अलक्ष्येन्द्रश्च दस्युश्च
(संक्षिप्तपरिचय:- ग्रीसदेशान्तर्गतस्य मैसेदन नगरस्य राजाऽयमलक्ष्येन्द्रो महावीर: साहसी बुद्धिमानुदाराके दृढचित्तश्चासीत्। एतस्य जन्म ईशो: ३५६ वर्षेभ्य: पूर्वमभवत्। विंशतिवर्षात्मके नववयसि राज्यसिंहासनमधिगत्यैव सोऽयं बाख्तरपारस्यदेशावाचक्राम। देशयोरनयोर्विजयेन वद्र्धितोत्साह: सोऽयं विश्वविजयाय प्रचक्रमे। बाह्लीकदेशं विजित्य तेनैव पथा सोऽयं भारताभिमुखोऽभवत्। तक्षशिलाया अधिपतिर्विजयिनोऽस्य शासनं स्वीचक्रे किन्तु 'जेहलम् नद्यास्तटे 'पोरस नामा तत्प्रदेशाधिपति: परमपराक्रमेणैतस्य मार्गमवाऽरुधत्। अलक्ष्येन्द्रो पराक्रमेण तुष्ट: स विजितमप्यस्य राज्य प्रतिददौ।
एष हि व्यासनदीं यावद्भारतमाययौ, परमितोऽग्रेऽभिगन्तुं तस्य सेना न सम्मेने। अतएव स निजसैन्यं द्विधा विभज्य, एकं भागं जलमार्गेण पारस्यदेशं प्रेषयामास। अपरेण च भागेन सह स्वयमीरानादिदेशेषु सञ्चरन् स्थलमार्गेण स्वदेशं पराववृते। किन्तु यथैव 'बावलमुपगतस्तथैव मार्गक्लेशेन रुग्ण: स आयुषस्त्रयस्त्रिंशत्तमे एव वर्षे शरीरं विजहौ। उदारप्रकृतेर्वीरस्यास्य निगडितेन दस्युना सह य: सन्लापोऽभवत्सोऽधस्ताद्दीयते)
अलक्ष्येन्द्र:- किं त्वमेव स दस्युर्येन मां तृणवदवमन्य प्रदेशेऽस्मिन्नुत्पात: प्रारब्ध:?
दस्यु: - महाराज! अहमस्म्येक: सैनिक:।
अलक्ष्येन्द्र: - किमुत्तम्? त्वं सैनिकोऽस्यथवा लोकानां लुण्टाको हिंसकश्च। अहं तव वीरतामवश्यमाद्रिये किन्तु तवाऽत्याचाराणां कृते त्वामवश्यं दण्डयिष्यामि।
दस्यु: - प्रभो! मया किमीदृशमपराद्धं येन मां निर्दयं दण्डयसि?
अलक्ष्येन्द्र:. - किं त्वं ममाऽपमानं नाऽकार्षी:? किं त्वया देशे अशान्तिर्न प्रवर्तिता? किं तव जीवनं मनुष्यजातेर्विनाशायैव न व्यतीतम्?
दस्यु: - पृथ्वीनाथ! सम्प्रत्यहं भवदायत्त:। यत्किञ्चिद्वदिष्यति, श्रोष्यामि। यं दण्डं दास्यति, सहिष्ये। किन्तु भवान्ममाऽन्तरात्मन: स्वतन्त्रतां नापहर्तु शक्नोति। श्रीमता ये ये दोषा मयि स्थापितास्तेषां परिशोधनाय यद्याज्ञा चेद्वदामि।
अलक्ष्येन्द्र: - अहं त्वां निर्विशङ्कमुत्तरयितुमाज्ञापयामि।
दस्यु: -तर्हि सविनयमहं पृच्छामि यद् भवता स्वजीवनं कथं यापितम्?
