धन्योऽसि धर्मवीर
सार्द्धं शताब्दीद्वयमतिक्रान्तम्। सर्वस्मिन्नपि भारते मोगलसम्राज ओरङ्गजेबस्य विजयवैजयन्ती प्रस्फुरन्त्यासीत्। उत्तरदिशि अफगानस्थानपर्यन्तम्, पूर्वस्यां वङ्गोपसागरं यावत्, पश्चिमायां सिन्धुतटाद्विलोचिस्थानावधि, दक्षिणायां च काबेरीतटान्तं मौगलसाम्राज्यं व्यस्तीर्यत। छत्रपतिशिवाजिना बीजापुर-गोलकुण्डाप्रभृतीनि पठानराज्यानि विजित्य या भारतधर्मपताका भृशमारोपिताऽभूत्तामप्यपरोपयितुं मोगलसम्राजा सुदृढमभूद् बद्ध: परिकर:। नि:सीमां यवनसेनामादाय चकार विजययात्रामवरङ्गजेब:। स्थाने-स्थाने हिन्दूनां तद्धर्मस्थानानां च विनिपातदृश्यानि चित्रितान्यभूवन्। धर्मप्रचारस्य मिषमादाय सर्वत्रापि दक्षिणभारते बर्बरताया: साम्राज्यं विस्तारमलभत। शान्तिमयी दक्षिणादिक् अत्याचारजैर्हाहाकारैराकुला समभवत्। एवं विधायां घोरपरिस्थित्यां भीमा-इन्द्रायणीनद्यो: सङ्गमे तूणपुरप्रदेशे या रोमहर्षिणी सहृदयहृदयकम्पिनी लोकोत्तरा घटना समभवत्तया हि भारतेतिहासस्य पृष्ठानि सर्वदार्थमङ्कितान्यभूवन्। कल्पान्तं च सेयमनपगामिनी स्मृतिमुद्रा इतिहासप्रेमिणां हृदयान्नोपमृष्टा भवेत्।
१६८९ तमख्रिष्टीयवत्सरस्यासीत्कृष्ण: फाल्गुन:। धर्मवीरतासाक्षिणी समुदगादमावस्या। पवित्रतमेऽस्मिन्नेव दिने धर्मवेदेरुपरि यत्किल लोमहर्षणं काण्डमभ्यनीयत तेन हि सर्वापि दक्षिणा दिक् सहसैवाऽकम्पत। धर्मोन्मादमत्तो यवनसम्राडवरङ्गजेबो हिन्दुपते: शिवाजीमहाभागस्यारोपितां हिन्दुपताकां दर्शं दर्शमासीन्मनस्येव धूमायित:। स हि कुलद्वेषितां सत्यां करिष्यन्कूटोपायै: शिवाजितनयं सम्भाजिमहोदयं बलाज्जग्राह। पूर्ववैरमनुस्मरंश्चायं यवनधर्ममङ्गीकर्तुमेनं बहुधा विवशमकरोत्। अधिकारपदस्य प्रलोभनानि, राज्यसमर्पणस्य च प्ररोचना: सम्मुखीकृत्य सम्भाजिनमात्मसात्कर्तुमयमजस्रं प्रायतत्। परं हिन्दुपतिपुत्र: सोऽयं तान्येतानि प्रलोभनानि पदाघातेनावाहेलयत्।
इत उत्तरं धर्मपरीक्षाया द्वितीयं काण्डं प्रारभ्यत। बलात्कार: प्रावर्तत। सम्भाजिनमुन्मूलयितुं नानाविभीषिका: प्रादर्श्यन्त। निष्कोषै: खड्गै: परिवृतायाऽस्मै प्राणभयमदर्श्यत किन्तु धर्माभिमानी सोऽयं न कथञ्चिदपि व्यचलत्। खड्गकोटिभिर्वक्षसि निर्दयमाहतायास्मै यवनधर्मस्वीकाराय पुनरप्याग्रह: प्राकाश्यत परं धीरधुरन्धर:, सोऽयं नाकार्षीद् भ्रूक्षेपमपि। धन्याऽस्य धीरता। यद्ययमवाञ्छिष्यत्तर्हि भारतव्यापियशसो यवनसम्राजोऽनुग्रहात्प्रभूतं राज्यमलप्स्यत। सन्तीतिहासे बहून्युदाहरणान्येवंविधान्यपि। परं छत्रपतितनय: सोऽयमात्मोचितमसामान्यं धैर्यमेव सर्वथा प्रकटीचकार। शिवाजी यथा प्राणापगमपर्यन्तं राष्ट्ररक्षार्थं मोगलै: सह निर्भीकं युयुधे, तथैवाऽयं विवशदशायामपि प्राणान्तं यावन्निर्भीकतया धर्मरक्षार्थं समनह्यत। यदि पिता राष्ट्रवीर: समभूत्तर्हि पुत्रोऽयं धर्मवीरपदमर्हतीति को वा न सम्मन्यते। कैश्चिदितिहासकारै: सम्भाजिनो दूषणानि प्रकटीकृतानि परं भारतसाम्राज्यसूर्ये प्रचण्डं तपति सम्भाजिनोऽस्य यादृशी विवशदशाऽसीत्तां सर्वथा हृदये कृत्वैव किञ्चिदालोचनं समुचितं स्यात्।
सम्मुखे 'दिल्लीश्वरो वा जगदीश्वरो वा इत्यादि स्तूयमानो नि:सीमप्रतापशाली भारतसम्राट् अवरङ्गजीव आसीत्। अग्रे च नि:सहायतया विवशीकृत: सोऽयं सम्भाजी एकक: समभवत्। किमेतस्यां परिस्थित्यां सम्भवेत्? किन्तु सम्भाजिना अवरङ्गजेबाय यादृशमुत्तरं दत्तं न तत्साम्यं समग्रेऽपीतिहासे समुपलभ्येत। भारतसाम्राज्यदर्पितो धर्ममदान्धश्चावरङ्गजेबो भर्त्सनामिमामाकर्ण्य प्राज्वलत्क्रोधाग्निना। स हि तस्मिन्नेव समये प्रत्यक्षहननस्य ददावाज्ञाम्। हिंसाऽपि कीदृशी! यस्या: प्रत्यक्षदर्शनस्य का कथा श्रवणेनाऽपि हृदयवतो हृदयमुद्वेलते। प्रत्यक्षं पश्यतामेव लोकानां तस्य जिह्वा मुखान्निर्दयमाकृष्यत, खण्डशश्चाक्रियत। पुनर्नेत्रे लोहशलाकाभिर्बलादाकृष्य बहिरक्रियेताम्। परित: खड्गकोटिभिरस्य शरीरं सहस्रधा र्निदयमविध्यत। रक्तढझरी सर्वत: प्रास्रवत्। मांस-वसाभिस्तत्स्थानमपूर्यत। परमेवं बीभत्सकाण्डं प्रत्यक्षमीक्षमाणोऽपि सोऽयं नरनैकषेयोऽस्य शरीरं तिलश: खण्डयितुमाज्ञामदात्। तिलशोऽभूदस्य नश्वरमिदं शरीरम्, परं धर्मवीर: सोऽयं सीत्कारमात्रमपि कर्तुं नाऽभ्यरोचयद् बर्बरस्याऽग्रे। अपि धर्मवेदेरुपरि एवं धैर्येणात्मनो बलिदानं यत्र कुत्रचिदुपलभ्येत?
अहह प्रदीप्तैरक्षरैर्जागर्ति हृदि साऽपि घोरघटना यस्यां हि गुरुगोविन्दसिंहस्य द्वावपि बालकौ धर्मवेदेरुपरि जीवन्तावेव भित्तौ प्रोथितावभूताम्। राज्यप्रलोभनानि तिरस्कृत्य, भयानकविभीषिकाश्च पादघातमाहत्य पश्यत किमुक्तं धर्मधीराभ्यां बालकाभ्याम्-
घनाक्षरी- 'आस्तामुदयाद्रेस्तावदस्तावधि राज्यमिदं
तिष्ठतु परस्ताद्राजलक्ष्मीरविचलिता
किं बहुना, त्रैलोक्यस्य राज्यमपि प्राज्यमहो
धर्मपालनार्थं परित्याज्यमेव भविता।
बालावबलौ स्व: किं तु धर्मरतिरावयो: सा
कालानलतुल्यभवत्कोपान्न विगलिता
यवननरेश! कामं मर्माण्यवपाटय नौ
किन्तु निजधर्मादिदं चित्ते न विचलिता।।
अवश्यमवरङ्गजेबेन आत्मनो धर्मोदारतेयं प्रदर्शिता, भारते यवनसाम्राज्यस्थापनस्य चाऽलौकिक: प्रयास: प्रकटीकृत:, परं यमुत्साहमुरसि कृत्वा सोऽयं दिल्लीत: प्रास्थित स उत्साह: सर्वकालार्थं तिरोऽभूत्। धर्मवीरस्याऽस्य प्राणबलिसमर्पणेन तादृश: प्रभाव: परित: प्रासरद्येन हि यवनसाम्राज्यस्य मूलं दक्षिणभारत एव किं सर्वत्रापि शिथिलतमं चाकम्पितं चाऽभवत्। सम्भाजिनो निर्दयवधस्य संवादस्तडिदिव महाराष्ट्रेषु प्रासरत्। सेयमुद्धता बर्बरता शान्तशीतलमपि हृदयमुत्तेजयामास। घटनयाऽनया देशेऽकस्मादेव तादृशी शौर्यलहरि: प्राचलद्यस्यां हि यवनसाम्राज्यमिदं विवशमिव वेगेन प्रावहत्। अवरङ्गजेबस्तस्य सैन्यं च प्राणपणेन प्रचुरं प्रायतत् परं तमिमं प्रवाहं रोद्धुं न प्राभवत्।
इतिस्तदुपरि दैवविपदोऽपि धारापातमपतन्। तस्य प्राणप्रिया महिषी लोकान्तरमगच्छत्। सम्राड्दारिका जेबुन्निसाऽप्यम्रियत। अन्यान्ये च यवनसामन्ता मर्त्यगतिमलभन्त। अतीव क्लेशमापन्न: सम्राट्पदलाञ्छन: अवरङ्गजेबोऽपि किञ्चित्कालमवश्यमजीवत् परं तदेतस्य जीवनं कष्टोपभोगायैवासीत्। यत्किञ्चिदस्तु, स्वधर्मसभाजिन: सम्भाजिन: पाञ्चभौतिकं शरीरमवश्यं विलीनम्, परमितिहासपाठकानां हृदयेऽद्यापि समुज्ज्वलैरक्षरैर्जागर्तिं यत्- 'धन्योऽसि धर्मवीरेति।
अत्याचारिण: परिणाम:
(१)
गोरदेशीयो मुहम्मद: सर्वत: प्रथमं ११७८ तमे ख्रिस्टसंवत्सरे सिन्धुनदीमुत्तीर्य प्राविशद्भारतेऽस्मिन्। अनहिलवाडा, पट्नादीन् धनजनपूर्णान् जनपदान् लुण्ठितुं मरुभूमिमुल्लङ्घ्यासौ गुर्जरदेशस्य सीमानमधिजगाम्। किन्तु नासीत्तदापि भारतं वीरशून्यम्। विदेशीयदस्योरागमनसंवादमवाप्यैव धर्मस्य तीर्थस्थानानां चोच्छेदभयेन जजागार सर्वोऽपि देश:। धर्मरक्षणायोत्तेजिता गुर्जर-मालवयोर्वीरक्षत्रिया: संघश: समगच्छन्त राजधान्याम्। तुङ्गतमे एकस्मिन् गजराजे बालकमपि निजाधिपतिं समारोह्य प्रधानसेनापति: सीमन्येव समभिरुरोध प्रतिपन्थिनम्। तुर्कदेशीयै: सादिभिरतिवेगेन समाक्रम्यन्त वीरक्षत्रिया:, किन्तु भारतीयवीराणां खड्गधारायां दूरत: प्रावहत्सर्वमपि शत्रुबलम्। इतिहासकार: 'फरिश्ता लिखति- 'मुहम्मद: केवलं पञ्चशतयोधानादाय यथाकथञ्चिन्निजं गजनीस्थानमवापत्।
बहुकालं यावदसौ पुन: समचिनोत्सैन्यम्। भूयोऽपि निजबलं सञ्चित्यासौ ११८१ तमे वर्षे पुनराक्राम्यद्भारतम्। सिन्धुदेशमास्कन्द्य, प्रसिद्धं देवलदुर्गं पराजित्य, स्थाने-स्थाने धनजनान्विनाश्य, परस्सहस्रैरुष्ट्रैर्लुण्ठितं वसु सङ्गृह्य पुन: परावर्तिष्टाऽयं गजनीम्। ततस्त्रिवर्षानन्तरं ११८४ तमे ख्रिष्टसंवत्सरे पुनर्भारतमाविश्य लाहोरस्य प्रसिद्धं दुर्गमाचक्राम, किन्तु षणमासान् प्रचुरं प्रयस्यापि नाऽसौ प्राप साफल्यम्। तत: स्यालकोटस्थदुर्गमाक्रम्य, देशे पुनरशान्तिं सञ्चार्य, समीपस्थान्देशान्परिलुण्ठ्य, पुनरपि भूयस्तमं द्रविणमनयन्निजदेशम्।
ऐषम: सोऽयं मुहम्मदो यवनधर्मस्य प्रबलं ध्वजमुच्छ्रित्य, सर्वेभ्योऽपि यवनराज्येभ्यो योद्धॄणां प्रबलानि सैन्यानि सञ्चित्य, भारतस्याऽतुलं धनराशिमपहर्तुं भूयसा समारोहेणाऽक्राम्यद्भारतम्। किन्तु स्थाण्वीश्वरस्य सविधमवाप्त एवास्मिन् परमवीरो महाराज: पृथ्वीराज: (चौहान) सरस्वत्यास्तटे तरावडीनामके ग्रामे वीरक्षत्रियाणामद्भुताया: करवालधाराया: कारयामास परिचयम्। यवनैतिहासिका लिखन्ति यद् वीराग्रगण्येन पृथ्वीराजेन तादृशमसामान्यं शौर्यं प्रकटितं येन हि साहसिकानां शिरोमणिरपि मुहम्मदो यथाकथञ्चिन्निजजीवनं ररक्ष। स्वामिनो जीवनरक्षायै तुर्कवीरैर्निजशरीराणां राशय: कृता:, ततोऽप्यतिकाठिन्येन जीवितावशिष्टै: कतिपयैरेव शरीररक्षकै: सोऽयं मुहम्मदो मृतप्राय: पलाय्य निजदेशं नीत:।
