फान् कुः
मिथकशास्त्रं शास्ति स्म खलु
अस्माकं जीवनम्,
अद्यापि शास्ति तत्।
तद्वर्तते चिरस्थायिन्या आस्थायाः स्रोतः
परन्तु मिथ्यापि।
क्रिस्तोः षट्शतं वर्षाणि पूर्वं
चीनदेशीया अमन्यन्त
यत् फान् कुः
अण्डादेकस्मात् जनिमलभत।
स एव अस्माकं विश्वं व्यरचयत्
तथैव यथा इदानीं वयं पश्यामः
अथ समनन्तरमेव स निधनमाससाद।
तस्य खर्परीभूतं शिरः नीलनभसो वितानमभवत्
तस्य अस्थीनि शिला अभवन्
तस्य मांसं मृद्रूपतां जगाम
यत्र वयं पदन्यासं कुर्म इदानीम्,
तस्य रुधिरं नदीषु सागरेषु परिणतम्।
वायवः मेघाश्च तस्य अन्तिमश्वासाः सन्ति
तस्य स्वेदबिन्दवो वर्षाः जाताः
तस्य केशाः पादपेषु प्ररूढाः
तत्सर्वं घृणास्पदमेव रूपम्।
तस्य केशेषु
य आसन् कीटाः
त एवाधारभूता अभूवन्
अस्याः सृष्टेः जन्तूनां जनये
अथ च मानवीनां सन्ततीनां जननाय।
मानवानां जन्महेतवे
तेषां सर्जकस्य निधनमावश्यकमासीत्
तयैव घटनया
निर्धारिता नियतिः
सृष्टौ मूले निहितं दुःखम्।
अस्माकं विचलनकरस्य कालस्य मिथकानि
विदारयन्ति अन्धाया आस्थायाः स्तम्भान्
य आसन् तर्कस्य शत्रवः
अभवन् घृणायाः साधनानि।
विडम्बना
धर्मः आदौ
विश्वासं प्रचारयति
ततस्तस्य विश्वासस्य
अनुभूतिं द्रढयति
परन्तु तर्केण भवितव्यम्
आस्थाया मूलाधारत्वेन
तर्कहीनो विश्वासः
अन्धानुयायित्वं प्रगुणयति
एतस्य परिणतिर्भवति
तस्यां मूल्यव्यवस्थायाम्
या जायते आधारः
असहिष्णुसमाजस्य।
तथापि तर्कस्यापि
मूलानि अन्तर्निहितानि सन्ति
आस्थायामेव।
आस्था वरीवर्ति
विजयश्रीः
तर्कस्य तर्कपरायणतायाश्च।
परन्तु आस्था तर्केण विरुणद्धि
यदा सा तर्कं निराकरोति
यदा च तर्कोऽ पि स्वतः
आस्थायाः च्यवते।
समस्तानां द्वन्द्वानां मूलमेतदेव
अन्धाया आस्थायास्तर्कहीनता
अथवा तर्कस्य स्वकीये प्रामाण्ये
अन्धा आस्था।
आतङ्कवादी
मृतानां चितासु
समुद्धारस्य ज्वालाः प्रज्ज्वाल्य
अहं
मुक्तिमन्विष्यामि।
मम कामनायाः अङ्गारकेषु
अन्तर्निहितं घृणायाः सारम्
सन्नद्धं प्रस्फुटीभवनाय।
अयं हिंसाया अप्रतिम उत्सवो मम
यस्मिन् प्रतिभागिनो भवन्ति
पथि यान्तो मुग्धाः दर्शकाः
इदं देवधाम्नश्च्युतं
परं कृत्यं
निर्विवेकयुतं
स्वयं चितं
सृष्टेः वन्ध्याकरणाय।
समुद्धारः
आतङ्कवादिनः कृते
हिंसा नास्ति साधनं किमपि
परन्तु लक्ष्यमेव
परमम् आत्मबलिदानम्
आत्मनिष्कृतये।
येन स स्वस्य ईश्वरेण एकाकारो भवति
परन्तु मुग्धानामबलानां बालानां जनानां च
निर्घृणाः ये वधाः कृताः
तेषां न्याय्यत्वं
साधयितुं स न जानीयात्।
टी-कोशिकाः
आतङ्कवादो वर्तते
