अभिनवपञ्चतन्त्रम्
।।काकोलूकीयम्।।
अथ कतिपयैरेवाहोभिः विविधव्यवहारपाटवैर्विशदमनस्कान् दृष्ट्वा स्वनिसर्गमूढान् दारकान् भूपालो विष्णुशर्मप्रभावं सम्यक् प्रत्यभिज्ञाय विविधोपायनैस्तं पण्डितप्रवरं तोषयामास। विष्णुशर्मापि सम्प्राप्तमहार्घसम्पत्तिः प्रसन्नमनाद्विगुणितोत्साहैः दशगुणितया च प्रीत्या राजपुत्रान् शिक्षयितुमारब्धवान्।
एवं हि सान्ध्यकाले कस्मिंश्चित् परिपाकमुपगतवति भगवति शर्वरीश्वरे पण्डितविष्णुदत्तशर्मा पर्यन्तिकचरान् राजपुत्रान् समुपलालयन् प्रोक्तवान्-दारकाः! स्वस्ति भवद्भdयः। मङ्गलमस्तु। पुनर्नवाऽस्तु ते बुद्धिः कर्पूरतामेतु ते प्रतिभा। शशशृङ्गतामेतु ते जाड्यम्। आकाशकुसुमतामेतु ते मान्द्यम्। प्रसन्नोऽस्मि नितरां दर्शं दर्शं युष्माकं बुद्धिप्ररोहं वर्धमानम्।
तत् राजपुत्राः! अद्याहं काकोलूकीयं तन्त्रं प्रस्तौमि कथारसायनभूतं यस्यायमादिमः श्लोकः –
निष्क्रम्य नयनादश्रु वक्ति गुप्तां मनोव्यथाम्।
यथा रहस्यमाचष्टे गेहान्निष्कासितो जनः।।१।।
राजपुत्रा ऊचुः – उपाध्याय! अनेन किमुक्तं भवति? आशयो नावगतः। कृपया सविस्तरं भणतु।
विष्णुशर्मोवाच – आयुष्मन्तः! अलमुत्ताम्य। कथामाध्यमेनावगच्छत सर्वम्।
८. उत्कोचकीटाधिकारिकथा
अस्ति भारतवर्षस्योत्तरप्रदेशनाम्नि भूभागे सुल्तानपुराभिधो जनपदः। तत्रत्यः क्षेत्रबन्धाधिकारी सी.ओ. इत्यांग्लभाषायामुच्यमानः चकबन्दी अधिकारीति च ग्रामीणैः सम्बोध्यमानोऽतीवोत्कोचपरायणो रावण आसीत्।
निरन्तरमेव स्वार्थलोलुपैर्लालाटिकैः कतिपयाप्तजनैश्च परिवृतोऽसौ कमप्यनर्थमेव चिन्तयन्नासीत्। स्वयमपि प्रदतं निर्णयमसौ बृहदुत्कोचराशिमवाप्य अन्यथाकर्तुं नाल्पमपि सङ्कोचं करोति स्म। तत्कृते ईश्वरो मन्दिरेषु, धर्मः पुस्तकेषु, कोमलता पुष्पेषु, क्षमा पृथिव्याम्, आर्जवं विहगेषु, भयं चतुष्पदेषु न खलु तन्मनस्यासीत्। सर्वेऽपि जनपदवासिनो भृशं सन्त्रस्ताः सन्तप्ताश्चाजायन्त।
ततस्तु क्रमेण क्षेत्रबन्ध – (चकबन्दी) योजना गोमतीतटवर्तिनि भुइलाभिधे कस्मिंश्चिद्ग्रामे कार्यान्विताभूत्। सर्वेऽपि धनाढ्या जना विविधोपहारसमुद्गकैः सार्धं तत्सविधे गन्तुमारब्धवन्तः। अत्र मम सुविधा, इदं ममानुकूलम्। तस्येदं क्षेत्रं मम भवेत् मम चेदं क्वाप्यन्यत्र गच्छेदिति विविधमुच्चावचमधरोत्तरं विप्रतीपं चिन्तयन्तः सर्वेऽपि ग्रामवासिनः सर्वमपि कार्यं त्यक्त्वा क्षेत्रबन्धगृहीतमनस्काः समभूवन्
तस्मिन्नेव ग्रामे वदरीलालनामा कश्चिद् अध्यापकः प्रारम्भिकपाठशालाया निवसति स्म। तस्य पूर्वजा लेखनीधनिका आसन्। आंग्लशासने ते प्रायेण पटवारीतिसंज्ञकं पदमलङ्कुर्वन्तिस्म।
स्वप्रतिवेशिजनानां सततधावनमवलोक्य बदरीलालः कदाचिदेकान्ते मनसि चिन्तयामास – हन्त भोः निर्धनोऽहं कथमिमं धनव्याधं वशीकुर्याम्? अत्र तावत् नीतिमवलम्ब्य कार्यं करणीयम्। यतो हि –
नियन्त्र्यते नैव बलेन हस्ती
न गृह्यते शक्त्तिचयेन सिंहः।
अतो हि कल्याणनिषक्तचित्तै-
र्बुद्ध्यैव सर्वं खलु साधनीयम्।।२।।
एवं मनसि सम्प्रधार्य अन्येद्युरेव बदरीलालः क्षेत्रबन्धकार्यालयं समाससाद। तत्र कार्यालयं निपुणं निरीक्षमाणोऽसौ सौभाग्यवशाद् बालमित्रं स्वकीयं कुञ्जिलालं ददर्श। चिरकालानन्तरं मिलितं स्वमित्रं बहुशः समुपलाल्य समुपालभ्य च कुञ्जीलालस्तं बहिरानीतवान् मिष्टान्नादिभक्षणार्थम्। समाप्ते चाशनजाते ऽपृच्छत् कुञ्जीलालः –
- चिराय दृष्टोऽसि। अस्ति किञ्चित्प्रयोजनमत्र?
- ‘अथ किम्! नेदं तीर्थस्थानं मुक्तिप्रदम्। विवश एव जनोऽत्रागच्छति।’ बदरीलालोऽकथयत्।
- कथय। किम्मया करणीयं भवत्कृते।
- क्षेत्रबन्धाधिकारी कथं वशीकर्तुं शक्यते? कमप्युपायं भण।
वदरीलालवचनं श्रुत्वैव कुञ्जीलालः क्षाममुखच्छायोऽजायत। कथितं तेन-बन्धो! अस्माकं क्षेत्रबन्धाधिकारी तु साक्षाद्रावणः। उत्कोचमन्तरा नान्यस्तदवशीकरणोपायः। स्वभावेनातिनृशंसो नानुनयं शृणोति। कतिपयदिवसपूर्वमेव स्वगृहभृत्यं चमनलालं मृषैव निर्भर्त्स्य निष्कासितवान्। निखिलोऽपि कार्यालयस्तं प्रसादयितुं प्रयतितवान्। परन्तु कः शृणोति? चमनलाल इदानीमपि निर्गृहघट्टो रजकसारमेय इव हिण्डते। तर्हि बन्धो! निश्चितमिदं यत्।
सुस्नेहपूरपरिषेचितवर्तिकोऽपि
दीपो न किं वमति कज्जलकालिमानम्?
