मातृसेवायां चिरममरे द्वे बलिदाने
(१)
भारतस्य भागधेये प्रगता षोडशतमशताब्दी समुन्नतेश्चरमसीमायै इति ह्यैतिहासिकानां कथनम्। यतो ह्यस्मिन्नेवान्तराले मोगलसम्राजां, सर्वतोऽधिको भाग्यशाली गूढनीतिपरिपाली चाकबरशाह: शासकोऽभूत्! नीतिनिपुणेनानेन वीरक्षत्रियाणां साहाय्यात्सकलमपि भारतं मुष्टिगतमक्रियत। किन्तु समग्रसाम्राज्यस्य सकलं सैनिकबलम् अतुलं धनराशिम् विपुलं नैतिकबलं चापि संप्रयुज्य सोऽयं प्राणपणेनापि मेदपाट (मेवाड़) मण्डलस्य स्वतन्त्रतामपाकर्तुं न प्रबभूव। प्रात: स्मरणीयो महाराणाप्रताप: स्वायुष: समाप्तौ कुमारममरसिंहं निजपरिचालित-स्यादर्शस्य निर्वाहे सर्वथा बद्धपरिकरमालक्ष्य, सर्वात्मन: सामन्तान्मेवाडमानरक्षाया: प्रतिज्ञां च कारयित्वा सोऽयं सुखेन स्वर्गलोकमध्यारोहत्। क्षत्रियाणां सिंह: सोऽयममरसिंहोऽपि पितुश्चरमामिमामाज्ञां शिरसि निधाय, मेदपाटमण्डले स्थापितानां मोगलसैन्यगुल्मानामुपर्याक्रमणं प्रारेभे।
परिमितबलं मेवाड़मण्डलं प्रचण्डबलशालिना मोगलसाम्राज्येन सह बहूनि वर्षाणि सम्मुखसमरं विधाय क्षीणबलं समपद्यत। प्रगतसमरेषु परश्शता: प्रमुखवीरा: सर्वदार्थं वीरशय्यामध्यशेरत। अवशिष्टाऽपि सेना रात्रिंदिवं घोरपरिश्रमेण नानाविधकष्टसहनेन चोत्साहमात्रशेषाऽऽसीत्। अवश्यमेषां वीराणां धमनीषु तेजोऽनुप्राणितं तदेव क्षत्रियशोणितमवहत्, हृदयेषु स एवातुल: शौर्योत्साह: समुद्वेलितोऽभूत्, पूर्वमिव साम्प्रतमपि ते सम्मुखसमराय साहसिनो बाहुविलासिनश्चासन्नेव, किन्तु केवलं साहसं कियद्वा प्रभवेत्? अपरिमितानां संख्यानां सम्मुखे स्वल्पा संख्या कियद्वा वराकी प्रदर्शयेत्प्रागल्भ्यम्? वस्तुतो हि सम्प्रति मेवाड़मण्डलस्य गभीरा परिस्थितिरासीद् यां किल भारतेतिहासज्ञा न नाम कथमपि शक्नुवन्ति विस्मर्तुम्। अत एव हि बहूनि वर्षाणि मोगलसम्राजा सह समरसमारम्भणं नासीत्तस्य कृते सहजम्।
एतस्मिन्नेव समये सम्राडकबरो युवराजं सलीमम् (जहाँगीर) महामहतीं चमूमादाय मेवाड़मण्डलमाक्रमितुं प्राहिणोत्। अक्रियताऽनेन बहुषु मेदपाटीयदुर्गेष्वधिकार:। एतेष्वेव दुर्गेषु 'ऊण्टाला, नामकं दुर्गमतीव सुदृढं राजनीतिदृष्ट्या चात्यर्थं प्रयोजनीयं पर्यगण्यत। अस्यैव दुर्गस्य द्वारदेशे द्वयोर्बलिनोर्द्वे बलिदाने तादृशे अभूतां ये हि स्वामिभक्तवीराणामितिहासे वज्राक्षरोत्कीर्णे इव चिरायाऽमरे समभवताम्। स्मृतिश्च ययोरद्यापि वीरक्षत्रियाणां रोमाणि प्रहर्षयति, मृतकल्पानां चाप्यन्त:करणे साहसं चोत्साहं च निरञ्चलं सञ्चारयति।
(२)
मेवाड़राज्ये 'चूँडावत, 'शक्तावत, इति क्षत्रियाणामतितमामुच्चौ वंशौ परिगण्येते। द्वावेवाऽन्वयौ वीरतापूर्णकार्यार्थं सर्वत्र विश्रुतौ। द्वाभ्यामेव मेदपाटराज्यस्येतिहासे सर्वदा स्मरणीयास्तास्ता: सेवा निर्वाहिता:। द्वावप्येतौ वंशौ पूर्वजानां वीरताविरुदोपरि गर्वमखर्वं बिभृत:। समरमहोत्सवेषु सर्वतोऽग्रे समवस्थाय सङ्ग्रामवीरता धन्या किल राजन्यानां परिगण्यते। महती सेयं प्रतिष्ठा क्षत्रियवर्गनिष्ठानाम्। नासीरे समवस्थाय समरमहोत्सवश्चिरकालान्महामहत्त्वाय परिगण्यते राजपुत्रवीरै:। किमतोऽधिकं यत्स्वयं कालिदासोऽपि भगवतो रामचन्द्रस्य मुखादग्रयोधित्वं विशेषेण प्रशंसयति -
'पौलस्त्य एष समरेषु पुर: प्रहर्ता।
एतदधिकारलब्धये महती प्रतिस्पद्र्धा प्रचलति स्म राजन्यवंशेषु। महाराणाअमरसिंहस्य समये सोऽयमधिकारश्चूँडावतवंशीयानां पारम्परिकोऽभूत्। समये समये प्राणसमर्पणपूर्वकं या: सेवास्तद्वंशीयैरक्रियन्त तासामनुरोधेन सोऽयमधिकारस्तेषां न्यायप्राप्त एव। परन्तु शक्तावतवंशीयैरपि महाराणाप्रतापसिंहस्य समये पर्याप्तास्तादृशी: सेवा: संविधाय महान् प्रभाव उदभाव्यत राजप्रजयोरुभयोरेव मनसि। सम्प्रति शक्तावता अपि नासीराधिकारप्राप्तये स्वाभियोगमुपस्थापयामासु:। आसीत्तेषामाग्रहो यत् 'वयं चूँडावतेभ्योऽप्यधिकं समरवीरा:, अत एव सोऽयमस्माकमधिकार:। इतश्चूँडावता अपि वंशपरम्पराप्राप्तमिमधिकारं मोक्तुं नासन् कथमपि सम्मता:। अत एव विवादमिममादाय समुदपद्यत द्वयोर्वंशयोर्मध्ये ईर्ष्याङ्कुर:, यो हि साम्प्रतं प्रवर्द्धमान: सन् कलहस्य रूपमधारयत्।