रुग्णशय्यायां षणमासान्व्यतिगमय्य पुनरपि सुस्थीभूतो मुहम्मदो निजपराजयस्य दु:खमनुस्मरन्नतिक्रोधेन, उत्साहेन शौर्येण, कौटिल्येन च तुर्क- मुगल- ताजिक- (अरब) अफगान- गाजिनां च महामहद् दलमेकत्र चकार। एतन्मध्यत: सपादलक्षमश्वारोहानादाय सोऽयं सिन्धुनदीमुत्तीर्य प्रतिजिघांसया इन्द्रप्रस्थमभिससार।
किन्तु हन्त महाराजपृथ्वीराजस्य नासीत्पुरातनी स्थिति:। पारस्परिककलहै: विशेषतश्च कान्यकुब्जराजेन सह भयानकसङ्ग्रामेण, कह्नचौहानादिसुप्रसिद्धवीराणां परिक्षयेण, रात्रिन्दिवा विलासरसासक्तिवशादप्रबन्धेन चमूहानसैन्यमासीदिदानीं दुर्बलम्। यथैव स पुन: शत्रोराक्रमणस्य संवादमश्रौषीत्तथैव यथाकथञ्चिद्विलाससौधाद्बहिर्निष्क्रम्य निजसामन्तानामाजुहाव सभाम्, सज्जायमास च सैन्यम्। तरावडीक्षेत्रे पुनरपि द्वयो: पक्षयो: समनह्यन्त सेना:। किन्तु कुटिलो मुहम्मदो यस्य हि समरचिन्तया नासीन्निद्रा, भीषणायां रात्रावेव प्रचण्डं निजसैन्यं युद्धायाऽऽदिदेश। आसीद् घोरं गर्जन्ती भयङ्करी वात्या। सहैव मुशलधारावर्षं ववर्ष मघवा। निबिडान्धकारान्न ददर्श हस्तो हस्तम्। ईदृशे घोरतमे समये स ह्यतिसतर्कतया निजसैन्यं सज्जीकृत्य सरस्वतीमुत्तीर्य च भारतीयसैन्यमाचक्रामेदम्। हन्त बहव: क्षत्रियवीरा: शयाना एव न्यहन्यत। बहवस्तु जागरित्वापि न यावत् शस्त्रं गृह्णन्ति तावदेवाततायिभिर्व्यपोथ्यन्त सहसा। किन्तु यैर्वीरै: खड्गो लब्धस्तैरतिशौर्येण पराक्रन्त सम्मुखे। तत्कालं जागृतैरपि वीरैस्तथा शोर्येण युद्धं यथा सर्वापि क्षत्रियसेना विनाशमुखादासीद्रक्षिता।
भगवति भानौ प्रकाशमान एव भारतीयभानुमुदयमानं पृथ्वीराजमसौ ददर्श सम्मुखे। अष्टादशसहस्रमश्वधारान् येभ्यो ह्ययमेतदर्थमेव चिरात्समरशिक्षां ददौ, पृष्टतोऽनुकर्षन्मुहम्मदोऽभिससार पृथ्वीराजम्। अभूत्तुमलं नियुद्धम्। शत्रुसैन्यास्कन्नस्य स्वामिनो रक्षार्थं वीरवरश्चामुण्डराय:, सिंहविक्रम: सामन्तसिंह:, धीरश्चन्द्रपुण्डीरस्तत्सहचराश्चान्ये च दशसहस्रयोधा: समरमहामखेऽस्मिन् निजशरीराहुतिमदु:। हन्त सहस्र शक्षतानि तनौ वहन्नपि वीरशिरोमणिश्चमूहानराजो मूलकच्छेदं चिच्छेद शत्रुसैन्यानि। किन्त्वग्रे क्षीणापुण्यो ग्रह इव सरस्वत्या: पवित्रे तटे निपपात महाराजस्य वीरशरीरम्। हन्त हन्त चिरं स्वतेज: संसारेऽस्मिन् परित: प्रसार्य सोऽयं स्वातन्त्र्यसूर्यो भारतीयगगनात्सहसैवाऽस्तमगात्। तद्दिनादारभ्यैव च दुर्दान्तदैवेन निर्दयया निजलेखन्या भारतस्याऽस्य नामधेयं स्वतन्त्रदेशानां सूचीतो हन्त निष्करुणं व्यच्छिद्यत्।
(२)
इत: पर क्रूरा निर्दयाश्च वैदेशिका: संघश: समागत्य भारतीयप्रजानामुपरि भयानकमत्याचरन्। वर्द्धमानाऽहमदो मुहम्मदो रक्तपिपासुना निजसैन्येन सह प्रत्येकशीतकाले समागत्य दिल्लीप्रान्तीयैर्हिन्दुराजभि: सह घोरं युयुधे। एतस्मिन्नेवाऽवसरे मातृभूमिं पारतन्त्र्यनिगडितां दृष्ट्वा गक्करजातीया: शूरवीरा: समाक्रम्यन्त कोपेन। स्वातन्त्र्यप्रियास्ते दासताऽपेक्षया मरणमेव साधीयो मत्वा समवायन्त सिन्धो: प्राचीने तटे। गृहानग्निसात्कृत्य, स्त्रीबालानपि निहत्य, प्राणेभ्योऽपि प्रियाणि निजशस्त्राण्यादाय समभ्यसरंस्ते लाहोरपरिसरम्। यो वा यवन: सम्मुखमुपारमत्तमेव खण्डशोऽकुर्वन्। लाहोरमवाप्यैव गक्कारवीरा: सिंहविक्रमेण दुर्गमभ्यारोहन्, तृणनाशमनाशयंश्च शत्रुसैन्यम्। सिन्धो: शतद्रोश्च मध्यतो न तैरेकोऽपि परिशेषितो यवनवीर:।
दु:संवादमिममाकर्ण्य समग्रामपि निजवाहिनीमाकर्षन्मुहम्मद:। कुतुबुद्दीन ऐबकेन सह शतद्रुमुत्तीर्य समाजगाम लाहोरपरिसरे। पदे पदे समभूवन वीरैर्गक्करै: सह यवनानामायोधनानि। एकैकेनाऽपि रक्तबिन्दुना मातृभूमे: पूजां कृत्वा वीराग्रण्यास्ते गक्करा: समवापु: स्वर्गमादित्यमण्डलं भित्त्वा। एवमिव भारतं विधूय गोरदेशीयोऽसौ मुहम्मदो निदाघर्तोर्यापनाय विश्राम्यति साम्प्रतं सकन्धावारमास्थाप्य सिन्धुसरित्तटे।
(३)
अर्द्धरात्रस्य समय:। वहति मन्दं मन्दं सुखदो वायु:। विराजति च परितो नीरवनिस्तब्धता। गगने घनानां घनीभावेनाऽन्धकारोऽपि सम्प्रति घनीभवति। सन्तमसेऽस्मिन् घोरतरं गर्जन्ती वहति सिन्धुरुद्धतम्। नद्या: परपारे क्वचित्क्वचित्तीव्रो हेषास्वनो भिनत्ति निस्तब्धताम्, सूचयति च निभृतं यदेतस्मिन्स्थाने महत्येका वाहिनी सम्प्रति कृतसन्निवेशेति। एतावत्येव समभवन्नद्यामेक: शब्द:, तत्समकालमेव च तटवर्तिनो लतागुल्माद्दीर्घदेह एको मनुष्यो नि:सृत्य सरित्तटमभ्यसरत्। तस्य पृष्ठतश्च लघुरेक: संघो यस्मिन्नुपविंशा: पुरुषा:लताघनान्निर्गत्य नदीतटे पुरुषस्याऽस्य निकटे समवास्थित। कृतावस्थानानामेषां न व्यतीयु: कतिचित्पला अपि, एतावत्येवान्तराले तालप्रमाण एक: पुरुषो विनिर्गत्य तस्थौ तेषां सम्मुखे।
दृढैर्निबिडैश्चावयवैरमी पुरुषा गक्करा इति प्रतीयन्ते स्म। आसन्निमे खड्गैश्चर्मभिश्च सन्नद्धा:। नासीदेषां शरीरे किमपि वसनम्, केवलं सिंहपुच्छस्य कच्छबन्धमात्रमासीत्। सूचीभेद्येऽस्मिंस्तिमिरे नैतेषामाकृतिरशक्यत विलोकयितुम्, किन्तु दीप्ताङ्गारोपमेनेत्रे असूचयताममीषां भयङ्करताम्। नदीतो नि:सृत्य सम्मुखमुपगत एव तस्मिन्पुरुषे, दलस्याऽस्य नायकेन यस्य हि सुदृढं शरीरमपरिमितं बलमसूचयदनायासम्, पादद्वयमग्रे समुपसृत्य प्रोक्तं गम्भीरया गिरा-कनक! क: संवाद:?
प्रणम्य नायकम्, धीरेऽपि च गम्भीरे स्वरे प्रत्युक्तं कनकेन- 'कण्ठदघ्ने जले स्थित: सर्वमहमवालोकयम्। यवनराजपटमण्डपस्य प्रान्तावस्थिता वृतयो दूरीकृता:। यवनाधिनायकस्य शरीररक्षाभार: साम्प्रतं मन्त्रिणोऽधीन:, यस्य हि निवासमण्डपस्तस्यैवान्तिके परिकल्पित:। शतं सैनिका: प्राहरिका:, येषु पञ्चाशन्नदीतटं रक्षन्ति, पञ्चाशच्च पटमण्डपं परितो भ्रान्त्वा कुर्वन्ति द्वाररक्षाम्। एतावदाकर्ण्येवाऽधिनायकेन दीर्घं निजबाहुमुच्छ्रित्य प्रोक्तं वीरोचितेन साहसेन- 'अयि नो वीरा:! शूरान्नरेशान्पराजित्य, भारतधरामुपरज्य रक्तेन, सर्वानस्मांश्च परतन्त्रीकृत्याऽपि किं मुहम्मद: शयीत सुखनिद्रया? मैवम्, मैवम्। तच्छोणितपिपासिनी सेयमस्माकमसिलता पिबेदद्य निचितं तस्य शोणितम्।
पृष्ठेन कूर्मपृष्ठं दन्तैश्च करवालं वहन्तो गक्करवीरा: प्रबलं वहन्त्यामपि नदीधारायां सरभसमुदप्लवन्त, कतिपयक्षणैरेव च प्रापु: परं पारम्। दृष्ट्वैव च यवनोपकार्यां ते श्येनपातमपतंस्तस्या उपरि। प्राविशंश्च भित्तिं विच्छिद्य तदभ्यन्तरे। एतेषामुपरोधाय यवनराजस्य शरीररक्षका यथैवाभ्यसरंस्तथैव योद्धृणां भयजनक: कनक: पर्वत इव सम्मुखमुपगत्य सर्वांस्तान् रुरोध। स हि महता च चर्मणा, यस्मिन् तीक्ष्णाग्रा लौहकीलका: संलग्ना आसन्, सवेगमाहत्य बहून् यवनसैनिकान् भूमौ न्यपातयत्।
शरीररक्षका न्यरुध्यन्त द्वार एव कनकेन। इत: समरभयङ्करा गक्करास्तु सवेगोत्फालं प्राविशंस्तस्मिन् पटमण्डपे, यस्मिन्हि यवनराजो मुहम्मदो रत्नपल्यङ्कमध्यशयिष्ट। पार्श्वद्वयावस्थितौ तातारदेशीयौ द्वौ सेवकौ मुक्तामण्डिताभ्यां व्यजनाभ्यामवीजयतां यवनराजमिमम्। क्रोधान्धैर्गक्करै: खड्गेन खण्डश: कृतं मुहम्मदशरीरम्। हन्त हन्त, रक्तरञ्जितान्यङ्गानि पटमण्डपस्य भूतले व्यलुठन्नितस्तत:। मुहम्मदं परिसमाप्य हर्षेणाऽधीरास्ते गक्करवीरा: खड्गं परिचालयन्तो नद्यामुत्प्लुत्य निरगच्छन्। भारतजनन्या हर्ष-शोक-जनक: कनकस्तु सम्मुखसमरे तत्रैव वीरगतिमगात्, यस्य हि शौर्यगाथामप्रलयं गास्यन्ति सन्त: स्मृतिमन्त:।
सिंहदुर्गे सिंहवियोग:
[छत्रपति: शिवाजीवीरो हिन्दूनां स्वातन्त्र्यरक्षायै क्षपयामास समग्रमप्यात्मनो जीवनम्। स्वैरं भोगविलासस्य का कथा, युद्धसंघटनाभ्य एव निर्मुक्तोऽस्य जीवनकालो ननु नाम भवेत्स्वल्प एव। किन्तु १६६८ तमे ख्रिष्टसंवत्सरे समभून्मोगलै: सह शिवाजीवीरस्य सन्धि:। प्रादीयत शिवराजवीराय राजेत्युपाधि:। पूनाप्रान्तस्य सर्वोऽपि परिसर: समभूदस्य शासनभुक्त:। चाकण-सूपाप्रान्तयोरप्यासीदस्याधिकार:। विदर्भ- (बरार) प्रान्तेऽपि नवीनतया प्रादीयत कचिदंश:। एतस्य प्रत्युपकारे-प्रत्यजानीत शिवाजीवीरो विजयाय मोगलानां साहाय्यम्। अनुमानतस्त्रीन् वत्सरानयमतिष्ठत्सन्धिकाल:। अनेन ह्यधिगतराज्यस्य, नियमनाय निजशासनस्य दृढीकरणाय च प्राप्त: पर्याप्त: समय: शिवाजिना। परं चिरादविश्वस्तहृदयस्यौरङ्गजेबस्य भाग्ये क्वासीच्छान्ति:। सह्यनुबभूव त्वरितमेव दक्षिणभारतस्याऽविश्वासगन्धम्। इत: शिवाजीवीरोऽपिनाभूदनेन सन्धिना सन्तुष्ट:। अत एव शीघ्नमेवोभयपक्षयो: सन्धेरुत्तरं विग्रहस्य समभूत्प्रारम्भ:।]
(१)
