अनुताप:
(१)
'अहो रजन्या: शून्येऽस्मिनन्धकारे सर्वेऽपि निर्विचिन्तं शेरते, निद्रापगाया: मादकतरङ्गेषु सप्रमोदं प्रवहन्ति सर्वेऽपि, परं मम नेत्रयोर्नांशतोऽपि निद्रा। मनसि न सन्तोष:। वक्षसि न विश्रान्ति:। अन्तर्मानसमनुभवामि यत्कापि भयङ्करी वेदना विनिर्दयं विध्यति मे वक्ष:। अतृप्ता काचिद्भावना चक्षुषोरुपगम्य दु:खाकरोति दूनं हृदयम्। हृदयं ज्वालया मस्तिष्कं चिन्तया, शरीरमज्ञातया पीडया दह्यत इव निर्दयम्। अस्मिन् विजने अन्धकारे घनेऽपि च निरन्तरं प्रतीयते यत्काश्चिदपरिज्ञाता मूर्तयो मत्सम्मुखमुपस्थाय मे घोरपतनस्य चित्रमङ्कयन्ति। आ: सत्यमिमा मे वृद्धस्य पितु:, भातृणां भ्रातृव्याणां च मन्ये मूर्तय: सन्ति। हन्त! निरपराधानाममीषां रुधिरेण निजकरौ संरज्य कथमहं सुखनिद्रामवाप्तुं शक्नुयाम्? भयङ्करस्यास्य पातकस्य प्रायश्चित्तमवश्यं मया कर्त्तव्यं स्यादिति जाने। पापस्य मन्ये तदेतदेव प्रायश्चित्तं यदधुना जातिसेवां कुर्याम्, विधर्मिणो निर्दयं दण्डयेयम्, मौगलसाम्राज्यमिदं भूमण्डले प्रकामप्रबलं सम्पाद्य स्वर्गतानां पूर्वपुरुषाणामात्मानं सन्तोषयामि। कदाचिदनेन मे हृदयभारो लघुर्भवेत्, मानसी चिन्ता विमुञ्चेन्माम्।
इन्द्रप्रस्थस्य मान्यो मोगलसम्राडवरङ्गजीव: स्थित्वा स्थित्वा तदेतदेव भूयसा भावयति स्म। स कदाचिच्छयनीयादुत्थाय सम्मुखगता भित्ती: परामृशति स्म हस्तेन, कदाचिदुन्मादे बहिर्निर्गम्य तिष्ठति स्म निरुद्देश्यम्, कदाचिच्च सोऽयमीश्वरप्रार्थनायां तन्मयतामिव दर्शयति स्म किन्तु नायमधिजगाम शान्तिम्। स हि नि:शब्दमब्रवीत्। 'मम दृष्टौ सर्वोऽपि संसार: समालोक्यते अन्यथाभूत इव। अस्मिन् संसारपटले कियत्यो भयानका मूर्तयश्चित्रिता: सन्ति। काचिद्रोदिति काचिद्धसति, काचिच्छयामला काचिदुज्ज्वला, काचित्क्रोधपूर्णा काचिदुदासीना। अहो सर्वा एव संहत्य विचित्रामाकृतिं विधाय, मदुपरि निर्दयमाक्रमणं विदधति। हन्त अहो अहो।....
अवरङ्गजीव एतादृश एव चिन्ताऽऽवेशे निरुद्देश्यमासीत्प्रलपन्। अस्मिन्नेव समये सहसा कश्चित्तमेनमाजुहाव-'श्रीमन्! सम्राट्!। अवरङ्गजीवश्चकितोऽभवत्। तस्य सर्वाऽपि व्याकुलता स्वल्पकालाय व्यलीयत पुनर्हृदये। विचारा व्यपागमन् शून्ये वियति। स हि प्रकाशमुज्ज्वलीकृत्य व्यलोकयत्-सम्मुखे उदयपुरी१ महिषी स्थितास्ति। अवरङ्गजीवस्य विशुष्कयोरप्योष्ठयो: सूक्ष्मा काचित्स्मितरेखा समखेलत् स्वल्पकालाय। स हि हृदयस्य वेदनां हृदय एव निगूह्य सप्रमोदमिवावदत्- 'सत्यं त्वं मे हृदयस्य जीवितं चित्रम्। अत एव हि मे विषादमवगम्य घोरायामप्यस्यां रजन्यां शून्येऽपि मे शयनकक्ष्ये समुपगतासि। एहि, निर्वापय मे प्रतप्तमान्तरम्, प्रशमय मे समुज्जृम्भमाणमुत्तापम्।
'अहं तु वशंवदास्मि सम्राज: प्रादादुत्तरं महिषी-'सम्राड् मामाह्वयेन्न वा, परं तत्रभवत: प्रणयतन्तौ निबद्धा मे प्राणा: प्रतिक्षणमेव भवतो गतिं विधिं च निभृतं परिजानन्ति। परमद्य भवान् किमित्येतावद्विषण्ण:? रूपनगरस्य राजदुहिता काचिदत्यन्तं सुन्दरी, नाम तस्या: प्रभावती। श्रीमन्! इदमप्यवगतं मया यत्सा निजरूपराशेरभिमानमालम्ब्यापमानमपि सम्राजश्चकार। मन्ये भवेत्तदेव विषादकारणम्। किन्तु कोऽस्मिन् विषादहेतु:? अहं साग्रहं प्रार्थये यत्सा सुनिश्चितं सम्राडन्त:पुरमुपनेतव्या।
अवरङ्गजीव: प्रत्यवदत्- 'नेयं काचिन्महती वार्ता। जीवन्निशापि२ पर्यचालयच्चर्चामिमां ह्य:। अहं तदेतन्मीमांसमान एवासम्, किन्त्वद्य भवत्यापि प्रबलीकृतोऽयं प्रस्ताव:। श्व: प्रातरेव रूपनगरे नरेशस्य समीपे निश्चितं प्रहीयेत सोऽयं सन्देश:। ब्रूहि साम्प्रतं तु ते परितोष:?