राजनैतिकगगने मेवाड़मण्डलस्य या सूक्ष्मा परिस्थितिरासीत्तस्मिन् समये तस्यां किल चूँडावतशक्तावतवंशधराणां मिथ: कलहोऽयं महान् घातक: सिध्येदिति को वा नावधारयेद्विचारशील:। आसन् द्वयोरपि वंशयो: शक्तिमन्त: सामन्ता अमी निजवंशप्रतिष्ठारक्षार्थं परस्परयुद्धाय सन्नद्धा:। भूयानासीत्सम्भवो यद् द्वावपि वंशौ मिथ: संयुध्य मेवाड़मण्डल-मिदमितोऽपि शोचनीयामवस्थां प्रापयिष्यताम्। किन्तु दूरदर्शिना महाराणाऽमरसिंहेन सम्प्रति परं कौशलमालम्ब्यत। द्वयोरयं मिथ: कलह एव तेन निजविजयलब्धे: साधनं व्यधायि। बहवो राजनैतिकास्तामेतां कूटनीतिं शक्नुयुर्वक्तुं किन्तु भारतवर्षस्य या किल राजनैतिकी परिस्थितिरासीत्तस्मिन्समये तामालोच्य मातृभूमे: कृते नेदमनुचितं परिगण्येत, प्रत्युत प्राप्तकालमेवाऽऽमन्येत। स ह्युभयवंशयो: सामन्तान्समाहूय ससमादरमाज्ञापयत्- 'ऊण्टालादुर्गोपरिमोगलसैनिकानां साम्प्रतमधिकार:। अवश्यमिदं दुर्गं तमेभ्य: समाहरणीयमेव। अस्मिन् विजयसमरे यस्य वंशस्य वीर: प्रथमं दुर्गे प्रविशेत्तस्यैव वंशस्य नासीराधिकार: सर्वदार्थं स्यात्।
समरजयिन: शक्तावता निर्णयादस्मात्परं प्रासीदन्। आसीद्धि तेषां निजवीरताया उपरि पूर्णो विश्वास:। इतश्चूँडावता अपि चातुर्यपूर्णे निर्णयेकऽस्मिन्नाऽपारयन्नुपस्थापयितुं विप्रतिपत्तिं काञ्चित्। द्वावपि पक्षौ महता समुत्साहेन समरसम्भारान्विरचय्य परमौत्सुक्यादेकैकमह: सङ्गणयन्तौ तमेनमुत्सवाऽवसरं प्रतीक्षाञ्चक्राते।
(३)
परमोत्कण्ठया प्रतीक्ष्यमाणं तदपि दिनं समायासीदेव। किं चूँडावता: किं वा शक्तावता:, द्वयोरेव वंशयो: सामन्ता: स्वस्वसैनिकै: सह शस्त्रास्त्रसज्जां प्रसाधयामासु:। वीरजनन्य: क्षत्रियसीमन्तिन्य: स्नेहभरमन्थरया दृशा निरीक्ष्य सङ्ग्रामविजयिनां वीरपुत्राणां शिरसि सवात्सल्यमचुम्बन्। मातु: स्तन्यपानस्य सम्मानरक्षां स्मारयन्त्यस्ता: सोत्साहमशिक्षयन्- 'विजयलक्ष्मीमादायैव समरात्परावर्तनं वीराणां मानमर्यादा, अन्यथा तु सम्मुखसमरे वीरगतिरेव सर्वत: शोभावहा।
वीरा: क्षत्रियाङ्गना: स्वकरेणैव पराक्रान्तान्निजकान्तान् शस्त्रास्त्रैरसज्जयन्.। परमेणोत्साहेन विजययात्राशकुनान्यायोजयन्त्यस्ता: स्वदयितानसूचयन्-क्षत्रियाङ्गना: स्वस्य स्वमानमर्यादायाश्च रक्षां जन्मत एव स्वयं शिक्षन्ते। अतएवास्माकं चिन्तया न कथञ्चिदपि विमनायितव्यम् च न वा युद्धे पृष्ठं दर्शनीयम्। चतुरचारणा: स्वस्वाश्रयाणां सामन्तानां सम्मुखत: समगायन् पूर्वजानामूर्जस्वलास्तास्ता, वीरगाथा:, यासु हि सम्मुखसमरे तादृशानि तै: शस्त्रास्त्रशौर्याण्याविष्कृतानि। यानि किल शृण्वतामपि वीराणां प्रस्फुरन्ति नूनं बाहुदण्डा:। ओजोगर्भां वीरभाषां हृदयपटलेषूत्कीर्णयन्तरस्त इमे व्यङ्ग्यमर्यादया निभृतमसूचयन्यत् पूर्वजानां मानमर्यादा प्राणपणेनापि न तै: कथमपि हातव्येति। एवं किल वीरजननीनामाशीर्वादै:, वीरपत्नीनां प्रणयपूर्वमनुरोधै:, वीरचारणानामूर्जस्वलैर्गीतैश्च द्विगुणीकृतोत्साहा द्वयोरपि शाखयोरमी क्षत्रियसिंहा: स्वस्ववंशप्रतिष्ठारक्षार्थे सुदृढबद्धपरिकराश्चक्रु: 'ऊण्टाला, दुर्गं प्रति साभिमानं विजयप्रस्थानम्।
(४)
ऊण्टालादुर्गमुदयपुरराजधानीत: पूर्वस्यां दिशि नवक्रोशान्दूरे समवस्थितमासी-दुन्नततमायां पर्वतवसुन्धरायाम्। अस्य दुर्गस्य समन्तात्प्रवहति परिखारूपेणैको महान्नालक:। यस्य मध्यमार्गतो गत्वा लभ्यते स्मैकमात्रं दुर्गस्य प्रवेशद्वारम्। एतद्विहाय नाभूदन्य: कश्चित्प्रवेशनस्योपाय:। शक्तावतानामासीद्दुर्गप्रवेशद्वारस्य परिचय: पूर्वत एव। अत एव ते शीघ्नमेव निजसैन्येन सह तत्र प्राप्रुवन्, प्रारेभिरे च ससंरम्भमायोधनम्। आसीत्सपत्नदलमपि सर्वत: सज्जम्। अत एव समबध्यत तुमुलमायोधनम्। सुदृढदुर्गाश्रयैर्मोगलसैनिकैरुपरितस्तादृशी शस्त्रवर्षा प्रारभ्यत यत्तामुल्लङ्घ्य तोरणपर्यन्तगमनं नासीत्सरलम्। किन्तु शक्तावतसामन्तानामग्रणीर्बल्लूवीरो वीरतया तामेतां तृणायाऽप्यसम्मन्य दुर्गस्य तोरणपर्यन्तमवाप। परं दुर्गद्वारस्य कपाटे अतीव सुदृढे तीक्ष्णाग्रलोहकीलकसङ्कुले चास्ताम्। अत एव रणमातङ्गमस्तकावघट्टनेनापि न ते प्राभवँश्चूर्णयितुम्। हस्ती किल कपाटपर्यन्तमवश्यमधावत्। परं सुतीक्ष्णाग्रान् लोहशंकूनालोक्यैव स वराको मस्तकस्य प्रचण्डतममाघातं दातुं नाकरोत्साहसम्। उपरितो जायमानां हेतिवर्षामपरिगणय्य वारं वारं वारणेन्द्र: प्रावर्तत, किन्तु कीलककुन्तेभ्यो बिभ्यन्नासौ वराको मस्तकावघट्टने प्रबभूव।
शक्तावतनायकस्याऽस्यैकैकोऽपि क्षणो युगवद् व्यत्येति स्म। य: पूर्वं प्रविशेत्तस्यैव भवेन्नासीराधिकार: इति मेवाड़ाधिपतेरक्षराणि तस्य कर्णकुहरे प्रबलतममगुञ्जन्। नासीराधिकारस्य प्रश्रो नूनं जीवनमरणयोरासीत्प्रश्र:। प्रतिष्ठैव किल वीरजातेर्जीवनम्। सम्मान एव हि राजन्यताया अपरं नामधेयम्। लोकानां मूद्र्धावनमनमेव मूद्र्धाभिषिक्तानां जगति जीवनसूचकम्। अत: प्रत्येकपलस्य बिलम्बो मन्वन्तरमिव प्रतीतमभूत। इतस्तस्य प्रतिस्पर्धिन: चूँडावता अपि दृग्गोचरा अभूवन् ये दुर्गेऽस्मिन् प्रथमप्रवेशार्थं घोरं युध्यमाना आसन्। तस्य प्रतिक्षणं प्रतीयते स्म यच्चुण्डावतैरयं दुर्गे प्रथमं प्रवेशो लब्ध इति।