आसीज्जलधरकालस्य प्रारभ एव। श्यामविशङ्कटा मेघघटा मत्तमातङ्गघटा इव गगानाङ्गणे परस्परमसज्ज्यन्त व्ययुज्यन्त च पुनर्वात्याभि:। प्रशान्तशिशिर: सर्वोऽपि वनोद्देश: सम्बभार कामप्यपूर्वामेव श्रियम्। भुवनभास्करो भगवान्प्रभाकरो वियदङ्गणमारुह्य नाधुनापि ददौ दर्शनं लोकेभ्य:। आसीद्भावुकैरनुध्यातं रमणीयमिदं प्रभातम्। रणैकधीरस्य शिवाजीवीरस्यासीत् स्कन्धावार: साम्प्रतं रायदुर्गे (रायगढ)। किन्तु माता जीजाबाई न्यवात्सीत्सम्प्रति प्रतापदुर्गे। सा यथैव भगवतो भास्वतो दर्शनार्थमुदघाटयद्वातायनं तथैव पर्वतशृङ्गाधिष्ठितं सिंहदुर्गमुपागमत्तस्याश्चक्षुषोर्गोचरम्, यस्य हि चूडायां प्रास्फुरच्चन्द्रचिह्नाङ्किता यवनराजवैजयन्ती। मनस्विन्या राजमातुरन्त:करणे प्राविध्यत शल्यमिव। हा हन्त महाराष्ट्राधिष्ठितं सिंहदुर्गमिदं यवनानां हस्ते! वयं च जीवन्त: पश्याम:। नेदमसह्यत मनस्विन्या राजजनन्या।
सा तत्कालमेवावारुक्षद्राजहर्म्यात्। नीचैरुपगत्य प्रातिष्ठिपत्सन्देशहरमेकं रायदुर्गं प्रति। रायदुर्गमुपयातेन दूतेन प्रापित: सन्देश: शिवराजवीराय यत्-मातुराज्ञया तत्कालमेव प्रतापदुर्गमसौ सम्प्रतिष्ठेतेति। आज्ञापालक: पुत्रो भोजनं कुर्वाण आसीत्। मातुराज्ञामधिगत्य तादृशावस्थायामेव ससमादरमौलिमनमयत्स:। तत्कालमेव भोजनं विमुच्य, क्षालिताक्षालितहस्त एव शस्त्रास्त्रै: सुसन्नह्य समारोहत्प्रियतममश्वम्। वायुवेगं पराकुर्वंश्चाऽसौ प्राप क्षणादेव प्रतापदुर्गम्। वीरमाता जीजाबाई सोत्कण्ठं प्रतीक्षमाणैवातिष्ठत्। अन्तर्भवनाधिविष्टेन दृष्टं शिवाजिना यत्पाशकक्रीडासामग्री सर्वापि सर्वत: सज्जा। मातुराज्ञाऽभवत्- 'क्रीडतु भवान्मया सह पाशकै: क्रीडायां च कश्चन प्रशंसनीय: पण: क्रियताम्। सहसोपगतस्य शिवाजिन: समभूत्परो विस्मय: किन्तु मातुरनुशासनस्याग्रे कञ्चिदपि प्रश्नमकृत्वा विनम्रवदन: स पाशकानक्षिपत्।
इतो माताऽपि निजेष्टदेवतां भवानीं ध्यात्वा प्रारेभे क्रडीनम्, शीघ्नमेव च सा शिवाजिनं पराजेष्ट। सस्मितवदनोऽसौ निवेदयामास जननीम्- 'दुर्गाधिपजनन्या: क्रीडायां को वा भवेदन्य: समुचित: पण:? अत एव यत्किञ्चिदपि दुर्गं मे सवैरमभ्यर्थयितुं शक्नोति भवती। जीजाबाई त्वरितमभ्यधत्त- 'सिंहदुर्गमहं वाञ्छामि।
सहसैवाऽऽह्लानस्य पाशकक्रीडायाश्च साम्प्रतमवागमत्कारणं शिवाजी। किन्तु सिंहदुर्गस्य विजयो न साधारणं कार्यम्। सिंहदुर्गाधिपतिरुदयभानुर्दानव: साक्षात्। एकस्य महिषस्य द्वयोर्मेषयोर्विंशतिप्रस्थतण्डुलानां च प्रत्यहमशनमासीत्तस्य साधारणम्। आसन्नुदयभानोरष्टादश स्त्रियो द्वादश पुत्राश्च, ये पितुरप्यधिकाधिकबलाशालिन: प्रासिध्यन्। दुर्गमिदं महाभयङ्कर: 'चन्द्रावलि नामको हिंस्रहस्ती, दानवबलश्चैको योद्धाऽप्यरक्षद्यस्य नाम 'सीदी हिलाल। एतयोर्द्वयोर्विजेता दूरदूरतोऽपि दुर्लभो दु:सम्भवश्च। एवंविधरावणरक्षितमिदं दुर्गं को वा शक्नुयादधिकर्तुमस्मिन् काले। किन्तु क्षत्रियाणी यथा निजामाज्ञां नेच्छति पराकर्तुं तथा वीरक्षत्रियोऽपि नाऽऽत्मवचनं शक्नोति परावर्तयितुम्। शिवराज: सिंहदुर्गमिदं विजित्य मातुश्चरणयो: समर्पणस्य चकार प्रतिज्ञाम्।
उत्तेजनावश: प्रतिज्ञामवश्यं चकार, किन्तु पञ्चमुखस्य कुपितभुजङ्गस्य फणां को गृह्णीयात? दानवाधिष्ठितमिदं दुर्गं कोऽवाभिसरेदाऽऽक्रमितुम्? अत्यर्थं विचारयत: शिवाजिनो बहो: कालादनन्तरमभूत्स्मृतिगोचरो बाल्यसखस्तानाजी मालुसरे। तानाजी मालुसरे सम्पत्तौ विपत्तौ चोभयत्रापि शिवाजिन: सहचर:। सर्वत: प्रसिद्ध: पराक्रमी स्वामिभक्तश्च। शिवाजी सन्देशमिममादाय त्वरितगामिनं दूतमेकं प्राहैषीद्यत्- 'तानाजी द्वादशसहस्रसैनिकानादाय दिनत्रयाभ्यन्तर एव प्राप्नुयाद् रायदुर्गम्। यदा हि दूत: प्राप तानाजीसमीपे तदा स 'रायबाभिधानस्य निजपुत्रस्य विवाहसम्भारमासीत्सञ्चिन्वान:। प्रभोराज्ञामधिगत्यैव विवाहवादित्राणि स प्रत्यषेधत्। दिनत्रयस्यान्तराल एव च द्वादशसहस्रयोधानाऽवहन्नसौ प्रापद् रायदुर्गस्य द्वारदेशम्। इत: शिवराजोऽपि तमेनमासीदेव प्रतीक्षमाण:। यथैव स हि महाराष्ट्रसेनाया ध्वजानालोकयत्तथैव त्वरितमभिक्रमन्बहिरागत्योपापीडयद्वक्षसा वक्षसि तानाजिनम्। सप्रणयमुपालभत तानाजी शिवाजिनम् 'तनयस्य विवाहोत्सवात्किमित्यहमाकारित:। प्रत्यभाषत शिवाजी- 'न त्वं मयाऽऽहूत:, अपि तु माता त्वामाह्वयत्।
माता जीजाबाई करे प्रदीपं वहन्ती पूर्वत एवासीदवस्थिता द्वारे। सा हि तानाजिनो मुखं परित: प्रदीपेन नीराजयन्ती शिरस्यजिघ्नत्। जयमालां परिधाप्य चकारालिके तिलकम्। विघ्नानामपाकरणाय कराङ्गुलीरास्फोटयन्ती (चटकाती हुई) सा व्यापदां (टोटका) तिरस्करणतन्त्रमकरोत्। इष्टदेवतामभिध्याय च तमेनमभ्यवर्धयदाशीर्भि:। आशिषोऽभिगृह्णता तानाजिनापि जीजाबाईमभिनस्य सिंहदुर्गविजयस्याऽकारि सङ्गर:। रात्रेरन्धकारेण च सहैव परित: पर्यभ्राम्यन्महाराष्ट्रवरूथिनी सिंहदुर्गोपत्यकासु।
(२)
ग्रामीणकवेषे निह्नुत्यात्मानं स्वयं तानाजी सिंहदुर्गस्य परिक्रमामकरोत्, आक्रमणाय ज्ञातव्यविषयान्पर्यज्ञासीद्यथायथम्। परितोऽभूत्सूचीभेद्योऽन्धकार:। एकतो निसर्गात्तामसी भाद्ररजनी, तदुपरि द्विगुणं त्रिगुणं वा संघटितेन नीलघटासंस्तरेण निबिडमाच्छाद्यत वियदङ्गणम्।
अलुप्यतेव दिग्दिगन्तेभ्य: प्रद्योतकथा। कज्जलमवर्षदिव नभस्तलम्। न व्यलोकत हस्तो हस्तम्। नास्मिन्नन्धकारे सायमपि बहिर्निस्सरणस्याभूदुत्साह: कस्यचित्तदुपरि सोऽयं महानिशीथ:। सर्वतो नीरवनिस्तब्धताया आसीदेकच्छत्रं राज्यम्। संसार: सुखमशयिष्ट निजनिजनिवासेषु। आसीत्सिंहदुर्गं प्रसुप्तमिव सर्वत:। रक्षका घोरनिद्राया अङ्के विश्राम्यन्त: प्रासारयन्सर्वतो नासाध्वनिम्। अवसरज्ञो महावीरस्तानाजी निचितै: शूरसैनिकै: सह कल्याणद्वारस्याधोदेशमवाप। दुर्गमिदमासीदधिविष्टं तुङ्गतरे गिरे: शिखरे। अत एव नाभूदुपर्यारोहणं यस्य कस्यचित्कार्यम्।
शिवाजिन: सङ्कटसहायिकां 'यशवन्त नाम्नीं प्रसिद्धां गोधां निरसारयन्मञ्जूषि-कातस्तानाजी। स हि तन्मस्तके चन्दनमाचर्च्य, वक्षसि मालामासज्ज्य, कटिभागे चास्या: सम्यगावध्याऽऽरोहणरज्जुं,२ प्राक्षिपदेनां दुर्गोपरि। अत्युच्चताया: कारणान्नेयं यथास्थानमवस्था-तुमशकत्, प्रत्युत प्रापत्तदधस्तात् । अस्मिन्वारे प्रत्तवानस्यै विभीषिकां तानाजी 'यद्यस्मिन्वारेऽपि सेयं परावर्तेत तर्हि तामेनां निहत्य भक्षयेयम्। उक्त्वा चैवं द्विगुणेन बलेन प्राक्षिपदेनां दुर्गाभिमुखम्। अस्मिन्वारे शिखरोपरि सेयं निचखान निजे प्रपदे। लम्बमानामारोहणरज्जुमवलम्ब्य त्वरितत्वरितमारोहन्महाराष्ट्रसैनिका:। आरोहतां सर्वप्रथमा संख्यासीन् महावीरस्य तानाजिन:। स हि दन्तै: खड्गमवष्टभ्य, करतलगतमिव जीवनं वहन्नसौ कराभ्यां रज्जुमवलम्बमान: समधिरुरोह दुर्गम्, आक्रम्यदिव वीरशत्रोरधिवक्ष:स्थलम्। एवं किल पञ्चाशत्पराक्रमिणो यावत् प्राप्नुवन्ति शिखरदेशं तावन्मध्यतो विचिच्छिदे सा रञ्जु:। उपरितना उपरि नीचैस्तनाश्च नीचैर्विवशमतिष्ठन्।
स एव सत्यो नेता यस्य मस्तिष्कं विषमसमयेऽपि शान्तमवतिष्ठेत। बुद्धिश्च समीहितसिद्धये सफलमवलम्बेत पन्थानम्। तानाजिन: साम्प्रतमासीदेकतो भयानकशत्रुभि: सङ्कुलं दुर्गम्, अपरतश्चासीत्पातालगामिनीव भयङ्करी परिखा। किन्तु विचारशक्तिं सुदृढमवस्थापयता महाराष्ट्रसेनापतिना निरचीयत दुर्गोपर्याक्रमणमेव। नि:शब्दपदमेतैर्गत्वा न्यहन्यन्त ते सैनिका ये किल कल्याणद्वारे, तथा अपरयोर्द्वयोर्द्वारयोश्च प्राहरिकतानियोगं निरवाहयन्। उदयभानुरस्मिन्समये मदिरायामहिफेने च मत्त: प्रयाति स्मान्त:पुरे। यथैव स शत्रोरागमनस्यो-
१ 'पाटा गोह इति प्रसिद्धो जन्तु:।
२ 'कमन्द
दन्तमधिजगाम तथैव स प्राहिणोत्प्रथमं चन्द्रावलिदन्तावलं तत: सीदीहिलालं तस्याभिमुखे। तानाजी तस्य समयस्य जगत्प्रसिद्ध: खड्गयोद्धासीत्। हस्तिन: शुण्डा, हिलालस्य च शिरो यदा खङ्गस्यास्योपहारोऽभूत्तदा स्वस्य द्वादशपुत्रान्प्राहिणोद्रणाङ्गणमुदयभानु:। तेऽपि यदा समराग्रावहूयन्त तदा व्यरंसीदुदयभानोर्मदश्च निद्रा च। क्रोधाग्निना परीत: स्वैरमष्टादशाऽपि निजपत्नी: स्वकरेणैव निहत्य निष्कोषं खड्गमाददान: पठानसेनया पृष्ठतोऽनुगम्यमान: स हि समायासीद्दुर्गाद्बहि:।
सरभसमभ्याक्रमत्स हि पञ्चाशतं तान्महाराष्ट्रवीरान्। समरशिरसि नैकसंख्याकानां प्रतिपक्षवीराणां सोत्साहमाहुतिग्रहणेन प्रदीप्तपराक्रमपावकास्ते मूलकच्छेदमच्छिदन् म्लेच्छसैनिकानेतान्। मुष्टिमितानामपि महाराष्ट्रवीराणामेषामाहवप्रचण्डतामालोक्य समग्रापि भयात्प्रचकम्पे चमूर्यवनानाम्। केचिदितस्तत: पर्यसरंस्तर्ह्यन्ये जीवनरक्षामनालोकयन्त: कान्दिशीकतामगु:। साक्षात्कृतान्त इव यवनैरालक्ष्यमाणो महापराक्रमस्तानाजी यस्यामेव दिशि यवनसैन्ये प्राविशत्तत्रैव कन्धराकबन्धैर्नीरन्ध्राऽभवत्समरवसुन्धरा। तस्मिन्दिने यथा पराक्रान्तं महाराष्ट्रसैनिकैरेतैर्न तथा समग्रेऽपि निजस्यायुषि। न जाने, जीजाबाईकृतेन रक्षाकार्मणेन, तस्या हार्दिकेन वाऽऽशीर्वादेन, पुण्यप्रेरणेन वा शिवाजिवीरस्य ते तथाऽप्युद्ध्यन्त यथाऽपारापि सा यवनवाहिनी सम्प्रति निस्तब्धेवास्थात्। न चैतेषामुपरि कस्यापि शस्त्रं प्रबभूव, न च कश्चित्पराबभूव यवनवीरस्तान्।