पूर्वग्रहग्रथिलचित्तधियां जनानां
जानाति नैव विनयौषधिमीश्वरोऽपि।।३।।
इमं वृत्तान्तं निशम्यैव बदरीलालः प्रसन्नमुखमुद्रोऽभूत्। चिन्तितं तेन-हन्त! सिद्धमस्माकं समीहितम्। यतो हि,
हेमकार-सुहृद्-वैद्य-भृत्य-पीठोपमर्दकाः।
रहस्यवेदिनो ह्येते भवन्त्यत्र न संशयः।।४
तन्मयेदानीं चमनलालोऽन्वेष्टव्यः। ततस्तु कुञ्जीलालं सहायीकृत्य बदरीलालश्चमनलालं मार्गयामास। आपणे कस्मिंश्चित् प्रकाममुपभोज्य निपाय्य च कृतककारुण्यमुत्प्रेक्ष्य सहानुभूतिञ्च प्रदर्श्य स चमनलालं वशीकृतवान्। सुलभविपदां प्राणिनां सान्त्ववचनमेव परमौषधम्।
यतो हि,
सुखानुरक्तं परिहासमग्नं
दृष्ट्वैव लोके मनुजो व्यथार्तः।
अदृष्टबन्धोपशमे ह्यशक्त्तो
हृदग्निना दह्यत एव नित्यम्।।५।।
बदरीलालस्य सान्त्ववचनैः प्रभावितश्चमनलालः सवेदनमुदाजहारबन्धो! अयं नीचाधमः क्षेत्रबन्धाधिकारी स्वयमपि डी.डी.सी. नामकं स्वपितृभूतमधिकारिणं महतोत्कोचेन परितोष्य स्वजन्मतिथिञ्च प्रमाणपत्रे परिवर्त्य सेवासुखं भुङ्क्ते। अन्यथा वर्षद्वयपूर्वमेव सेवानिवृत्तेनानेन भवितव्यमासीत्।
-कथं खलु त्वया ज्ञातमिदम्? बदरीलालोऽपृच्छत्।
-इदमपि नाम प्रष्टव्यम्? अहं तु अस्य नराधमस्य सर्वमपि सितासितं वेद्मि। अस्मिन् कर्मण्यहमपि अनेन सार्धं लखनऊनगरं यावदुपगतवानस्मि। सर्वं जानामि। बदरीलालोऽतितरां मोदमुपगतष्छिद्रमिदमन्विष्य। यतो हि सर्वं जानामि। बदरीलालोऽतितरां मोदमुपगतष्छिद्रमन्विष्य। यतो हि,
चिन्तानिदानं समवाप्य सोख्यं
वृणोति यद् गूढमहोऽप्यवर्ण्यम्।
न तेन तुल्यः सुरलोकवासः
सुधाधटो नाऽपि च मानवस्य।।६।।
ततस्तु चमनलालं गगनकुसुमायमानं समृद्धिदिवसं प्रदर्शयन् सिद्धस्वार्थो बदरीलालः पुनर्मेलनाय च शपथं कुर्वन् ततः प्रतस्थे।
अन्येद्युरेव निवेदनपत्रमेकं लिखित्वा क्षेत्रबन्धाधिकारिदुष्कृतानि च तत्र सविस्तरं प्रकाश्य मृषा जन्मतिथिसङ्घटनञ्च निघटय्य मुख्यमंत्रि-कार्यालये दत्तवान्। तत्रापि तस्यावुत्तः कश्चिन्नियुक्त आसीत्। येन हि द्रागेव मुख्यमंत्रिसमक्षमुपगतं तन्निवेदनपत्रं माहात्म्यं प्रामुख्यञ्चवाप द्वित्रैरेवाहोभिः सम्पादिते सति सत्यान्वेषणप्रसंगे उत्कोचजीव्यसौ क्षेत्रबन्धाधिकारी सहसैव स्वपदान्निलम्बितोऽभूत्।
निखिलेऽपि सुल्तानपुरजनपदे वार्तेयं कर्णात्कर्णं प्रसर्नती, जनजनपरिव्याप्ता बभूव। सर्वेऽपि चकिता विस्मिता हतप्रभाश्चाजायन्त। केनेदं कारितं कदा कथं कस्माद् वा कारितमिति न कोऽपि ज्ञातुं शशाक।
एतस्मिन्नन्तराल एव कस्मिंश्चिद् दिने निलम्बितस्य सी.ओ. महोदयस्य नूतनो गृहसेवकः सखारामश्चमनलालेन सन्दृष्टः। तं दृष्ट्वा चमनलालः सहासं प्रावदत्-कथय भोः! निलमिबितोऽसौ उत्कोचकीटस्साम्प्रतं किं करोति? दृष्टं तेन मद्बलं न वा?
सखारामः सविस्मयं पृष्टवान् – बन्धो! उदरकृते सर्वमेतत्करोमि। अन्यथा यत्र तवापमानो जातो न तत् स्थानं मह्यं तृणकमपि रोचते। परन्तु चमनलाल! कृतं त्वयाऽद्भुतम्? कथमिदं सर्वं संवृतम्?
विजयश्रीगर्वितश्चमनलालः समग्रामपि कथां सविस्तरां वर्णितवान्। बदरीलालस्य बुद्धिवैभवं मुहुर्मुहुः प्रशंसितवान्।
इतो गत्वा सखारामः सर्वमपि वृत्तं विपत्तिसागरनिमग्नाय कलङ्कभारभुग्नाय स्वामिने निवेदितवान्।
निशम्य तत्सर्वं सञ्जातरोषः क्षेत्रबन्धाधिकारी मनस्यचिन्तयत् – कदापि दृष्टो न वाऽपकृतो न वाऽवमानितः। हन्त! तथापि नीचेन तेन एतावती वात्या समुत्थापिता? तदनेनावश्यमेव केनचित् चतुर्वर्णविलक्षणेन जीवेन भवितव्यम्। यतो हि,
नकारणं दंशमुपैति सर्पो
न चापि घातं वसुधा विधत्ते।
अकारणं वैरमुपेत्य जीवन्
विलक्षणो धातृकृतौ स कश्चित्।।७।।
तन्मयाऽपि सम्यग् गवेषणीयः कोऽयं बदरीलाल इति।
कतिपयैरेवाहोभिः सी.ओ. महोदयो निजैः प्रणिधिभिर्बदरीलालं सविस्तरमामूलचूडं परिज्ञातवान्। प्रारम्भिकपाठशालाध्यापकचरित्रमपि सुष्ठु ज्ञातवान्। आसीच्च तस्य मनसि-हन्त! यथा हि अर्धजलो घटो बहुशः शब्दं करोति तथैव पाठशालाध्यापका अपीमे प्रवञ्चनपटवोऽकाण्डताण्डवकुशलाश्च। एते हि,
प्रबलतरनिदाधे शीतपेयानुलीनाः
शरदि खलु हसन्तीसेविनो ज्ञानशून्याः।
नवजलधरमासेऽक्लिन्नदेहाः सुरक्षाः
समधिकतरसौख्यं सर्वतोऽप्याप्नुवन्ति।।८।।
तदयं पिपीलकमितः शिक्षकहतकोऽवश्यमेव दण्डनीयः। येनायमपि स्वपौरुषपरिणामसौख्यं यावज्जीवनं स्मरेत्।
एवं मनसि सम्प्रधार्य क्षेत्रबन्धाधिकार्यसौ निलम्बितोऽपि सन् यथा – कथञ्चित् कार्यालयपञ्जिकां स्वपार्श्वमानाय्य भुइलाग्रामस्य क्षेत्रबन्धव्यवस्थां निपुणं सनिरीक्षणमाणो बदरीलालस्य सकलमपि भूंमिखण्डं शर्करिले बालुकाप्रचुरे जलप्लावनातङ्किते च गोमतीतटे दृढं स्थापितवान्। सर्वं मनोऽनुकूलं सम्पाद्य च स्वहस्ताक्षराण्यपि सेवाकालदिवसे कस्मिंश्चित् दिनाङ्कनिर्देशपुरस्सरं नियोजितवान्।