कीटाणुः
राजनीतेः शरीरे पोषं लभमानः
स आखेटं कुरुते
दुर्बलानां निःसत्त्वानां मुग्धानाम्।
तस्य सङ्क्रमणे
नरसंहारस्य वासना लसति
कपटपरायणा
सर्वथानुतापहीना
या निःशब्दं प्रविशति
आतङ्कवादिनो धमनीषु
सा पुनः प्रादुर्भवति
अमानवीयहस्तक्षेपैः
कृत्रिमयान्त्रिकरीत्या
समुत्पादितं वस्तु इव
यत् संहाराय विनिर्मितम्
हिंस्रेण अहङ्कारेण सम्भृतम्।
स आखेटं कुरुते तेषाम्
अवयवानाम्
ये भवन्ति नितान्तम् अनिवार्याः
सामञ्जस्याय
तेन शान्तिर्विभज्यते
सन्तोषः प्रसरति
एड्सरोगकीटाणुरिव
आत्मानं परिवर्तयति
निलीयते
नाना रूपेषु आविर्भवति
स्वपरिचयं संवृणुते
आत्मविश्वासेन प्रकृष्यते।
अत्रापेक्ष्यते प्रयोजनम्
प्रबलः सङ्कल्पः
यतः शत्रुरयं
मानवीयभावैः
सर्वथा विहीनः।
जीवनत्राणम्
जीवनं बहुमूल्य उपहारः
प्रकृत्या प्रदत्तः
अस्माकं स्वीकृतिं विनैव।
न वयमधिकृताः
महता दण्डेन
एनं विनाशयितुम्।
अपि नाम राज्यं
कदापि
हिंसाया औचित्त्यं साधयेत्?
अपि नाम तत्
तादृशान् नियमान् प्रसारयेत्
येषु वैरनिर्यातनं निहितम्?
अक्ष्णि स्फोटिते अन्यस्य अक्षि निष्कायिष्यामः
दन्ते त्रोटिते अन्यस्य दन्तं निस्सारयामः
इति भावः केवलं वैमनस्यमेव
ये एतस्य आखेटा जाताः
तेषां परिवारजनाः
रक्तस्नानेन वैरशोधनं कामयन्ते
एतस्य प्रतिरोधो दरिद्राति
अवसरोऽ यम्
यद् वयं पुनर्विचारयामः
एतस्य कृते दण्डविधिम्।
लिप्यन्तरिता चेतना
मानवद्वेषिणो विचाराः
घृणां जनयन्ति
संसारस्य कृते
अस्यां च प्रक्रियायाम्
अकथितानां दैन्यैर्ग्रस्ता भवन्ति।
यदि वयम् आत्मावलोकनं कुर्याम,
आत्मनश्चेतनाया लिपिं च स्वयं लिखाम,
तर्हि अस्मान् परितो यः संसारो वर्तते
स मानवद्वेषमयं दैन्यं न जनयेत्।
सर्वतः प्रसृते मानवसमाजे
यत्र उद्घाटितानि रहस्यानि प्रकाशन्ते
जीवनस्य कथैव
मानवद्वेषग्रस्तां दृष्टिं निरस्यति।
शान्तिमन्त्रः
अस्मिन् हिंसाकुले संसारे
अस्तित्वरक्षणाय
व्यवस्थायां परिष्कारः
अपेक्ष्यते।
अहिंसाया भवन्ति नाना रूपाणि
तानि सर्वाणि
अस्माभिः स्वीकरणीयानि
प्रकृतिं प्रति
अस्माकं हिंसा
नकारात्मकान्
परिणामान् उत्पादितवती
भूमण्डलीयाया उष्णतायाः
परिदृश्यम्
चिन्ताजनकम्।
घृणायाः सम्प्रदायवादस्य च प्रस्थानेभ्यः
उत्तिष्ठति आतङ्कवादः
एतस्य अलं प्रतीकाराय
अस्माभिश्चिन्तनं विधेयम्।
हिंसात्मकानि साधनानि
हिंसामेव जनयन्ति
व्रणांश्च उद्घाटितानि क्षतचिह्नानि च
प्रदाय गच्छन्ति
यो मार्गः श्रितोऽ स्माभिः
स नो दूरं न नयेत्।
अस्माभिः संवादा आरब्धव्याः
