सुभाषितोद्धारशतकम्
निस्सयन्दं वाग्विकल्पानां वाचामायतनं महत्।
वाचस्पतिं नमामीड्यं वाक्परिष्कारकारणम्।।१
वाणीं भगवतीं वन्दे क्रोडिकृतविपञ्चिकाम्।
राजतेऽधिगलं यस्याः कवीनां चारुमूर्च्छनाः।।२
युगबोधं समाहृत्य प्रत्नसूक्तिसमीक्षिताः।
पुनरेवं विलिख्यन्ते सूक्तयो नवदर्शनाः।।३
कस्मैचिदत्र नाक्षेपः कस्यापि नावमानना।
मनोरञ्जनमात्राय कृत एष परिश्रमः।।४
संस्कतं नाम दैवी वाक् यदिदं दण्डिनोदितम्।
तस्माद्धि राक्षसा राष्ट्रे जाताः संस्कृतशत्रवः।।५
सावकाशो हि कर्पूरो वायुलीनो विनश्यति।
य एव सुरभिर्जातः स एवाशु दिवंगतः।।६
मातृवत् परदारेषु मन्ये मत्वेति लम्पटाः।
येन केन प्रकारेण जायन्ते तत्स्तनन्धयाः।।७
दुर्जनो मृदुतामेति हस्तोभयप्रताडनैः।
करोति मधुरध्वानं मृदंगोऽपि तथा कृते।।८
निसर्गजिह्नता भव्यं नोत्पादयति जातु चित्।
दृष्टिराकेकरा क्वापि नो कटाक्षसमा मता।।९
केयं व्यलीकलोकोक्तिः सर्वमात्मवसं सुखम्।
पारवश्यविहीनाः किं भिक्षुकाः सौख्यशालिनः।।१०
भाग्यवन्तं प्रसूयेथा आशिषं यत्पृथाऽददात्।
तच्चरितार्थयन्त्येव सेन्दिरा सुषुवे सुतम्।।११
दृष्ट्वा बुद्धिबलं राज्ये विश्वनाथस्य मन्मते।
व्रह्मतेजोबलं धिग्धिक् क्षत्रबाहुबलं बलम्।।१२
येषां विखण्डिता वाँणी भावसंवेदनेऽक्षमा।
जायते न कथं तेषां ताम्बूलं मुखभूषणम्।।१३
गुरवो गुरुरवा जाता यस्मात् कलियुगेऽधुना।
तस्मादाज्ञा विचार्यैव पालनीयाऽऽप्तविद्यकैः।।१४
श्रेष्ठिवर्यं विलुण्ठ्याह शून्ये पथि मलिम्लुचः।
दैवायत्तं कुले जन्म मदायत्तं तु पौरुषम्।।१५
आनीयामेरिकादेशान्नेत्रे यस्माद् विरोपिते।
संस्कृतज्ञः पतिर्ब्रूतेऽमेरिकाक्षीति स्वप्रियाम्।।१६
दुराग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे।
मौढ्यञ्च वंशजातानां यौतुकञ्चातिलंक्षकम्।।१७
भाषणे च ददत्कर्णं सच्चरित्रं च चिन्तयन्।
साक्षाद्भवन्तमाशङ्के भाविनं राज्यमंत्रिणम्।।१८
छिन्ना ग्रन्थिभिदा ग्रन्थिर्बाष्पयान इति श्रुतम्।
अतः परीक्ष्य कर्तव्यं विशेषात् संगत रहः।।१९
कमले कमला शेते हरश्शेते हिमालये।
मत्कुणप्राणरक्षार्थं खट्वाशायी भवाम्यहम्।।२०
किमत्र चित्रं यद्दीपो धोरं वमति कज्जलम्।
न प्रभातरलं ज्योतिरुदेति वसुधातलात्।।२१
नपुंसकमिति ज्ञात्वा प्रियायै प्रेषितं मनः।
रेमे तदपि नो तत्र धृताः पाणिनिना वयम्।।२२
रूपं कण्ठं कलौ दृष्ट्वा जनानामुष्ट्रगर्दभाः।
परस्परं प्रशंसन्ति अहो रूपमहो ध्वनिः।।२३
कान् पृच्छामः सुराः स्वर्गे निवसामो वयं भुवि।
किं वास्ति सुन्दरी रम्भा किमुताहो जयप्रदा।।२४
अजातमृतमूर्खाणां वरमन्त्यो न चाद्यकौ।
पुन्नामनरकत्राणम् अन्यथाऽसम्भवं भवेत्।।२५
दाने तपसि शौर्ये च यस्य न प्रथितं यशः।
उत्कोचग्रहणे तस्य मन्ये सुनिश्चितोन्नतिः।।२६
तावन्न शोभते विद्वान् यावत्किञ्चिन्न भाषते।
तावच्च शोभते मूर्खो यावत्किञ्चिन्न भाषते।।२७
माता शत्रुः पिता वैरी तनयो येन पाठितः।
वृत्त्यर्थमटति प्रायः कन्दुकीभूय भूतले।।२८
मनोरथेन सिध्यन्ति कार्याणि न खलूद्यमैः।
क्वचिद् विशन्ति सिंहस्य सुप्तस्यापि मुखे मृगाः।।२९
रूपयौवनसम्पन्नाः करालकुलसंभवाः।
विद्याहीनाः सुशोभन्ते यदि सन्ति विधायकाः।।३०
वर्धते हि मतिस्तात! हीनैः सह समागमात्।
समैर्विषमतामेति विशिष्टैश्चाप्यसिष्टताम्।।३१
विश्वविद्यालये को वा नियुक्तो न बुधायते।
अश्मापि याति देवत्व महद्भिः सुप्रतिष्ठितः।।३२
निर्विषेणापि सर्पेण कर्तव्या महती फणा।
तस्मादवय्याकरणास्तच्छिक्षणविशारदाः।।३३
बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम्।
एवंवादिभिर्मन्येहं बाष्पयान न लोकितम्।।३४
यद्यत् परवशं कर्म तत्तद्यत्नेन वर्जयेत्।
कामिनीविमुखा जाता इति मत्वैव योगिनः।।३५
न शत्रुर्वशमापन्नो मोक्तव्यो वध्यतां गतः।
ततो हन्ति नखैर्बाला यूकां लिक्षामनारतम्।।३६
उत्तमा धनमिच्छन्ति धनं मानं च मध्य़माः।
अधमा मानमिच्छन्ति मानो हि धनिनां धनम्।।३७
मत्सर्वस्वं तवैवास्ति सेवकोऽप्यहमस्मि ते।
प्रियमेवं हि वक्तव्यं वचने का दरिद्रता।।३८
धनिकं सान्त्वयन् ब्रूते कोऽपि दस्युखलीकृतम्।
उपार्जितानां वित्तानां त्याग एव हि रक्षणम्।।३९
सुलभाः पुरुषा राजनन् सततं प्रियवादिनः।
तस्माद्भूरत्नभूतोऽहं कालकूटमुखोऽभवम्।।४०
एक एव खगो मानी वने वसति चातकः।
पिपासितो न म्रियते याचते नो पुरन्दरम्।।४१
नैर्गुण्यमेव साधीयो धिगस्तु गुणगौरवम्।
वैधेया मन्त्रिणः सन्ति प्राज्ञाः साचिव्यशालिनः।।४२
भस्मीभूतस्य देहस्य यदि नो पुनरागमः।
शम्भुनेत्राग्निदग्धोऽपि कथं कामः स जीवति।।४३
यावज्जीवेत् सुखं जीवेत् ऋणं कृत्वा घृतं पिबेत्।
नात्र चिन्ता मनाक्कार्या ऋणं दास्यन्ति पुत्रकाः।।४४
दुर्लभानि परान्नानि प्राणा जन्मनि जन्मनि।
भैक्ष्यं चरन्ति मन्येऽहं मत्वैवं भिक्षुका बुधाः।।४५
वैद्यराज! नमस्तुभ्यं यमराजसहोदर!
हरिष्यति यमः प्राणांस्तवापीति विचित्रकम्।।४६
तातं पंचमुखं दृष्ट्वा पुत्रो जातः षडाननः।
मात्रा निवारितोऽप्यन्योरुष्टो जातो गजाननः।।४७
सदाऽवक्रः सदाऽक्रूरः सदा मानधनप्रदः।
भार्यादाक्षिण्यभिक्षार्थी जामाता दशमो ग्रहः।।४८
विदुषां वदनाद् वाचः सहसा यान्ति नो बहिः।
न्यायेनानेन विद्वांसो मूर्खाः सर्वेऽल्पभाषिणः।।४९
एकोऽहमसहायोऽहं कृशोऽहमपरिच्छदः।
जन्तुशालानिबद्धोऽसौ सिंहोऽप्येवं प्रतर्कते।।५०
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः।
यद्येवं तर्हि राष्ट्रस्य पतनं शास्त्रसम्मतम्।।५१
दस्यवो रक्षिणोऽवन्तु दस्यूंश्च भावयन्तु ते।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ।।५२
कांश्चिद् दुनोमि गालीभिः कांश्चिद्वित्तैः सभाजये।
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्।।५३
परित्राणायदस्यूनां विनाशाय च सत्कृताम्।
पापसंवर्धनार्ताय नेता जातो युगे-युगे।।५४
यदा-यदा ह्यधर्मस्य ग्लानिर्भवतिभारते।
अभ्युत्थानं च धर्मस्य तदात्मानं सृजत्यसौ।।५५
यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन।
उत्कोचोऽपि तथाऽनल्पोऽसाफल्यं हन्ति निश्चितम्।।५६
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ।
निर्वाचनाय युज्यस्व नैवं पापमवाप्स्यसि।।५७
कर्मण्येवाधिकारो मे नो फलेषु कथं पुनः?
