अभिनवपञ्चतन्त्रम्
(प्राचीनभारतीयकथाशिल्पस्य पुनराविष्करणम्)
।।मित्रसम्प्राप्तिः।।
अथ प्रासादतले सुखोपविष्टान् राजपुत्रान् शिक्षितुकामो विष्णुशर्मा सस्नेहमुवाच – भो राजपुत्राः! सम्यगवधानं दत्त। अयमहं भवतां परिज्ञानाय मनोविनोदाय चाभिनवं पञ्चतन्त्रम् उपदिशामि। तत्राद्यं तन्त्रं मित्रसम्प्राप्तिरिति। तस्यायं प्रथमः श्लोकः –
मिष्टभाषी मिताकांक्षी मितव्ययो मिताक्षरः।
त्रस्तशत्रुस्त्रपाशीलो मित्रसंज्ञोऽभिधीयते।।१।।
तदेवंगुणविशिष्टं मित्रं सम्प्राप्य भवन्तोऽपि जीवने साफल्यश्रियमेष्यन्ति। कथमिति चेत् प्रस्तौमि प्राचीनां कथामिमाम्। शृण्वन्तु भवन्तः –
सन्मित्रस्योपदेशेन मरणाद्वार्यते जनः।
यथा हरिणकोऽरण्ये त्वरितं काकमन्त्रितः।।२।।
राजपुत्राः सविस्मयमूचुः – कथमिदम्? विष्णुशर्म्मोवाच – वत्सकाः! तदेव वर्णयामि। शृणुत।
१. काकमैत्रीकथा –
आसीद् उत्तरप्रदेशराज्यस्थिते जौनपुरनाम्नि जनपदे स्यन्दिकापगातटवर्ति गहनमरण्यमेकम्। न्यवसत्तत्र कश्चिन्मृगो वल्लभनामा, योऽतितरां स्निह्यतिस्म वज्रचञ्च्वभिधे कस्मिंश्चिन्मित्रभूते वायसे।
काकोऽहर्निशं नवं नवं हरिततृणसम्पन्नं क्षेत्रमन्विष्य तत्र मृगं नयति स्म। मृगोऽपि काकं स्वपृष्ठमधिरोह्य हिन्दोलनसुखं ददाति स्म। एवं हि कृताहारौ तौ रात्रौ क्वचित् पादपतले निवासुखमवाप्य भिन्नेहनि पुनरपि यथानिर्दिष्टं व्यवहारं सम्पादयामासतुः।
अथ गच्छति काले मृगमांसलुब्धः कश्चित् शृगालस्तत्रायातः। कपटाचारैस्सरलं मृगं प्रभाव्य सोऽपि तस्य मित्रतामुपगतः। सायंकाले काकोऽपि समाययौ। जम्बुकं दृष्ट्वैवाभूत्तस्य मनसि-कस्मादयं मांसभोजी समागतोऽत्र? नायं दृष्टपूर्वः। तदवश्यमेव वञ्चकेनानेन भवितव्यम्। यतो हि –
विना प्रीतिं विना जातिं विना भावं विना गतिम्।
अकस्माज्जायते यद्धि तद्विनाशाय सौहृदम्।।३।।
तन्निवार्योऽयं महाननर्थसम्पातः। काको मृगमपृच्छत् – भो वयस्य! कोऽयं नूतनः प्राधुणिकः?
मृगोऽवदत् - शृगालोऽयं दुग्धदन्तः।
काकोऽपृच्छत् – दुग्धदन्तो दग्धदन्तो वा?
‘नहि नहि। दुग्धदन्त एव।’
‘कथं भवता ज्ञातमस्य दुग्धदन्तत्वम्?’
‘इदमेवास्याभिधानम्।’
‘अभिधानेन किं कस्यचित् कर्मापि प्रमाणीक्रियते?’
‘न खल्ववगच्छामि।’ मृगोऽवदत्।
‘भो वयस्य! सत्यमेव मुग्धोऽसि। प्रकाशेन सार्धमन्धकारस्य कीदृशी मैत्री? भवान् हि तृणाङ्कुरभोजी। अयं पुनरामिषभोजी। नायं विश्वसनीयः। पश्यतु भवान्’ –
अनुदिनं कदलीव विवर्धते
तुहिनविन्दुततीव च शोभते।
परिणतिं समुपेत्य विनश्यति
ननु समूलमियं खलमित्रता।।४।।
एतत् श्रुत्वैव क्रोधारुणलोचनो जम्बुकोऽवदत् – भो वायस! एकाक्षः सन्नपि दृष्टिद्वयं विभर्षी? कोऽयन्ते व्यामोहः? यदि नाम त्वमत्रभवतो विश्वासयोग्यः, कथं नाहम्? किं तवास्ति चिरन्तनं सख्यमनेन सार्धम्? हन्त भोः,
कृष्णपक्षोऽपि मासस्य शुक्लतामेति निश्चितम्।
किन्तु काकस्य सर्वाङ्गे कृष्णतैव बलीयसी।।५।।
मृगोऽवदत् – भो वयस्य! यथाऽऽवां द्वौ, तथा वयं त्रयः बन्धुभूताः निवत्स्यामस्तदलं विवादेन।
ततः प्रभृति ते सहचारिणोऽभवन्। परन्तु काको न मनागपि विश्वसिति जम्बुके। स निभृतनिभृतं तस्य गतिविधिं निरीक्षते स्म। क्व याति, कदा याति, कथं याति इति निपुणं प्रत्यवेक्षमाणो वायसो जम्बुकं वञ्चकापरपर्यायं मन्वानो मृगरक्षणे दत्तचित्तोऽभवत्।
ततः कदाचित् बहुशो मृगं प्रलोभ्य तृणशष्पप्राचुर्यमुद्घोष्य मृगमांसलुब्धो जम्बुको मृगं, काकेऽनुपस्थिते, सिंहगुहासमीपमानिनाय। यावदसौ गुहासमीपमुपायातस्तावदेव काकोऽप्यकस्मादाययौ। काकोऽवदत् – भो दग्धदन्त! कस्मात्त्वया मित्रवर्योऽत्रानीतः?
