त्यागस्य कला
स्वल्पा एव जना जानन्ति
अपरिग्रहस्य कलाम्।
कामनानां प्रपञ्चे प्रसक्ताः
सङ्कीर्णदृशा स्वार्थमेव पश्यन्तः
जीवनं शाश्वतं विभावयन्ति ते,
जीवनं तु कतिपयानि दिनानि।
कल्पनाविजृम्भितं स्थायित्वम् –
मृगतृष्णैव तत्
तद् गृध्नुतां कण्डूयते
ते न सङ्कल्पं कुर्वन्ति परित्यागाय
यावन्मृत्युः द्वारि नैव हस्तकं दद्यात्।
परिग्रहैकसक्तैः सर्वैः
एतत् खलु अवधेयम् -
निरपवादम् –
नग्ना वयं समागताः
नग्नैरस्माभिर्गन्तव्यम्।।
रविवासरः
प्रत्येकं रविवासर आयाति
प्रातःकालिकैश्चायचषकैः
अहं रिक्तः सन् पादौ प्रसारयामि,
स्मृतिं च संवाहयामि।
यानि दिनानि गतानि तेषु अहं पुनर्जीवामि
शिशवः अविश्रान्तम् उत्कूर्दन्तः
आर्द्राणि चुम्बनानि रोपयन्ति
सर्वस्मिन्नपि मदीये गात्रे
अतीव स्मरामि तेषामहम्।
अहम् उत्कण्ठे भृशं
तेषाम् आनन्दप्रदानां स्मितानां कृते
तेषां स्वतः स्फूर्तस्य चूङ्कुर्वतः प्रमोदस्य कृते
चित्रा विचित्रा कथाः तेभ्यो रोचन्ते स्म,
जानुनि जानु स्थापयित्वा
ते शृण्वन्ति स्म।
अथ ते जन्तूद्यानविहाराः ---
अन्यदेव तद् विश्वम्
सकौतुकं वीक्षन्ते स्म बालकाः
वानराणां दोलायितान् उत्फालान्
जृम्भाप्रसारितमुखान् व्याघ्रान्
उदासीनं प्रेक्षमाणान्।
स्वादिष्ठानि बर्गरव्यंजनानि
तैलाक्ताः भर्जिता उपदंशाः
बुभुक्षया ओष्ठयोः स परस्परेण सटत्कारः
अथ स्वेदाञ्चिताः श्रान्तास्तन्द्रालवो वयम्-
स्वैरं निद्राधीना अभवाम।
अधुना दुस्सहभारावनता मे शय्या
अहं कर्गदान् परीक्षे
सर्वं शून्यमिव कलयन् विकलः
पादौ प्रसारये
चिन्तयामि च –
ते हि नो दिवसा गताः।
विंशतिः विंशतिः
अहो वर्णविच्छित्तिः
अहो रक्तसमुन्मेषः
विंशतिः विंशतिः --
ऊर्जासम्भृतं नाट्यं
विजयः प्राणान्तकसङ्कटश्च,
पूर्ववन्नास्ति क्रिकेटक्रीडा इदानीम्।
आनन्दतुन्दिला जनसम्मर्दाः
उन्मादग्रसिता अहोकाराः
जनसमूहप्रोत्साहनम्
नवीना एते योद्धारः
व्यावसायिकाः परभक्षिणः सम्प्रति सक्रियाः।
पूर्वमियम् आसीत् सज्जनानां क्रीडा।
स्वामिनां गर्वो जायते च्छिन्नो विभिन्नः,
प्रचारकाणां प्रचलति मार्जारी गतिः
शुद्धतावादिन एनामधिक्षिपन्ति,
धनसङ्ग्रहस्य अपूर्वा समृद्धिः
अतिरेकस्य महोत्सवः
पुरातनी टेष्टक्रिकेटक्रीडा तु अतितराम् अवनम्रा।
द्रुतगत्या जायते क्रिया
द्रुतं परिवर्तन्ते भागधेयाः
प्रसन्नताया नेतारः मनोरञ्जनं कुर्वाणाः समुपस्थिताः
धावनाङ्कानाम् उपचयः
नटमल्लप्रेक्षावद् कन्दुकग्रहणम्
भद्रलोकानां कृते सर्वमेतत् कुरुचिपूर्णम्।
क्रिकेटप्रेमिणामयं दुस्स्वप्नः