आसीद्वस्तुस्थितिरपि तादृगेव। शक्तवतानामिव नासीच्चूँडावतानां दुर्गमार्गस्य परिचय: पूर्वम्। अतएव ते मार्गे इतस्तता: परिभ्रम्य विभ्रम्य अपरतो निर्जग्मु:, किन्तु तेषां सौभाग्येनैको मेषपालकस्तै: समगच्छत यो हि सत्वरमेवैतान् लघुनाऽज्ञातमार्गेण दुर्गसमीपं प्रापयत्। चूँडावतानां भाग्ये सोऽयमेक: सुयोगो दैवविहितोऽभूद्यत्ते युद्धयात्राया: समये सोपानान्यपि निजसैन्येन सहाऽऽनैषु:, यथैव ते दुर्गप्रवेशस्याऽज्ञातमार्गमुखं प्राप्नुवन् तथैव तैर्भयङ्करमायोधनं प्रारभ्यत। प्रतिक्षणमासीत्तेषामपि हृदये भयानकमिदं भयं यत् शक्तावता: प्रथमं दुर्गे प्रवेक्ष्यन्तीति। प्रत्येकक्षणस्य विलम्बस्तेषामपि युगायते स्म। न हि ते दुर्गस्य प्रधानं मार्गं प्राप्तुमशक्नुवन् तत्र हि शक्तावता: पूर्वमेव भयङ्करमायोधनं प्रारब्धवन्त:। अतएव हि चूँडावतैर्यथैव मेषपालकनिर्दिष्टं प्रवेशस्थानमदृश्यत तथैव तै: प्राणपणेन भयङ्करमायोधनमारभ्यत। इतश्चूँडावतचूडामणे: रावतजैत्रसिंहस्य क्वासीदियद्धैर्यम्। स हि सोपानसाहाय्येन त्वरितमेव दुर्गभित्तिमारोहत्, प्रारेभे च कियताञ्चन वीराणां साहाय्येन मोगलै: सह सम्मुखं समरं भित्तावेव। अयुध्यन्त मोगलामेवाड़वीरै: सह स्थानद्वये। प्रधानद्वारे शक्तावतै: साकम्, भित्तेरुपरितश्च समागतैश्चुण्डावतै: सार्द्धम्।
(५)
शक्तावतनायकस्य बल्लूवीरस्य सम्मुखे समुपस्थितासीद्विषमतमा समस्या यथा सेयमेका यद् द्वारं प्राप्यापि मातङ्गपुङ्गवो न ददाति कपाटयोर्मस्तकाऽऽघातम्, तथैव द्वितीया सन्तापकारी चिन्ताऽऽसीद् यत् चूँडावता न कदाचित्प्रथमं दुर्गे प्रविशेयुरिति। शक्तावतनायकस्य सविधे क्वासीदियानवकाशो यत् स समस्यामेतां धैर्यपूर्वकं सरलीकुर्यात् अत्र तु जीवनमरणयोरपेक्षयापि जातिप्रतिष्ठाया वंशप्रतिष्ठायाश्च प्रश्न: प्रबलतमोऽभूत्। स्वयं स्वामिन: सेयमाज्ञासीत्- 'दुर्गं य: प्रथमं प्रविशेत्स एव नासीराधिकरी स्यात्। अत एव परपुरञ्जय: साक्षात्मृत्युञ्जयोऽयं वीरपुङ्गवो बल्लूरधिकं समयं विचारकरणे असंनाश्य त्वरिततरं कुञ्जरादुत्प्लुत्य तीक्ष्णकीलकयोर्द्वारकपाटयोर्मध्येदेशे विशालं निजशरीरमस्थापयत्। आज्ञापयच्च निजमाधोरणं त्वरितैरक्षरैर्यत्स मातङ्गपुङ्गवं मद्वक्ष:स्थलोपरि मस्तकमाहन्तुं प्रेरयेत्।
निजस्याऽन्नदातुरुपरि मत्तमातङ्गं प्रहिण्वन्प्रचकम्पे हृदये हस्तिपक:। किन्तु मूद्र्धाभिषिक्तमूर्द्धन्यो बल्लूवीरस्तामेवाज्ञां पुन: सक्रोधमाम्रेडयामास। आसीद्धस्तिपक: पुरुषानुक्रमेण क्षत्रियवीराणामेवाऽन्नोपजीवी। बहूनि वर्षाणि राजन्यवीराणां सहवासे तेन व्यतिगमितानि। क्षत्रियस्वभावं स प्रकामं पर्यचिनोत्। अत एव ह्यसौ निजस्वामिन: सभू्रभङ्गमिङ्गितं दृष्ट्वा नेदानीमितस्तत: कर्तुमपारयत्।
यूथनाथ: सवेगमग्रेऽधावीत्। धीरशिरोमणेर्बल्लूवीरस्य सुदृढे शरीरे प्रददौ वज्रप्रचण्डमाघातम्। किन्तु शैल इवाचलोऽसौ राजन्यपुङ्गवो न किञ्चिदपि व्यचलत्। गिरिसारस्य यूथपतेश्चैत्यचूर्णकेनाऽऽघातेन कुन्ततीक्ष्णा: कपाटस्य कीलका अन्तर्विद्धा निरसरन्बहिर्बल्लूमहाभागस्य राजचर्याञ्चिते चारुशरीरे। गिरिशिखराद् गैरिकरञ्जिता निर्झरधारा इव प्रावहन् स्थानस्थानतो रक्तधारा:। अभूत्तस्य तनुस्तितउरिव छिन्नभिन्ना: सर्वत:। किन्त्वनेन स किं धैर्यात्किञ्चिदप्यस्पन्दत्? अपि वा महद्दु:खं सोऽन्वभवद्? न नामैवम्। स हि वंशप्रतिष्ठाया आत्मप्रतिष्ठायाश्चाक्षुण्णतारक्षार्थं परमप्रमोदेनाऽकार्षीदात्मोत्सर्गम्। प्रसन्ने तस्य मुखमण्डले आशाया: प्रमोदस्य च प्रचुर: प्रकाश: प्रत्यक्षं प्रतिभासते स्म। प्रत्येकक्षणस्य मूल्यं प्राणेभ्यो भूयस्तरामासीदधिकं तस्मिन्समये। अत एव स प्राणानां परिवर्ते महालाभजनकमकरोदिमं वाणिज्यव्यवसायम्।
शल्लकीशरीरमिवासीदस्य देह: कीलकुन्तै: प्रोत: सर्वत:, अन्ते च चिरकालार्थमसौ शान्तो भूत्वा लेभे वीरगतिम्। सूर्यमण्डलं भित्त्वा नभसि गच्छन् स जनैर्ददृशे न वा, वीरवरणोत्सुका: सुरसुन्दर्य: पारिजातमालाभिस्तमवृणन्नवा, तस्य कृते स्वर्गद्वारमपावृतकपाटमासीन्न वा, इति नेदं सर्वमस्मिन् कलौ काले अविश्वासनिष्प्रभीकृताभ्यां चर्मचक्षुर्भ्यामालोक्यत किन्तु कुञ्जरशिर:समाहता तत्कालमेवाऽभिद्यत द्वारशृङ्खला। अभेद्यमपि दुर्गद्वारमिदं शक्तावतवीराणां कृते तत्कालमेव नूनमपावृतकपाटमभूदिति न केवलं समरगतैरेव सर्वैरलोक्यत, अपि तु विस्मयविस्फारितैर्विचारचक्षुर्भिर्वयमपि साम्प्रतमालोकयामहे। यस्य किल साक्षी राजपुत्रवीराणामयमितिहास एव साक्षात्।