‘अत्र वर्तते शाद्वलवती भूमिः।’
‘तां भूमिमहं तव जिह्वायां पश्यामि।’
‘अयि! मृषावादिन् मयि वृथा ते कोपः।’
‘पाप! वञ्चक! सिंहगुहां तृणवतीं भूमिं मन्यसे?’
‘भोः कथमिदं सम्भाव्यते?’
‘तर्हि कस्येमानि पदचिन्हानि?’
‘ननु जम्बुकानाम्।’
‘मूर्ख! महिषो हस्ती न भवति। पश्य स्वपदचिह्नानि तावत्।’
एवमधरोत्तरं बुक्कत्स्वेव तेषु कर्णकुहरं बधिरीकुर्वन् सिंहनादोऽश्रूयत। तं नादं श्रुत्वैव काकः सझम्पमेत्य स्ववज्रचञ्चुप्रहारैः जम्बुकमेकनेत्रं विधाय प्रोवाच – ‘दृष्टमिदानीं त्वया एकाक्षपराक्रमणम्? किमिदानीमपि दृष्टिद्वयं बिभर्मि? साम्प्रतमावां द्वावेव एकाक्षौ जातौ। कृष्णपक्षोऽहं कामं शुक्वपक्षतां न वृणोमि। तुभ्यं पुनः रक्त्तपक्षतां प्रयच्छामि। इदानीं सुखं तिष्ठ। गच्छाम्यहम्।
मृगोऽपि विदितवेदितव्यो वायुवेगात् काकेन सार्धमुपद्रुतः। तस्माद् भणामि दारकाः –
द्राङ् न मैत्री विधातव्या भञ्जनीया न वा तथा।
मणिकाञ्चनसंयोगा मुद्रिकैव हि शोभते।।६।।
इदानीं गच्छत यूयम्। श्वो रात्रौ पुनरागन्तव्यम्। अपरं तत्र प्रकाशयिष्यामि कृतज्ञशल्लकीकथानकम्।
कुलूहलाक्रान्ताः कुमारा ऊचुः – आचार्य! श्रुत्वैष यास्यामः। भवन्मुखोद्गीर्णकथातो नाऽस्माकं तृप्तिः।
विष्णुशर्मोवाच – वत्सकाः! उपकारेण प्रेम्णा सद्व्यवहारेणैव मित्राणि प्राप्यन्ते, विश्वासघातेनाऽपकारेण द्वेषकरणेन च प्रलीयन्ते। पश्य,
उपकारेण सञ्जातः मित्रं कान्तारसूकरः।
शल्लक्याः शल्लकी चापि सूकरस्य विपत्क्षणे।।६।।
कुमारा अपृच्छन् – उपाध्याय! कथमेतत्? विष्णुशर्मोवाच – वत्सकाः! शृणतु सावधानम्!
२. कृतज्ञशल्लकीकथा
कस्मिंश्चिद् गहनारण्ये विविधहिंस्रपशुनिचिते कश्चित्सूकरः सकुटुम्बं न्यवसत् पल्वलसमीपम्। पल्लवलं महता कृच्छ्रेणैव भवतिस्म। यतो हि दिवसविरहणपरायण आसीत् कोलः। शल्लकी पुना रात्रावेव भूविवराद् निष्क्रामतिस्म कीटादिभक्षणाय।
एवं सत्यप्युभयोर्मध्ये प्रातिवेशिकोचितं महत्सौहार्दमासीत्। कदाचित् शल्लकी स्वकण्टकावरणं प्रतन्य कोलपोतकान् भीषयन्ती कुतूहलं विदधातिस्म। कोलोऽपि कदाचिद् घुर्घुराऽरावैः शल्लकीपरिवारस्य मनोरञ्जनं विदधाति स्म।
कस्मिंश्चिद्दिवसे सन्ध्याकाल एव तृषार्ता शल्लकी जलं पातुं पल्वलसमीपमागत्य कठोरतटबन्धं कमप्यन्विष्यन्ती सहसैव तटपिच्छिलत्वात् पङ्कबहुले जले न्यपतत्। यथा यथाऽसौ बहिर्निष्क्रान्तुं प्रायतत तथा तथैव दीर्घकण्टकानि तस्याः कर्दमे निखातानि। साऽपि जलमग्नप्राया सञ्जाता। आत्मरक्षार्थं मृत्युभयार्ता शल्लकी चीत्कर्तुं प्रवृत्ता।
तस्या आर्तनादं श्रुत्वैव पार्श्वस्थः सूकरो द्रुतगत्याऽऽगच्छत्। मृत्युमुखे निपतितां दृष्ट्वा स्वप्रतिवेशिनीमसौ सझम्पं पल्वले पपात प्रोथावलम्बेन च शनैः शनैः शल्लकीं पल्लवलाद्बहिरानीतवान्। मृत्युमुखाद्वारिता साऽपि मोदमग्ना स्वविवरमुपागता। तत आरभ्य सूकरं प्रति तस्या अनुरागोऽतितरामवर्धत।
शनैः समयोऽग्रेससार। कस्मिंश्चिद्दिवसे मध्याह्ने एव शल्लकी वराहस्य करुणाक्रन्दनं श्रुतवती। सा पोतकान् दुग्धं पाययन्ती भूविवरे शयानाऽसीत्। वराहकरुणक्रन्दनेन तद्विपत्तिमनुनाय साऽकस्मादेव पोतकान् दूरे क्षिप्त्वा विवराद् बहिरागता।
कश्चित्तरक्षुः सूकरगलं द्रंष्टया दृढमाकुञ्च्य तं प्राणहीनं विधातुं प्रयततेस्म। सूकरोऽपि योद्धुमशक्तस्सन् केवलं क्रन्दित्वैव प्राणव्यथां प्रकटयन्नासीत्। को नु तं वारयेत्!! यथोक्तं काव्यकारैः –
मित्रे पराङ्गमुखे बन्धौ दूरे पितरि बान्धवे।
सहायो जायते दैवं दैवेऽरौ को नु संश्रयः।।८।।
परन्तु दैवं नासीदरिः सूकरस्य। दैवं सर्वथाऽनुकूलमासीत्।
अकस्मादेव शल्लकी वज्रपातोल्केव तरक्षौरुपरि निपपात स्वकण्टकावरणं प्रतत्य। निशितशङ्कुमुखाः कण्टकाः शल्लक्या भल्लाग्रभागा इव तरक्षोः शरीरे विद्धाः। कश्चित्कण्टकाग्रभागस्तु तस्याधमस्य नेत्रकनीनिकां स्फोटितवान्। स्फुटितनेत्रस्तरक्षुस्तु असह्यपीडाक्रान्तश्चीत्कुर्वन् सूकरगलं मुक्त्वा दूरमतिष्ठत्। शल्लक्याः भैरवरूपमवलोक्य पुनरसौ सूकरगलं ग्रहीतुं नाक्षमत।
कुमाराः! एवं किल पूर्वोपकृता शल्लकी स्वबन्धुभूतं सूकरं संकट-क्षणे वारितवती। यथा श्रुतम्मया प्रातचीनवृत्तम् –
स्याज्जनः शाकविकेता श्रेष्ठिपुत्रोऽथवा धनी।
विरुद्धावपि बध्नाति जनावेकं नु सौहृदम्।।९।।
कुमारा ऊचुः – आचार्य! वृत्तमिदं सविस्तरं वर्णयतु भवान्!