एवंतर्की युवा छात्रो रूषा वक्ति परीक्षकम्।।५८
सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते।
कलावात्महता मन्ये न्यायेनानेन मानिनः।।५९
नेदं छिन्दन्ति शस्त्राणि नेदं दहति पावकः।
न चेदं क्लेदयन्त्यापः कोषागारस्थितं धनम्।।६०
देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा।
तथा कारागृहप्राप्तिर्धीरस्तत्र न मुह्यति।।६१
कोऽर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिकः।
तस्मादपुत्र एवास्मिन् संसारे भूरिभाग्यवान्।।६२
अवस्यम्भाविनो भावा भवन्ति महतामपि।
इन्दिराऽपि ध्रुवं सेहे प्राणहृद्गुलिकाव्यथाम्।।६३
न दैवमिति सञ्चिन्त्य त्यजेदुद्योगमात्मनः।
दृष्टो मंत्रिपदारुढो निर्वाचनखलीकृतः।।६४
उद्योगिनं पुरुषसिंहं लक्ष्मीर्याति ध्रुवं यदि।
भूतले तर्हि लुण्ठाकाः केवल सिंहविक्रमाः।।६५
यता मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति।
तथाऽऽसन्दिकया नेता सर्वमेवोंपपद्यते।।६६
नाद्रव्ये निहिता काचित् क्रिया फलवती भवेत्।
तस्माद् द्रव्यं पुरस्कृत्य विज्ञः कार्याणि साधयेत्।।६७
कीटस्तु सुमनः सङ्गादारोहति सतां शिरः।
सुमनः कीटसंसर्गात् नाल्यां कस्माद्धि क्षिप्यते।।६८
अर्धचन्द्रतिरस्कारं स्वकीयं कोऽपि शंसति।
सर्वनाशे समुत्पन्ने अर्धं त्यजति पण्डितः।।६९
कः शेते ससुखं साधो? भुजयोर्यस्य कामिनी।
को जागर्ति? तयाऽयुक्तो यो विपश्यति तारकाम्।।७०
दीर्घरोगो भवे कोऽस्मिन्? कैंसराख्यो भयावहः।
किन्नामौषधकं तस्य? नास्ति तस्माद् यमायते।।७१
शत्रवः सन्ति के नूनं? तनुजाः स्वार्थतत्पराः।
के च मित्राणि? येषां हि स्वार्थसाम्यं त्वया सह।।७२
को गुरुः? प्रश्नपत्रं यस्तनुते प्राक्परीक्षणात्।
कश्च शिष्यो विना मूल्यं यो वस्तूनि यच्छति।।७३
न जातु कामः कामानामुपभोगेन शाम्यति।
तस्मान्मिष्टां कुण्डलिनीं प्रत्यहं भक्षयाम्यहम्।।७४
या गुरौ पुस्तके विद्या तया मूढः प्रतार्यते।
किमुद्दिश्य न जानेऽहं सूक्तिकारेण भाषितम्।।७५
सम्मानं तु पुरस्कृत्यापमानं चापि पृष्ठतः।
स्वार्थं समुद्धरेत् प्राज्ञः स्वार्थभ्रंशो हि मूर्खता।।७६
न स्वल्पस्य कृते भूरि नाशयेन्मतिमान्नरः।
भक्ष्यं गरलसन्तिक्तं तस्मात्सास्रं मयाऽद्यते।।७७
मनुस्मृतिर्न वेश्याभिः पठिता यत्र घोषितम्।
अक्लेशेन शरीरस्य कुर्वीत धनसञ्चयम्।।७८
गृहे वेदगुरोर्बद्धा वटुभिर्लेखपट्टिका।
नित्यं शास्त्राण्यवेक्षेत निगमांश्चैव वैदिकान्।।७९
शयनस्थो न भुञ्जीत न पाणिस्थं न चासने।
स्मृतिवाक्यमिदं मन्ये न दृष्टं करपात्रिणा।।८०
येनास्य पितरौ यातौ येन याताः पितामहाः।
तेन यायादतो नित्यं द्यूतं मद्यं समाश्रितम्।।८१
पलायितां सुतां श्रुत्वा सभृत्यामाह पण्डितः।
दुहित्रा दासवर्गेण विवादं न समाचरेत्।।८२
एकाकी चिन्त्येन्नित्यं विविक्ते हितमात्मनः।
एवं कृते कलावस्मिन् अहितं साधु चिन्त्यते।।८३
ये नास्तिका निष्क्रियाश्च गुरुशास्त्रातिलंघिनः।
अधर्मज्ञाः कलावस्मिन् ते भवन्ति शतायुषः।।८४
अक्रोधनः सत्यवादी भूतानामविहिंसकः।
अनसूयुर्ध्रुवं नैव बहुवर्षाणि जीवति।।८५
शून्याङ्कमपि संक्रुद्धाः क्वचिद्ददति निर्भयाः।
गुरुणा चैव निर्बन्धो न कर्तव्यः कदाचन।।८६
ज्ञातिसम्बन्धिमित्राणि पूजनीयानि सर्वशः।
इति मत्वैव निखिलं वेतनं तेषु युज्यते।।८७
विषादप्यमृतं ग्राह्यां बालादपि सुभाषितम्।
किं विषं कश्च बालोऽसौ कथमेतन्न भाषितम्।।८८
यत्र नार्यस्तु पूज्यन्ते रमनन्ते तत्र देवताः।
पुरुषा यत्र पूज्यन्ते तत्र किं दैत्यदानवाः।।८९
सत्यं ब्रूयात् प्रियं ब्रुयान्न ब्रूयात् सत्यमप्रियम्।
कठोरनियमाद्भीतः को नु सत्यं समाश्रयेत्।।९०
यथा यथा हि पुरुषः शास्त्रं समधिगच्छति।
सामान्यव्यवहारेषु तथा मौढ्यं निषेवते।।९१
निरर्थं कलहं प्राज्ञो वर्जयेन् मूढसेवितम्।
सार्थकं कलहं कुर्यात् शक्तैः सह यशस्करम्।।९२
अकीर्तिर्विनयं हन्ति हन्त्यनर्थः पराक्रमम्।
हन्ति नित्यं क्षमां क्रोध आचारं हन्त्यलक्षणम्।।९३
स्वबाहुबलमाश्रित्य यो हि जीवति मानवः।
स लोके लभते कीर्तिं यथा चम्बलदस्यवः।।९४
धनानि जीवितञ्चैव परार्थे प्राज्ञ उत्सृजेत्।
तत्किमेवमकुर्वाणा अप्राज्ञाः कविनोदिताः।।९५
जायन्ते च म्रियन्ते च मद्विधाः क्षुद्रजन्तवः।
इति मत्वेव छागः किं शिरश्छेदे न सीदति।।९६
कामधेनुगुणा विद्या ह्यकाले फलदायिनी।
साधु जानन्ति सूक्तार्थ येऽनियुक्ता विपश्चितः।।९७
पुस्तकस्था तु या विद्या सैव सिद्धा परीक्षणे।
कण्ठस्था तु भवेद् व्यर्था प्रश्नपत्रे न टंकिता।।९८
कार्यं प्रारभ्यते नैव नीमचैर्विघ्नभयान्वितैः।
त्वया प्रारभ्यते तस्मान्नीचता तेऽप्रमाणिता।।९९
निर्भूषां विदुषीं कन्यामर्पयन्नाह तत्पिता।
स्थिरं वाग्भूषणं मन्ये क्षीयतेऽखिलभूषणम्।।१००
कृत्वासुभाषितोद्धारं विदुषां परितुष्टये।
मिश्रोऽभिराजराजेन्द्रः परमां प्रीतिमश्नुते।।१०१
पञ्चाशीतितमे वर्षे ख्रीस्ताख्येऽप्रिलमासके।
शती पूर्तिमियं याता श्लोकानां भावगर्भिता।।१०२
।। इत्यभिराजराजेन्द्रविरचितं सुभाषितोद्धारशतकं सम्पूर्णम्।।
चतुर्थीशतकम्
देववाणीसपर्यार्थं येन नीरुगहं कृतः।
तस्मै गोविन्ददेवाय प्रथमं भूरिशो नमः।।१
मन्ये ऋणत्रयादूर्ध्वं खलानामृणगौरवम्।
खलेश्वराय पापाय तस्मात्प्रणतिरर्प्यते।।२
बृहत्कुलं समालोक्य खलानां विकसद्द्रुहाम्।
विश्वरूपाय नीचाय नमोवाकं प्रशास्महे।।३
यन्मुखे संस्कृता वाणी पह्के गौरिव सीदति।
असंस्कृताय मूढाय तस्मै नित्यं नमो नमः।।४
मनोवाक्कर्मभिर्भिन्नो वञ्चनामात्रजीवितः।
तस्मै निसर्गनीचाय वैधेयाय नमो नमः।।५
यस्य भालाम्बरं शुभ्रं कर्तुं नाल्पमपि क्षमः।
विशेषकेन्दुरायासैस्तस्मै च सन्ततं नमः।।६
स्वार्थसार्यक्षलीलायां मन्यते यो बिभीतकम्।