अलक्ष्येन्द्र: - मम जीवनं तथैव व्यतीतं यथैकस्य वीरस्य प्रशस्तं जीवनं व्यत्येति। किं तव न विदितं यदहं वीराणां सुमहान् वीर:, बलवतां सुमहान् बलवान्?
दस्यु: - महाराजमहं सम्यक् परिचिनोमि। महाराजो मामवश्यं जानाति। मत्तोऽधिक: साहसी भवत सेनापतिषु नैकाऽप्यस्ति। विकत्थनं न मेऽभ्यस्तम्। किन्तु महाराजोऽपि सम्यगिदं जानाति यन्ममाऽऽनयनाय प्रेषितानां वीरप्रमुखानामपि भवत्सेनापतीनां हृदयकम्पो नाधुनापि प्रशाम्यति।
अलक्ष्येन्द्र:. - किमनेन? त्वमसि तावत् लोकानां धनजीवनयोरपहर्ता, अपघाती एको दस्युरेव।
दस्यु: - श्रीमन्! देशानां विजेतारो राजान: किमन्यद् भवन्ति? राज्याधिगमलालसेन श्रीमतैव किं महामहान्ति राज्यानि न नाशितानि? सुखशान्तिपूर्णानि बहूनि नगराणि दु:खितान्यशान्तिमयानि च किं नापादितानि? हरितहरिता धनजनभरिताश्च वसतयो लोकान् हिंसता निर्दयं दहता च किं श्मशानतां न नीता भवता? अधर्मेण अन्यायेन च भवान् पर:सहस्त्रान् लुण्टितवान् हिंसितवांश्च। यदि शतं सहचरानादाय मया ग्राम एको धर्षिंतस्तर्हि लक्षं सैनिकानादाय भवता अनेके जनपदा राष्ट्राणि च विनाशितानि। यदि मयैक: पथिको लुण्टित: स्यात्तर्हि भवता अनेके राजानो राजकुमाराश्च धूलिसात्कृता:। यदि मयैको ग्रामो दग्ध: स्यात्तर्हि भवता पुष्पिता: फलिताश्चानेके जनपदा नगराणि राष्ट्राणि च भग्नावशेषतां नीतानि। भवति मयि च यद्यन्तरं तर्ह्येतावदेव यदहं दीनगृहे जातो भवांश्च राजवंशे। यदि सत्यकथनाय मे स्वातन्त्र्यं तर्हिं स्पष्टमहं कथयिष्यामि यदहं लघुतरो दस्युस्तर्हि भवान् महत्तमो दस्यु:। भवतोऽपराधा मदपेक्षया नि:संशयं गुरुतरा:।
अलक्ष्येन्द्र:. - यदि मया राजानो लुण्टितास्तर्ह्यन्ये राजानोऽपि तु सम्पादिता:! यदि मया राज्यानि नाशितानि तर्हि तदपेक्षया समृद्धतराण्यन्यानि राजान्यपि प्रतिष्ठापितानि। मया हि देशस्य वाणिज्यं प्रवद्र्धितम्, विद्याश्चोन्नतिं नीता:।
दस्यु: - मयापि धनिकेभ्यो यद्धनं गृहीतं दद्दीनेभ्यो दत्तम्। किन्त्वेतदहं सुदृढं जानामि यद्भवतां मया च लोकानां यावती हानिरापादिता तच्चतुर्थांशोऽपि न परिशोधित:, न शक्यश्चाग्रे परिशोधयितुम्।
एतच्छ्रुत्वैव अलक्ष्येन्द्रस्य रोमाण्युत्थितानि। सरभसं भृत्यानाज्ञापयत्- 'अस्य बन्धनानि त्वरितमपनयत। हा हन्त! किमयमहं च समानौ? सूक्ष्मतया विचारयिष्याम्यहमेतत्।
वीरबालक:
मेवारराज्ये उदयपुरराजधानी नाधुनापि सम्पूर्णं निर्मिता। चलत्यधुनापि निर्माणकार्यम्। कुटिलनीतिनिष्णातस्य दिल्लीपतेरकबरस्य नीतिकौशलेन पुरातनी चित्तौरराजधानी हन्त हन्त! विच्युता खलु मेवारराजवंशीयानामधिकारात्। अधिकाधिकं च विजृम्भते दिल्लीपतेर्मेवारराज्योपरि सन्दंश:। राज्यस्येतस्ततश्चलन्ति खण्डयुद्धानि। परं मेवाराधिपतिश्चित्तौरस्य, मेवारमुकुटमणेश्चित्तौरस्य, पुनर्ग्रहणार्थं कियत् किं वा प्रयतते? राजधानी शत्रोर्हस्ते गता, परित: प्रवर्तते शत्रोराक्रमणम्, अथापि मेवाराधिपतेर्नास्योपरि भू्रक्षेप:!! आ: शृणुत! प्रासादे समुत्तिष्ठति सङ्गीतध्वनि:!
