अभिराजसप्तशती
मूलं श्रीकविकालिदासकविता श्रीहर्षवाणी तनुः
पत्रं श्रीजयदेवदेववचनं श्रीविल्हणोक्तं सुमम्।
श्रीमत्पण्डितराजकाव्यगरिमा यस्य प्रपूतं फलं
जीव्याद्धन्त निसर्गजोऽयमभिराड् राजेन्द्रकाव्यद्रुमः।।
अभिराजराजेन्द्रविरचितम्
नव्यभारतशतकम्
देवैरपि कृतो यत्र प्रयत्नो जन्महेतवे।
जयताद् भारती भूमिः भुक्तिमुक्तिविधायिनी।।१
यस्य रक्षा कृता भूपैः सूर्यचन्द्रकुलोद्भवैः।
जयताद् भारतं देशो वृन्दारकसुरक्षितः।।२
शिशुनागकुलोत्पन्नाः मौर्यशुङ्गशकान्वयाः।
सातवाहनकाण्वाश्च गुप्तमौखरिवंशजाः।।३
तदनन्तरं तुरुष्काःकुतुबुद्दीनवंशजाः।
राजानोहिगुलामाख्याः खिलजीतुग्लकाभिधाः।।४
लोदिनो मुगलाः सूरा अफगानाश्च बर्बराः।
आंग्लाश्च फ्रांसदेशीयाः पोर्तुगीजाश्च धीयुताः।।५
क्रमेण भारतं राष्ट्रं गङ्गायमुनयोर्गृहम्।
तुहिनाद्रिमहोष्णीषं सिन्धुपूतपदाव्यजकम्।।६
भूरिसैन्यबलैर्दासीकृत्य विश्वगुरुं चिरम्।
अपजह्नुर्न किं हन्त! कलासंस्कृतिवैभवम्।।७
राष्ट्रं यदभवत्क्वापि कार्तस्वरविहङ्गमः।
लुण्ठितं मुषितं छिन्न तद्गतं ननु दीनताम्।।८
कर्मचन्द्रकृतैर्यत्नैर्गान्धिदेवतहायिभिः?
दिष्ट्यान्ते च स्वतन्त्रोऽभूद् देशोऽयंभारताभिधः।।९
अद्य स्मरामि यद्वृत्तं भारताङ्गणकोणके।
दूयते हृदयं दीनं सजलं भाति नेत्रकम्।।१०
भारतमातरं दृष्ट्वा नित्यं परवशां निजाम्।
वेदनां कियतीं जग्मुः पुत्राः भारतवशजाः।।११
तनुं मङ्गलपाण्डेयस्तत्याज सहजं न किम्।
झाँसीश्वरी महाराज्ञी विलयं गतवती न किम्।।१२
भक्तसिंहो जगत्सिंहस्चन्द्रशेखर ऊधमः।
राजगुरुः सुखदेवोऽशफाकुल्ला च बिस्मिलः।।१३
रोशनसिंहराजेन्द्रौ खुदीरामयतीन्द्रकौ।
सर्वेऽपि शलभीभूय मृत्योर्मुखमुपागताः।।१४
किमवाप्तं सुखं भूमौ दारपुत्रविभूतिजम्।
तैस्तैरमृतपुत्रैर्ये प्रथमे वयसि निर्गताः।।1१५
किन्तु येषां कृते प्राणास्त्यक्तास्तैस्तु हुतात्मभिः।
त एव निष्ठुरीभूय जानन्ति न कृतं क्वचित्।।१६
तदेवभारतं राष्ट्रं प्राप्तभूरिसमस्यकंम्।
पीड्यते नितरां हन्त¡ लोकतन्त्रसमाश्रितम्।।१७
आसन्दिकैकरक्षार्थं राजनीतिविशारदाः।
मौढ्यशाठ्यग्रहग्रस्ताः विक्रीणन्ति धरामिमाम्।।१८
आचारसंहिता लुप्ता छिन्नो धर्ममहीरूहः।
सामाजिकसदाचारो वन्धुबान्धवसौहृदम्।।१९
अधरोत्तरविवेकः कार्याकार्यंविनिर्णयः।
कुलग्रामभयं नष्टं स्वैराचारोऽभिवर्तते।।२०
श्वेतवस्त्रधरा एते सांसदाश्च विधायकाः।
भ्रष्ट्राचारकलङ्काङ्काः देशद्रोहविंपोषकाः।।२१
योधयन्ति जनान् नित्यं मदमात्सर्यसाधनैः।
मतपत्रमुरीकर्तुं सर्वमेव विधीयते।।२२
साम्यवादी न कोऽप्यद्य न स्वतन्त्रो न सोशलः।
कांग्रेसीयोऽथवाऽन्योवा जन्तादलसमर्थकः।।२३
यत्रैव सिद्धयति स्वार्थस्तत्र तत्रैव गच्छति।
नेताद्य मर्कटीभूय प्रतिद्वारं हि नृत्यति।।२४
हिन्दूकुलसमुत्पन्नो मुस्लिमानुपसेवते।
केवलं मतपत्राय केवलं हितकारणात्।।२५
दल्-परिवर्तनादेते नेतारो दर्दुरोपमाः।
तुलया न समीकर्तु शक्या कथं कथमपि।।२६
यो हि शासनसूत्राणि समवाप्नोति हस्तयोः।
विस्मृत्य राष्ट्रकल्याणं जायते ननु पामरः।।२७
शत्रून्मूलनायैव शक्तिमान स हि जायते।
आयोगवियोगैश्च सञ्चालयति पौरुषम्।।२८
एषामेव कृतघ्नानां स्वार्थलम्पटदुष्कृतैः।
क्षीयते भारतं राष्ट्रं गौरवेण विमुच्यते।।२९
अद्य नाद्रियते ज्ञानी, कलावान् न च पण्डितः।
कलहंसा न पूज्यन्ते, बकपूजैव वर्तते।।३०
प्रसिद्धेः परमां कोटिं मुम्बईपुरवासिनः।
लम्पटाः खण्डवृत्ताश्च साम्प्रतं यान्ति नर्तकाः।।३१
मिथ्याभिनयकर्माणो मिथ्याप्रणयदर्शिनः।
वर्तमानसमाजस्याभिनेतारो विधायकाः।।३२
उत्थापनेऽभियाने वा भ्रमणे लपने गतौ।
विव्बोकसुविलासादिप्रस्तुतौ ते निदर्शनम्।।३३
कथं युध्यति धर्मेन्द्रः कथं हसति मालिनी।
दिलीपस्तु कथं वक्ति कथं नृत्यति हेलना।।३४
इत्येवमादि मन्वाना युवानो ग्राम्यनागराः।
छविल्लाः प्रतिभाहीना जन्मना जन्तुसन्निभाः।।३५
दृश्यन्ते निखिले देशेऽकालवृद्धास्तपस्विनः।
क्लीबाकारलसच्चेष्टा लज्जयन्तोऽपि पूर्वजान्।।३६
प्रह्लादध्रुवगोविन्दाः नचिकेताश्च मानदः।
यत्रासन् बालका एंते, तत्रास्तिक्लीबसन्ततिः।।३७
न पौरुषं न चायुष्यं नो धैर्य न च पाटवम्।
न मनीषा न माधुर्यं व्यक्तित्वं न च वैभवम्।।३८
तृणकल्पा इमे बाला मिथ्यैव जन्मधारिणः।
बण्डभण्डकलादक्षा राष्ट्रकीर्तिविनाशकाः।।३९
उपकारं करिष्यन्ति किमहो बत कैर्गुणैः।
स्मारं स्मारमिदं तथ्यं दूयते मानसं सदा।।४०
साम्प्रतं सम्प्रवक्ष्यामि द्वितीयां कोटिमाश्रितान्।
नेतॄन् पूर्वोक्तसौजन्यान् भारतं यैः कलङ्कितम्।।४१
अलं तत्कीर्तनैरत्र दोषपापविवर्धनैः।
अन्यथा लेखनी पूता तत्क्षणं मलिनायते।।४२
अभिनेतृंश्च नेतृंश्च वराकाः काव्यकोविदाः।
अनुगच्छन्ति मर्मज्ञा बुद्धिज्ञानसमन्विताः।।४३
तृतीयां कोटिमापन्नाः प्रसिद्धेर्वाचि सम्मताः।
साहित्यसिन्धुपाठीना वर्तन्त इति निश्चितम्।।४४
द्रोणाचार्य कुलोत्पन्ना भारद्वाजविपोषिताः।
अर्थकृछरसमापन्नाः पीड्यन्तेऽद्य विपत्तिभिः।।४५
उत्कोचजीविनां दृष्टौ कुसीदाजीविनाच ये।
तेभ्योऽपि पापाकर्मभ्यो हीनास्सन्ति तपोधनाः।।४६
क्वचिन्नाद्रियते विद्वान् गीयते न प्रशस्यते।
क्वचिन्नोत्थाप्यते विद्वान पूज्यते न समर्च्यते।।४७
सभायां पथि मेलायां विद्याबेश्मनि सद्मनि।
सभाज्यते हि साटोपं केवलं काञ्चनाश्रयः।।४८
विपणौ पण्यकल्पाश्च क्रेतुं हि तृणसन्निभाः।
शक्यन्ते श्रितसौभाग्यैः श्रेष्ठिभिर्नुविपश्चितः।।४९
यस्मिन् भारते वर्षे निखिलं मौर्यशासनम्।
चाणक्यावदनापेक्षि योगक्षेमाय सम्मतम्।।५०
यौगन्धरायणो यत्र वत्सराजसमर्चितः।
शासनस्थितिधौरेयः कर्णधारो व्यजायत।।५१
शिववीरस्छत्रपतिः समर्थशरणं ययौ।
रामदासं गुरुश्रेष्ठं त्रिकालदर्शिनं परम्।।५२
एवमेव यथाकालं यथाभावं यथोचितम्।