चमत्कारकम् इन्द्रजालप्रदर्शनम्
सहृदयाः उपालभन्ते
तत्क्षणं प्रहरणलीला
विना पूर्वकलाम्
इयं तु नास्ति क्रिकेटक्रीडा
विश्वजनीना माता
ममतामयी मम माता
सदैव स्वप्नम् अपश्यत्
एकस्मिन् दिने तस्याः प्रेयान् तनयः
चिकित्सको भविष्यतीति,
अथवा अभियन्ता भविष्यति,
स पथप्रदर्शको भविष्यति,
मम तादृशी मतिर्नाभूत्
यत् तामहं कथयेयम् –
मातः, यादृशो वा तादृशोऽ हं
तथैव स्यामित्यनुमन्यस्व।
मम मानसं जडीभूतं जायते स्म
यदा मम साम्मुख्यमजायत
मम जाड्येन मम त्रिकोणमित्या।
यदि मह्यम् अङ्कानां योगस्यापि प्रश्नः
समाधानाय दीयेत
मत्कृते तु स दुस्तरः सागरः
सूक्ष्ममानगणितम् , बीजगणितम् –
एतैः सर्वैः असमञ्जसमनुभवामि स्म,
मानसिकीं यन्त्रणां च।
येषां अभियान्त्रिक्यां नैपुण्यं भवति,
ते सर्वे रेखागणितं प्रति सानुरागा भवन्ति,
तस्मिन् अबाह्या भवन्ति,
मदीये संसारे नासीत् कोणानां कृते स्थानम्,
न वा समरेखिकस्य कृते।
चिकित्सकाः सर्वदा चेखिद्यन्ते
विश्वजनीना माता
तदपेक्षया अहं रोगी स्यामिति श्रेयस्करम्।
नास्ति मदीये मनसि कापि कामना
बहूनि वर्षाणि
जैवरसायनस्याध्ययने क्षपयामीति।
अतीव पीडाकरमेतद् –
पैशाचिकीनां परीक्षाणां कृते सन्नाहः
यत्र व्रणाः विना मूल्यं लभ्येरन्।
अहं तु न कामये
जीवनस्य शेषान् वर्षान्
मनुष्याणां दैन्यं दर्शं दर्शं व्यवहर्तुम्।
अहं स्वस्यैव भाग्यस्याभियन्ता स्याम्
अहं स्वस्या अनियोजिताया नियतेरेव
चिकित्सको भूयासम्,
जानाम्यहं मातः
यत् अतितरां स्निह्यसि मयि त्वम्,
तथापि मत्कृते अलं योजनाः निर्माय।
जानाम्यहं यत् त्वमिच्छसि
यदहं पथप्रदर्शको भवेयम्,
परमहं जानामि मत्कृते किं श्रेयः,
त्वया स्वीयं जीवनं स्वैरं यापितम्,
अहं त्वया अस्मिन् संसारे आनीतः
परन्तु मम जीवनसागरस्य
कर्णधात्री मा भूः।
मदीया स्वकीया यात्रा
अहं तव विखण्डितानां स्वप्नानां खलनायकः
भवितुं नेच्छामि,
मदीया अपि सन्ति स्वप्नाः
यदि सन्ति अपूर्णाः
तर्हि तत्र मदीयं दायित्वम्।
स्वहृदयसन्निधौ
त्वं जागरय मत्तो याः अपेक्षाः ताः।
अहं रात्रिषु जागर्मि
स्वेदाञ्चितो भवामि,
विफलताया बिभेमि
मम छायाः
मत्पार्श्वे भ्रमन्ति
तव च्छाया
अहं भवितुं नार्हामि,
अहं तव पदचिह्नं भवेयम्,
पृष्ठत उज्झितम्,
तथापि मम मार्गो मत्कृते चितः स्यात्।
यथा यथा
अहं गमनं शिक्षे
तथा तथा
मम मार्गदर्शको भव,
समुचिते क्षणे
उन्मुक्तं कुरु माम्,
विस्तीर्णे स्मिन् फलके
अहम् आशासे निर्णेतुम् –
स्वकीयामायतिम्।
अहं भवन्तं स्मरिष्यामि पितः!