(६)
किन्तु सहृदयहृदयवेधेनाप्यात्ममेधेनानेन किं शक्तावतैर्मेवाड़ीयमूर्धाभिषिक्तेषु नासीरनियुद्धाधिकारो लब्ध:? महदिदं दु:खं यद् हन्त महता बलिप्रदानेनाप्यनेन न किल भगवत्या: सिद्धेर्मुखमवाऽऽलोक्यत तै:। वीराणां पुण्यपरिसंख्यापकस्य भगवतो भूतभावनस्य दृष्टौ शक्तावतवीराणां राष्ट्रसेवा न तावती समजायत यावती चूँडावतचमूपतीनां बाहुदण्डै: समसाध्यत। मन्ये शक्तावतवीराणां बलिप्रदानसंख्यायामासीत्काचिदधुनापि न्यूनता। शक्तावतसामन्तानां दुर्गप्रवेशस्य नाधिककालपूर्वम्, अपि तु केवलं द्वित्रिक्षणपूर्वमेव, चूँडावतचमूपालस्य जैत्रसिंहस्य छिन्नं वीरशिरो हन्त दुर्गमिदं प्राविशत्।
चूँडावतचूडामणी रावतजैत्रसिंहो द्वितीयस्यां दिशि दुर्गप्राकारमारुह्य मोगलै: सह घोरघोरतरमासीद् युध्यमान:। एतस्मिन्नेव समये मोगलसैनिकस्यैकस्य प्रचण्डप्रहारेण क्षतविक्षतोऽसौ नावस्थातुमशकत्प्राकारभित्तौ। न्यपतदसौ दुर्गाद् बहि: भित्तेरधस्तात्। शक्तावतशूरशासकस्य बल्लूवीरस्येवासीदस्यापि हृदये दुर्गाभ्यन्तरे प्रथमप्रवेशस्य चिन्ता सन्ततं जागरूका। एष हि दुर्गप्राकारन्निपतन् मध्य एव निजनिकटसम्बन्धिनं देवगडराज्यस्य सामन्तं चीत्कृत्य सोच्चै: स्वरमवोचत्- ''मम शिर: खड्गेनाऽऽच्छिद्य त्वरिततरं दुर्गस्याभ्यन्तरे निक्षिप्यताम्। धन्योऽसि राजन्यजगज्जीवातो जैत्रसिंह धन्योऽसि। मेवाड़मल्लबल्लूवीरान्न भवान् किञ्चिदपि न्यून:। जगत्यसमानं भवतोऽपि बलिप्रदानम्, स्वल्पीकृतस्वर्गो ह्यात्मोत्सर्गो वाऽयं भवत्प्रतिस्पर्धिन: शूरशिर: शेखरात् शक्तावतशूरशिरामणेर्न नामाऽशतोऽपि लघीयान्।
देवगढ़शासको वंशमर्यादापालिन: स्वस्वामिनस्तामेतामाज्ञामविचलितभावेन पर्यपालयत्। स हि सङ्कोचं विनैव निजशिविरनायकस्य शिरश्छित्वा वस्त्र एकस्मिन् प्रावेष्टयत्। त्वरिततरं च दुर्गप्राकारभित्तिमारुह्य मस्तकमिदं सवेगं दुर्गाभ्यन्तरे निक्षिपन् सौच्चै:खरमद्योषयत्- ''नासीराधिकारश्चूँडावतराजन्यानामेव। चूडावतानां चूडैव (मस्तकम्) सर्वप्रथमं दुर्गेप्राविशत्!! इदं वाक्यं चूँडावतचमूचारिभि: सर्वैरेव सैनिकैराम्रेड्यत। सहर्षं चैते एकोत्फालेन प्राकारमौलिमारोहन्। एतस्न्निेव समये शिर: प्रक्षेपस्यद्वित्रिक्षणानन्तरमेव, ऊण्टालादुर्गस्य दृढं द्वारं सघोरघोषमभिद्यत। विद्यद्वेगेनाऽन्त: प्रविष्टा: शक्तावतशूरा: सम्मुखागतान्मोगलसैनिकान् मूलकच्छेदमच्छिदन्। प्राविक्षत्समस्तापि क्षत्रियवाहिनी दुर्गस्याभ्यन्तरे। मोगलसैनिका: प्राणभयात्प्रतिदिशं पलायन्त। ऊण्टालादुर्गस्य मौलिदेशे मेवाडमण्डलस्य विजयवैजयन्ती साभिमानप्रमोदं प्रास्फुरत्।
सामन्तसङ्ग्राम:
(१)
''भाव जैत्रसिंह! व्यतीता भूयांसो वासरा:, न कुत्रापि खडात्कृतं खड्गेन।
जैत्रसिंह: - अन्नदातु: खड्गेन खिलीकृतान्यखिलखड्गानां मुखानि। सम्प्रति नि:शेषद्वेषिणां करवाला: कोषमेव सेवेरन्।
सोऽयं संलापो योधपुरदुर्गस्य प्रशस्तपवने राजभवने समवर्तिष्ट, यत्र हि द्वौ वीरक्षत्रियौ सप्रमोदं निषीदत:। प्रथमोऽयं योधपुरमण्डलस्य प्रवीरो महाराजो विजयसिंहो यो हि हंसधवलवसनाच्छन्नायां महोच्चमखमल्लमयाऽऽसन्द्यां महत उपधानस्याश्रयेण वीरमुद्रया विराजते। प्रभुग्ने अस्य श्मश्रुणी उपरिगामिनी। विशाले नयने मदादाघूर्णितप्राये विक्रमावलेपाद्विस्फारिते च। बलबन्धुरा कन्धरा, कपाटपीवरं वक्ष:, सुदृढौ च बाहू। कट्यां कौक्षेयको विलम्बते। वयस्त्रिंशद्वत्सरमितम्।
द्वितीयो वृद्धवीर: प्रकामं सुदृढशरीर: प्रकृत्या गभीरश्च। बाढमुन्मीलित-योर्लोचनयोर्लोहिता रेखा हृदयस्योदारतां धीरतां चाभिव्यञ्जन्ति। वार्द्धक्येऽपि क्षणक्षणं प्रफुल्लौ नासापुटौ नि:शब्दमभिभाषेते यदस्य प्रकोपणं न कल्याणाय। वय: प्रशमेऽपि प्ररूढे वक्षसि विराजते चर्ममय: प्रतलपट्टो यस्मिँल्लम्बते मखमल्लकोषान्तरितो विशाल: करवाल:। वयोऽस्य षष्ट्यासन्नम्। एष एव 'आहुआ संस्थानाधिपतिर्योधपुरधराधीशस्य वंशजो जैत्रसिंहसामन्त:।
वीरमदोन्मत्तेन पुरभ्यधायि महाराजविजयसिंहेन- 'भाव भूयान्व्यतिगत: काल: परिचालितस्यास्य करवालस्य। अपि न कुतश्चिदुपशाम्येदियं खड्गकण्डूति:?
जैत्रसिंह: - पृथ्वीनाथ! कृतान्तकराल: स एष करवाल:, क: सम्प्रति समर्थोऽस्य साम्मुख्यं कर्तुम्?
विजयसिंह: - (सनेत्रोन्मीलम्) सत्यमाह भवान्। राष्ट्रौढानां प्रतिमुखेऽवस्थानं न किल साधारणं कार्यम्। किन्तु किं सर्वेऽपि सामन्ता: श्रीमत्सदृशा एव?
वीरविक्रान्तस्यास्य व्यराजद्वदने वेगतो व्रीडा। विनतमस्तकेन प्रोक्तमनेन- 'तत्र भवत: स्पर्शमणेर्गुणा:। ततोऽपि पृथ्वीनाथ न दृष्टं राष्ट्रौढवीराणां पृष्ठे कदापि खड्गक्षतं केनचिद्?
