हिममनुसन्धेहि
अग्निविहगयानं मङ्गलग्रहमवतीर्णम्
कोटियोजनानि उड्डीय
अपरस्मिन् संसारे यात्रा विहिता
वैश्विकजीवनस्यानुसन्धानाय।
तस्मिन् मङ्गलग्रहपर्यावरणे
सेहे यानं सीमातिगानि उच्चतापमानानि
सङ्कटेषु दुरापन्नं रक्तधरामवगाढम्
अप्रतिमः साहसः – सर्वथा श्लाघ्यः।
महता वेगेन गच्छन्
अवतीर्णं द्रुतगत्या
नासा-जनाः अवलोकयन्ति स्म अवरुद्धश्वासाः
सप्तनिमेषान् आतङ्कस्य प्रसारम्।
बहिरन्तरिक्षे धातूनां उल्ललनम्
उड्डयनच्छत्रैर्विहिता अवताराः
उष्णताया सन्धुक्षणाय
दत्ता द्वादश आघाताः।
अन्तरिक्षयानात् प्रयाणं
रोबोटीये नुसन्धानकेन्द्रे
सौरपटलानि विस्तारितानि बहिः
ऊर्जां प्रददति गन्तव्यं यावत्।
उत्तरीयानाम् अक्षांशानाम् उपत्यका
जलमुपायनीकुरुते परिपूर्णं हिमशीतलम्
आविर्भवन्ति अनाविष्कृतानां सीम्नां
क्षणच्छवयः कियन्मूल्यम् एतस्य सर्वस्य इति तु लघ्वी मात्रा!
कृत्रिमनेत्राभ्यां भेदनम्
आकाशगङ्गायास्तन्मापनम्
विजयो नुपोढानां सीम्नां
एतत्सर्वं वर्धयति ज्ञानकोशं नः।
कारणमन्विष्यन्तः किमर्थम् –
कुत्र कथं नु आरब्धम् एतत् सर्वम् –
वयं सूक्ष्मतमानि हस्ताक्षराणि पश्यामः
मनुष्यस्य शाश्वतजिज्ञासायाः
सर्वनाशमार्गः
जेली-मत्स्याः भवन्ति मस्तिष्कविहीनाः
परन्तु ते सन्ति निसर्गस्य पुरातनाः अभिमानाः
ते पारभासकतया पुच्छानि चालयन्ति
पक्षाघातं जनयितुम्।
एतैः गोपनशीलैः प्राणिभिः
ये बहुलीभवन्ति बहु प्रजायन्ते
भूमध्यसागरीयानि तटानि
आप्लावितानि आक्रान्तानि
कच्छपाः शार्कमत्स्या लोपं प्रयाताः
टूनामत्स्या क्षीयन्तेऽ विरतम्,
एतेषां जेलीमत्स्यानां पुनः सम्भूयसमुत्थानम्
वेदनाप्रदानम्।
अवनता मेरुदण्डीयाः जलचराः
हन्त आखेटलक्ष्या जाता
मनुष्यस्य संवेदनशून्यायाः गृध्नुभोगवृत्तेः
सागराणां चैतत् निर्विवेकं लुण्ठनं
क्षुधार्तानां जालानां क्षेपणम्
यथा पादकन्दुकक्रीडायां
विस्तृते क्रीडाङ्गणे कन्दुकानां
क्षेपणम् ।
समयो यं वर्तते अस्माकं कृते
विरम्य चिन्तनस्य
पारिस्थितिकी भग्नप्राया वर्तते।
एकस्मिन् रभसग्रहणे
स्मर्यमाणदुस्सहम्
स्खलनमेव तदासीत्
यन्मया एक एव केशसन्दंशः
उपहाराय आनीतः।
यद्यहमज्ञास्यम्
नेति न वदिष्यसि त्वम्,
अहं केशसन्दंशानां
राशिमानेष्यम्
किं तावत् क्रीणीयाम्-
इति बहु चिन्तितं मया
यानि यानि वस्तूनि भवत्याः सकाशं न स्युः
तानि विचारितानि
अन्ततः किन्तु
अस्यां यात्रायां स्मृतिचिह्नत्वेन
आनीतवान् केवलम् एकं केशसन्दंशम्
एतत् त्वदीयं केशराशिं धारयेत्
यथा मुखे विक्षिप्ताः केशाः
स्थाने प्रतिष्ठापयिष्यन्ते अनेन
