति: - कीदशी प्रतिज्ञा?
मुमूर्षु: - इयं बालिका यथा पैतकसम्पत्ते: स्यादधिकारिणी तथैव प्राणपणात्प्रयतिष्य इति।
युवति: - प्रतिज्ञास्ये किन्तु -----
मुमूर्ष:- अवश्यं कर्तुं पारयिष्यसि। धर्मपथमनतिक्रामन्त्या: श्रीमान्धर्म एव सहायस्ते भविष्यति।
युवत्या धर्मोत्तेजितमत्या प्रतिज्ञातम्। ''यथैव यौष्माकीणां सम्पत्तिं यौष्माकी कन्या लप्स्यते तथैवाऽऽप्राणपातं यतिष्ये। धर्म: साक्षी श्रीगुरुश्च साक्षी”।
मुमूर्षुणा पुन: प्रत्युक्तम् ''तै: साकं न त्वया शात्रवभावोऽवलम्बनीय:। तथा सति न किमपि कर्तुं पारयिष्यसि। सरल उपायस्ते क्रोड एव” ............
एतावत्येव धराधाम कम्पयन्प्रादुरभूद्भीषणभीषणो वज्रध्वनि:। गहस्थो निर्वाणोन्मुखो दीपो हन्त हन्त कथाशेषोऽभवत्! मन्ये दैवेन वज्रनिनादच्छद्मना मुमूर्षुमन्तव्ये कतोऽट्टहास:। अथवा तत्कथाया: समर्थनमेव कतं स्यात्।
द्वितीय: परिच्छेद:
अस्ति गोदावरीसरित्तीरे हरितक्षेत्राभिराम: पद्मपुरनामको ग्राम:। अहो एषु वैशाखदिवसेषु समधिकमनोरमो दश्यतेऽयं ग्राम:। तत्रापि प्रत्यूषसमयेनाऽधुनाऽमुष्य शोभा भूयसीं गुरुतां नीता। नाधुना जातो भगवतो दिनाधिनाथस्य लोकमङ्गलोदय: समुदय:। अत एव दश्यते इतस्तत: प्रसत्वरा मनाक् तमोलहरी। नाप्यधुना प्रात:समयमङ्गलपाठकानां श्रूयते वयसां श्रवणमनोहर: स्वर:। अस्मिन्समये तरलतुरङ्गममारूढौ द्वौ नवयुवकौ पद्मपुरग्रामात्पूर्वतो मन्दं मन्दं गच्छत:। यावता चेमौ ग्राममुल्लङ्घ्य कियन्तमप्यध्वानमतिक्रामतस्तावतैव पूर्वस्यां दिश्यदश्यत पूर्वाकाशे मनागरुणिमा। यमिमौ पन्थानमवलम्ब्य गच्छतस्तदुभयप्रान्ते गगनाभोगसङ्गिन: सन्ति श्रेणिनिबद्धा महीरुहा:। ते चाधुना प्रात: समीरणरयात् शाखा: प्रशाखा: कम्पयन्तो मधुरमधुरं शब्दायन्ते। समधिकशीतलमारुतबीज्यमानौ चेमौ परस्परं समालपन्तौ सानन्दं गच्छत:।
उभावप्युज्ज्वलगौरवर्णौ, उभयोरपि भ्रमरकष्णा: केशा: उभयोरपि मीनयुगमध: कुर्वत्कष्णतारकं नयनयुगलम्, उभयोरपि मांसलां बलव्यञ्जिकाञ्च तनूमवलोक्य बाल्यकालादेवाऽनुमीयते व्यायामचर्चा। ताविमौ वेषभूषादिभिर्वाङ्गावित्यनुमीयेते। एतयोस्तुरङ्गौ तुङ्गौ, तेजस्विनौ, तथा सैनिकतुरगवत् सुशिक्षितौ दश्येते। एतयोरेकोऽश्व: समधिककष्णोऽपरस्तु रजतविजित्वरकान्ति:।
श्वेताश्वारोहिणा सहचरं सम्बोध्य गदितं ''जगदिन्दो! बुद्ध्यते कदापि नायातो भवानिमं ग्रामम्?”
कष्णाश्वारोहेण योऽस्माकं जगदिन्दुनाम्रा परिचित:। प्रत्युक्तम्, शैशवावस्थायामेकवारं सुगहीतनामधेयैस्तातचरणै: साकमागतोऽभूवं ग्राममिमम्। परं नायं परिचितचर: पन्था:। तातचरणै: साकं तु मार्गान्तरेणैवाऽऽगच्छम्।”
सहचर: - भवदीय: कर्मचारी तु मन्येऽद्यातीव सम्भ्रान्तो भवेत्।
जगदिन्दु: - मया तु बहुशो वारितो न मदर्थं समधिकमायोजनं कार्यमिति। परं किं तैरिदं श्रुतं स्यात्। मुख्याधिकारिमहाशयोऽतीव सज्जन:। श्रुतं मया श्रीमत्या मातु: सकाशाद्यदस्माकं ग्रामादिसम्पत्तिमुद्दिश्य यदा कनकपुरनिलयेन कुमुदरञ्जनेन साकमभूदभियोगस्तदा प्राचीनतमस्यास्यैव कर्मचारिण: प्रयत्नेन बुद्धिकौशलेन चास्माकीना सम्पत्तिर्न विनाशं चुम्बितवती।
सहचर: - अहमप्येवंविधमेकं लोकमन्विष्यामि। अहं द्वादशापि मासान्विदेशे निवसामि। उपयुक्तं प्रबन्धकारिणं विना नितान्तं विशङ्खलता जायते।
सम्प्रति पाठकेभ्यो बन्धुद्वयस्याऽस्य परिचयो दातुमावश्यक: द्वयोरपि सहचरयोर्यस्य जगदिन्दुरिति नाम सोऽधुना पूर्ववङ्गस्य सम्पन्नो भूमिस्वामी। सोऽयमाबाल्यादेव कलिकातानगरेऽध्ययनाय निवसति। शैशव एव परलोकपथिकतां गतवति पितरि पुरातनस्य सुयोग्यमन्त्रिणो रामपालितमहाभागस्य निस्तुलेन प्रयत्नेन नाभूदस्य भूसम्पत्तौ काऽपि हानि:। प्रत्युत पुरातनकर्मचारिणां समयादप्यमुष्य मन्त्रित्वे समभूत्समधिकमायवद्धि:। अस्यैव च महाभागस्य समुद्योगेन नाभूज्जगदिन्दो: पठनादिषु व्याघात:। क्रमाच्चायं विश्वविद्यालयादधिजगाम बी०ए० इत्युपाधिम्।
जगदिन्दो: सहचरश्चासौ प्रमदारञ्जनाख्य: सत्कुललब्धजन्मा उभावपीमौ समवयस्कौ सहैवाध्यैषाताम्। इदानीं प्रमदारञ्जन: प्राप्त बी.ए. (क्च.) इति विरुदो हुगलीप्रान्ते द्वितीय: प्राड्विवाक: अस्य च पैत्रिकं सद्म पद्मपुर एवास्ति। आधुनिकधनिकानामिव नासीदस्य मनागपि निजग्रामत्यागपूर्वकं कलिकातानगरनिवासपक्षपात:। एष हि गोदावरीचञ्चल्लहरीप्रसरधौतपरिसरं नालिकेरतालहिन्तालपरिवतं बहु मेने निजं पद्मपुरग्रामम्। कलिकातानगरेऽध्ययनसमयेऽपि चायं बहुधा जगदिन्दोरङ्कयामास हदि पल्लीग्रामचित्रम्। येन जगदिन्दु: कल्पनासाहाय्येन प्रशान्तं नीरवं निकुञ्जवनवेष्टितं कलकलनिनादिनदीतीरस्थितं क्षुद्रग्रामं भीषणकर्दमाक्तेन कोटिकण्ठनि: - सतकोलाहलमुखरितदशदिगन्तेन कलिकातापत्तनेन निभतं तुलयाञ्चकार।
जगदिन्दो: पैत्रिकपरिवार: कलिकातानगर एवाऽवात्सीदतस्तस्यासीत्समधिकं पल्लीग्रामदर्शनौत्सुक्यम्। अधुना च प्रमदारञ्जनमहाभागो मासत्रयावकाशमादाय समागतो निजग्रामं ससम्मदमामन्त्रयामास निजसुहदं जगदिन्दुम्। परिणतचिरचिन्तितमनोरथस्य चास्य जाता: पञ्चषा दिवसा:। प्रमदारञ्जनेनाऽपि नूतनरीत्यनुसारेण भूयसी कता निजग्रामोन्नति:।
पद्मपुरग्रामात्सार्द्धक्रोशत्रयान्तराल एव समधिकमनोरमो वसन्तपुराभिधो ग्राम:। वसन्तग्रामोऽपि जगदिन्दो: पैत्रिकभूपरिसरमध्यगत:। अस्मिन्नेव च ग्रामे पुरातनयोग्यमन्त्री रामपालितमहाशय: सपरिवारो निवसति। मन्त्रिमहाशयेन यदा श्रुतं स्वस्वामिन: पद्मपुरागमनं तदैव स्वयमुपस्थाय कतं समुहदोऽस्यामन्त्रणम्। निमन्त्रणरक्षणार्थमेव चेमौ सहचरौ पद्मपुरात्सम्प्रति वसन्तपुरं गच्छन्तौ मध्येमार्गं नयनगोचरौ बभूवतुरस्माकम्।
ततीय: परिच्छेद:
वसन्तपुरान्तर्दक्षिणतो लताप्रतानवेष्टितो विराजते द्वितल: सौध:। तत्रत्यानां ग्राम्यकषकाणामिदं हर्म्यं ''मन्त्रिसदनम्” इति बहुश: परिचितम्। पाठकमहाभागानामपि नापरिचितमिदं भवेद्यदस्य सौधस्य मन्त्री रामपालितमहाभाग एवाधिकारी।
अद्य दिवसोदयादेव मन्त्रिसदने लोकानां महान्सङ्घट्ट:। अद्य निमन्त्रणे वसन्तपुराधिकारी, पद्मपुरवास्तव्यप्राड्विवाङ्महाशयश्च मण्डयिष्यति निकेतनमिदमिति विधीयते समधिकमायोजनम्। मन्त्रिमहाशयस्याऽधीना: सर्वे कर्मचारिणोऽप्यायोजनदत्तचितास्तत इतो यातायातं कुर्वन्ति।