विजयसिंहो मनसीव मन्दमन्दमलपत्- सत्यमिदमेवमेव। सर्वेऽपि रणधीरा राष्ट्रौढवीरा:, न केऽपि रणात्पृष्ठं प्रदर्शयन्ति। विजयसिंहस्य नेत्रे प्रकामविस्फारिते अभूताम्, तदन्तर्गता रक्तरेखा: प्रकटमलक्ष्यन्त। स हि समलपत्पुनर्जैत्रसिंहम्- 'एहि, भाव भवेत्पुनरप्यस्माकं रम्यरणयात्रा। बहो: कालादेवमेव निभृतं स्थिता: स्म:। कोषमासेवमानमेवेदं कौक्षेयकं गृह्येत मलकालिम्ना।
जैत्रसिंह: - भूयसी क्षमाऽन्नदात:! आज्ञा सेयं शिरोधार्या। आदेशश्चेदधुनैव रणतुरङ्ग: सज्जीक्रियेत। उक्त्वैवेदं स हि समचेष्टत स्मयितुम्। अगमच्च तस्य चिन्तिता दृष्टिर्विजयसिंहस्य रणोन्मत्ते लोचने अभिलक्ष्य।
विजयसिंह: - आम् अवश्यम्, रणतुरगा निश्चितमेव सज्जीक्रियन्ताम्, किन्तु निर्दिश्यतां तत्संस्थानं यस्योपरि क्रियेताऽभिस्कन्दनम्।
जैत्रसिंह: स्मित्वा पुनरचेष्टिष्ट परिहासे तामिमां वार्तां परिहर्तुम्, अवदद्विवनीतभावेन- बहुलं क्षम्यतां श्रीमन्, सहसा न साम्प्रतं भवदभियानोचितं संस्थानमुपलभ्येत राजस्थाने।
अग्निचूर्णचये पूर्वमेव प्रापतद्विस्फुल्लिङ्ग: सङ्घर्षाग्रे:। विजयसिंह: साग्रहमवादीत्- 'भाव जैत्रसिंह सत्वरं सूचय तादृशं मे संस्थानम्।
जैत्रसिंह: करौसम्पुटीकृत्यगभीरभावेनावोचत्- 'धर्मावतार! न राजपुत्रमण्डले तादृशं संस्थानम् यदभियुञ्जीत भवान्। विजयसिंहस्य समभूतां नेत्रे विस्फारिते, प्रास्फुरच्च किञ्चिदधर:। तृतीयेऽस्मिन्वारे सोत्तेजनमजल्पत्-जैत्रसिंह निश्चितं मे निर्दिश्यतां तादृक् संस्थानं यत्र सुपरीक्ष्यते राष्ट्रौढानां खड्गधाराधोरणी२।
जैत्रसिंहस्याभवतां किञ्चिदुत्फुल्लौ नासापुटौ। अदृश्यत नयनयोरधिकमरुणता। वक्रमवेल्लच्च किञ्चिद्भ्रूयुगम् तथाप्यसौ संयतमगादीत् 'धरणीधुरन्धर न दृश्यते किञ्चिदपि तेऽभिषे३णनोचितमास्थानं नूनम्।
विजयसिंहस्याऽलक्ष्यत ललाटे लेखा। ४अदश्वयच्च वक्ष:। स हि मुष्ट्या भुवमास्फाल्य सावलेपमालपत्- ''अवश्यं निर्दिश्यतां तत्संस्थानं यत्र श्व एवाभियुज्येत, अन्यथा ज्ञास्यामि निर्बलं राजन्यमण्डलम्, भवन्तं च वीरपरिचयशून्यम्।
नेदानीं संवरीतुमशकत्क्रोधं वृद्धवीर:। अभूल्ललाटे भीषणो भ्रुकुटिभङ्ग:। सामर्षं मुष्टिमाबध्न् सोत्तेजनमवादीत् - ''तर्हि तादृक् संस्थानम् ''आहुआ।
व्यस्मयत विजयसिंह:। मुखान्निरगमत्तस्य- ''किमुक्तम्? किं भवतस्तदाहुआस्थानमीदृशम्? निर्भयमवोचज्जैत्रसिंह:- ''श्रीमन्! यदि जगति किञ्चिदीदृशं राजसंस्थानमस्ति तर्हि तद् आहुआख्यमेव।
विजयसिंह: - यद्येवं तर्हि तदिदं ते विसर्जनम्। भवतु भवान्सावधान:।
जैत्रसिंह: - यदादिशति श्रीमान्। अयमहं मे प्रस्थानप्रणाममावेदये।
(२)
उच्चोपकार्याया१ अदृश्यत सर्वैरेवोच्चकलश:। जैत्रसिंहोऽप्यलक्षयत्तम्। शतघ्नीचालकानाहूय निरदिशदसौ-अस्ति कोऽपीदृश: सन्धानकारी य: किलोपकार्यामिमामेकेन गोलकेनोत्पाटयेत्? किन्तु महाराजस्य न भवेत्किञ्चिदपि क्षतम्। शतघ्नीचालका: समभूवन्विचारमग्ना:। अन्ते सर्वाग्रे भूत्वा निवेदितमेकतमेन सेवकोऽयमिदं कार्यमभिलषति कर्तुम्। जैत्रसिंहेन सावधानमभ्यधायि- 'यदि महाराजस्य रोमण्यपि भवेत्किञ्चित्क्षतिस्तर्हि न ते कन्धरा शरीरान्विता स्यात्।
शातघ्निक: - यदाज्ञापयति श्रीमान्। महाराजस्य सविधे न गच्छेद्धूलिरपि, पश्यताऽस्य सेवकस्य हस्तलाघवम्।
जैत्रसिंह: - तर्हि स्पर्शय शतघ्न्यामनलम्।
अदीयत तत्र वह्नि:। धाँय इति भीषणेन निनादेन व्याप्यत निखिलमपि रणाङ्गणम्। प्राचलद्गोलक: परं स्वल्पसमयं नादृश्यत किञ्चिदपि धूमघोरण्या। किन्तु यथैव व्यपागमद्धूमावरणं तथैव स्पष्टमदृश्यत यत्सेयमुपकार्या समूलमुत्खाता निपतितास्ति दूरे, न च महाराजस्य शरीरे काचिदपि क्षति:। अभूत्साम्प्रतं चेतना योधपुरधरणीपते:।
सकन्धावारस्तत उत्खाय न्यवेश्यत बहुदूरे। प्रारभ्यत पुनर्युद्धम्। प्राचलत्कतिचिद्वासरान् भयङ्कर: समर:, परम् 'आहुआ दुर्गं न कथञ्चिप्यशक्यत पराजेतुम्।
कुपित विलक्षो महाराज: प्राहिणोत्सन्देशहरम्- ''अपैतु साम्प्रतं परिहास:। युद्धं निरुध्याऽपावृणु दुर्गद्वारम्, वाञ्छामि सम्प्रति भवन्तमवलोकयितुम्।
उदघाटयद् दुर्गद्वारं जैत्रसिंह:। महाराजेन सह सोऽयं समय: पूर्वत एवाक्रियत यद् द्वित्रानेव सामन्तान्सहादाय समुपागच्छेन्महाराज:। दुर्गं प्रविशत्येव महाराजे विजयसिंहे सहचरसमेतो जैत्रसिंह: सोल्लासमघोषयत्- विजयतां महाराजाधिराजो विजयसिंह:।