आधारविहीनानि भयानि
निरस्यानि
वैश्विकमूल्यानि चेतव्यानि
धर्माणां च सारं ग्राह्यम्।
अहिंसा एव तत् प्रस्थानम्
येन वयम् आत्मत्राणाय
प्रभविष्यामः
आतङ्कस्य क्षयाय
करणीयः
हृदयानां विजयः।
प्रकीर्णाः विचाराः
यदा मम मनसः
कुज्झटिका प्रणश्येत
तदा
अहं स्वकीयेभ्यो भयेभ्यो विनिर्मुक्तः स्याम्
धर्मः
सर्वथा मुग्धान् जनान् आकर्षति
ये जीवननिर्वाहाय पाददण्डमेकम्
अपेक्षन्ते
सर्वशक्तिमन्तं प्रभुं समाश्रिताः
यः सकलानपराधान् क्षाम्येत।
असन्तोषः प्रकृतेः
हिंसकेषु विधिषु व्यज्यते
वस्तुतस्स भवति सन्देशः
अस्माभिः स्वकीया जीवनपद्धतयः शोधनीया इति।
केचन चिन्तयन्ति
कथं शारो निपतिष्यति
अहं चिन्तयामि
कथं प्रभुः आह्वानं करिष्यति
सागराः
प्रकृतेः रक्तवहाः शिराः सन्ति
अन्तःकटाहाः सन्ति।
वयं केवलम्
हितग्राहिणः
न भवामः
वयम्
एतस्य सागरस्य अंशाः स्मः।
नेनोप्रौद्योगिक्याः परिभाषाः
प्रचलिताः प्रवादाः
जीवनस्य
उपादानानां
विशेषज्ञानाय
भविष्यन्ति
सहायकाः
युवा भव, मुग्धो भव
किञ्चिद् विक्षिप्तो भव
अलं कालस्य चिन्तया
केवलं बालो भव।
कालेन कुरु संवादम्,
त्यज भयम्,
स्वपुत्रान् वद –
अलं मम कृत्येषु हस्तक्षेपैरिति।
यदि अहं आत्मश्लेषणं कुर्वे
किं विपर्यस्तं जातमिति –
प्रायः सर्वस्य मूलं प्रतीयते
मम पूर्वाग्रहः
एनं विना
अहम् उपालम्भं दातुं न शक्नुयाम्,
क्षुब्धो भवितुं न शक्नुयाम्,
एनं विना मम कश्चन आखेटो न स्यात्
एनं विना कमपराधमण्डितं कुर्यामिति न जानीयाम्।
एतदभविष्यच्चेत्
एवं नाभविष्यत्
इत्येतादृशैः विचारैः
निगीर्णम् -
अस्माकं जीवनम्
खण्डितानां स्वप्नानां राशिः।
वयं विरम्य
प्रेष्ठाय परमेश्वराय कार्तज्ञ्यं न समर्पयामः
तस्य कृते यदस्माभिर्लब्धम्,
तस्य च कृते - यदनर्थेन वयं विमुक्ताः।
शून्यं
मत्कृते जीवनपद्धतिः
मयि लालसा वरीवर्ति
त्वयि विद्यमानम्
अपूर्णतां पूरयितुम्।
एतत्खलु नास्ति दौर्बल्यं
यद् वयं कपोले चपेटां दत्तवतो जनस्य
अपरं स्वं कपोलं सम्मुखीकुर्मः ,
दुर्बलाः खलु ते
ये हिंसया शक्तेः प्रदर्शनं कुर्वन्ति –
इति समुपदिशति गान्धीः।
भूमण्डलीया उष्णता वरीवर्ति
महती विभीषिका
आयास्यन्तीनां सन्ततीनां कृते
वयं अधमर्णाः स्मः
निर्यातनीयम् ऋणम्
येन मानवसन्ततीनां समुद्योगाः
नावसिताः स्युः
परमाणवः सन्ति
अस्माकं वर्णमालाः
अणवश्च
अस्माकम्
शब्दाः।
एतेषां लिपिभिः
उद्घाटनीया अस्माभिः
अलौकिका लोकाः।
जैवप्रौद्योगिकी
जैवप्रौद्योगिकी
वैज्ञानिकशल्यचिकित्सकस्य क्षुरिका
ऊत्यन्वेषकस्य स्वप्नः