(२)
रूपनगरस्य सीमान्ते सम्राड्वाहिनी निजस्कन्धावारमस्थापयत्। मोगलसन्देशहरो नरपते: सभामुपगत्य श्रावयामास सम्राज: सन्देशम्। धीरोऽपि राजा निस्तब्धशरीरोऽभवत्। क्षत्रियसामन्ता: समन्तादकम्पन्त। व्याप्नुते स्म रूपनगरं निर्भरं विषण्णता। सर्वेप्यचिन्तयंश्चेतसि किमधुना कर्तव्यमिति।
राजकुमारी प्रभावती निरतिशयं व्यषीदत्। तिमिरमुपागमत्तस्याश्वक्षुषो: सम्मुखे। सर्वतो भयत्रस्ता सा पितरमुपगत्य दीनं न्यवेदयत्- 'क्रूरस्यावरङ्गजीवस्य कूटचक्रान्मां रक्षितुं विचिन्तय सत्वरं कञ्चिदुपायम्। किंकर्तव्यविमूढो नरपतिरतिष्ठत्तूष्णीम्। विषादवती प्रभावती व्यचारयश्चेतसि- 'किमद्य क्षत्रियवंशस्य मर्यादा कलङ्ककालिम्ना सम्भवेत्सर्वथैव विलुप्ता? मा मैवम्। कोऽपि मे साहाय्यं विदध्यान्मा वा, अहं स्वयं स्वस्य संरक्षिका भवेयम्। क्षत्रियशोणिते मे धमनीषु प्रवाहितेऽपि नेदं कथञ्चिदपि सम्भवेद् यन्मम शरीरमास्पृशेद्यवननरपति:। एतस्यैव गौरवस्य रक्षायै महाराज्ञी पद्मिनी निजात्मानमग्नये उपायनमददात्, किरणावती लावण्यलोलुपस्याऽकबरस्य वक्षसि निषद्य तद्धस्तेन 'नवरोज नामकं मेलकं निरोधयामास। तदिह भगवत: पावकस्य कौक्षेयस्य च सत्तायामवरङ्गजीव: कथं मे गात्रमङ्गुल्याऽपि संस्पृशेत्? यदि राजपुत्रवीरेषु क्षत्रियरक्तं विलुप्तं तर्हि क्षत्रियवीराङ्गनासु तु तन्न लुप्तम्! किन्तु किमिदं मया प्रलपितम्, हन्त वीरेषु मिथ्यापवादं प्ररोप्य पातकमुपार्जितं मयका। न हि सर्वेऽपि क्षत्रिया: पौरुषहीना नूनम्। केचिद्राजपुत्रा: शृगाला जातास्तेन किं सर्वापि क्षत्रियजाति: सिंहविरहिता समपद्यत? मेदपाटस्य महाराणा राजसिंह: साम्प्रतमप्यलङ्करोति राजपुत्रसमाजम्। तर्हि तस्यैव सम्मुखे साहाय्यं किमिति नाभ्यर्थयेय?
राजकुमारी प्रभावती विश्वेस्तेनानुचरेण प्रापयामास निजप्रार्थनां राजसिंहस्य सविधे। अवरङ्गजीवस्यानुचितैरत्याचारै: पूर्वमेव परिक्रुद्ध: सोऽयं राजसिंहस्तामिमां क्षत्रियबालाया: प्रार्थनां श्रुत्वा कथंकारं वा शान्तस्तिष्ठेत्? स हि वीरान्सैनिकान् समाहूय साग्रहमब्रवीत्- 'प्रियतमा मे क्षत्रियसत्तमा:! अवरङ्गजीव: सर्वमपि भारतं पादाभ्याममर्दयितुं प्रकरोति प्रतिक्षणं प्रयत्नमिति प्रलोकितमेव भवद्भि:। यत एव वयं पश्यामस्तत एवार्यसन्तानेभ्य: श्रूयते हाहाकार:। अद्य सम्मुखक्लीबेनावरङ्गजीवेन पीडिताया रूपनगरराजकुमार्या: प्रभावत्या: प्राप्तं मे सविधे प्रार्थनापत्रम्। वेदनावती प्रभावती निजसतीत्वमभिरक्षितुं राजपुत्रमर्यादां चाभिगोप्तुं प्रार्थयते मे साहाय्यं भिक्षारूपेण। रणधीरा: क्षत्रियवीरा! कोऽत्र भवतामाशय:?
उत्तेजिता: क्षत्रियवीरास्तदेतस्योत्तरं निजखङ्गानुत्तोल्य युगपत्प्रददु:। पुलकितमभूत् मेदपाटपुरन्दरस्य हृदयमानन्देन। सर्वान् सामन्तानादाय स हि रूपनगराभिमुखमकरोदभिप्रयाणम्। इतो यवनसम्राज: सैनिका: राजकुमार्या: प्रभावत्या: सुखपालमादाय दिल्लीसम्मुखं प्रयान्ति स्म! मध्येमार्गमरावलीपर्वतमालाया उपत्यकायां राजपुत्रवीराणां दलमिदं यवनसेनाया उपरि श्येनपातमपतत्। अवर्षन्परित: शस्त्रास्त्राणि। अश्रूयन्त सर्वत: खड्गानां खडखडात्कारा:। निरभिद्यन्त यवनराक्षसानां वक्षांसि कौक्षेयकै:। स्वल्प एव काले वीरकेसरी स हि समस्तानेव यवनसैनिकान्मूलकच्छेदमच्छिदत्। ये केचिदवशिष्टास्ते पलाय्य प्ररक्षितवन्तो निजप्राणान्। समराङ्गणमगुञ्जद् राजसिंहस्य जयकारै:। क्षत्रियसमाजसिंहस्य राजसिंहस्य हृदयमानन्दसागरे समभूत्प्रवाहितं न तावत्केवलमनेन विजयेन नूनम्, अपि तु साहाय्यमर्थयमानाया: प्रार्थनाया उपरि स हि समये निजात्मानं सफलमसाधयदिति कृत्वा।
(३)
इन्द्रप्रस्थस्य साम्राज्यसिंहासने समासीनोऽवरङ्गजीव: समाकम्पत कोपेन। प्रचण्डचक्षुर्भ्यां स्फुलिङ्गान्विकिरन्नाज्ञापयामास सोत्तेजनम्- 'अमात्य! पत्रमिदं खण्डश: कृत्वा बन्दीकुरु मन्दीभूतमतिं दूतमिमम्। साम्प्रतमेव च मच्छत्रच्छायायां निवासिनीं साम्राज्यवाहिनीं तत्सेनापतींश्च सूचय राजपत्रेण यत् ते यस्यामवस्थायां यत्रापि भवेयुस्त्वरितमेव ततो दिल्लीमिमां समुपतिष्ठेयु:। किन्त्वित: पूर्वं मार्गकण्टकास्ते परिशोधनीया: स्युर्ये प्रत्यह प्रतिक्षणं मे सम्मतेर्विरोधमाचरन्ति। अपि परिजानास्यमात्य, के ते मार्गकण्टका:? ते एव यशवन्तसिंहजयसिंहादय:। यशवन्तसिंह: साम्प्रतं बाह्लीके, जयसिंहश्च दक्षिणापथे वर्तमान:। भूयस्तरां सम्भवो यद्राजसिंहेन समरकाण्डे समुपस्थिते, द्वावपीमौ सङ्गच्छेतां राजसिंहहतकेन साकम्। अत एव पूर्वं द्वयोरेवानयो: परिसमापनमाचेष्टनीयम्। भवान्निपुणौ द्वौ सन्देशहरौ मत्सविधे सम्प्रेष्य सेनापतीनां नाम्ना त्वरितमेव प्रहिणोत्वाज्ञापत्रम्।