ईश्वरञ्चापि छुद्राय तस्मै हतधिये नमः।।७
सौम्यवेषोऽप्यसौम्यो यः कलृप्तधर्मोऽप्यधार्मिकः।
अन्तर्बाह्यप्रभिन्नाय द्विजिह्वाय नमो नमः।।८
सवर्णेऽपि न दीर्घोऽकः सुद्धयुपास्यो न भूतले।
वृथापाणिनिसंगाय दरिद्राय नमो नमः।।९
मानसम्मानरक्षायै द्वारे द्वारे पतञ्जलिः।
प्रपठच्छबरभाष्याय शबराय नमो नमः।।१०
तर्कभाषामहिम्नाऽपि कुतर्कैरेव भाषते।
तर्काभासाय शप्ताय पण्डिताय नमो नमः।।११
सन्धिप्रकरणं व्यर्थं यस्य रोऽरिर्निरन्तरम्।
दृश्यते नहि कण्ठस्थः सूत्रघ्नाय नमो नमः।।१२
विभक्तिः प्रथमा हन्त नैव सिद्धा परीक्षणे।
पश्चात्तापैकरिक्थाय सन्तप्ताय नमो नमः।।१३
द्वितीया कर्महीनत्वात् फलदा नैव यत्कृते।
तस्मै चित्राद्वितीयाय नमोऽकर्मण्यजीविने।।१४
प्रीता निकारगन्धत्वान्नो तृतीयाऽपि यत्कृते।
तृतीयपुरुषार्थाय सुप्रजाय नमो नमः।।१५
सम्प्रदानविरोधित्वाच्चतुर्थी नैव रोचते।
तस्मै कृपणराजाय भिक्षुकाय नमो नमः।।१६
आत्मजात् सुहृद- शिष्यात्सर्वस्मादेव यद्भयम्।
अपादानविरुद्धाय सत्रस्ताय नमो नमः।।१७
दत्ताऽपि रोचते नाल्पं षष्ठी चानादरे यतः।
क्रियान्वयविहीनाय सम्बन्धाय नमो नमः।।१८
कांक्षितोऽपि स्थिराधारो येनावाप्तुं न शक्यते।
तस्मै ह्यशान्तचित्ताय कम्पिताय नमो नमः।।१९
नाम्ना सम्बोधने जाते मरणं यस्य निश्चितम्।
जीवनमृताय काष्ठाय वैतालाय नमो नमः।।२०
सर्वापहारलोपेषु यस्य चण्डः पराक्रमः।
तस्मै चञ्चत्कृदन्ताय कृतघ्नाय नमो नमः।।२१
ईर्ष्यामर्षे सुहृन्नाशे वञ्चने चाशुभोदये।
शाठ्ये कृतघ्नतायाञ्च सन्नन्ताय नमो नमः।।२२
मिथ्याप्रणयसम्भारे व्यलीके शपथक्रमे।
नेत्रयोः धूलिविक्षेपे यङन्ताय नमो नमः।।२३
सम्पृक्तहृदयदोहे मानभङ्गे मतिक्षये।
अनागतभयोद्रेके णिजन्ताय नमो नमः।।२४
योग्यताया अभावेऽपि रूढस्समसनश्रियम्।
मयूरव्यंसकायास्मै विचित्राय नमो नमः।।२५
द्वन्द्वे जातेऽधिकारार्थं सङ्गतो नैकशेषताम्।
इतरेतरविद्धाय निराशाय नमो नमः।।२६
हलन्तता सुहृद्भूते मित्रभूते च क्लीबता।
सखित्वे च नदीसंज्ञा कान्दिशीकाय ते नमः।।२७
रक्तकण्ठान् स्फुरज्जिह्वान् हन्त हन्तुं समुद्यतः।
द्विजद्रोहनिमग्नाय लुब्धकाय नमो नमः।।२८
मुखदुर्गन्धदुर्वात्यां परीतुं मोघयत्नवान्।
ताम्बूलभृतगल्लाय कुमल्लाय नमो नमः।।२९
जातिभक्तश्छलाश्वस्तो निग्रहस्थानमार्मिकः।
प्रवर्तितवितण्डाय मदान्धाय नमो नमः।।३०
सर्वाभ्युदयनिर्व्यूढे सिद्धपीठे महात्मनाम्।
निस्त्रपं राजमानाय मर्कटाय नमो नमः।।३१
दौरजन्ये स्फारतां याते विद्यापि किं करिष्यति।
मणिभूषाय सर्पाय भयदाय नमो नमः।।३२
विद्वत्परिषदं दृष्ट्वा सत्वरं प्रपलायते।
शास्त्रज्ञानविपन्नाय बालिशाय नमो नमः।।३३
पञ्चषाण्यपि वाक्यानि संस्कृंते वक्तुमक्षमः।
व्यलीकसंस्कृतज्ञाय पौनः पुण्येन मे नमः।।३४
उत्थाय वचनारम्भे नैव शक्तो मनागपि।
कम्पितोभयपादाय निस्सत्त्वाय नमो नमः।।३५
परावर्तत रामोऽपि येन युध्यन् पदत्रयम्।
खराय खररूपाय दूषणाय नमो नमः।।३६
जटाभिस्तापसो जातो रामरामेति सञ्जपन्।
मकरीबन्धुभूताय नमोऽस्तु कालनेमये।।३७
द्यूतं विना न पानीयं जठरे यस्य जीर्यति।
धर्मसूनुविरुद्धाय तस्मै शकुनये नमः।।३८
भाग्यायत्तं कुले जन्मेत्यनिशं श्रावयन्-रुषा।
पौरुषं तनुते स्वीयं यो वै कृष्णारये नमः।।३९
अक्षमो नितरां द्वेषी परोत्कर्षावलोकने।
सुयोधनाय पापाय कलङ्काय नमो नमः।। ४०
पितामहं गुरुं मित्रं बान्धवानपि संगरे।
यो जिधांसति दुर्मेधास्तस्मै कुलभुजे नमः।।४१
राज्याधिकारविच्छिन्नो दृष्टिहीनतयैव यः।
तथापि धृतराष्ट्राय सूनुपाय नमो नमः।।४२
पूतनां क्वचिदुद्युङ्क्ते दुर्विषस्तन्यपायिनीम्।
नन्दसूनुसपत्नाय मातुलाय नमो नमः।।४३
गोविन्दपरमैश्वर्यप्रत्यभिज्ञानदुर्हृदे।
नमश्चाण्डूरमल्लाय धेनुकाय नमो नमः।।४४
विद्यया वाक्पतिश्चापि यो बभूव कदर्थितः।
द्विषद्राजकुमाराय भोजघ्नाय नमो नमः।।४५
साम्प्रतं जातकस्यास्य लिख्यते जन्मपत्रिका।
विनायकाय स्थूलाय तुन्दिलाय नमो नमः।।४६
राहुरस्यास्ति लग्नेशः सत्प्रवृत्तिविनाशकः।
वर्णेन कज्जलाभाय तामसाय नमो नमः।।४७
शुक्रग्रहोऽस्य नीचस्थः सप्तमं साधु पश्यति।
विशालडिम्भसैन्याय सर्जकाय नमो नमः।।४८
वक्रत्वञ्च गुरुर्यातो विद्यास्थानप्रभुर्यतः।
तस्मान्निकृष्टजिह्वाय किंशुकाय नमो नमः।।४९
भाग्याधीशो निशानाथो दृश्यते सूर्यसंगतः।
तस्मात्खण्डितभाग्याय दुर्दशाय नमो नमः।।५०
अङ्गारको ज्वलन्नेत्रः पुत्रस्थानं प्रपश्यति।
तस्माद्दारुणपुत्राय विह्वलाय नमो नमः।।५१
शनैश्चरो धनस्थानं शत्रुदृष्ट्याऽवलोकते।
तस्मान्नित्यदरिद्राय दुर्गताय नमो नमः।।५२
केतोर्नृशंसदृष्टिश्च पतत्यस्य बुधग्रहे।
तस्माद्विद्वद्भिराचार्यैः थूत्कृताय नमो नमः।।५३
लग्नपत्रस्थितो योगो दृश्यते गजकेसरी।
तस्मान्नित्योत्थयुद्धाय विद्रुताय नमो नमः।।५४
भवानिभौमयोगोऽपि योगक्षेमौ प्रबाधते।
स्वयंकृतात्मनाशाय विमूढाय नमो नमः।।५५
जन्मना मेषराशित्वात् कातरोऽयं भविष्यति।
तृणेऽपि चलिते तस्मात् कम्पिताय नमो नमः।।५६
यद्वा तद्वा भवेदायुश्चिरस्थं किन्तु दुर्यशः।
तस्मादकीर्तिदेहाय चिरत्नाय नमो नमः।।५७
ब्रीहितैलगुडादीनि रुचिङ्कुर्वत् एव हि।
तस्मात् त्रिदोषमुक्ताय जातकाय नमो नमः।।५८
राहोर्महादशायाञ्च नूनं गुर्वन्तरे स्थिते।
छलेनास्योन्नतिर्भाव्या अदृष्टाय नमो नमः।।५९
गुरोर्महादशायाञ्च पुनश्चन्द्रान्तरे स्थिते
धौर्त्यमूलोन्नतिर्भाव्या अदृष्टाय नमो नमः।।६०
सर्वसौभाग्ययोगेऽपि ललाटे नास्य वर्तते।
सुखसन्तोषलेशोऽपि निःसुखाय नमो नमः।।६१
सौभाग्यदिवसाश्चापि भविष्यन्ति भयंकराः।
हन्त! लग्नेशराहुत्वात् दुर्ग्रहाय नमो नमः।।६२
लिख्यते साम्प्रतं किञ्चित् जातकानिष्टवारणम्।
हस्तामलकवत्कालप्रेक्षकाय नमो नमः।।६३