इयमुद्घाटयति
नवीनं साहसिकं विश्वम्
स्वास्थ्याय कल्याणाय च।
जैवसूक्ष्मान्वेषीणि यन्त्राणि
नेनोरूपेण
अस्माकं रुधिरे सञ्चरन्ति।
ते प्रविशन्ति
विकृतग्रन्थीनाम्
कोशिकासु
या सर्वथा अदृष्टपूर्वाः।
जैवमापकाः
प्रत्यभिजानन्ति
ऊतिषु सन्निहितान् गुणान्
एतद् जीवनस्य नवरूपान्तरम्
क्रान्तिसाधकैरुपादानैः।
रूपान्तरीयं ऊतिविज्ञानम्
प्रश्नैरुट्टङ्कयति
प्रकृतेर्नियमान्
य आसन् सर्वोपरि स्थिताः।
नेनोप्रौद्योगिकी
नेनोनलिकाः
नेनोरन्ध्रेषु
नेनोप्रौद्योगिकी
नेनो आपणेषु
नेनोविचाराः
नेनोमस्तिष्केषु
नेनोपूर्वपक्षाणाम्
महती विलसति
उत्तरपक्षसंहतिः।
नेनोहस्तदण्डाः
नेनोयोजनानि
नेनो वाहनानि
नेनो पद्धतयः
अस्मिन् विलक्षणे अस्माकं विश्वे
ज्योतिर्विदोऽ न्विष्यन्ति
नेनोनक्षत्राणि
नेनोसङ्घर्षाः
नेनोदृश्यानि
नेनो-उपग्रहाणां प्रेरणम्
एनां पृथिवीं निकषा अस्याः दूरं च
अन्तरिक्षस्य व्यूहनम्,
नेनोयुद्धजन्या
भविष्यभीतिः।
नेनोयुगे
नूतनाः समाह्वयाः
नवीनानां नेनो-अपराधानामन्वेषणम्।
नेनोनियन्त्रणम्,
नेनोगुप्तचरपद्धतयः
आविष्कुर्युः
कतिचन नेनोसत्यानि।
नेनोसमाधानानि
स्थायीनि स्युः
अस्माकं जीवनं
नेनोपद्धत्या यापितम्।
उत्तिष्ठन् ओघः
अहमभिलषामि
अहं शिशुरभविष्यं चेत्
स्फुटितानि अधोवस्त्राणि
चिन्तारहितानि दिनानि
पुनरायास्यन्
त्वमपि विंशतिवर्षीया अभविष्यश्चेत्
यथा बहूनि वर्षाणि पूर्वमासीः
मुग्धा शिशुरिव
दीप्त्या राजमाना।
अस्पृष्टं निष्पापम्
प्रत्यग्रं सदा नवायमानम्
मनुष्यरूपं आविष्क्रियेत।
तन्न सम्भाव्यते,
तथापि सर्वं न प्रणष्टम्।
तिस्तानद्याः ओघे समुत्थिते
एहि जीवनपुस्तकपत्रम्
परिवर्तयाव
नवीनम् अध्यायमारभावहे
यद् गतं तद् गतम्
यदतीतं तदतीतम्।
उन्मोचनम्
केशराशिमेनम् अधः सारयितुं न शक्नुयास्त्वम्
यावत् निबद्धो वर्तते धम्मिल्लः
एहि पुनरारभावहे
मदिरायाश्चषकं धृत्वा
उपदंशांश्च पुरः स्थापयित्वा
एकः कटाक्षः अलं न स्यात्
अहं कामये स्पर्शम् अनुभवं च आत्मनि
तव कर्णे उपांशुजापं च कर्तुम्
तान् क्षणानाश्रित्य
यानहं चोरयितुमिच्छामि।
शिलान्तः
प्रिये ,
विगतायां निशि
मया दृष्टः स्वप्नः
यदहम् –
तव धमनीषु प्रविष्टः
तासां धमनीनाम्
सीमानस्त्वयापि न ज्ञायन्ते
विश्वसिहि, सत्यमेव अहं तासु प्रविष्टः।
तव चर्ममर्मणि -
अहं त्वां स्पृष्टवान्
तव कायस्य अभ्यन्तरम्
मया विलोकितानि
त्वया अदृष्टचराणि
तानि तानि स्थलानि
अहं प्रधावितस्तव हृदयगत्या
तव रक्तप्रवाहमहमनुभूतवान्
तत्र सम्मिलितो हम्
न उन्मज्जितुमपि ऐच्छम्