३. शाकविक्रेतृपुत्रकथा
विष्णुशर्माऽवदत् – दारकाः! अस्ति हरियाणाराज्यस्थे सूरजपुरनामा कश्चिद्ग्रामः। तत्र दलेलसिंहाभिधः कश्चिद्भूस्वामी विपुलैश्वर्यमण्डितोऽवसत्। पत्नी तस्य सरलानाम्नी निसर्गादेवातिमधुरा दयामयी, दानशीला आसीत्।
दलेलसिंहस्य ग्रामे निर्धनानां वसतौ निवसति स्म कश्चित् शाकविक्रेता शम्भुनामा। यौवन एव मृता तस्यार्धाङ्गिनी। परन्तु नाऽसौ भूयोऽपि परिणीतवान्। स्वपुत्रेण मदनेन पुत्र्या चम्पया च सार्धं स्वकुटीरे निवसन्नसौ जीवनं यापयति स्म।
दलेलसिंहस्य पुत्रो युवराजनामा यस्मिन् विद्यालयेऽध्ययनरत आसीत् तत्रैव मदनोऽपि। वस्तुतो द्वावपि बालकावेकस्यामेव कक्षायामपठताम्। किञ्च मदनो युवराजाऽपेक्षया तीव्रधीः प्रतिभासमन्वितश्चासीत्।
शनैः शनैरुभयोर्मध्ये प्रगाठा मैत्री सञ्जाता। कोमलवयसि स्थितौ बालकौ समृद्धिदारिद्रयभेदमजानन्तौ कुलजातिगोत्रमहत्त्वाऽनभिज्ञौ मिथः प्रतिबिम्बभूतौ। स्नेहरज्जुनिबद्धो युवराजः प्रायेण सन्ध्याकाले क्रीडनार्थं मदनवसतावुपयातिस्म। मदनोऽपि कदाचिदवसरमवाप्य भगिन्या सार्धं युवराजभवनस्य गृहवाटिकायामागच्छति स्म। तत्सर्वं गृहप्रपञ्चरतो दलेलसिंहो न सम्यग् जज्ञौ।
दलेलसिंहः स्वभावादेव रुक्षोऽहङ्कारपरायणो धनगर्वितश्चासीत्। तद्दृष्ट्या निर्धना दरिद्रा कृमितुल्या आसन्। पूर्वजन्मार्जितं स्वपापमेते भुञ्जन्तीति दलेलस्य चिन्तनमासीत्।
एवम्मानी दलेलः कस्मिंश्चित् सन्ध्याकाले स्वगृहप्राङ्गणे युवराजेन सह क्रीडन्तं मलिनवसनं मदनं दृष्टवान् तद्विषये च पत्नीमपृच्छत्।
सरला सरलतयैव सर्वमवादीत् - मदनोऽयं युवराजस्य सहपाठी। भवत एव ग्रामे निवसति। पिताऽस्य शम्भुः शाकविक्रेता। परन्तु मदनोऽयमतीव सुशीलः प्रतिभाशाली चास्ति। युवराजं प्रति तस्य़ प्रगाढोऽनुरागो वर्तते। मदनोऽध्ययनकार्येऽपि युवराजस्य साहाय्यं विदधाति।
तत्सर्वं श्रुत्वैव धनैश्वर्यदुर्मदो दलेलः कोपाविष्टः सञ्जातः। सोऽपि पत्नीं निर्भर्त्सयन्नवोचत् – भो भूस्वामी अहम्। सम्पूर्णऽपि ग्रामे ममाधिकारः। ऐश्वर्यप्रतिष्ठामण्डिता अपि मम प्रतिवेशिनः सङ्कोचवशान्नायान्ति मत्समक्षम्। अयं तावत् शाकविक्रेतुः पुत्रः मम पुत्रस्य मित्रं सञ्जातः? कथमयं सम्भवति?
-कथं न सम्भवति? किं सुदामा द्वारकाधीशस्य कृष्णस्य सखा नासीत्?