तथा विकीर्णान् विचारानपि
व्यवस्थापयेत्
येन विशदीभूते दर्शने त्वं पश्येः
उद्घाटितं ग्रन्थमिव जनं कमपि।
आकस्मिकप्रत्यवभासे तदा
प्रेक्षिष्यसे त्वम्,
स्मृतिततिः पृष्ठत उज्झिता
प्राप्तेऽ वसरे एकस्मिन् क्षणे
केशसन्दंशाः सम्भ्रान्तं मनो मार्जयन्ति।
पृष्ठे नमय कायं
विश्रान्ता भव
मनसे उन्मुक्तसन्तरणाय
वितर अवसरम्
विस्मर क्षणाय यन्मया लिखितम्
मम मूर्तिं मनसि क्षणप्रवेशं लम्भय
अथ केशसन्दंशमिव तां तत्रैव धारय
प्रेमिजनाः प्रहरी च
यदा यदा त्वं मिलिता मया
तदा तदा चिरायिता अतितरां क्लेशावहम्,
अहं च खिन्नः असमञ्जसं स्थितः
तव महाविद्यालयस्य द्वाराद् बहिः।
ये प्रतीक्षमाणं माम् अपश्यन्
ते जानन्त इव स्मयन्ते स्म,
एतद् परिचितं दृश्यं तेषां कृते
असकृद् विभावितम्।
मम उपालम्भान् त्वं नाश्रौषीः
अथ स्मयमाना
खेदं च व्यानक् –
- अहो पुनरपि प्रतिपालनीयम् अभवद् भवता -
इति निगदन्ती।
आवां सूर्यास्तं प्रत्यैक्षावहि
अथ दृढालिङ्गने बन्धुं
यावदहं यते
तदानीमेव तत्र रात्रिसञ्चाराय प्रहरी आगच्छति स्म
स्वप्रहरकमशून्यं कुर्वन्।
तस्य विद्युज्झिङ्गिन्याः स्फुरति प्रकाशे
आवां निभालितौ
अस्तव्यस्तौ
पापपङ्कमग्नौ
इमौ न मोचनीयाविति शपति तस्मिन् प्रहरिणि
आत्मगौरवं रक्षन्तौ।
आवयोश्च प्रहरिणश्च
एतेभ्यः साम्मुख्येभ्यः
नितरां खिन्नौ नैराश्यग्रस्तौ आवाम्
किमर्थमेतावान् उपद्रवः
इत्यचिन्तयाव।
परन्तु तस्य तन्त्रयुक्तयः
छद्मकुसृतयश्च पर्यचिन्व आवाम्,
षष्ठेन्द्रियं नो सदैव आवां सचेतसौ व्यदधात्
तथा च तस्य उपानहोः चीङ्कारो पि।
युद्धसीम्नि सैनिकाविव
आवां सदैव रणक्षेत्रं परिवर्तयाव
स्वलक्ष्यं प्रति प्रतिबद्धौ
आकस्मिकाक्रमणं प्रति सन्नद्धौ।
स क्लान्तः आत्मसमर्पणं व्यदधात्
अन्वभूत् प्रहरी
युक्तमेव आर्जवसम्पन्नौ प्रेमिजनौ द्वौ
तस्य जागरूकदृष्टेरुन्मुच्येते।
आदर्शस्वप्नलोकः
स्पृशति त्वाम् -
न च कालः
न च वयः
मम मनसि
त्वं सततं प्रत्यग्रीकृता।
यथा प्रत्यग्रं वर्णलेपितं चित्रफलकं
स्मृतीनाम्,
प्रेम्णो महोत्सवः
क्वचित् कल्पनासु आयोजितः।।
मध्येमार्गं त्वया त्यक्तोऽस्मि
अहमिदानीमपि हस्तं प्रसारयामि
सुतनु, तव तनोः स्पर्शाय
यानि वर्षाणि विगतानि तानि अविभावयन्
अन्तसि प्रसृतं शून्यमविचारयन्।
बहु अकथितं त्वया उज्झितम्,
तव नैके संवादा अपूर्णाः
प्रिये, अहम् अपरमपि अवसरं कामये
अहमुत्सुकोऽस्मि -
कदा पुनरावयोर्मिलनं स्यात्
स्मृतिचर्वणम्,
असंस्तुता विचाराः
प्रभातकालिकाः चायचषकाः
मनोजृम्भितानां स्वप्नानाम्
परस्परं विनिमयः