सरस्वतिदत्तवरा सिद्धाश्च विद्वत्तल्लजाः।।५३
स्वयुगीने समाजेऽपि नायकत्वमुपागताः।
तपोभी रक्षयामासुः स्वजनान् काव्यकोविदान्।।५४
जीविष्यन्ति न वाऽऽकल्पं यान्त्रिका नयकोविदाः।
मुधामानन्या लक्षधना बहुभूमिकवेश्मकाः।।५५
न राष्ट्रं ध्रियते सैन्यैः न चापि नेतृमण्डलैः।
विद्यया ध्रियते राष्ट्रं ध्रियते ज्ञानराशिभिः।।५६
मौर्या गता गता गुप्ता हर्षभोजयुगं गतम्।
भगवद्गीतयाऽद्यापि राष्ट्रं किन्तु विभाव्यते।।५७
विद्यालवश्च विद्या च भारते शोच्यताङ्गताः।
प्रसिद्धेरधमां कोटिं पण्डिताः समुपागताः।।५८
अनागतं स्वराष्ट्रस्य कीदृशन्नु भविष्यति।
विदुषां विपुलैश्वर्ये संकटापतिते सति।।५९
भेकपुञ्जे दधद्रावे कोकिलाः मूकवृत्तयः।
कुर्वन्तु किमहो दीनाः प्रश्नोऽयमतिदुष्करः।।६०
अथाधुना स्वदेशस्य वृत्तिरन्या विलिख्यते।
स्थालीपुलाकन्यायेन सौहार्दाय मनस्विनाम्।।६१
सर्वेधिकारसम्पन्नाः स्वाम्यमिच्छन्ति सर्वतः।
कर्तव्यसरणिं हित्वा संविधानबलोन्मदाः।।६२
चातुर्वर्ण्यगुणौधानां समवाप्तो न यैर्लवः।
तेऽपि निन्दन्ति साटोपं याज्ञवल्क्यं मनुं सदा।।६३
पूर्वजैर्लिखितं यद्यत् विप्रतीपं प्रतीयते।
निर्विवेकं तदेवाद्य स्वार्थान्धैः परिहीयते।।६४
नास्थाभावः पुराणेषु नासक्तिश्च सदुक्तिषु।
वेदमन्त्रेषु नो श्रद्धा नात्मीयत्वञ्च सूरिषु।।६५
स्वार्थसिद्धिर्यया भूयात् सैव वाणी महात्मनाम्।
समर्थनं स्वपापानां येन पन्थास्तु सोऽनघः।।६६
कोऽपि निन्दति वाल्मीकिं रामचारिञ्यगायकम्।
दलितान्वयसञ्जातं मत्वा कोऽपि प्रशंसति।।६७
तुलसीदाससत्काव्यं रूसदेशेऽप्यनूद्यते।
स्वदेश एव गालीभिः भर्त्स्यतेऽनारतं खलैः।।६८
न प्रतिष्ठाऽद्य सत्यस्य कर्मणो न शुभा गतिः।
लेपनं नवनीतस्य सर्वसिद्धिप्रदायकम्।। ६९
परिश्रमी क्षुधा क्षीणः सोत्कोचो विभवाश्रयः।
सत्यवादी पथि भ्रान्तो धूर्तो हन्त सदागतिः।।७०
आध्यात्मिकी न सन्दृष्टिः न श्रेयसि विभावना।
इन्द्रियब्रातसम्मोदैर्भग्ना मानवशूकराः।।७१
यावदेवाधिकं पापं समाचरति यो जनः।
तावदेवाधिकं स्नान सुरधुन्यां करोति सः।।७२
नित्यदानी नृशसोऽद्य स्मितप्राणो हि वञ्चकः।
मायावी मृदुभाषी स्यात्कुटिलो विनयपारगः।।७३
यच्चेतसि न तद्वाण्यां यद्वाण्यां तन्न कर्मणि।
यत्कर्मणि न तद्वाणीमनसोर्विद्यते ध्रुवम्।।७४
धौर्त्यवञ्चनकार्पण्यशाठ्यलोभसमन्वितम्।
जीवनं जीवितप्रायाः यापयन्ति कलौ नराः।।७५
नैव धर्मोऽस्ति निष्कामः कामो न धर्मसम्मतः।
धर्मार्जितो न चाप्यर्थः संन्यासस्तु नभस्सुमम्।।७६
यत्किचित्क्रियते लोकैः स्वार्थसाधनवाञ्छया।
न तत्र धार्मिकी दृष्टिः लोकतोषपुरस्सरम्।।७७
अक्षुण्णं स्यान्ममास्तित्वं सिद्धव्यतिकरं शुभम्।
इत्येवमादि मन्वानैः धूर्तैरनिशमट्यते।।७८
यद्भाव्यं तद्भवेदत्र परलोकं कः पश्यति?
स्वर्गोऽपि मे स्यादत्रैव, मृते तु नरको वरम्।।७९
जीवनं भौतिकं जातं नव्यभारतमन्दिरे।
कादाचित्कमहो सत्यं सर्वतोभावि चानृतम्।।८०
द्वित्रैस्तु पञ्चषैर्वाऽपि पाटच्चरविनायकैः।
असाम्प्रतमहो कार्यं यन्निजं ह्यभिनन्द्यते।।८१
तदेवालं हि तोषाय तेन तुष्यति मानवः।
कश्चिन्तयति सायासं कार्याणां करणीयताम्।।८२
यस्य वित्तं प्रभूतं सः लोभाविष्टमना इव।
यस्तु निर्लोभ आस्थालुर्वैधेयोऽसौ विभाव्यते।।८३
नो सत्येऽभिरूचिर्नृणां प्रेम्णि निष्ठा न वर्तते।
आर्जवे न मनोवृत्तिर्दाक्षिण्ये प्रत्ययोऽपि न।।८४
सौहार्दे न सदाचारो गौरवे न विनीतता।
शौचे धीर्न परित्याजे व्यवहारे कदर्थना।।८५
स्वाध्याये न श्रमस्तेषां न यत्नो लोकमङ्गले।
परोपकारे न प्रीतिः साहाययं न च संकटे।।८६
जगद्विभक्तं राष्ट्रेषु राष्ट्रं प्रान्तेषु खण्डितम्।
प्रान्तो जनपदेष्वर्धस्तदपि ग्रामविस्तृतम्।।८७
वर्गभिन्ना इमे ग्रामा मुण्डभिन्नाश्च मानवाः।
सर्वत्रैव विभागोऽस्ति क्वाऽपि नैवास्ति संहतिः।।८८
ब्राह्मणः क्षत्रियं द्वेष्टि क्षत्रियश्चापि वैश्यकम्।
द्वेष्टि वैश्योऽपि शूद्राख्यं शूद्रो द्वेष्टि निजावरान्।।८९
चतुर्वर्णव्यवस्थायाः सर्वोदयविधायकम्।
सौख्यलाभकर लक्ष्यं केषामपि न सम्मतम्।।९०
जातिद्रोंहानलज्वालापरीता राष्ट्रसन्ततिः।
साम्प्रतं निहिता जाता स्वकीयेरेव कल्मषैः।।९१
एवंविधमुधाचारताण्डवैः प्रलयायिते।
मिश्रोऽभिराजराजेन्द्रः सञ्जातोऽस्तीह भारते।।९२
स्यन्दिकातीरगे ग्रामे गोमतीजाह्नवीवृते।
विष्णूपसेविनां वंशे गोतमाख्ये च गोत्रके।।९३
शैशवे हृत्वात्सल्यः पितृसौख्यप्रवञ्चित-।
अभिराज्या जनन्यैव प्रयत्नैः स्वैर्विपोषितः।।९४
विश्वविद्यालये ख्याते प्रयागस्थे च शिक्षयन्।
समर्चयन्नमस्याभिर्देमवीं वरटवाहिनीम्।।९५
दुर्गाप्रसादमिश्राणामात्मजो ननु मध्यमः।
मध्यमः सर्वविद्यानां गुरूणां चरणाश्रितः।।९६
सेवानिवृत्तिं सन्दृश्य वाञ्छाकल्पमहीरुहाम्।
त्रयाणां विदुषां दीनं मोहभावमुपागतः।।९७
उपाध्यायवियोगोत्थां पीडामेव विनोदयन्।
नव्यभारतपीडाया विस्तरं विदधाम्यहम्।।९८
प्रथमामि स्फुटस्वान्त गुरुं वात्सल्यमेदुरम्।
प्रथमं श्रीलक्ष्मीकान्तं दीक्षितं प्रियगौरवम्।।९९
वन्दे च तदनु प्रीत्या शुक्लविद्यान्वयोभयम्।
श्रीचण्डिकाप्रसादाख्यं गुरुं स्नेहहिमाचलम्।।१००
आद्याप्रसादमिश्राख्यं पूज्यं जनकसोदरम्।
गुरुवर्यं वृणे चान्ते य़ोगक्षेमसुचिन्तकम्।।१०१
शर्वरीशवसुग्रहसूर्यसम्मितवत्सरे।
चैत्रकृष्णद्वितीयस्यां सोमे काव्यमिदं कृतम्।।१०२
मातृशतकम्
यत्स्तन्यपोषणभरैरमृतायमानै-
राद्यन्तमध्यरहितोऽपि जगन्निवासः।
वत्सीभवस्तनुविकासततिं प्रपेदे
ताम्मातरं प्रसविनीं जगतां नतोऽस्मि!!१
वन्दे विशालहृदयं सदयं जनन्या
यस्मिन् समुच्छलति गूढकृपोर्मिसिन्धुः।
पारुष्यमीनछलनक्रनिकायहीनं
पीनं त्रिलोकशरणं प्रलये समेषाम्।।२
पूताऽभिराजजननी यदि नाभविष्य़त्
जायते हन्त भुवि जातु कुतोऽभिराजः?