एवंविधामव्यवस्थामालोकयमान: सर्वदैव समरे विजयश्रियालिङ्गित: सोऽयमुदयभानुर्मनस्येव क्रोधाग्निनाप्लुष्यमाण: सर्वानात्मन: सैनिकान्पृष्ठे कृत्वा स्वयं समभिससार रणधीरं तानाजिवीरम्। इत: सोऽयमपि साधारणसैनिकानां समरेऽपरितुष्यन्निव प्रतीक्षते स्म सर्वत: प्रसिद्धं वीरमिमम्। द्वावपि सेनापती निजां सेनां पृष्ठतो विधाय सोत्साहं मिथ: खड्गमचालयताम्। तानाजिनो हस्तलाघवेन खिन्नोऽभूद्भीमशरीर उदयभानु:। किन्तु बहुकालं यावदेकाकी समरशिरसि युध्यमान: पर:शतान् योद्धॄन्मर्दयमानश्च तानाजी सम्प्रति किञ्चिद्विश्रमयामास निजखड्गम्। दैत्यबल: सोऽयमुदयभानुस्तमेनमवसरमासाद्य सकलबलेनाचस्कन्द तानाजिनम्। त्वरितमेवाऽयमपि तदुत्तरं तथा प्रायच्छद्यथा रुद्धश्च निष्प्रभश्चाभूदुदयभानु:। सम्प्रति सर्प इव फूत्कुर्वन् सोऽयं प्राणानविगणय्य श्येनपातमपतत्तानाजिन: शरीरे। इदमाक्रमणमासीन्महाभयानकम्। किन्तूदयभानोरसिस्तानाजिनस्तनौ यथैवाऽपतत्तथैव तानाजिनोऽपि खड्गो न्यपप्तदुदयभानोर्मस्तके। हन्त द्वावेव महावीरावेकवारमेवाऽभूतां धराशायिनौ।
पूर्वमेवासन्यवनसैनिका विच्छिन्नप्राया:। सम्प्रत्युदयभानोरस्तमनेनाऽनेन सर्वेषामेवैतेषां विलुप्तमभूत्साहसम्। किन्तु महाराष्ट्रवीरा न निजं वीरव्रतं व्यास्मार्षु:। तानाजिनो भ्रातु: सूर्याजिन: सेनापतित्वे 'हर हर महादेवेति वीरध्वनिभिर्गगनं प्रतिध्वनयन्तस्ते दुर्गाभ्यन्तरमाक्रमन्। द्वारोपर्यभून्महाराष्ट्रवीराणामधिकार:। शीघ्नमेव च सम्मुखगतान् यवनानाऽऽमर्दयद्भिर्महाराष्ट्रसैनिकै: सिंहदुर्गस्य चूडायामारोपिता काषायरागिणी महाराष्ट्रपताका।
पुन: किमासीत्? बहिरवस्थितैर्महाराष्ट्रसैनिकैर्दुर्गोपरि महाराष्ट्रवैजयन्तीं प्रस्फुरन्तीमवलोक्य कृत: सोत्साहमास्कन्दो दुर्गाभिमुखम्। नासीदेषां प्रतिरोद्धा कश्चिदपि योद्धा यवनसेनायाम्। अत एव निष्प्रतिरोधं प्रसरन्तस्त इमे समागमन्दुर्गाभ्यन्तरे, सममिलंश्च पूर्वागतैर्निजसैनिकै: साकम्। समवेतै: सैनिकै: सर्वतो निरस्ता म्लेच्छसैनिका:। इतस्तत: समाक्रम्यन्त दुर्गस्थानानि। दुर्गाद् बहि: स्थितायां मन्दुरायां तृणच्छदि:षु वह्निं दत्वा प्रज्वालितो महानग्निर्येन त्वरितमेवाज्ञासीद्वीर: शिवाजी सिंहदुर्गस्य विजयम्।
इङ्गितमधिगत्यैव शिवाजीवीरस्तुरगमास्थाय सोत्साहमभ्यसरत्सिंहदुर्गाभिमुखम्। 'कल्याणद्वारमार्गेण चाऽयं प्राविक्षत्सिंहदुर्गम्। महाराष्ट्रसेनायां सर्वत: समुदतिष्ठन् विजयध्वनय:। विजयध्वनिगुञ्जने यवनसैनिकानां मृतशरीरै: पादपटवस्त्रैरिवाभ्यर्हित: शिवाजीवीरो ययौ सिंहदुर्गस्य मध्याङ्गणे। तानाजिना सह वक्ष:स्थलोपपीडं मिलितुमुत्सहमान: सोऽयं हन्त सम्मुखे समालोकयत्तस्य शवम्। बालसखस्य महावीरस्य तानाजिनो मृत्युना शिवाजिनो हृदयकमले हिम इवापतत्। लोका: सिंहदुर्गविजयस्य सुसंवादेन तमिममवर्धयन्, किन्तु तदुत्तरे विषण्णोऽसाववदत् भाषायाम्- 'गढ* आला पण सिंह गेला।
पुरुराजस्य पौरुषम्
(१)
भयावहा प्रावृड्रजनी। वर्षाबिन्दुभि: सह घोरं शब्दं परित: प्रसारयन्प्रवहति चण्डतम: पवन:। तरुगह्वरेषु गिरिकन्दरेषु च प्रतिध्वनित: स शब्दस्तथा प्रतीयते यथा सहस्रं दानवा: संहत्युगपद् गर्जेयु:। जलपूराप्लाविनीनां ह्लादीनीनां कल्लोलकलो भूयसा मां मेदुरयति तमेनं मारुतनिस्वनं सम्प्रति। सर्वत: समुपगतैर्जलपूरैरशुद्धतेव सेयं वितस्ता तटयोरिदानीं परित: पर्यस्ता। उल्लोलदोलितायामस्यां न कस्यापि समुदेति साहसं सहसा समवतरीतुम्। एवं विध एव दुर्धरे समये कठोरकर्मा सिकन्दर: स्कन्धावाराद् द्वे योजने समुपगत्य नद्यास्तस्मिन् स्थले प्राप्रोद्यत्र वितस्ताया मध्यदेशे वृक्षघनै: परिपूर्ण आसीदेको महान् द्वीप:। ग्रीकराजप्रेषिता आसँस्तत्र पूर्वत एवोपस्थिता नौका:, ता: समारुह्य नदीमुत्तरीतुं स हि सेनापतीनादिशत्।
महाघोरोऽन्धकार:, सहुङ्कारगर्जनं प्रबलं प्रवहन्ती च सेयं वितस्ता। नानयोरर्ग्रे साहसिनामपि सैनिकानामभूद्धैर्यं प्रबलं दोलायन्तीषु नौकास्वारोढुम्। शिक्षिता अपि सैनिकाश्वाश्चपलं चमत्कृतवन्त:। एवंविधां परिस्थितिमवलोक्य ग्रीकराज: (सिकन्दर:) स्वयमात्मन: सुप्रसिद्धस्याश्वस्य वल्गां सन्नियम्य समारुक्षन्नौकाम्। एतत्सन्निरूप्यान्येऽपि सैनिका: साहसेन समारुरुहुर्नौका:। एवमिव वितस्तां व्यत्यस्तां कुर्वन्तो ग्रीकराजस्य शरीररक्षकसेनाया: पञ्चशतमश्वरोहा यदा प्रापु: परपारं तदा भारतीयसन्देशहरैरवाप्त: संवादो यत् कतिपयसादिभि: सह सिकन्दर: परं पारं वितस्ताया इति।
चरेभ्य: संवादमधिगत्यैव पौरवराज: प्राहिणोद्युवराजं शत्रुसेनाया: समवरोद्धुं गतिम्। आज्ञापयच्च सेनाध्यक्ष व्यूहं विरच्य समराय सेनां समभिसारयितुम्।
पदातिसेनां पृष्ठत: समागन्तुमादिश्य सादिभि: सह सिकन्दर: समभिससार सम्मुखे सपत्नसेनासन्निवेशस्य। प्राप्य च पौरवराजस्य स्कन्धावारं समवस्थित: सिकन्दर: सैनिकै: सार्द्धम्। यदा च प्रापु: सर्वा अपि पदातिसेनास्तं देशम्, समवापुश्च विश्रमकालं सेनास्तदा प्राचीनप्रथानुसारं व्यूहरचनां विधाय सेनां समराय सस्वीकृतवान् वामभागे-शरीररक्षकसैन्यस्य महामहता विभागेन सह सहस्रसंख्याकान् शकजातीयान् धनुर्धारि-तुरगारोहान् प्रातिस्विकरूपेण नियमितवान्निजाधीनतायाम्। मध्यभागे च पदातिवाहिनी सैल्यूकसस्याध्यक्षतायां समरायाऽतिष्ठत्। अष्टसहस्रं ग्रीकजातीया: पदातिधनुर्धरा:, द्वे सहस्रे साधारणपदातीनां च टालोमीसंरक्षकतायां पृथगतिष्ठन्। एवं किल निजवाहिनीं स हि संस्थापयामास यथास्थानम्।
इत: किञ्चिदुच्चायां बालुकाप्रायवसुधायां सुव्यवस्थिता नगरीव कृतसन्निवे-शाऽऽसीत्पौरवराजस्य वरूथिनी। मध्यभागे एकैकशतहस्तव्यवधाने द्विद्विशतं दन्तिन: स्थिता आसन्, ये तावदिक्षुमदिरामापीय निर्भरं प्रमाद्यन्त: साम्प्रतं प्रत्यर्थिसेनाया रक्तपिणसव: समलक्ष्यन्त, येषां भयानकं बृंहितमाकर्ण्य साहसिनामप्यकम्पन्त सुदृढानि हृदयानि। अमी गजेन्द्रा: सुदृढमवस्थितानि दुर्गशिखराणीवालक्ष्यन्त। गजेन्द्राणामेषां मध्यावकाशे च सन्निविष्टा-ऽभूत्पदातिचमू:, या हि सुदृढा भित्तिरिवासीन्नीरन्ध्रा। दक्षिणभागे-अष्टसहस्रमश्वारोहा:, सहस्रं सामरिकरथाश्चैकस्य वृद्धस्य सेनापतेरध्यक्षतायामासन्सुदृढरूपेणावस्थिता:। वामभागेऽपि च-द्विसहस्रमश्वारोहा:, सहस्रं रथाश्चासन् लघो राजकुमारस्य संरक्षकतायां सन्निविष्टा:। सङ्ग्रामसम्मुखीनायामस्यां पृतनायां मध्यदेशे पर्वत इव सर्वतस्तुङ्गतमे, बले साहसे च सर्वेभ्य: श्रेष्ठतमे, शत्रुञ्जयनामधेये निजे प्रियतमे गजराजे सोत्साहमवस्थित: पुरुकुलकेतु: स्वयं व्यराजत्।
सर्वत: प्रथमं ग्रीकराजस्यादेशमवाप्य शकमादिभि: पौरवसेनाया दक्षिणपार्श्वेऽभि-क्रमणमारभ्यत। भीषणबाणवर्षामाचरत्सु धनुर्विमुक्तबाणेष्विव च सवेगमभिधावत्सु तेषु म्लेच्छेषु साभिक्रोशमभिप्रयोक्तुं पादचरैर्भारतीयधनुर्धरैरपि निजेभ्यो निषङ्गेभ्यो निरसार्यन्त निशिततमा विशिखा:, किन्तु लक्ष्यसन्धानसमये सुदृढमवस्थानोचितस्य पादन्यासस्य बालुकामयभूमौ स्वेच्छानुसारं दुष्करत्वान्न तेषां धनूंषि यथावदचलन्। अन्यथा अव्यर्थशरसन्धायिनां भारतीयधनुर्धारिणां सम्मुखे नैकोऽपि शकयोद्धा प्राभविष्यत्प्रकटमवस्थातुम्। ततोऽपि निरूढशतशतयुद्धस्य वृद्धस्य सेनापतेरनुचारिभि: सादिभिरग्रे प्रसृत्य न्यरुध्यत वैदेशिकानां सर्वतो गति:, रथिभिस्तु निर्भ्रमं लक्ष्यसाबध्य समारब्धस्तेषामप्रतीकार: संहार:।
निजसेनामेवंविपत्तिमुपगतां भारतीयै: पराभूतां चालक्ष्य समरदुर्धर: सिकन्दर: सुप्रसिद्धां निजाधिकृतसेनामादाय पौरवसैन्यस्य रथारूढशूराणामुपरि पार्श्वत: सरभमसकार्षीद् भयङ्करमाक्रमणम्। निमिषमात्र एव च कतिपयान् रथिन: परितो निरुध्य, तेषां सारथिषु रथिषु चैतेषु भुशुण्डीप्रहारमारभत। एतद् दृश्यमभिदृश्य पौरवराजो वामभागावस्थितानश्वारोहान् रथारूढांश्च तेषां साहाय्याय प्रजिघाय दक्षिणभागे। समभूदिदानीं भयङ्करमायोधनम्। उभयतोऽपि परस्परस्याभिभवाय प्राणपणेन प्रयतमाना युद्ध्यमाना (वीरा:) न किञ्चिदवाशेषयन्नूनम्। हन्त! सपत्नैरपि मनस्यभिनन्दितामनुपमवीरतामाजौ प्रकटयन्, विघटयंश्च प्रभूततमान्प्रत्यर्थिन: समवाप वीरगतिं वृद्ध: सेनापति: त्रिसहस्रसैनिकै: सह, यो हि पौरवमहीपतेरासीत्परमभक्त:। एतदवलोक्य समवशिष्टानां रथिनं सादिनां चापि धैर्यमभूद्विचालितं ये ह्यासन् सर्वतापि क्षतविक्षता:। अत्त एवैते सुभृशमवदानेन किञ्चित्पृष्ठतोऽभिसृत्य हस्तिसेनाया: पश्चाद्भागे समवागोपयन्निजात्मानम्।