गहाङ्गणमपि तत्तद्वस्तुविस्तरणे समाकीर्णमिवाऽस्ति। कुत्रापि समधिकसौगन्ध्यसुरभिताभितोभागा: सज्जीक्रियन्ते सुमनोमालिका:। कुत्रापि च हरितहरितपेलवपल्लवै: प्रकटीक्रियन्ते पत्रपुटकानि। प्रकाण्डे चैकस्मिन्गहप्रकोष्ठे रजतपाण्डुरं स्वच्छमास्तरणमास्ततमस्ति। तत इतश्च शुभ्रवस्त्रावतानि स्थूलकायान्युपधानानि निहितानि सन्ति। श्वेतास्तरणस्य कियानपि भागो विविधचित्रचित्रितेनोर्णावस्त्रेणाच्छादितोऽस्ति। तदिदमनुमीयते केवलं निमन्त्रितयो: प्रधानमहाशययोरेव स्थितिमपेक्षते। सदनस्यैकतरे भागे च मन्त्रिमहोदयश्चान्ये च ग्रामभद्रपुरुषा: कर्मचारिणश्चोच्चजातीया यथोचितं तिष्ठन्ति। द्वित्राणि च रौप्याणि धूम्रपानपात्राणि हस्ताद्धस्तं गच्छन्ति गडगडाशब्दैर्मुखरयन्ति गहप्राङ्गणम्।
अलिन्दभूमौ च प्रहरिगणा अरुणवस्त्रावतमूर्द्धानो गहीततैलमसणसुदीर्घवंशदण्डा: पायं पायमुत्सजन्ति धूमधोरणी:। मध्ये मध्ये सहासं वार्ता अपि कुर्वन्ति परं सुमदुना स्वेरण।
गहस्वामिमहाशयश्च मध्ये मध्येऽन्त:पुरजवनिकान्तर्नीतवदनस्तारस्वरेण पच्छति कदाचित् ''किं दासघोषेण नाधुनाऽप्यानीतमसलिलं दधि” ''कालदीर्घिकात: केनानीता मत्स्या:” ''कुमुदिकया कच्चिदानीतानी नागरवल्लिदलानि” इत्यादि।
अस्मिन्नेव समये भशं श्वसता प्रहरिणैकेन गहपतये निवेदितम् ''कमलवापिकापाश्र्वे द्वावश्वारोहावित एवायान्तौ दश्येते। मन्ये कावपि गौराङ्गौ स्याताम्।” आकर्ण्य चेदं ''धिङ् मुग्ध! ससुहद् ग्रामपतिमहाभाग: समायाति” इति वदन्सपरिजनो मन्त्रिमहाशय: स्वामिस्वागतायाऽग्रेसरो बभूव।
कियन्तमप्यध्वानमतिक्रम्य सर्वैरवलोकितं यदश्वारोहिद्वयं तत्सम्मुखमेवायाति। भद्रपुरुषपरिवतश्च मन्त्रिमहाशय: सपर्यायै सज्जोऽभवत्।
अल्पेनैव कालेनाऽश्वारोहिद्वयं मन्त्रिमहाशयं समया समागत्य तरलतुरगादवततार। मन्त्रिमहाशयकतेङ्गितौ च द्वौ भत्यौ खलीनखणखणत्कारमुखरितमुखभागौ तुरगौ बल्गायामग्रहीषाताम्।
जगदिन्दु: पितकल्पं विद्यावयोवद्धं ब्राह्मणं मन्त्रिमहाशयं सविनयं प्रणनाम। प्रमदारञ्जनोऽपि यथोचितं चकार नमस्कारम्। समवेता: कर्मचारिणो नतमस्तका ग्रामस्वामिनं बद्धाञ्जलिपुटा: प्रणेमु:। कतिपयैर्ग्रामविप्रैश्चोत्तोलितकरै: कत: सुस्मितप्रसन्नाननयोर्द्वयोरप्याशीर्वाद:। भत्यप्रहरिकादिभिर्दण्डपातं पतद्भि: कत: स्वामिमहाशयाय सविनयं प्रणाम:। ससहचर: स्मेराननानुमीयमानोत्साहो जगदिन्दुरपि सर्वान्यथोचिताचारेण सम्भावयन्सर्वै: परिवतो गहाग्रेसरो बभूव।
द्वावपि बान्धवौ पथग्विनियोजिते कक्षे वस्त्रपरिवर्तनादिकं विधाय मन्दमधुरपादक्षेपै: सभागहे मुख्यासनमलञ्चक्रतु:। सकला च सभ्यमण्डली निजनिजोचितमासनमधिष्ठितवती। त्रिचतस्रश्च परिचारका वीजयाम्बभूवुर्वहद्वहद्भिस्तालवन्तै:।
अस्मिन् समये मन्त्रिमहाशयेन मणिमुक्ताजालजटिल: स्वर्णहार एक: स्वामिसेवाया: प्रधानं चिह्नमिव जगदिन्दो: कन्धरायां साग्रहं विनिवेशित:। सविनयमुक्तञ्च- ''अहं भवत: कर्मचारी प्रजा चेति श्रीमते उपहारप्रदानं कर्तव्यं मे।”
अनन्तरञ्च मन्त्रिमहाभाग: सर्वानपि समवेतग्रामभद्रपुरुषान् श्रीमतो जगदिन्दो: प्रमदारञ्जनस्य च चकार योग्यताप्रदर्शनपुरस्सरं परिचितान्। समस्तैरपि च तत्रत्यैर्निजनिजयोग्यतानुसारं ग्रामपतिमहाशयाय दत्त: सविनयोपहार:।
जगदिन्दुमहाशय: पूर्वं कदाचिदपि नागत आसीदिमं ग्रामम्। अत एव भूयोभि: कर्मचारिभिर्नासौ प्रत्यक्षीकत आसीत्। अद्य नूतनं निजस्वामिनं परिपीय लोचनचषकैस्तद्योग्यतां नम्रतां गुणज्ञताञ्चावधारयद्भिर्धन्यान्याकलितानि भागधेयानि ग्रामवासिभि:।
चतुर्थ: परिच्छेद:
सम्प्रति सञ्जातो मध्याह्नसमय:। प्रखरतरकिरणैस्तापयति धरातलं भगवान् सहस्रकिरण:। तिग्मतरैर्भास्करकरैर्गहप्राङ्गणान्याकीर्णानीवोपलक्ष्यन्ते। वसन्तपुरनिवासिनश्चास्मिन् समये पादपनिकरवारितापे गहाङ्गणे यथासुखं तिष्ठन्तो यापयन्ति रौद्रातपतापमयं मध्याह्नसमयम्। पशुगणाश्च प्रच्छायशीतले तरोस्तले स्वैरमासीना रचयन्ति रोमन्थम्। आतपभयादिव वायुरपि कदाचित् कदाचित् महीरुहशाखा: कम्पयति। निबिडतरतरुकोटरे निलीना: पक्षिणो वाचमपि न चिराय मुञ्चन्ति। शतशतनरपरिवतमपि जलाशयतटं सम्प्रति शून्यमालक्ष्यते। प्रतप्तबालुके च पथि नैकोऽपि पथिको गतागतं कुर्वाणोऽवलोक्यते।
अस्मिन्समयेऽवसितेऽभ्यवहारादिकार्येऽन्त:पुरस्थैकस्मिन् प्रकोष्ठे प्रवीणा मन्त्रिगहिणी स्वामिना साकं सुमदुना स्वरेण किमपि मन्त्रयमाणा तिष्ठति। मन्त्रणा चेयं प्रायो नितान्तमेव मन्दस्वरेण भवति। मध्ये मध्ये चापेक्षाकतेनोच्चस्वरेणाऽपि भवति संलाप:। कियत्कालानन्तरमुक्तं गहिण्या ''न जाने कुतो वा मे सङ्कुचति चेत: । पुराऽयं मयावलोकितस्तदायमासीन्नितान्तमबोध: शिशु:। इदानीञ्चाऽयमेक: प्राड्विवाक:। कथङ्कारमस्य सन्निधौ मन्त्रयिष्ये ।
स्वामी - अयि किमिदम्। भवतीमन्तरा यदीदं कार्यमसेत्स्यत्तदाहं न भवतीमस्मिन् कार्ये न्ययोजयिष्यम्। प्रमदाञ्जनस्तु साम्प्रतं तव बालकल्प:। त्वमिहास्स्व, तमहमानयामि। अगत्या गहिणी भर्तुराज्ञापालनाय सज्जाऽभवत्।
कक्षान्तरे यस्मिन्प्रतिष्ठितयोर्निमन्त्रितयोरासीदावासस्तत्र मन्दं मन्दं पदौ निक्षिपन्
जगाम मन्त्रिमहाभाग:। ददर्श च यज्जगदिन्दुरेकं मासिकपत्रमुन्मुक्तं हदि निधाय खेदसन्दोहविमुक्तां निद्रामनुभवति। जगदिन्दो: पाश्र्व एव चैकतरोपधानधतवक्षोभर: प्रमदारञ्जनोऽप्येकतान: सन् दैनिककार्यपुस्तकमुन्मुच्यालोचयतीति। शोभनोऽयमवसर इति मदुमधुरेण स्वरेण जगाद प्रमादारञ्जनं मन्त्रिमहाशय:।
''श्रीमता साकं किमपि गुप्तं मन्त्रयितव्यमस्ति” श्रवणानन्तरमेव च बहिरागत्य सविनयमवादीत्प्रमदारञ्जन:।
''किमु मया साकम्?”
मन्त्री- आं महाशय! कष्टकरमपि श्रीमान् स्वीकरोत्वन्त:पुरगमनम्। अस्मद्गहिणी श्रीमते दातुमभिलष्यत्याशीर्वादम्।
प्रमदारञ्जन: - किमु मह्यम्?
मन्त्री - श्रीमतो मन्ये स्मरणं नास्ति यद्धरिपुरग्रामे जगाम भवान् मातष्वसु: सदनम्। तत्र च मद्गहिणी भवन्तमङ्के कत्वा बहुधा प्रादर्शयद् भूयांसमादरम्। अस्मच्छ्वशुरनिवासो हरिपुर एवास्ति। मद्गहिणी श्रीमतो मातु: स्वसा चाकल्पयतां परस्परं भगिनीभावम्।
प्रमदारञ्जन: - अहो सम्प्रति स्मरामि श्रीमतो गहिणी खलु मम मातु: स्वसुर्भगिनी भवति। तर्हि नाहं श्रीमतो: परकीय: श्रीमान् हि मे मातष्वसपतिकल्प:। एषोऽहं प्रयामि श्रीमतीं मातष्वसारं प्रणमामि।
एतदालापोत्तरं मन्त्रिमहाभागेन साकं पूर्वोक्तकक्षे प्रविश्य किञ्चिदवगण्ठनमण्डितां प्रणनाम मन्त्रिधर्मपत्नीं प्रमदारञ्जन:। प्रोवाच च ''मातष्वसमहाभागे! अपि सुखं स्थीयते?”
गहिणी पूर्वमासीदत्यर्थं सङ्कुचिता, परं प्रमदारञ्जनमुखान्मातष्वससम्बोधनं निशम्य मुमोच सङ्कोचम्। आशिष: प्रदाय च सस्नेहमवादीत्। ''वत्स! भवति सुखिते वयं सुखिन: स्म:। भवन्माता कच्चिदस्त्यनामया?”