तस्मात्ततोऽपि महतीं महसां सवित्री-
मम्बां स्वजीवितगतिं नितरां प्रपद्ये।।३
षड्विंशहायनमिते पितरि प्रयाते
सन्त्यज्य दीनशिशुकं व्यपनींतसौख्यम्।
वैधव्यदारुणनिशातमसां चयेऽपि
प्रायोऽददर्शत सृतिं मम साऽस्ति वन्द्या।।४
या मेऽनुजस्य विकलाङ्गसुरेन्द्रनाम्नः
प्राणम्भराऽग्रजवरस्य गतिर्ममाऽपि।
जीव्याच्चिरं त्रितन्याऽभिधयाऽभिराजी
पूता प्रसूस्त्रिपथगेव तपस्विनी मे।।५
नहिविरञ्चिपदं न शिवास्पदं न च मुकुन्दपदं तपसा वृणे।
ननु वृणे पदमास्पदमञ्जसा यदि तु मातुरदोऽद्रिभुवोऽथवा।।६
जगति भूतिततिं नहि कामये दिवि न मुक्तिसुखं क्रियतेऽर्थना।
अयि विधे बबनैव जनिप्रदा भवतु मेखलु जन्मनि जन्मनि।।७
शर्वाणि शर्वगेहे या वैकुण्ठे च हरिप्रिया।
वेधसश्च गृहे साक्षात् शुक्लवर्णा सरस्वती।।८
इन्द्रसौधे शची साध्वी रतिश्चापि स्मराजिरे।
शतरूपा मनोर्वासेऽन्यदितिः काश्यपालये।।९
अनसूयात्रिगार्हस्थे देवहूति च कार्दमे।
वासिष्ठेऽरुन्धती लोपामुद्राऽगस्त्यकुटीरके।।१०
अहल्या गौतमर्षेर्या जमदग्नेश्च रेणुका।
सुकन्या च्यवनागारे पौलोमी च भृगोर्गृहे।।११
या द्वादशकलाधारराघवेन्द्रस्य सत्प्रसूः।
कौशलाधिपतेर्जाया कौशल्या पूतकुक्षिका।।१२
या षोड्शकलाधारयादवेन्द्रस्य जन्मदा।
देवकी वसुदेवस्य परिणीता महीयसी।।१३
अर्धाङ्गिनी लसद्भाग्यानन्दगोपस्य याऽतघा।
यशोदाऽभिधया पूता बालगोविन्दपुत्रिणी।।१४
या च पाण्डवबन्धूनां जनयित्री तपस्विनी।
पाण्डुभार्या पृथानाम्नी कृष्णचन्द्रपितृष्वसा।।१५
जननी सत्यकामस्य जबाला सत्यवादिनी।
इतरा चैतरेयस्य माता ब्रह्मैकशंसिनी।।१६
सिद्धार्थजननी या च महामायेति संज्ञिता।
शुद्धोदनमहाराज्ञी लुम्बिनीवनचारिणी।।१७
या याश्चेतरपुत्राणां जनन्यो लोकवन्दिताः।
गृहितापसभूपानां संख्ययाऽप्यमिता ध्रुवम्।।१८
तासु सर्वासु संगूढा मातृशक्तिरधीश्वरी।
या काऽपि जयतान्नित्यं ब्रह्माण्डकल्पनास्थली।।१९
चन्द्रज्योत्स्नां रवेर्दीप्तिमग्निज्वालां प्रकाशिनीम्।
व्योमनीलच्छविं रम्यां वात्यां चापि रयेरिताम्।।२०
सलिलास्यार्द्रतां प्रीतां प्रकृतिं वनशोभिनीम्।
पृथिवीं नगरग्रामलक्षकोटिधरामिमाम्।।२१
त्रिसन्ध्यामुषसं रक्तां दामिनीं घनसंवृताम्।
कादम्बिनीं घनश्यामां क्षणदाच विभावरीम्।। २२
मातृरूपां शक्तिरूपां गतिरूपां च भाविनीम्।
विविधां प्रकृतिं लोके सतां तामहमाह्वये।।२३
बुद्धिरूपा शुभा यासौ प्रतिजीवं नु दीप्यति।
सा सृष्टिरचनारूपा मातृशक्तिश्चिरञ्जयेत्।।२४
मायारूपा क्षमारूपा श्रद्धारूपा च शोभना।
प्रीतिरूपा दयारूपा कृपारूपा जगन्मयी।।२५
विद्याविनतिरूपा च तृष्णारूपा रतिश्रया।
चितिरूपा चिदाकारा सा चिरञ्जयिनी भवेत्।।२६
आधाराद्धि सदा गुर्वी महती च गरीयसी।
आधेयत्ववशात्सा मे मातृशक्तिस्सदा प्रिया।।२७
नगेशादुच्चचा गुर्वी वनात्तच्छीर्यशस्विनी।
सागरादपि गम्भीराऽगाधता ननु कीर्त्यते।।२८
यथा तारापथादुर्वी महती च गरीयसी।
तथैव जनकान्माता वरं पीयूषपायिनी।।२९
यथा षाण्मातुरस्कन्दः कृत्तिकामभिनन्दति।
वैनतेयश्च पक्षीन्द्रो विनतां दुःखभागिनीम्।।३०
यथास्तीको जरत्कारुं वामनोऽप्यदितिं यथा।
प्रह्लादः कयाधूञ्च कुन्तीं पाण्डुसुता यथा।।३१
यथा लवकुशौ प्रह्वौ मैथिलीचरणद्वये।
गाङ्गेयश्च यथा भीष्मः सत्यवत्यङ्घ्रिपंकजे।।३२
चित्राङ्गदापदाब्जेषु विनतो बभ्रुवाहनः।
सौभद्रश्च सुभद्रायां यथैवार्पितचेतनः।।३३
दाक्षीं च पाणिनिर्यद्वत् मुरां श्रीचन्द्रगुप्तकः।
पुलुमाविश्च वामसिष्ठीं शातकर्णिः स्वजन्मदाम्।।३४
जीजावायीं यथा वीरश्शिवाजिश्छत्रपो महान्।
झाँसीश्वरी यथा सर्वे मातृभक्ताः समादधुः।।३५
तथाहं जननीं साध्वीं मत्कृते व्यथयार्दिताम्।
अभिराजीं मनोवाग्भ्यां कर्मणा च प्रसादये।।३६
किमधिकं न मृषा भाषे प्राणैरपि शये पुनः।
नान्या गुरुतरा काऽपि जननीतो ममैधते।।३७
जननाज्जननी सा मे पालनाच्च पिताऽपि सा।
समेषां भावबन्धानामेका सैव गतिर्मम।।३८
अभिराजि! नमस्तुभ्यं जननि! प्राणधारिणि!