निजाश्वारोहसेनाया: परिक्षयं पराजयं चावधारयन् पौरवकुलकेसरी सुभृशमवकुप्य शतं गजपतीनग्रे समुपसृत्य सिकन्दरोपर्यास्कन्दनाय समादिक्षत्, स्वयं चापि शत्रुञ्जयं सरभसमर्ग्रे कृत्वा त्वरितगामिभिरजिह्मगैर्विशिष्टविशिखै: शत्रुं तथाच्छादयामास यथा सोऽपि तस्मिन्स्थलेऽवस्थातुं नाशकदधिककालम्। रणकर्मधुरन्धर: सिकन्दर: साम्प्रतमात्मन: परिस्थितिं सङ्कटाकीर्णामवधार्य तत्कालमेव निजतुरगस्य वल्गां प्रत्यावर्तयत्। महता च धैर्येण चातुर्येण च स हि शनै: शनै: स्वस्थाने परावर्तिष्ट, शरीररक्षिका चमूश्चाप्यस्य शनै: शनैरन्ववर्तिष्ट तमेनम्। स्वसन्निवेशमुपगत्य पुनर्दृढतयाऽवास्थित ग्रीकराज: प्रारेभे च भुवनभयङ्करमायोधनम्।
(२)
अवधानेनाभिमृश्यमिदं दृश्यम्। एकतो रक्तपिपासिनी समस्ता ग्रीकराजवाहिनी। अपरतो वित्रस्तीकृतवीरसमाज: सोऽयमेकक: पौरवराज:। आसीन्महाराजस्य समस्तमपि कुञ्जरपृष्ठासनं ग्रीकप्रहरणै: परिपूर्णम्। एवमेतस्य वीरशरीरमप्यासीत्परिपूर्णं परितो गभीरै: शस्त्रक्षतै:, येन हि विकसत्कुसुम: पारिजात इव पर्यलक्ष्यत पद्मिप्रष्ठग: पौरवकुलकेतुरसौ। पृथ्वीभरधारणधुरीणेन महाराजस्यानावृतेन बाहुना भुशुण्ड्या बाणानां च त्रीन् महाघातान्विषह्य सम्प्रति शस्त्रोत्तोलनाद्विरतिरिव गृहीतासीत्। त्रयोऽपि रणदुर्मदा राजकुमारा:, समस्तै: सामन्तै: सेनापतिभिश्च सार्द्धं समरसीमनि वीरगतिमगु:। विंशतिसहस्त्रतोऽप्यधिका: पौरवक्षत्रिया देशस्य धर्मस्य च ऋणं परिशोध्य क्षात्रं धर्मं परिपालयन्त: सूर्यमण्डलं भित्त्वा स्वर्गगामिनोऽभूवन्। सर्वमिदं सम्मुखमवलोकयतापि पौरवकुलभास्वता न जात्वपि पश्चात्पदनिधानस्य विचारोऽपि मनस्यकारि।
इममदृष्टपूर्वं शौर्यातिशयमालोक्य समस्तापि ग्रीकराजवरूथिनी निर्भरतममभूच्चकिता। वीरगुणग्राहिण: समरधुरन्धरस्य सिकन्दरस्य वीरतापूर्णं हृदयं नरशार्दूलमेनं प्रति ससाधुवादमभूदादरोद्वेलितम्। हन्त कुत्र स पारस्यदेशीय: सम्राड् 'दारा, यो हि चतुर्लक्षसैनिकै: सुरक्षितोऽपि सर्वत: प्रथमं समरसीमत: स्वकीयं रथं विमुखयामास। कुत्र चायं नरव्याघ्न: पौरवकुलकलाधरो यो हि समस्तसैन्यस्य परिक्षयेऽपि निजवामहस्ते साम्प्रतमपि भयानक चक्रमेक बिभर्ति यस्मिन्नसीन्निबद्धा सुदृढा रज्जुर्यया हि शत्रून्विनाश्य पुनरिदं परावर्तते स्म निजस्थाने, यश्च भूमिधरोत्तुङ्गे मत्तमातङ्गे शस्त्रविक्षुभित: केसरीव धीरविक्रान्तं विचेष्टते।
संलक्षितावसर: सिकन्दरस्तक्षशिलानरेशस्य भ्रातरं प्राहिणोत्पौरवराजस्य सन्निधौ सन्धिविषयं प्रस्तावमादाय, यो ह्यासीद् भारतीयभाषायामिव ग्रीसभाषायामपि समर्थ: समयोचितं संलपितुम्। चपलं तुरगमधिरूढस्तक्षशिलाभर्तु: कनीयान् राजकुमार: पुरुराजस्य निकटमधिगम्य ग्रीकराजस्य सन्देशं श्रावयामास तारेण स्वरेण। तमेनमाकर्ण्य गभीरै: क्षतेस्तृषा च पर्याकुल: पुरुवंशमुक्तामणिरुत्थापयामास रक्ताक्ते निजनेत्रे, किन्तु यथैव स सम्मुखे शत्रुमवालोकयत्तथैव निजहस्तस्थितं भयानकं चक्रं प्राक्षिपत्परिपन्थिनामभिमुखम्। निमिषमात्रे तच्चक्रमरिचक्रं विच्छिद्य पुनरुपागान्महाराजस्य वामं करम्। किन्तु सम्प्रति पुरुराजमचेतनमवालोक्य वीरपुरन्दर: सिकन्दर: सेनापतिभि: समेत: परित: परिवारयामास पौरवराजस्य शत्रुञ्जयं कुञ्जरम्। समादिक्षच्च पुरातनमेकं पौरवराजमन्त्रिणं सान्त्वेन यदयं प्रार्थयेत पुरुराजं निजकुञ्जरमुपवेशयितुम्। मित्रपक्षीयस्य मन्त्रिण: स्वरं परिचित्य, महाराजस्य चेङ्गितमधिगत्य विवशमना वीरकुञ्जर: शत्रुञ्जय: सविषादमालिन्यमवस्थापयामास निजजानुनी समरधराङ्गणे साम्प्रतम्।
प्रतिष्ठितयोर्द्वयोर्ग्रीकसैनिकयो: सहायतया समानीयत ससमादरमेष पौरवपुरन्दर: सिकन्दरस्य निकटम्। समस्तायामपि ग्रेसीडोनियनसेनायामस्यामासीत्पुरुराजचूडामणिरयं सर्वेभ्योऽपि प्रांशुत्तर:। अनावृतस्तस्य दक्षिणो भुजदण्ड: प्रादादनक्षरमसीमस्य पराक्रमस्य परिचयम्। गभीरधीरा च तस्योदारदृष्टिश्चकार नि:शब्दमिव महापुरुषघोषणाम्। यदा च द्वैभाषिकस्तारस्वरेण श्रावयामास सिकन्दरस्य प्रश्नमिमं यत्-'साम्प्रतमहं भवता सह कथं व्यवहरेयम्?, तदा गौरवनिर्भरेण दृढस्वरेण पुरुकुलकलानिधिस्तन्नाम ददौ गभीरतरमुत्तरं यद्धि साम्प्रतमपि सुप्रसिद्धमितिहासेषु-''यथा राजा राज्ञा सह।
विक्रमगुणैकपक्षपाती सौमनस्यसुन्दर: सिकन्दरस्तदनेनोत्तरेण गद्गदो भूत्वा मानयामास महाराजं माननीयतमं मित्रम्। पौरवराजोऽपि निर्वाहयामास तमिमं मैत्रीभावमखिलेऽपि निजे जीवनकाले।
अङ्गुलिमाल:
(१)
प्रसेनजितो राज्ये सर्वत: प्रासरन्महाहाहाकार:। नगराणि समन्तादुच्छिन्नानि। ग्रामा: सर्वत: क्षामा:। स्वयमपराधिन इव निभृतनीरवं निवसन्तो न केऽपि सन्तोषस्य शीतलनि:श्वासं जगृहु:। य: किल समालोक्यते स एव सङ्कटे सङ्कुल:, प्राणाभयाद्व्याकुल:। बालास्तरुणा: स्थविरा: सर्वेषामेव मानसमङ्गुलिमालस्य नामैव निशम्य किसलयमिव कम्पते स्म। न केवलं बालानामेव, अपि तु जागरूकजनपालानामप्यकस्माद्विस्मापनाय भृशं भीषणाय च पर्याप्तमभूत्कर्कशकरालस्याङ्गुलिमालस्य दस्योर्नामधेयमात्रम्। देशमात्रस्य कृते कराल: काल: कुतो वा न स्याज्जीवनमभिलषतो जीवस्य कामं कम्पनाय?
एषु हि दिनेषु श्रावस्त्या: पुर्या: प्रतिवेशे जैत्रवनमध्यमध्यवात्सीद् भगवान् गौतम:। भगवत: कर्णयोरभ्यर्णमप्युपजगाम कर्णाकर्णिकयाऽङ्गुलिमालस्याऽत्याचाराणां कथा। भृशतममद्रवद्भूतानुकम्पिनस्तथागतस्य हृदयम्। किमासीत्पुन:? दुर्दान्तं सिंहमपि पञ्जराऽऽबद्ध-कीरवन्मधुरालापिनमापादयितुं सुप्रभुर्योगी गौतम: पात्रं चीवरं चादाय बहिरभून्निजाश्रमस्य। मार्गे गोचारका: कृषका: पथिकाश्च साश्चर्यमपश्यन्-श्रमणो गौतम एकाकी तामेव दिशमालम्ब्य सधैर्यमभिक्रमते यस्यां हि लोककरालस्याङ्गुलिमालस्याऽऽवास:।
अवेपत सर्वेषामेव हृदयम्-हन्त कृश एक: पुरुष: सालविशालस्याऽङ्गुलिमालस्य मार्गे? इतो हि न भवति वीरशबलस्य शतपुरुषाणामपि दलस्याग्रे गन्तुं साहसम्। कदाचिन्नाभिजानाति विविक्तैकरमो गौतमो दस्योर्दुर्दान्तस्योत्कटं प्रतापमिमम्। अतएव दुर्विपाकदुर्घटनातो दयमानैरक्रियताऽनुरोधो जनैरैकैकश:- 'भ्रातर्नाभियातव्यमनेन मार्गेण, अस्त्यस्मिन्नेव निवासस्तस्याङ्गुलिमालस्य यो हि सकलभयकारिणां शस्त्रधारिणामप्यञ्जसैव वशीकर्ता। एनमभ्याक्रमन्तो विक्रान्ता अपि वेपन्ते सायुधा योधा:। किन्तु स्वनिश्चये निश्चलतमस्य महात्मनो गौतमस्य को वा प्रतिरोद्धा? स हि तस्यामेव दिशि नि:शङ्कमग्रेऽभिसरन् प्रतस्थे।
काननस्य घने वृक्षगहने न्यवात्सील्लोककराल: सोऽङ्गुलिमाल:। दारुणदुरन्तेऽस्य पर्यन्तेऽपि नोपगन्तुं प्रगल्भते विक्रमैकरसिक: साहसिक: कश्चित्। किन्त्वद्य करधृतपात्रं दुर्बलगात्रं संन्यासिनमेकं निजनिवासाभिमुखमागच्छन्तमालोक्य नासीद्विस्मयस्य सीमाऽङ्गुलिमालस्य। सहैव क्रोधानलोऽप्यस्य प्रबलोऽभवत्-मत्पराक्रमपरिहासिन: संन्यासिन: प्ररोहेदिदमपि साहसं यत् सोऽङ्गुलिमालस्याऽन्तिके नि:सम्भ्रममुपगच्छेत्। तदपि निर्दीनभावं क्रीडामिव कुर्वन्, मां तृणायेव मत्वा! हन्त न नामेदं सम्भवति। अहं क्षणमात्र एव निष्प्राणमिमं भूतलशायिनं कुर्याम्।
कोपवशादत्यन्तं कराल: सोऽङ्गुलिमालश्चापे शरमारोप्य प्रातिष्ठत गौतमस्य पृष्ठे। नेदमज्ञासीदनभिज्ञो यत् शीलितशाणादपि मम धनुर्बाणाद् गौतमस्य प्रशमशस्त्रमिदं तीक्ष्णतरं नाम। अपाङ्गस्पृशा समलक्षयद् दृशा गौतमो यच्चक्रीकृतचापोऽङ्गुलिमालो जिघांसया मामनुसरतीति। वशीकृतप्रशमो गौतमो गतिनिरोधनेच्छया यथैव तदुपर्यपातयद् योगसंस्पृशं दृशम्, तथैव जैत्रजङ्घालस्याप्यऽङ्गुलिमालस्य न्यरुध्यत सहसैव गति:। नासौ समपारयत् पदमपि गन्तुम्।
मन्त्रवशीकृतो व्याल इव कोपकराल: खिद्यते स्माऽङ्गुलिमाल: त्वमनस्येव। अभूच्चास्य परमं विस्मयो मानसे- अहह किमेतदाश्चर्यम्! एतावद्वेगेन धावमानोऽपि कथमेनं नाऽऽप्रोमि सन्न्यासिनम्? हन्त किमद्य मे समभूत्? अन्यदिवसे हि धावन्तस्तुरङ्गमा अपि जङ्घालस्य मे नाग्रत: प्रभवन्ति पलायितुम्। अस्तु, यथासाध्यं नानाविधैरुपायैर्निजशक्ते: प्रयोगं कर्तुमचेष्टताऽङ्गुलिमाल:, किन्तु न प्राभवत्कथमपि। विवशोऽसौ भूयस्तरामखिद्यत। हन्त नेदानीं मुद्रितमुखं सोढुमशक्यताऽनेन। एष हि सोच्चै:स्वरमाजुहाव निश्चलतमं गौतमम्- 'गर्विष्ठ सन्न्यासिन्! प्रतीक्षस्व मां यावदुपैमि।
'एषोऽहं स्थितोऽस्म्यङ्गुलिमाल! सधैर्यं प्रत्यवदद् गौतम:। अभ्यस्तमृषाजालश्चकितोऽभूदनेनाऽङ्गुलिमाल:-न नाम संन्यासिनो मृषा जल्पन्ति। किन्तु सोऽयमवश्यं मृषा भाषते। स्पष्टमयमग्रे धावति व्याहरति च मुखान्नाहं व्रजामीति। अङ्गुलिमालो विस्मयविमन्थरे प्रोवाच स्वरे- 'मानवोपहासिन् संन्यासिन् स्फुटमिदं मिथ्या जल्पसि। इतोऽग्रे पलायसे भाषसे च मुखादयमहं स्थितोऽस्मीति?