यात्राया अवसाने
यतो हि भवता सदैव अस्य जनस्य चिन्ता विहिता
परन्तु मया स्वकीया जीवनरेखाः स्वयं निर्मिताः
सङ्घर्षसङ्कुलेषु क्षणेषु
दुर्निवारमासीदेतदेव ।
अन्तहीना अस्थिरता
वयं व्यवस्थायां सर्वम् –
एवमेव प्रचलतीति मत्वा व्यवहरामः
एतस्याः शोषणं कुर्वाणा जीवनं यापयामः
सर्वेषु नः कृत्येषु
द्वौ च द्वौ च योजयित्वा पञ्च भवेयुः
इति निश्चाययामः।
निवेशविनिमयापणे नियोजनार्थं विटानां
सङ्केतपरामर्शाः
शुल्कसमाश्रयाः मारीशसदेशस्य मार्गाः
अनभ्रवृष्टय इव लाभाः साम्राज्यसदृक्षाः
अन्तरन्तर्वाणिज्यम्, वाणिज्यसमूहानां लुण्ठनम्
अस्माकम् एतस्मिन् जटिले आर्थिके जगति,
सम्पन्नाः परिग्रहाय तृषार्ताः सन्ति
सुखवादस्य हेतोः वर्तुलं वर्धमानाः सम्पत्तयः
यासां निधापनाय सन्ति पर्याप्तानि समस्तकानि
यदा सत्यं सङ्कटः समापतति
अवसरः परापतति,
तदा ते शासनं सद्व्यवहारमुपदिशन्ति।
निवेशानुकूला नीतयः स्युः
व्याजस्य मूल्यप्रमाणानि निम्नानि स्युः
प्रत्यक्षवैदेशिकनिवेशः स्यात्
येन सततं धनस्य धारा प्रवहेत्।
अस्मिन् वाणिज्यसमूहस्य भूमण्डलीये साम्राज्ये अन्तहीना अस्थिरता
न्यूनानि वेतनान्येव साफल्यकुञ्जिकाः
येषामेकाधिपत्यं ते द्रुतं लाभान् अर्जयन्ति,
ते लाभाः न सन्ति मत्कृते, त्वत्कृते
तेषाम् अनुकम्पां श्रयन्तः
श्रेयांसि दिनानि
आगमिष्यन्तीति
प्रतीक्षमाणाः स्मो वयम्।
इयमस्ति सिसीफसस्य* त्रासदी,
नास्ति अल्पकालिकी दुर्दशा।
*सिसीफसः – ग्रीकपुराख्यानेषु एकः नायकः, एओलस Aeolus इत्यस्य राज्ञः पुत्रः, Ephyra इफायरा इति राज्यस्य संस्थापकः प्रथमशासक -श्चासीत्।
महती एका शिला उत्थाप्य पर्वतशिखरं यावन्नेया, अनन्तरं शिखरात् सा निपातनीया, अधो गच्छन्ती सा विलोकयनीया, अथ च अधस्ततात् सा उत्थाप्य पुनः शिखरम् आनेया, एतत् शाश्वतं कालं यावत् निरन्तरम् अविरामं च करणीयम् इति अभिशापं स प्राप्तवान्। कस्यापि निरर्थकस्य निष्फलस्य कृत्यस्य अविरतं करणार्थं विवशीकृतस्य जनस्य कृते सिसीफसः दृष्टान्तत्वेन उदाह्रियते।
मुद्रास्फीतिः
मुद्रास्फीतिः
वार्तासु सरीसर्ति
परस्परं विरुद्धानां विमर्शानां
चर्वणाविषयो जायते सा।
मुद्रास्फीतिजन्यानि उत्पादनानि
उपादीयमानानि
जनयन्ति
कुण्ठितानुपाधीन्।
मुद्रास्फीतिप्रवृत्तयः
क्षतिमुत्पादयेयुः
तद्विषयीकृतानि मूल्यानि
अवधानसङ्केतं यच्छन्ति।
इदं तु परीक्षणीयम्,
समाकलनीयम्,
अपि नाम
सर्वा मुद्रास्फीतिः
दोषारोपणार्हा?