प्रमादेनाऽपि गन्तव्यं नोत्तरस्यां यतो हि सा।
काष्ठा प्रचण्डशत्रूणां रक्षिताय नमो नमः।।६४
पूर्वदक्षिणदिग्भागे श्मसानं हृद्गतिघ्नकम्।
स्वस्ति स्वस्ति ततो वच्मि अन्तकाय नमो नमः।।६५
यथेच्छं यातु नैऋत्ये सर्वतोभद्रसंयुते।
तत्रास्ति मंगलं प्राज्यं मंगलाय नमो नमः।।६६
वारुण्यां यक्षिणि सिद्धा विरुद्धो किन्तु भैरवः।
अतस्तुल्यबला दिक्सा विभक्ताय नमो नमः।।६७
चण्डसापत्न्यदुर्योगो वायव्ये परिलक्ष्यते।
अतस्तत्रापि नो सौख्यं गर्हिताय नमो नमः।।६८
ईशाने वासुकिर्नागो बली बज्राङ्ग आग्निके।
दाहभीरुभयत्रापि अक्षताय नमो नमः।।६९
वरं नक्तन्दिवं तिष्ठेत् स्वगृहे एव निर्भयम्।
विडालहतधैर्याय मुषिकाय नमो नमः।।७०
दीयते हितबुद्धयैव विधानं क्षेमयोगयोः।
नमः कल्याणचित्ताय भृगवेऽस्तु नमो नमः।।७१
मथेच्छं महिषीतक्रं लौहकंसे पिवेद्रवौ।
बुद्धिजाड्यविनाशार्थं नीरोगाय नमो नमः।।७२
त्रिकालं कटुतैलञ्च प्रत्यङ्गमनुलेपयेत्।
स्नानवर्जं शनौ भौमे भीमकाय नमो नमः।।७३
भक्षयेदेकमावर्षं नान्यं शाकं हितेच्छया।
उपेक्ष्य प्रतिवेशञ्च गदघ्नाय नमो नमः।।७४
नष्टकांक्षितकामाय वृथास्वप्नानुषंगिने।
आकाशकुसुमायत्तवैभवाय नमो नमः।।७५
स्वार्थजातिबृहल्लौभैः धौर्त्यवञ्चनमण्डितैः।
सपत्नीकृतमित्राय विचित्राय नमो नमः।।७६
पञ्चोनषष्टिवर्षोऽपि पञ्चसप्ततिलक्षितः।
इत्यापणिकघुष्टाय स्थविराय नमो नमः।।७७
नमोऽस्त्वकालवृद्धाय पलिताय नमो नमः।
कुब्जीभवत्कुमध्याय अमेध्याय नमो नमः।।७८
रेवाचुलुकधन्यस्य विरुद्धो हन्त! शंकरः।
यस्य तस्मै कुभाग्याय निर्धनाय नमो नमः।।७९
समक्षं मधुजिह्वाय परोक्षं विषवादिने।
बहुरुपाय क्षुद्राय शैलुषाय नमो नमः।।८०
कृतकस्नेहरक्षार्थं दूरसारितबाहवे।
वस्तुतः स्नेहहीनाय लम्पटाय नमो नमः।।८१
नक्राश्रुविलसन्नेत्रं योगक्षेमानुशंसिने।
विगते चरित्रघ्नाय द्विजिह्वाय नमो नमः।।८२
मृत्युभीतिकरे चण्डे कालकूटरसेऽनिशम्।
ससुखं जीवमानाय दुष्कीटाय नमो नमः।।८३
द्विजीभवितुमायासान् शतधा कुर्वते चिरम्।
द्विजघ्नाय नृशंसाय वधिकाय नमो नमः।।८४
पशुसर्पविहंगादिसर्जकाय स्वरेतसा।
बृहत्कुलाय शान्ताय कश्यपाय नमो नमः।।८५
स्वादने तनुतेऽम्लत्वं वृक्षलग्नञ्च शोभते।
अभक्ष्याय निरर्थाय कपित्थाय नमो नमः।।८६
पिशाचडाकिनीप्रेतवेतालादिप्रसादने।
सादरं युज्यमानाय जपापुष्पाय ते नमः।।८७
कदापि न श्रुतं दृष्टं यस्य पाण्डित्यवैभवम्।
उदुम्बरप्रसूनाय नवीनाय नमो नमः।।८८
निपीय साधुतावृत्तं मनस्येवमचिन्तयम्।
तस्मै शशविषाणाय विश्रुताय नमो नमः।।८९
श्रुत्वा कृतज्ञताभावं सश्रद्धं स्वीकृतम् मया।
अदृष्टव्योमपुष्पाय प्रत्यक्षाय नमो नमः।।९०
बन्धुतावैभवेनापि तस्य विस्मयमेत्य च।
मयोक्तं सत्वरं वन्ध्यानन्दनाय नमो नमः।।९१
खलस्य तस्य व्याकीर्णं निशम्य न्यायविस्तरम्।
मयोक्तं द्राक् प्रशस्याय ऊषराय नमो नमः।।९२
क्षणे क्षणे नवीनत्वं खलत्वं यस्य गच्छति।
खगाधिपाय मान्याय कल्याणाय नमो नमः।।९३
बुद्ध्या प्रकुर्वते कार्यं परप्रत्ययनेयया।
कालिदासाभिवंद्याय विमूढाय नमो नमः।।९४
अकारणं क्वचिद्वामो यो वै क्वचित्तु दक्षिणः।
गोस्वामितुलंसीदासवन्दिताय नमो नमः।।९५
स्वल्पपीडनमात्रेण विरसः खलतामितः।
जगन्नाथनिरस्ताय तिलाय ते नमो नमः।।९६
आत्मनीचतया मह्यं ददते श्रेष्ठवैभवम्।
खलवंशावतंसाय चर्चिंताय नमो नमः।।९७
मे बहूपकृतं तत्र किमुच्येत स्खलद्गिरा।
कुर्वन्नेवं चिरंजीव्याः कर्णीसुत! नमो नमः।।९८
तवोपकारपुण्येन नियुक्तो राष्ट्रशासनैः।
इण्डोनेशियावसुधां गमिष्यामि नमो नमः।।९९
तव सुचरितलीलां को नु वेत्तुं समर्थः
कविजनसमवायस्तेऽधर्मणो विभाति।
द्विदशकमितसंगेनाप्तशक्तिस्तथापि
कतिपयगुणगीतिं तेऽभिराजस्तनोति।।१००
स्वादनागरसेन्द्वब्दे ख्रीस्तीये गुरुवासरे।
मासे नवम्बरे पूर्णं सप्तविंशतिके दिने।।१०१
।। इत्यभिराजराजेन्द्रविरचितं चतुर्थीशतकं समाप्तम्।।
भारतदण्डकम्
जयतु जयतु भारती भारतालङ्कृतिर्देवभाषात्मिका संस्कृता पूतसारस्वतज्ञानगम्भीरतोयाऽऽवनीभूषणा प्रीतिदा मुक्तिदा शक्तिदा भक्तिदा सर्वदात्री सुधासीकरासारसन्दोहधौताखिलस्वान्तिकाऽवन्तिकेवोदयिन्यम्बिकेवोद्गता शाम्भवी वेदविद्याटवी तप्तजाम्बूनदज्ज्योतिषेवाञ्चिता सञ्चितप्रौढवैदुष्यसञ्चारिणी तारिणी दम्भमात्सर्यमोहादिधिक्कारिणी दृप्तवैधेयहृद्वेश्मविद्योतिनी शौख्यमन्दाकिनी मौढ्यसन्तापिनी देववृन्दादृता सर्वलोकार्चिता वेदवेदाङ्गिनी काव्यमुच्छालिनी चण्डषड्दर्शना दिव्यसन्दर्शना नीतिवैशारदी प्रीतिभागीरथी रीतिकादम्बिनी गीतिसल्लम्बिनी रम्यशाकुन्तला व्यञ्जनाकुन्तला माघमेघाञ्चिता बाणरेखाङ्किता संल्लसन्नैषधा प्रस्फुरन्नैकधा हृद्यहृद्याऽनवद्या गुणाढ्यप्रिया तां नतोऽहं नतोऽहं नतोऽहं सदा!!१
जयतु जयतु भारतं भारतीजीवनं पावनं काव्यकेलीवनं पार्थिवं नन्दनं यस्य राराज्यते मानसं मानसं यस्य देदीप्यते शीर्षकाश्मीरकं विन्ध्यवन्मेखला यत्प्रभाचञ्चला चञ्चरीकायते यस्य पादाम्बुजे नीलरत्नाकरोऽसङ्ख्यरत्नाकरो यस्य गाङ्गी कृपा यामुनी सच्छटा नर्मदा नर्मदा मञ्जुगोदावरी यस्य वाङ्गमाधुरी शोणसिन्धुर्दरीदृश्यते प्रस्फुटं यस्य पेपीयते पूततीर्थोदकं यस्य नेनीयते सद्यशः सौरभं यस्य जेगीयतेऽग्रेसरत्वं सदा निम्नगाभिस्समुत्थापितं वैभवं गन्धवाहैस्समाघ्रापितं सौरभं विद्धुरीणैस्समुद्दीपितं लोचनं वृक्षपुञ्जैस्समुद्घोषितं पोषणं चर्चरीभिश्चमत्कारिता यत्कला नाटिकाभिस्समुद्भाविता संस्कृतिर्वल्लकीभिस्समुत्पादिता झङ्कृतिस्तन्नतोऽहं नतोऽहं नतोऽहं सदा!!२