जैत्रसिंह: स्वयमुपगत्य पूर्वत: प्रसाधिते महोच्चे सिंहासने न्यवीविशन्महाराजं विजयसिंहम्। स्वयं च शिरो नमयित्वाऽतिष्ठत्सिंहासनमध:।
व्यलज्जत विजयसिंह:। मेने स सम्प्रति महान्तं पराजयम्। अतिसाहसेन कथञ्चित्स्मित्वा प्रोचे विजयसिंह:-'यथार्थनामन् तात जैत्रसिंह आहुआ सत्यमेवैकं दुर्गमं दुर्गम्।
विनत: प्रत्यभाषत जैत्रसिंह:- भूयसी क्षमा मेऽन्नदात:! आहुआदुर्गमिदं श्रीमतश्चरणरज:। सहासमवादीद्विजयसिंह:- 'चरणरजसा समुड्डीय साधु समर्चितं शिर:।
अपात्रपत१ जैत्रसिंह:, किन्तु स्मित्वा समवोचत् पादाहतं रज: समारोहति शीर्षमपीति स्वभाव एवायं तस्य।
वीरोचितैर्मधुरपरिहासै: समाप्यत सा विजयसभा।
भारतध्वज: बालवीर:
(१)
''भाव अहमपि सेनायां समावेश्य:
सेनाध्यक्ष: स्कन्धवारे संस्थित: समनोयोगं शत्रो: संवादमाकर्णयति स्म गुप्तचरेभ्य:। वीरधुरन्धरस्य सिकन्दरस्य रणोन्मत्ता वाहिनी त्वरितमेव भारतमनुप्रविश्य पौरवराजसैन्यं समाक्रामेदिति सूचितं तै:। अतएव सम्मुखयुद्धाय संयुगीनानां वीराणां क्रियते स्म निचित्य समावेश:। लेखयति स्म स हि नासीरयायिनां नामानि गुल्माध्यक्षाय। अन्येऽपि च तदधीना व्यूहाव्यक्षा: सम्मुखसमरस्यायोजने सोत्साहमासन् मिथो विचारपरायणा:। एतस्मिन्नेव समये चतुर्दशपञ्चदशवार्षिको बालक: समागत्य सहसा सेनाधिपतिमावेदयत्-
'सेनाध्यक्षमहाभाग! अहमपि सम्मुखसेनायां समावेश्य:।
सर्वेषामेव सैनिकानां नयनानि युगपत्समभूवँस्तदभिमुखानि। सेनापतिरपि स्वकार्यं शिथिलीकृत्य तं प्रति प्रेरयामास वीरदृष्टिम्। दृष्टं यत्स मलिनं राजन्यवेषं परिदधत् सम्मुखे उत्साहमवस्थितोऽस्ति। हस्ते किल पुस्तकानि तस्य, अत एव स्पष्टमसूच्यत यत्स गुरुगृहान्नि:सृत्य त्वरिततरमत्रैव समायात् इति।
पृष्टं सेनापतिना-'को भवान्?
बालक: - अहं क्षत्रियकुलधर:। सम्प्रति गुरुगृहेधिगच्छामि विद्यां वीरविद्यां च। ममान्ये तरुणा: सतीर्थ्याः सर्वेऽपि सेनायां समभूवन् सम्प्रति समाविष्ट:। भाव! अहमपि तत्र यातुमिच्छामि।
सेनापति: - तत्र गत्वा किं करिष्यसि?
बालक: - समरं करिष्यामि।
बालकस्योत्तरं श्रुत्वा समभूवन् सर्वेऽपि सेनाप्रमुखा: स्मेरमुखा:। रणोत्कटानां भटानामट्टहासेन प्रागुञ्जदखिलं शिबिरम्। परं बालकतथैव वक्षो विस्फार्य सोत्साहमवास्थित। सेनापक्ष: सवात्सल्यमबू्रत- 'वत्स गच्छ गेहम्। प्रवीष्व सम्प्रति युद्धविद्यां ततो गन्तासि समराय। न ते तादृग्वय: साम्प्रतम्।
सेनापते: प्रतिवचनमवाकर्ण्य प्रोक्तं बालकेन- 'अवश्यमहं बालक:, किन्तु क्षत्रियबालकोऽस्मि। वीरसन्तानश्च। अहं समरक्षेत्रे यास्यामि। सम्मुखसमरं च करिष्यामि। विश्रब्धं मां सङ्गृह्णातु भाव:।
आवश्यककार्यव्यग्र: सेनापति: संकुप्य सोत्प्रासमलपत्- 'माधिकं प्रलापी:। रणशिबिरं न सहते बालानामप्यतिक्रान्तिम्।
मानी बालक: शिबिरात्परावर्तत। तस्य महद्दु:खमभूच्चेतसि। सर्वेऽपि क्षत्रियवीरा: समराय सन्नह्यन्ते। तस्य परिचिता बहवोऽपि क्षत्रियपोता: शस्त्रास्त्रै: सुसज्ज्य रणाजिरमुपयाता अपि। अहह! अहं क्षत्रियसन्तानो, वीरवंशजन्माऽपि सम्प्रति निराश्रय इति सेनाध्यक्षेण न समादृत:। हन्त किमहं सम्प्रति कुर्याम्? अभूत्तस्य हृदि महान् समाघात:।
स हि गुरुकुलं निजावासं वा न गत्वा नगरोद्यानमाविशत्। तत्र वृक्षतले निषद्य विषादेन प्रावाहयदश्रूणि। न्यपतन्कपोलौ निषिञ्चन्तो बाष्पबिन्दवो वसुन्धरायाम्।
पर्यभ्रमत्तस्मिन्समये वत्सलैका वीरमहिला नगरोद्यानमिदम्। सा हि रुदन्तमिममवालोक्य सकारुण्यमुपागात्समीपेऽस्य। समलपच्च- 'वत्स! कथमश्रूणि विसृजसि?
बालक: - सेनापतिना नाहं सैन्ये समावेशित:। मम सहचरा: सर्वेऽपि समनह्यन्त समराय। अहमपि च तत्र प्रयातुमुदकण्ठिषि, किन्तु नाहं सेनाध्यक्षेण सङ्गृहीत:। यतोऽस्म्यहं बाल:।
सा महिला साम्प्रतमेतस्यात्यन्तमेव समीपे समागत्। आनखशिखं च सावधानमिममालोकयत्। बालकस्य सुदीर्घायते नयने साम्प्रतमप्यश्रूणि वर्षत:। तस्य हस्तगतानि पुस्तकान्यभूवन्नश्रुभिराद्राणि। वत्सला महिला सदयमप्राक्षीत्- 'बालक त्वं- कस्यासि तनय:, का ते जननी?
आसीद्बालको निरुत्तर:। किमुत्तरं दद्यात्? बाल्यादेव अदृष्टमातापितृक: सोऽयं गुरुगृहे प्रवृद्ध:। कोमला महिला पुनरपृच्छत्-'कथय कस्य पुत्रस्त्वम्? का च तव माता, क्क च ते निवास:?