प्रमदारञ्जन: - आं माता सुखं तिष्ठति। सम्प्रति वार्द्धक्येनाक्रान्ता।
गहिणी - कुतो वा न स्यात्। सा चाहञ्चोभे अपि समवयस्के। प्रत्युत भवन्माता मत्त: किञ्चिज्ज्यायस्येव स्यात् ,अहमेव सम्प्रति प्रत्यापन्ना वार्द्धकम्। अयि वत्स! भूयान् कालोऽभून्न दष्टा श्रीमतो जननी।
प्रमदारञ्जन: - श्रीमती यदाऽभिलष्यति तदैवेदं तु सम्भवति। इत्यादिनानाविधमधुरसंलापोत्तरं चकार प्रकतकार्यकथां मन्त्रिगहिणी। शनै: शनै: शिर: शाटीमधो विदधती नतानना निजगाद।
''ननु वत्स! त्वमेवास्माकं भूस्वामिमहाभागस्य दक्षिणहस्त:। तेषां मुखादश्रौषं यच्छ्रीमन्तौ परस्परमभिन्नसुहदौ। श्रीमान् यदि वदति किञ्चिन्नैतन्महाशयो न गह्णाति। पश्य! तत्रभवतस्तस्य माता वर्तमानाऽस्ति परं साम्प्रतमवर्तमानेषु गणनीया। भवत्प्रियसुहच्च द्वादशाऽपि मासान् कलिकातानगरे निवसति। स्वग्रामगमनस्य नामपि न जातु गह्णाति। जरती जननी चापि काशीं यामि, काशीं यामीति करोति। अमुष्य महाभागस्य वयोऽपि समुचितं जातं किन्तु नाद्यापि कतो दारपरिग्रह:। भूसम्पतिश्च तत्र भवतो भवन्मातष्वसस्वामिमहाशयेनैव रक्षणनिरीक्षणैरक्षता रक्षितेति स्यादेव ते विदितम्। परं पश्य वत्स! सम्पत्तिसम्पादनादेव किं सिध्यति। तस्मिन्नकतपरिग्रहे क: खलु रक्षिष्यति सम्पदमिमाम्। तद्यदि भवाँस्तत्रभवन्तममुं परिणेतुमनसं कुर्याच्चेत्सर्वं सम्यक् स्यात्। भवन्तमन्तरा च नेदं श्रीमते वक्तुं कश्चित्पारयिष्यति।
प्रमदारञ्जन: - ननु यदाह भवती तत्सर्वं समुचितम् परं जगदिन्दु: साम्प्रतं नवयुवक:। नवीनाञ्च नीतिरीतिं मनसा स्निह्यति। दीनकन्या सुरूपसम्पन्ना स्यात्तदैवासौ परिणेष्यति। धनिककन्याञ्च नासौ परिणेष्यतीति प्रतिज्ञातममुना। किं बहुना तस्य भूयान् विचारनिचय:। एतेषु च दिवसेषु विषयेऽमुष्मिान्नभून्मे संलाप:। न जानेऽमुष्मिन्विषये तन्मतपरिवर्तनं जातं न वेति।
गहिणी- अस्मत्सदने साम्प्रतमस्ति कन्यैका, सा चातिचतुरा सुरूपरुचिरा च। यदि भवद्वयस्यो वाञ्छति शक्रोति सायंसमये समालोकितुमिमाम्। अहो! कन्येयमर्हति राजसिंहासनमारोढुम्।
प्रमदारञ्जन: - बाढम्, श्रीमत्या तत्समये समानेयाऽसौ। अहमपि कौशलसाहाय्येन साधयिष्यामि साधनीयम्।
सपरिग्रहो मन्त्रिमहाभागो भूयसीभिराशीर्भिर्योजयन् प्रमदारञ्जनं जगाद। ''कन्यायां नूनमहमेवाभिभावक:। अत एव साम्प्रतमहमस्मि व्यस्त:। कन्याऽपि विवाहोचितं वय आपन्ना। त्रयोदशं वत्सरमतिक्रम्य चतुर्दशं वर्षमलङ्करोति।”
अनन्तरञ्च गहिणीं प्रणम्य प्रमदारञ्जनो निजनिवासनिकेतनं प्रत्यावर्तिष्ट।
पञ्चम: परिच्छेद:
निद्राभङ्गोत्तरं व्यलोकयज्जगदिन्दुर्यत्प्रमदारञ्जनो बङ्गभाषामयमेकं पुस्तकं साभिनिवेशं समीक्षत इति।
मन्त्रिमहाशयवेश्मनि भूयसी खलु साहित्यचर्चा। पुस्तकालयेऽपि काचकपाटिका-मण्डितासु कोष्ठिकासु (आलमारी) विचित्रवर्णानि नानावर्णावरणानि च पुस्तकानि यथास्थानं सन्ति विनिवेशितानि। सुशल्क्ष्णवसनाच्छादितासु च काष्ठमञ्चलिकासु (टेबुल्) संस्कत-बङ्गभाषामयानि संवादपत्राणि शोभन्ते। कुतो वा न स्यात् ''मन्त्रिणो रामपालितमहाभागस्य भूयसी खलु साहित्यप्रीति:।”
बन्धुं सम्बोध्य जगाद जगदिन्दु: ''मन्ये मनागपि भवन्नयनयुगलं न चुम्बितवती भगवती निद्रा।”
प्रमदारञ्जन:- (सहासम्) ननु परसेवामारचयन्तो निद्राहारविहारं दूरत: परित्यजन्ति।
जगदिन्दु:- सेयं सेवाया मन्ये पराकाष्ठा। एवंविधामुन्नतकक्ष्यामधिरूढवन्तोऽपि न्यूना एव स्यु:।
एवंविधै: परस्परप्रमोदमयैरालापैरतिवाह्य कियन्तमपि कालं, जगदिन्दुरुत्थाय च वातायनधतभङ्गारकापोहितेन विमलशीतलसलिलेन प्रक्षालयामास मुखम्। अनन्तरञ्चाना-वतवातायने नीत्वा वदनं जगाद प्रमदारञ्जनम्।
''अहो उत्तरदिवसस्याप्यतिक्रान्ताश्चतस्रो घटिकास्तथापि नाधुना यात: प्रशान्तिमातपताप:। नापि च पथिकजनचरणचुम्बनानुचिताभि: सिकताभिरवलम्बित: शान्तभाव:। नापि साम्प्रतं तरुनिकरमूर्द्धशोषं शोषयति मध्याह्नमतिसङ्क्रान्तो मनागपि शीतिमा। एष च भगवान्मरीचिमाली क्रमञ्चुम्बन्नपि पश्चिमाकाशावकाशं नेदानीमपि संहरति प्रखरतरं किरणनिकरम्।
समये चास्मिन् न शक्यते ग्रामादस्मात्प्रस्थातुम्। तस्मान्मण्डयति गगनाभोगं भगवति रजनीप्राणनाथे ज्योत्स्नापूरविध्वस्तध्वान्तेनाऽध्वना प्रयास्याव: समीहितं देशम्।”
एतत्संलापोत्तरमेव मण्डयामास सदनमध्यं मन्त्रिमहाशय:। बभूव च भूयांसं समयं यावन्मन्त्रिमहाभागेन साकं जगदिन्दुमहाभागस्य ग्रामादिसम्पत्तिविषये भूयान् विचार:। मध्ये मध्ये प्रमदारञ्जनस्यापि सम्मति: समगह्यत। विचारमध्य एव च पप्रच्छजगदिन्दु: ''मन्त्रिमहाशया:! अस्माकं वात्सरिक: कियानाय: स्यात्। कर्मचारिणां वेतनादिप्रदानोत्तरं ग्रामात्कियदुत्तिष्ठते?”
मन्त्रिमहाशयो नीरव: सन् विचाराञ्चकार किञ्चित्। कियत्क्षणानन्तरञ्च गम्भीरभावमवलम्ब्य प्रोवाच ''यदि सुवष्टि: स्याद्दैवाद्युपद्रवाश्च न स्युरादेयद्रव्यमपि समस्तं हस्तगतं स्यात्तर्हि त्रीणिलक्षाणि कियन्ति सहस्राणि च मुद्राणामवशिष्येरन्। परं सर्वाण्यपि वर्षाणि न भवन्ति समानानि न च समस्तेष्वपि वत्सरेषु समानमादेयं भवति। एतदुत्तरमपि राज्याभियोगादिषु भूयान् व्यय: सम्पद्यते, परं वात्सरिकानुमानेन लक्षत्रयं मुद्राणां ग्रामेभ्य: सम्भवतीति पार्यते निरूपयितुम्।”
जगदिन्दुरिदमाकर्ण्य लज्जामुत्कण्ठाञ्च किञ्चिदुदञ्चयन् प्रोवाच- ''श्रीमतामस्मत्सम्पत्ते: कियती वत्तिर्नियमितास्ति।”
मन्त्रि० - आयुष्मतस्तातचरणानामाधिपत्ये मम मासिकवेतनं त्रीणि शतानि रजतमुद्राणामभवत्। तत: परं क्रीतेषु बहुषु ग्रामेषु समद्धिमापन्नेषु च वात्सरिकेषु द्रव्येषु मासिकवेतने मे मुद्राशतद्वयवद्धिरभवत्। तदद्यावधि पञ्चशतं मुद्राणां मासिकवेतनं मे नियतम्।
जगदिन्दोरिदमाकर्ण्य बभूव भूयसी लज्जा। लज्जारुणगलकपोलमण्डलश्च विचारयाञ्चकार किञ्चिच्चेतसि। किञ्चित्क्षणानन्तरञ्च सविनयमवादीत् ' भवन्त: पितचरणानां बान्धवस्तथा तेषां सहकारिणस्ततो ममापि श्रीमन्त: पिततुल्या:। अश्रौषञ्च श्रीमत्या मातु: सकाशाद्यदियं भूसम्पत्ति: श्रीमतामेव बुद्धिकौशलेन निस्तुलेन प्रयत्नेनानुपमेन च प्रोत्साहेनाभवत्सुरक्षिता। श्रीमतां रक्षणावेक्षणाभावेऽस्माकमियं सम्पत्ति: किमवस्थाऽभविष्यदिति तु वयं विचारयितुं निरूपयितुञ्चापि न पारयाम:। भवन्त: स्वकीयेऽस्मिन्नादेयद्रव्ये कियतीञ्चन वद्धिं कुर्वन्त्विति भूयान्मेऽभिलाष:। किञ्चामुष्मै मासिकद्रव्यायेत: परं वेतनशब्दं न प्रयोक्ष्यथ। वेतनशब्दमाकर्ण्य भशमहं लज्जितो भवामि। अथ वर्तमानमासमारभ्य भवन्तो दशसहस्रं मुद्राणां वात्सरिकीं वत्तिं कल्पयन्तु”।
वद्धो मन्त्रिमहाशय: कियन्तमपि कालं यावन्निस्तब्ध: संस्तथौ। आनन्दसन्दोहेनात्मानमपि विसस्मार मन्त्रिमहाभाग:। अननुमेय: प्रमोदप्राग्भार: प्रादुरभूद्वेतनवद्धिमनुनिशम्य, किन्तु स्वर्गगत: प्रभुर्मत्युसमये इमं बालकं हस्ते समर्पिपत्सोऽयं कुमारो नम्रतायां योग्यतायां गुणज्ञतायां कतज्ञतायाञ्चादर्शभूत: सम्पन्न इति गौरववद्धस्य मन्त्रिमहाशयस्य नयनयुगलमानन्दाश्रुकलाकुलमभवत्। यद्यन्यथाप्रवत्तचितो मन्त्रिमहाशयो मनस्यकरिष्यत्तर्हि शतत्रयात्मकं किं सहस्रत्रतयात्मकमपि मासिकवेतनमात्मन: कल्पयितुं प्राभविष्यत्, कतान्यायपथावलम्बनश्च शिशुं प्रभुकिशोरकं पादघातं हत्वा स्वयमेव वा भूस्वामितामात्मन: सम्पादयितुमपारयिष्यत्, प्राभविष्यच्चात्मनो निकेतनं कनकमयं कर्तुम्। परक्षणप्रभाप्रभाविनश्वरस्य द्रव्यस्य कते न मनागप्याग्रहो मन्त्रिणो मनस्यासीत्। अत एव द्रविणनिमित्तं न लेशतोऽपि मन्त्रिण: प्रमोदोऽभवत्। समभवत्खलु स्वहस्तरोपितस्य नूतनतरो: सुधामयफलं समवलोक्य, निजनिर्मापितस्य सरोवरस्याऽमतस्यन्दि पानीयं समुपलभ्य, जनकविहीनस्याऽप्रौढस्यापि भूमिस्वामिनो दयां दाक्षिण्यं कतज्ञतां विनयञ्च समवलोक्य।
प्रमदारञ्जनो बुद्धिवयोवद्धस्य मन्त्रिणो मनोभावमवबुद्धय च मनोविनोदननिमित्तं कथान्तरं प्रवर्तयितुमवदत् ''ननु मन्त्रिमहाशया:! श्रीमतां सन्धाने काचिदेका सुरूपसम्पन्ना कायस्थकन्याऽस्ति? सा चौत्तरकायस्थकन्या स्यात्। परं कन्याऽतीव सुश्री: शुभलक्षणा सुदक्षिणा चापेक्ष्यते।”
सुचतुरो मन्त्रिमहाशय: प्रमदारञ्जनमनोगतमभिप्रायं सुभशमवबुद्ध्य सरलभावेनाऽवोचत ''ईदशी कन्या सम्प्रति क्व शक्यते लब्धुम्? औत्तरकायस्थकन्या सुरूपसम्पन्ना च? आम् अस्त्येका कन्या तादशी, परमहं जाने सा नास्त्येव, कापि नास्ति तादशा कन्या।
प्रमदा० - अहो यां कन्यामुद्दिश्यास्तीत्युच्यते सा नास्तीति कथं सङ्घटते।
मन्त्रि०- सा हि न खलु किञ्चिदपि मन्दश्रीर्न चापि हीयते कथञ्चिदपि कल्याणैर्लक्षणै:। तथापि सा बाढं दु:खिनी नितान्तं दीना भिक्षुरित्येकेन प्रकारेण शक्यते वक्तुम्।
प्रमदा०- नितान्तं दीना? तावता किं वा भवति? दीनकन्यां स्वीकत्य का वा क्षतिर्जायते। परं सम्प्रति सा कन्या क्वाऽस्ति?