मेवाराधिपति:-उदयसिंह: सिंहासनमध्यास्ते। तदुभयपार्श्वयोर्विलाससहचरा: सन्ति तन्मन्त्रिण:। अग्रतस्तु, विजृम्भते झणत्कारो नर्तकीनाम्! गीतेरुपरि गीति:, नृत्योपरि नृत्यम्, न मनागपि विराम:, प्रेमपीयूषसारभूता चलति सङ्गीतलहरी। परं नाद्य मेवाराधिपतेश्चित्तं प्रसन्नमालोक्यते। कियत्कालानन्तरं प्रोक्तं राज्ञा- ''विश्राम्यतु साम्प्रतं सङ्गीतम्।
मन्त्री- अनुमीयते नाद्य महाराजस्य प्रसन्नं चेत:। अपि शक्यते ज्ञातुं कारणम्?
उदयसिंह:- प्रधानकारणं शक्तसिंह:।
मन्त्री-एषा तु परिहासकथा, पञ्चवर्षदेशीय: शिशु:शक्तसिंह: श्रीमतां चिन्ताकारणम्?
उदयसिंह:- आसीद् राजा हुंमायू ज्यौतिषशास्त्रे विशारद:। तेनैव, प्रभावशालिनात्मज्यौतिषेण दिल्लीपतेरकबरस्य निर्मिता जन्मपत्री। शक्तसिंहस्यापि स एव निर्मितवान् जन्मपत्रिकाम्।
मन्त्री- तत्र किं तेनोक्तम्?
उदयसिंह:- यद्धि मेवारस्य शक्तद्वारा भविष्यति सर्वनाश:। शक्तो हि राजपुत्रकुलकलङ्क:।
मन्त्री- अपि सत्यमेवैतत्?
उदयसिंह:- अव्यर्था तस्य गणना।
एतावतैव साभिवादनमावेदितं दौवारिकेण-''महाराजस्यादेशानुसारं स कर्मकर: तीक्ष्णधारं क्षुरमेकं निर्माय आनीतवान्। अपि भवेत् तस्मै आगन्तुमादेश:?