बालक: सम्प्रति समुत्थाय पुरन्ध्याय स्तस्या: पटाञ्चलमग्रहीत् सकरुणश्रद्धं च तदाननं विलोकयन् झटिति प्रत्यवदत्- 'तवैवाहं तनय:, त्वमेव मे माता, पौरवराजधान्यां चास्यां निवसामि।
निर्निमेषमालोकमानया महिलया स्नेहाद् बालकोऽसावङ्के गृहीत:। शिरसि हस्तं परामृशन्ती च सा सकरुणस्नेहमवदत् 'त्वं मे वीरबालक:, एहि त्वामहं सेनायां समावेशये।
बालकस्य मुखमानन्देनोत्फुल्लमभूत्।
तस्य नयनयो: प्रान्ते प्रादृश्यन्त तस्मिन्नपि समये द्वित्रा बाष्पबिन्दव: किन्त्त्वासीद्धृदये प्रमोदलहरी मुखे च हासझरी। स हि सगद्गदं तच्चरणयोरपततत्सप्रमदं प्रावदच्च- अपि तत्र भवती मां समावेशयेत्सैन्ये। यतस्त्वं मे माता। त्वमेव मे भारतजननी, अहं च ते तनय:।
उद्यानस्य द्वारदेशे सज्जोऽभूज्जात्यतुरगद्वयशोभन: स्यन्दन:। आनन्दविह्वला महिला बालकेन सह समारोहत्स्यन्दनमिमम्। आज्ञापयच्च सारथिं रथं प्रेरयितुम्।
रथ: प्रावहद्वायुवेगेन। प्राविशच्च पौरवराजसेनापते: सुप्रशस्तं राजहर्म्यम्। पूर्वोक्ता महिला पौरवराजसेनाध्यक्षस्यास्य गुणिनी सहधर्मिणी। सा ह्यनुरोधपूर्वकमिमं बालकं प्रावेशयत्पुरोयायिन्यामनीकिन्याम्।
(२)
सैनिकवस्त्रं परिधाय नलिकास्त्रं चादाय वीरदर्पेण स बालक: पदातिसेनया सह सम्मुखसमरमसरत्। येन येन मार्गेण सा पदातिसेना समचलत्तत्र तत्रैव समभूत्समारोहो दर्शकानाम्। सर्वत: पूर्वं सर्वेषां दृष्टिस्तस्मिन् बालक एव न्यपतद् यो हि हस्ते शस्त्रमादाय विक्रान्तवीरै: सह समानपादन्यासेन सवेगं सोत्साहं चाचलत्। तस्य मुखलावण्यं बाल्यसुलभं सारल्यं च सर्वेषां हृदयमहरत्। दर्शकेष्वेको द्वितीयमवदत्- 'विलोकय, वीरबालकोऽयं सैनिकवेषे कीदृश: शोभते। द्वितीयो गम्भीरमभाषत- 'एष हि वीरोऽभिमन्युर्लव इव वा राजते रणाजिरे।
सेनाया: सर्वतोऽग्रे सेनाध्यक्षोऽभूद्यस्य हस्ते निष्कोष: करवाल:।
किञ्चिदप्रमुपयात्येव समापतच्छत्रुवरूथिनी। प्रारभ्यत महान्समर:। शत्रव: प्रबलेन वेगेन भारतसीमानमाक्रमितुं पर्यधावन्। वीरपुरन्दर: सिकन्दरो यतो यत एव पर्यक्रामत्ततस्तत एव सेनायां शून्यतेवाऽभवत्। सेनाध्यक्ष: प्राणपणेन चेष्टामकरोद् यत्सिकन्दरसैन्यं स तत्रैवावरुन्ध्यात् किन्तु दूराभिघातिनीनां शतघ्नीनां सम्मुखे स्थिरीभाव: सुकठिनोऽभवत्। भारतस्य भुग्रं भवितव्यमेव भीषणमासीद् येन सेनाध्यक्षो यथैव निजतुरगं सम्मुखात्परावर्तयति स्म तथैवाऽकस्मात्पतता शतघ्नीगोलकेन चकितो भीषितश्च तुरग: सेनापतेरवशो भूत्वा रणाङ्गणात्प्राद्रवत्। सेनाधिकृतो भूयांसमकरोत्प्रयत्नं परं नैनं स परावर्तयितुमशकत्। प्रत्युत सेनापतिं तुरग: समराङ्गणादेवाऽपाऽनयत्। पुन: किमासीत्? सेनापतौ प्रद्रुत एव सकलापि सेना किङ्कर्तव्यविमूढाभूत्। सैनिका इतस्तत: पलायन्त:। भारतस्य राष्ट्रीयो ध्वजस्तस्मिन् संरम्भे तत्रैव निपतितोऽभवत्, नास्योपरि कस्यचिन्निपात दृष्टि:।
न पलायिष्ट पूर्वोक्तो वीरबालक:। स हि वीरतया साम्प्रतमपि युध्यते स्म। भारतीयं ध्वजं यथैव स पतन्तं व्यलोकयत्तथैव वीरतया खङ्गं भ्रामयन् त्वरिततरमसौ तमुद्धधार। ग्रीससैनिकास्तं पर्यवारयन्। अनीकस्य गुल्माध्यक्ष: समीपमागत्य बालकमभाषत-'ध्वजं न: समर्पय।
बालक: - नाहं दास्यामि ध्वजम्।
गुल्मा. - (भर्त्सयन्) ध्वजोऽयं सम्प्रत्येव समर्पणीय: स्यात्। अन्यथा न ते हितं भवेत्।
बालक: - प्राणेषु तिष्ठत्सु नाहं दद्यां केतनमिदम्।
गुल्माध्यक्षो बालस्यास्य मुखमाधुर्यं वात्सल्योचितं वयश्च विलोक्य पूर्वमेव मुग्धोऽभूत्, सम्प्रति वीरोचितमुत्तरं निशम्य चकितोऽभवत्। स ह्यात्मन: सैन्यमादिशत्- 'नयतेमं प्रधानसेनापतेरन्तिकम्। किन्त्वबधत्त, नास्य ध्वजं हस्तेनापि स्पृशत।
विश्वजयिन: सिकन्दरस्य प्रधानसेनापति: समरे विजितानां वस्तूनां यथास्थानं निवेशनस्य करोति स्म समयोचितं प्रबन्धम्। तस्य सम्मुखम् स भारतीयो बालक: समानीयत सैनिकै:। दृष्टं तेन यदेक: सुप्रसन्नमुखाकृति: सुन्दरो बालक: सूर्यसिंहचिह्नाङ्कितं ध्वजं वहन् सम्मुखमुपस्थितोऽस्ति। अप्राक्षीत्सेनाध्यक्ष:-बालक कस्त्वम्?
बालक: - अहमस्म्येक: सैनिक:।
सेनापति: - अस्त्यपर: कश्चित्परिचय:?
बालक: - सैनिकस्य परिचय: सैनिक इत्येवास्ति।
सेनापति: - ध्वजमिमं किमिति न समर्पयसि?
बालक: - अयं ध्वजो भारतवर्षस्यास्ति।
सेनापति: - कथमयं भवत्समीपे?
बालक:- अहं भारतमातुस्तनयोऽस्मि, भारतीयस्यास्य ध्वजस्य सोऽहं संरक्षक: सम्मानयिता च।
सेनापति: - त्वमसि साम्प्रतमसहाय:। यदि त्वमिदं ध्वजं न दास्यसि तहि साम्प्रतमेव हन्तव्योऽसि।
समीपस्थायामेवोपकार्यायामासीद्वीरपुरन्दर:। सिकन्दर: समवस्थित:। स हि सर्वमिमं संलापं समनोयोगमवाकर्णयत्। 'असहाय: कश्चिन्निहन्यते इति सम्प्रति समवगत्य स हि पटकुटीरात्त्वरितमुपागमत्। दृष्टं-यदेकोबालक: सैनिकै: सर्वत: समावृतोऽस्ति।
विश्वविजयिनो वीरशिरोमणेर्निसर्गादेव दुर्धर्षां मूर्तिमवालोक्य सर्वेऽपि सम्भ्रमादुदतिष्ठन् सझणत्कारं च मण्डलाग्रानवनमय्य वीरमर्यादया प्राणमन्। वीरबालकोऽपि वीरोचितं विनयं प्रादर्शयत्। किञ्चित्स्मयमान इव सुप्रसन्नमप्राक्षीत्सिकन्दर:- 'अस्मदधिकृतं ध्वजं किमिति नास्मभ्यं समर्पयसि?
बालक: - श्रीमन् नायं ध्वजो भवदधिकृत:, एषोऽस्ति साम्प्रतं ममाधिकारे। अवश्यमहमस्मि भवदधिकृत:।
सिकन्दर: - गुलिकास्त्रेण साम्प्रतमेव निहते त्वयि किं नास्माकमधिकारोऽस्मिन् ध्वजे?
बालक: - शूरशिरोमणे! एतावतां देशानां विजयेन वीरतामर्मज्ञस्यापि न किं विदित श्रीमतो यद्भारतीया न समर्पयन्ति प्राणभयेन राष्ट्रीयं ध्वजं कुहचित्। स्पष्टनिवेदनस्य चेदनुमतिस्तर्ह्यहमेव पृच्छामि अपि प्राणानां भयाद्भीत: समर्पयेत्कस्मैचिद् ग्रीसदेशस्य विजयध्वजं श्रीमान्?