पदचिह्नानि यानि
त्वया पृष्ठत उज्झितानि
भग्नजीवनस्य
कतिचन च्छायाचित्राणि
विविधं नौ जीवनाश्वासं ददति
हृदयवासिताः स्मृतयः
अतिक्रामन्ति कालम्।
आवयोर्जीवनयात्राया अवसानस्य
मध्येमार्गं
गाढालिङ्गनबद्धया त्वया
प्रस्थानवचनं निगदितम्,
यद्यपि दारुणनियत्या
मया विहितः सन्धिः
तथापि इदानीमपि पृच्छामि –
किमर्थमिति।
मम बालकौ
अस्माकम् अङ्गणम्
विकसितमभूत् केवलं द्वाभ्यामेव पुष्पपादपाभ्याम्,
यौ त्वया मृदुलमृदुलं रोपितौ
तयोः तृषां तोषयन्ती
त्वं तयोः कृते जननीयसि स्म
तौ पोषयसि स्म।
नखम्पचात् आतपात्
सर्वं विपरिवर्तयितुमुद्यताभ्यो दारुणवात्याभ्यः
त्वया तौ छायया रक्षितौ
अथ यदा तौ सञ्जातौ तरुणौ च दृढौ च
त्वं तौ मुक्तवती
परन्तु तथा जाते
जीवनं यथापूर्वं नाभूत्।
भ्रष्टस्तयोर्नौकाबन्धः
प्रहृतौ, व्रणाङ्कितौ, पोतस्तम्भाद् विच्युतौ,
दृढतया साहसेन तौ अयुध्यताम्
आत्मनियतिं स्वयं रचयन्तौ।
त्वया गतेन पथा तौ
द्रुतं प्रचलितौ
विपद्भिः सङ्घर्षं कर्तुम्,
अद्यापि तौ ध्यायतः स्वहृदययोः
तव बहुलं प्रेम
स्वल्पं यन्मत्तो लब्धं, तत् प्रेम।
यथा वयं रात्रिम् उपसर्पामः
गोधूलिवेलायां जातायाम्
सायन्तनः सूर्यः
संह्रियमाणे तेजसि
अनिवार्यतया अपसरति
दृष्टिपथात्।
आभा
चिरस्थायिनः प्रेम्णः
आवयोर्भयानि विदलयन्ती
भासते
यथा आवाम्
उपसर्पावो रात्रिम्।
यथा आवां
गलितं हिमम् इव
विगलाव
अनामतायां लीयावहे
आवयोः चरमे ऐकान्तिक उड्डयने
पदक्षेपं कुर्वहे
समयं कुरु
यन्मम हस्तं धारयिष्यसि
अस्मिन् रणे
यतो हि दुर्बलोऽ स्मि अहम्
अस्य उड्डयनस्य कृते
चरमम् आलिङ्गनम्
अस्माकं सहयात्रा
विषमेषु ऋतुषु
सञ्चरिता
तथापि आगताः
उज्ज्वलानाम् आतपानां क्षणाः
यैः दत्तं वेतनम्
सर्वस्य खेदस्य।
तव कन्याभावेच्छाः
आश्रयान्वेषणानि
अग्नीः प्रज्ज्वाल्य
विकलो हम् अन्विष्यामि स्म
अबोधतया जिज्ञासमानः
प्रश्नानां समाधानानि तवान्तसि।
मम पार्श्वे शयिता त्वम्
अहमनुभवामि
त्वमसि सन्नद्धा
चरमस्य आलिङ्गनस्य कृते
सुदृढौ स्तः
तव हस्तौ।
निर्वाणम्
त्वया अहम्
असहायस्त्यक्तः
आशाविकलः तथा अपूर्णः
दीनः साधनहीनः
आत्मनि जीर्णः
गभीरं कटुतया चीर्णः
नैराश्येन निगीर्णः।
प्रशान्तां प्रगल्भतां धारयन्त्या
त्वया यः साहसः प्रदर्शितः
त्वया यो लक्ष्यसङ्कल्पो धृतः
असाधारणेन गौरवेण
बुद्धस्य मध्यममार्गं श्रयन्त्या
काऽ पि नार्हति –
तस्य तुलाम्।
त्वया अहं शिक्षितोऽ स्मि निगूढं
शौर्यस्य सद्गुणान्
क्षमाम्, तथा चिकित्साम्,
समर्पणभावान्
तथा
तत् सञ्चरणम्
अज्ञातं यस्य लक्ष्यम्।