दूतौ द्वौ सम्प्रेष्य सम्राज: समीपे, त्वरितमेव प्रजिघाय सचिव: सेनापतिभ्यो निदेशग्त्त्राणि। स्वल्प एव काले मोगलसाम्राज्यस्य सर्वापि रणवाहिनी दिल्लीराजधान्यां समवैत्। राजकुमारोऽकबरो वङ्गेभ्य:, कुमारआजिमश्च बाल्हीकेभ्य: समुपागच्छत्। दक्षिणप्रान्ते शिवाजिना सह घोरं नियुध्यमानो सुल्तानो मोजमोऽपि युद्धं निरुध्य राजधानीं परावर्तिष्ट! तदेवं विशालां यवनवरूथिनीमाज्ञापयन् प्रावोचदवरङ्गजीव:- 'मोगलसाम्राज्यस्य शौर्यसम्पत्तय: सेनापतय:! त्वरितमेव विधीयतां सोत्साहं रणयात्रा। शार्दूलो यथा मृगानाक्रम्य क्षणमात्रमेव मृतप्रायान्वशीभूतांश्च विदधाति तथैव भवन्तोऽपि राजपुत्रहतकानिमानास्कन्द्य भूविलुण्ठितान्विधद्ध्वम्। तेषां सर्वामपि मान मर्यादां पद्भयामवमद्र्य तान्निशङ्कं नरकगामिनो विधत्त। अकाण्डसमुच्छित तन्मुण्डं मण्डलाग्रैर्विखण्ड्य सावहेलं विकिरत क्षीरसागरतरङ्गेषु पुन: समाकर्णयत, स्वर्गात्समुपायाति सन्तोषसंराव:-'विधर्मिणामवचूर्णनेन पुण्यं वो भवेत्, श्रेयो वो भवेत्।
अवरङ्गजीवस्यादेशमिमं हृत्कन्दरे सन्धारयन्ती यवनवाहिनी प्रलयकादम्बिनीव घोरमगर्जत्। किन्त्वनया गर्जनया कि मेदपाटवसुन्धरा किञ्चिदपि कम्पमुपययौ? नैव, सा तु सुप्रसन्ना भूत्वा निजसुतानां विशालललाटे रणतिलकमङ्कयितुं प्रमोदपूर्णा समवातिष्ठत।
(४)
'न कापि चिन्ता मेदपाटनरपति: सेनापतिमवोचत्- 'माननीयसेनापते! किं भवतो न विदित यत् सम्राडकवर: समग्रराजपुत्राणां यवनानां च सम्मिलितशक्त्यापि यदा मेदपाटवसुधाया गौरवं गमयितुं न प्राभवत्तदा अवरङ्गजीवस्य केवला यवनवाहिनी गौरवमिदं कथं वा पारयेदुपशमयितुम्। अत्याचारिणोऽस्य दुर्विचेष्टितै: समस्तस्यापि राजस्थानस्य सर्वेऽपि क्षत्रियपुङ्गवा: सम्प्रति भवतां पक्षे। यदि तेऽस्मत्पक्षे नाभविष्यंस्तदापि किं क्षत्रियवीराणां कराल: करवाल: कोषगृहेष्वेव शयान: शोभेत? नैवम्, नैवम्। नृशंसस्तेषां निस्त्रिंशस्तदापि चपलेव चमत्कृतोऽभविष्यद्भारतगगने, साम्प्रतमपि भविष्यति भारतभूमौ। परं समरात्पूर्वं या नीति: पूज्यपितामहेन प्रतापेनाङ्गीकृता सैव साम्प्रतमस्माभिरपि संव्यवहर्तव्या अवरङ्गजीवेन साकम्। त्वरितमेव नगरनिवासिनां नाम्ना प्रहीयतामादेशपत्रम्, आज्ञाप्यतां च तत्र यत्ते मेदपाटस्य कृते मेदपाटमिमं श्मशानरूपे चित्रयन्तु। गगनचुम्बिनीर्निजाट्टालिका: परित्यज्य अरावली-पर्वतोपत्यकासु निजनिवासमारभेरन्। सखे मेदपाट! निजस्वाधीनताया: कृते त्वं कियद्वारान् विजनीकृतोऽसि व्याकुलीकृतोऽसि! किं तु भवत्सम्मानोऽस्मिन्नेवास्ति यद् भूमिशायी भूत्वापि भवान् भूमौ भवेद् भूयसाप्यपरतन्त्र:?।
प्रतिक्षणं प्रतीक्षणमासीदाज्ञाया:। यथैव स्वामिन: सङ्केत: समुपालभ्यत तथैव स्वातन्त्र्योपासिभिर्नगरनिवासिभि: समग्रोऽपि मेदपाटो निर्जनो निर्दीपश्च समपाद्यत। अरावलीगिरिमालायाश्चोपत्यका जनादिसम्पद्भी राजधानी समपद्यत। मुगलवरूथिन्या सरभसं सम्प्राप्य दृष्टम् दुर्गद्वारस्य कपाटौ सुस्फुटमुद्घाटितौ। श्मशानमिव भयस्थानमवलोक्यत नगरम्। शून्यानि निकेतनानि साँय-साँयशब्दै: परित: समुदपादयन् साध्वसमिव। विजयोत्साहिनी मोकगलवाहिनो विजनीकृतामपि तां चित्तौरराजधानीं वैलक्ष्यलज्जया पुनरधिकं विध्वंसयामास स्थापयामास च तस्या वक्षसि निजं स्कन्धावारम्। सैनिका: परित: प्रारभन्त लुण्ठनम्। धनजनपूर्णानि समीपवर्तीनि नगराणि विध्वंसयामासुस्ते। नगरवासिनो मनुजा: पलायन्तेतस्तत:। भयचीत्कारैरपूर्यत गगनम्। सर्वतोप्यकाण्ड: प्रलयकाण्ड इव समलक्ष्यत।
