विरोधाभासः
अहं स्वतन्त्रो नास्मि
नापि स्वतन्त्रो भवितुमीहे
स्वातन्त्र्यं मत्कृते वर्तते
बुद्ध्यारब्धो हेत्वाभासः।
अहं यो स्मि सो स्मि
न खलु स्वतन्त्र इति हेतोः तथाहमस्मि
रूपान्तरितोस्मि
दासीकृतो स्मि
परिस्थितिभिः।
स्वतन्त्रता वर्तते
सापेक्षः शब्दः
स सामर्थ्यं श्रयति
आर्थिकीं शक्तिमपि श्रयति
श्रयति मानवीयं च विवेकम्
न जात्वहं कामये
पूर्वपरिभाषितां स्वतन्त्रतां
वास्तिविकी स्वतन्त्रता
लभ्यते
मनुष्यभावेन ।
स्वर्गस्य अङ्के
अहमेतस्मिन् जगति जनिमलभम्
मातुरङ्क एव मत्कृते आसीत् परमं वैभवम्,
निश्चिन्तो हम्,
तत्र स्तन्यधन्योहं
वात्सल्येनाप्लावितः।
मदीयौ चरणौ
द्रुतं प्रसारितौ
अनिच्छया जागरितोहं
स्वर्गीया दिवसाः,
स्वर्गीया रात्रयः
यान्ति स्म,
कौतुकेन निर्वर्णयामि स्म अहम्।
सुकुमारत्वचः
कुशलः स्पर्शः
सस्नेहं मां परिष्वजते स्म,
आवृणुते स्म मम करौ
धारयते स्म
मत्कृते दीयमानानुपहारान्
यदा अहं गण्डूषरवमकार्षम्,
परिचितानि वदनानि
सप्रणयं पश्यन्ति
अहं चुम्बितः प्रत्यङ्गं –
करयोरपि चरणयोरपि
उपांशुजापं सम्बोधितः
कूहूकारम् आलपितः
अथ अहं नादांश्च वर्णांश्च परिचिनोमि स्म
परिचितध्वनिभिर्मोदे स्म,
मातरि च पितरि च
विश्रान्तो मे संसारः
इति विश्वसिमि स्म
सर्वाणि परीक्षणानि
मया परीक्षामदत्त्वैव उत्तीर्णानि
न केनापि कदाचिदुच्चारितो मत्कृते नकारः
अथ एकदाहमजानाम् –
एतत् सर्वमासीत् कल्पनाविजृम्भितम्।
तदा उचितानुचितविवेको
मयाधिगन्तव्यो भूत्, तदाहं नास्मि स्वतन्त्र इत्यजानाम्,
ये पदार्था मया स्वत्वेनाकलिताः
ते न सन्ति मदीया इत्यन्वभूवम्।
अस्मासु ये केचन
सर्वं भद्रं जानन्ति,
तेषां कृते सम्पत्तेः प्रतिमानानि सन्ति
परन्तु सम्पदां सम्भारो न तुलामर्हति
प्रेम्णः स्वर्गीयेनाङ्केन।
सिंही
रुषातुरा सिंही हन्ति मृगान्
आत्मनः क्षुधातुरमहङ्कारं तर्पयितुम्,
सा मृगयां शिक्षयति स्वकीयशावकान्
यथा यथा ते कूर्दन्ति तां परितः,
यदा ते वयस्का जायन्ते
आत्मनिर्भराश्च भवन्ति
तदा तस्या इयमेव शिक्षा तेषां कृते भवति-
सर्वे जन्तवः समञ्जसं जीवन्तु
जीवनरक्षायै केवलं घ्नन्तु।
श्वसुरालयं प्रयाता लक्ष्मीः
नववधूः सा – विनता, शान्ता
परिवारिताः पुरुषैः
आत्मगौरवकामैः
अबलानां रक्षकैः
ते पूज्या आसन्,
देवपदं गमिता आसन्
एतत् सर्वं पितृसत्ताकसमाजस्य वैषम्यम्।
लक्ष्मीर्वर्तते अस्माकं जीवनसङ्गीतम्,
शतं समाभ्यः सा कीलितजिह्वा
पशुभिरन्यैश्च यौतुकसम्भारैः समं विक्रीता
अवमानिता, निर्जीवतां नीता
कदाचित् शक्तिः सरस्वती पार्वती च