जयतु जयतु भारतं हृद्यहृद्यैश्शुभादर्शपुञ्जैर्युतं विश्वनिर्देशकैश्चारुवृत्तैर्वृतं यत्र मासान्तलभ्धं स्वभक्ष्यं ददौ रन्तिदेवः श्वपाकाय चाण्डालतां निर्भरं श्रीहरिश्चन्द्रदेवो गतः सत्यसंरक्षणायैव हा दुर्गता यत्र भूपश्शिविश्श्येनरूपाय धर्माय मांसं ददौ यत्र तत्याज वंशाधिकारागतं राघवो राज्यभारम्मुदा सत्यधीः यत्र धर्मध्वजो वीरसीरध्वजो यत्र भक्त्यार्चितेशोऽम्बरीषो बभौ यत्र दानी नृगो यत्र मानी रघुर्यत्र यागी सुहोत्रोऽजमीढो गयो यत्र सर्वस्वत्यागी ययातिर्नृपो यत्र तातानुरागी पुरुर्जन्मदादैन्यदुःखार्तिभागी सुपर्णोऽक्षतो यत्र निष्कान्तलोकन्नु शोकायितं नित्यकान्तारमानी नृपालो ह्यजो यत्र वैरोचनिर्वामनायार्पितो यत्र लङ्कापती रावणो दर्पितश्शम्भुभक्त्या स्वशक्त्याऽनिशं गर्वितो यत्र वैन्यो बभूवादिराजाभिधो यस्य नाम्नैव पृथ्वीति सम्बोध्यते द्वीपसप्तावृता व्यायतेयं धरा यत्र शाकुन्तलेयो बभूवाधिपो यस्य पारेसमुद्रं रणन्नूपुरो नित्यमेवाशु बभ्राम जैत्रो रथो यत्प्रतापानलेनैव दीप्ताननं राष्ट्रमेतद् बभूवाञ्चितं भारतं तन्नतोऽहं नतोऽहं नतोऽहं सदा!!३
जयतु जयतु भारतं षड्ऋतूनामदीनं गृहं राजमाने वसन्ते हसन्ती सदा लक्ष्यते वाटिकाऽसौ दधच्छाटिका चम्पकं प्रोषितानां मनः कम्पकं यूथिका रागिणां हृद्व्यथावर्धिका कालिकेवोह्यते मञ्जुशेफालिका कर्णिकारं विकारं तनोत्यौरसं दुर्निवारं करोति स्मरं मल्लिका बन्धुजीवं न बन्धुत्वमालोकते वारिंजं दैन्यमालोक्य सम्मोदते मञ्जुमाकन्दगन्धान्धभृङ्गावली चारुकर्णामृतं बिभ्रती हन्त चित्तभ्रमं निश्शमं टंकते भाति कान्तारशैलप्रपातापगावाटिकाग्रामदेवालयप्राङ्गणाट्टालिकातोरणद्वारहर्म्यावलीपर्णशालालतागुल्मकुञ्जादिभिर्भूषितं बूतलं चित्रमेवाद्भुतं ग्रीष्मकालेऽग्निवर्षांरतो भास्करो दाहयत्येव यत् स्थावरं जङ्गमं नीलमेधाञ्चितं व्योम राराज्यते प्रावृषि क्लेशराशिः समाधीयते वल्लकीमञ्जुनादाश्रिता बिन्दवो वारिदोत्संगमुक्ताः पतन्त्याशुगाः पर्वते भूमितल्पे निपानाम्बुमनि प्रांशुवृक्षे पलाशे स्थले गह्वरे फुल्लतीन्दीवरं कासपुष्पच्छटा सर्वतो लोक्यते वर्धते शैत्यभारं समीरागमे शैशिरे हन्त सोढं न तच्छक्यते किञ्च महेमन्तके मृत्युतुल्यं पुष्पोपरि प्रोन्नते ह्यङ्कुरे विन्दुपातैर्धराताप आकुञ्च्यते वर्धते सौम्यसौराज्यसौख्यं ततोमेधवेलावसानेऽभ्युदीते शशपुषपुष्पोपरिशरत् पुष्करे पल्पल्लवे फुल्ल दृढं निर्धनानां कृते भैरवं दारुणं दन्तसीत्कारकारि क्षुधावर्धकं चक्रवालं ऋतूनामहो तादृशं भूरिदेशान्तरालभ्यमुद्गीयते तन्नतोऽहं नतोऽहं नतोऽहं सदा!!४
जयतु जयतु भारतं पूततीर्थैस्तपः क्षेत्रपुञ्जैर्युतं यत्र कैलाशवासी शिवौ धूर्जटिः यत्र मोक्षप्रदा गङ्गिकायास्तटी यत्र गौरीगुरोः पावने मस्तके राजते गोमुखं मोक्षलाभामुखं यत्र मन्दाकिनी कल्मषध्वंसिनी मञ्जुभागीरथी मूलनिस्यन्दिनी क्षीरशुभ्राऽनघा साऽलकानन्दिनी दक्षिणे भानुकन्या मुकुन्दप्रिया पर्वतादेव निर्गत्य सर्वा इमा राष्ट्रभूमिं समग्रां स्वकीयाम्बुभिस्साधु सिञ्चन्ति नक्तन्दिवं गोमती साऽऽदिगंगा क्वचिच्छारदा स्यन्दिका वारुणी सा च नारायणी गण्डकी चारुचर्मण्वती क्षिप्रका सिन्धुपारादिका वेत्रिका तामसी शोणभद्राभिधाना च सा भीषणा विन्ध्यपादे विशीर्णाऽपगा नर्मदा सा च ताप्ती मयूरी महानिम्नगा तुङ्गभद्राऽथ कृष्णानथ गोदावरी दाक्षिणात्या द्युसिन्धुश्च कावेरिका संस्मराम्यत्र कां कामहं नामभिः प्राणप्राथेयभूतैर्जलैः संयुताः हन्त सर्वाः प्रणम्याः सुवन्द्याश्च मे भाति पूतंतपः क्षेत्रमासां तटे येन मोमुद्यते भारतं भारतं नैव चेखिद्यते नैव मोमुह्यते नैव दन्दह्यते नैव तातप्यते यन्महिम्नैव संवर्धते भारतं क्वापि वाराणसी शूलिशूलस्थिता क्वाप्ययोध्या रधूणां यशोमालिका क्वापि द्वारावती क्वापि सत्पुष्करं क्वापि गोकर्णतीर्थं महद् दुष्करं क्वापि रामेश्वरं क्वापि धुष्मेश्वरं क्वापि तञ्जापुरे वन्द्यबृहदीश्वरं क्वापि चैदम्बरं वायुलिङ्गं महत् श्रीजगन्नाथतीर्थं क्वचित्पावनम् उज्जयिन्यां महाकालकालेश्वरं मैहरे शारदा विन्ध्यके चण्डिका मञ्जुमदुरापुरे सा च मीनाक्षिका भूधरेशेऽर्वुदेऽम्बा जगद्वन्दिता कन्यकाऽसौ कुमारी बृहन्नन्दिताऽराध्यते क्वापि रामो रमावल्लभो वासुदेवः क्वचिद्रुक्मणीशोभितः क्वापि शक्तश्शिवः क्वापि वा मारुतिः क्वापि वैतालकः क्वापि वा यक्षिणी नैव गव्यूतिमात्रं नु तद्भारतं यत्र नो विद्यते मन्दिरं पावनं तीर्थभूताऽथवा रत्नगर्भाऽमला तीर्थदेवालयैरञ्चितं तादृशं पूतपूतं प्रभूतं पवित्रं गृहं तन्नतोऽहं नतोऽहं नतोऽहं सदा!!५
जयतु जयतु भारतं भिन्नभाषामयं भिन्नसद्वाङ्मयं राजते यत्र हिन्दी मराठी शुभा सैन्धवी डोंगरी चारुकाश्मीरिका मैथिली बाँगलाऽऽसामिया गुर्जरी मारवी चोत्कली तामिली केरली कन्नड़ी तेलुगुर्दैविकं संस्कृतं संस्कृते राजते यत्र काव्यामृतं वैदिकं लौकिकं सर्वथा नूतनं वैदिके वाङ्मये वेदवेदाङ्गिनी वाङ्मयी सर्जना तत्त्वसन्दर्शिनी लौकिके चापि पौराणिकं वाङ्मयं व्याससृष्टं महाभारतं पावनं रम्यरामायणं क्रोञ्चशोकोत्थितं कालिदासीयकाव्यामृतं सम्मतं चारुवैदर्भवाणीलसन्नैषधं ज्ञानविज्ञानविद्यावतामौषधं यत्र पाञ्चालिकाजित्वरी भ्रामरी बाणभट्टप्रणीताऽथ कादम्बरी यत्र दण्डी सुबन्धुर्गुणाढ्योऽनधः सोड्ढलस्सोंमदेवो बुधस्वामिको वेमभूपालको व्यासदासोऽथवा मञ्जरीवेणिको यत्र भासोऽथवा कालिदासस्सुधीः शूद्रको हर्षदेवो विशाखप्रधीः नीलकण्ठो भवस्यैकभूतिर्वरो भट्टनारायणः कल्चुरीशेखरो हस्तिमल्लोऽथ पीयूषवर्षः कृती विश्वनाथो महापात्रसंज्ञाव्रती सर्व एते बभूवुस्समेषां प्रिया नाट्यकारा यशोवन्दिता राष्ट्रिया भारविर्यत्र माघोऽभिनन्दोऽक्षतो भर्तृमेण्ठः कुमारोऽथ रत्नाकरो विल्हणः पद्मगुप्तोऽथ धारेश्वरः वाक्पतिर्मुञ्जराजोऽथ पद्मेश्वरः धन्यधन्यैव वृन्दारकाणां गवी धन्यधान्या सुधास्यन्दिकाव्याटवी धन्यधन्यं समग्रं लसद्वाङ्मयं राष्ट्रभाषामयं राज्यभाषामयं देवभाषामयं ब्रह्मभाषामयं काव्यभाषामयं शास्त्रभाषामयं रीतिभाषामयं नीतिभाषामयं नेत्रभाषामयं काकुभाषामयम् इङ्गिताकारचेष्टाविभाषामयं वाच्यलक्ष्याश्रितं व्यञ्जनासम्मितं तन्नतोऽहं नतोऽहं नतोऽहं सदा!!६