उदयसिंह:- इदानीमेव द्रक्ष्यामि। प्रवेशय शिल्पिनम्।
दौवारिक:- शिल्पिना सहाचिरादेवोपस्थित:। सहैव चानेन क्रीडाव्यस्त: शिशु: शक्तसिंहोऽपि नृत्यन् नृत्यन् प्राविक्षत् सभाभवनम्।
अतिसतर्कभावेन तूलराशिमास्तीर्य जायते स्म क्षुरधाराया: परीक्षा। एतादृशे समये प्रावदद् बाल: शक्तसिंह:- ''किन्नु नानेन छिद्यते अस्थिमांसम्? इत्युक्त्वैव च तीक्ष्णधारं तत्क्षुरमात्मनो हस्ते निचखान! हस्तात् क्षरन्ती शोणितधारा महामूल्यमास्तरणवस्त्रं सिक्तवती। सकला अपि साम्प्रतं जडीकृता:, न केषामपि मुखे वाक्! किन्तु पञ्चपञ्चवर्षीयस्य शिशोर्नास्योपरि भू्रक्षेप:।
उदयसिंहस्य सर्वशरीरं कम्पमानमासीत्। गम्भीरस्वरेण प्रोक्तवान् स:-''बालकस्यास्य भविष्यज्जीवनस्यापरोऽयं परिचय:। नान्यत्, क्रियतामस्य वध:। मेवारसर्वनाशकारिण: खल्वरक्षणीयं जीवनम्।
अभवन् सकला अपि स्तम्भिता:। नासीत् कस्यापि मुखे वाक्। तदा चक्षुररुणीकृत्य प्रोक्तमुदयसिंहेन-''दौवारिक! अपि न श्रुतो राजादेश:?
दौवारिक: किञ्चिदनुक्त्वा महाराजमभिवाद्य जग्राह बालकस्य हस्तम्। उदयसिंह: प्रोक्तवान्-''नीयतामयं वध्यभूमौ, इदानीमेव येन प्रतिपाल्येत आदेश:।
शक्तसिंह: क्षणमवाग् भूत्त्वा ददर्श पितुर्वदनम्। किन्तु न प्रोक्तवान् किञ्चिदपि। दौवारिको नीतवान् राजकुमारं वध्यभूमौ।
दौवारिको बहिरागत्य स्नेहपरवशश्चुचुम्ब बालकस्य मुखम्, किन्तु निर्भीको बाल: प्रोक्तवान्-''क्व हनिष्यसि?
दौवारिक: सविस्मयं पञ्चवर्षदेशीयस्य शिशोर्वदनं विलोकयन् क्षणमस्थात्। बालकेन पुन: प्रोक्तम्-''देहि प्रतिवचनम्।
दौवारिक:- किंवा वदामि, भवतो हस्तात् पतत्यधुनापि रुधिरम्।
शक्तसिंह:- उष्णीषेण बन्धयिष्यसि क्षतस्थानम्?
अहो वाक्चातुर्यम्! अहो शलेषोक्ति:? दौवारिको विच्छायवदन: सन् प्रोवाच- ''किमुक्तम्।
शक्तसिंह:- यस्य हि कण्ठान्निमिष्यति रुधिरस्रोत:, तस्य हस्ते रक्तमालोक्य किमित्येतादृशी मनोवेदना? क्वाधुना हनिष्ससि ब्रूहि!
दौवारिक:- वध्यभूमौ।
शक्तसिंह:- इतोऽपि दूरे गमिष्यामि?
दौवारिक:- राजाज्ञया।
शक्तसिंह:- प्रस्तुतोऽस्म्यहम्।
पश्यतोरेव तयो:, तत्स्थानं जनाकीर्णमभवत्। बहव: प्राज्वलन् प्रदीपा:। वीरबालक आत्मनो जीवनलीलां समापयितुं प्रचलति स्म वध्यभूमिम्! मार्गे शलूम्बराराजो निशीथसमये पथिमध्ये पदचारिणं प्रहरिवेष्टितं शक्तं दृष्ट्वा विस्मयमापन्न: प्रोवाच-''राजकुमार! कुत्रास्मिन् निशीथे?
शक्त: सहास्यमवदत्-''आत्मबलिं दातुम्।
शलूम्बराधिपति:-कुत:?
शक्तसिंह:- अनावश्यकमेतत्कथनम्। राजाज्ञां पालयितुं प्रयाम्यहम्।
शलूम्बराधिपति:- राजकुमार! शक्त! किमेतद् ब्रवीषि?
शक्तसिंह:- सत्यमेव वच्मि।
शलूम्बराधिपति:- एवं सहास्यवदनो दास्यसि जीवनम्?