प्राकाश्यमुपगतेऽस्मिन् रहस्ये बराको बदरीलालः स्वशीर्षं ताडितवान्। क्षेत्रबन्धाधिकारि-निलम्बनोपजातस्तस्य प्रमोदभरोऽकस्मादेव प्रच्छन्नोऽभूत्। षड्वेदित्व-लोलुपश्चतुर्वेदी द्विवेदी सञ्जातः। एवं हि उत्कोचपरायणेऽमुष्मिन् अपयाते निर्विघ्नं सम्पादयिष्यते मम कल्याणमिति बदरीलालचिन्तितं न पूर्णतामुपययौ। क्षेत्रबन्धाधिकार्यपि जन्मतिथिपरिवर्तनदुरभिसन्धिना संकटापन्नो जातः। हन्त भोः! काकोलूकाविव द्वावपि युद्धरतो विनष्टौ।
अतएव प्रयदारकाः! सस्नेहं वच्मि यदकारणं विद्वेषो न कार्यः। बलवद्विरोधिता दुरन्तैव भवति। पश्यत तावत् –
मृतावकारणं हन्त वैरान्नकुलसर्पयोः।
जाङ्गलिकनाकुलिकौ काकौलूकीयसंश्रितौ।।९।।
राजपुत्राः सोत्कण्ठमपृच्छन्-गुरुवर्य! कथमेतत्? विष्णुशर्मोवाच – दारकाः! एष कथयामि।
९. नाकुलिकाहितुण्डिककथा
नगरं निकषैव तडागस्य तटे विस्तृते भूक्षेत्रे यायावरजाङ्गलिकानां कश्चित्समवायः प्रतिवसति स्म। एतेषामन्यतमः कोप्याहितुण्डिक आसीत्, कश्चित्तावन्नाकुलिकः। कश्चिन्मार्कटिक आसीत्तर्हि कश्चिद् भल्लूकनर्तकः। कश्चिद्धानुष्क आसीदपरस्तावद्याष्टीकः। आदिवसं नगरे भ्रामं-भ्रामं एतं सर्वे स्वकौशलं प्रदर्शितवन्तः सन्ध्यावेलायाञ्च हट्टात् पण्यजातं क्रीत्वा स्ववितानानि प्रतिनिवर्तन्तेस्म।
एतेष्वेव द्वौ प्रतिवेशिनावास्तां गुल्लुरमल्लरौ। गुल्लुरः सर्पान् गृह्णातिस्म तान्नर्तयति स्म, तेषां विषदन्तांश्च दर्शकान् दर्शयतिस्म। स खलु हस्तमुष्टिकामुद्यम्य मधुकरवाद्यं वादयन् सर्पं सर्वतोदिशं विवर्तयति स्म।
मल्लरोऽपि नकुलस्यानेकानि कौशलानि प्रदर्शयतिस्म यथा तस्य सीत्कारिणीवादने नकुलस्य चिंचिंत्कारः, पश्चाद्वर्तिपादाभ्यां नकुलस्योत्थानम्, मुखं व्यादाय च दन्तपङ्किप्रदर्शनम्, स्वामिनश्च शिरः कण्डूयनम्!
गुल्लुरस्य सर्पस्तु पिटकोपहितोऽतिष्ठत्। परन्तु मल्लरस्य नकुलस्तु कटिनुबद्धरज्जुद्वारा शङ्कुबद्ध एवासीत्।
कस्याञ्चिद्रात्रौ नकुलस्य कटिरज्जुः यथाकथञ्चित् शिथिलीभूय शङ्कुमुक्ता जाता। शङ्कुमुक्तो नकुलः सर्पगन्धोनोन्मत्तीभूय पिटकसमीपमागतवान् पञ्चनखैश्च पिटकमुद्घाट्य सर्पं बहिरानीतवान्। सम्प्रति सर्पनकुलयोः युद्धं प्रारब्धम्। सर्पस्तावन्नकुलं भोगेनावेष्टितुमियेषे। परन्तु तावदेव नकुलस्सर्पफणं दन्तैश्चकर्त। सर्पो निष्प्राणस्सञ्जातः।
भिन्नेऽहन्येव गुल्लुरस्य गृहिणी सर्पं मतं दष्ट्वा तारस्वरेण रोदितुं क्रन्दितुं च प्रवृत्ता। गुल्लुरोऽपि क्रोधान्धस्सन् झम्पतेस्म मल्लरस्य नकुलं च लगुडेन हित्वा-हित्वा निस्संज्ञं चकार। सत्मेवोक्तं यत् –
क्रोधान्धो न नरः पश्येदतीतं प्रेम नो भयम्।
भावि, पश्येदसौ स्वीयं केवलं मनसो रयम्।।१०।।
सर्पनकुलयोः पञ्चत्वेन विवेकहीनौ गुल्लुरमल्लरौ क्षणेनैव स्वमैत्रीं विस्मृतवन्तौ। वास्तविकं वैरं त्वासीत्सर्पनकुलयोः। परन्त्विदानीं तयोः स्वामिनावेव सर्पनकुलौ सञ्जातौ। तौ मिथः सङ्घट्टितवन्तौ। लगुडाभ्यामाहत्याऽहत्य तावन्योऽन्यं क्षतविक्षतं कृतवन्तौ। अन्ततस्तौ मृत्युव्यथां नाटयन्तौ मृतौ।
अतएव प्रियकुमाराः! अहिनकुलोचितं कालोलूकोचितं वा नैसर्गिकमकारणं वा वैरं नैव पालनीयम्। वैरं तदेव वरं भवति यस्य समुचितं कारणं भवेत् समाधानमपि।
।।इति श्रीमदभिराजराजेन्द्रविरचितेऽभिनवपञ्चतन्त्रे।।
काकोलूकीयनाम तृतीयं तन्त्रमवसितम्
अभिनवपञ्चतन्त्रम्
।।लब्धप्रणाशः।।
अथान्येद्युरेव विष्णुशर्मोपाध्यायः सूर्योदयोद्भिन्नदलाम्बुजनिभान् राजपुत्रान् सप्रश्रयमुवाच-वत्सकाः! मन्ये सफलीभूतो मे प्रयत्नः। यूयमपि नित्योत्कण्ठाः ध्वस्ततन्द्राः प्रसन्नमुखाश्च लक्ष्यध्वे। अनेन एतदुक्तं भवति यदपनीयते युष्मद्बुद्धिकालुष्यम्। खलीक्रियते मस्तिष्कजाड्यम्। पुनरुज्जीव्यते च संस्कारानुप्राणितमनीषापाटवम्। ममापि च,
दर्शं दर्शं स्वसाफल्यं प्रह्वीभवति मानसम्।
कृष्णास्येव स्वक्षेत्रशस्यवृद्धिकृतात्मनः।।१।।
तदहं युष्मद्बुद्धिक्षुरप्रं निशिततरं विधातुं विशदीकरोमि चतुर्थं तन्त्रं लब्धप्रणाशाभिधानं यस्यायमादिमः श्लोकः –
बुद्धयैव जीयते सर्व सर्वं बुद्धयैव भुज्यते।
बुद्धनाशेऽखिलं नष्टं तस्माद् बुद्धिर्विशिष्यते।।२।।
अपि च –
अशनशयनपानं निश्चितं मानवानां
विविधजनपदेषूच्चावचत्वं प्रयाति।
निखिलजगति किन्तु प्रायशस्तुल्यरूपा।