सौमनस्यसुन्दर: सिकन्दरश्चकितमवागभूत्। सन्तुष्टमना: स्पष्टमवोचत्- 'प्रयाहि वीरबालक! ध्वजमिमं समादाय सुखं साधय समीहितं देशम्। विजयध्वजश्चेन्मे प्रत्याहरणीयस्तर्हि सिकन्दरोऽयं ते देशमनुप्रविश्य सम्मुखयुद्धे बलादिमं समाहरेत्। आज्ञापयच्च निजगुल्माध्यक्षौ 'बालमिमं सम्मानपूर्वकं प्रापयत न: सीमापर्यन्तम्।
पिताकापटं समाहृत्य बालको वक्षसि न्यगूहत्, उपरित: प्रावारकं च पर्यधात्। गुल्माध्यक्षौ निर्विघ्नप्रयाणाय तमेनं सीमापर्यन्तमन्वगच्छताम्।
(३)
या सेना समराङ्गणात्प्रभ्रष्टा तस्या: सैनिकै: सर्वतो जनश्रुति: प्रवाहिता यद् बालकसैनिकोऽसौ भारतीयं ध्वजं सिकन्दरस्योपायनाय समनयत्। प्रावर्तिष्ट सर्वत: सेयमेव चर्चा। पूर्वं यथा सर्वतस्तस्य प्रशंसा प्रासरत्तथा सम्प्रति समन्तादस्य गर्हा व्यहरत। लोकास्तस्य नामनि धिक्कारमुदचारयन्।
सेना या परावर्तिष्ट सा पुन: प्रयाणाय समनह्यत। किन्तु घोटकस्य प्रद्रवणोत्तरं न कुत्रचित्सेनापतिरलक्ष्यत। न च कुत्रचित्संवाद एवाऽलभ्यत। अत एवान्यस्तत्स्थाने सेनाध्यक्षेऽभूत्। यस्मिन् समये सेनाप्रयाणस्य दुन्दुभिरनदत्तस्मिन्नेव समये संवाद: प्राप्यत- ''एको बालकसैनिको ग्रीसवेशीयसैनिकाभ्यां सह सीमाप्रान्तादित एवागच्छति। न चास्य हस्ते ध्वजो विलोक्यते।
सेनाध्यक्ष: सैनिकनियमानुसारं घोरामाज्ञां प्राचारयत्- ''देशसीमनि समागच्छन्नेवासौ गुलिकास्त्रेण संहरणीय:। प्राचरत्सर्वत: सोऽयमपि संवाद: स्कन्धावारमुल्लङ्घय देशमात्रे। देशद्रोहिणो बालकस्यास्य दमनं द्रष्टुं दुद्रुवुर्दूरदूरतो दर्शका:।
ग्रीसीयगुल्माध्यक्षौ बालकमिमं सीमपर्यन्तमनुप्रापय्य परावर्तिषातां निजस्कन्धावारम्। ततो विजयोन्नद्धकन्धरो बालकोऽयं सुप्रसन्नमनसा भारतसंवर्द्धनागीतिं सुस्वरं गायन् प्रविवेश निजदेशस्य सीमानम्। व्यहरँस्तस्य हृदये नानाविधा: प्रमोदविचारा:। अहं स्वराष्ट्रीयं ध्वजमिमं समर्प्य सूचयिष्यामि सेनापतये यन्न केवलं प्रलम्बकूर्चा एव वीरतामधिकुर्वन्ति। मातुश्च चरणौ प्रणम्य प्रचुरमस्या हृदयं प्रवर्धयिष्यामि यदहमपि बालवीरस्यास्य मातेति। किन्तु यथैवायं निजसीम्नो मृत्तिकायां न्यदाधात्पदं तथैव दन्निति समागच्छन्त्या गुलिकया निरभिद्यताऽस्य हृदयम्। हृदयविचारान् हृदय एवाऽऽदाय न्यपतन्मातृभूमेर्वक्षसि।
अभूत्परितो वलयिता जनता। कश्चिदेतस्य चरित्रभ्रंशमगर्हयत्तर्ह्यन्यो बालस्याप्यस्य कपटचर्यामनिन्दत्। सर्व एव तिरस्कारैरधरयन्निमम्। एतस्मिन्नेव समये समागाज्जनसम्मर्द्दं दूरत: कुर्वती विक्षिप्तेव च सनिश्वासं धावन्ती युवतिरेका या हि बालस्यास्य शिर: स्वोत्सङ्गे निधाय नि:सहं न्यषीदत्। स्पर्शमनुभूयं बालक: शनैर्नयने उदमीलयत्। मुखाच्च तस्य छिन्नभिन्ना: शब्दा निरगच्छन्- ''मात: ध्वजमहं प्रत्यानयम्। त्वमेव मे भारत माता, त्वदीयं ध्वजं बला दहं प्रत्याहरम्। आ:! उक्त्वैवेदं गात्रवस्त्रं सोऽपानयत्। दृष्टं सर्वैर्यद्भारतीयपताका तस्य वक्षसाऽऽश्लिष्टा।
बालक: सकरुणमवादीत् - ''मात: अहं गच्छामि। देहि मे आशी
निर्वाणोऽभूत्प्रदीप:। सर्वे पाषाणायितास्तस्थु:। प्रासरत्सर्वतोऽपि हाहाकार:। अनीयत सादरै: सेनाधिकृतै: स्वयं बालकस्य शव:। अन्वगच्छदश्रुभि: सह कुसुमानि वर्षन्ती अपारा जनता। शव: पुष्पमालाभिराच्छन्नोऽभूत्। शवस्याग्रे विकीर्णकुन्तला वत्सला सा महिला प्रायात्।
अग्रे गच्छद्भिर्विलोकितं सर्वैर्यदेक: शवो वृक्षस्याधस्तादधोमुखं निपतितोऽस्ति। समीपोपगतया महिलया प्रत्यभिज्ञातं यत्तत्स्वामिन: सेनापतेरेवेदं मृतशरीरम्। असूच्यत तच्छरीरेण यत्पृष्ठे लग्नया गोलिकयाऽस्य समभून्मृत्यु:। हन्त प्रबलं प्रद्रुतेन घोटकेन समरात्परावर्तमानस्य पृष्ठे पतितेन शत्रोर्गोलकेनापहृता: प्रवीरस्यास्य प्राणा:! अहो दृश्यतां दारुणदैवस्य दुर्घटना, यो वीराभिमानी बालकमिमं समराऽयोग्यममन्यत स एव समरे पृष्ठं दर्शयन्नशुभतया मृत:, कानने निर्ज्ञातं पतितश्च। यस्तु बाल:, स कालस्यापि सम्मुखे शौर्यं प्रदर्शयन्नेवं किल वीरवरै: स्कन्धेनोह्यते। अदह्यत सेनापतेरपि शव: सैनिकैरेव। किन्त्वेकस्य मरणेन विह्वला महिला सा लोकलज्जया शिरोऽवानमयत् अपरस्य तु मरणान्न केवलमात्मन एव अपितु देशमात्रस्यापि शिर: समुन्नतं मेने।
अस्थाप्यत बालवीरस्यास्य तनुश्चन्दनकाष्ठाचितायां चितायाम्। पुरुराजसेनायां वीरसम्मानाय यथैव शतघ्नीध्वनयोऽदन्ध्वनन् तथैवाभ्युस्थानायेव प्राज्ज्वलच्चितायां वह्नि:। भगवान् भानुमानपि वीरस्यास्य विरहेण शोकशबलमात्मानं पश्चिमपयोनिधावपातयत्!!