स्फीतानि आकाशयानानि
छद्मक्रीडां कुर्वन्ति डयन्ते
मनुष्यस्य नियन्त्रणम्
अतिक्रान्ताश्चरा इव
उपरि उपरि आकाशे।
स्फीताहङ्काराः
जना असह्याः
हास्यास्पदं जायन्ते
नर्मवचनैर्विषयीक्रियन्ते।
स्फीता वाहनचक्रवलयाः
स्थूलाः
भवन्ति सङ्कटहेतवः।
स्फीतानि मूल्यानि
लाभार्जकानां सम्पत्तयः
स्फीतानि आयव्ययपुस्तकानि
कूटयोजकस्य
स्फीता चिरण्टी
कामक्रीडाया उल्लासः
एकाकिन्याः निशायाः
दरिद्रो विकल्पः।
स्फीतम् उदरम्
उद्वमन्त्याः चिन्ताया हेतुः
चिकित्सकस्य मन्त्रणाया
अपेक्षां जनयति
स्फीताः बीमाप्रीमियमराशयः
सहायका भवन्ति
प्रायशः स्फीतानां
जीवनसुरक्षाभ्यर्थनानां निवारणाय ।
स्फीताः निवेशराशयः
उच्चैर्मूल्यैर्विक्रीयन्ते
तीक्ष्णा विटा जानन्ति
तस्य कारणम्।
यानि वस्तूनि स्वल्पायन्ते,
तेषां मूल्यानि अधिकायन्ते
यदा तेषां जिघृक्षा ऊर्ध्वम् आरोहन्ति।
आपणस्य गत्वरता
जनयति चिन्तायाश्चीत्कारान्
अस्माभिर्यत्नो विधेयः
रहस्यमस्य अवगन्तुम्।
शस्योत्पादसम्भाराः
शनैः शनैः राशीकृताः
यथा यथा,
भूमण्डलीयधनसंख्या
उपरि उपरि आरूढा तथा तथा।
आष्ट्रेलियायां समजनि
आकस्मिकं दुर्भिक्षम्
भूमण्डले मूल्यानि
अपचितानि
प्रवर्धमान उपभोगः
अयसः
प्रमाणीकुरुते
कथं निवेशमूल्यानि
स्पृशन्ति छदिम्,
खाद्यतैलानां
वर्धते जिघृक्षा
नास्ति नः सकाशम्
किमपि इन्द्रजालम्
इयं भवेदस्माकं प्रतिबद्धता
प्रवर्धमाना मूल्यवृद्धिः
मुद्रास्फीतिः
दरिद्रान् जनान्
न हन्यात्
मुद्रास्फीतिः
अवश्यमेव क्षयं यायात्
संशोधकैरुपायैः
यावत् शीघ्रम् उपायाः क्रियेरन्, तावदेव वरम्।
इयमस्ति
उत्तुङ्गलहरीसम्भृते सागरे
सन्तरन्ती नौका
वेलावृद्धिः ऽज्वार इति हिन्दीभाषायाम्)
एनामानयेत् तटं प्रति
निर्लज्जाः
अस्माकं समयस्य
हिंस्राः प्रवृत्तीः
स्फूर्ता वयं स्वीकुर्मः
श्वा एव शुनं भक्षयति
इति कथयन्तः
अग्रे सरामः
आत्मानं च पृच्छामः
किं नश्छिन्नम् - इति
षडङ्कानां वेतने
प्रचुरां वृद्धिम् आशासमानाः
इतो‍ पि प्रचुरतरो धनराशिः
लभ्येत इत्येव चिन्तयन्तः
वेतनवृद्धिं निषेवमाणाः
तद्ध्यानपरायणाः
तदाकाराकारा वयम्।
राज्यं दुहन्तः
अरुचिशीला कर्मचारिणः
विना मूल्यं सर्वान् लाभान्
कामयन्ते
अर्थकरीं पदस्थापनां लिप्सन्ति
यस्यां स्वच्छन्दं प्रभुता स्यात्,
लाभसम्भावनाः नित्यं जागरिताश्च स्युः।
सन्तरणशीलाः विटाः
गुप्तपण्यव्यवहारे साहाय्यं विदधानाः
कलाभिज्ञास्ते –
निपुणं साधयन्ति,
सिद्धे कर्मणि
तेभ्योंऽशो देयः
ते न त्यजेयुः स्वकीयं मांसपिण्डम्,
नास्ति कापि सेवा निःशुल्का।
ये प्रतिबद्धाः
अस्माकं समुद्योगेषु
ते पुनः पुनः पृच्छन्ति नः-
श्रीमन्, एतावत्सु वर्षेषु व्यतीतेषु
भवतां समर्थनं कुर्वाणैः
किमस्माभिर्लब्धम्?