जनविपदि सहाया दृश्यते बुद्धिरेषा।।३।।
दारकाः! श्रुता युष्माभिर्विगतेषु त्रिषु तन्त्रेषु भारतवर्षीयसमाजवृत्तपरिचायिकाः कथाः। इदानीं तावद् द्वीपान्तरकथाभिर्लब्धप्रणाशाख्यमिदं तन्त्रं विशदीकरिष्यामि। श्रूयतां तत् सावधानमनोभिः।
१०. तेङ्गनानायककथा
अस्ति भारतवसुन्धरातः सुदूरपूर्वस्यां दिशि अगाधे प्रशान्तमहासागर-सलिलराशौ निमग्नं विहारपरायणकच्छपपृष्टसन्निभं यव-(जावा) मदुरालोम्बोकद्वीपपरिगतं भारतीयसंस्कृतिधर्माचरणसंहिताविजय-बैजयन्तीभूतं लघुकलेवरं बृहत्सत्त्वञ्च वानरराजवालिनाम्ना प्रख्यातं वालीद्वीपम्।
प्राचीनकाले द्वीपे तस्मिन् स्वनाम्ना स्थापिते वेदुलुनाम्नि नगरे प्रशशास कश्चिन्नरपतिः बैदोलुसंज्ञः। शौर्यपराक्रमसम्पन्नं प्रजाजनयोगक्षेमचिन्तकं बेदौलुं पितृकल्पं जानपदाः पौराश्चातिशयं समाद्रियन्ते स्म। मनसा निर्मलो, हृदयेन करुणो, बाहुबलेन दुर्धर्षः, कोषेण कुबेरः, पादाभ्यां विजिगीषुः, वचनैश्चातिमधुरो बेदौलुः स्वसद्गुणैः प्रजाजनानां हृदयानि जिगाय।
अथ कदाचित् तस्य राज्ञोऽतिप्रियः समरसहायकः पवनातिजवोऽश्वः गेहात् क्वचिदुपद्रुतः। अश्वः स्वयं पलायितः केनापि चोरितो वेति राजा ज्ञातुं न शशाक। परन्तु प्राणातिप्रियं तमश्वं विना स महद्दैन्यमुपगतः। न जग्राह किञ्चिदशनपेयजातम्।
स्वामिनो विषादमवलोक्य अमात्याः सर्वासु दिक्षु सेवकान् प्रेषयामासुः हयसन्धानार्थम्। व्रातनसंज्ञाः केचन सेवका उदङ्मुखा अगच्छन्। परन्तु ते हयसन्धानमकृत्वा दण्डभयवशात् न वेदुलुनगरमुपागताः। तत्रैव सिंगराजाख्यनगरसमीपे व्रातनदेशाख्यं ग्रामं निवेश्य वसतिं चक्रुः।
अपरे च तेङ्गनानसंज्ञकाः सेवकाः प्राच्यां दिशिगता हयान्वेषणार्थम्। महता परिश्रमेण गवेषणं कुर्वाणास्ते मृतमश्वमपश्यन्। तेषां नायको बेदुलुनगरं समागत्य तद् दुःखदं वृत्तं स्वामिने निवेदयामास। स्वाभिमताश्वविनाशसमाचारव्यथार्तोऽपि गुणग्राही नरपतिस्तं नायकं हयगवेषणार्तं पुरस्कर्तुमियेष। स तं नायकं स्वमनोऽभिलषितं प्रकटयितुं दिदेश।
अथ तेंगनानजातिनायको मनसि चिन्तयामास-
भूपः समृद्धिसम्पन्नो यौवनाढ्या च कामिनी।
नित्यं यातो न सौम्यत्वं तस्माद् भोग्यं तदार्जवम्।।४।।
तत् किन्नु खलु प्रार्थनीयम्? तेंगनानजातीयाः अस्मत् कुटुम्बसदस्या अन्ये च स्वजना भूमिनिवासरहिताः क्षुत्कामकण्ठा उदरपूर्त्यर्थं जनपदाज्जनपदं नितरामाहिण्डन्ते। अतएव स्वजातिनिवासयोग्यं भूक्षेत्रं मया प्राप्तव्यं भूपालात्। एवं मनसि निश्चित्य, स नायको बेदौलुमाहस्वामिन्! पुरस्कारस्वरूपं कृषिनिवासयोग्यं भूमिखण्डं किञ्चिद्याचे भवत्साम्राज्ये। तेनेव सेवकं मां कृतार्थीकुर्वन्तु देवाः।
प्रसन्नो नरपतिः सामन्तं कञ्चित् निर्दिदेश यत् यस्मिन् स्थाने ममाश्वो निधनं गतस्तत आरभ्य मृतास्वदुर्गन्धपरिव्याप्तिं यावत् भूमि तस्मै नायकाय परिमाणं कृत्वा प्रयच्छेति। नायकमपि मृताश्वस्थानमुपगन्तुमादिश्य गतो नरपतिः।
अथ तेंगनान-नायकश्चिन्तयामास-हंहो, प्रभूतदिवसेभ्यः मृतोऽयमश्वः। प्रचण्डसूर्यतापदग्धशरीर इदानीम्। अस्थिपञ्जरदुर्गन्धोऽपि तस्य शरीरस्य न वातावरणे दूरव्यापी। एवं स्थिते तु अति संकुचितं लघु भूखण्डमेव प्राप्तुं शक्ष्यते। अतएव बुद्ध्या कौशलेन च स्वकार्यं संसाधनीयम्।
एवं निश्चित्य स्वजातिकुटुम्बोपकारनिरतोऽसौ नायको मृताश्वशरीरात् तीव्रदुर्गन्धयुक्तमेकं मांशखण्डं निकृत्त्य सामन्तागमनात्प्रागेव स्वकुक्षौ वस्त्रान्तरे स्थापितवान्। सामन्तोऽपि समागत्य अश्वशवात् यात्रा प्रारभ्य सर्वतः पर्यटितुमुपचक्रमे। परन्तु यत्र यत्रैव स गच्छतिस्म तत्र तत्रैवाश्वशरीरदुर्गन्धं तीव्रमसह्यञ्चानुभवति स्म।
एवं हि व्यतीतो दिवसः। बहुनि योजनानि गत्वाऽपि सामन्तो नाश्वदुर्गन्धमुक्त्तिमवाप। अतएव तत् समग्रमेव भूक्षेत्रं नायकाय समर्प्यराजधानीमुपावृत्तः। गते च तस्मिन् हर्षामोदविह्वलो नायकोऽपि स्वजनपरिमण्डलावृतः स्वकुक्षिगोपितं मृताश्वमांसपिण्डं दूरे क्षिप्तवान्। तेंगनानसंज्ञं ग्रामं च तत्र निवेश्य स सर्वेभ्यः स्वजनेभ्यो यथोचितं भूखण्डं कृषिनिमित्तं वितरितवान्। तद्बुद्धिकौशलविस्मिताः स्वजनास्तं नायकं स्वजात्याधिपतिं संस्थाप्यय ससुखं जीवनयापनं कृतवन्तः।
वत्सकाः! एवं हि स्वबुद्धिबलेन तेंगनाननायकः सामान्यसेवकभूतोऽपि स्वजात्याधिपतिर्जातः पश्चाच्च वेदौलुभूपेनापि स्वसामन्तो नियुक्तः। अतएवोच्यते मया यत् –
संकटे नो सखा बन्धुर्बुद्धिरेव सहायिनी।
बुद्ध्या पौत्रेण सन्त्रातो मृत्युगर्भात् पितामहः।।५।
राजपुत्रा ऊचुः – आचार्य! कथमेतत्?