मेदपाटपते राजसिंहस्य परिभवासहिष्णुरात्मा पर्यकम्पत नि:शङ्कम्। अवर्षन्नेत्राभ्यां विस्फुलिङ्गा:। पर्यन्ते देशमर्यादाभिभावकोऽसौ राजसंस्थानवीरान् प्रति पत्रमेकं संवादसूचनाय परित: प्राहिणोत्। नासीदद्येवात्माभिमानशून्योदेश:। नासीत्सर्वथैव वीरताशून्यं हृदयम्। आसीदयं स्वाधीनताया गौरवस्य च महान् सङ्ग्राम:। अभूदयं देशमात्रस्य मानस्य मर्यादायाश्च गहन: प्रश्न:। यवनानां दुराचारैरन्तरन्तरूष्मायमाणा: सर्व एव राजन्या: स्वागतमकुर्वन् राजसिंहपत्रस्य। मिथ्यागर्वं खर्वं कृत्वा सर्वेऽपि राजसिंहस्य सहयोगिनोऽभूवन्। इत: पर्वतनिवासिन्य: 'पलिप 'पुलिन्दा दिलातयोऽपि देशविध्वंसमालक्ष्य शरशरासनाभ्यामात्मानं सज्जीकुर्वन्त्य: समभ्यसरन् रणाङ्गणम्। रणमल्लानां भिल्लानां दलमपि मेदपाटवैजयन्त्याश्छायायामकरोत्समरहुङ्कारम्। एकत: समुदतिष्ठत् 'हर हर महादेव 'जयएकलिङ्गेत्यादिध्वनिस्तर्हि परतोऽश्रूयत 'अल्लाहो अकबर इति महानिनाद:। व्यकम्पत घोरारवैर्दिग्दिगन्त:, व्यगुञ्जन् वीरसिंहनादैरुपत्यका: पर्वतमालाया:।
(५)
क्षुत्तृषार्तोऽयमवरङ्गजीवो दोनारिग्रामस्याक्रमणस्थलात्पलाय्य तुरगारूढ: प्रतिष्ठते शून्येऽस्मिन्नारण्यपथे। उपरित: प्रवर्षति प्रचण्डकर: पावकधारां सहस्त्रकरै: परित:। अधस्ताच्च मरुवसुन्धराया: सन्तप्ता बालुका मर्जयतीव पादाँस्तुरङ्गमस्य। प्रस्वेदप्रवाहैर्गात्रमाकुलव्याकुलम्। विशुष्कौ गाढमोष्ठौ। रक्तमिव संवमतोर्नेत्रयो: प्रत्यक्षामलक्ष्यत विह्वलता। घोटकस्यापि विकला दशा, सोऽपि तृषार्तो विषण्णो व्याकुलश्च। परं स्वामिनं निजपृष्ठे संस्थाप्य कार्यपरतया प्रतिष्ठते मेदपाटाभिमुखम्। मार्गे वृक्षस्यैकस्य शीतलां छायामुपलक्ष्य व्यश्राम्यत्तस्याधस्तात्।
अपारस्य मोगलसाम्राज्यस्याधीश्वर: सोऽयं व्यचारयच्चेतसि- 'हन्त न परिसीमानर्थस्य। ममैतावानपमान:, इयान्पराभव:? मोगलानां समस्तापि सेना मूलकच्छेदमच्छिद्यत राजपुत्रखड्गै:। राजन्यैरेतैराशया चित्रितं समस्तमपि मे सुखमयं जगत् खड्गधाराजले निरर्गलमभूत्प्रवाहितम्। अहं निश्चितमकरवं यन्नि:सीमया मोगलसेनया समग्रमपि मेदपाटं सर्वदार्थं शाययिष्यामि भूमौ, चिराय विध्वस्तं च करिष्यामि। राजपुत्राणामभिमानं मानं च धूलिसात्कृत्वा चिरकालाय सुखनिद्रामासेविष्ये। अत एवाहमखिलस्यापि साम्राज्यस्य सम्पूर्णामपि वाहिनीमाकर्षन्नकार्षं मेदपाटस्योपर्यास्कन्दनम्, किन्तु क्रन्दनं विहाय किमुपलब्धं फलं मयका? अकबर: पराभूत:, आजिम: पराजित:, स्वयमहमेतामवस्थामुपगत:। (किञ्चिद्विचार्य) किन्त्वेतादृशी निराशा कुत:? दिल्लीसाम्राज: स्वयमवरङ्गजीवस्य कृते शोभते नाम सेयं निराशा? मैवम्, मैवम्। पुनरहं रणाङ्गणमामण्डयेयम्। पुनरहं वीरप्रयत्नमातिष्ठेयम्। भूयोऽहं शौर्योत्साहिनीं मोगलवाहिनीं संयोज्य राजसिंहमिमवधीरयिष्यामि।
उच्छ्रितग्रीव: सोऽयमवरङ्गजीव: समुच्छलन्वीरोत्फालेन सरभसमव्यारोहद् घोटकपृष्ठम्। यथैव स तुरगोदरे पार्ष्णिप्रहारमकरोत्तथैव तद्वृक्षस्था: शकुनय: शकुनमिव सूचयन्त: सर्वेऽपि समस्वरमजल्पन्निव-अवरङ्गजीव! जीवने समाचरितानि संस्मर ते चरितानि। इदं ते पातकानां प्रायश्चित्तम्। पश्य, ते वृद्ध: पिता साम्प्रतमपि दत्ते तेऽभिशापम्। साम्राज्याधिरोहेण नितरामुन्नतं ते हृदयं नाद्यापि किं भजते नूनमनुतापम्।
चन्द्रहास:
(१)
'पुत्रि! किमस्य नगरस्य नामधेयम्?
'कुन्तलपुरम्। पान्थे! अध्वखेदखिन्नां विषण्णामिव लक्षये तत्रभवतीम्। कुत: पुनर्भवती? लोकोत्तरमनोहराकृति: कोयं च शिशु:?
वृद्धा पन्था- करुणावति! केरलादागच्छामि। केरलाधिपते: सुधार्मिकस्यायं तनयश्चन्द्रहास:। नगरास्कन्दिभि: परिपन्थिभि: समरे निहतं राजानमनुजगाम पतिव्रता राज्ञीति श्रुतं स्यात्कदाचित्। केरलराजोपजीविनी अहमेव तमेनं बालं तत: प्रभृत्यपुषम्। किन्तु सम्प्रति बालेऽपि वैरिणां दुरभिसन्धिमालक्ष्य निभृतं तत: पलायितास्मि। अपि लभ्येत नगरेऽस्मिन् स्थानम्?
दयावतीभिर्युवतीभिर्नगरे निवासिताया व्यतीयाय वत्सरो दास्या:, न व्यतीयाय किन्तु दुर्दैवं तस्या:। हन्त चन्द्रहासं चतुर्हायनमेव विमुच्य प्रययौ परलोकं धात्री। परं वात्सल्यवशादखिलानामपि प्रेमपात्रीभूतस्य धात्रीं विनापि सुखमभूत्पोषणं चन्द्रहासस्य।
कुन्तलपुरे स्वैरं क्रीडन् प्रययौ राजमन्त्रिणो धृष्टबुद्धेर्भवनं पञ्चहायनश्चन्द्रहास:। ब्रह्मभोजे समागतैर्महात्मभिर्मुनीश्वरैरद्य नीरन्ध्रितं राजमन्त्रिणो भवनम्। किन्तु नरसहस्रसङ्कुलेऽपि मन्त्रिसदने न विनिह्नुतोऽभूच्चन्द्रहास:। चारुताविकासस्य चन्द्रहासस्यानुपमं सौन्दर्यमालोक्य सौलक्षण्यमुग्धा व्यस्मयन्त मनसि मुनयोऽपि। राजसचिवमजिज्ञासन्त ते 'अलिकविलुलन्नवालक: कस्यायं बालक:?