जागरितः
अहं शय्यायां स्थितः
चिन्तयामि –
इयं यात्रा अन्तरायसङ्कुला वरीवर्ति
आवाभ्यां स्वकीयं चर्म मोचनीयम्
अनन्तरं च गमनीयानि
तानि स्थलानि
अविचारितरमणीयानि
जानास्येव त्वम्
एकदा निश्चेतव्यमेव आवाभ्याम्
यत् जागरितौ आवाम्
भिन्नेन मार्गेण जीवनं यापयिष्यावः
बन्धनमुक्तः
इयं हिमफलसन्तानिका
यथा आरक्ता ततोऽ प्यधिकम्
मधुरतरा स्यात्
प्रवहेत्
मम देहस्य पर्वसु पर्वसु
स्फुरितो यमानन्दः
उचितानुचितविवेकं छादयन् विजृम्भते।
मम कथा आत्मानं गोपायते
गरिममयजीवनस्य
अपूर्णानां स्वप्नानां च
विविवधसन्धिरेखानां पृष्ठतः
सर्वे पि मार्गा नामिताः
ऋज्वी यात्रा
प्रत्येकं कपिशीर्षकम्
पूर्वनिर्धारितं कालेन सम्प्राप्तं च।
अद्य अहं स्खलितसम्पातं यातुकामो स्मि
अयं समयः समागतः
यदहं स्वयं स्वमार्गं वृणुयाम्
शालीनतया पूर्वनिर्धारितैराकारैश्च सङ्कुचितं
जीवनमिदं जह्याम्
स्ववेगेन गच्छेयम्
नखनिकृन्तन्या कृत्ता जीवनपद्धतयः
पृष्ठत उज्झिताः स्युः
अहं स्वमनसा नवीनरथ्या अन्विष्यामि
कन्याभावरमणीयं मम उड्डयनम्
स्वातन्त्र्यसमुच्छलितम्,
यत्र सूक्ष्मदर्शियन्त्रेणेव दर्शनं लभ्येत
ऋतस्य अनृतस्य च।
जीवनमिदं क्षणप्रभाभासः
यात्रा दिव्या
एहि आरभावहे
मदिरायाश्चषकमेकं करे धृत्वा।
कलात्मकौ करौ
कलात्मकौ करौ
यौ स्पृशतः
रूपाय आकारं प्रददतः
आकारं साधयतः
गुम्फतः सौन्दर्यम्
तौ शीतगृहे अवसन्नान् स्वप्नान् जीवयतः
तौ निद्राधीनाः कल्पनाः
शय्याया उत्थाप्य जागरयतः
उष्णे नयने
तौ अटद्विश्वं विरमयतः
तौ उन्मीलयतः जीवद् विश्वं
यस्मिन् स्पन्दन्ते प्राणाः
यस्मिन् कायश्चात्मा च
निर्वसनौ।
पथान्वेषकाः</div>
तव नयनयोः पुर एव
अहं द्रष्टुमीहे
प्रस्थानबिन्दुं तव कृते मम कृते च।
अहं तत् अन्वेष्टुमिच्छामि,
ततः परम् अहं जानीयाम्
यन्मया न क्वापि इदानीं गन्तव्यम्
अपि नाम आवां विलुप्तौ स्याव
सामान्यवस्तूनां संसारे
यत्र प्रजननमात्रसीमितं जीवनम्
समारभ्यते
एहि नवयात्रायाम्,
आवां शेवधिं लप्स्यावहे
अन्ये सर्वे
पृष्ठ उज्झिताः स्युः
जानाम्यहम्
आगच्छत्सु वर्षेषु
आवां नवसमारम्भं करिष्यावः
यत्र अतीतस्य ग्रन्थयो मुक्ता स्युः।
अपि नाम त्वया मम पदचिह्नानि
‘एतादृशे यन्त्रणादायके पथि
न वयं कदापि प्रचलितानि’
इति निगदन्ति श्रुतानि
यत्र विगतदिवसानाम् आसुरश्छद्माघातः
अस्माकं वर्तमानभीतीः विराड्रूपतां नयन्ति।
प्रभातसूर्यः परामृशतु -
स्वकरैरावयोर्वदनम्
प्रसादसदनं तत् रचयन्
निमज्जयतु स नौ
आलिङ्गनस्य उष्णबन्धने