अनृणीभवितुं त्वत्तो नैव शक्नोमि जन्मदे!!३९
पूज्यताते दिवं याते दुर्गाप्रसादमिश्रके।
षड्विंशतिमिते कालेऽवयसश्चाल्पवैभवे।।४०
तं चतुर्वर्षदेशीयं देवेन्द्रं नु मदग्रजम्।
राजेन्द्रमिश्रनामानं माञ्च सार्धद्विवर्षकम्।।४१
सद्यः सन्दृष्टसंसारं सर्वथा विकलेन्द्रियम्।
सुरेन्द्रं मेऽनुजं देवि! मासमात्रवयोमितम्।।४२
एवं त्रितनयान् क्रोडे कृत्वा शोकं निगृह्य च।
पारं गतवती मातर्भीष्मविपदुदन्वतः।।४३
ज्वलिताशालता नूत्नाः स्वप्नाश्चापि खलीकृताः।
मरीचिकेव रङ्कूणां सजलाभूरदृश्यत।।४४
नेत्रयोरनिशम्मातः श्रावणाम्बुदमेदुरा।
वर्षिणी ध्रुवमश्रूणां घटा काऽपि समुत्थिता।।४५
शून्या दश दिशोऽभूवन् वान्धवाश्चापि तन्द्रिताः।
स्रोतांसि च ममत्वानां शुष्काणि सर्वतोऽभवत्।।४६
दग्धं सीमन्तसिन्दूरं पतितं कर्णभूषणम्।
वलयानि रणत्कारं दधन्ति मूकतां ययुः।।४७
विशेषकं शुभोवेदी द्राङ्निःशेषतां ययौ।
विसस्माराधरयुगं ताम्बूलवीटिचर्वणम्।।४८
काञ्ची समुद्गके क्षिप्ता केयूरयुगलं तथा।
ललन्तिकाऽपि कारायां पिटकस्याशु कारिता।।४९
स्मितं स्मृतिपथं यातं हसितञ्चापि भर्त्सितम्।
क्षौमवस्त्राणि जीर्णानि विधुरञ्च प्रसाधनम्।।५०
उत्थितैवंविधा वात्या यया सर्वं त्वदीयकम्।
ध्वंसितं सहसैवाम्बाप्रत्याशितमतर्कितम्।।५१
तथापि नितरां धात्रि! दयमानाऽत्मजत्रयम्।
राजराज्ञी पृथेव त्वं नाद्विष्ठा नाबिभेश्विरम्।।५२
तांस्तान् विपत्तिसंघातान् क्रूरान्तकसमर्थितान्।
साभिजात्यक्षमाभावं सोढं सोढं तपस्विनि।।५३
अपीपलस्सुतान् दीनान् त्वेदकांपूचगताश्रयान्।
निर्यातनं तु पुण्यानां त्वत्कृतानां न सम्भवम्।।५४
दारूणे दुर्दिनध्वान्ते यो जगाम न संकटम्।
तस्मै त्वद्धैर्यसूर्याय नमोवाकं प्रशास्महे।।५५
दौर्भाग्यजलदाच्छन्ने निशीथेऽपि विकासिने।
त्वद्वात्सल्यमृगाङ्काय मातर्देवी नमो नमः।।५६
आत्मस्वार्थमपाकृत्य दारकाणां समीहितम्।
पूर्ण येन नमस्तस्मै पूतप्रेम्णे तवाम्बिके!!५७
विस्मृत्य विगतं सौख्यं लालिता डिम्भका यया।
तस्यै वात्सल्यकांक्षायै त्रितनयाम्बिके नमः।।५८
स्वप्नजागरनिद्रासु याऽविनाभावमाश्रिता।
ररक्षास्मान्नमस्तस्यै मातस्तव लसद्धिये।।५९
आतपोल्लङ्घने जातु चकार भवतीञ्च या।
धैर्यसंयमहीनां तां प्रणमाम्याम्ब! ते भियम्।।६०
पुष्टान् रसवतीसिद्धैर्व्यञ्जनैस्तनूजान् स्वयम्।
कृत्वा निरशना जाता प्रख्याप्य वितथव्रतम्।।६१
भाण्डागारं च विज्ञाय रिक्तान्नमपि याचनाम्।
यत्प्रेरिता न यातासि नमस्तस्यै च ते भिये।।६२
दुर्लभ प्रार्थनं बाल जातनिर्बन्धनिष्ठुरम्।
त्वदीयदैन्यदुःखानामवेदिनं विनायकम् ।।६३
क्रोधसम्मोहपरुषैर्वाक्यैर्श्रितचपेटकेः।
यैः कदापि सदकरोस्तेभ्योऽपि च नमो नमः।।६४
दृष्ट्वाऽश्रुसम्भारदृशं कैश्चिदन्यैश्च धर्षितम्।
समुत्थिताय चण्डाय त्वत्क्रोधाय नमो नमः।।६५
मयि स्निह्यन्तमालोक्य कमपि स्निग्धपूरुषम्।
स्वजनं प्रति जातायै बन्धुतायै नमो नमः।।६६
अद्याहमस्मि विद्यायां विहितश्रम आदृतः।
त्वदाशिषा च मानार्हः समाजे विभुसम्मते।।६७
आयुषस्त्रिंशदब्दाश्च याता अष्टोत्तरा अपि।
एतस्मिन्नन्तरे मातः कृतेयतीव सर्जना।।६८
पञ्चधा च पुरस्काराः शासनादुररीकृताः।
बहुवारं सहृदयैर्दत्तमानोऽस्मि सादरम्।।६९
वृन्दारकगवोहिन्दोलोकभाषात्रिवेणिकाम्।
समकालं परिस्नानैरवतीर्णोऽस्मि सर्वदा।।७०
निखिले भारते देशे भ्रामं भ्रामं दिवानिशम्।
कण्ठस्वरकविताभ्यामक्षय्यञ्च यशोऽर्जितम्।।७१
खट्वाङ्ग इव यद्येमि निघनं क्षणमात्रके।
अणीयसी न चिन्ता मे वीतचिन्तोऽस्मि सर्वथा।।७२
नित्यश्वासोऽस्मि संसारे नित्यप्राणोऽस्मि विग्रहे।
चिन्तने नित्यमृत्युर्वा नित्यदेहोऽस्मि दर्शने।।७३
सुहृदो निर्मिता यत्नैर्न कृता जानताऽरयः।
पश्चात्तापकरं किञ्चित् न मया जीवने कृतम्।।७४
एवमस्मि दुराराध्यो दुरारोहोऽतिदुस्तरः।
तुर्धर्षो दुर्गमो मानी लालटिकभयंकरः।।७५
ऋजूयतां च भृत्योऽस्मि मित्राणां च वशंवदः।
जिह्नानां किन्तु कालोस्मि नित्यशत्रुर्विशेषतः।।७६
काव्यशास्त्रविनोदाभ्यां कालं यापयंश्चिरम्।
रुद्राणीपादपद्मेषु चञ्चरीक इव स्थितः।।७७
अलमात्मप्रशस्त्येत्थं प्रकृतिमनुयाम्यहम्।
प्रभवतात्पूर्ववृत्तं जननीचरिताश्रितम्।।७८
अम्बाभिराजि! यत्किञ्चित् साम्प्रतं नु भवाम्यहम्।
तद्विस्तरेण को लाभस्तत्र का च नवीनता।।७९
मूलरूपं प्रियं तन्मे येनाङ्कुरितजीवितम्।
बिभर्मि तत्वतो मातः पुराणं हतवैभवम्।।८०
वृद्धिमेत्य सुताः प्रायो विस्मरन्ति पुराकथाम्।
कैः कैः प्राणान्तकैः कष्टैः पितृभ्यामनुपालिताः।।८१
मृषावादा विजल्पन्ते गृहिणीपदचारणाः।
मातरं मन्यमानाश्च धात्रीं नित्यं हसन्ति वा।।८२
किन्त्वम्व तादृशो नाहं क्रूरकर्मा नृशसकः।
न कृतघ्नो न वैधेयो नोऽसाम्प्रतकरोऽथवा।।८३
इन्द्रियव्रातसंश्लिष्टं सर्वमेव कलेवरम्।
त्वत्प्रदत्तमहं जाने गुणकर्मसमन्वितम्।।८४
यदीदं तव रक्षायैः भूत्यै तोषाय वा मुदे।