शक्तसिंह:- निश्चितम्। न चेद्विश्वास: सह गन्तव्यम्।
शलूम्बराधिपती रोदितवान् मुक्तकण्ठम्। श्रुतवाञ्श्च समस्तां घटनाम्। अन्ततस्तु यावदहं न परावर्ते तिष्ठतु तावद्वधकार्यमित्युक्त्वा जगाम उदयसिंहस्य समीपे। तत्र च चक्षुषोर्जलेन, अनुनयेन, विनयेन च, पुत्रवधपातकान्निवर्तयामास तम्। स्वयं च पोष्यपुत्ररूपेण जग्राह शक्तसिंहम्। मेवाराधिपतिरपि मेवारराजवंशेन न कोऽपि शक्तसिंहस्य सम्बन्ध इति कारयामास प्रतिज्ञाम्।
हन्त हन्त! वीरबालक! यदि न ते शक्तेर्दुरुपयोगोऽभविष्यत् तर्हि नेयं मेवारभूमि-र्यवनपदकलङ्किताऽभविष्यत्। मेवारभूमे!! सत्यं शोचनीयस्ते तादृश: समय आसीत्!!
वीरपरीक्षा
सिन्धुनद्यास्तटे यूनानदेशीयानां रणपोतानां महानेक: संघोविश्राम्यति। नद्यास्तटे शिविरस्य सम्मुख एव विश्वविजयी सिकन्दर: सन्ध्यासमयस्य शोभां निरीक्षते। भगवान् सहस्रकिरण: साम्प्रतमस्तोन्मुख:। एतस्य हि सुवर्णरुचय: किरणा: सिकन्दरस्य मुखे परित: प्रतिफलन्ति। अमुष्य सेनापति: सेल्यूकस: समीपगमी सन् संलपति सम्राजा।
सिकन्दर:- सेल्यूकस! सत्यमयं देशो विश्वस्मिन् वैचिर्त्यस्य भूमि:। दिवा प्रचण्ड: सूर्य: सुनीलमेतस्य गगनं सुभृशं सन्ताप्य यथैव पृष्ठं परावर्तयति तथैव निशि सुप्रसन्नश्चन्द्रमा: समागत्य स्निग्धया निजज्योत्स्नया तदेतत् सर्वत: स्नपयति। निविडान्धकारायां निशि देशस्यास्य सुनीलमाकाशमगणितैस्तारागणैर्यदा किल सर्वतो देदीप्यते तदा ह्यहं विस्मितश्च प्रभावाक्रान्तश्च तदेतत्पश्यामि। जलधरसमये कज्ज्लमलिना: प्रकाण्डघना गुरुगभीरं गर्जन्तो यदा ह्यस्याकाशं दुर्दान्तदानवा इव सर्वत: समाच्छादयन्ति तदाहं नीरव-निस्तब्ध: केवलं विलोकयामि। एतद्देशस्य शिरोभूषणं गगनचुम्बी बभ्रुवर्णो हिमालय: शिरसि शुभ्रं तुषारमुकुटं वहन् धीरभावेनावतिष्ठते। एतद्देशस्य सुविशाला नद-नद्यो मत्ततयेव फेनायमाना: सागरामिभमुखं प्रवहन्ति। मेदुरा च मरुभूमि: स्वेच्छाचारिणीव तप्तबालुकया निस्तब्धं खेलतीव।
सेल्युकस:- सत्यमिदं सम्राट्!