उड्डयन्तु अन्तसि संरक्षिताः क्षणाः
परीक्षन्तां जीवनावसरान्।
कन्याभावरमणीयः कालः
आविष्करोति
विविधवर्णविच्छित्तीः
छायाः याः सन्ति अदृष्टपूर्वाः
याः पर्युत्सकीभावविवशं विधास्यन्ति चित्तम्।
अयमस्ति समयः
यद् आवां छद्मप्रदर्शनान्निवर्तावहे
पुनराविष्कुर्व आत्मनो मुग्धताम्,
सूचनानां सम्भारः
जीवनसौन्दर्यं विकारयति
सत्यं क्षणानां गहनकान्तारे निवसति।
यदा स्मृतिः कालस्य गतिं विस्मरति
न जानाति च दिशः स्थितिम्
मनसः रेखानां चया इव
सा परिभाषामतिक्रामति
तथात्वे त्वं प्रेम च घृणामपि च विस्मरिष्यसि
आत्मनि अवलोकय
आविष्कुरु प्रेम
मिथ्याप्रपञ्चं पृष्ठतस्त्यज
मम नयनयोः प्रतिबिम्बितं द्रक्ष्यसि त्वम्
आत्मनो वदनम् आत्मनश्चायतिम्
सजीवा कोशिका
यस्य नियतिर्मृत्युः
जीवनचक्रे चङ्क्रमणमारभते
अन्तिमचक्रे प्रवेशात् प्राक्
सा अन्विष्यति
दिव्यं धाम
यदधिकृत्य शोश्रूयन्ते पुराकथाः।
यदि वयं स्वजीवनं ससम्मानं यापयाम
तर्हि कदाचित् सौभाग्यशालिनो भवितुमर्हाम,
प्रभुः अस्मान् प्रवेशयेत् स्वधाम्नि
यतो हि वयं किमपि पापं न कृतवन्तः
लीलाविलासेभ्यो विरता अतिष्ठाम।
जीवनयात्रा अस्माकम्
निपतन्ती तारा इव वरीवर्ति
दीप्त्या स्फुरति क्षणं
तत्क्षणं च निर्वापिता
वयं आत्मप्रवञ्चनायां जीवामः
अन्तकालमुपेक्षमाणाः।
शनैः शनैः जीवनकोशिका म्रियन्ते।
यथा यथा अहं शृणोमि
चक्राणां द्रवीभूतं ध्वनिं
जलपरीवाहानां मध्ये
पश्यामि प्रभातं प्रक्षालितम् ।
स्वर्गस्य समृद्ध्या
अस्मज्जीवनस्य पङ्कः प्रक्षाल्यते
न सूर्यरश्मिभिः।
सर्वं स्तब्धम्,
धारासम्पातेन आनन्दस्नपितम्
यथा नवजातः शिशुः
प्रगाढनिद्राधीनः।
प्रकृतिरात्मानं नवीकरोति,
एतन्नवीकरणमेव जीवनस्य औषजनम्,
परिवर्तनमपेक्ष्यते सर्वैरस्माभिः
जीवनस्य सन्धारणाय ।
प्रकृतेर्भावदशानुकूलं
वयं स्वभावदशा अनुकूलयाम
अस्मिन् क्षणे तु
अहं त्वामालिङ्गितुं कामये।
त्वं मम जीवनस्य आश्वासनं
त्वयैवाहमेतावता धारितः
सखी, प्रेमिका, सचिवः
त्वं मम प्राणानामवलम्बनम्।
शङ्कानामावर्ताः
अन्तर्बुद्बुदायन्ते स्म
मम विचाराः सङ्गरोधने स्थापिताः
मम एकाकित्वं त्वया सदैव निवारितम्
मम अस्तित्वस्य लूतातन्तुजालं त्वया निस्सारितम्
त्वं मम जीवनरणे झाँसीश्वरी आसीः
साहसेन युध्यन्ती
संशया द्वन्द्वा मां कवलयन्ति स्म
त्वं मम अन्तर्विद्रोहान् क्षपितवती
वर्तमानं ममान्तसि सङ्कुलीभवति
अतीतं च मम मस्तिष्के
त्वया बह्वीनां स्मृतीनां समाधाने मम साहाय्यं विहितम्
सामञ्जस्यं मयि स्थापितम्।
एकान्तं मत्कृते कामं