अस्माभिर्यत् किमपि विधीयेत
नास्ति तस्य किमपि प्रतिदानम्,
अस्माकं निष्ठैव अस्माकं वाणिज्यव्यवहारः
ये साधनहीनाः ---
ते किमपि न अभ्यर्थयन्ते
वाञ्छन्ति ते –
केवलमवसरगवाक्षमेकम्।
राजनीतिज्ञस्य अष्टाङ्गो मार्गः* महानायकानां लोकच्छविः
वृणुष्व एनम् अष्टाङ्गमार्गम्,
मुक्तेः पदचिह्नानि तत्र लसन्ति
बाधाः पराभूयन्ते
दृढनिश्चयचयैरवधूताः।
सम्यक् दृष्टिः
अनया अवलोकनीयम्
सर्वविधेषु लोककृत्येषु कथं तथा प्रवर्तनम्
स्वकीयः कोशो यथा सम्भ्रियेत
परिपूर्णसन्तोषाय।
अथ सम्यक् सङ्कल्पः।
अनेन प्रत्यभिज्ञायेरन्
स्वपरिग्रहवासनाभिः
विधीयमाना निर्णयाः।
सम्यक् वाणी-
इयं तस्य सेवायै
स्वीयस्य सत्यस्य सम्प्रेषणाय
अन्येषां शुद्धभाषया बोधनाय -
कामं सा भवतु गालीभिः परिप्लुता ग्राम्या ।
सम्यक् कर्म, - तदेव यत्
अपरिग्रहेण विरुणद्धि
अन्यान् वञ्चयति,
येन महानायको विटानां साहाय्यं कुर्यात्
धनसञ्चयाय।
राजनीतिज्ञस्य अष्टाङ्गो मार्गः
सम्यक् आजीवः –
मादकपदार्थानां मारकास्त्राणां च
तस्करकर्मणा वाणिज्यम्
एतादृशस्य कर्मण आरम्भः
अकथितं निगूढं नैजं कल्याणं विधत्ते।
सम्यक् व्यायामः
निहितो वर्तते
विकृतायाम् ऊर्जायां पाशविकबले,
नैतिकविचाराणां त्यागे
अपूर्णताया समालिङ्गने च।
सम्यक् समाधिः –
पथच्युता अपूर्णता
तत्र अनियन्त्रितानि कर्माणि,
यैः चेतना च विक्रीयते।
सम्यक् समाधिः –
मानसिकी शक्तिरस्ति
यत्र सर्वाणि साधनानि लक्ष्यमेवानुसरन्ति
निष्ठा सन्धौ समाधीयते
अनैतिकता च शिखरं रोहति ।
अयम् अनुदात्तः अष्टाङ्गमार्गः
केषाञ्चित् कृते स्वर्णिमो नियमः
ये अस्माकं राष्ट्रस्य स्वातन्त्र्यनियतिं
तृणाय मन्यन्ते।
*अष्टाङ्गो मार्गः दुःखप्रशमनाय बुद्धेनोपदिष्टः।
अपवर्तनम्
प्रजातन्त्रस्य इन्द्रधनुः
सूक्ष्मरमणीयवर्णविच्छित्तिभिः समन्वितम्,
एतासु विच्छित्तिषु विलसति
शासनस्य तद् रूपम्,
यस्मिन् विश्राम्यन्ति
परस्परं विभिन्नानि विरुद्धानि मतानि
अस्य आधारभित्तिर्वरीवर्त्यते मतप्रदानराजनीतिः
स्वकीयनिर्वाचनभावनायाः मुक्ताभिव्यक्तिः
तेन सह संश्लिष्टा अस्माकम् आशा
यदस्यां प्रक्रियायां
अस्माकम् एकस्वरः स्यात्।
परन्तु हताशाः प्रयत्नाः समूहन्ते
अस्थिराणि घटकदलैर्निर्मितानि
संयुक्तमन्त्रिमण्डलानि
आशु मैत्रीसन्धानम्
आदर्शाः ध्वस्ता भवन्ति
राजनीतिकी विदूषककला विजृम्भते।
घटकानां समूहने
वैयक्तिक्यो लाभाकाङ्क्षाः जाग्रति
अस्माकं साहाय्येन भवतां विजयः
के यूयम्, के यूयमिति
काकारवं कुर्वाणाः
ते स्वाधिकारं चिकीर्षन्ति।
शक्तिलिप्सवः धनिकाः वणिजः
कोटिशो लाभान् कामयन्ते
दोलायते राष्ट्रस्य च्छविः
निर्वसनीयति
राजीनीतेः वास्तविकं रूपम्।
प्रासङ्गिका विषया व्यपोह्यन्ते
व्यवस्था विच्छेदं नीयते,
बहुमतम् अधिगन्तुं
निर्णयेषु परिवर्तनं विधीयते ।
किङ्कर्तव्यविमूढतायाः चीत्कारः
एकमतस्य सन्धानम्,
इन्द्रधनुषि के के वर्णा स्युः
इत्यत्र स्वीया स्वीया अभिरुचिः।