एतासां सा साकाररूपा स्यात्
कदाचित् सा जागरिता उत्तिष्ठेत्
अवलोकयेत् –
कथं जागतिकी स्थितिः परिवर्तिता
परन्तु साम्मनस्येन जीवनं कामयन्ती
सा अस्माकं बहुमूल्यम् अभिमानस्थानम्,
सभ्यसंसारस्य सिंही
तां विना वयं न रक्षिताः स्याम।
लुण्ठाकाः मनु्ष्याः
पृथिवीति संज्ञप्ते
एतस्मिन् शाश्वते विस्तारे
अनन्ते व्योम्नि बिन्दुभूते
मानवानाम् एकमात्रं गेहे
अस्माकमाकाशगङ्गाया अङ्के
इयं वसतिः यां वयं स्वीयं गृहं मन्यामहे
प्रायः परिपूर्णतां प्रयाता
मानवानां कृत्यैः सङ्कटं प्रापिता
इयं सङ्कटानुभूतिर्वैश्विकी।
भव्याः पर्वताः हिमाच्छादिताः
प्रनृत्यन्ति जलानि अनिर्बाधं वाहयन्ति,
गहना रन्ध्राः विक्षता अधित्यकाः
प्रकृतेः निर्वसनम् आभामयं स्वरूपम्।
क्वथति गहने कटाहे
फेनिलं प्रवहति लावाद्रवः,
यन्त्रणाभिः प्रपीडितस्य विश्वस्य परिदेवितम्,
यस्य मर्म न को पि जानाति।
अस्माकम् अज्ञातविजृम्भितैः दूषितैः कृत्यैः
सृष्टिरियं तटान्तं गमिता
विवर्धते सङ्कटग्रस्तानां जन्तूनां सङ्ख्या
केचन पूर्वमेव विलुप्ताः।
कार्बनवायूनामुद्वमनैः
वृद्धिं यान्ति तापमानानि
अहम् ईक्षे
सागरे ओघो यदा उद्गच्छति
भूमिखण्डा अधो निमज्जन्ति
निमज्जन्ति लघूनि द्वीपानि
जले विलीयन्ते सागरतटानि
यत्र लक्षशो मानवा निवसन्ति।
प्रकृतिर्नैव मर्षयति
तस्याः असहिष्णुर्मन्युर्व्यक्तिमुपैति।
प्रदूषिताः सरितः
शोषं नीतास्तासां प्रवाहाः
वर्धते मानवतायाः सङ्कुला व्यथा
, उत्ताना गर्ताः
जलाभावं सन्धुक्षयिष्यन्ति
जीवनसङ्घर्षरतानां कृते
अवृष्टिश्चौघश्च महतीं विभीषिकां जनयतः
एताभ्यां विहितैर्विनाशै-
र्हन्यते जिजीविषा।
उष्णक्षेत्रेषु प्रसरन्ति
विषाक्ता अज्ञाताः रोगाः
क्षतविक्षता प्रकृतिः कुर्यादेव प्रतिशोधं
एतदेव तर्कसम्मतम्।
नग्नीक्रियन्ते वनानि
निकृत्यन्ते वृक्षाः
उपरि भूमfर्विनश्यति
मानवताया नियतिराकुलीक्रियते
प्रकृतेः फुफ्फुसा
न शक्नुयुः श्वसितुम्।
इयमद्भुता विस्मयावहा व्यवस्था
नैसर्गिकी
प्रकृतैः प्रकृष्टैर्विधानैर्विहिता
नेयं सर्वग्रासं नाशं नेया
निर्लज्जमानवानां
शोषणतन्त्रैः।
मन्युः
सङ्कुला वात्याः
समुत्थिताः
प्रबलायन्ते
यथा यथा अग्रे सृताः
अबाधैर्वेगैः
मानवानां रोषवत्,
सर्वनाशस्य सन्ध्यां कर्तुं व्यवसिताः
नाहमेतद् बोद्धुं प्राभवम् -
अस्मासु कथमेतावन्तो जनाः
मृत्युं नीयन्ते।
सुनामी
सागरतरङ्गाः
पृष्ठे सरन्तो दृष्टाः
वञ्चनैव सा आसीत्।
मुग्धाः शिशवः
धावन्तः
साभिलाषम्
उच्छूनानि जलानि
निगिलन्ति तान्
अनायासम्।
प्रसारयन्ति निर्दयम्
आतङ्कम्