जयतु जयतु भारतं लोकतंत्रात्मकं पूतमंत्रात्मकं सर्वधर्मात्मकं सौम्यकर्मात्मकं विश्वबन्धुत्वभावे रतं सन्ततं दीनहीनोदये दत्तचित्तव्रतं युद्धविद्वेषमात्सर्यमुक्तं सदा द्रोहविद्रोहकातर्यमुक्तं सदा सर्वतंत्रस्वतंत्रं वृहद्भारतं संघवादानपेक्षं नवं भारतं विश्वशान्तिप्रयाणस्थितं भारतं स्वावलम्बि स्वभूमौ स्थितं भारतं सर्वतोभाविभद्रेच्छुकं भारतं स्वीयसिमान्तरक्षेच्छुकं भारतं मित्रमैत्रीग्रहे भिक्षुकं भारतं शत्रुसम्मर्दने शिक्षकं भारतं कर्मयोगस्थितं नूतनं भारतं ज्ञानयोगस्थितं नूतनं भारतं भक्तियोगस्थितं नूतनं भारतं न्य़ायपक्षस्थितं नूतनं भारतं नैव लालाटिकं नूतनं भारतं दुर्गणोत्सारणे यत्नवद्भारतं कीर्तिविस्तारणे यत्नवद्भारतं बन्धुतावर्धने यत्नवद्भारतं शत्रुतोन्मूलने यत्नवद्भारतं स्नेहसञ्चारणे यत्नवद्भारतं व्याधिसंहारणे यत्नवद्भारतं तन्नतोनहं नतोऽहं नतोऽहं सदा!!७
जयति जयति शारदा शारदाम्भोजफुल्लानना सौम्यहंसासना चारुसन्दर्शना यत्पदाम्भोजमाध्वीरयोन्मादितो गायति प्रायशो गीतजातं कविं यत्कृपाभावितोऽसौनिकामं रविःपूतसारस्वतज्ञानदीक्षारतस्तादृशः कोऽपि सम्प्रत्ययं भारतं राष्ट्ररत्नं स्वकीयं नवं भारतं स्तैति वाचानधं विश्वनिर्देशकं सोऽयमस्ति त्रिवेणीत्रिवेणीकविर्मिश्रवंशावतंसोऽभिराजाभिधो विश्वविद्यालये तीर्थराजस्थिते देववाणीविभागे सुविद्यागमे रीडराख्ये पदे साधु संयोजितोऽसौ नु राजेन्द्रमिश्रः समेषां प्रियः योहि षोढा पुरस्कारितश्शासनैर्बालिद्वीपे नियुक्तोऽधुना शासनैर्यो हि हिन्दायामथो भोजपुर्यामपि त्रैदशे संस्कृते चापि चक्रेऽमितं नाटकं गीतकं काव्यजातं सुधीः सोऽभिराजीसुतस्सद्य एवाद्भुतं यत्कृपालोकनैः काव्यमेतत्कृतं तां दधत्कच्छपीं संस्कृतां भारतीं सन्नतोऽहं नतोऽहं नतोऽहं सदा!!८
।। इत्यभिराजीसूनुना कविनाऽभिराजराजेन्द्रमिश्रेण विरचितं भारतदण्डकं समाप्तम्।।
सम्बोधनशतकम्
मृकारयोगेन मृताऽसि नूनं
दुकारयोगेन च दूषितान्ता।
प्रवीणलूताऽसि लकारयोगात्
त्वन्नामसूत्रं मृदुले! स्फुटम्मे।।१
त्वत्तोऽस्ति लोकस्य परा प्रसूति-
स्ततोऽभिनन्दामि सुविग्रहन्ते।
प्रसूतलक्ष्म्याश्रयपद्मषण्डे!
पुरन्ध्रि! ते मूर्च्छति पङ्कतैव।।२
न रोदिति क्रोशति नापि वक्षः
सन्ताड्य भूमौ लुठति प्रकामम्।
कीदृक्कुपात्रं विधिनोपनीते-
त्यलं नु सन्तप्य वृथा व्यथे! मे।।३
धिग्जागरं सर्वविपत्तिमूलं
प्रकाशलेखामपि धिङ्नितान्तरम्।
चिरं विवर्धस्व समग्रदुःख-
प्रहाणशक्ते क्षणदे! त्वमेव।।४
न सोदराणां सुहृदां न चापि
भाग्योदयानां विदधे प्रतीक्षाम्।
निरस्तवार्धक्यशरीरदुर्गं
मृत्यो! भवन्तं नितरां प्रतीक्षे।।५
पराजितं छिन्नमनोरथद्रुं
दुरन्तसन्तापहतं निगीर्णम्।
सञ्जीवयन्नात्मरूचिप्रमाणं
हृत्स्पन्दन! त्वं क्षमसे प्रभुत्वात्।।६
वहज्जला बुद्बुदफेनरम्या
निरन्तरं साधु पुरस्सरन्ती।
ममापगे! जीवितवल्लकीनां
निक्वाणलीलां सफलीकरोपि।।७
कियत्य एवाययुरन्धवात्याः
घनागमाश्चापि सवज्रपाताः।
अनाहतस्तिष्ठसि साट्टहासो
यद्भूधर! प्राञ्जलिरानतोनस्मि।।८
वृथैव दूनं हृदयं विधत्से
यदाम्रमाध्वीं न गतोऽसि निम्ब!
कथं कटुत्वं नहि शंससि त्वं
दण्डप्रहारैरवितोऽसि येन।।९
शरीरवैषम्यमहो वृथा ते
वृथा च ते साधु बिलेशयत्वम्।
वुभुक्षिताः कर्कट! यत्नसिद्धाः
यत्पामरास्त्वामपि भक्षयन्ति।।१०
उत्थाप्य सम्भूष्य निपात्य हत्वा
पुनश्च सञ्जीव्य करोति नव्यम्।
यमन्मानव पुत्तलिकाप्रमाणं
तस्मै नमोऽदृष्टपदाय नित्यम्।।११
व्यर्थं गतं शास्त्रकवित्वगीतं
वाक्पाटवञ्चापि निरन्तरालम्।
प्रवञ्चनैर्यत्र जितं निकामं
विलोकितं तत्र मया नु दैवम्।।१२
गुरोरपि त्वं सुमहान् हितैषी
कुदृष्टिसंशोधनरीतिदक्षः!
यदन्धतां चारुदृशोरपोह्य
सदोपनेत्र! प्रतनोषि दृष्टिम्।।१३
गतागतैश्चारुबलाहकानां
प्रनर्तनैश्चापि क्षणप्रभानाम्।
पुराङ्गनादृष्टिसुखं वितन्वन्
घनागम! त्वं रसिको विभासि।।१४
मनोजकीटाञ्चित्पौरवीथीं
विमुच्य हर्म्याणि च कामिनीनाम्।
प्रयाहि रे वारिद! मालभूमिं
लवोऽपि ते यत्र सुवर्णमेव।।१५
पुरेषु ते पङ्कभयोत्थनिन्दा
प्रवर्तते तद् वितथः श्रमस्ते।
प्रहर्षमत्तार्भककेलिकाम्य!
पयोद! किं ग्रामटिकां न यासि??१६
तत्रैवभुक्तं भ्रमितं निपीतं
सुप्तञ्च यत्रैव मनोऽभिरेमे।
समादधद्भूर्यकुतोभयत्वं
त्वमेव धन्योऽसि विहङ्ग! लोके।।१७
महीतले त्वं यदि नाभविष्यः
निवेदयेत् को नु वसन्तगीतम्।
वर्णाधमोऽपि सगुणोत्तमत्वं
प्रकाशयन् कोकिल! राजसे त्वम्।।१८
कटुं कषायं मधुरं नु तिक्तं
अम्लादिकं स्वादचयं पिवन्ती।
गुणेन केनामृतमातनोषि
रहस्यमेतन्मधुमक्षिके! किम्।।१९
संभक्षिता धेनुचयैर्निकामं
पदातिभिः पद्दलिता विशीर्णा।
निकृत्तशीर्षाऽपि प्रवर्धते यद्
दूर्वे! त्वमेवासि विनीतियोग्या।।२०
हसामि गायामि लिखामि नित्यं
चलामि तिष्ठामि भजामि चैवम्।
अलं विकत्थ्याऽखिलमुद्वहामि
त्वत्प्रेरितोऽहं पिशुनोपकारिन्!!२१
क्वचिद् वसन्तेन पिकोद्गमेन
क्वचिन्निदाघेन शरत्क्रमेण।
क्वचिच्च वर्षाभिरियं धरित्री
व्यनक्ति कालक्रमणं जनानाम्!!२२
चलसि तिष्ठसि माद्यसि बुध्यसि
प्रयतसे तनुषे गगनायसे।
भवसि किन्न वयस्य! विलक्षणं
प्रणय! गूढगतिर्भवदायतिः।।२३
फलेन मूलेन सुमेन छायया
विशुष्कदेहेन च सर्वतोमुखम्।
महोपकारं जगतां समादधत्
त्वमेव शाखिन्! तनुते कृतार्थताम्!!२४
न चेद्धरित्र्यामभवस्त्वमेकः
न्यग्रोध सच्छाय सतां शरण्य!