सुदूरवर्ती स्वप्नः स्यात्
पुष्पपत्राणां सुवासः
जीवनस्य उत्सवं मानयन्
जीवनस्य औदार्यं समालिङ्गन्
मा भवन्तु शष्परहिता भूखण्डाः
जीर्णारण्यसमाः
ये कुत्रापि न नयन्ति
अयं समयः समागतः
यदहं गृह्णीयाम तव करं
जोषं च व्रजेयम्
शान्तिमनुभवन्
नामपट्टिकेव वर्तते
मम नाम,
तन्मया संसक्तम्
यथा मम भाग्यम्
पश्यन्तु, कश्चन विद्यते हजारासिंहो नाम
अपरो लाखासिंहो नाम
अन्यश्च पियारासिंहो नाम
अथवा एतदपि पश्यन्तु यत्-
केचन किरोड़ीमलाः स्युः
मँहगारामाः स्युः
तिजोड़ीमला वा स्युः
नामसु कथाः विहिताः
ताः प्रायशः अकथितास्तिष्ठन्ति
अहमेकां कथां कथयामि –
जोली च पप्पी च
अनयोः प्रसादसदनं युगलम्
तौ विगतचिन्तं ससुखं जीवनं यापयतः
तयोः प्रथमा सन्ततिः
तस्याः लकीति नाम विहितम्,
अथ अन्यो पि तनयो जातः
तस्य नाम हैप्पीति कृतम्।
अथ समायाता स्वीटी
सा विधातुः आनन्दमय उपहारः।
दम्पती आनन्दस्य परां काष्ठामन्वभूताम्
तयोर्जीवनं नासीत् कश्चन अनुतापः।
तस्मिन् सामञ्जस्यमये तयोर्जीवने
टामी नाम शुनकः सम्प्राप्तः।
अथ लकिना प्रिया काचन प्राप्ता,
चीकीनामधेया,
गृहे प्रतिदिनं जायमाने कलकले
अन्य एकः स्वरः सम्मिलितः।
पप्यै न रोचते स्म चीकी.
यतो हि सा मुक्तहस्तं व्ययीकरोति धनराशिम्,
तस्य आगमनेन
रिच्यते स्म गृहस्य सर्वा समृद्धिः।
पप्पीर्विचिन्तयति –
भूयान् भवति व्ययः
सग्धिषु सपीतिषु
आनन्दानामन्वेषणे।
सा स्वपतिं प्रबोधयामास
गोल्डीनामधेयया चिरण्ट्या उद्वाहयेत् द्वितीयं तनयं हैप्पिम्,
विदधति तस्याः परिवारजनाः
मणिमुक्तानां वाणिज्यम्।
गोल्डी-चीकीत्यनयोः वध्वोः
कलहा वर्धन्ते स्म
तेन परिवारस्य शान्तिः
क्षीयते स्म
स्वीटी सम्प्रति यौवनमारूढा
पितृभ्यां तस्या विवाहसम्बन्धो दृढीकृतः
दर्शनीयः षिङ्गोऽ सौ
उन्मादयिता
युवतीनाम्
लवलीत्याख्यः।
सम्बन्धिन आसन्
विशालानां भण्डारगृहाणां स्वामिनः
अतो यौतकत्वे
स्वर्णचयं ग्राह्यमभवत्
स्वीटी नासीत् प्रसन्ना,
हैप्पी च लकी च
विषण्णौ
तौ स्वस्वसारमुक्तवन्तौ
भगिनि, निर्वह कथञ्चित्
अथवा वद स्वभर्तारम् –
पृथक् गृहं स व्यवस्थापयेत्
युवाम्
कुटुम्बात् पृथक् भूत्वा
एता एव नवीना जीवनरीतयः
एता ग्राह्याः
सर्वैः
एते ह्यस्तना जनाः
एतेषां गृहेषु श्वश्रू-वध्वोः कलहाः
जायन्ते
आधुनिकी जीवनशैली
सङ्घट्टते मातरं पत्नीं चान्तरा
मध्यमवर्गीयाः
साफल्यं प्रयाताः जीवने
यापयन्ति
संशय-द्वन्द्व-तानव-ग्रस्तं जीवनम्
अस्मिन्
आपणायमाने मूढसंसारे
पारम्परिकजीवनमूल्यानां रक्षा
असुकरैव