सर्वग्रासिनं विनाशम्।
तानि जलानि प्रक्षालयन्ति
अपूरितान् स्वप्नान्
अन्यायपूर्वकम्।
भग्ना गेहाः
अपूर्णानि जीवनानि
अप्रत्याशितम्।
आशाया अभावेपि
सञ्चिन्वन्ति साहसं जनाः
भवन्ति प्रगल्भाः
ते पुनर्निर्मान्ति जीवनम्,
पुनरेकवारं
अनुभवन्तो भयम्।
अभीप्सा मानवीया
अश्रान्तं श्राम्यति।
ये परिजनैर्वियुक्ताः
ते भ्राम्यन्ति निरुद्देशम्।
अपरे पुनः
विच्छिन्ना इव
नैराश्ये मग्नाः।
केचन पुनः
उद्घाटितान् स्वव्रणान्
ससंवेदनं संवाहयन्ति,
मानवीया त्रासदी
वैश्विक्या प्रतिक्रियया उपकृता
आर्थिकी सहायता
प्रचुरं लम्भिता
स्वयंसेविसंस्थाः
जीवनस्य पुनर्निर्माणे लग्नाः
सूचनातन्त्रं सर्वं
पुनर्व्यवस्थापनीयम्
असुरक्षितानि सन्ति
निसर्गस्य परिवेशाः
पश्चात्तापरहितश्च समाजः।
संवेदनशून्यो न्यायः
आसुरी त्रासदी
मानवीया अभीप्सा
विजेत्री
करिष्यति पुनर्निर्माणम्।
मृत्युः
सनातनं शाश्वतं मौनम्
अचलम्
पृष्ठे उज्झितानां स्मृतीनां भारेण
व्याख्येया बलादारोपिता प्रशान्तिः
दैवीयव्यापारस्य सम्मुखं विनता।
जीवनं यदपहस्तितं
विद्युदिव स्फुरति
मनसः तन्त्रीषु निनदति
अबोधा लक्ष्यभूताः
कालकवलिताः
प्रकृतेरन्धरोषेण।
पूयन्ते ये व्रणाः
ते चिकित्सिताः स्युः
किञ्चित् कालो पेक्ष्यते तस्यकृते
मृत्युः ---
अपरिभाष्यम्
महत्तमं समीकरणम्।
मृगतृष्णा
कथं वयं
समानाः स्याम
इति वर्तते मानवीया त्रासदी
वैषम्ये
जनिं प्राप्ता वयम्
असमाना एव भवेम
विषमाः स्थितयः
जीवने नः
सन्ति हेतवः
असमानतायाः
वृत्तीनां समानता
न खलु विद्यते
जन्मगता वास्तविकता ।
अवसरैः समानैः
लभ्येत असमानैः
समानता
संवैधानिकी प्रत्याभूतिः
न वर्तते
असमानतायाः
रामबाण औषधिः।
नभसः मापनम्
निर्वसनाः शीतलाः संरचनाः
तन्मयीकुर्वाणाः सौन्दर्यं
प्रौद्योगिक्या उन्नामिताः
कौशेयमय्यो वैभवमय्यः
मूल्यानि कुसीदात्मकानि
पारिस्थितिकीमनुसृता अभिकल्पनाः
शवा इव जीवनरहिताः
ज्यामितीयाः हृदयविहीनाः
श्वसन्ति नीले नभसि
वास्तुदृशा मेरुदण्डहीनाः
उत्ताना उदासीनाः
नित्यशुष्काः
एतादृश्यः संरचनाः
अनुदात्ताः
संस्कृतिरिदानीं वैश्विकी
क्व गता कला क्व च परम्परा
संरक्षणीयानि खलु अस्माभिः
सांस्कृतिकानि प्रस्थानानि
आधुनिकैः रूपान्तरैः
अज्ञातं महाद्वीपम्
हिमशीतला धमन्यः
हिमजडस्य तस्य संसारस्य
साक्षिण्यः सन्ति
पुरातनतायाः।
अन्तार्कतिका –
सा आह्वयति नः
सा यथा वर्तते
तथैव रक्षणीया अस्माभिः।
श्वेतः सागरः
कर्कशकोटरेषु
गोपायन् स्थितः
सृष्टेः रहस्यानि।
अस्य अन्त्राणां निष्कासनप्रयासाः
दुष्प्रभावं जनयेयुः
गृध्नुतया।