विष्णुशर्मोवाच – पुत्रकाः! एष व्रवीमि कथामिमां सविस्तरम्।
वृद्धबलिनिवारणकथा
प्राचीनकाले बालीआगाख्यजातिषु वृद्धजनानां शिरश्श्छेदस्य तन्मांसभक्षणस्य च नियमः प्रचलित आसीत्। व्रातनतेंगनानजातीया आदिवासिनो विश्वसन्ति स्म यत्स्वकुटुम्बवृद्धमांसभक्षणेन संवर्धते पुत्रपौत्राणां जीवनीशक्तिः। निशिततरा भवति बुद्धिः। विनश्यति चाल्पायुष्यभयम्। वृद्धमांसभक्षणेन तस्य सर्वमपि बुद्धिमेधासंकल्पबलं मांसादीनां शरीरेषु स्थिरं जायते। वर्धते तन्त्रशक्तिः। भूतप्रेतपिशाचादिकाश्चाप्यपकर्तुं न प्रभवन्ति।
अतएव यथावसरं कुटुम्बोत्सवं समायोज्य कमपि वृद्धं कामपि वृद्धां वा पर्यायेण हत्वा प्रसादभूतं तच्छरीरमांसं ते भक्षयन्ति स्म।
अथ गच्छति काले कदाचित् निखिलेऽपि ग्रामे न कोऽपि वृद्धो वृद्धा वाऽवशिष्टा। गारमस्य सभागारं बाले अगुंगेत्याख्यं वर्षातपप्रहारवशात् धराशाय्यभूत्। नूतनसभागारनिर्माणमत्यावश्यकमभूत्। एतत्कृते पूर्वस्थैः वृद्धैः प्रागेव वृक्षाः छिन्नास्तत्स्कन्धाश्च लगुडीकृत्य संरक्षिता आसन्।
ततो बालेअगुंगभवननिर्माणकार्यं युवकैः महतोत्साहेन प्रारब्धम्। परन्तु मध्यएव समापतितः महान् व्याघातः। गृहनिर्माणे प्रत्येकं स्तम्भस्य मूलाभिमुखोंऽशो निखातव्यो भूमिगर्भे शिखराभिमुखोंऽशश्चोपरि स्थापयितव्य इत्यनिवार्यनियमो निखिलेऽपि बालीद्वीपे प्राचलत्। एवमनाचरिते सति तस्मिन् गृहे निवसतां जनानां नाशः सुनिश्चितः त्यपि धर्मशास्त्रक्षनिर्देश आसीत्।
वृद्धैः पुञ्जीकृतानां काष्ठदण्डानां को मूलभागः कश्चाग्रभाग इति ज्ञातुं न कोऽपि वृद्धेतरो जनश्शशाक। ततश्चैव सर्वे ते किंकर्तव्यविमूढा जाताः।
तेष्वन्यतमो नवयुवकः सहृदयशिरोमणिः वृद्धजनहत्याविरोधी तन्मांसभक्षणविरतश्चासीत्। ग्रामसङ्कटं दृष्ट्वा तेन प्रस्तावितम् – भो यदि भवन्तो भाविनि काले कस्यापि वृद्धजनस्य हत्यां मांसभक्षणञ्च अकर्तुं शपथं गृह्णन्तु, तदाऽहं झटित्य़ेव लगुडकाष्ठानां समेषां मूलभागान् वक्ष्यामि।
सर्वेऽपि ग्रामयुवका बहुशो मन्त्रणां कृत्वा मोक्षोपायमन्यमवाप्तुमक्षमा अन्ते शपथं चक्रुर्यदितः प्रभृति ग्रामेऽस्मिन् न भविष्यति वृद्धबलिः। बृद्धाः सहजं मृत्युं प्राप्स्यन्ति। न ते स्वकुटुम्बिभिर्हनिष्यन्ते।
तैरेवं स्वीकृते शपथे युवकोऽसौ तण्डुलपलालोच्चयगोपितं स्वजराजर्जरं पितामहं बहिरानीतवान्। प्रभूतवर्षेभ्यः बलिभयाद् ग्रामजनदृष्टितः संगोप्य स्वातिश्रद्धेयं परमबुद्धिमन्तं पितामहमिमं युवकोऽसौ निभृतनिभृतं तण्डुलपलालकक्षे दृढं रक्षितवान्।
पितामहः प्रत्येककाष्ठलगुडं सम्यक् प्रमाय, मध्यभागे च तं रज्ज्वा निबध्य वृक्षशाखायामालम्ब्य तोलितवान्। एवं कृते लगुडस्य मूलवर्तिभागो भारमात्राधिक्यवशात् विनतोऽभूत्। अनेनैव प्रकारेण सर्वेषामेव लगुडानां मूलभागनिर्णयो जातः। ततश्च सभाभवननिर्माणं सम्यग्रूपेण सम्पन्नं जातम्।
एवं हि दारकाः! स्वबुद्धिमहिम्नैव युवकोऽसौ न केवलमात्मपितामहस्यापितु सर्वेषामेव वृद्धानां प्राणान् संरक्षितवान्। अतएवोच्यते पुनः –
प्राणा प्रयान्ति चेद्यान्तु तत्र का परिदेवना?
प्राणेषु सत्सु मा यातु किन्तु बुद्धिरियं सताम्।।६।।
बुद्धयैव शक्यते कर्तुं कार्यं सर्वमसम्भवम्।
सामन्तेन मृतो राजा जीवितो बुद्धिकौशलैः।।७।।
राजपुत्राः पुनरूचुः – आचार्य! कथमेतत्? विष्णुशर्मोवाच-माणवकाः! एष विशदीकरोमि सूत्रम्।
१२. मृतभूपोज्जीवनकथा
पुरा बालीद्वीपे मयदानवःप्रशशास। गुनुङ्ग-अगुङ्गनाम्नि विसालपर्वतमूले रम्यप्रासादस्थोऽसौ स्वप्रजाजनान् देवपूजां न कर्तुं दिदेश। प्रकृत्यैव देवविरोधी स आसीत्। मयदुराचारसंक्रुद्धः सन् देवराज इन्द्रस्तं घोरसमरे वज्रेण जघान तस्यात्मानञ्च न रिकेलपुष्पे संरक्षितवान्।
अथ प्रभूतकाले व्यतीते सति इन्द्रादिदेवाः नारिकेलपुष्परक्षितमयात्मानं द्विधा विभज्य स्त्रीपुरुषात्मकं यमजं कृतवन्तः। वर्धितौ तौ यमजावेव दम्पतीभूय वालीद्वीपाधिपत्यमुपजग्मतुः। ततः प्रारभ्य वंशे तस्मिन् यमजजन्मपरम्परा तद्विवाहपरम्परा चापि प्रचलिताऽभूत्। भगिनीभ्रातरावेव तत्र दम्पती बभूवतुः।