मन्त्रि०- अस्मिन्नेव वेश्मनि सा निवसति। जगदिन्दुरुभयो: परस्परालापमिममाकर्ण्य नितान्तं चकित: सहचरं सम्बोध्य पप्रच्छ- ''अये! सम्प्रति कन्याया: किं भविष्यति?”
प्रमदा० - विवाहो भविष्यति। नूनमन्यत्कन्याया: किं भविष्यति?
जगदि०- परमिदमाकलय, विवाहं क: करिष्यति?
प्रमदा०- अस्त्यस्माकमेकतर आत्मीय:। स हि सम्बन्धेन मे भ्राता भवति। भूयश्च विश्रम्भभाजनम्, बहिश्चरा: प्राणा इति शक्यते वक्तुम्।V
जगदि०- ननु भवांस्तु दाक्षिणात्यकायस्थ:।
प्रमदा०- अयि भो: किमौत्तरकायस्थेन साकमात्मीयताऽपि न शक्यते धारयितुम्? तथा सत्युभयोरावयोरपि न घटेत साम्प्रतमेषाऽऽत्मीयता। यतो हि भवानपि तु औत्तरकायस्थ:?
मन्त्रिमहाशय: प्रकतकार्यं साधयितुमना मनागुदात्तेन स्वरेण निजगाद। ''यदि श्रीमद्भिरभिलष्यते न च किञ्चिदावश्यकं हीयते चेत्तामहं दर्शयितुमपि पारयामि परमिदं तत्रापि, सा कन्याऽतीव दीना।”
जगदिन्दु: पूर्वमेव विस्मयावहञ्च, अविदितपूर्वापरसन्दर्भञ्च कौतूहलगर्भञ्च परस्परालापमिममाकर्ण्य नितरामासीदसीमकौतूहलोत्तेजितमति:। सम्प्रति च द्विचतुर्वारं मन्त्रिमहाशयमुखात् ''दीना दीना” इति शब्दं श्रुत्वा जगदिन्दोर्मानसिकविचारस्रोत: समभूदेकवारमेव वेगवाहि। वेगोद्गारञ्च न्यञ्चयितुमपारयन् किञ्चिदाकुञ्चितभ्रूलत: प्रोवाच-
''महाशया:! किन्तु कन्या दीनेति विवाहे हीयते किञ्चित्, उत चारुलक्षणाऽपि मानसमाह्लादयन्त्यपि दीनकन्येति कारणात्किमुचिता त्यक्तुम्, आहोस्विन्निर्धनकन्येति दर्शनपथादपि परिहरणीया। किञ्च यदि रोचेत चेतसे ततोऽपि किं द्रविणनिमित्तं विवाहोऽवरुद्ध: स्यात्?”
पूर्वमवादीत्प्रमदारञ्जन: ''जगदिन्दुर्नवयुवक:। नवीनरीतिनीतिञ्च मनसा स्निह्यति, इत्यादि” तदनुकूलमेव च जगदिन्दोरमुमभिप्रायं बुद्ध्वा जगाद मन्त्रिमहाभाग:- ''श्रीमतां विचार: सर्वथा निरवद्यस्तथाऽपि पूर्वोक्तकन्याविषये वर्तते महीयान्कथाभाग:। सारञ्च पुरात्वे कमलालयाविमलापाङ्गविशेषवीक्षिताया आसीदमन्दानन्दमेदुरा ह्यमुष्या दशा। परं परस्पराऽभियोगा (मुकद्दमा)- दिभि: समभूदेतस्या: पिता नितरामेव निर्धन: साम्प्रतञ्च नास्त्यस्मिंल्लोकेऽस्या: पिता। माता केवलमस्ति। तयाऽपि नितान्तमेव भीषणं प्रतिज्ञातं यद्” ''न कदाचित्कस्मादपि कथञ्चिदपि किञ्चत्साहाय्यं वाचिकं वाऽर्थिकं वा शारीरिकं वा ग्रहीष्यामि इति अस्मादेव च हेतोर्नाद्यावधि जातोऽस्या: परिणय:। न चेदहमेव सम्पाद्य समग्रं सम्भारं विवाहमेतस्या: कर्तुमपारयिष्यम्।”
कन्याया: करुणाजनकमितिहासमिममाकर्ण्य जगदिन्दो: कौतूहलं नितान्तमेवोदजम्भत। प्रोवाच च किञ्चिदञ्चित्सङ्कोच: प्रियवयस्यम्- ''ननु कन्याया विलोकनमात्रे काऽस्माकं क्षति:।”
प्रमदारञ्जनो मनागन्यमनस्क इव मन्थरं जगाद ''का नामैतावत उपक्षेपस्याऽऽवश्यकता? कश्च दरिद्राणां दर्शने विचार एतावान्। एहि, गच्छाम: साधयामश्चात्मन: समीहितम्।”
प्रमदारञ्जनमतिवैभवमुदितहदयो मन्त्रिमहाशयस्तयोस्तत्कालिकमभिप्रायं विदित्वा कोष्ठकादस्मादुदतिष्ठत्। तावपि च पश्चाद्गामिनौ बभूवतु:।
साम्प्रतं सन्निहितोऽस्ति सायंसमय:। भगवान्मरीचिमाली किरणनिकरमात्मीयमुपसंहरन्नस्तगिरिशिखरं समया समालम्बते। वरुणदिगनुरागरञ्जिते च भगवति भास्वति दत्तदीनदष्टिर्वराक: कोकस्तारतरं रारटीति। लोहितलोहितैश्च भास्करकरैस्तरुशिखराणि नूतनरागलोहितान्यालक्ष्यन्ते। दिवसावसाने आहारविहारविरता: पक्षिणोऽपि पादपविटपेष्वासीना: कल्पयन्ति सायन्तनस्मरणमिव। प्रशान्तोष्मा च भूमिभाग: साम्प्रतमभित: शीतायते। मन्दं मन्दं च यूथिकापरिमलवाही मारुतो बीजयति विटपव्यजनै:, वसन्तपुरनिवासिनश्चास्मिन्समये स्वस्वकार्यात्प्रत्यावत्ता: कलयन्ति सायन्तनसम्मोदम्। मधुरमधुरहुङ्कतमुखरितगहनानि च गवां कदम्बकानि स्वस्वावासं प्रत्यावर्तन्ते। यो हि जलाशयोद्देश: कियत्कालपूर्वं मानुषमूर्तिमात्रविरहित आसीत्स एव सम्प्रति कटितटनिवेशितकलशाभिर्ग्रामरमणीभिर्मूर्तिमतीं रामणीयकतामुद्वहति।
समये चास्मिन्मन्त्रिमहाभागो निमन्त्रितमहाशयाभ्यां साकं किमपि मन्दं मन्दं मन्त्रयमाणो ''मन्त्रिसदनात्” उत्तरतो नातिसूक्ष्मेण पथा गच्छन्नालोक्यते। मार्गश्चायं कनकपिङ्गलाभिर्वालुकाभिर्निर्वाहितकोमलास्तरणकार्योऽस्ति। पन्थानञ्चाभितो नातिलघीयांसश्च नान्युच्छ्रिताश्च तरव: पल्लवव्यजनैर्वीजयन्ति मार्गस्थान्।
कियदन्तरमतिक्रम्य ददशुर्दूरत: पथगिवोपलक्ष्यमाणं गहपरिसरम्। क्षणानन्तरमेव चेमे त्रयोऽपि प्राविक्षन्वक्षपरिवतं नातिमहीयांसं प्राङ्गणोद्देशम्।
प्राङ्गणे चास्मिन् सायंसमयसमीरसेवनार्थमासीना: कतिपया नवीना: प्रवीणाश्चाङ्गना नानाप्रकारं परिहासेनात्मानं प्रसादयन्त्य: कलयन्त्यश्च परस्परं कथानकमतिष्ठन्। परं मन्त्रिमहाशयस्य कण्ठरवं निशम्य सर्वा अपि रभसात्प्राविक्षन्गहप्रकोष्ठानि। आगन्तुकैश्चामीभिश्चामीकरभूषणझणत्कार एव केवलमश्रूयत।
प्रविश्य चास्माकमागन्तुकैर्व्यलोकि यद्गहप्राङ्गणस्य दक्षिणत: सुधया लिप्तं ग्रामोचितञ्चैकं प्रकोष्ठकमस्ति। यच्चास्मिन् समये किञ्चिदपावतकपाटमवलोक्यते। प्रकोष्ठकमध्यतश्च परिहाससरसेऽनालक्षिताऽक्षरसंविभागो मदुलमदुलो रमणीकण्ठस्वर: श्रूयते। येन चानुमीयते प्रतिवेशिनीनां कामिनीनां समागमपरिचय:।
प्राङ्गणस्य सम्मुखीनायाञ्च दिशि तणकुटीरकमेकं भवति।
यद्ध्यस्मिन् समयेऽभ्यन्तरतो दढदत्तदण्डार्गलमवलोक्यते। तणकुटीरकाच्चैतस्मान्न कोऽपि मानुषकण्ठस्वरो नाप्यन्यादशो रव: श्रूयते। केवलमस्मिन्समये सविशेषनिस्तब्धमस्ति। कुटीरकद्वारदेशे च हरिचन्दनबिन्दुसुन्दराणि यूथिकापुष्पाणि, पीताक्षतानि चेतस्ततो विकीर्णान्यालक्ष्यन्ते।
प्राङ्गणस्योत्तरस्यां दिशि च शोभते सुपरिष्कतैका त्रिद्वारिका। काष्ठस्तम्भाश्चैतस्या: शेखरवल्लीवलयिता: सन्ति। छदिप्रदेशोऽपि लताप्रतानसञ्चारेण भूरि भासुरो विभाति। त्रिद्वारिकायाश्चाऽस्यास्तलं श्वेतवाससाऽच्छादितमस्ति। तदुपरि च महार्हमूर्णासनद्वितयं विराजते। गहस्यैकतमे कोणे च काष्ठचतुष्पदिकासु दश्यन्ते सुसज्जिता लघुस्थालिका:। यासु मधुरमधुराणि फलानि मिष्टान्नञ्च किञ्चिन्निहितमस्ति। स्थाल्यां चैकस्यां विमलजलपूरितानि त्रीणि रौप्यपात्राणि सन्ति निहितानि। तत्पाश्र्व एव च विविधरागरञ्जितवेत्रनिर्मितपात्रे ताम्बूलानि, एला: कर्पूरपुष्पाणि च कानिचित्सुसज्जितानि।