अपेक्ष्यते तदा दातुं सन्नद्धोऽस्मि प्रतिक्षणम्।।८५
त्वं भूस्त्वमसि दिक्चक्रं त्वमाकाशमसि ध्रुवम्।
स्वर्गस्त्वमेव मुक्तिस्त्वं त्वम्मे प्राणगतिः शुभा।।८६
मातर्यावन्ति वीतानि भवदञ्चलमण्डपे।
आयुषो मम वर्षाणि स्वर्गसौख्यं तदेव मे।।८७
त्वयाऽत्मना च पुण्येन प्राणैश्चाभीष्टदैवतैः।
जीविताकांक्षंया चापि शपे चाटुर्न वोच्यते।।८८
त्वमेव मम सर्वस्वं लौकिकं पारलौकिकम्।
ब्रह्मलोकसुखं चापि त्वदृते मेऽनभीप्सितम्।।८९
त्वत्कराग्रधृता अम्ब! कवलाः स्नेहसारिताः।
मन्मुखे न समेष्यन्ति जीवनेऽस्मिन् सकृत्पुनः।।९०
इदानीं पलिता केशैर्जरया चापि भाविता।
कवलानां त्वमेवाम्ब! पात्रीभूताऽसि मेऽनधा।।९१
त्वत्सेवा त्वत्प्रसादश्चाप्यानुकूल्यं त्वदीयकम्।
त्वदिच्छापूरणं मातर्मत्कृते तु महीयते।।९२
प्रायेण सप्ततिं याता वयसस्त्वं कृपामयि।
तथापि नासि विश्रान्ताऽनारतं कर्मणि श्रिता।।९३
पुत्रैः पौत्रैश्च पौत्रीभिः स्नुषया सुखभाविनी।
लोकसौख्यानुभूतीनां यातासि पूर्णपात्रताम्।।९४
अयोध्याप्रयागकाशीसु कृतस्नाना कृतस्थितिः।
केदारबदरीतीर्थयात्राभिः पुण्यवर्धिता।।९५
मनसा कर्मणा वाचा धर्मलीनमनोरथा।
धर्मभावा धर्मरूचिर्धर्माकांक्षाऽसि देवते।।९६
सर्वासां मातृशक्तीनां प्रातिनिध्यमुपागता।
समादृतासि जीवन्ती समाजे वसतावपि।।९७
उत्तरप्रदेशनाम्नि राज्ये जनपदं शुभम्।
जौनपुरमिति ख्यातं यवनानां यशस्करम्।।९८
विविधैः पण्डितव्रातैः शास्त्रज्ञानविशारदैः।
लध्वीकाशिकानाम्ना ख्यातं सर्वतोमुखम्।।९९
प्रथिते मण्डले तस्मिन् स्यन्दिकातटसंस्थिते।
द्रोणीपुराभिधे ग्रामे भभयामिश्रवंशिनाम्।।१००
त्वं सम्प्रति समासीना बन्धुबान्धवमण्डिता।
जीवत्पुत्रिका मातः कुशलिन्यसि निर्भयम्।।१०१
मातस्ते गुणसत्प्रवाललतिकामान्दोलयन्मामकम्
त्वद्वात्सल्यवशीकृतं वितनुते कम्रं कवित्वाङ्कुरम्।
त्वं भूयाश्चिरजीविनी गतिमयी युक्ता महिम्नाऽनघा
नान्यत्किञ्चिदपि प्रयाचनकरं पुत्रस्य ते विद्यते।।१०२
संसारेऽजनि कालिदाससुकविर्भूत्वा य आदौ ध्रुवं
श्रीहर्षस्य ततोऽभिधामुपययौ वैदर्भवाचस्पतेः।
पश्चाद्यो जयदेवविग्रहधरोऽभूद् विल्हणोऽनन्तरं
सोऽयं पण्डितराजदेहिनिलयो राजेन्द्रमिश्रोऽधुना।।१०३
ग्रहरामखनेत्राख्ये विक्रमवर्षेऽसिते च भाद्रपदे।
बुधवासरे समाप्तं मातुश्शतकं तिथौ त्रयोदश्याम्।।१०४
(इत्यभिराजराजेन्द्रविरचितं मातृशतकं परिसमाप्तम्)
प्रभातमङ्गलशतकम्
विघ्नव्रजापसरणव्यवसायदक्षः
सिन्दूरपूरपरिभूषितकान्तिकायः।
द्वैपायनाननवचोमृतपूतमेधो
विघ्नेश्वरो दिशतु मे नवसुप्रभातम्।।१
कात्यायनीचरणवारिडचञ्चरीको
गङ्गाधराङ्गसिभूतिकरम्बिताङ्गः।
क्रीडाविलासविहितस्वजनानुरागो
हेरम्ब आदिशतु मे नवसुप्रभातम्।।२
आदित्यदैत्यनिकुरम्बकृताभियान-
प्रारम्भपूजितपदाम्बुज आशुतोषः।
सिद्धयङ्कुरो निधिनिधिर्द्विपतल्लजास्यः
कुर्यात् कपालितनुजो मम सुप्रभातम्।।३
शुण्डाविकीर्णहिमशीकरसारिताशा –
तन्वीमलीमसमृगाङ्कमुखो दयालुः।
जम्बूकपत्थिबदरीकृतकल्यवर्तो
नित्यं प्रवर्तयतु मे नवसुप्रभातम्।।४
योऽसावनादिनिधनस्त्रिदशार्चिताङ्घ्री –
र्विद्यासमृद्धिततिदानपरोऽतिकायः।
प्रत्यूहभोतिघनखाण्डवभीमदाहे
दक्षस्तनोतु गणपो मम सुप्रभातम्।।५
लीलाविलासपुरुषोत्तममुच्चिकीर्षु-
र्नानाप्रपञ्चरचनाचतुरः स्वयम्भूः।
आत्माभिरूच्यनुमताखिललोकसृष्टिः
स्रष्टा तनोतु मम मङ्गलसुप्रभातम्।।६
यः कुम्भकार इव चित्रविचित्ररूपं
नानोपयोगरुचिरं नवपात्रजातम्।
निर्माति तन्द्रिविकलं लिपिलेखलग्न-
स्तुर्याननो दिशतु मे नवसुप्रभातम्।।७
प्राग्जन्मकर्मदृढबन्धविपाकभावै-
स्तत्तद्गुणावगुणभावितजीवलोकम्।
निन्दास्तवोभयसमानसुखो वितन्वन्
भव्यं करोतु मम लोकपतिः प्रभातम्।।८
मर्त्यानहोर्बुदमितानपि साधुकुर्व-
न्नाकारलेशसमतामपि यो न धत्ते।
विस्मापितप्रचुरपार्थिवशिल्पिवर्गो
ब्रह्मा तनोतु नितरां नवसुप्रभातम्।।९
आकल्प्य यश्चतुरशीत्यसुधारियोनिं
तद्भागभङ्गगणिताविकलो विरञ्चिः।
इन्दीवरासनधरो द्रुहिणोऽनिशम्मे
प्रस्तौतु मङ्गलकरं नवसुप्रभातम्।।१०
आनन्दकाननविहारकरो हरोऽसौ
ब्रह्माण्डशेवधिसमर्पणपूर्णशक्तः।
स्थाणुः श्मशानभवनो भृतभैक्ष्यकुक्षिः
साक्षी तनोतु जगतां नवसुप्रभातम्।।११
उत्फुल्लगल्लयुगवादनमात्रनम्रो
मृत्युञ्जयस्समदसिन्धुरचर्मवासाः।
लोकोभयाय परिपीतहलाहलो मे
भस्माम्बरो दिशतु मङ्गलसुप्रभातम्।।१२
नाम्ना शिवोऽप्यशिववेषधरः कपाली
गङ्गाधरोऽपि दधदम्बकगूहिताग्निम्।
साक्षाद्विरुद्धगुणसङ्गमनैकभूमि-
श्शम्भुस्तनोतु मम मङ्गलसुप्रभातम्।।१३
यत्पादपङ्कजरजोंऽशमुशीरशीतं
संयोज्य भालफलके भुवनाधिराज्यम्।
प्राप्तुं यतेत किल हीनवराटिकीऽपि
श्रीकण्ठ आदिशतु मे नवसुप्रभातम्।।१४
दाम्पत्यरागतरुकन्दलनप्रबीजं
दग्धस्मरो रतिदयोऽपि मृगाङ्कमौलिः।
अर्धाङ्गनेश्वरपदं कलयन् प्रकृत्या
देवस्तनोतु मम मङ्गलसुप्रभातम्।।१५
प्राणान् पृणाति नयनेषु विधाय दृष्टिं