किं निषादराजो भगवतो रामस्य सखा न सञ्जातः? सरलाऽवादीत्। मित्रतायां नापेक्ष्यते कुलजातिविशेषः। नेक्ष्यते धनिकत्वं दारिद्र्यं वा।
-तत्सर्वमहं जानामि। परन्त्वितः परं नायं शाकविक्रेतृपुत्रोऽत्र द्रष्टव्यः। न चापि युवराजस्तस्य वसतौ गच्छेत्। श्रुतं न वेति रुक्षतया गर्जन्नपसृतवान् दलेलः।
पत्य़ुः सङ्कुचितां मनोवृत्तिं दुरभिमानञ्चावेक्ष्य सरलाऽतितरामतप्यत्। परन्तु किन्नु कुर्यादसौ? सत्यमेवोक्तं केनापि –
बर्बूरं कण्टकाकीर्णं कदलीञ्चाप्यकण्टकाम्।
जानन्नपि विरञ्चिश्चेद्योजयेत्तर्हि का गति।।१०।।
ततः कस्मिंश्चिद्दिवसे विद्यालयाद् गृहमुपावर्तमानस्य युवराजस्य वाहनं दुर्घटनाग्रस्तं सञ्जातम्। अनेके बालकाः क्षतविक्षता अभवन्। शाकविक्रेतृपुत्रो मदनस्तु पदातिरेव गताऽगतं कुरुतेस्म। दैववशादसावपि दुर्घटनाक्षेत्रं निकषैव समासन्न आसीत्। सखलु स्वकीयं मित्रं युवराजं प्रत्यभिज्ञाय, तच्च रिक्शायानमारोह्य तद्गृहमागतवान्।
इतश्च दुर्घटनावृत्तं श्रुत्वैव दलेलगृहे सर्वे शोकसन्तप्ता अतिष्ठन्। दलेलः स्वयमपि पत्नीं सान्त्वयन् तत्रैव स्थित आसीत्। तावदेव मदनो युवाराजेन सार्धं तद्भवनद्वारमुपागच्छत्। रिक्शायाने युवराजोऽपि मूर्च्छितस्सन् शयान आसीत्।
मदनस्तावत् सेवकानां साहाय्येन युवराजं यानादधोऽवातारयत्। स खलु सर्वमपि वृत्तं सविस्तरमुपवर्ण्याऽवादीत् – श्रीमन्! भगवत्कृपया युवराजः सर्वथाऽक्षत एव वर्तते। केवलं दुर्घटनाभयात् मूर्छामनुभवति। द्वित्रैरेव क्षणैः प्रकृतिस्थो भविष्यति।
एवंवादिन्येव मदने युवराजो मूर्छं परित्य़ज्य चेतनो जातः। स्वमित्रं मदनं पितरो चावलोक्याऽसौ समुत्थाय समन्दस्मितमुपविष्टः।
एतत्सर्वं प्रत्यक्षीकृत्यैव दलेलसिंहस्य दुरभिमानः कर्पूरराशिरिव विनष्टो जातः। एवमासीत्तस्य चेतसि-सरला सम्यग्भणतिस्म यत्सौहृदं नापेक्षते कुलं जातिं गोत्रं वा। सौहृदं पश्यति केवलं सहृदयत्वम्। सौहृदं नाम द्वयोर्हृदययोः सहावस्थानं तुल्यसंवेदनम्! शाकविक्रेतृगृहे समुत्पन्नोऽपि सर्वसौख्यवञ्चितोऽप्ययं दारको यदि मम पुत्रस्य मित्रं तर्हि निश्चप्रचं द्वयोरेव संस्कारसाम्यं, द्वयोरेव हृदयानुभूतिसाम्यं, द्वयोरेव विचारसाम्यञ्च। तदितः प्रभृति नाऽनयोः मैत्र्यै कुप्यामि।
हर्षामोदविसंष्ठुलो दलेलः युवराजमदनौ युगपदेवाङ्के कृतवान्। भूयोऽप्यसौ पत्नीमवदत् – सरले! गृहीतो मया तवोपदेशः। युवराज इव मदनोऽपि मे पुत्रस्सम्प्रति सञ्जातः। आनयाऽस्माकं कृते किञ्चिद् भक्ष्यं पेयञ्च। अद्य मे भ्रान्तिर्निराकृता मोहश्चापगतः। प्रिये! आत्मनिर्मित-कारागृहादद्य मुक्त्तोऽस्मि जातः।
तद्दारकाः सन्मित्राणि विधत्त। यतो हि –
पतिमुपचरेद्भार्या मन्ये शरीरसुखाय सा
पतिरपि भजेद्भार्यां तद्वत्स्मरोत्सवपूर्तये।
भुवि बहुमताः सर्वे स्वार्थप्रपूर्तिदिशैव भो-
स्तदपि जयते मैत्री सैका मनोलयकारिणी।।११।।
किञ्च,
सुहृन्नोऽवाप्यतेऽभीष्टो यत्नजातैः शतैरपि।
अकस्माल्लभ्यते सोऽपि दैवयोगादतर्कितम्।।१२।।
पुमांसं वानरीभूतं दिष्ट्यैव मातृशापिता।
अवाप भोक्तृरूपेण यथाऽसौ दिव्यवानरी।।१३।।
राजकुमारा अपृच्छन् – आचार्य! काऽसौ दिव्यवानरी? कथं मातृशापिता? कथञ्च वानरीभूतं पुमांसं प्राप्तवती? महत्कुतूहलमस्माकम्?
विष्णुशर्मोवाच – दारकाः! अलमुद्वेगेन। निर्भरं शृणुत।
४. अभिशप्तवानरीकथा
आसीद्देवपुर्यां मदिरानाम्नी कापि विद्याधरी। सा खलु गृहादपगते स्वकान्ते केनापि जारेण सार्धं रममाणा जीवनं यापयतिस्म। भार्यानुरक्तस्तत्कान्तो न किञ्चिदपि वेद विषयेऽस्मिन्। परन्तु विदितमातृ-व्यभिचारवृत्ता तत्कन्या कदाचित् सर्वमपि तद्दुराचारं पित्रे निवेदितवती।
द्वितीयजीवितभूतायाः भार्यायाः पुरुषान्तररतिवृत्तं श्रुत्वैव विद्याधरो ज्वलदग्निपिण्डस्सञ्जातः। स खलु व्यभिचारिणीं पत्नीं ताडयित्वा गृहान्निष्कासितवान्।
अथ पतिप्रताडिता परित्यक्ता च विद्याधरी दुर्मुखायै तनुजायै शापं ददौ – धृष्टे! कपिकन्येव चपलमुखी त्वं यथा मम सौख्यं खण्डितवती तस्मात् शपाम्यात्मतपसा यत् सद्य एव वानरीभूत्वा भूलोकं गच्छ।जनन्यभिशप्ताऽसौ कन्या दीनदीना भृशमरोदीत् स्वर्गच्युतिभयात्। तत्करुणदशां दृष्ट्वाऽनुकम्पाकातरा विद्याधरी भणितवती-जाते! क्रोधवशीभूतया मया दोषरहिताऽपि त्वं शापिताऽभूः। ममाऽयं शापस्सम्प्रति मृषा भवितुं न शक्नोति। त्वया तु धरातलेऽवतरणीयमेव। परन्तु ममाऽशिषा सन्ततिं प्रसूयैव त्वं शापमुक्ता भविष्यसि, भूयोऽपि चाऽप्सरोरुपेण देवलोकमागमिष्यसि।
कन्याऽपृच्छत् – अम्ब! कदा कथञ्च मया पतिः प्राप्स्यते?