एतद्भवनान्तराल एव च द्वारोपान्ते पुरातनमपि महार्हमूर्णासनमेकमास्ततमस्ति। तदन्तिक एव च तालवन्तमेकं पतितमस्ति।
मन्त्रिमहाशय: सहचारिणौ द्वावपि सादरमभ्यर्थ्य सविनयमवादीत् ''महाभागौ!! नूनमहमेवेह कन्यापक्षीय:। यत: साम्प्रतमहमेव कन्यापक्षे रक्षणावेक्षणकर्ता। तत: सादरमभ्यर्थनं यथावसरं लौकिकाऽऽचारावबोधनञ्च मे नानुचितं स्यात्। लौकिकाचारानुरोधीनि न कतिचन माङ्गलिककर्माणि श्रीमतोर्न भविष्यन्ति चेतस: प्रतीपानीति सुभशमाशासे।” इति वदन्नेव च मन्त्रिमहाशय: सदाक्षिण्यं निचिक्षेप त्रिद्वारिकान्तश्चरणयुगलम्। स्वयञ्च सविनयं प्रवेशयामास सहचारिद्वयम्।
मन्त्रिमहाशय: साभिनिवेशमुपवेशयामास जगदिन्दुञ्च प्रमदारञ्जनञ्चोर्णासनोपरि। स्वयञ्च श्वेतास्तरणोपरि निषसाद। जगाद च किञ्चिन्मदुना स्वरेण ''ननु श्रीमन्तौ! नूनमिदं श्रीमतोरतिरोहितमेव भवेद्यत्सनातनधर्मावलम्बिनो जना निखिलेष्वपि माङ्गलिककार्येषु विशेषतश्च वैवाहिकव्यापारारम्भेषु सम्भावयन्ति प्रायो मधुरान्नास्वादनं प्रधानतया। तत इदं किञ्चिदास्वादनीयं श्रीमद्भ्याम्।”
समभिधाय चैवं मन्त्रिमहाशय: सहचरयोरुभयोरपि पुरतो निदधौ मिष्टान्नस्थालिकां सलिलभाजनञ्च।
जगदिन्दुर्मन्त्रिमहाशयस्य सुदूरमायामिनीमिमां भूमिकामभ्यालोच्य प्रथमत एव सुभशमासीन्मनसि विस्मयरसस्तिमित:। तदुपरि च मधुरान्नास्वादनायाऽनुरुध्यमानो भशं लज्जानतशिरोधर: क्षणं तस्थौ। अन्ततस्तु यथाकथञ्चिदभ्यवहाराय करमग्रेसरं चकार।
प्रमदारञ्जनस्तु मन्त्रिमहाशयस्य प्रकतकर्मणि पाटवञ्च विनयञ्चाभिनिवेशञ्चाभिनिशम्य नितरां प्रीतमना मनाक् स्मितायाऽवकाशं ददौ। परं निजसुहदे न कथञ्चिदपि निजहदयाभिप्रायाऽवगमायाऽवकाशलेशमपि वितीर्णवान्।
विचारितसमुचितसमय: सविनयं प्रोवाच मन्त्रिमहाशय:- ''यदि श्रीमतोर्नाऽरुचिकरं तर्हि बालिका तामिहैव साम्प्रतमानयामि।”
प्रमदारञ्जनो जगदिन्दोरभिप्रायप्रतीक्षामकत्वैव त्वरितमुदतीतरत् ''भवतु को दोष:”?
मन्त्रिमहाशयश्चैतन्निशम्य सोत्साहं बहिर्बभूव त्रिद्वारिकाया:। जगाम च दक्षिणस्मिन् प्रकोष्ठके। तत्र च प्रतिवेशिनीभि: कामिनीभि: साकं किमपि तथा मन्दमन्दस्वरेण मन्त्रयामास यथा निमन्त्रितयोरनयोर्न किमपि कर्णगोचरमासीत्।
केवलं कामिनीकण्ठस्वरेण परस्परमनन्वितानीमानि कतिपयानि पदान्येवाऽनयो: कर्णयोरुपस्थापितानि। ''मणालिनी ....... किमस्माकं ............ सौभाग्यवती .............. जगदीश्वर ........... इति।”
जगदिन्दो: स्फटिकविमले चेतसि मणालिनीति नाम न जानीम: कस्मादकस्मादुत्कीर्णमिवासीत्, यज्जन्मावधि नापससार हदयपटलादेतस्य। महता च प्रयत्नेन रणरणकाधिरूढमभिवारयामास हदयं जगदिन्दु:।
कियत्कालकलानन्तरमेव मन्त्रिमहाशय: परावत्य निमन्त्रितयोरनयो: सविधमुपागमत्। त्रिद्वारिकाद्वारान्तिकञ्चाऽऽगत्य अपेक्षाकतेनोच्चस्वरेण निजगाद- ''हला मणालिनि! एकवारमिह त्वागच्छ!”
एतत्क्षणकालोत्तरमेव च दक्षिणप्रकोष्ठकमपावतकपाटमासीत्। तदभ्यन्तरतश्चालोक-सामान्यलावण्या बालिकैका बहिर्निश्चक्राम। नतशिरोधरस्यापि जगदिन्दोर्बालिकामुखे पपात विस्मयरसस्तिमितं नयनयुगलम्। तथा च सुभशमवदधानस्यापि बाढमायत्तीकतचेतसोऽपि सुनिर्भरशिक्षानिभततमस्यापि सुदढं विनयोपगूढस्यापि नितान्तञ्च मन्त्रिसान्निध्याऽपत्र-पानिरुद्धस्यापि जगदिन्दोरेकवारमेव चेतश्चञ्चलं बभूव। नूनमत्यर्थं प्रयत्नसहकारेणाऽवधतादपि वक्त्रात् ''अहो” इति बलान्निश्चक्राम शब्द:। विस्मयार्थको वा करुणार्थको वा प्रशंसार्थको वाऽयमहोकार इति तु जगदिन्दोरान्तरमेव विजानीयात्।
सप्तम: परिच्छेद:
मन्त्रिमहाशयस्त्रिद्वारिकाद्वारात्किञ्चिदुपसत्य लज्जाभरमन्थरगमनां विनयदाक्षिण्यनि-भताञ्च तां करेऽवलम्ब्य निभतमानिनाय त्रिद्वारिकान्त:। मधुरमुवाच च वचनम् - ''कारुणिकौ द्वावपि निमन्त्रितमहाशयौ सादरं प्रणम्य तदिदमूर्णासनमध्यास्स्व।”
कुमारिका चेयं मन्त्रिमहाशयादेशानुसारं विनयेन च दाक्षिण्येन च गौरवेण च तथा प्रणनाम यथा नाम द्वाभ्यामप्यस्माकमागन्तुकाभ्यां निपुणमभ्यन्वज्ञायि पाटवमेतस्या:। परं हन्त हन्त! जगदिन्दोर्मध्येहदयमावर्तमानो नानाविधविचारतन्तुसन्तानो नामुना मनागपि विरलतामगमत्प्रत्युत निविडं घनीभावमेवाऽयासीत्। चित्रञ्च नाम यन्मणालकोमलं मणालिन्या वपुरेव न ननाम, जगाम च भङ्गं ''न सम्प्रति प्रतिपत्स्ये विवाहमहमिति” जगदिन्दोश्चिरोपरूढा सुदढा प्रतिज्ञा।
अनन्तरञ्चासौ मन्त्रिनिर्द्दिष्टं द्वारोपान्तनिविष्टमूर्णासनमध्यासांबभूव। बभूव च क्षणमधोनिबद्धनिश्चललोचनयुगला लज्जावनतशिरोधरा नाम। श्रीमतो जगदिन्दो: प्रमदारञ्जनमहा भागस्य च बालिकामिमां निपुणामभिध्यायतोर्बभूव हदि यथाहि नाम निजसौरभभरनिर्भरीकतदिगन्तर: प्रस्फुटनोन्मुखश्च स्थलकमलगुच्छक एक: सम्मुखमभिविराजते यस्य हि निकटे नाधुना कुसुमरसास्वादननिसर्गरसिकस्य कस्यापि चपलमधुकरस्य सञ्जातोऽस्ति सञ्चार:। नापि च कुसुमामोदनिकामलम्पटेन केनापि हस्तेन नूनमस्ति परामष्ट:। किं बहुना सकल कुसुमानि निर्भरमनायासमेव परिनर्तयतो भगवतो वायोरपि यत्र न पराक्रान्तं पराक्रमेण।
अहो नाम येभ्य: स्वयमेव परमेश्वरेण सौन्दर्यविभूषणमङ्गेष्वासञ्जितं न तेषां खलु भूय उपकरोति लौकिकमाभरणजालम्। तद्धि केवलमङ्गेषु भारायितं भवतीति नूनमुत्प्रेक्षामहे। तथाह्यमुष्या: खलु निसर्गरमणीयाया बालिकाया: काये न कोऽपि तादशोऽस्ति भूषणसम्भारो येन वयं तद्वर्णनेन लावण्यमेतस्या: शतगुणितमाभरणजालैरिति कल्पनासाम्राज्यमुपजीवन्तो नि:शङ्कमुपन्यस्याम:। तथापीश्वरवितीर्णमेवाऽस्या लावण्यं सर्वाङ्गीणमाभरणसंयोगं न जातु तणायाऽपि मन्यते। यानि चैकद्वानि१ दश्यन्ते भूषणानि तान्यपि निसर्गरुचिरैरवयवैरेतस्या भूषितानीव सन्ति। न पुनर्मनागप्यस्या: स्वभावसुन्दराणामङ्गानां भूषणाऽऽवश्यकता।