धृष्टबुद्धि:- (पदाभिमानमभिनयन्) नाहं जाने कस्यायं बालक:। सहस्रमेवंविधा अनाथा: शिशव: परिभ्रमन्ति कुन्तलपुररथ्यासु। कस्य कस्याहं परिचिनुयां राजचर्याव्यग्रचित्त:।
मुनय:- नैवमवहेलया ब्रूया:। न किं निभालयसि? नासौ साधारण: शिशु:। भविष्यद्दृष्टय: पश्याम: सोऽयमेव भवेद्भवत: सम्पदामधिकारीति।
यथागतमगमन्मुनीश्वरा:, किन्तु घोराभिमानिनो धृष्टबुद्धेरिदमसह्यमभूत्- अज्ञातमातापितृको रङ्को बालको ममोत्तराधिकारी स्यात्! मैवं मैवम्। एषोऽहं मुनीनां मनीषितमिदं विफलयामि। वेणोविटपमपि नावशेषयेयं विपिने कुतो वा वेणुवाद्यकथा? (प्रकाशम्) क: कोऽत्र भो:?
(प्रविश्य) परिचारक:- को नियोग:?
धृष्टबुद्धि:- गुप्तगृहाद् घातकानाकार्य प्रापय मे सम्मुखे।
आज्ञापयद् धृष्टबुद्धिर्घातकान्- बालकमिमं विपिनमुपनीय घातयत गुप्तम्। उपनयत च मे छिन्नं किमप्यस्याऽङ्गं प्रत्यभिज्ञानाय।
(२)
एको घातक:- वज्रमुष्टे! प्रहर मनाक् त्वमेव करवालम, न मेऽत्र हस्त: स्फुरति।
वज्रमुष्टि:- नृशंसक! त्वमेव किं न प्रहरसि। नाहं दुग्धमुखमिमं शिशुं विशसितुमुत्सहे।
हन्त निर्जने विपिने निर्भरं नृत्यन्त्या: प्रकृतिदेव्या: परितो विकस्वरेण सौन्दर्येण द्विगुणितविभासस्य चन्द्रहासस्य स्वाभाविकमिदं सौन्दर्यं शतगुणितमिवाभवत्सम्प्रति। वध्यवेद्यामपि निर्भरं प्रमोदमानो मुग्धोऽयं शिशु: कुलिशकठिनं घातकानामपि हृदयं द्रावयामास। प्रावहत्पाषाणादपि वात्सल्यस्य धारा। घातकैर्भावितं यदयं क्षीरमुखो मुग्ध: शिशु: किं वा प्रभवेत्कर्तुमनिष्टं राजमन्त्रिण:। अत एव प्रत्यभिज्ञानाय किञ्चिदेकमङ्गं छित्त्वा बालकस्य वने विसर्जनं व्यभाव्यत तै:। आसंश्चन्द्रहासस्य चरणे षडङ्गुलय:। अपतद् घातकानामकस्माद् दृष्टि: षष्ठ्यामङ्गुल्याम्। इमामेवाङ्गुलिं प्रत्यभिज्ञानाय छित्वा रुदन्तमिमं बालकं विपिने निर्जने विमुच्य प्रययुर्निकटं धृष्टबुद्धेर्घातका:।
अहह भगवत्या: प्रकृत्या: अपि चन्द्रहासोपरि करुणाविभासोऽभवत्। नि:सङ्गा विहङ्गा: कणसङ्ग्रहं विमुच्य तमनु रुरुदु:। विटपिनो वायुसञ्चारेण चक्रु: करुणाक्रन्दनमिव। हरिणा: सान्त्वनायेव चन्द्रहासं परित: परिवारयामासु:। दयया घूका अपि मूका अभवन्। कपोता: शोकेन चञ्च्वा पाषाणमगिलन्।
एतस्मिन्नेव समये समागाच्चन्दनावत्या: पालक: कुलिन्दकमहीपतिर्मृगयायै तस्मिन् वने। रुदन्तमिमं चन्द्रहासमालोक्य प्राद्रवत्तस्य कोमलं हृदयम्। सौन्दर्यसौलक्षण्यविस्मितोऽसौ बालमिमं तुरगे समारोप्य समानयन्निजहर्म्यम्। निरपत्यश्चासौ शनै: शनैस्तमिमं दत्तकं पुत्रमकरोत्। अनाथश्चन्द्रहासश्चन्दनावत्याश्चन्द्रशालासु राजकुमारवत् सुखं ववृधे।
कृतोपवीततया लब्धगुरुकुलवासश्चन्द्रहास: समशिक्षत वेदवेदाङ्गानि। अभूच्च कुशाग्रीयबुद्धितया त्वरितमेवात्र पारङ्गम:। प्राप नैपुण्यं धनुर्वेदे, येन हि षोडशवार्षिक एवासौ प्रकाण्डवीरेषु प्राप्तवान्प्रख्यातिम्। सौभाग्याभिनन्दक: कुलिन्दक: कृतवानेनं युवराजम्। दिग्विजययात्रया महतीं चमूं कर्षयन्नसौ निर्जिगाय निजपितु: सपत्नान्नि:शेषेण अपारं धन-धान्यराशिं निजभुजोपाजितमुपानयन् प्रवर्द्धयामास मुदं पित्रोश्चन्द्रहास:।
चन्दनावत्या राज्यमासीत्कुन्तलपुरराज्यस्य करप्रदम्। अत एव कृतज्ञोऽसौ कुलिन्दक: कुन्तलपुराधीशस्योपायनाय प्रैषयद् बहून् धनधान्यसंभारान्। ग्रधानामात्यस्य धृष्टबुद्धेरपि सविधे प्रजिघाय कतिचिद्धनशकटानि। धनमधिगत्य लुब्धोसौ परममप्रीयत। दान-बहुमानादिभि-स्तोषितेभ्य: शकटरक्षकेभ्यस्तस्य सर्वोऽपि वृत्तान्तोऽवगतोऽभवद्यत्- युवराजश्चन्द्रहास: शत्रून्वि-जित्य नि:सीमं धनमिदमानीतवान्निजराज्यम्।
द्वितीयस्मिन्नेव दिने धृष्टबुद्धि: कुन्तलपुराधीशितुरनुज्ञामवाप्य चचाल चन्दनावतीम्। तत्र नरेन्द्र: कुलिन्दक: सयुवराज: ससम्मानमभ्यागमयन्मन्त्रिणं धृष्टबुद्धिम्। वैभवाभ्यूर्जितेन स्वागतेन विस्मित: पप्रच्छ कुलिन्दकं धृष्टबुद्धि:- 'भवत: सोऽयं कुमार: कदा समुत्पन्न:? षोडशवार्षिकोऽपि नायमद्यावधि मे सूचित इति चित्रम्।