कोद्वेषसंघर्षमये भवेऽस्मिन्
समाश्रयः स्यान्नु विहंगमानाम्।।२५
शमीतरो! त्वां प्रणमामि नित्यं
महर्षिचर्य परिपूतदेहम्।
समाश्रितो यत्परिपासि पान्थान्
कदर्थितो दाहयसि प्रकामम्।।२६
वसन्ति रात्रौ ससुखं कुलाये
प्रियाद्वितीया जनयन्ति शावान्।
बकाः कृतघ्नाः स्वपुरीषपुञ्जैः
दहन्तियत्त्वां बट! तेन दूये।।२७
उपैति कष्टं विगलय्य देहं
ततोऽङ्कुरं बीजमिह प्रसूते।
पुनः पुनर्बीजगतिं प्रपद्य
स्वार्थान्धलोकं ननु शिक्षतेऽलम्।।२८
उपच्छन्दयत्येणवृन्दं वदार्थं
यथा लुब्धको वेणुनादैर्नितान्तम्।
तथा मानवान् मूढबुद्धीन् मुमूर्षून्
अलम्मोहयस्यद्य विज्ञान! नित्यम्!!२९
विशाले धराचत्वरे हन्त शेकु –
र्न ये स्नेहसौजन्यभावैर्विहर्तुम्।
अहो रावणास्ते विरोढुं यतन्ते
विधुम्मङ्गलं शुक्रमात्माभिमानैः।।३०
यदारभ्य गेहे स्थिराऽभूत्स्फुरन्ती
स्वसा दामिनी ज्योतिषां सारयित्री।
ततश्चैव कीनाशवाहोपकण्ठ –
स्फुरद्घण्टिकाराव आकर्ण्यते मे।।३१
अलं रोदनैर्मृत्तिकादीप! लोका
यदि त्वामुपेक्ष्याश्रयन्ते क्षणाभाम्।
हताः स्नेहसंवर्धितज्योतिषा ते
अकालान्धतापापभारं वहन्ति।।३२
गृहस्वामिसन्देयभक्ष्यप्रतीक्षा
न ते नैव चिन्ता हलाकर्षणानाम्।
अयत्नाप्तहर्म्याङ्गनाभोगसौख्यम्
वहंश्चत्वरोक्षन्! कृतार्थस्त्वमेकः।।३३
मलं भक्षयित्वा गृहद्वारभूमिं
नयन्निर्मलत्वं वराहश्चकास्ति।
तमप्याशु ये स्वोदरे स्थापयन्ति
धरामण्डले धन्यधन्यास्त एव।।३४
यदुत्कोचवृत्या भृसं पलितोऽसि
स्वपित्रा कुलानन्दनप्रख्यपुत्र!
मयालोकितं तत्फलं यत्त्वमेवं
छविल्लापणेऽत्सि क्वथत्कुक्कुटाण्डम्।।३५
यया भाति ते भूरिवन्ध्यैव सन्ध्या
स्फुरन्मन्दिरञ्चापि भग्नावशिष्टम्।
अहं नौमि ते तादृशी नव्यदृष्टिं
वुधम्मन्य सम्मान्य! मद्भाग्यसूत्र!!३६
यतो जायतेऽस्याः पुनः पुत्ररीत्या
ततश्चेयमाख्यायते हन्त जाया।
यदीयन्नु सत्यं ततोऽवैमि नूनं
त्वया काश्यतेऽक्षुण्णमौढ्यं मदीयम्।।३७
सदा भिक्षसे शिक्षकीभूय वत्स!
सदा मोदसे तक्षकीभूय भूमौ।
अतो वच्मि सस्नेहमात्मानुभूत्या
भज क्रीकटे दक्षतां लक्षसिद्धयै।।३८
त्वमेवासि वाग्मी त्वमेंवासि मानन्यः
त्वमेवासि छायाङ्कने दर्शनीयः।
न को मर्षणीयो दुरन्तोऽपराधः
भजक्रीकटे दक्षतां सौम्यवत्स!!३९
यदि ज्ञानविद्यागमेऽप्युच्चमानं
त्वमाप्नोषि जानाति कस्ते प्रकर्षम्।
जयी क्रीकटे किन्तु वर्धापितोऽसि
स्वयं राष्ट्रमुख्यैरतः किं परं स्यात्।।४०
तव भक्तजना विलसन्ति न किं
शतशो भुवि दिक्षु विदिक्षु सुखम्।
निकृतासि तथापि यदि स्वगृहे
सुरभारति! तन्नु सहेऽथ कथम्।।४१
जगतां शिवमङ्गलसत्ययुतं
ननु संस्कृतिमूलमसि प्रथितम्!
सुरवाणि! तथापि खलीक्रियसे
हतहालिकहस्तगहीरमिव।।४२
अयि संस्कृत! मा स्म गमो जडतां
ननु जीवसि पूतसुतैरनिशम्।
पठितं लिखितं नितरामवितं
परिलक्ष्यस एव समग्रभुवि।।४३
भुवि रामकथा प्रथते सरसा
कुरुपाण्डववृत्तमपि प्रथितम्।
ननु यावदिहास्ति दिवस्तटिनी
सुरवाणि! न संकटमेषि चिरम्।।४४
अभिराजसनातनकान्तरथ –
प्रमुखेषु सुतेषु दिवानिशकम्।
कवयत्सु न ते गरिमा महिमा
क्षयमेष्यति वाणि! चिरं द्युसदाम्।।४५
गतोर्वशी हन्त! पुरुरवा गतः
गतं प्रतिष्ठानपुरञ्च धूलिषु।
प्रयाग! सन्दृष्टगतागतक्षण!
विराजसेऽद्यापि सुगाङ्गनायक!!४६
तपांसि तप्तानि विरञ्चिना त्वयि
वटोऽक्षयश्चापि तवाङ्गणे स्थितः।
अभूत्तव प्राघुणिको रघूत्तमः
प्रयाग! धन्योऽसि धरैकमण्डन!!४७
न वाणिजे नाध्ययने गतिस्ते
कलासु नोद्योगचये रुचिर्वा।
अलं नु सन्तप्य तथापि वत्स!
यतस्व ते राजनयेऽस्ति सर्वम्।।४८
यदि विमानसुखेऽस्ति कुतूहलं
यदि च शासितुमिच्छति भूतलम्।
ऋजुपथं प्रविहाय समाचर
त्वमपि राजनयं प्रियवत्सक!!४९
नानाविपत्तिनिचयेषु धुरीणधैर्यं
मह्यं प्रदाय विदधे ननु योपकारम्।
तां त्वां मदीयसुमतिं शिरसा नतेन
शान्तां विवेकमहिता प्रणमामि नित्यम्।।५०
दावानले ज्वलति वैरिकृताभियाने
आषाढवारिधरवर्षणमातनोषि।
द्वेषान्धकारगहने तनुषे विधुत्व
प्रज्ञे! त्वमेव जननीव सदैव पासि।।५१
एवंगुणैव भवती यदि नाभविश्यः
मद्देहवासिनि! मतेऽवितथं ब्रवीमि।
सापत्न्यरोषछलवञ्चनसम्परीतः
नित्यार्दितो भवभिया निहतोऽभविष्यम्।।५२
न चित्रकारो न कविर्न विद्वान्
न चापि कारुर्धटयेत्सयत्नम्।
तदद्भुतं कोमलतन्तुचित्रं
तनोषि यत्त्वं स्फुटमेव लूते!!५३
क्वचित् त्रिकोणं ह्यथ पञ्चकोणं
क्वचिच्च षट्कोणमधः प्रसारि।
प्रसारयन्ती वदनेन चित्रं
मनांसि लूते! हरसि प्रकामम्।।५४
कुतः समायाति नु तन्तुजालम्
अनन्तविस्तारमिदं न जाने?
समग्रसृष्टिप्रतिरूपकल्पे!
तव क्षमत्वं विशदं तथापि।।५५
पुच्छान्तसञ्चितहलाहलविन्दुकिञ्चित्-
स्पर्शेण हन्त! मनुजान् विकलीकरोषि।
रे वृश्चिकाधम! कृतं सुकृतं विधात्रा
त्वां कुर्वता वदनदुर्विषदंशशून्यम्।।५६
एतादृसं दुरभिमानभरं गरस्य
कस्मात् पिपीलकमितस्य मुधा विभर्षि?
यत्त्वं जयध्वंजनिभं गरलाक्तपुच्छम्
उत्थाप्य वृश्चिक! गतागतमातनोषि।।५७
भविष्यसि त्वं स्वकुलावतंसः
प्रशंसनीयोऽपि च रक्तकण्ठः।
तथापि का ते तुलना मया वा
अहोऽधमर्णस्य पिकस्य लोके।।५८
ममैव रूपं च तनुप्रमाणं
ममाकृतिं वर्णमपि प्रकामम्।
आदाय वृद्धिं गमितो मयैव
स्वरैस्तथापि प्रहरस्यनल्पम्।।५९
वियोगिनीनां भवनाङ्गणेषु
काकेति वाचा जनयन् प्रहर्षम्।
भुनज्मि भक्तान्यहमेव न त्वं
लोकेऽस्ति पूजा पिक! मेऽधुनापि।।६०
वृक्षा इयन्तः परितो वनानि
पदे-पदे कोटरभूगवाक्षाः।
तथापि युद्धं क्रियते मुधैव
भोः पक्षिणः! रात्रिसमापनार्थम्।।६१
पक्षैर्युताश्चापि न यान्ति मूढाः
समृद्धभूभागमिमे विहङ्गाः।
तत्रैव जाताः क्षुधया म्रियन्ते
प्रमोहबन्धो जटिलः समेषाम्।।६२
जननि! लौहपथगामिनि मातः
भुवने तव विग्रहोऽवदातः।
तव कृपयैव दरिद्रो धनिकः
सृतिवैक्लव्यान्नूनं त्रातः।।६३
उत्सङ्गे तब मातर्निभृतं
स्वपितिसुखं जननिवहोऽविरतम्।
त्वं धावसि तिष्ठन्ति च पथिकाः
समास्त्वत्कृते दीना धनिकाः।।६४
क्व साम्प्रतं ते तरुणीमुखोपमा
क्व चामृताम्भोधिसमुत्थगौरवम्?