कुमारिकाया: स्थलकमलशोभामधरयतोरुभयोर्भुजयोश्चत्वारि चत्वारि हरितवर्णानि काचकङ्कणानि२ सन्ति। यानि हि गारुडमणिमध्यनिहिता मरकतमणय इव समधिकं शोभन्ते।
मणालनालकुण्डलायितयो: श्रवणयोश्चोभयोर्जातरूपमये द्योतेते खलु क्षुद्रे कर्णपुष्पे३। ये हि कोमल किसलयोपगूढे विकचकनक४ यूथिका कुसुमे इव भूयस्तरां विभात:।
लम्बसरलायां नासिकायां च किञ्चिदायामि लम्बते विमलमेकं मौक्तिकम्५। यद्धि तिलकुसुमसङ्गिकुन्दकोरकमिव हरति प्रसभं मानसं रसिकानाम्। भूषणनाम्ना बालिकाया इयानेवाऽऽभरणसंयोग:।
वस्त्रेषु च लोहितान्तप्रदेशा शाटिकाऽस्या: शरीरे विलसति। या हि चम्पकदामोपमं वपुरस्या: समासाद्य चरितार्थयति सुवर्णसौरभसंयोगकिंवदन्तीम्।
निर्भरसुरभिस्नेहस्नाता भ्रमरकष्णा: कुञ्चिताश्च कुन्तला भारभुग्रा इव नितम्बं चुम्बन्ति। सपारिपाट्यं द्विधा विभक्ताश्चेमे भाविनीं सिन्दूरच्छुरणच्छटाप्रथमप्रणालीमिव मध्ये दर्शयन्ति सरलां सीमन्तलेखाम्।v
कण्ठदेशे च पीतकुसुमदत्तान्तरा स्थूला यूथिकाकुसुममालिकाऽस्ति। या हि यौवनविलासारम्भसम्भावनासूचकयो: किञ्चदुद्भिन्नयो: कुचयोरुपरि विलसति चुम्बति गभीरनाभिनिम्रस्थलम्।
प्रतिवेशिनीभि: कामिनीभि: साभिनिवेशमन्वरुध्यत बालिकामाता यद् ''भूस्वामिमहाशयो द्रक्ष्यति बालिकामद्य तत्रापि भवत्या दु:साधा प्रतिज्ञा साधनीया। यदि न स्याद्बालिका मनोऽभिरुचिता तर्हि कथङ्कारमिमां प्रतिज्ञां पारयिष्यति भवती साधयितुम्। तस्मात्कतिपयैरन्यदीयैर्भूषणैर्भूषय बालिकाया: स्वभावसुन्दरं शरीरम्। सौवर्णतन्तुसन्ततां चैकां वाराणसेयशाटिकां परिधापय रचय च कुचयो: कञ्चुलिकामेकां काञ्चनतन्तुजालजटिलाम्। येन निसर्गरमणीयाऽपि सेयमाभरणादिभिरुज्जम्भितसौन्दर्यसर्वस्वा प्रसभं हरेन्मानसं विलोकयत:।”
१. एकं वा द्वि वा। २. चूडी, ३. कर्णफूल, ४. सोनजुही, ५. बुलाक
परं तेजस्विन्या बालिकाजनन्या तदिदमचिरात्प्रत्याख्यायते स्म यद्- ''नाहमेवंविधाभि: कपटकुघटनाभिरात्मनं पातकभागिनं विधातुमभिलष्यामि। अस्मत्सविधे वर्तमानं धनं वा जनं वा यथेष्टमिति विविच्य य: कश्चन महाशयो दयार्द्रहदय: सादरमिमामभागिन्याश्चिरदु:खिन्या: कन्यां ग्रहीष्यति तस्मायैव समर्पयिष्यामि जीवितनिर्विशेषामिमां कन्याम्। धन्यानि चात्मनो भागधेयानि कलयिष्ये। परं परोपयाचितैश्चातिपरिश्रमोपनतैर्वसनाभरणै: परिकल्प्य मनोनीतमाकल्पम्, अन्य जनमानसमोहनाय कुप्रवत्तिर्मे कदापि मास्तु। इदमेव च भूयो भूयो भगवतोऽभ्यर्थये। सहजसरला भवत्योऽपि नास्मिन्विषये भूयो मामनुरोत्स्यन्ति।”
प्रतिवेशिनीभिरपि तेजस्विन्या: कन्याजनन्या: स्वभावगौरवोपबंहितानि समाकर्ण्य वचनानि न पुन: किमप्यस्मिन्विषये प्रोच्यत। किं बहुना समागतमहाशयेभ्य: प्रदर्शयितुं कन्यां कियतेचित्समयाय समयाच्यत मन्त्रिसदनगमनं मणालिन्या: परं कन्याजनन्या न स्वीकतमेतावदपि।
प्रमदारञ्जनो मन्त्रिमहाशयमुखात्कन्याया: कुलशीलसौन्दर्यप्रशंसामाकर्ण्य कन्यां सामान्यतो रूपवतीं मन्यते स्म। परं साम्प्रतमलोकसामान्यसौन्दर्यशालिनीं मणालिनीं प्रत्यक्षं वीक्ष्य मन्त्रिमहाशयकता रूपगुणप्रशंसा सभंशं न्यूनेत्यमन्यत मनसि। मानसविचारासक्त-चेतसश्चास्य मुखादकस्मान्निश्चक्राम ''सत्यमियमर्हति निसर्गधन्या कन्या समारोढुं महाराज्ञीपदम्।”
परं पाठकमहाभागा:! जगदिन्दो: खलु विलोक्यते विचित्राऽवस्था। स हि निर्वातनिष्कम्प: प्रदीप इव भित्तिनिहितशरीरभर: केवलमालोकयति निश्चलो धरणीम्। तन्मनसि च विचाराणां परिवर्तते सम्प्रति सवेगं चक्रम्।” अद्यावधि या खलु समनोयोगं मग्यते स्म तामिमामेतत्समयान्तरे प्रत्यक्षं चक्षुषोरग्रे पश्यामि? मार्गे गच्छतोऽकस्माद्रत्नं हस्तगतं भविष्यतीति पूर्वं कस्यासीद्विश्वास:? दरिद्रगहे सैवेयमेतादशसुन्दरी? का खल्वेतावद्विलोक्यते दरिद्रा? का चैतावद्विलोक्यते सुन्दर्येव?” पुन: प्रकाशमाभाषत- ''अर्थाभावान्न जातोऽद्यावधि कुमार्या अमुष्या विवाह इति निकामं विस्मय:। अथवा विचित्रा खलु लोकरीति:। परं दरिद्रवंशेऽस्या: कन्याया समभूदुद्भव इति न मनागपि प्रतीयते चेतसा। मन्त्रिमहाशया:! कतरं वंशमियमात्मजन्मना मण्डयामास?
मन्त्री - कनकपुरनिलये घोषवंशेऽस्या जातं जन्म।
जग० - किं खलु कनकपुरवास्तव्याद् घोषकुलादियमुत्पन्ना।
मन्त्री - आं महाशय!
जग० - तर्हि कथमियमवलोक्यतेऽस्या विरूपाऽवस्था? कस्य खल्वियं कन्या?
मन्त्री - स्वर्गीयकुमुदरञ्जनमहाशयस्य।
जगदिन्दोरिदमाकर्ण्य विस्मयमयमिव, करुणामयमिव, प्रमोदमयमिव, समजायत हदयम्। यावच्च किञ्चिद्वक्तुं काङ्क्षते तावदेव पाश्र्ववर्तिनस्तणकुटीरकादश्रूयत सुदीर्घो नि:श्वासशब्द:।
अष्टम: परिच्छेद:
प्रमदारञ्जनोऽपि पूर्वत एवाऽसीत्सुभशं विस्मयाकुलमानस:। साम्प्रतञ्च कन्याया विचित्रमिमं वंशपरिचयमाकर्ण्य नितान्तमेवोदजम्भत विस्मयरसस्रोत:। पर्यन्ततश्चाऽ-पच्छन्मन्त्रिमहाशयम्- ''अहो! कुमुदरञ्जनमहाशयस्य तनया तणकुटीरकमेतदधिवसति? हन्त हन्त? कथमेतावान् भाग्यविपर्यय:?”
परमबुद्धिमता सम्यगवबुद्धं मन्त्रिमहाशयेन यद् ''दर्शितं सुफलमस्मन्नीतिलतया। स्थाने प्रयुक्ता चौषधिर्दर्शितवती गुणमात्मीयम्।”
प्रमदारञ्जनमहाभागोऽपि तात्कालिकीभिर्नानाविधाभिश्चेष्टाभि: सम्यगवाबुद्धत जगदिन्दोर्हद्गतं भावातिरेकम्।
प्रमदारञ्जनमनोगतं बुद्ध्वा प्रकाशञ्चोत्तरयामास मन्त्रिमहाशय: - ''नूनम-भियोगपिशाचावेशादेषामियमवस्थाऽभूत्। हन्त हन्त! अभियोगदुर्योगत एव सञ्जातोऽस्या: सर्वनाश:।”
किञ्चिद्विलम्ब्य पुनरवादीत्प्रमदारञ्जन:- ननु जगदिन्दुना साकमेव तु कुमुदरञ्जनमहाशयस्य समभूदभियोग:?
"मन्त्री - आं महाशय! अन्यत्किमुच्यतां तस्मादेव दुर्योगजातादभियोगात्समभवेदेतेषां सर्वनाशसन्निपात इत्येव युज्येत वक्तुम्।
प्रमदारञ्जन: समुचितोऽयं समय इति निध्याय पुन: सविस्मयमभाषत- ''महाशय! किमु अन्येन केनचित्साकमपि समभूदभियोग: कुमुदरञ्जनमहाशयस्य?”