'अवश्यमहमवस्थितोऽस्मि, पश्य सखेऽङ्गुलिमाल प्रत्यवादीद् वशीकृतोपशमो गौतम:। किन्तु प्रकामपरिद्रवणस्य चेष्टायामपि स्वस्य तत्राऽप्राप्तिमालक्ष्य न कथञ्चिदपि प्रत्यैत्तदिदमङ्गुलिमाल:। व्याजहार सोत्तम्भमसौ-'स्पष्टमहो मिथ्या व्याहरसि वञ्चयसि च मादृशानपि लोकान्।
प्राणिमात्रहृदयङ्गमो गौतम: सप्रणयमन्दस्मितमुवाच- 'सखेऽङ्गुलिमाल! तव नयने रात्रिन्दिवं हिंसाक्रौर्यमिथ्याभिरापूरिते, मनस्ते लालसापापप्रवञ्चनाभिरायत्तीकृतम्। अतएव सत्यमपि ते नूनं मिथ्यैव प्रतिभातं भवति।
निर्भयतमस्य गौतमस्य तानीमान्यक्षराणि दस्योरन्त:करणं सवेगं प्रत्याघ्नन्। किङ्कर्तव्यविमूढमभूदस्य मानसम्। न किञ्चित्कर्तुमप्रभवन् विवशमसावस्थात्। -'सखेऽङ्गुलिमाल! परीक्ष्यतां तावत्संसारोदासिन: संन्यासिनस्तदिदमनृतवचनम्! इत्यान्तरिकभावसम्भृतया दृशा निरूपयन् गौतम: सप्रेमस्मितमवोचत्।
हृदयमद्रवद् विविक्तप्रतिपालस्याऽङ्गुलिमालस्य। भूतदयाप्रक्रमस्य गौतमस्य वज्रघटितमिव तदिदं वचो वेल्लति स्म तस्य हृदये वारं वारम्-'सखेऽङ्गुलिमाल! मनस्ते लालसापापप्रवञ्चनाभिरायत्तीकृतम्! स हि धनुर्विशिखान् विससर्ज जलनालके। विदु्रतहृदय: स गौतमस्य चरणयोर्निपत्य दीनं न्यवेदयत्-'स्वामिन् एषोऽहं ते शरणमुपेत:, उद्धरस्व साम्प्रतमिमम्।
प्राणिदयासङ्क्रमो गौतमो निजस्याऽभयहस्तं तन्मूर्द्धनि प्रणिधाय निर्धौतहृदयविकारं प्रचकार, विततार च भिक्षुदीक्षामस्मै।
(२)
इतो भिक्षुव्रतपालं तमङ्गुलिमालं सहाऽऽदाय भगवान् गौतम: श्रावस्तीं परावर्तिष्ट, तत: प्रसेनजित: प्रकृतिभी राजधान्यां सम्भूय राजद्वारे कोलाहल: प्रारेभे-'मानवकुलकालस्याङ्गुलिमालस्याऽऽतङ्केन सन्तापिताऽसौ समन्तात्प्रजा। उत्सन्नान्यनेकानि पुराणि, लुण्ठिता: शतशो ग्रामा:, खलीकृतानि खड्गधारया निरपराधानां शतशो मानुषानां जीवनानि। कमुपयान्तु साम्प्रतं शरणं प्रजा:। कतमो वाऽभ्युपाय:, क: सहाय:। दुर्दान्ततमस्य दस्योरमानुषकाण्डै: खण्डित इव भूखण्डोऽयं सर्वत:।
प्रजानां दीनाक्रन्दनमिदमाकर्ण्य नाऽवाशिष्यत कोपस्य परिसीमा धरणिभृत: प्रसेनजित:। कोपकरालोऽसौ पञ्चशतमश्ववारानादाय दम्योर्दमनाय निर्जगाम बहिर्नगरात्। अध्यवात्सीदस्मिन् समये भूचुम्बितभालेनाऽङ्गुलिमालेनोपास्यमानो गौतम: श्रावस्त्या जैत्रवनं नूनम्। दैवसंयोगात् समावीविशदस्मिन्नेवोपवने निजं स्कन्धावारं प्रसेनजिदपि।
आत्मरमो गौतमो महीभृतं प्रसेनजितं सेनया प्रवसन्तमालक्ष्य सावष्टम्भमप्राक्षीत्- 'अपि किं प्रचण्डतम: परिपन्थी कश्चिदाचक्राम राज्यसीमानम् येन भवान् वीरवेष: प्रतिष्ठते चञ्चलां चमूमाकर्षन्।
'नेदं भगवन्- प्रसेनजित्प्रत्याह-'नाचक्राम कश्चित्सपत्नो वसुधामेताम्। अपि तु प्रकृतिकरालेनाऽङ्गुलिमालेन दस्युना परित: प्रपीडिता: प्रजा: प्रक्रमन्ते पलायनमितस्तत:। अत एव तासां परिशमनाय दस्योश्च दमनाय तदिदमायोजनम्।
मन्दमहसीद् गौतम:, अस्थाच्च कञ्चित्कालमवचनम्। तत: शनैरवोचत्- 'राजन्! यद्यङ्गुलिमालोऽसौ बौद्धभिक्षुरूपे भवत्समक्षमुपस्थितो भवेत्कथं व्यवहरेद्भवांस्तेन?।
'पूजयेयं श्रद्धया तमेनमहम्। प्रसेनजित्प्रत्यवादीत्- 'भगवन्नहमेनमालये निमन्त्र्य भोजनपर्युपासनां निर्वहेयं चेतसा। किन्तु नेदं कथमपि शक्यं विश्वसितुं यदेवं दुर्दान्तोऽपि दस्युर्भिक्षुदीक्षां कदाचिदप्यनुवर्तेत।
'संसारे न किञ्चिदप्यसम्भवं भूपाल!- संहितसंयमोऽवादीद् गौतम:-'पश्य पुरस्तादवधानेन, भिक्षुवेषे पर्यवस्थितो नवीन: सोऽयमऽङ्गुलिमाल एव।
नाभूदिदानीं भूभृतो विस्मयस्य परिसीमा। स हि भिक्षुमिममुपसर्प्य सगौरवमवादीत्-'अपि महाभाग! भवानेव लोककराल: सोऽङ्गुलिमाल:?
'आम् राजन् भिक्षुरभ्यधात्- 'अहमेव सोऽङ्गुलिमालो दस्यु:। प्रणिहित: प्रसेनजित् व्यानतभालमङ्गुलिमालं श्रद्धया परिक्रम्य सपरितोषं परावर्तिष्ट राजधानीम्।
व्यतिययौ स्वल्प एव काल:। एकदा सोऽयमङ्गुलिमाल: पात्रं चीवरं चादाय पर्युपासरद्भिक्षायै श्रावस्तीम्। पर्यचरत्पादचारेणाऽसौ नगरीम्, सहसैव प्रचण्डवेगेन लोष्टमेकं तस्य शिरस्यपतत्। व्यदीर्यत मस्तकम्, प्रासरत्प्रचण्डवेगेन रक्तप्रवाह:। प्राघातविह्व-लोऽङ्गुलिमालो नैतदवधि नि:श्वासमप्यग्रहीत्तावदेव द्वितीयप्रान्तादपर: प्रस्तर: सवेगमस्य मस्तकं विदार्य भूमौ न्यपतत्। अस्नासीत् क्षतजेनाङ्गुलिमाल:। न्यषिच्यत सर्वमपि काषायं रुधिरेण। निरगमत्सर्वेषामपि दर्शकानां मुखात्सानुक्रोशवचनम्- 'हन्त मर्मघाती सोऽयमाघात:। किन्तु संयमपालस्याऽङ्गुलिमालस्य मुखान्न नाम निरगमन्नूनमेकमप्यातुरवचनम्।
निष्पतद्रुधिरबिन्दुजालोऽङ्गुलिमालो हस्ते विदीर्णं पात्रमुपबिभ्रत् प्राप समीपं गौतमस्य। निश्चलतमो गौतमस्तमेनमालोक्य व्याहरत्- भिक्षो अद्य ते प्रायश्चित्तमपूर्यत!
'प्रायश्चित्तमपूर्यत इति गौतममुखादाकर्ण्यैवाऽङ्गुलिमालस्तथा प्रामोदत मानसे यथा मुक्तेर्मालैवाऽस्य हस्तगता भवेत्।
पृथ्वीराजपौरुषम्
पृथ्वीराज:- श्रूयते, मुहम्मदगौरी पुनरिन्द्रप्रस्थमिममाक्रमितुमिच्छति!
एक: सामन्त: - महाराज! त्रीन् वारानयं वीरपरीक्षां दातुमिन्द्रप्रस्थमास्कन्नवान्, किन्तु त्रीनपि वारान् देवेन दूरीकृतदर्पो द्रावितो निजदेशं दीनभावेन। साम्प्रतमपि महाभावेन तेनैवोत्साहेन वयं मातृभूमिमिमामभिषेवितुं सर्वत: सन्नद्धा स्म:। तत्किमिव विचारणीयं वीरराजन्यै: सम्भावितसेवेन देवेन नूनम्?
पृथ्वीराज: - समुचितमेवेदमुदीरितम्। भवादृशानामेव बाहुदण्डोपरि सोऽयं भूमिखण्डो वहते वीरतागर्वम्। भवादृशैरेव च द्विगुणीकृतोत्साहोऽहमुच्छ्रितवान् बाहोरुपरि भारतवियजवैजयन्तीमिमाम्। तत्समरदुरन्तेषु जाग्रत्सु मे सामन्तेषु को वा विचारविषय:? किन्तु सुभृशं खेदोऽथ निर्वेदो मे मानसे यद्- भारतीयैरन्यान्यभूपतिभि: सम्भूय बाह्यस्याऽस्य दस्योर्दमनाय नाऽदीयत किञ्चिदपि साहाय्यम्।
द्वितीय: सामन्त: - हन्त सन्तापयन्त्येतान्येव तु नाशचिह्नानि मानसं मनीषिणाम्।
द्वारपाल: (प्रविश्य) - देव! कान्यकुब्जस्य प्रधानामात्यो देवस्य दर्शनाय द्वारदेशमधितिष्ठति तत्किमुपस्थापयामि सम्मुखं देवस्य?
पृथ्वीराज: - अथ किम्। ससमादरमभ्यागमय तमेतम्।
महामात्य: सुमन्त: (प्रविश्य सोच्चै: स्वरम्) विजयतां दिल्लीपति:।
पृथ्वीराज: - (मस्तकमवनमय्य) स्वागतं सचिवधुरन्धरस्य। अपि सर्वत: कुशलं राजकुले भवताम्?
सुमन्त:- देव! सर्वतोऽनामयं भगवतोऽनुग्रहेण।
पृथ्वीराज: - साम्प्रतमिदमिन्द्रप्रस्थमलङ्कृतवतो भवत: समागमकारणं ज्ञातुमिच्छामि।
सुमन्त: - धर्मावतार! महाराजोऽस्माकं जयचन्द्र: पार्यन्तिकान् भूपालान्विजित्य कृतवान् भूयसीमृद्धिं राज्यकोषयो:। अतएव यज्ञाय सम्भृतसम्भारोऽसौ राजसूयेनेष्टुमिच्छति। सहैव च राजकुमार्या: संयोगिताया: स्वयंवरमप्येष चिकीर्षति। तदनयोर्द्वयोरप्युत्सवयो: सादरनिमन्त्रणाय सोऽयमहं देवस्य सविधमुपस्थित:, प्रार्थये च यज्ञसमये कान्यकुब्जानुपगमेनाऽलङ्कर्तुम्।
पृथ्वीराज: - मन्त्रिवर! भारतमिदमाक्रमितुमिच्छतां यवनानामुपद्रवान्न मे मुहूर्तमप्यवकाश:। श्रूयते यद् वर्धितामदो मुहम्मदो भूयोऽपि भारतमाक्रमितुमिच्छति। अतएव सुकठिनमातर्कयेऽहं कान्यकुब्जोपमयं मे।
एक: सामन्त - मन्त्रिमहोदय! यवनैरेभिर्यदा किल देशोऽयमास्कन्नो, न तस्मिन्समये प्रदर्शिता वीरता कान्यकुब्जेश्वरेण, किन्तु सम्प्रति चिकीर्षति राजसूयमसौ। अप्यसौ समयो देशरक्षाया:, उत राजसूयदीक्षाया:?
सुमन्त: - उचितमुपदिष्टं श्रीमता। किन्तु कान्यकुब्जेश्वर: सम्प्रति कृतवान् सर्वानेव सम्भारान् राजसूयस्य। (पृथ्वीराजं प्रति) कमहं देवस्य प्रतिसन्देशमुपहरामि महाराजाय?
पृथ्वीराज: - एतदेवाऽऽवेदयिष्यसि यत्पृथ्वीराजो राजसूयापेक्षया देशरक्षां साम्प्रतमीक्षते बहुमानेन।
मन्त्री. - यथाज्ञायपति महाराज: (प्रणम्य प्रतिष्ठते)।
पृथ्वीराज: - नियतमहमातर्कयामि यन्ममोत्तरमाकर्ण्य जयचन्द्रो निश्चितं कुप्येत्, न चैतदप्यसम्भावितं यद्बलदर्पितोऽसौ संवध्रीयान्मयैव सह समरसंरम्भम्। शक्नुयां चाहमपि यज्ञविध्वंसे नूनम्। किन्तु बाह्य: प्रतिपन्थी मे साम्प्रतं प्रतियोधनीय:। अतएव नाहमभिलाषामि गृहकलहमुद्भावयितुम्।
सामन्त: - तथाप्यस्माभि: सन्नहनीयमेवास्मै समराय। अहं त्वेतदप्याशङ्के यज्जयचन्द्र: कदाचित्सङ्गच्छेत मुहम्मदेनापि साकम्।
पृथ्वी. - यत्किञ्चिदस्तु। सर्वथा। समरसम्भार: कर्तव्य एवास्माकम्। भवन्त: सेनापतिना सह सङ्गत्य सम्मन्त्रयत समरसन्नाहाय। प्रेषयत च मत्समीपे सेनाध्यक्षम्।
(२)
(राजहर्म्ये कान्यकुब्जस्य महाराजो जयचन्द्र: सचिवेन सुमन्तेन, सामन्ताभ्यां च संलपंस्तिष्ठति)
जयचन्द्र: - महामात्य! अपि किं न ज्ञातं भवता यद्वयं पृथ्वीराजमन्वास्कन्दमाना इन्द्रप्रस्थं यावदभ्यसराम्। यदि वयमवाञ्छिष्याम तर्हि पृथ्वीराजमग्रहीष्याम, किन्तु यदेदमालोकितं यत्पृथ्वीराजस्य पृष्ठे वत्सा संयोगितापि तमश्वमारूढा तदा वात्सल्येन कारुण्येन च नो हृदयमभूद् युगपदाक्रान्तम्। सम्प्रति पुत्र्या: संयोगिताया: कारणान्न वयं पृथ्वीराजेन सह समरमप्यभिरोचयाम:।
सुमन्त: - विदितमेव महाराजाधिराजस्य यत्पृथ्वीराजो यथार्थवीरभूपाल:। द्वारपालस्य स्थाने तन्मूर्तिमवस्थाप्य तदवमानं यदि महाराजो नाकरिष्यत्तर्हि नायं व्यधास्यद् युद्धसन्नाहम्, न चाहरिष्यद् भर्तृदारिकां संयोगिताम्।
जयचन्द्र: - अमानं तस्याभिमानमालोक्यैवाहं तस्येममपमानमकार्षम्। प्रथमं तु सोऽस्माकं यज्ञनिमन्त्रणं तिरश्चकार, द्वितीयम्- यत: प्रभृति मातामहेनाऽनङ्गपालेन मामपहाय तस्मै इन्द्रप्रस्थराज्यमपवर्जितं तदारभ्यैव तस्याऽअहङ्कार: सङ्काशते। अस्तु. यत्किञ्चित्, सम्प्रति चारणमनुप्रेष्य संयोगितया सह तस्य परिणयोऽस्माभिरवश्यं सम्पादयितुं युज्यते।
एक: सामन्त: - स्थाने एष महाराजस्य विचार:। यत: किल कुमारी संयोगिता स्वेच्छयैव तमनुससार, न बलाद्धरणेनाऽयमपमानमस्माकमपारयत्कर्तुम्। समरसंरम्भे हि प्रत्यक्षमिदमालोकितं मया। यदा ह्यहं तत्कन्धरायां धनुरभिपात्य तमाक्रष्टुमभ्यलषं तदा कुमार्या संयोगितयैव निजदन्तैर्धनु: प्रत्यञ्चामुत्कृत्य संरक्षितोभूत्पृथ्वीराज:।
जयचन्द्र: - (खेदमभिगोप्य) सम्यगिदम्। ममापीदमेवाऽऽतर्कितम्। स्वयंवरेऽपि हि तया ज्ञात्वैव पृथ्वीराजप्रतिमाया: कण्ठे विजयमाल्यमावर्जितम्। (चारणं प्रति) श्रीकण्ठ! साम्प्रतमेव देहलीं प्रस्थाय सम्पादय संयोगिताया: परिणयविधिम्। (चारणस्तत्कालमेव प्रतिष्ठते।)
जयचन्द्र: - अस्तु, साम्प्रतं तदिदमस्माकमभिमन्त्रणीयं यन् मुहम्मदगोरी पृथ्वीराजमभिषेणयितुं याचितवानस्मत्त: साहाय्यम्। तत्किमस्योत्तरमस्माभि: प्रेषणीयम्?