परन्तु सप्तमो यमजः पुत्रः स्वभगिनीं कुरूपांकृष्णवर्णाञ्च परिणेतुं नैच्छत्। ततः परम्परेयं छिन्ना। सप्तमोऽयं बालीनरेशः धर्मपरायणः पराक्रमशौर्यसम्पन्नः दैवशक्तियुक्तश्चासीत्। तदाज्ञया तस्य सामन्तः शिरस्तस्य निशितखड्गधारया पृथक्कृत्य पुनःसंयोजयतिस्म। राजा च स्वदिव्यशक्तिप्रभावेण सद्य एव जीवितो भवति स्म। दैनन्दिनोऽयमभ्यासः प्रचलतिस्म नृपसामन्तयोः।
अथ कस्मिंश्चिद्दिने नरपतिः सामन्तेन सह मृगयार्थं वनं गतः तां क्रियां शिरश्छेदाभ्यासपरां च कारितवान्। दुर्भाग्यवशात् छिन्नं नरपतिशिरो वेल्लमानं पार्श्ववर्तिन्यां नद्यां निपत्य वेगवत्या जलधारया प्रवाहितम्। महता प्रयत्नेनापि सामन्तो राजमस्तकं न प्राप्त वान्। साध्वसभय-संत्रासविकलोऽसौ स्वामिभक्तः सामन्तः स्वबुद्धिमाश्रित्य समीपस्थस्य कस्यचिद् वराहस्व मस्तकं छित्वा राजकबन्धोपरि योजयामास। एवमनाचरिते सति नृपनिधनं सुनिश्चितमासीत्।
तत आरभ्य एव वालीनरेशो वराहमस्तको जातो बेदौलुसंज्ञः (परिवर्तितमस्तक इति बेदौलुशब्दस्यार्थः) आत्मवैरुप्यवशात् राजा समुत्तुंगपाषाणस्तम्भमेकं निर्माप्य तत्रैव गुप्तं निवसति स्म। न सः प्रजामध्ये लज्जावशादायाति स्म।
वराहमस्तकः सन्नपि नृपतिर्बेदौलुः स्वप्रजाः साधु संरक्षितवान्। मुखमाच्छाद्य सः स्वशत्रून् प्रचण्डसमरे जितवान्। यवद्वीपाधिपतिं राजसनगराधिपत्यं खलीकृत्य सः तत्सेनापतिं गजमदं रणभुवि संरुरोध प्रबलशौर्यञ्च प्रदर्शयन् वीरगतिमवाप।
दारकाः! अनेन प्रकारेण स्वबुद्धिमवलम्ब्यैव सामन्तः स्वाधिपतिं पुनरुज्जीवयितुं शशाक। यद्यसौ नद्यां प्रवहत् स्वामिनो वास्तविकं मानव-शीर्षमेव मार्गयमाणः अभविष्यत्तदा राजा परमार्थत एव प्राणहीनो-ऽभविष्यत्। यतो हि शिरः परिवर्तनक्रियायां मनागपि विलम्बोऽपेक्षितो नासीत्। अतः लब्धस्य रक्षणं बुद्धयैव कर्तुं शक्यते। बुद्ध्यभावे तु लब्धप्रणाशः सर्वथा निश्चितः।
इति बालीद्वीपस्थोदयनविश्वविद्यालयीयसंस्कृत-
प्रोफेसरपदभाजाऽभिराजराजेन्द्रमिश्रेण विरचितेऽ
भिनवपञ्चतन्त्रे लब्धप्रणाशाख्यं चतुर्थं तन्त्रम्।
अभिनवपञ्चतन्त्रम्
।।अपरीक्षितकारकम्।।
अथ राजप्रसादोपरि सुखोपविष्टान् मूढप्रबुद्धान् राजपुत्रान् आचार्यो विष्णुशर्मोवाच-राजपुत्राः! रक्षितं युष्माभिर्मम गौरवम्।युष्मत्पाण्डित्यमवेक्ष्य प्रीतस्ते पितृचरणः। मां प्रति अमतिशयकृतज्ञताभारञ्च समुद्वहति। मन्ये सततविद्याभ्यासेन प्राक्त्तनमहापुरुषजीवनचर्यानुशीलनेन च भूयोभूयो वृद्धिमुपयास्यति युष्माकं धिषणानटी। अतएव स्वाध्यायो न कथमपि हातव्यः। सुहृदः कथं प्राप्तव्याः, सौहार्दमन्येषां कथं खण्डयितव्यं, वैरभावः कथं निर्यातयितव्यो, बुद्धिश्च कथमाश्रयणीयते प्रोक्तम्मया विविधैर्दृष्टान्तैः। इदानीमन्तिमं तन्त्रं राजनयस्य अपरीक्षितकारकाभिधानं द्वीपान्तरकथाभिरेव प्रस्फुटीकरोमि यस्यायमादिमः श्लोकः –
अपरीक्ष्य कृतं कार्यं भवत्यात्मविनाशकम्।
वायबद्धं यथा वैरं महामत्स्यसुराकृतम्।।१।।
मुदिताः कुतुकान्विताश्च राजपुत्रा ऊचुः – उपाध्याय कथमेतत्? विष्णुशर्मोवाच-दारकाः श्रूयता यदि कुतूहलम्।
१३. सुरावायकथा
अस्ति भारतवसुन्धराङ्गभूतान्दमान-निकोबार-द्वीपप्रतिवेशिभूतं यवाकारसुभगं यवद्वीपम्। तस्य रमणीयद्वीपस्य ईशानकोणे राराज्येतेतरां सुरावायाख्यं नगरं यवद्वीपलक्ष्मीनिलयभूतम्। तन्नगराभिधानमेव प्राचीनामिमां कथां स्मारयति।
प्राचीनकाले सृष्ट्युषः काले नासीत् क्वचिदपि वैरभावः। स्थले जले व्योम्नि च सर्वेऽपि जीवा जडजङ्गमाः सामञ्जस्यनिबद्धा आसन्। किमधिकम् –
सुखदशिखिकलापं शिश्रिये तापविद्धः
विषधर इभपोतः सिंहशावानुवाह।
नभसि विततपक्षः श्येनसंस्पर्धयाऽसौ
सपदि वरकपोतः सार्धमेवोत्पपात।।२।।
परन्तु नेयं व्यवस्था चिरस्थायिनी जाता। विशालसागरसलिले आस्तां द्वौ विशालशरीरधरौ दुर्धर्षबलविक्रमशालिनौ जीवौ-महामत्स्यः सुरानामा, नृशंसनक्रश्च वायनामा। उभावेव परमविक्रमिणौ अमेयबलसम्पन्नौ परप्रभुत्वासहिष्णू। अतएव शक्तिसन्तुलनमनिवार्यमभूत् तयोर्मध्ये।
सुरावायौ दारुणयुद्धरतावभूताम्। सर्वेऽपि सागरजलचराः कमठमीनोरगशंखादिकास्तटस्थीभूय द्वन्द्वमिदं बहूनि वर्षाणि यावत् ददृशुः। अहमहमिकाविषसंमूर्च्छितौ द्वावपि जीवौ मत्स्यमकरौ शक्त्तिक्षयमन्थरौ वित्रस्तौ च सञ्जातौ। सुदृढमप्यायसं कृसानुज्वालासन्दग्धो द्रवत्येव। का कथा पुनः चैतन्यधर्मिणाम्?