विद्याधरी प्रोवाच – अलं चिन्तया। देवकृपया तत्सर्वं यथाशीर्घ्रं स्वयमेव सम्पत्स्यते।
दुर्धर्षशापवशादसौ विद्याधरकन्यका वानरी भूत्वा गहनारण्यस्थे कस्मिंश्चिद् द्विशाखे दिव्यप्रभावमये उदुम्बरवृक्षे निवसितुं प्रवृत्ता। मातृतपसां महिम्ना वृक्षस्यास्य एकैव शाखा फलति स्म। यः कोऽपि जीवितोऽस्यां शाखायामारुरोह स एव वानरयोनिं गच्छतिस्मेति तस्य वृक्षस्याऽपरः प्रभाव आसीत्।
कस्मिंश्चिद् दिने यमजौ ऋषिपुत्रौ तत्रागतौ। कनिष्ठसहोदरः परिपक्वोदुम्बरफलानि दृष्ट्वा भक्षणाय कातरीभूतः। तस्य लोभं दृष्ट्वा ज्यटोष्ठभ्राता फलान्यानेतुं यावदेव वृक्षशाखामुपाश्रयत् तावदेवाऽज्ञातवृक्षदिव्य प्रभावोऽसौ सहसैव वानरोऽभूत्। तद् विलक्षणवत्तं दृष्ट्वा कनिष्ठो रोदितुं प्रवृत्तः। अथ वानरीभूतोऽसौ ऋषिपुत्रो वानरीभूतया विद्याधरकन्यकया सङ्गतोऽभूत्। उभयोः परिचयस्त्वरितमेव परिपाकमुपगम्य भोगसुखमवाप। ततश्च धृतगर्भादेवरूपा वानरी सद्य एव जातकं प्रसूय शापमुक्ता जाता। अप्सरोरूपमागत्याऽसौ स्वजातकं वत्स~! सेवस्व सततं स्वजन्मदातारं पितरम् इत्येवं प्रबोध्य दिवमुत्पपात।
तावता कालेनैव तयोः ऋषिपुत्रयोः पिताऽपि तनुजौ मार्गयमाणस्तत्रागतः। कनिष्ठपुत्रं विलपन्तमवेक्ष्याऽसौ ज्येष्ठपुत्रविषयेऽपृच्छत्। तन्मुखाच्च सर्वामपि घटनामाकर्ण्य योगबलेनाऽसौ सर्वमपि सत्यं प्रत्यक्षीचकार।
ततश्च यावदेवाऽसौ ज्ञानिनामपि चेतांसीति सिद्धमंत्रेण वानररूपस्य पुत्रस्य धियं प्रेरितवान् तावदेवासौ संमुत्प्लुत्य शाखान्तरमागच्छत् प्रकृतं मानवशरीरं च प्राप्तवान्। सोऽवतीर्य वृक्षात् पितरं प्रणनाम सहोदरञ्च दृढमालिङ्गितवान्।
अथ प्रस्थितान् तान् सद्योजातो वानरोऽप्यनुसृतवान्। तमायान्तं दृष्ट्वा यावदेव कनिष्ठपुत्रस्तमुपद्रावयितुमियेष तावदेव विदितरहस्य ऋषिः प्रोवाच-वत्स! मैवम्। अयं वानरोऽपि इतः प्रभृत्यस्मत्कुटुम्बसदस्य एव। मम दत्तकपौत्रोऽयम्। तत् श्रुत्वा प्रीतौ पुत्रौ मोदमग्नौ सञ्जातौ।
कुमाराः! एवं सन्मित्रमवाप्यते देवकृपयैव, न पुनः स्वयंकृतप्रयासेन। देवकृपयैव यूयमपि सन्मित्राणि जीवनेऽवाप्स्यथ। इत्येव ममाऽशीः
।।इति श्रीमदभिराजराजेन्द्रविरचितेऽभिनवपञ्चतन्त्रे
मित्रसम्प्राप्तिनाम प्रथमं तन्त्रमवसितम्।।
अभिनवपञ्चतन्त्रम्
।।मित्रभेदः।।
अथापरेद्युः सरसकथान्दोलिमानसा राजपुत्रा अनाहूता एव प्राच्यामुदयति शर्वरीश्वरे यथास्थानमुपतस्थुः। राजपुत्रोपाध्यायो विष्णुशर्माऽपि परिसमाप्तसान्ध्यक्रियः शस्यसमृद्धिपरिवर्धिताह्लादः कृषाण इव प्रसन्नमनाः समागत्य स्फटिकासनं समलञ्चकार। स्वसुखेन्दु प्रति चकोरायमाणेषु राजदारकेषु तान् प्रोवाच हैयङ्गवीनाञ्चितवाचा विष्णुशर्मा-राजदारकाः। अद्याहं मित्रभेदं प्रवक्ष्यामि यस्यायमादिमः श्लोकः पूर्ववर्तिभिरुक्तः –
यत्रेच्छेत् विपुलां प्रीतिं तत्र त्रीणि वर्जयेत्।
आहारं व्यवहारञ्चपरोक्षे दारदर्शनम्।।
राजपुत्रा विस्मयमापन्ना ऊपाध्यायमूचुः – आचार्यप्रवर! कथमिदम्?