कुलिन्दक:- चन्द्रहासो न ममौरस:। एकदा मृगयाप्रसङ्गेन प्राविक्षमहं तस्मिन्वने यद्धि कुन्तलपुराच्चतु:क्रोशान्तरितम्। तत्र निकृत्तषष्ठाङ्गुलितया क्षरत्क्षतजमिमं रुदन्तमहमवाप्य दयया हर्म्यमानीय सौलक्षण्यसन्तुष्टोऽहमकार्षमात्मन: कुमारम्।
धृष्टबुद्धि:- (मनसि) अहह! मन्ये मया जिघांस्यमान: स एवायं बालो य: षष्ठाङ्गुलिदर्शनेन संरक्षितो घातकै:। हन्त! मुनीनां भविष्यद्वादनिरोधाय कर्तव्य: स्यात्साम्प्रतमप्यस्य घातनोपाय: कश्चित्। अस्तु (प्रकाशम्) भवत्स्वागतेन संतुष्टो वाञ्छामि कञ्चित्कालमिहाऽवस्थातुम्। किन्तु कुन्तलपुरे मे हीयतेऽत्यावश्यकं कार्यम्। यदि चतुरं चन्द्रहासं भवान्कुन्तलपुरं प्रेषयितुमनुमन्यते चेदह मे पुत्राय मदनाय प्रेषयेयं पत्रमेकं येन मे तत्कार्यं पूर्येत।
सरलमना: कुलिन्दको नाविन्दद्दुरभिसन्धिमत्र। स हि सहर्षमेवं कर्तुमभूदनुमत:। कुमारश्चन्द्रहासोऽपि कुन्तलपुरप्रस्थानायाभूत्सन्नद्ध:। पितुरनुमतोऽसौ धृष्टबुद्धे: पत्रमादाय वाजिनमारूढ: प्रतस्थे कुन्तलपुरम्। नगरोपकण्ठे समागत: पथिश्रमखिन्नोऽसौ समीपगतमाविश्य पौरोपवनं निबध्य च वृक्षमूले तुरगं प्रच्छाये सुखमये व्याश्राम्यन्निद्रादेव्या: क्रोडे।
(३)
">(पौरोद्यानस्य प्रासादसमीपे)
''सखि वासन्ति! कुन्तलपुरराजमन्त्रिणो भवनेऽपि न ते सदननिवासतृष्णा व्यपगता यदद्यक्रीडार्थं नगरोद्यानमुपगतापि पुन: पुनर्भवनमेव निरीक्षसे। उपेहि, गच्छ्रावस्तत्रैव यत्र किल विजनविहाररसिका सचिवकुमारिका विषया विहरते।
वासन्ती- कुन्तले! कि ते निर्जनभ्रमणशीलाया: कुमार्या अनुसरणेन। एहि, पुष्पवीथिकामेव प्रविशावो यत्र पुष्पैर्मालामारचय्य विस्माययिष्याव: कुमारीम्।
वृक्षगहनेष्वितस्ततो विचरन्ती धृष्टबुद्धे: सचिवस्य परमसुकुमारी कुमारी विषया दैवात्तत्रैवागाद्यत्र किल सौन्दर्यै कनिवासश्चन्द्रहास: समभूत्प्रसुप्त:।
विषया- (चन्द्रहासस्य हयमालोक्य) अये कस्यायं तुरग:? (समीपे नयनं निक्षिप्य) अथ समीपे विश्रब्धं कश्चित्प्रसुप्तोऽपि? याव दुपसर्पामि विलोकयामि च कोऽयमद्य पुरोपवने स्वैरमनुप्रविष्ट इति। (चन्द्रहासस्य निकटमुपगम्य) अहह कथान्तरेषु भगवान्मकरकेतन: सौन्दर्यैकायनं श्रूयते, अपि स एवायं स्यात्? न मे वितृप्यतो नयने सौन्दर्यैकनिधेर्दर्शनादमुष्य।
अयं मकरकेतुरासीन्न वेति नूनं स्यात्तस्या: सशय एव कामम्, किन्तु समयेऽस्मिन् निभृतनिगूढो मकरकेतनो न विरराम निजकर्तव्यात्। अभूद्विषया प्रेमवशा चन्द्रहासस्य। सा हि निभृतान्तकरणेन समार्पिपन्निजात्मानं चन्द्रहासाय। चन्द्रहासस्य मुखचन्द्रमालोकमानाया: पपात परिधानीयान्निपतितस्य पत्रस्योपरि दृष्टिविषयाया:। पूर्वापरमननुसन्धायैवासौ पत्रमिदं जग्राह हस्ते। पत्रपुटकोपर्यङ्कितमियं विलोकयामास निजभ्रातुर्नामधेयम्। पर्यचिनोच्च निजपितुर्हस्तलिपिम्। मनसि सुभृशमियं प्रासदद् यद् भाग्यानुकूलस्य विधेर्विलासेन सोऽयमस्मद्गृहजनै: सम्बन्धमप्यावहतीति। सावधानं पत्रपुटकमुद्घाट्य पपाठ सा तत्पत्रम्-
'प्रियवत्स!
पत्रवाहकश्चन्द्रहास: समुपागच्छति सविधे भवत:। नास्य सुकुमारतां विभावये:, न चास्य पर्यालोचये: किशोरावस्थामेव। पत्रमुपलभ्यैव त्वरितमस्मै विषं देहि।
पत्रमिदमनुवाच्यैव विषया निकाममभूच्चकिता। हन्त नितान्तं विचारशीलस्यापि कोऽयमभूदद्य मतिविपर्यय: पितुर्येनाऽयमस्मिन् लोकदुर्लभेऽप्यकाण्डं क्रूरायते। अस्तु अहमिमं लेखमुचितं परिशोधयिष्ये। परिपातयिष्ये च धूमाकुलदृष्टेरपि यजमानस्याहुतिं स्थान एव। सा हि निभृतं विचार्य विषस्याग्रे 'यां इति शनैर्लिलेख। प्रेमकारुण्यनिर्गतं नयनयो: कज्जलं साधया मास समीकार्यम्। 'त्वरितमस्मै विषं देहि एतस्य स्थाने 'त्वरितमस्मै विषयां देहि इति निरपद्यत। पत्रपुटकं च पूर्ववत्समीकृत्य न्यदधात्सा चन्द्रहासस्य परिधानीयपुटके। निभृतं च तत: प्रदेशान्निर्गत्य सखीभि: सङ्गता प्रयासीन्निजसदनम्।
निद्रात: प्रबुद्धश्चन्द्रहास:- 'कथं मे व्यतीतो भूयान्कालो निद्रायामेव? अस्तु सम्प्रति त्वरितमुपयामि कुन्तलपुरमन्त्रिसदनम् (पार्श्वपुटकं विलोक्य) पत्रं तु मे यथावदस्ति!