अयेऽन्तरिक्षाध्वगपादधर्षित!
विधो! तवाधः सुषमा गताऽखिला।।६५
शशो न चैणो न नभोऽवभासनं
न चापि गोविन्दशरीरधर्मिता।
अये हिमांशो! स्फुटितन्नु भाण्डकं
कलंकलेखा तव पार्वती शिला।।६६
दलानि नष्टानि वयोविपाकात्
शाखावियोगोऽपि चिरं विसोढः।
तथापि किं तेन यदद्य पुष्प!
प्रगीयतेऽनेहसि ते सुगन्धः।।६७
विनाशमेत्यापि यशः प्रकर्षं
नित्यं समाप्नोषि कथाप्रसंगैः।
त्वमेव सञ्जीवसि भूमितल्पे
प्रसून! नान्ये गृहकायलीनाः।।६८
निशीथकाले जगतां प्रवाहे
दृढं निरुद्धेऽपि निरुद्धकण्ठः।
प्रियं विचिन्वन् कमिह प्रमुग्धं
विलासिनां विप्रियमातनोषि।।६९
निरन्तरं पीहु पिहु प्रकामं
उच्चै रटन् चातक! यद् विभासि।
स्यात्तेन सिद्धिस्तव काप्याभीष्टा
न वाऽथवा किन्तु परं व्रतन्ते।।७०
रामोऽपि सम्प्राप विलीनसीतां
दमस्वसा चापि नलं ववार।
क्व ते प्रिया गूढतरं निलीना
शृणोति नो चातक! रोदनन्ते।।७१
जननी जनको न सुता न सुतः
गृहिणी न सखा न च बन्धुजनः।
न गुरुर्न च शिष्य इह प्रथिताम्
अयि रूप्यक! ते समतां भजते।।७२
उपलब्धिरहो तव किन्न पदं
विभवं सुयशः प्रददाति सुखम्।
शशिशोभनरूप! सुभूप! भवे
प्रभवत्यनिशं तव चारुवपुः।।७३
तनुल ता सुमनोदलकोमला
सततमृत्युविभीषिकया हता।
तदपि दारुणदारुनिकृन्तने
अयि मधुव्रत! ते क्षमता परा।।७४
त्वमसि कृष्णसखा चरितानुगः
ननु पराशरजोदितवन्दितः।
सदयगोपवधूजनलालित!
भ्रमर! कस्तव साम्यमुपायते!!७५
कुसुमसौरभदीप्तलसत्तटे
पृथुपलाशविभासितसैकते!
विततविन्ध्यमहिधरजीविते
त्वमिह दीप्यसि मेकलकन्यके!!७६
सुभगहैहयवंशयशोध्वजे
व्रततपोमखपावितकूलके!
चिरकुमारि! कपालिपदानुगे
त्वमिह दीप्यसि रागिणि! नर्मदे!!७७
विधिवदनाम्बुजहंसि! सरस्वति!
देहि कवनमभिरामम्।
मधु रसनायां हृदि शुभभावं
चिरमाधेहि ललामम्!!७८
व्यासाम्बुधिजृम्भणविधुलेखे
दीपय जीवनगेहम्।
राधामाधवचरणकमलयुग –
मधुना सज्जयदेहम्।।७९
गतबति दिवमङ्गे विद्धुरीणे फिरोजे
कठिनहृदयशोकं भूरिवेगं नियम्य।
पुनरपि पितृशोकं वैरिणां दुर्विरोधं
प्रियतनयवियोगं भालयन्ती स्थितासीः।।८०
युगनयनविताने सौम्यसिन्धुर्दयायाः
हृदि भरतजनानां भूरिकल्याणभावः।
नवयुगरचनायाः प्रौढशक्तिश्च पाणौ
विलसति ननु राष्ट्रे नव्यझाँसीश्वरी त्वम्।।८१
नारायणपदपङ्कजजनिता
ब्रह्मकमण्डलुजाता।
विधुशेखरकलकुन्तलमुषिता
नृपतिभगीरथमाता।।८२
भूरितिरस्कृतशापिततापित –
मनुजानां त्वं पात्री!
अयुतनियुतजननार्जितपुण्यै –
र्भवसि समेषां धात्री!!८३
स्मारं स्मारं तव महिमानं
दुरितेभ्यो न बिभेमि।
त्वां प्रणमामि जपामि सुरेश्वरि!
सततं त्वामहमेमि।।८४
तव जलराशौ लहरिविचलितो
मृतकः कदा भवेयम्।
भूत्वा नीलबलाहकविन्दुः
सलिले कदा पतेयम्??८५
कटाक्षलीलादिरहस्यवेदिनो
यदद्य जाताः शिशवो गृहे-गृहे!
तवैव सा क्षेमकरी कृपालुता
वयं नताः स्मो ननु दूरदर्शन!!८६
कथासु सम्भोगसुखं निशाभवं
प्रयाचतेऽशङ्कमना यथा युवा।
तथैव सम्प्राप्तदिशोऽधुना जनाः
समाचरिष्य़न्ति निजेऽपि जीवने।।८७
कृषिः प्रमोदश्चलचित्रमङ्गलं
रहस्यभेदोऽथ रहस्य़गोपनम्।
न किं समाकांक्षितमस्ति वेश्मनि
त्वदाशिषा सम्प्रति दूरदर्शन!!८८
त्वमेव दुःखेषु तनोषि सौहृदं
प्रतन्य दृष्टान्तचयं पुरातनम्।
तवोपकारस्य न कापि निष्कृतिः
विलोक्यते ग्रन्थ! मयाद्य भूतले।।८९
न कस्य रोगस्य निदानमस्ति ते
न कस्य सन्देहलवस्य चोत्तरम्?
गुरुः पिता बन्धुजनः प्रसूः स्वसा
वपुष्मतां ग्रन्थ! न कोऽसि जीवने।।९०
निमज्जिते त्वय्यथ का जगद्गतिः
क्वभूतलं क्वापि शचीन्द्रनन्दनम्?
महर्षिराजर्षिचरित्रमण्डित!
त्वमेव भो ग्रन्थ! भवे विवर्धसे।।९१
प्रसार्य बाहू तरसा समोदं
कुटुम्बिनो नन्दसि सौम्यरीत्या।
इयं प्रथा ते नितरां यशस्विनी
कपाट! मे रोचत एव नित्यम्।।९२
भवेन्नु कक्षेऽमितरत्नकोषः
मृल्लोष्टकं वा तृणधान्यकं वा।
किन्तेन तेनस्वार्थपरस्य हन्त
कपाट! बन्धो!! भुवि साक्षिभूत!!९३
माता ते करुणा पिता परिभवो दुर्बुद्धिरेका सखी
ग्लानिस्ते भगिनी विषादतपने ख्यातावुभौ सोदरौ।
दारिद्रयं तव वंशनाम रुचिरं कैर्न श्रुतं सम्मतं
याच्ञे! त्वामधिकृत्य किं किमपरं लोकान्वयं ब्रूमहे।।९४
साफल्यद्रुमव्रजदारुघटितौ चञ्चत्कपाटौ दृढौ
उत्कीर्णा जयजीवशब्द निचयैर्यत्राकृतिः प्रोज्ज्वला।
रक्षाकर्ममि योजिते सुतनुके वृद्धिः समृद्धिश्च ते
भाग्ग्यद्वार! प्रवेशमेष्यति कृती कोऽत्रेत्यहं लोकये।।९५
शुचं मा गाः स्तोकं सततमभिराजीतनय हे
किमाश्चर्यं धत्से स्वजनकृतपापं यदि कलौ।
न किं भोजं मुञ्जोऽकरुणहृदयो हन्तुमुदितः
न किं मालाकारः स्वयमपि कृतं कृन्तति सुमम्?९६
यथा यातं यातं नियतिनियतं जीवनदिनं
तदालोच्य प्राप्यं भवति किमहो मे रुचिकरम्?
न जाने यात्रेयं कियदवधिका दैवघटिता
कुतश्च प्रारब्धा तदिह शरणम्मे भगवती।।९७
समुत्था ये भावा हृदयजलधेर्मन्थनवशात्
सुधासारा यद्वा जरठगरलोद्रेकविभवाः।
मया कदाचित्कास्तरलकविताविग्रहधराः
निब्ध्यन्ते तेऽत्र प्रबरपरितोषाय शनकैः।।९८
क्वचिन्नु सम्बोध्य परोक्षरीत्या
प्रत्यक्षमेवाथ जडाजडौ द्वौ।
निजानुभूतिं सहजं व्यनक्ति
राजेन्द्रमिश्रः प्रथितोऽभिराजः।।९९
मार्चमासदिने षष्ठे सप्ताशीतिमितेऽब्दके।
सम्बोधनशती सेयं सायं सम्पूर्यते मया।।१००
।। इतिश्रीमदभिराजराजेन्द्रविरचितं सम्बोधनशतकं परिसमाप्तम्।।