व्रह्माण्डविस्तरमवेक्षत आत्मसंस्थः।
कर्णैः शृणोति ननु जिघ्रति नासिकाभिः
संसारिणां स विदधातु नवप्रभातम्।।१६
मायावगुण्ठनविमोहितसर्वलोकः
स्वेच्छाविखण्डिततदीयदुरन्तबन्धः।
लीलाविलासनिपुणश्शिशुकेलिलीनो
नारायणो दिशतु मे नवसुप्रभातम्।।१७
नद्वेष्टि पापमलिनं न वरेषुसक्तः
प्रायोऽधमोत्तमजनेषु समानभावः।
साक्षी स्वसन्ततिनिभाखिलजन्मभाजां
लक्ष्मीपतिर्दिशतु मे नवसुप्रभातम्।।१८
आद्यन्तमध्यरहितोऽव्ययनिर्विकारो
मुक्तो विमुक्तिधनिको न च कर्मलिप्तः।
आनन्दसच्चिदमृतत्वलसत्स्वरूपो
विश्वम्भरो दिशतु मे नवसुप्रभातम्।।१९
यस्मिन् पयोधिसदृशे समुदेति विश्वं
आवर्तबुद्बुदतरङ्गनिभं समग्रम्।
तत्रैव हन्त शनकैः प्रविलीयतेऽद्धा
सर्वेश्वरो दिशतु मे नवसुप्रभातम्।।२०
श्रीरामकीर्तितटिनीसलिलोघकल्पा
कौन्तेयपूतचरितोर्मिकृतप्रचारा।
शब्दार्थविग्रहवती घृतकच्छपी सा
वाग्देवता दिशतु मे नवसुप्रभातम्।।२१
वैपश्चितीं भजति वाङ्निहितोऽपि यस्या
लीलावलोकनविशेषतरङ्गभङ्ग्या।
सा शारदा सदसतोरनुभावयित्री
पात्रीकरोतु मम मङ्गलसुप्रभातम्।।२२
या कालिदासभवभूतिकवित्वनीर-
स्रोतोऽनुभूतनवयामुनगाङ्गसङ्गा।
सा तीर्थराजधरणीव विमुक्तिशक्ता
हंसासना दिशतु मे नवसुप्रभातम्।।२३
मुग्धाङ्गनाचरणभर्त्सितचारुनीपो
गाढोपगूढमहितस्सहकारशाखी।
यस्याः प्रभावपरिधौ भजतो विंकाशं
सा भारती दिशतु मे नवसुप्रभातम्।।२४
यत्पादपङ्कजसमाहितमञ्जुमाध्वी-
मास्वाद्य जातपुलको मधुपायमानः।
काव्यानि गायति कवी रसवन्ति सा मे
ब्राह्मी तनोतु नवमङ्गलसुप्रभातम्।।२५
अट्टालिकाध्वजविनोदितकीर्तिगाथा
प्रासादगोपुरगवाक्षमयप्रमाणा।
ऐश्वर्यवन्दितपदा सुखसारयित्री
लक्ष्मीस्तनोतु मम मङ्गलसुप्रभातम्।।२६
चामीकराचलवहत्कनकाम्बुधारा-
लेखानिभं जगति चारु यदानुकूल्यम्।
साम्भोजमञ्जुलवनीवसतिप्रसन्ना
सिन्ध्वात्मजा दिशतु मे नवसुप्रभातम्।।२७
भूत्वा चिरं चरणचारणचक्रवर्ती
यस्या धनेशपदवीं श्रितवान् कुबेरः।
सा याचकीकृतसुरासुरयूथमुख्या
विष्णुप्रिया दिशतु मे नवसुप्रभातम्।।२८
यन्नेत्रकोणसदयेक्षणपूरदूरः
स्थाणुश्शिवोऽपि स दिगम्बरतामुपैति।
सा सर्वदेववरदानसमर्थयित्री
पद्मालया दिशतु मे नवसुप्रभातम्।।२९
आलोक्य पत्युरुरसि प्रथितप्रहारं
व्याजातिरोषितभृगोर्निगमादिभाजः।
सारस्वतश्रमवतां नितरां विरुद्धा
देवीन्दिरा दिशतु मे नवसुप्रभातम्।।३०
यामन्तरेण शवतां भजते शिवोऽपि
ब्रह्मेन्द्रविष्णुमरुतोऽपि च कान्दिशीकाः।
दुर्गाऽप्रमेयभटगेयसमीरशक्तिः
सा मे तनोतु नवमङ्गलसुप्रभातम्।।३१
प्राग्जन्मकर्मपरिणामदुरन्तदुःखं
दौर्गत्यलालितललाटविटङ्कलेखम्।
यैकाऽन्यथा प्रभवति स्वयमेव कर्तुं
साऽम्बा तनोतु नितरां मम सुप्रभातम्।।३२
यन्नामसंस्मरणनीलपयोदवर्षै-
र्हृद्व्याधिदावदहनश्शममेतितूर्णम्।
न्यग्भावितार्तिनिवहा मृगराजवाहा
सामे तनोतु बगला नवसुप्रभातम्।।३३
लङ्केश्वराभिहननाय यदीयसाह्यं
रामोऽप्यकुण्ठभुजदण्डबलो ययाचे।
सा चण्डमुण्डमहिषादिकुलैकहन्त्री
कात्यायनी दिशतु मे नवसुप्रभातम्।।३४
पङ्कप्रलीनसिशुकं जननीव हृद्या
योत्थाप्य दीनपुरुषं स्वपदाब्जनीलम्।
कस्तूरिकातिलकमण्डितभालपट्टं
कृत्वेक्षते दिशतु सा नवसुप्रभातम्।।३५
राज्याभिषेरकगुरुगौरवमाशु हित्वा
श्वोभावि यो विजनवासनिदेशकष्टम्।
अङ्गीचकार समदुःखसुखो मनस्वी
श्रीराघवस्स कुरुतां मम सुप्रभातम्।।३६
तिर्यग्गतामिषभुजं विषमं मुमूर्षुं
दीनं जटायुषमपि स्वभुजाङ्कपाल्याम्।
कृत्वा चिराय विललाप कृताश्रुवर्षः
सीतापतिस्स कुरुतां मम सुप्रभातम्।।३७
व्यापाद्य वालिनमसाम्प्रतकारिणं यः
सुग्रीवमार्यचरितं सुहृदं ररक्ष।
वाञ्छासुरद्रुमनिभस्सुहृदां स रामो
लोकाभिराम उभ तान्मम सुप्रभातम्।।३८
निश्शेषशोषणसमर्थविधिप्रवीणः
सन्नप्यबन्ध्यकलहस्सरणिं ययाचे।
स्वार्थानुरोधविनतो जलधिं य आर्तो
मानप्रियस्स कुरुतां नवसुप्रभातम्।।३९
आजीवनं हृदयभिद्विपदज्वनीनः
सन्त्यक्तपार्थिवसुखो विहितान्यसौख्यः।
भूभारभञ्जनरतो विरतो विलासाद्
रामेश्वरो दिशतु मे नवसुप्रभातम्।।४०
हैयङ्गवीनहरणैर्व्रजवल्लवीनां
वृन्दावने निभृतवञ्जुलपीलुकुञ्जे।
उज्जृम्भयन् सपदि पार्वणमोदसिन्धुं
कृष्णेन्दुरादिशतु मे नवसुप्रभातम्।।४१
नाम्बा पिता न दयितो न सहोदरो वा
नान्यशच कोऽपि भवबन्धनभाक् समर्थः।
योऽभूत्तथाऽपि निखिलं व्रजयौवस्य
श्रीशस्तनोतु मम मङ्गलसुप्रभातम्।।४२
स्त्रीपुत्रपौत्रबहुकोटिपरीतकायः
सांसारिकोऽपि नितरां स्वजनेष्वसक्तः।
प्रत्यक्षमाचरितवंशविनाशलीलः
लीलाधिपो दिशतु मे नवसुप्रभातम्।।४३
यच्छौर्यविक्रमजितो मघवाऽपि मानी
यन्मायया भ्रमितबुद्धिरजोऽपि दीनः।
आहायनं स्मृतिमवाप न विभ्रमाणां
मायाशिशुस्स कुरुतां मम सुप्रभातम्।।४४
यद्वक्त्रपङ्कजविनिस्सृतगूढवाच
पार्थोऽपि नो गणयितुं सहज क्षमोऽभूत्।
राधापदाब्जरतिजातमनोविनोदो
योगेश्वरस्स कुरुतां नवसुप्रभातम्।।४५
लाङ्गूलबद्धगिरिखण्डचलत्प्रहारै-