मन्त्री - अथकिम्! विपुलमर्थं तोयवर्षं वर्षता कुमुदरञ्जनमहाशयेन सुखप्राप्य एव सममन्यत विजयोऽभियोगे। परं कुमुदरञ्जनस्य साऽऽशा केवलं दुराशारूपेणैव परिणता। समभूद्भीषण: पराजयोऽभियोगे। तदुपरि विपुलार्थव्ययो विशेषकोटौ जात:। हन्त हन्त! तस्मिन्समये कुमुदरञ्जनमहाशयस्याऽसीद्भूय: शोचनीया दशा।
परं हन्त हन्त! श्येनपातं पतता दुर्देवेन न विश्रान्तमधुनाऽपि। पुनरपि प्रार्वत्त दौर्भाग्यचक्रोपक्रम:। बहो: कालादवसरं प्रतीक्षमाणैरेतस्य सजातीयविद्वेषिभि-रात्ममनोरथपथकण्टकायितस्य कुमुदरञ्जनस्य सर्वनाशाय प्रारभ्यत भूयसा सम्भारेणाऽभि-योगस्तदुपरि। आसीच्च तेषामयमभिप्रायो यद्विकटेनार्थसङ्कटेन पाशितस्याऽस्य समस्ताऽपि भूसम्पत्तिरवश्यं विक्रेष्यते राजद्वारा। तदा च वयं विपुलार्थसहकारेण तद्भूमिसम्पत्तिमात्म-सात्करिष्याम:। करिष्यामश्चात्मन: परिपन्थिनं कुमुदरञ्जनं जीवनमतमेवेति।
परं नैषामियमाशा सफलतामयासीत्। यतो हि श्रीमतो जगदिन्दो: पितमहाशय: करुणाभरमन्थरीकतेन चेतसा कुमुदरञ्जनस्येमां दुर्दशामात्मनिबन्धनां मत्वा सुभशमतप्यत। जातमपि च विजयं पराजयमिवाऽमन्यत। आत्मनश्च विचारनिचयं परिरोद्धुमपारयन्बहुधा कुमुदरञ्जनमहाशयसविधे प्रहित्य मां सजातीयकलहं कथञ्चिदपि समुप- शमयितुमदापयत्सत्परामर्शम्। परं हा हन्त! हन्त! विधेश्चिकीर्षितं क: प्रतीपयितुं प्रभवेत्? यद्धि दुर्दशापिशाचिकाविष्टेन कुमुदरञ्जनेन सोऽयं कर्तमहाशयोपदर्शित: सत्परामर्श: शत्रुताविजम्भितमिति मत्वा न मनागप्यमन्यत। प्रत्युत तदुत्तरमेवाऽरभ्यत सरभसमभियोगे भूयानर्थव्यय:। परिणतौ च तत्तेषामभवद्येनाऽद्याऽपि तत्परिवारोऽनुभवति समधिकविषमां दशाम्। सजातीयै: साकमभियोगे समभवत् पराजय:। राजपुरुषैर्विचिक्रीषिता भूमिसम्पत्तिस्तु कर्तमहाशयेन (जगदिन्दुपित्रा) भूयसाऽर्थव्ययेन स्वयमेव क्रीता। नीताश्च कुमुदरञ्जनशत्रवो भूयोऽर्थव्ययेन साकं विफलमनोरथतामपि।
किन्तु नैतावताऽपि पर्यशाम्यत भीषण: कोपो दुर्दैवस्य। यद्धि, असमीक्ष्यमाणापरतटं भूयांसमर्थसङ्कटमनुभूय हन्त हन्त! सन्त्यक्तवान्पर्यन्तनीरसं भुवस्तलं कुमुदरञ्जनमहाशय:। तस्मिन्समये च कुमुदरञ्जनसहधर्मिणी प्राणप्रियतमां वर्षत्रयमात्रवयस्कामिमात्मजां क्रोडे कत्वा पतिशोकनिस्सहशरीरा बहिर्बभूव भवनात्।
तन्मयतया निपुणमवधारयतोरुभयो: सहचरयोर्मनसं दु:खाकुलमभवत्। जगदिन्दोश्च चक्षुषोरदश्यताश्रुलेश: यो हि तत्कालमेव सर्वेषां दष्टी: परिहत्य तेनाऽलुप्यत।
पुन: प्रावर्तत वक्तुं मन्त्रिमहाभाग:- ''कुमुदरञ्जनमहाशयस्य दीक्षागुरुर्मम भगिनीपतिर्भवति तद्द्वारा चाहं प्रवर्त्य भूयांसमनुरोधं, प्रकल्प्य चानल्पां नीतिकल्पनां, प्रयुज्य च निकाममुद्योगसम्भारं भूयस: समयादुत्तरमस्मिन् ग्रामे निवासमेतस्या: कल्पितवानस्मि। दीक्षागुरुगौरववशंवदा चेयमपि कथञ्चिदन्वमन्यत तत्। परमेतत्समयान्तरे भूयसी: साध्यसाधना: प्रयुञ्जानोऽप्यहं नापारयमिमामार्थिकीं सहायतां कथञ्चिदपि ग्राहयितुम्। सुगहीतनामधेय: स्वर्गीय: कर्तमहाशय: (जगदिन्दुपिता) समादिदेश मामवसानसमये यत्- ''अस्मदीयाभियोगदुर्योगात्स-मधिकभीषणं दशाविपर्याससमापन्ना कुमुदरञ्जनमहाशयस्य गहिणी दुहिता च यथा न मनागपि क्लेशमुपयायातान्तथैव यावन्मतिवैभवं भवान्प्रयतताम्।” तमेव च कर्तमहाशयनिदेशमनुरुन्धानेन मया प्रयुक्ता: प्रचुरा युक्तय:, कल्पितानि विपुलानि कौशलानि, प्रदर्शिताश्च भूयांस: स्वकार्यमार्गास्तथापि नेयमङ्गीचकार कामप्यर्थिकीं वाऽन्यां, वा काञ्चन सहायताम्। कथं कथमपि तु दीक्षागुरुगौरवञ्च मामकीयानुरोधसम्भारञ्च वञ्चयितुमपारयन्ती मनागन्वमन्यत केवलमे-तद्ग्रामवासम्। स्वयञ्चेमे वसनादिषु हस्तशिल्पप्रदर्शनम्, एवं विधै: कुलकामिनीकार्यै:, पेशलै: कार्यैर्दिवानिशं निजशरीरमुपशोषयन्त्यौ यत्किञ्चिदुपार्जयतस्तेनैवानयोर्माता दुहित्रो: प्राय: शोकभरगुरुकतो दिनपोतो भवति। किन्नु, भूयसा, नितान्तमुपचितमनयो: सन्तापमपाकर्तुमपारयत, क्लेशमपि चामुयोद्र्रष्टुमप्रभवता मया कियानपि भूभागो निष्करीकत्य मातादुहित्रोरनयोर्योगक्षेमाय पथगकल्पत, परमिदमपि नासीदस्या: सम्मतमिति तदपि कल्पयितुं नाहमपारयम्”।
निसर्गपेलवचेतस: श्रीमतो जगदिन्दोर्मध्येहदयमावर्तमान: करुणरसप्रवाह: सम-गादेतावता नितान्तमेवोद्वेलताम्। तच्च भूयसापि प्रयत्नेन निरोद्धुमपारयन्नकस्मादुत्तस्थौ स्वासनात्। पप्रच्छ च किञ्चिदुपसत्य, निमन्त्रितयोरुभयोरपि तात्कालिकभावानुबन्धं निपुणमवेक्षमाणं मन्त्रिमहाशयम्।
जग०- ''मन्त्रिमहाशया:! क्वास्ति निसर्गधन्याया अमुष्या: कन्याया: श्रीमती माता? या हि मदुपयोजिताभियोगदुर्योगादेव समासादितवती निकामविषमामिमां दशाम्।”
मन्त्रिमहाशय: स्वयमारोपिताया नीतिलताया: परिणामरमणीयामिमां कुसुमसम्पत्तिमालोक्य मनसि निकाममेव प्रासीदत्। अचिराच्चोत्पत्स्यमानं फलमप्यमुष्या: सन्निहितमेवाऽमन्यत।किञ्चिच्चेतसि स्मयमान इव च प्राङ्गणसम्मुखस्य तणकुटीरकमदर्शयज्जगदिन्दुमहाभागम्।
अस्माकमागन्तुकाभ्यामुभाभ्यामपि प्राङ्गणप्रवेशसमये सम्मुखस्थमेतत्तणकुटीर-कमभ्यन्तरतो दत्तदण्डार्गलमवालोक्यत तद् द्वारोपन्तं च यूथिकाकुसुममिश्राणि पीताक्षतानि चावकीर्णान्यवाऽलोक्यन्त।
सम्प्रति मन्त्रिमहाशयनिर्दिष्टस्य तस्यैव तणकुटीरकस्य सम्मुखमुपजगाम जगदिन्दु:।
जगदिन्दोर्द्वारोपान्तगमनसमकालमेव कुटीरकमध्यादश्रूयत कोमलकोमल: पदनिक्षेपशब्द:। अचिराच्च बहि: स्थितै: सर्वैरपि दष्टं यत्कुटीरकद्वारं शनैरुद्घटितावरणं भवतीति। सर्वेषां च चक्षूंषि तत्रैव विस्मयरसस्तिमितानि संलग्नान्यभूवन्।
नवम: परिच्छेद:
प्राङ्गणस्थितै: सर्वैरपि समवलोक्यत यत्कुटीरकद्वारमुद्घाटितावरणमस्ति। तन्मध्ये च चरमं वयश्चुम्बन्ती काचन योषित्सन्तिष्ठते। यस्याश्च चक्षुषोर्बद्धधारं नीरं निपतति।
योषाया अमुष्याश्चत्वारिंशद्वत्सरानतिक्रान्तं वयस्याया अपि नाधुना कतमस्या: शरीरे वार्द्धक्येन पदम्। साम्प्रतमपि शोभनं वदनं नूनमनुमापयति पूर्वतनं सौन्दर्यसम्भारमेतस्या:। चक्षुषो: सुरुचिरमारुण्यं बोधयति कविभिर्दीयमानां प्राक्तनीं नैकान्ततो गतार्थामुपमाम्। अस्नेहस्निग्धे चास्या: कुन्तलसञ्चये भूयसाऽन्वेषणेन कुत्रचन लभ्यते धवलो मूर्द्धज:।
योषितोऽस्या: शरीरमेकया धवलशाट्याऽऽच्छादितमस्ति। शाटी च सर्वाङ्गान्या-वण्वत्यपि साम्प्रतमस्या: सम्मुखभाग एव भूयस्तया पुञ्जीभूता। करौ चामुष्या: साम्प्रतं चन्दनलवलाञ्छिताववलोक्येते। अक्षतान्यपि कानिचन तत्र संलग्रानि दश्यन्ते। ललाटभागश्चास्या: सूचयति चिन्तासन्तानैकतानम्। परं चक्षुषोर्युगलममुष्या निजकर्त्तव्यसुस्थिरतामनुमापयति। मुखे चामुष्या: किमपि विचित्रविभवमनिर्वचनीयरमणीयञ्च ज्योतिर्विभाति। परमस्मिन् समये भावान्तरेण शबलीकतमेतदालोक्यते।
प्रवीणा रमणी चेयं द्वारोपान्तमायान्तं जगदिन्दुमालोक्य निर्यियासुरपि द्वारमध्य एव सम्मुखनिहितजललोचना तस्थौ।