अथ सुरावायौ स्त्रस्तौ सन्धिप्रस्तावमेकं स्वीचक्रतुः। सागरनदीसङ्गममुखं यावत् सागरजलं महामत्स्यस्य सुराख्यस्याधिकारे निपतितम्। स्थलं नदीजलञ्च वायाख्यस्य मकरस्याधिकारे स्थितम्।
एवं हि सुरावायौ स्थापिता-सौहार्दबन्धौ चिरं ससुखं स्वाधिकारक्षेत्रे न्यवसताम्। सर्वेऽपि जलचराः स्थलचराश्च प्रसादभावमुपगताः। कुतः,
विवर्धते सौख्यमुपाश्रितानां सुखेन निश्चप्रचमाश्रयाणाम्।
प्रवातझञ्झादिविपन्नवृक्षः कथं क्षमेतातपवारणाय।।३।।
अथ कदाचित् अक्षुण्णेर्ष्याद्वेषाङ्कुरस्य महामत्स्यस्य सुराख्यास्य हृदये दुर्भावोऽयं समजनि यत् मां प्रवञ्चितवानयं नक्राधमः। मां तु सागरजलमात्रे नियम्य स्वयं स्थलजलयोरुभयोरपि सौख्यमवाप्नोति। क्वचिन्नदीशिशिरजले विहरति क्वचिच्च मार्तण्डतापकवोष्णे पुलिनसैकते जाड्यापनोदनं करोति।
हन्त! मुषितोऽहमस्म्यनेन नक्रापसदेन। तन्मयाऽपि नाम नदीजले गत्वा तटवर्तिभूमिसौन्दर्यं द्रष्टव्यमेव।नदीजलमपि जलत्वान्ममाधिकारे तिष्ठत्येव। एवं मनसि निश्चित्य परिणाममनपेक्ष्य मौढ्यमवलम्ब्य च दुरभिमानी महामत्स्यः स्वैरं नदीमुखमतिक्रम्य पुरस्सृत्य च यथासुखं विहर्तुमारेभे।
सुरौद्धत्यं सन्धिप्रस्तावोल्लंघनञ्च दृष्ट्वा समिद्धक्रोधाग्निर्वायस्तं दण्डयितुं निश्चिकाय। अथ पुनरपि द्वावेव सपत्नौ युद्धरतौ सञ्जातौ। युद्धमिदं सन्धिं विनैव द्वयोः प्राणान् परिसमाप्य समाप्तिमुपगतम्। सुरावाययोः संग्रामस्थले एव वर्तते सुरावायाख्यं महानगरं यदधुनाऽपि यवद्वीपमलंकरोति।’
तद्वत्साः! ग्रन्थिं बध्नीत, परिणामं परीक्ष्यैव किमपि कार्यं धीमता करणीयं भवति। अत्रोच्यते,
न श्रेयसे भवत्येव अपरीक्षितकारकम्।
पुरोहितं तिरस्कृत्य यथाऽवाप नृपो भयम्।।४।।
राजदारका ऊचुः – आचार्य! कथमेतत्? विष्णुशर्मोवाच- पुत्रकाः! शृणुत विस्तरेण कथाभिमाम्।
१४. भेकभुजङ्गकथा
आसीद् सागरसलिलपरिवृते शंखाकारे बालीद्वीपे देव-अगुङ्ग इत्युपनामा कश्चिन्नरपतिः। स खलु द्वीपस्य दक्षिणपूर्वकोणस्थे क्लुङ्गकुङ्गनाम्नि नगरे राजधानीभूते महता राजसमृद्धिभरेण सुखमुवास।
परन्तु राजैश्वर्यमदमत्तो भूपतिरसौ स्वभावत एवात्मानं महिष्ठं गरिष्ठं श्रेष्ठञ्च मन्यमानः स्वसाम्राज्यप्राङ्गणे निवसतो विविधविद्याविलाससंवलितान् कर्मकाण्डनिपुणान् तंत्रमन्त्रतपश्शक्तिकेन्द्रभूतान् ब्राह्मणान् नातिमात्रं समाद्रियते स्म। स्वपुरोहिते चापि तस्य श्रद्धा नाऽसीत्। भूपतेः प्रकृतिं विज्ञाय तस्य कुलगुरुर्महातपस्वी भृशं खेदमवाप यतो हि तस्य पूर्वजाः सर्वेऽपि द्विजडभक्ता ईश्वरवादिनो दुरभिमानौद्धत्यादि- दोषरहिताः परमविनीताश्चासन्। एतत्सर्वं जानन्नपि मृदुप्रकृतिः पुरोहितो न राजानं कदाचिदपि किञ्चिदुक्तवान् न चास्मै अकुप्यत्।
अथ कदाचिद्राजसभायां पुरोहित-पाण्डित्य-तपश्चर्या –विषयिणीसमुदिता काचिच्चर्चा। प्रायेण सर्वेऽपि सभ्याः कुलगुरोः अगाधपाण्डित्यं तद्दिव्यशक्तिञ्च प्रशंसितवन्तः। परन्तु ईर्ष्याद्वेषपरायणोऽहम्मन्यो देवागुङ्गस्तत्सर्वं खलीकुर्वन्नुक्तवान् – भो अद्यैव कुलगुरुदिव्यशक्त्तिपरीक्षणं करिष्ये।
एवमुक्त्वा विशालमृद्भाण्डे कस्मिंश्चिद्भेकमेकं संस्थाप्य घटमुखञ्च कृष्णवस्त्रेण, समाच्छाद्य स्वसिंहासनसमीपं स्थापितवान्।
ततो नु मध्याह्नकाले व्यवलहारिचारणार्थं पुरोहितो धर्मसभायामागच्छत्। तस्मिन्नागते एव सकुटिलस्मितं राजोवाच – भो द्विजवर्य! आस्तां तावद् व्यवहारकार्यम्। सर्वेऽपि सभास्तारोऽत्रभवन्तं सर्वज्ञं मन्यमाना एतद्घटस्थं जीवं जिज्ञासन्ते। कृपया स्वानुभवेन स्वैरं ब्रवीतु भवान्।
अकस्मादेव विलोक्येदमकाण्डप्रथनं ततश्चर्यापहृतबुद्धिकालुष्यः पुरोहितः सर्व रहस्यं स्वयोगबलेन करतलामलकवद् विज्ञाय राज्ञो दुरभिमानं भङ्क्तुं तं यथोचितं दण्डयितुचाञ्पि निभृतं सङ्कल्पितवान्।
अथ पुरोहितः सस्मितमुवाच- राजन्! भाण्डेऽस्मिन् करालविषधरस्तक्षकजातीयो नागस्त्वया निरुद्धो वर्तते।
पुरोहितवचनं श्रुत्वैव द्विजमत्सरी देवाऽगुङ्गः साट्टहासं सभासदः प्रत्युवाच- भो दृष्टं युष्माभिः पुरोहितपाण्डित्यं तद्दिव्यशक्तिवैभवञ्च? सामान्यभेकशिशुमयं देवानाम्प्रियः करालविषधरं तक्षकजातीयमुपशंकते। इतः परं युष्माभिर्न पुरोहिततेजः तत्सर्वज्ञत्वञ्च समर्थनीये।
स्वकुलगुरुं विद्या-विनय-शास्त्रज्ञानभगवद्भक्ति-मण्डितमेवमुपहस्य – भो द्विजवर्य! पश्यतु भवान् स्वकीयं तक्षकमित्युक्त्वा यावदेव राजा भाण्डकर्पटं शिथिलीकृत्य दूरे निक्षिपति तावदेव कृष्णवर्णः करालभुजङ्गस्तक्षकजातीयः क्रोधोच्छ्वासफूत्कारभैरवः कश्चिद् वातवेगेन समुत्पत्य भूपतिकण्ठमावेष्ट्य तस्थौ।