र्लङ्का कलङ्कविकलां विधुरां प्रकुर्वन्।
स्कन्धाधिरोपितसलक्ष्मणराघवेन्द्रः
प्राभञ्जनिर्दिशतु मे नवसुप्रभातम्।।४६
नैराश्यसिन्धुविनिमञ्जितजीविताया
देव्या विदेहदुहितुः परिरक्षणाय।
रामाभिधानकलिताक्षरमङ्गुलीयं
सम्पातयन्ननिलजोऽवतु सुप्रभातम्।।४७
उल्लङ्घ्य नक्रमकरोल्लसितं पयोधिं
सञ्चूर्ण्य गोपुरगवाक्षविटङ्कमालाम्।
रामाय दीयत इति प्रदहन् वचोभि-
र्लङ्कां तनोतु कपिराट् सुखसुप्रभातम्।।४८
कृत्वा श्रुतिद्वयमहो गगनावकाशं
श्रीरामपूतचरितामृतमश्नुते यः।
सीताभिलालितमनश्शिलशृङ्गपृष्ठः
श्रीमारूतिर्दिशतु मे नवसुप्रभातम्।।४९
श्रीरामकीर्तिकलनश्रवणानुभूत-
प्राबृट्पयोदघनवर्षणरोमहर्षः।
दौवारिकश्च रघुनन्दनकेलिसौध-
द्वारे तनोतु हनुमान्मम सुप्रभातम्।।५०
मार्तण्डमङ्गलमृगाङ्कशनैश्चराणां
व्रातस्तु राहुगुरुशुक्रबुधग्रहाणाम्।
केत्वन्वितो जनिजुषां गतिसूत्रधारो
नित्यं तनोतु मम मङ्गलसुप्रभातम्।।५१
चञ्चन्मरीचिनिचयैर्जगतां विधुनन्वन्
निद्रावशीकृतहृषीकचयानुरोधम्।
इन्दिन्दिरावृतकुवेलवनाभिनन्दी
बालार्क आदिशतु मे नवसुप्रभातम्।।५२
उत्फुल्लकैरववनाञ्चितसौम्यगाथो
ज्योत्स्नाहताभिसरणः प्रमदाङ्गनानाम्।
आकाशपुष्करसरोरूहसन्निभोऽसौ
जैवातृको दिशतु मे नवसुप्रभातम्।।५३
यज्जन्मना वृतवती महिमानमुर्वी
पुत्रोद्भवस्य सुदतीजनकांक्षितस्य।
अङ्गारकः प्रसविता बलविक्रमाणां
कुर्यात् सदैव मम मङ्गलसुप्रभातम्।।५४
चन्द्रात्मजः कलितकाव्यकलाभ्युपायः
सौन्दर्यमोहनमहौषधिरानुकूल्ये
सौम्योऽतिसौम्यघटनापटुरार्तिनाशी
नित्य तनोतु स बुधो नवसुप्रभातम्।।५५
योऽसौ पुरन्दरगुरुर्धिषणोऽतिमान
वाचस्पतिर्नवनवप्रतिभो मनस्वी।
मेधोद्धुरो विनयबुद्धिविलासमूलं
जीवस्तनोतु स सदा मम सुप्रभातम्।।५६
सञ्जीवनौषधिरहस्यविधानवेदी
दैत्यार्चिताङ्घ्रियुगलो भृगुवंशधुर्यः।
शिष्यीकृतारितनुजो बहुमानबद्धः
शुक्रस्तनोतु मम मङ्गलसुप्रभातम्।।५७
यद्दृष्टिपातलवमात्रविदाहभीतः
कालोऽपि नो प्रभवतीष्टविधौकदाचित्।
सोऽरातिरात्मपितुरप्यनभीष्टरीति-
स्सौरिस्तनोतु मम मङ्गलसुप्रभातम्।।५८
अर्धामृतत्वमहितोऽन्धतमस्स्वरूपो
योऽसौ विधुन्तुद इति प्रथिताभिधानः।
शीर्षेण राहुरिति केतुरथो कबन्धे –
नाख्यापितो दिशतु मे नवसुप्रभातम्।।५९
व्याकीर्णपारदपृषन्निभतारकालीं
स्वप्राङ्गणे विशदयत् सहिमांशुभानु।
सप्तोर्ध्वलोकरचनापरिबृंहिताङ्ग
व्योमातनोतु मम मङ्गलसुप्रभातम्।।६०
प्राची दिवस्पतिसबाजनतोरणाभा
कौबेरदिक् तुहिनभूधरभूषिताङ्गी।
सा वारुणी यमदिशा च समेत्य सर्वाः
कुर्वन्तु मङ्गलमयं मम सुप्रभातम्।।६१
इन्द्रश्शचीप्रणयबन्धनरज्जुबद्ध-
श्श्रीराजराजपदवीयुगसौ कुबेरः।
पाशी यमश्च ककुभामधिपाश्च सर्वे
कुर्वन्तु मङ्गलमयं मम सुप्रभातम्।।६२
लीलानरोत्तमचरित्रपवित्रभूमि-
र्वृन्दारकैरपि विकांक्षितजन्मयोगा।
नानानदीनदसरोवरदेशरम्या
जीवन्घरा दिशतु मे नवसुप्रभातम्।।६३
कान्ताररोमपुलका गिरिसन्धिबन्ध
नक्षत्रहारलतिका रविभालभूषा।
पाथोधिनीलवसना सुमशुभ्रहासा
कुर्याद्धिमांशुतिलका मम सुप्रभातम्।।६४
काश्मीरमस्तकवती हिमवत्किरीटा
गङ्गाकलिन्दतनयोभयनेत्रपद्मा।
देवप्रिया तमिलकेरलपादयुग्मा
भूर्भारती दिशतु मे नवसुप्रभातम्।।६५
ब्रह्मापि यद्रजसि साधु विलुठ्य पुष्टिं
भेजे रजोविरहितोऽव्ययनिर्विकारः।
सा मर्त्यलोकहृदया भरताभिधाना
पृथ्वी तनोतु मम मङ्गलसुप्रभातम्।।६६
या स्वप्नजागरसुषुप्तिसमाधिभाव-
प्रीतस्थली जनिभृतां बहुयोनिभाजाम्।
सा मेदिनी वियति नीवृति लम्बमाना
विष्णुप्रिया दिशतु मे नवसुप्रभातम्।।६७
यस्या रजोविलसिते परिधौ प्रवृद्धा
हेलाविलासलपनैर्महिता भवामः।
साऽस्माभिरात्मजवती नवमराष्ट्रभूमि-
र्मान्या तनोतु मम मङ्गलसुप्रभातम्।।६८
काश्मीरकेरलकलिङ्गहिमाचलान्ध्रै-
र्बङ्गाङ्गगुर्जरमरुद्रविडप्रदेशैः।
मध्योत्तरासमकुरुप्रमुखैश्च राज्यै-
स्सम्भूषिता दिशतु मे नवसुप्रभातम्।।६९
सह्यो महेन्द्रमलयावथ पारियात्रः
प्लक्षश्च विन्ध्यशिखरी ननु शुक्तिमांश्च।
विश्वम्भरानिगडसप्तकुलाचलास्ते
कुर्वन्तु मे रुचिकरं नवसुप्रभातम्।।७०
काशीकपालिवसतिर्मथुरा च माया
द्वारावती रघुपतिप्रियपूरयोध्या।
काञ्ची महेश्वरपुरी सुविदामवन्ती
सर्वा दिशन्तु मम मङ्गलसुप्रभातम्।।७१
भागीरथी तुहिनशैलकुलप्रसूता
ब्राह्मी कलिन्दतनयाऽक्षतनर्मदा सा।
कावेरिका सुभगसिन्धिरसौ च गोदा
सर्वा दिशन्तु मम मङ्गलसुप्रभातम्।।७२
द्वारावती च बदरीकुरुभूमितीर्थे
नीलाचलेशनगरी च गयाभिधाना।
रामेश्वरोऽखिलसुतीर्थपतिपर्याग-
स्तीर्थानि सप्त कलयन्तु शुभप्रभातम्।।७३
द्रौणिः पराशरसुतो महितो हनूमान्
मान्यौ विभीषणकृपौ स च जामदग्न्यः।
वैरोचनिश्च चिरजीवितकाः समेताः
कुर्वन्तु सप्त मम मङ्गलसुप्रभातम्।।७४
ऐ लेयराघवनलाः पृथुरादिराजो
धर्मात्मजो ननु युधिष्ठिरपूतसंज्ञः।
मान्धातृविक्रमिरधुप्रमुखाश्च सप्त
भूपा दिशन्तु मम मङ्गलसुप्रभातम्।।७५
सीरष्वजो नृगगयौ शिविरन्तिदेवो