कुन्तलपुरं प्रविश्य प्रायासीच्चन्द्रहासो मन्त्रिण: सदनम्, मदनं चोपगम्य प्रददौ पितुर्धृष्टबुद्धेस्तत्पत्रम्। पत्रं चेदमनुवाच्य भूयस्तरां प्रासीदन्मदन:। ईदृश: सुन्दर: सुलक्षणश्च वरो दैवयोगात्पित्राधिगत इति कार्यंगौरवात् तत्सामयिकसमाजाभिरुचितं शरीरकार्कश्यादिकमस्याऽविभावयन् पितुरादेशात्सुमुहूर्ते सम्पादयामास विषयया सह चन्द्रहासस्य विवाहम्।
(४)
चन्द्रहासस्य चन्दनावतीत: प्रस्थानोत्तर धृष्टबुद्धि: प्रजासु घोरमत्याचरत्। नानाकष्टैस्ताभ्योऽसौ प्रभूतं धनमपाहरत्। सौजन्यनिर्बन्ध: कुलिन्दको नात्र किञ्चित्प्रतिकर्तुमशकत्, प्रत्युत स्वयमेवासौ धृष्टबुद्धे: क्रूरतया तेपे। एवं विपुलं धनमपाकृष्य परावर्तताऽसौ कुन्तलपुरम्। मनसि मन्यते स्माऽयम्- 'चन्द्रहास: समापितो मया। मुनीनां भविष्यद्वादश्च विवेकेन विफलीकृत:। किन्तु कुन्तलपुरमुपयातेन दृष्टमन्यथैवानेन। योऽनेन यमपुरं याता विचारित: स एवात्र तस्य जामाता जात:।
धृष्टबुद्धि:- (मनसि) अहो चापलं दुष्टस्यास्य। किन्तु न धृष्टबुद्धिरिदं क्षमेत। कामं विषया स्याद्विधवा परमहमेनं समाप्य विप्राणां वाचमवश्यं विफलयेयम्। क्व गच्छसि पशो! अद्य रात्रावेव चामुण्डाया बलि विदधामि त्वाम्। (चन्द्रहासं प्रति प्रकाशम्) वत्स चन्द्रहास! सोल्लासमभिनन्दामि ते सम्बन्धं मत्परिवारेण। किन्त्वस्मत्कुले सेयं चिरन्तनी प्रथा यज्जामाता नगरदेवतां चामुण्डामर्चतीति। तद्भवानप्यद्य तदिदं निर्वर्तयतु।
चन्द्र.- तात भवदादेशात्तदिदमस्यामेव निशि निश्चितं निर्वहेयम्।
धृष्ट.- (घातकान्निभृतमाकार्य-कर्णे एवमिव) ज्ञातम्, य: कोऽपि चामुण्डामर्चितुमुपेयात्स एव निर्विचारं तस्या बलिर्विधेय:।
आसीत्कुन्तलपुरभूपालोऽत्यन्तं वृद्ध:। यस्मिन् दिने चामुण्डामर्चितुं चन्द्रहासेनादेशो लब्धस्तस्मिन्नेव दिने कुन्तलपुराधीशो निजं छायापुरुषमङ्गहीनं ददर्श व्योम्नि। अचिरभाविन निजमृत्युमसौ विश्वस्य राज्यसमर्पणं कस्मैचिद्विचारयामास। नासीत्कन्यामेकां विहायान्या सन्ततिरेतस्य। स हि प्रधानमन्त्रिणो जामातु: सौन्दर्यसौलक्षण्यादेरस्याकर्णयद् भूरि भूरि प्रशसाम्। स ह्यचिन्तयच्चेतसि यच्चन्द्रहासे राज्यचिन्तां कुमारीं च तां समर्प्यं वनमहमाश्रयेयमिति। अत एव मन्त्रिणस्तनयं मदनमाकार्य निशि निभृतमकरोदेतस्य परामर्शम्। मदनश्चन्द्रहासगुणै: पूर्वमेव वशीक्रियते स्म, स हि राज्ञ: प्रस्तावं सोत्साहमन्वमोदत।
व्यत्यैयत भूयसी रजनी। जना: सुखमासन्निद्रादेव्या: क्रोडे विश्रान्ता:। किन्तु शुभस्य शीघ्नमिति विभाव्य राजा चन्द्रहासानयनाय तत्कालमेव प्राहिणोन्मदनं तत्समीपे। यथैवायं चन्द्रहासं प्रति चचाल मध्येरथ्यं तथैव दृष्टमनेन यद्देवपूजोपकरणं प्रज्वालितचतुर्मुखं दीपं च रजतपात्रे सन्नयन् समायाति सम्मुखमेव चन्द्रहास:। प्रसन्नवदन: समुवाच मदन:- 'सखे चन्द्रहास! घोरनिशीथेऽस्मिन् किमिदमेकाकी त्वमनुतिष्ठासि? कुतश्च प्रतिष्ठसे?
चन्द्र.- भ्रातर्मदन! भवज्जनकेन समादिष्ट: प्रयामि ग्रामदेवतां चामुण्डामर्चितुम्।
मदन:- तर्हि नेदं सम्प्रति सम्भवेत्। त्वं सम्प्रत्येव कुन्तलपुरनरेशेन समाहूत:। स हि निभृतमवस्थित: प्रतीक्षते भवन्तम्। तत्र गत्वेव त्वं ज्ञास्यसि यत्कियदाभ्युदयिकं ते कृत्यं समर्पयिष्यति कुन्तलपुरनरेन्द्र: समर्पय मे तदिदमुपकरणं यावदहं साधयामि देवपूजाकार्यमिदम्।
मदनश्चन्द्रहासहस्तात्पूजोपकरणमादाय चचाल चामुण्डाचैत्य प्रति, चन्द्रहासश्च राजमन्दिरम्।
मार्गमुल्लङ्घयतो मदनस्य समभूवन्ननेकान्यपशकुनानि किन्तु चेतसि चन्द्रहासाभ्युदयं चिन्तयतो नाभूदेतेषामुपर्येतस्य भ्रूनिक्षेपोऽपि। स हि त्वरितमेव मन्दिरमुपेत्य प्रारेभे भगवत्या: पूजनम्। सम्प्रत्यर्घ्यमेवासीत्तेन समर्पितं तावतैव तस्योपरि मुशलस्य करवालस्य च प्रहारा: प्रारभ्यन्त। 'हा हन्त केयं दैवी व्यापदुपस्थिता! नूनं प्रचण्डा देवी चामुण्डा मत्कृतादर्चनात्प्रकुपिता साम्प्रतम्। तद्भगवत्याश्चरणयो: प्राणर्पणमन्तरा किं वा मयाऽनभिज्ञेन कर्तव्यम्? मनसि विभाव्येदं स हि सभक्ति भगवतीमभ्यर्थयाञ्चक्रे- 'आत्मापराधस्य मार्जनं तु किमहमर्थये। तत्कृते प्राणानेव ते चरणयोरर्पये। किन्तु तदिदमवश्यं प्रार्थयिष्ये यन्न चन्द्रहासोपरि कदापि कोपितव्यं जनन्या। नास्य स्वल्पोऽप्यपराध:। अहमेव तमेनमन्यकार्ये विसृज्य बलात्ते पूजनाय समुपयात: इत्येवं प्रार्थयमानस्यैव मदनस्य प्रययु: प्रहारै: प्राणा:।