सिकन्दर:- कुत्रचित्तालवनं मदेन शिर: कम्पयद् भूरितरं गर्वायते। अपरत्र विराड् वटवृक्ष: स्वच्छां स्वच्छायां परितो विस्तारयति। क्वचिन्मदमत्तो मातङ्गो जङ्गम: पर्वत इव शनै: शनैर्विहरति, क्वचिद्विशालकायोऽजगर: आलस्यसहचरी हिंसेव वक्ररेखायां निपतितोऽस्ति। कुहचिद्-दीर्घशृङ्ग: सारङ्ग: साक्षान्मुग्धो विस्मय इव मुग्धमधुरया दृष्ट्या शून्यं वनं विलोकते। सर्वतोऽधिका च सेयं वार्ता यत् सौम्या, गौरवर्णा, सुन्दरा चैका जातिर्देशमिमं शास्ति। अमुष्या मुखे शिशुवत् सारल्यम्, देहे वज्रस्येव शक्ति:, चक्षुषो: सूर्यस्येव दीप्ति:, वक्षसि च वात्येव प्रबलतमं साहसम्। अहह एतादृशस्यैव शौर्यस्य पराजये नूनमानन्द:। जानासि, राजा पुरुर्यदाऽस्माभिर्निगडितस्तदा किमयमभाषत्? सैल्यूकस:- किं सम्राट्?
सिकन्दर:- पृष्टं मया-त्वं मत्त: कीदृशस्याचरणस्य प्रत्याशां धारयसि? तेन हि निर्भीकनिष्कम्पेन स्वरेण प्रोक्तम्- 'एकं राजानं प्रति अपरस्य राज्ञो यादृशमाचरणमुचितं तादृशस्यैव। अहमाश्चर्यचकितोऽभूवम्, मनस्यकरवं च यत्सत्यमियमेव वीरा जाति:। मया तदात्व एव तस्य राज्यं तस्मै प्रत्यर्पितम्।
सेल्यूकस:- कुतो नेदं सम्भाव्येत महानुभावे सम्राजि।
सिकन्दर:- त्वमेव वद सेनानी:! तस्य हि तादृशमुत्तरं निशम्य कोऽन्यो व्यवहार: कर्तुमुचित: स्यात्? महापुरुषमालोक्य मनसि मे महानुल्लासो भवति। नाहमेतावद्दूरं साम्राज्यमधिरोपयितुं समागत:, अपि तु निजमानसोल्लासेन स्वैरमिह दिग्विजयं कर्तुम्। वाञ्छामि यन्मे परस्तादपि मे कीर्तिर्जगति जागृयात्।
सैल्यूकस:- तर्हि असम्पूर्णमिमं दिग्विजयं त्यक्त्वा कथं सम्राट् परावर्तितुमिच्छति?
सिकन्दर:- दिग्विजयस्यास्य पूरणाय नूतनस्य यूनानसैन्यस्यावश्यकता संवृत्ता। अहो कीदृशमाश्चर्यं सेनापते! अहं सुदूरान्मसीधननगरादनेकानि राज्यानि जनपदांश्च तृणानीव पद्भ्यां दलयन्निहयावन्निर्विशङ्कमुपयात:। मया हि प्रबलवात्ययेव सहसा समागत्य महामहत्योऽपि शत्रूणामनीकिन्यो धूमराशय इव परितो विक्षिप्ता:। अद्र्धो ह्येशियाप्रदेशो मसीधनस्य विजयवाहिनीनां वीरचरणभारेण साम्प्रतं कम्पमान इव। भवितव्यवद् दुर्निवार:, कलहकाण्डवत्कराल:, दुर्भिक्षवन्निष्करुणोऽहमर्द्धस्यैशियाप्रदेशस्य वक्षसि रुधिराक्तं निजं विजयस्यन्दनमेतदवधि निर्निरोधमानीतवान्। कुत्रचिद् यदि बाधाऽनुभूता तर्ह्यस्मिन् शतद्रोस्तटे एव सर्वत: प्रथमम्।
[चन्द्रगुप्तं गृह्णन् अन्तगोनस: प्रविशति]
सिकन्दर:-अये अन्तगोनस:? किमिदम्? कोऽयं गृहीत:? अन्तगोनस:- गुप्तचरोऽयं श्रीमान् गुप्तचर:!