विष्णुशर्मोवाच – दारकाः शृणुत।
५. सुहृद्वञ्चनाकथा
अस्ति गंगायमुनयोः सङ्गमोतसङ्गे प्रयाग-नगरम्। तत्र दारागञ्जाख्ये क्षेत्रविशेषे द्वौ सखायौ परमां प्रीतिमागतौ सुखं न्यवसताम्। वृत्त्या उभावपि प्राध्यापकौ। प्रातस्सञ्चरणात्प्रारभ्य रात्रिं यावत् तौ प्रतिबिम्बभूतौ कदाचिन्नर्महास्यैः, कदाचित् निन्दया, कदाचित् कौलीनवार्तया, तदाचिद् वा गुप्कतप्रणयकथाप्रकाशनेन सख्यमतिवाहयाञ्चक्रतुः। तयोरेकतरोऽप्यन्यं विना क्षणमात्रमपि पृथक् निवसितुं न क्षमः।
निरञ्जनाख्योऽन्यतरः सखा जात्या ब्राह्मणः प्रतिरविवासरं प्रातरेव वैश्यकुलोत्पनं स्वमित्रमागच्छतिस्म। आदिवसं तत्रोषित्वा मध्याह्नभोजनमपि निर्वर्त्याऽधिसन्ध्यं स्वगृहं न्यवर्तत।
कदाचित् निरञ्जनस्य निरन्तरालागमनेन, समुद्विग्ना वैश्यगृहिणी स्वपतिं निजगाद – अयि भो! निरञ्जनोऽयं तव सुहृत् सत्यमेवाञ्जनायते। किमर्थं प्रतिरविवासरमत्रायाति? तस्मिन्नेव दिने प्राप्तावकाशाऽहं पक्वान्नव्यञ्जनानि सायासं महानसे पचामि। अयमगस्त्यवंशधरः पुनर्भोजनं विना गृहद्वारवितर्दिकां न मुञ्चति। किमिदमेवाधीतमध्याप्यते वाऽनेन?
मित्रापमानविष्ण्णहृदयो वैश्यः कर्कशां पतनीं सान्त्वयन् प्रोवाच – भाग्यवती! अलं रुषा। निरञ्जनमहं यथावसरं प्रबोधयिष्यामि।
भार्यामेवमवबोध्य वैश्योऽचिन्तयत् – कीचकवनाग्निर्नाम पत्नीयम्। कदाचिदवश्यमेव स्वाश्रयभूतं पतिं भस्मसात्करोति। मन्ये,
न रक्षसा प्रेतपिशाचपन्नगै-
र्न चाऽपि यक्षेन सुरेण वा विपत्।
समागता शीर्षपदं निवार्यते
विहाय सद्बुद्धिबलं यथोचितम्।।२।।
एवं विचिन्त्य वैश्य पत्नी स्वदारकान् दारिकाश्च सम्मन्त्र्य प्रोवाच – वत्साः! निरञ्जने समामगते भोजनादिचर्चा कथमपि न करणीया। पृष्टेऽपि सति युगान्तमौनमास्थेयम्। मौने भञ्जितप्रायेऽपि प्रतोषवाक्य-कैतवेन भोजनेच्छा दृढं निषेधव्या। दारका औमित्यूचुः।
अथागते रविवासरे प्रातरेव निरञ्जनः पूर्ववत् समाययौ। चित्रलिखितानिव बालकान् दृष्ट्वा दुर्घटिताशङ्कया स पृष्टवान्- वत्सकाः! किमभूत्? क्व वर्तते युष्माकं जननी?
ज्येष्ठा कन्या झटित्यब्रबीत् – पितव्य! अद्याम्बा रविवारव्रतम् अनुतिष्ठति। वयमपि सर्वे व्रतमाचरिष्यामः। फलाहारैः सन्ध्याकाले पारणा भविष्यति।
निरञ्जनो युक्तिपुरस्सरं प्रोवाच – वत्सकाः! किं व्रतपालने बहिरपि नागम्यते? कथं न तवाम्बा प्रत्यक्षं दृश्यते?
मध्यमस्तनुजोऽब्रबीत् – पितृव्य! अम्बा शीर्षवेदनयाऽऽयासिता शेते। वयं तत्रैव गच्छामः।
अथ गच्छत्सु बालकेषु निरञ्जनो मनसाऽचिन्तयत् – विचित्रं प्रतिभाति। गृपतिरनुपस्थितः। गृहिणी व्रतस्था। दारकाश्च निगीर्णप्रश्नाः। तत्किमिदम्? मन्ये,
शतप्रयत्नेन न यद् विधात्रा
सहस्रयत्नैश्च मनुष्यजातैः।
कृतं मतं वा भुवि तद्विलासैः
दृशां क्षमन्ते ललना विधातुम्।।३।।
भवतसु प्रथमोऽयमशनिपातः सहर्षं सोढव्यः। अग्रेऽपि द्रक्ष्यामः।
एवमादि चिन्तयतो निरञ्जनस्य विगता नैके रविवासराः।।
कस्मिंश्चिद् दिने तर्कितं तेन यदनवसरं गत्वाऽपि गवेषणा कर्तव्या। यतो हि,
पश्यन्तः पदचिह्नानि मूर्खा अग्रेसरन्ति च।
कवि-सिंह-सुपुत्राश्च स्वयमध्वप्रवर्तकाः।।४।।
एवं मनसि निश्चित्य निरञ्जनः रविवासरे कस्मिंश्चित् प्रातरेव सकृद् गत्वा प्रतिनिवृत्तः। पूर्ववत् उच्चावचं वचनं श्रुत्वापि तस्य मनो न मनाक् चचाल। मध्याह्न-काले समागतप्राय एव स पुनः सुहृद्गेहमाससाद। दूरत एव पक्वान्ननिर्माणगन्धैर्नासारन्ध्राश्च्योतनमनुभवन् यावदेव स गृहद्वारमुद्घाट्य प्रविष्टस्तावदेव मित्रभार्यां मित्रं दारकांश्च निरर्गलं भुञ्जानान् ददर्श।
निरञ्जनं सझम्पमागतं प्रेक्ष्य विचारमूढाः सर्वेऽर्धचर्वितग्रासा विचित्रस्थितिमुपययुः। यावत्तेषामन्यतमः कोऽपि किञ्चिदपि कथयेत् तत्पूर्वमेव निरञ्जनः प्रोवाच-अलमलम् आयासैः। अद्य दृष्टं मया कलियुगानमिदं नूतनरविवासरव्रतम्। गच्छामि तावत्। भद्रन्ते!