सुमन्त: - यदा पृथ्वीराजेन सह समपद्यत घनिष्ठ: सम्बन्धो महाराजस्य, तदा न तत्सपत्नेन सह सन्धातुमुचितम्। साम्प्रतं हि यवना इन्द्रप्रस्थमाक्रमितुं कृतोत्साहा:, यदि ते तत्र विजयिनो भविष्यन्ति तर्हि कान्यकुब्जमास्कन्दितुमपि तेषां सम्भवेत्साहसम्। तस्मिन्समये किं महाराजो नि:सहाय एव प्रभवेत्स्वदेशं रक्षितुम्? अत एव साम्प्रतं पृथ्वीराजस्य साहाय्यसम्पादनमेव महाराजस्य स्वरूपोचितं येन बाह्या रिपवो न पारयेयु: प्रवेष्टुमस्मत्प्रदेशम्।
जयचन्द्र: - मन्त्रिवर! पृथ्वीराजेन यो मेऽवमानो विहितस्तमेनमनुस्मरन्नाहं तत्साहाय्याय कथमपि कृतोत्साह:। किन्तु यदि पृथ्वीराजेन सह मत्सम्बन्धमे-वाऽनुरुणद्धिभवाँस्तहर्येतन्मात्रमहं शक्नुयां कर्तुं यद्भारतक्षौरिणो गौरिणोऽपि नाहं कुर्यां साहाय्यम्।
प्रथम: सामन्त: - महाराज! न केवलमेतन्मात्रेण निरुह्येत साम्प्रतिकं कर्तव्यम्। श्रुतं मया यद्यवनानां सेना कति लक्षमिता। इतो महाराज: पृथ्वीराजस्तु केवलं पञ्चदशसहस्रयोधैरेव सन्नद्धो युद्धाय। तस्य सहायकस्तद्भगिनीपतिश्चित्तोराधिप: केवलं समरसिंह एव।
सुमन्त: - महाराजेन पुनरयं विषय: सूक्ष्मतया समीक्षणीय:। अवसरोऽयमेकताया:, न मिथो भिन्नताया:। साम्प्रतं हि न केवलं पृथ्वीराजपरिपन्थिनैव, अपि तु देशमात्रस्य शत्रुणा सह योद्धव्यमुपस्थितम्। यदि भवान् पृथ्वीराजस्य साहाय्याय समरभुवमवतरेत्तर्हि भवदनुगामिनोऽन्येऽपि राजन्यास्तत्र भवन्तमनुसरेयु:।
जयचन्द्र: - अमात्यवर! एषामेव महीभुजां समक्षे मामपमानितवान् पृथ्वीराज:। अस्तु यत्किञ्चित्, निर्भरं निर्धारितवानहं यन्नाहं दद्यां मुहम्मदगोरिणे साहाय्यम्, किन्तु पृथ्वीराजस्य साहाय्यसम्पादनमपि न मेऽभिरुचितम्।
सुमन्त: - (स्वगतम्) यदा ह्यभिमुखानि भवन्ति विपद्दिनानि मानवस्य न तदा हितावहोप्युपदेश: कल्पते तोषाय। (प्रकाशम्) महाराजाधिराज: स्वयं दूरदर्शी, अतएव यत्किल शुभोदर्कं तत्स्वयं विदध्यान्महाराज:।
जयचन्द्र: - यदुचितं स्यात्तदेव सम्प्रति सम्पाद्येत। अस्तु, साम्प्रतमियं सभा विसर्जिता।
(३)
(गजनीदेशस्य भीषणाऽऽकारायां कारायां द्विषद्भिरन्धीकृत: पृथ्वीराजो निगडितस्तिष्ठति)
चन्द्रकवि: - (प्रविश्य) महाराजाधिराजस्य सम्मुखे सन्नमत्ययमनुगत:।
पृथ्वीराज: - (स्वरं परिचित्य) अये चन्द्र:? कथं भवानिहोपगत:?
चन्द्रकवि: - महाराजस्य दर्शनाय।
पृथ्वीराज: - मत्समीपमुपगच्छन्न किं भवान् कैश्चिन्निरुद्ध:?
चन्द्रकवि: - न केनापि। दत्ता मह्यमनुमति: शूलत्राणेन।
पृथ्वीराज: - तर्हि सम्यगेवेदम्। कथय का परिस्थिति: साम्प्रतं भारतवर्षस्य?
चन्द्रकवि: - निवेदयेय भारतीयां दशां साम्प्रतमेव महाराजाय, किन्तु महाराजस्य नेत्रयोरियं दशा कथं संवृत्तेति ज्ञातुं व्यथते मे विषण्णं हृदयम्।
पृथ्वीराज: - किं प्रोक्तेन? तस्यैव यवनहतकस्य दुर्विचेष्टितमिदम्। किन्तु न साम्प्रतं मेऽस्य विषाद:। कथयतु भवान् भारतीयां परिस्थितिम्।
चन्द्रकवि: - युद्धे महाराजाधिराजस्य ग्रहणवृत्तान्तमुपगम्यैव 'जौहर व्रतमनुष्ठितं महिलाभि:। क्षत्रियाश्चाऽऽप्राणपातमयुध्यन्त यवनै: साकम्।
पृथ्वीराज: - सुखावहमिदमाकर्णितं भवत:। किञ्चेदमपि यामिकेभ्योऽवागच्छं यन्महाराजो जयचन्द्रो मुहम्मदात्पराभूय भयात्पलायमानो भगवत्यां गङ्गायामात्मानमुत्सृष्टवान्। अपि तथ्यमिदम्?
चन्द्रकवि: - अथ किम्। आत्मन: कृते: प्रतिफलमसावलभत। इन्द्रप्रस्थाक्रमणस्य स्वल्पकालानन्तरमेवासौ कान्यकुब्जमप्यधिचकार।
पृथ्वीराज: - (दु:खेन दीर्घं निश्वस्य) हन्त साम्प्रतमुत्तरभारताद् हिन्दुराज्यमेकान्ततो विलुप्तम्। सम्प्रति भवान् शीघ्नमेव परावर्ततां निजदेशम्। प्रतिक्षणं संशयोऽत्र प्राणानाम्।
चन्द्रकवि: - (निश्वस्य) यदा स्वयं दिल्लीश्वरस्यैव सेयं दशा तदा को मे विषादो निजप्राणानाम्? अहमेकं सङ्कल्पविशेषं हृदि कृत्वैवाऽत्र समागत:। तमेतमभिपूर्यैव मातृभूमेर्ऋणान्मुक्त: स्यां नूनम्।
पृथ्वीराज: - सखे कोऽसौ विचार:?
चन्द्रकवि: - (समीपमुपगत्याऽतिनिभृतम्) अहं हि गोरिण: सविधे भवत: शब्दवेधपाटवमभिष्टुत्य तद्राजसभायां नेतास्मि तत्रभवन्तम्। तत्र हि गोरिमुखनिर्गतं शब्दमाकर्ण्य शब्दानुवेधिना विशिखेन निबर्हय तं दुष्टम्। तत आवां मिथो १व्यतिहत्य यवनहतकहस्ताद्विमुक्तिं लप्स्यावहे।
पृथ्वीराज: - अहो धन्योऽसि प्रियवयस्य! प्रियं प्रियं मे प्रस्तुतं भवता। अनुपदमेवानुतिष्ठतु भवाँस्तत्प्रबन्धम्। अहो त्वमेव मे प्राणेभ्योऽपि प्रियो हितानुवर्ती।
चन्द्रकवि: - आज्ञानुसारमयमहं प्रतिष्ठे साम्प्रतमग्रिमकर्तव्याय सन्नह्यतां
महाराजोऽपि।
(४)
चन्द्रकवेरावर्जकेन पृथ्वीराजस्य शौर्यवर्णनेन सन्धुक्षितकौतुकवह्नि: समीपस्थसभासद-महाऽऽग्रहात्किम् भवितव्यस्य प्रभावादेव व्यामोहवशंवदो मुहम्मदो राजसभायामाकारितवान् दर्शनमात्रेणैव व्यामुग्धीकृतसमाजं पृथ्वीराजम्। मन्त्रिसामन्तपरिवृत: समधितस्थौ राजसिंहासनं गोरी। समुखे चन्द्रकवि: पृथ्वीराजश्चाप्यतिष्ठताम्। समारोप्यन्त भित्तौ लोहस्य सप्ततापिका:।
गोरी. - अपि शक्नोति विशिखमेवंविधमामोक्तुं पृथ्वीराज:?
चन्दकवि: - अथ किम्। शब्दवेधमिमं दर्शयितुं सज्जोऽस्त्यस्माकं महाराज:। धनुर्वाणं चानाययतु शूलत्राण:, आदिशतु च कञ्चन पुरुषं तापिकोपरि शब्दं विधातुम्।
मुहम्मदस्याज्ञया न्यधीयन्त पृथ्वीराजस्य हस्ते शरा: शरासनं च, व्यधीयत च तापिकोपरि दण्डसमाघातेन सन्नाद:। पृथ्वीराजष्टङ्कारसन्धानेन तथा शरं प्राक्षिपद्यथा तापिकाया वेध: प्रहर्षोत्सेधश्च दर्शकेषु युगपदभूताम्।
मुहम्मद:. - (प्रहर्षकौतुकाभ्याम्) सम्यक् सम्यक्।
चन्द्रकवि: - नेदमधिकं किञ्चित्। अस्मन्महाराजस्यान्यदपि नैपुण्यमनुभूयतां शूलत्राणेन। श्रूयताम्-
'वंशचतुष्कं 'गजचतुर्विंशतिरङ्गलयोऽष्ट।
शूलत्राणस्तत्रगश्चमूहान सञ्चेष्ट।।
पद्यस्यार्थमबुद्ध्वा चमत्कारान्तरव्यालोकयन् कौतुकी समादिक्षन्मुहम्मद: - 'विधीयतां द्वितीयतापिकोपर्यपि सन्नाद:।
इदानीं किमासीत्। पद्यत: स्थितिस्थानस्य परिमाणं शब्दस्यानुसन्धानं चावाप्य समरसभाज: पृथ्वीराजस्तथा प्रमुमोच शब्दवेधिनं विशिखं यथा सम्मुखललाटमाविद्धो मुहम्मदो न्यपतत्तत्कालमेव निष्प्राणो भूत्वा भूमौ। सैनिकसामन्तसभासदा: 'धावत धावत, गृह्णीत सत्वरम्, नेत: पलायेत इत्यादि चक्रुर्भूयांसमारावम्। किन्तु यावत्सैनिका: समभिधावन्ति तत: पूर्वमेव तौ मिथ: खड्गधरायां धारयामासतु: ५साहसैकरताममरतां यया ह्यद्यापि तौ जागृतस्तावदैतिहासिकजगति। भावयताद्भारतीयानां भव्यं भगवान्।
आल्हा च ऊदलश्च
('आल्हाशब्देन नाऽपरिचिता: प्रायो बहुश्रुतमहोदया:। प्रसिद्धम् 'आल्हा भारतस्य पूर्वप्रान्ते। न केवलं तत्रैव, अन्यप्रदेशीयेष्वपि साहित्यरसिकेषु तदिदं गाने महता प्रवाहेण प्रासरत्पूर्वम्। एतावानस्य प्रचारोऽभवद् यत्कवीनां कवितामनाकर्ण्य साह्लादमाल्हागानमभ्यरोचयञ्जना:। किमधिकम्, 'आल्हा चरितसम्बन्धात् 'वीर नाम्नश्छन्दस एव 'आल्हा नाम समभवत्प्रसिद्धं साहित्ये। निजसाम्यप्राप्तेरीर्ष्यया असूयन्तिस्म कवयोऽप्याल्हागायकेभ्य:। अत एव हि 'व्यङ्ग्यकवित्तानि प्रसिध्यति- 'आल्हो के गवैयाकों रुपैया रोज खावे कों इत्यादीनि। किन्तु काविमौ आल्हाऊदलौ, का च तयोर्वीरतेति बहव एव शिक्षिता अपि मन्ये न जानन्ति। अंशतस्तत्परिचयोऽधस्तादवतार्यते।)
(१)
'महोबा (बुन्देलखण्डे) महीपते राज्ञ: परमारस्य राजसभायाम् आल्हा-ऊदलनामानावास्तां द्वौ क्षत्रियभ्रातरौ। आल्हाज्येष्ठ: ऊदलश्च लघीयानासीत्। भारतस्येतिहासे ऊदलसमान: साहसी महावीरो निर्भयश्च योद्धा विरल एव प्रासिध्यत्तस्मिन्समये। यावदेव विकटं सङ्कटमभवत्तावदेव महावीरस्यास्य शौर्यगुणो विजृम्भते स्म। समरसीमनि यत्रैवोदल: प्राविशत्तत्रैव तस्य, तत्तुरगस्य विन्दुलस्य च महान्प्रभावो व्याप्नोत्। खड्गमात्रसहायोऽसौ महामहतीं दुर्दमां चमूमपि रणक्षेत्राद्वित्रासयति स्म। आल्हावीरो वीरतायामूदलादासीत्किञ्चिदून: परं गभीरतायामासीत्स सर्वाधिक:। आल्हाऊदलयो: पिता यशोराजाख्य:, माता च देवलदेराज्ञी बभूव। स्वामिसभाजोऽयं यशोराजो निजप्राणानपि दत्त्वा परमारदेवस्य सेवामकार्षीत्, अत एव महोबाधिपतिस्तस्मै परितुष्य कालिञ्जरस्य प्रान्तं पारितोषिके व्यतरत्।
आल्हा महोबामहीपतेरासीत्सेनापति:। ऊदलश्च महोबामहीपस्य परमारस्य प्रधानामात्त्यपदमध्यतिष्ठत्। आल्हामहावीरो महोबामहीमारक्षन् दशवारान्पराजेष्ट परापतितान् मोगलवीरान्। एष हि निजबाहुबलेन परमारमहीपते राज्यसीमानं गयां यावन्नर्मदातीरपर्यन्तं च व्यस्तारयत्।