सैल्यूकस:- ओ:! कथमेतत्?
अन्तगोनस:- श्रीमन्! दृष्टं मया यदेष शिविरस्य सन्निधावेव निर्जने स्थाने शुष्कस्य तालपत्रस्योपरि किञ्चिदङ्कयतीति। अहं हि प्रसह्य द्रष्टुमभ्यलषमिदम्। ततो हि दर्शितवानयं तत्पत्रम्। किन्तु नेदमहं प्रभवामि वाचयितुम्। अतएव सम्राज: सम्मुखमानीतवानस्मि।
सिकन्दर:- किमलेखी: प्रिययुवक, वद सत्यम्?
चन्द्रगुप्त:- सत्यं वक्ष्यामि राजाधिराज सत्यम्। मिथ्याप्रलापो भारतवासिभिर्नाद्याऽप्यभ्यस्त:।
[सिकन्दर: साकूतां दृशमेकवारं निचिक्षेप सैल्यूकसे, ततोऽवोचच्चन्द्रगुप्तम्।]
सिकन्दर:- सम्यगिदम्। वद तर्हि तथ्यम्, किमलेखीद्भवान्?
चन्द्रगुप्त:- अहं हि सम्राज: सैन्य-सञ्चालनम्, व्यूहरचनाप्रणालीम्, सामरिकनियमांश्च अनुमानतो ह्येकमासादस्मि शिक्षमाण:।
सिकन्दर:- कस्य भो: सविधे?
चन्द्रगुप्त:- एतस्यैवोदारस्य सेनापते: समीपे।
सिकन्दर:- किमिदं सत्यं सैल्यूकस?
सैल्यूकस:- आम् सत्यम्।
सिकन्दर:- (चन्द्रगुप्तं प्रति) ततस्तत:।
चन्द्रगुप्त:- किन्तु यदाहमश्रौषं यद् यूनानदेशीयं सैन्यमिदं श्व एवेत: प्रस्थास्यति, तदा यन्मयाऽद्यावधि शिक्षितं तदेतत्पत्त्रारूढं कुर्वन्नासम्।
सिकन्दर:- केनाभिप्रायेण?
चन्द्रगुप्त: - न किल सिकन्दरशाहेन सह युद्धस्याभिप्रायेण।
सिकन्दर:- तर्हि?
चन्द्रगुप्त:- (विचार्य किञ्चित्) अस्ति. तर्हि शृणोतु सम्राट्। अहं हि मगधदेशस्य राजपुत्रश्चन्द्रगुप्त:। मम पिताऽभूद्विश्वविदितकीर्तिर्महापद्म:। मम वैमात्रेयो भ्राता नन्द: सिंहासनमिदमधिकृतवान्, निर्वासितवांश्च निर्दयं मामितो देशात्। तदेव प्रतिशोधयितुकामोऽहमितस्तत: पर्यटामि।
सिकन्दर:- तत:?