अथ गते निरञ्जने गरलायमाणं भोजनं यथाकथञ्चित् निर्वर्त्य सञ्जातरोषो वैश्यः पत्नीं प्रोवाच – अद्य बुद्धिकौशलेन ते निर्भर्त्सितोऽस्मि। श्वः कथं निरञ्जनं स्वकलंकितं मुखं दर्शयिष्यामि? मित्रं प्रवञ्च्य कथमिदानीं सुखं स्थास्यामि। हन्त भोः,
स्वतेजसा सूर्यजयी स्वकान्त्या
प्रलीन चन्द्रोऽपि नरो गुणौघः।
स्त्रिया जितो यद्वितनोत्यभद्रं
शरीरनाशोऽपि वरं हि तस्मात्।।५।।
अन्येद्युः द्वावपि सुहृदावकस्मान् मिलितौ। निरञ्जनं दृष्ट्वा यावदेवापत्रपाबारभुग्नो वैश्यः कथयेत् किञ्चित् तत्पूर्वमेव सदयमुक्तवान् निरञ्जनः – अलं लज्जया, संकोचेन वा। बन्धो! सर्वं मदीयमेव स्खलनमासीत्। सुभाषितं केनचिद् विदुषा –
उपकृत्यं हितं दानं पौनः पुन्येन यत्कृतम्।
शोभते नितरां नान्यत् लोकेऽस्मिन् यत्नपूरितम्।।६।.
वैश्यः सादरं पृष्टवान् – सखे! नावगच्छामि। स्फुटं भण। रहस्यमुद्घाट्य प्रकाशय।
दुर्हृद्वणिक्कथा
निरञ्जनोऽवोचत् – ‘आसीत् प्रतापगढनाम्नि नगरे कश्चिद् धनाढयो वणिक्। यंत्रौषधिव्यापारे तेन लक्षाधिकं धनमुपार्जितम्। परन्तु स्वभाव – कटुरसौ वराटिकामपि भिक्षुकेभ्यो न दत्तवान् कदाचिदपि। धनलिप्सा मानवं दानवं विदधातीति’ साधूक्तं पूर्वपुरुषैः। सोऽपि नितरामचिन्तयत् –
तनुजो न भवेत्तनुजा न भवेत्
न भवेद् गृहिणी स्वजनो न भवेत्।
निखिलं न भवेन्निखिलं विसहे
धनमेव परन्तु खिलं न भवेत्।।७।।
तस्य कृपणवणिजो विशालगृहे रिक्तकक्षेषु निवसन्तिस्म अनेके वेतनभोगिनो राजुरुषाः। आदिवसं स्वेषु कार्यालयेषु कार्यं सम्पाद्य सायंकाले सर्वेऽपि तत्रायान्ति भोजनादिकं च सम्पाद्य सुखं स्वपन्ति। आगतायां मासस्य प्रथमतारिकायां ते पूर्वनिश्चितम् आवासशुल्कं वणिजे दत्वा तं प्रीणयन्ति।
तेषामन्यतम आसीत् कोऽपि दीनानाथनामको दरिद्रो द्विजः। स आसीत् परिवारनियोजनकार्यालयेऽल्पवेतनभाक् लिपिकः। धनाभावपीडितः स नितरां धनप्राप्त्यर्थमाहिण्डनं कुर्वाणो महद्दुःखमनुभवति स्म। एवमाचरतस्तस्य दृष्टौ समागता वणिक्पत्नी। तस्या धर्मभीरुतां व्रतोपवासनिष्ठां च दृष्ट्वा दीनानाथो हर्षनिर्भरमनाश्चिन्तितवान् – हन्त भोः सर्वसिद्धियोगो मया प्राप्तः। यतो हि,
‘धर्मस्य तत्त्वं निहितं गुहायाम्’
इति प्रवादो न सतामभीष्टः।
तथापि नारीहृदयानुलीनं
तदेव संरक्षति मूढलोकम्।।८।।
तदियं श्रेष्ठिभार्यैव मया यावच्छक्येन पाण्डित्येन हस्तरेखाविचारादिनाट्येन वाऽनुकूलनीया। तस्यां सञ्जातकृपायां दूरीभविष्यति सर्वमेव कृच्छ्रं मदीयम्।
एवमाचरतो दीनानाथस्य सा वणिग्भार्या कतिपयैरेवाहोभिर्विनीतशिष्याजाता। तत्कृपयाऽसौ ब्राह्मणस्तस्मिन् गृहे कदाचित् सत्यनारायण- कथां कदाचित् हरतालिकां, कदाचित् हस्तरेखाविचारणां, कदाचित् पल्लीपतनप्रायश्चित्तं, कदाचित् काकारावकारणव्याख्यां सम्पादयन् आदीयमानैर्धनैः परमसम्पन्नो जातः।
दुर्मनायामानोऽपि वणिक् भार्यां दीनानाथं वा नियंत्रितुं नाऽशकत्। अद्य गण्ड निर्माणार्थम्, अद्यमन्त्रजपार्थम्, अद्यारिष्टनिवारणार्थम्, अद्य दुर्योगनिवारणार्थमेतावद्धनमपेक्ष्यत इति प्रायेण प्रतिदिनं याचमानो दीनानाथः क्षुब्धहृदयेन ज्वलदङ्गारोपमनेत्रेण च वणिजा दृश्यते स्म।
सत्यमुक्तम् –
साम्राज्येऽपि गते राज्ञस्तादृशं दारुणं भयम्
नो यथा कृपणस्यास्ते भिक्षान्नेऽपि समर्पिते।।९।।
अथ निरुपायो वणिक् बहु विचिन्तयन् मार्गमेकं प्रशस्तं ददर्श। अन्येद्युरेव परिवारनियोजनकार्यालयं गत्वा कार्यालयाधिकारिणं प्रभूतोत्कोचेन परितोष्य दीनानाथस्य स्थानान्तरणं द्राक् कारितवान्। दीनानाथोऽपि सोरस्ताडनं विलपन् शपन् क्रोशन् च प्रतापगढनगरात् प्रतस्थे।’
तर्हि अलं विषादेन। एतत्सर्वं ज्ञात्वापि मैत्रीसंम्मूढचेता अहं पुनः पुनर्यत् त्वदीयं गृहं गतवान् भोजनञ्च कृतवान् तस्यैव स्खलनस्य प्राप्तं फलम्।।