जगदिन्दुरपि द्वारात्कियद्दूरमागत्य तस्थौ। उवाच च सविनयकरुणाप्रदर्शनम्। ''मात:! नूनं मत्पितचरणा एव कथमप्यसमुचितया श्रीमत्याऽनुभूयमानाया दुर्विषहदारुणाया अमुष्या दशाया: प्रधानहेतुरभवन्। यतो हि तत्पक्षोपयोजितादेव दुरभियोगाद्भवती समभूदित्थं पथि भिक्षु:। निकामं दीना सहायहीना च हन्त हन्त भवती तत एव समभूत्।परमधुना मन्त्रिमहाशयमुखादवाकर्ण्यत यदेतन्निमित्तं तातचरणानामनुतापोऽपि निकाममुदभूत्- ''यदस्मत्कताभियोगादेव कुमुदरञ्जनमहाशयस्य कान्ता सुता च समुपागच्छतामत्यन्तदु: खदारुणामिमामवस्थामिति।” यतो हि दढमनुतापसन्तापितचेतसैव श्रीमता तातचरणेन समुचितसाहाय्यनिमित्तमुपायोज्यत मनाङ् मन्त्रिमहाशय:। परं क: खलु विप्रतिकूलपरिपाकं दैवं प्रतीपयितुं पारयेज्जन्तु:। हन्त हन्त! तादशं तमात्मनोऽनुतापं यावत्कार्यरूपेण परिणमयितुं प्रयतन्ते तातचरणास्तावदेव दैवेन प्रकटिता जन्तूनामनारम्भसम्भ्रमा भीषणा गति:। यत् हा हन्त सन्त्यक्तवन्त: परिणामनीरसं भुवस्तलं तातचरणा:। मा भूत्तातचरणानां युष्मासु साहाय्य-प्रदर्शनावसर:। परमधुना यथा पैतकसम्पत्तिर्गहीता तथा पितचरणसञ्चितमणमपि मया परिगहीतम्। यथा च पितचरणानां भूसम्पत्ति: सप्रमोदसम्भारमुपभुज्यते तथैव पैतकमणमपि निष्कल्मषेन चेतसा परिशोधयिष्यते। येन खलु भवती कता पथिभिक्षुस्तस्यैवाऽद्योपारूढविनयस्तन-यस्तातकतमणं परिशोधयितुकाम: साम्प्रतं भिक्षुकभावेन भवत्या: सम्मुखमागतोऽस्ति। एषोऽहमुन्मुकुलीकतकरसम्पुटो भिक्षुभावमावहन् भवत्यास्तनयाया विकचकमलकोमलं पाणिं भिक्षामाकाङ्क्षे।
''पितचरणैरपराद्धं पुत्रो दण्डं प्रदातुमुद्युक्त:”
समुचितोऽयं न्याय:। अहं हि सर्वस्वमप्यात्मन: श्रीमत्यै समप्र्य कम्पितहत्काण्डा-दमुष्माद्दण्डादात्मानमनुपरोधमुन्मोचयितुमिच्छामि। किन्तु करुणामनुरुन्धानया श्रीमत्या स्वसमीहिताभिमुखो भिक्षुरेष न प्रत्याख्यातव्य:।”
जगदिन्दो: सहसा सञ्जायमानमिमं भावातिरेकं दष्ट्वा प्रमदारञ्जनो मन्त्रिमहाशयश्चोभावपि मनसि समारोहतां परां काष्ठां हर्षस्य। द्वारोपान्तगता रमणी तु निर्माय हदयप्रोद्बोधिता-नुभावसिन्धोर्जगदिन्दोरिममालापमाकर्ण्य समुपारूढहर्षप्रकर्षा वाष्पगद्गदकण्ठकुण्ठिता-क्षरसंयोगस्वरसंविभागा प्रण्यगादीत्।
''दिष्ट्या किमद्य दैवमनुकूलमुपदर्शयति कलम्? हन्त हन्त तं खलु प्रियजनविप्रयोगविषमयं समयं स्मरामि यत्र हि स्वर्गगत: सुगहीतनामधेय: स्वामिमहाशयो मत्युशय्यामधिशयान: स्वमन:शल्यमुज्जिहीर्षुर्मां प्रतिज्ञाबद्धामकरोत्- ''यत् यथा हि भविष्यदनुमीयमानसद्गुणशालिनी सेयं मणालिनी पैतकीं सम्पत्तिमुपलभ्यते तथैवाप्राणपातं प्रयतिष्य इति”। अहो! बहो: कालात्कथमप्यनुकूलतां समुपेयुषा विधात्रा किमद्य सैव दु:साधा प्रतिज्ञा पूरणोन्मुखी दर्शिता? अपि पुनरपि समुज्जम्भितसौभाग्यं सन्निधत्ते भाग्यम्? नाहमेतामापातरमणीयां विषयसम्पत्तिं मनागपि वाञ्छामि। नापि च कामये परिणामनीरसेऽस्मिन् शरीरे नानाविधविषयविलाससम्भारमारभमाणम्। केवलं सुदूरमभागिन्याश्चिरदु:खिन्या: कन्यामिमां निजचरणनिकटे समागतामूरीकत्य प्रतिज्ञापाशदढनिबद्धां मां मोचय नूनम्। चिरादद्य दर्शितो भगवता.........”
नास्मात्परं किमपि बालिकाजनन्या वक्तुमपार्यत। हर्षविषादकारुण्यानां सवेगं भ्रमता चक्रेणाऽस्या हदयमेकवारमेवाऽकुलमभवत्।
एतावत्कालपर्यन्तं शोकशबलितेन रमण्या: कथानकेनाऽनेन सर्वेषामपि हदयं कुत्रचन करुणरसमयं कुत्रचिच्च विषादमयं क्वापि च हर्षमयमभवत्। नास्मिन्नवसरे कस्यापि चित्तवत्तिर्मनागप्यन्यत्र लग्राऽभूत्। परमेतदवसाने सर्वैरपि विलोकितं यत्प्रमदारञ्जन: सम्मुखस्थात्प्रकोष्ठकान्मन्दं मन्दं परावर्तमान इत एवागच्छति। अस्य च हस्ते क्षौमवस्त्राच्छादिता काचन स्थाली, हदये हर्षश्चाऽधरयोश्च हास: समुल्लसति।
दशम: परिच्छेद:
निजोचितचरिताभिमानिन्या बालिकाजनन्या: सरसञ्च मधुरञ्च करुणाभरमन्थरञ्चेम-मुपन्यासं सुनिपुणमाकर्णयतो जगदिन्दो: पूर्वमेव मानसं प्रमोदमेदुरञ्च विस्मयमयञ्च करुणरसाप्लुतञ्चाभवत्ततोऽपि माङ्गलिककौशेयावतां स्थालीं काञ्चन करे वहन्तं, सर्वेषु प्ररूढपरिचयमिव च स्वच्छन्दमागच्छन्तं, प्रमदारञ्जनमालोकयतश्चास्य विस्मयो नितरामेवो-दजम्भत। यावच्च किञ्चन तं प्रष्टुं कामयते तावदेव सम्मुखस्थात्प्रकोष्ठकादश्रूयत खटत्खटेतिशब्दस्तन्मिश्र एव च काचकङ्कणझणत्कार:।
शब्दञ्चेममाकर्ण्य चकितचकित इव प्रमदारञ्जनो जगाम सम्मुखस्थप्रकोष्ठकाभिमुखम्। तत्र च दष्टं सर्वैर्यत्कपाटान्तराले स्थित: कस्याश्चन प्रवीणाया: शणोति सादरं वचनानि। किन्नु तया भणितमिति न तत्रत्यै: किञ्चनाप्यवगतं नापि च वयं वक्तुं पारयाम:।
कियत्क्षणानन्तरमेव च प्रमदारञ्जनस्तत्याज तत्प्रकोष्ठकद्वारम्। सम्मुखमागच्छतश्चास्य मुखमालोकयद्भि: सर्वैरप्यवगतं यत्कञ्चन सुनिगूढं भावं भूयसा प्रयत्नेन गोपयन्नपि नैष सफलमनोरथो भवति। प्रकटीकरोति भावमिमं मुखमेवास्य। जगदिन्दु: प्रियसुहदं करे धत्वा त्रिद्वारिकायामानीतवान्।
मन्त्रिमहाशयो व्यतिकरमिममालोक्य प्रोवाच साभिप्रायम् ''दिष्ट्याऽद्य सफलमनोरथोऽस्मि, येन बहो: कालात्सङ्कल्पितोऽयमात्माभिलाष: स्वर्गीयकर्तमहाशयाभिप्रायश्च पेशलं पूरणोन्मुखम् इति। “
प्रमदारञ्जन: सरभसमुपसत्य सहर्षगद्गदं निजगाद-''मन्त्रिमहाशया:! तर्हि शुभमिदं गोधूलिलग्नं नार्हति मनागपि विलम्बावलम्बम्।”
अभिधाय चेदं, व्यतिकरेणाऽनेन नितान्तमेव लज्जाधिकतामानतमुखीं प्रस्फुटनोन्मुखस्थलकमलशोभाशालिनीं मणालिनीं सम्मुखमानिनाय बालिकां कण्ठाशलेषसुखिताञ्च तां। यूथिकामालिकामादाय सहसा निचिक्षेप लज्जावनतकन्धरस्य जगदिन्दो: स्कन्धयो:। जगदिन्दुकण्ठाच्च मन्त्रिमहाशयोपाहतं मुक्तापटलमञ्जुलं काञ्चनहारं गहीत्वा मणालिन्या: कण्ठे परिधापितवान्। कौशेयमपवार्य च स्थालीमध्यगतै: कुङ्कुमाक्षतैर्द्विगुणितशोभमुभयोश्चकार निटिलतटम्। ददौ चोभयोर्मुखे ताम्बूलवीटिकायुगलम्।
समये चास्मिन् सन्ध्यासुन्दर्यपि सिन्दूरसुन्दरीकतसीमन्तलेखा तारकानिकरविभ्राजमाना भगवत: सुधादीधितेरभ्युदयमभिवीक्षमाणा नितरां विराजते। निजनिजकुलायगमनाय त्वरयन्त: पक्षिणो मधुरमधुरै: स्वरैर्मेदुरयन्ति मानसमाकर्णयताम्। ग्रामवासिन्यो नितम्बिन्यश्चास्मिनसमये गहाङ्गणेषु दीपानुद्दीपयन्त्यो गायन्ति सायन्तनमाङ्गलिकगीतानि।
उपसंहार:
पाठकमहाभागा:! श्रीमान् जगदिन्दुरुत्तरोत्तरमभ्युदयमभ्युपेयान्, निजभूसम्पत्तिसुखं प्रमदारञ्जनसौहदसुखाञ्चानुभवन् सम्प्रति यापयति प्रमदरसमयं समयम्। यदा कदाचन प्रमदारञ्जनो ''दीना सुरूपा च कन्या अपेक्ष्यते” इत्यादिभि: परिहासै: स्मारयति पूर्ववतान्तं तदा सहासं परावर्तयति वदनं जगदिन्दु:। अथवाऽभ्यन्तरं गतो गह्णाति तत्परिवर्तनं सस्मिताया: कस्याश्चन सकाशात्।
''सर्वो भद्राणि पश्यतु”
देवर्ष्युपाह्वभट्टश्रीमथुरानाथशर्म्मणा।
निर्मितोऽयमुपन्यास: समाप्तिमधुना गत:।।