निखिलाऽपि सभा तद्विलक्षणं विस्मयकरं च वृत्तं प्रत्यक्षमवलोक्य कुलगुरुतेजः प्रकर्षं वन्दमाना भूपतिसंकटं दृष्ट्वा तद्रक्षणार्थं हाहाकृतमिश्रितमार्तनादं कृतवती। प्रत्यक्षीकुलगुरुकृतमंत्रशक्तिः देवागुङ्गोऽपि कुलगुरुचरणेषु निपत्य प्राणरक्षणं ययाचे।
अथ राजसाध्वसं विलोक्य सञ्जातकृपः पुरोहितस्तं कृष्णसर्पं स्वहस्तेनैव राजकण्ठाद् विमोच्य पुनस्तस्मिन्नेव भाण्डे क्षिप्तवानवदच्च देवागुङ्गम् – राजन्! पश्यतु भवान् स्वकीयं भेकम्! भयविह्वलो वेपथुक्लिन्नकायो राजा ददर्श यदद्धा भाण्डे भेक एव प्रकृतस्तिष्ठति।
ततः प्रभृति पुरोहितदिव्यशक्तौ राज्ञो विश्वासः दार्ढ्यमुपगतः। स द्विजचरणपरिचर्यावसक्तोऽभवत्। तैर्द्विजैर्मन्त्र-तंत्र-तपश्शक्तिसम्पन्नैनिंतरां सभाजितस्सन् निःसपत्नश्चिरकालं यावत् बालीद्वीपं प्रशशास। अतएवोच्यते –
अरण्यदावाग्निरुदन्वदम्भः प्रविज्ञविद्वज्जनमंत्रशक्तिः।
एतत् त्रयं बुद्धिमता जनेन स्वप्नेऽपि नैवात्मवताऽवमन्यम्।।५।।
अपि च –
अपरीक्ष्य फलं यो वै कुरुते कार्यमुन्मदः।
प्राप्य राज्यपदञ्चापि नाशमेति यथोरुकः।।६।।
राजपुत्राः ऊचुः – उपाध्याय! कथमेतत्? कोऽयमासीत् उरुको नाम? विष्णुशर्मोवाच – एष ब्रवीमि।
१५. पितृवधिकवधकथा
पुरा खलु यवद्वीपस्थे तुम्पेलनाम्नि ग्रामे समुत्पन्नः कश्चित्कृषकपुत्रः गृहात्पलाय्य बण्डभण्डद्यूतकरयूथे विवेश। शनैः शनैः द्यूतक्रीडा- निपुणस्सन् अन्यान् द्यूतकरान् जित्वा प्रभूतधनार्जनं कृत्वा स्वैराचारावसक्त्तः सन् सौभाग्यवशात् कस्मिंश्चिद्दिने सः केनापि महापण्डितेन राजमन्दिरपूजितेन लाघवाख्येन सम्प्राप्तः।
तस्य कृषकपुत्रस्य शरीरशक्तिं बुद्धिकौशलञ्च दृष्ट्वा तदुद्धारकामनया निस्सन्तानोऽसौ राजपुरोहितस्तं स्वपुत्रं स्वीकृत्य, विद्याविनयशिक्षया च संस्कृत्य राजभवने नीत्वा राज्ञस्तुङ्गलामिताङ्गस्य समक्षं प्रस्तुतवान्। राजाऽपि पुरोहितपुत्रं तम् उरुकसंज्ञं बहुभिरुपायनैः वस्त्राभूषणैः सम्मानितवान्।
एवं हि राजमन्दिरे स्वैरं प्रविष्टः पुरोहितपुत्रः उरुकः कदाचित् अमिताङ्गवल्लभां दिदिशाम् अनिन्द्यसौन्दर्यवतीं ददर्श। वयस्साम्यवशादुभावपि प्रथमदर्शनसञ्जातप्रणयसूत्रौ परस्परमनुरक्तौ बभूवतुः। ब्राह्मण- पुत्री दिदिशा मिताङ्गेन सामान्यकुलोत्पन्नेन सबलात्कारं परिणीता न तस्मिन् अतिमात्रं स्निह्यतीति श्रुत्वा सुहृन्मुखेभ्योऽसौ युवोरुकस्तं राजानं हन्तुं दिदिशां परिणेतुञ्च इयेष।
अथ धृतसंकल्पः स मंत्रशक्तिसमन्वितममोघं शूलमेकं निर्मातुं लौहकारं गन्दरिङ्गं समादिदेश। षड्भिः मासैः करिष्य इत्यवोचत् लैहकारः। परन्तु अमिताङ्गवधकातरः उरुको मध्ये-मध्ये गत्वा तं लौहकारं महद्धिः प्रलोभनैः त्वरयतिस्म। तथापि गन्दरिङ्गस्त्वरां कर्तुं न शशाक।
ततः षड्भिर्मासैः शूलं निर्मितम्। परन्तु क्रोधवशीभूतः उरुकः कृतघ्नतां दर्शयन् शूलं सम्प्राप्य क्वचिदयं रहस्यं न प्रकाशयेदिति धिया तत्क्षणमेव तं तपस्विनं लौहकारं तेनैव घातितवान्। मृत्युव्यथां सहन् लौहकारस्तं शशाप-कृतघ्न! अनेनैव शूलेनाहमिव त्वमपि हनिष्यसे स्ववंशजेन इति शप्त्वाऽसौ ममार।
अथावसरं निभाल्य विश्वासपात्रतामुपगतः उरुको भूपतिं भोजनकार्यावसक्तं पृष्ठतः सञ्जघान। मृते खलु राजानि स्वबाहुबलेन पुरस्कारादिभिश्च सर्वान् सैनिकान् वशीकृत्य राजपत्नीं गर्भिणीं दिदिशां च परिणीय राजपदमुपगतः। एवं हि सम्प्राप्तस्तेन सर्वमनोरथः। तथापि तस्याधमस्य लोभादिका भावा न शान्ताः।
ततः राज्ञी दिदिशा यथावसरम् अमिताङ्गपुत्रं जनयामास। अनुष्पतिनामासौ दारक उरुकमेव स्वजनकं मेने। पश्चाच्च सा चतुरः उरुकपुत्रान् जनयामास। इत्थं महता समृद्धिभारेण संवलितः उरुकः किञ्चित्कालं यावत् निर्विघ्नं सुखमुवास।
परन्तु सर्वसौख्यसम्पन्नोऽपि उरुको शनैः दिदिशामवमन्तुं प्रारभत। उमङ्गानाम्नीं काञ्चिन्नवीनां कन्यां परिणीतवान्, या खलु तोषजयाख्यं पुत्रमसूत्। सपत्नीर्ष्याविकला पतिसमुपेक्षाव्यथिता पूर्वपतिविनाशदुःखिता दिदिशा ततः कस्मिंश्चिद् दिने पुत्रम् अनुष्पतिं सविस्तरं सर्वमाख्यातवती प्राचीनमितिवृत्तम्।
तच्छ्रुत्वैव युवकोऽनुष्पतिस्तेनैव शूलेन स्वपितृघातिनं व्यंसकपितरम् रुकं घातितवान्। परस्परं संघर्षरता सर्वेऽपि च ते लौहकारशापवशान्नष्टाः। एवं हि अमिताङ्गवधमिच्छता उरुकेण न परिणामः समीक्षितः। मङ्गां परिणयता चापि तेन स्वकृत्यफलं न सम्यक् परीक्षितम्। ततो हि नाशमवाप।
अतएव दारकाः! फलानुमितिपूर्वकमेव किञ्चित्कार्यं युष्माभिरपि स्वजीवने करणीयम्। एवं कुर्वतां युष्माकं नितरां मानयशोवृद्धिर्भविष्यति। युष्माकं सर्वतोमुखं भव्यं कामयते तवोपाध्यायो विष्णुशर्मा। स्वस्ति भवद्भ्यः। श्रीरस्तु। मङ्गलमस्तु भवताम्।
।।इतिबालीद्वीपस्थोदयनविश्वविद्यालीयसंस्कृतप्रोफेसरपदभाजाभिराज।।
राजेन्द्रमिश्रेण विरचितेऽभिनवपञ्चतन्त्रेऽ
परीक्षितकारकाख्यमिदं पञ्चमं तन्त्रम्।