चाण्डालकर्मणिरतो नहुषात्मजश्च।
धर्मानुपालनपरो विनतोऽम्बरीषः
सर्वे दिशन्तु मम मङ्गलसुप्रभातम्।।७६
अत्रिर्मरीचिपुलहौ क्रतुरङ्गिराश्च
ब्रह्मर्षिगौरवधरो मतिमान् वशिष्ठः।
पूतः पुलस्त्यसुकृती ॠषयश्च सप्त
कुर्वन्तु मे सुभगमङ्गलसुप्रभातम्।।७७
कुन्ती विदेहतनया सुभगा सुनीतिः
पत्नी हिरण्यकशिपोरमघा कयाधूः।
श्रीराघवेन्द्रजननी विदुला यशोदा
अम्बा दिशन्तु मम सप्त शुभप्रभातम्।।७८
गौरी वसिष्ठगृहिणी घटजप्रिया च
देवी शची सुमहिताऽत्रिगृहेऽनसूया।
स्वाहाऽदितिश्च दयितव्रतकेन्द्रभूताः
कुर्वन्तु मे रुचिरमङ्गलसुप्रभातम्।।७९
वाल्मीकिपाणिनिपराशरनन्दनाश्च
बोधयनो वररूचिः प्रथमे कवीन्द्राः।
गर्गोऽथ भासमुनिरित्थमिमे च सप्त
कुर्वन्तु मे सुभगमङ्गलसुप्रभातम्।।८०
सङ्केतकाकुवचनेङ्गितशब्दयोगैः
काव्याधिकं प्रियतरं किल भाषमाणः।
सारस्वतामृतघटः कविकालिदासो
नित्यं तनोतु मम मङ्गलसुप्रभातम्।।८१
श्रीहर्षमाघजयदेवकुमारदासा
बाणोऽथ भट्टिभवभूतिकिरातकाराः।
श्रीविल्हणः प्रथितपण्डितराजसंज्ञः
कुर्वन्त्विमे दश ममामृतसुप्रभातम्।।८२
ज्ञानेश्वरश्च तुलसी नरसी च मीरा
चैतन्यनानककबीरसमर्थसंज्ञाः।
आण्डालभक्तरविदासमुखा दशोर्ध्वाः
कुर्वन्तु मे मधुमयं नवसुप्रभातम्।।८३
अद्वैतदर्शनसुधीः स च शङ्करार्यो
रामानुजोऽपि च विशिष्टमतप्रवीणः।
निम्बार्कमध्वमहितौ प्रभुवल्लभश्च
कुर्वन्तु पञ्चयतिका मम सुप्रभातम्।।८४
सा देवदारुवनिका नगराजपृष्ठे
तच्चापि चन्दनवनं मलयाचलस्थम्।
प्राच्याञ्च सुन्दरवनं ननु पश्चिमायां
कुर्वन्तु मे मरुवणं नवसुप्रभातम्।।८५
नानाविचारमतवादमतान्तराणां
नानाशनव्यसनभाषणभूषणानाम्।
सुस्रोतसामिव समुद्रनिभाऽन्वितिस्साऽ
स्मत्संस्कृतिर्दिशतु मे नवसुप्रभातम्।।८६
यत्सम्भवे परिणये मरणे च तुल्यं
संस्कारकर्मणि सदा निखिलेऽपि राष्ट्रे।
प्रोच्चार्यते सविनयं ननु संस्कृतं तत्
देवार्चितं दिशतु मे नवसुप्रभातम्।।८७
यस्यां विभाति निगमागमशास्त्रचर्चा
सृष्टिप्रपञ्चविषया सुविचारणा च।
सा भरती दिविषदां भवमुक्तिदात्री
नित्यं तनोतु मम मङ्गलसुप्रभातम्।।८८
एकाक्षरं मनसि यस्य निधाय सम्यक्
ओङ्कारसंज्ञितमहो सुकृती मुमुक्षुः।
ब्राह्मीं स्थितिं भजति भेदविमर्शशून्य-
स्तत्संस्कृतं दिशतु मे नवसुप्रभातम्।।८९
यद्वर्तते मनसि वाचि तदेव मे स्यात्
कार्येऽपि तद्भवतु मे नितरां प्रयाचे।
विश्वम्भर प्रणतपाल मदेकबन्धो!
नित्यं कुरुष्व मम मङ्गलसुप्रभातम्।।९०
कस्यापि नो रिपुरहं क्रियया भवेयं
नान्योऽपि मे भवतु कोऽपि मुधैव वैरी।
मद्देहभस्मनिचयैर्भवतात्परेषां
सौख्यं तदेव मम मङ्गलसुप्रभातम्।।९१
गोविन्द हे! नयधिया शृणु वाचिकम्मे
त्वत्पालितोऽस्मि सुतरामवितस्त्वयैव।
अत्येतु मेऽद्य दिवसन्तु परोपकारे
स्वामिन्! तदेव मम मङ्गलसुप्रभातम्।।९२
यन्मे परैरपकृतं बहुशोऽप्यनूनं
सत्यं भणामि भवतैव शपामि नाहम्।
किचित्स्मरामि कलयन् भवदेकमायां
एतावदेव मम मङ्गलसुप्रभातम्।।९३
तुष्यन्तु नाम यदि मां नितरां विनिन्द्य
मिथ्याकलङ्कवचनैरपि वा सभाज्य।
केचित्तदेव मम जन्मकृतार्थता स्यात्
तेषां कृते भवतु मे नवसुप्रभातम्।।९४
क्षारं व्यथार्णवजलं हृदयस्थितम्मे।
दृष्ट्वा परापकृतिपार्वणचन्दिराभाम्।
उज्जृम्भते नयनयोर्यदि विन्दुपातै-
स्तन्मे प्रभो! भवति मह्गलसुप्रभातम्।।९५
वैयर्थ्यमात्मजनुषः प्रविलोक्य नूनं
कस्मैचनापि परिकुप्यति नोऽभिराजः।
कः कस्य शत्रुरथवा सुहृदत्र सोऽयं
चित्तभ्रमो दिशतु मे नवसुप्रभातम्।।९६
माल्यं स्तवस्य समुपायनमङ्कुशानां
दीयेत यत्किमपि नात्र शुभाशुभम्मे।
भस्मीभवेत् पितृवने वपुषा समं तत्
आत्मा क्व सञ्जति? भवेन्मम सुप्रभातम्।।९७
क्षीयेत मे प्रतिपलं तव संकथासु
श्रीवत्सलाञ्छन! विभो!! दिवसे निशायाम्।
नान्या सपृहा प्रकृतजन्मनि काप्याभीष्टा
सेयं मतिर्दिशतु मे नवसुप्रभातम्।।९८
स्याज्जीवनं द्विदिवसं शतवार्षिकं वा
नेयं ममास्ति खलु कापि नवा समस्या।
जीह्वाग्रवर्ति तव नाम भवेन्मुरारे!
याच्ञेति मे दिशतु मङ्गलसुप्रभातम्।।९९
न स्यात्प्ररोषसुभगा कपिशाभसन्ध्या
नो शर्वरी न यमिनां दयितो निशीथः।
मध्यन्दिनं न च विभो! प्रभवेत्तदेकं
मज्जीवने भवदनुग्रथितं प्रभातम्।।१००
नामूलं कवयामि वच्मि निभृतं नो वाऽनपेक्षं क्वचित्
नो कीर्त्यै न शिवेतरक्षतिकृते नार्थाय काव्यं वृणे।
कान्तासम्मितदेशनाय न युनः सद्यो रसावाप्तये
निस्स्वार्थं च परिभ्रमन् भ्रमरकस्सोऽहं विरौम्यात्मना।।१०१
रात्रिजागरसम्भुतं काव्यमेतन्मया कृतम्।
आस्तिकानां मुमुक्षूणां प्रबोधाय न केलये।।१०२
पितृपक्षे द्वितीयायामाश्विने बदि वैक्रमे।
रविवारे त्रियामायां ग्रहरामाभ्रयुग्मके।।१०३
प्रभातमङ्गलं नाम काव्यमेतत्प्रपूर्यते।
मया राजेन्द्रमिश्रेणाभिराजीसूनुना सुखम्।।१०४
इति श्रीदुर्गाप्रासादाभिराजीसूनुनाऽभिराजराजेन्द्रेण कविना प्रणीतं प्रभातमङ्गलशतकाख्यं काव्यं सम्पूर्णम्