चन्द्रगुप्त:- ततोऽहं मसीधनाधिपते: सिकन्दरमहीपतेरद्भुतानि वीरचरित्राण्यशृणवम्। आकर्णयं चाहं यत् अर्द्धमेशियाप्रदेशं पद्भ्यां परिदलय्य, नद-नदीरतिक्रम्य, पर्वतांश्चोल्लङ्घ्य, दुर्वारविक्रमोऽसौ भारतमाक्रान्तवान्। आर्यकुलमार्तण्डं महाराजं पुरुं च पौरुषेण पराजितवान्। निशम्यैवेदं श्रीमन्! ममाभिलाष: समभवद् यत्पश्यामि कीदृशोऽसौ महावीर:। किंविधश्चायं पराक्रमेा यस्य हि भ्रुकुटिविलासमालोक्यैव समस्तोऽप्येशियाप्रदेशस्तस्य चरणयोरलुठत्। किंविधा च सा शक्तिरन्तर्हिता यस्या: समाघातेन महावीराणामार्याणामपि वीर्यमिदमुच्चलितमभूत्। अत एवात्रागत्य सेनापतेरस्य सकाशात्सैन्यपरिचालनशिक्षामध्यगच्छम्। मम हि स्वीयं राज्यं प्रत्याहर्तुमेवेच्छा, नान्यत्किञ्चित्।
[सिकन्दर: सैल्यूकसाभिमुखमपश्यत्]
सैल्यूकस:-नाहमिममभिप्रायमजानाम्। युवकस्यास्य मुखाकृति: सरलसंलापश्च मह्यमरोचत। अत एवाहं सरलभावेन यूनानदेशीयसामरिकपद्धते: सम्बन्धे युवकेनानेन सह प्राय: चर्चामकरवम्। नाहमिदमविदं यदयं विश्वासघातक:।
अन्तगोनस:- कोऽस्ति विश्वासघातक:
सैल्यूकस:- अयमेव युवक:?
अन्तगोनस:- अयं युवको न, अपि तु भवान्।
सैल्यूकस:- अन्तगोनस! मम वयस्तदिदं नाद्रियसे तर्हि मास्तु। परं ममाधिकारपदं तु क्षणं सम्मानयेथा:।
अन्तगोनस:- जानेऽहं भवान् सेनापति:, किन्तु भवानेको विश्वासघातक:।
सैल्यूकस:- अन्तगोनस!
[कोषात् खड्गमाकृष्टवान्]
अन्तगोनसोऽपि सरभसमसिमाकृष्टवान्, क्षिप्तवांश्च सैल्यूकसस्य शिरो लक्ष्यीकृत्य किन्तु ततोऽप्यधिकेन वेगेन चन्द्रगुप्त: सोऽयं स्वकरवालेन तमाघातं निवारितवान्। एतद्दृष्ट्वा ह्यन्तगोनसस्तं विहाय चन्द्रगुप्तमाक्रान्तवान्।
सिकन्दर:- (सरभसमुपसृत्य) तिष्ठ।
[एतस्मिन्नेवान्तराले अन्तगोनस्य खड्गश्चन्द्रगुप्तस्य कृपाणेन प्रत्याहत: सन् भूमावपतत्]
सिकन्दर:- अन्तगोनस!
[अन्तगोनसो लज्जयावनतवदनोऽभूत्]
सिकन्दर:- अहं तवौद्धत्यमिदं प्रत्यक्षमवलोकयन्नद्य त्वां राज्यान्निर्वासयामि। एकस्य साधारणसेनाधिकृतस्य हन्त सेयं स्पद्र्धा! अहमेतदवधि ते वैयात्यकाण्डमिदमवचन: सन्व्यलोकयम्। तवैतदपि साहसं स्यादिति नाहं स्वप्नेऽप्यभावयम्। गच्छास्मिन्नेव क्षणे, निर्वासितोऽसि त्वं मया।
[अवाङ्मुखोऽन्तगोनसस्तत: प्रातिष्ठत्]
सिकन्दर:- तव चाऽपराध: सैल्यूकस! न तथा गुरुस्तथापि भविष्यति सावधानो भवेर्यत् यूनानदेशीयसम्राज: सम्मुखे तत्सेनाध्यक्षस्य क्रोधाविष्करणं न शोभायै। किञ्च-युवक!
चन्द्रगुप्त:- सम्राट्!
नालोकितं सुषमया पुरसुन्दरीणां,
नेत्राभिभावि सुभगं नयनं मदीयम्।।७।।
नाहं स्पृशामि शकटीं न च लाङ्गलं वा,
जायां त्यजामि हय! नो क्षणमात्रमेव।
नो वा खलीनमुखतामुपयामि तत्त्वां
निन्दाम्यमन्दमिह वीक्ष्य रथं वहन्तम्।।८।।