एकदा दिल्लीधरापते: पृथ्वीराजस्य कस्माच्चित् समरात्परवृत्ता: क्षतविक्षताङ्गा: केचित्सामन्ता:, पदातयश्च कतिपये मार्गं विस्मृत्य महोबामहीमासादयन्। आसीज्जलधरकाल:। प्रथमं क्षतविक्षताङ्गा:, ततोऽप्युद्दण्डप्रकृतय: सैनिका:, तदुपरि ते मार्गं विस्मृतवन्त:, ततोऽप्यासीत्प्रावृट्काल:, अत एव ते निजरक्षायैपरमारमहीपतेरुद्याने निजस्कन्धावारमास्थापयन्। किन्तु राजसेवका उद्यानपालास्तान्प्रत्यषेधन्। परं न ते तेषामाज्ञां प्रत्यपालयन्। अत एव परस्परविवादवृद्धौ पृथ्वीराजसामन्तै: सम्यगदण्डयन्त महोबापतेरुद्यानरक्षका:। नृपवनसेवकास्ते निजपराभववृत्तं राजसभायां न्यवीविदन्। शौर्यसार: परमार: सामन्तानामेषां निग्रहाय प्रैषयल्लघीयसीमेकां सेनां किन्तु दिल्लीवल्लभस्योदग्रा: सामन्तास्तामेतामनीकिनीमञ्जसैव पराजयन्त। तत: क्रुद्धो महोबाधिपतिरूदलमादिशद् यत्स त्वरितमेव गत्वा दुरन्तानेतत्सामन्तान् सुभृशं दण्डयेत्।
विचारशीलो ह्यूदल: सुभृशमबोधयत्परमारं यदेवं लघोर्घटनाया उपरि महता ताण्डवेन नूनं महीयसी क्षतिरकाण्डमेवापद्येत। दुर्दमप्रतापेन दिल्लीभूपालेन सह निरर्थकमेव वैरनिर्बन्धोऽयं न श्रेयसे भवेत्कथञ्चिदपि। द्वितीयत: साहाय्यैकपात्राणां शस्त्रक्षतगात्राणां सामन्तानामाक्रमणं धर्मतो निषिद्धमपि। किन्तु कोपदुर्निवार: परमार: श्रवसि नाऽकरोत्किञ्चिदपि। अन्ते विर्वशोऽयमूदल: स्वदलमादाय जगाम। सामन्तान् समया समबध्यत महत्तुमुलम्। दिल्लीमहाराज: पृथ्वीराजो यथैव पराभवमिममाकर्णयत्तथैव पवनप्रेरित: पावक इव परमं प्रजज्वाल। प्रेषयामास च स तत्कालमेव दुर्दमामात्मनो वरूथिनीं महोबामण्डलमिदमखण्डमाक्रमितुम्।
(२)
इतो दिल्लीमण्डले महोबामेदिनीमाक्रामितुं समरसज्जा: सन्नह्यन्ते, किन्तु ततो महोबामहीखण्डे घटनैवान्याद्दृशी समघटत। सामान्यमात्रं सूत्रमादाय महत्काण्डं समबध्यत। आल्हाऊदलयो: सविधे समभूवन् प्रशस्यतरा: पञ्चगोवत्सतरा:। रत्नपरीक्षक: न्परमारमहीपतिस्तानेतानयाचत्साभिलाषम्। प्रादर्शयच्चानेकविधानि विलोभनान्यपि, परम् आल्हाऊदलौ न कथञ्चिदपि सममन्येतौ तेषां समर्पणम्। अन्ते यदा न केनाप्युपायेन तौ दम्यसमर्पणमन्वमन्येतां तदा प्राप्तनिकार: परमार: सामर्षमाज्ञापयत्- 'सरलतया स्वीकुरुतं मे वत्सतराणामेषां समर्पणम्, अन्यथा मे राज्यं विहाय साम्प्रतमेव बहिर्निष्क्रमणीयं स्यात्।
अभिभवेन वस्तुसमर्पणमात्मनस्तिरस्कारमाकलयन्ताविव न कथञ्चिदपि तदिदमङ्गीचक्रतुस्तौ अभिमानधनाऽनयोर्जनन्यपि नेवं तिरस्कारमसोढ। अतएव वीरजनन्या: प्रोत्साहनेन प्रोद्दीप्तस्वाभिमानाविमौ वीरौ महोबामण्डलमतिक्रम्य कान्यकुब्जकाश्यपीं सुखमशिश्रियताम्। तत्र हि वीरपरोक्षायामतन्द्रो महीपतिर्जयचन्द्रोऽनयो: सारदरमकरोदभ्यर्थनाम्। अतएव हि मानधनावेतौ तत्रैव सपरिवारमवात्ताम्।
महाराज: पृथ्वीराजो दलबलसहितमभ्यास्कन्दत महोबामण्डलम्। समजायत वीरक्षयकर: सुमहान् सङ्गर:। साहसैकसारस्य राज्ञ: परमारस्य क्व तावती शक्तिरासीद् यद्वशीकृतवीरसमाजं पृथ्वीराजं पराजयेत। अतएव दिल्लीपते: पृतनाभि: समचूणर्य्तत चमूचक्रमेतस्य सर्वभावेन। अभ्यभूयत भयकातरभावेन समग्रापि महोबामण्डलस्य राजसभा, समभूवन् समन्तात्सामन्तानां नानाविधा मन्त्रणा: किन्तु पर्यन्ते महोबाराजमहिष्या मल्हनाया: प्रस्ताव: सर्वसम्मतया स्वीकृतोऽभवत्। तदनुसारं परमार: पृथ्वीराजस्य सविधे प्राहिणोद्दूतम्, साकूतं प्रार्थयामास च यद् 'द्वौ मासौ यावत्स संग्रामं निष्प्रतिबन्धं रुन्ध्यात्। आसीत्पृथ्वीराजो वीर: क्षत्रिय:, क्षात्रधर्माणां प्रतिपालयिता च। अतएव हि समरनियमानुसारमसौ स्वीचकार परमारस्य प्रार्थनामेनाम्। समासाद्यत् द्वयोर्मासयोरवकाशो महोबामण्डलस्य सेनासन्निविष्टे:।
(३)
महोबामहीखण्डं यदा विपद्वारिदा: पर्यवारयंस्तदा तन्निवासिनामाल्हा ऊदलश्च स्मृतिपटलमध्वारोहताम्। राजमहिष्या मल्हनादेव्या मन्त्रणया परमारस्तयोराह्वानाय जगनकं प्राहिणोत्कान्यकुब्जम् (कन्नौज) प्रति। तत्र गतो जगनक: परमारस्योपरि समापतितां सर्वामपि विपदं निवेदयामास वीरक्षत्रिययोरनयो:। किन्तु नेमौ किञ्चिदप्ययासिष्टां मृदुभावम्। स्पष्टमाभ्यां प्रतिषिद्धम्- 'असार: परमार: खलस्य माहिलस्य दुर्मन्त्रणया निरवासयदावां देशात्पूर्वम्, सम्प्रति सङ्कटत्रस्त: प्रयाजनार्थं प्रयोजयत्यावाम्। किन्तु नावां वाञ्छावो गन्तुम्। भूयस्तरानुनयविनयावक्रियेतां तयो: किन्तु न कथञ्चिदपि गन्तुमन्वमन्यत आल्हा वा ऊदलो वा।
अनयोर्मातादेवलदेवी यथाकथञ्चिदशृणोत्सर्वमिदं दूनभावेन। किन्तु मूकवाणी क्षत्रियाणी नेतोऽधिकं सोढुमशकत्। सा हि घोरं गर्जित्वा भृशमतर्जयदिमौ- 'हन्त जन्मभूमिं परितो विपत्सरितो व्यापृता: भवन्तौ च गृहकलहं वर्धयन्तौ दूरत: कौतुकमीक्षेथे:? देशस्य स्वतन्त्रतामाक्रमितुं परित: परिपन्थिन: परापतिता:, युवां च पारस्परिकवैमनस्यमालम्ब्य गृहकोणमातिष्ठथ? महोबामही लुण्ठ्येत, महोबावासिनां शिरसि सर्वदार्थं कलङ्क: सङ्काशतां किन्तु युवयोर्व्यक्तिगत: सम्मान: स्यादविक्षत:! नूनं मानयेऽहमपमानमिषमादाय युवामात्मनो जीवरक्षां कुरुथ:। हन्त एवंविधसन्तानापेक्षया वन्ध्यतैव मे वरमासीत्।
वीरजनन्या व्यङ्ग्यवाणीयमविध्यद्धृदयं द्वयो:। सा हि महोबामहेरन्नोपजीवनमपि पुन: पुनरस्मारयद् यस्य ऋणमनपनेयं सम्प्रति समभासत। अतएव हि देशं नरेशं च सङ्कटादुद्धर्तुं द्वावपि वीरौ शस्त्रं गृह्णीताम्। अन्नोपजीवनस्यर्णेन सर्वोऽप्यात्मावमानस्तिरोहित:। देशस्यार्तनादोपरि लवणलज्जां रक्षन्तौ द्वावपि वीरौ व्यक्तिगतमपमानं सर्वथा व्यस्मार्ष्टाम्। कान्यकुब्जपतेर्जयचन्द्रस्य सविधे गमनानुमतिं वाचितुमगमतामेतौ। तत्र हि नान्वमन्यत गन्तुं जयचन्द्र: पूर्वम्, परं यद मातृभूमिभक्तयो रनयोभ्रुकुटिभङ्गभीषणमलक्षयद्वदनं तदा गमनाज्ञामदिशत्तयो:। ने तावन्मात्रमेव, अपि तु तयो: साहाय्याय महतीं चमूमपि प्राहिणोत्। आत्मनो भ्रातव्यं लक्ष्मणसिंहं च सेनाया: संरक्षकं विधाय तेन सह व्यसर्जत्।
आल्हाऊदलौ यथैव महोबामेदिनीमवापतां तथैव तत्र सोन्नाहं युद्धसम्भारा: समभ्रियन्त। आल्हा प्रधानसेनापतिर्न्ययम्यत। इत: समपूर्यत द्वयोर्मासयोरवधिरपि। पृथ्वीराज: संसम्भारमकरोन्महोबामेदिनीमुपर्याक्रमणम्। समघटत महानामर्द्द:। युद्धस्य यथैव भयङ्करता ववृधे तथैव परमार: पलाय्य न्यलीयत कालञ्जरदुर्गे। किन्तु रणरङ्गोन्मादिनो महोबामण्डलस्य महावीरा: सङ्ग्रामाङ्गणे द्विगुणोत्साहेन समवर्द्धन्त। अभूतपूर्वमभवद्भयानकमायोधनम्। आल्हावीरस्य साल्हादमाहवमभ्यापतन्त: प्रत्यर्थिवीरा अपि प्रशशंसु: पराक्रमम्। खड्गमात्रसहायोऽसौ यत एव सपत्नसेनां प्राविशत्तत एवावरणभङ्गमिवाऽकरोत्। मूलकच्छेदमच्छिदच्छत्रुमुण्डानि। कतिपयसंख्यान् पार्ष्णिग्राहानादाय समीकसीमानमवतीर्णेनानेन पर:शता एव परिपन्थिसैनिका: समशाय्यन्त वीरशय्यायाम्। अभित: समभूत् सपत्नसेनायां भयस्येवाऽवतार:। अधुना पृथ्वीराजस्य सैनिका: समग्रबलेन समारभन्त तत एवाऽस्कन्दं यत्न: किल सोऽयमाल्हा महावीर: सङ्ग्रामसंहारमकरोत्। बहुकालं यावत्प्रचण्डबाहुदण्डेन मण्डलाग्र: भ्रामयतोऽस्य समभूत्परिश्रमस्य सूत्रपात: किन्तु समरोन्मादिनाऽनेन नायं किञ्चिदपि पर्यगण्यत। सरम्भोत्साहमत्तेनानेन तस्मिन्नपि समये निजाश्वादुत्प्लुत्य मातङ्गमारूढस्यापि प्रत्यर्थिसेनापतेरच्छिद्यत सखड्गे बाहु:। सन्धाने किञ्चिदेवान्तरमभूत्, अन्यथा सेनापतेर्मुण्डखण्डने समाप्येत सर्वोऽपि वैरिवीराणामुत्साह:। अस्तु, भाविन: समतिक्रमणे न कश्चित्प्रभु:।
एकस्य हि द्वावौषधिरिति लोके प्रसिद्धि: किन्त्वत्र एकमात्रमुपलक्ष्य पर्य्यापतन्ननेके योद्धा: द्वितीयतो दिल्लीपते: सैन्यमप्यपरिमितमासीदत एव स्वल्पसंख्यै: महोबामहाभटै: किं किं वा परिसाध्येत? अपरत: सङ्ग्रामाङ्गण एव लघुभ्रातुरूदलस्य यथैव निधनं तेन विदितं तथैवास्योत्साह: पर्यशाम्यत्। इतो जयचन्द्रभ्रातव्यो लक्ष्मणसिंहोऽपि वीरगतिमगात्। परमारस्य पुत्रो ब्रह्मजिदपि प्रत्यर्थिखड्गधारया प्रवाहित: सर्वदार्थमशयिष्ट समरशय्यायाम्। एवं किल आल्हासदृशमहावीराणामुत्साहे मन्दीभूते विजयलक्ष्मी: पृथ्वीराजसैनिकानां हस्तगता समभूदेव।
प्राणप्रियस्य ऊदलस्य वीरगतिलाभेन आल्हा एतावद्विषण्णोऽभूद् यत्स न पुनरात्मन: सदनं प्राविशत्। संन्यासमालम्ब्य काननमेवाऽव्रजत्। पृथ्वीराज: कालञ्जरात्परमारं प्रत्यानयत्, तस्य जीवितरक्षामकरोत्। किं बहुना, तस्य राज्यमपि तस्मै प्रत्यार्पयत्। किन्तु तद्दिनादारभ्येव महोबामण्डलमिदं देहलीराज्यस्याधीनमभूत्।