दीनानाथवृत्तं श्रुत्वा कथासङ्केतञ्च साधु विज्ञाय आत्मग्लानिसन्तप्तो वैश्यो निरञ्जनं प्रोक्तवान् – मित्रवर्य! साधुहृदयोऽप्यहं कुटिलभावनया भार्यया छलित इदानीं भवत्समक्षं स्वकलंकितं मुखं दर्शयितु न क्षमोऽस्मि। तत्कथमावयोः सख्यमक्षतं स्यात्? पश्य तावत् –
हृषीकेच्छाजातो विषयसुखभोगो युवतिषु
लभेतालं तोषं तदपि जनिभाजां मतिमताम्।
न सार्थक्यं लोके प्रभवतितरां जन्मनिलयं
विना मित्रं ह्येकं स्वजनचरमं मंगलकरम्।।१०।।
स्वमित्रं परमार्थतो विषण्णं हतधैर्यञ्चानुभूय कोमलमना निरञ्जनस्तं सान्त्वयन् प्रोवाच् – भो मित्र! अलमात्मानं सन्ताप्य। अपरकथामाध्यमेनैव समाधानं प्रस्तौमि। सावधानमनसा श्रूयताम् –
दस्युप्रणयकथा
कर्पूरपुरनामके कस्मिंश्चित् ग्रामे जौनपुरजनपदस्य प्रेमसिंहनामा कश्चित् क्षत्रिययुवको निवसतिस्म। बाल्यकाले दुर्ललितत्वाद् विद्यालयम् गत्वा मध्येमार्गं स्थिते ग्रामहट्टे गुलजारगंजाक्ये नानाविधनि दुश्चेष्टितानि प्रत्यमकार्षीत्। एवं कुर्वाणोऽसौ कामपि परीक्षामुत्तर्तुं नाशकत्। शनैः शनैः स्वदुराचारैः परिपुष्टः सन् दस्युराजो जातः। तन्नामश्रवणमात्रेणैव जनाः कम्पितदेहाः स्ञ्जाताः।
दस्युकर्मा सरदारसिंहनामाऽपरः कोऽपि युवा प्रेमसिंहस्य परमां प्रीतिमुपययौ। कथं न स्यादेतत्? कुतः,
क्षीरायते जलं सद्यः तैलं नैव जलायते।
समं समेन सम्बद्धं भवेन्नो विषमेण च।।१।।
अथ कदाचिद् विजयदशमीपर्वणि समायोज्यमाने रामराज्याभिषेकनाट्यं सन्द्रष्टुं सखीभिस्सार्धं समागता रूपसौन्दर्यनिधानभूता प्रेमसिंहभगिनी सरदारसिंहेन लोचनपथातिथीकृता। प्रत्यभिज्ञानमूढः सरदारसिंहस्तां स्वप्रेयसीं मन्यमानस्तां स्वायत्तीकर्तुं बण्डोचितान् मुधा नान् कर्त्तुमारेभे। तेन सा वराकी मध्येसमाजं लाञ्छिताऽभूत्।
एतत्सर्वं यथाकथञ्चिदनुश्रूय भगिन्यभिभवक्रोधोद्धुरः प्रेमसिंहः सरदारं सर्वजनसमक्ष दारुणं भर्त्सितवान्। स्वापराधविज्ञाय सरदारसिंहः साञ्जलिपुटप्रणामं प्रेमसिंहमनुनीय तं सानुक्रोशं कृतवान्।
परन्तु हृदयहरिणस्तु सरदारसिंहस्य तया वागुराभूतया मित्रभगिन्या बलादाबद्ध आसीत्। साम्प्रतं प्रेमसिंहदृष्टिमपवार्यं सरदारसिंहः स्वमनोरथं पूरयितुमियेषे। यथोक्तम् –
तरंगिणी भूधरतस्समुद्गता
गृहद्रुता वाथ कुलीनकन्यका।
मनोऽपि लावण्यपयोधिमज्जितं
स्वयं विधात्रापि न रक्ष्यते त्रयम्।।१२।।
अद्य सरदारसिंहो भगिनीं पथि रुणद्धिस्म, अद्य तस्याः नाम पृष्टवान्. अद्य ताम्बूलवीटीं तस्यै दददासीत्, अद्य प्रसह्य तस्या मणिंबन्धं जग्राहेति मुखवीरैः स्वगुप्तचरैः श्रावं श्रावं लोकापवादविद्धः प्रेमसिंहः क्षुब्धकेसरीव सरदारं नामशेषं कर्तुं व्यचिन्तयत्।
अथ कस्मिंश्चित् दिने सम्पादितमारणप्रबन्धः प्रेमसिंहः महता प्रणयेन सरदारं भोजनाय निमन्त्रितवान्। सरदारोऽपि सञ्जातप्रेयसीबलवद्दिदृक्षः प्रेमसिंहानुनयं निर्विशङ्कं स्वीकृतवान्।
अथ समागते सरदारसिंहे प्रेमसिंहः महदायोजनं कृतवान्। क्षणे-क्षणे मदिराचषकं निपाय्य भोजनं च ताम्रचूडमांसभूयिष्ठं सम्भोज्य तं शिथिलं चकार। अधिशय्यं सुप्ते च तस्मिन् दृढरज्जुभिस्तं पर्यङ्के निबघ्य निशितच्छुरिकया तं पशुमारं व्यापादितवान्। अतएव साधूक्तं मनीषिभिः –
स्मरेणोपहतो वाली स्मरेणैव च रावणः।
ऐन्द्रं पदमवाप्याऽपि स्मरेण नहुषा हतः।।१३।।
कामं नियन्न्त्रयेद्धीरो यज्ञकुण्डेऽग्निसन्निभम्।
वनाग्निरिव कामोऽयं मुक्त्तोदहति जीवनम्।।१४।।
एतत्सर्वं कथयित्वा निरञ्जनः स्वमित्रं प्रबोधितवान् – अलं सन्तापेन! आवयोर्मध्ये नित्याहारव्यवहारदारदर्शनप्रसङ्गो नोत्थितः तद् भगवतः कृपैव। प्रतिरविवासरं सौहृदान्धस्य मम यत्तव गृहे गमनमासीत् तदप्यनुचितमेवाऽसीत्। मित्रवर! तस्यैव दण्ड आवाभ्यां भुक्तः। तत्कते पश्चात्तापो न करणीयः। अवशिष्टं सौहृदं यत्नतो रक्षणीयम्।
।।इति श्रीमदभिराजराजेन्द्रविरचितेऽभिनवपञ्चतन्त्रे
मित्रभेदनाम द्वितीयं तन्त्रमवसितम्।।