(५)
शय्यात: समुत्थित: प्रातरेवाऽशृणोद् धृष्टबुद्धिर्यच्चन्द्रहासाय समार्पिपन्नरेन्द्र: कुन्तलपुरराज्यम्। राजकुमारीं चापि तस्मै प्रतिपाद्य प्रायासीदसौ तपोवनम्। श्रुत्वैवेदं नाऽवाधारयदात्मानं धृष्टबुद्धि:। किमिदमहं शृणोमि? हन्त! किमासीद्विचारितं किं चेदमभिमुखमुपस्थितम्? कञ्चिदप्यपरिलप्य पदातिरसौ धावन्प्रायासीच्चामुण्डामन्दिरम्। तत्रत्यं वृत्तमखिलामालोक्य नावस्थातुमप्यसौ शशाक। हन्त प्राणप्रियो मदन: पतितोऽस्ति निष्प्राण: पृथिव्याम्! सोऽपि पृथिव्यामात्मनो मस्तकमाहन्। समचूर्ण्यत कपाल:। धृष्टबुद्धेर्जीवनलीला परिसमाप्यत तत्रैव।
राजलक्ष्मीनिवासस्य चन्द्रहासस्याज्ञाकरैश्चरै: सूचितं यद् धृष्टबुद्धिर्मदनश्चोभावपि चामुण्डाया मन्दिरेनिष्प्राणौ पतितौ स्त:। श्रुत्वैव कारुणयोद्भासश्चन्द्रहास: पदाति: प्रायाच्चामुण्डासदनम्। प्रत्यक्षमसावैक्षि: द्वयोर्मृतशरीरे। सरलताया दासश्चन्द्रहासो नेदमज्ञासीद्यद् धृष्टबुद्धे: कुचक्रेणैव सञ्चक्रे सेयं दुर्घटना। स ह्यात्मनोऽपराधेनैव मदनस्य मृत्युमभावयत् 'यद्यहं स्वयं समुपस्थाय समये भगवतीमपूजयिष्यं तर्हि प्रचण्डकोपा चामुण्डा नेमां संहारलीलामदर्शयिष्यत्। हन्त उपकारिणोऽपि प्रलोपकारिणं धिङ् मामधन्यम्। कि मे सम्प्रति जघन्येन जीवनेन। विचार्यैवेदं मान्त्रिकानाहूय चण्डिकार्चनपुरस्सरं सविधि समेधिते दहने निजाङ्गानामेवाऽऽहुति प्रददौ। शनैर्हुतेषु सर्वेष्वङ्गेषु यथैवाऽयं शिरोबलिं कर्तुमियेष तथैवासाधारणधैर्यप्रतुष्टा चामुण्डा वह्निकुण्डादाविर्भूय निरुरोध साहसकरं करं चन्द्रहासस्य, प्रोचे च सा 'वत्स प्रीणयसे मां साहसेन, तद् वृणीष्व वरं तेऽभीप्सितकरम्।
सोल्लासश्चन्द्रहास:- 'यदि प्रसीदतीह भवगती तर्हि जीवितं लभेतामेतावुभावपि।
'एवमस्तु हत्यभिदधती भगवती तत्रैवान्तर्दधे। धृष्टबुद्धि-मदनौ प्रसन्नवदनौ सपदि समुदतिष्ठताम्। लब्धसाफल्योल्लासश्चन्द्रहासश्चामुण्डानुकम्पया पूर्वतोऽप्यधिकामुपलेभे शरीरकान्तिं सर्वविधां च शान्तिम्। व्यावृत्तबुद्धिर्धृष्टबुद्धिर्मात्सर्यं विस्मृत्य राजभक्त्या पूर्वमिव चक्रे मन्त्रित्वकार्यम्। दृढसौहार्दविलासौ मदनचन्द्रहासावप्युत्तरोत्तरां प्रीतिमुपजग्मतु:।
कृत्त्रिमबुन्दी
(१)
व्यत्यगु: पञ्चशतं वत्सरा:। राजपुत्रप्रान्तस्य बुन्दीराजधान्यामासीद् हामानामा वीरक्षत्रियो राजा। एष 'हाडा वंशभूषणम्। एतत्समयात्पूर्वं खिलजीवंश्यस्य अलाउद्दीनस्याक्रमणैश्चित्रकूट (चित्तौर) राज्यमभूच्छिथिलम्। बुन्दीराज्यमासीत्पूर्वं चित्रकूटराज्यस्यायत्तम्, किन्तु चित्रकूटराजन्यानां शक्तिह्रासे बुन्दीभूपाला: समभूवन् स्वतन्त्रा:।
चित्रकूटशासको यथैव बलमलभत तथैव स बुन्दीनरेन्द्रं समसूचत् सार्वदिकनियमानुसारं भवान् ममाधीन:। अतएव ममादेशेन सम्प्रति चित्रकूटे स्थेयम्। हामानरेन्द्र: प्रत्यसूचयत्-बुन्दीराज्यं मत्पूर्वजै: खङ्गबलेनार्जितम्। नाहं कस्यचित्परतन्त्र:। किन्तु भवान्माननीय: अत एव सम्मानसूचनाय विशेषमहोत्सवेषु विनयप्रदर्शक: सोऽहमुपैमि भवदन्तिकम्। नेतोऽधिकमाशासनीयं मत्सकाशीत्।
चित्रकूटाधिपति: प्रत्युत्तरेणानेन भृशमकुप्यत्। सह्याक्राम्यद्बुन्दीवसुन्धराम्। बुन्दीराजधान्या समीपे समभून्निमोडियास्थानम्। सैन्यसमेतो राणा तत्रैव स्कन्धावारमास्थापत्यत्। हामानरपाल: प्रथममेव प्राप्नोत्संवादं सैन्योपगमस्य। स हि प्रचितप्रचितान् पञ्चशतं वीरक्षत्रियानादाय नि:शब्दं समभिजगाम सैन्यमिदम्। नास्य संवादं प्राप्नोच्चित्रकूटशासको राना। अत एव निशीथे प्रभूतेन बलविक्रमेण चित्रकूटचमूमास्कन्दत्। स्कन्धावार सैनिका: सर्वथैवाऽऽसन्नसंनद्धा:। हामाकृतमास्कन्दनं नैते सोढुमशकन्। बुन्दीनरेन्द्रस्तत्सैनिकाश्च परस्सहस्रश्चित्रकूटभटान् मूलकच्छेदमच्छिदन्, अवशिष्टाश्च कान्दिशीकतामभजन्। चितौरचमूपती राणा निजप्राणानादाय कथमपि परावर्तिष्ट। अभूद्विजयी हामानरेन्द्र:। विजयढक्कामभिनादयन्स निजराजधानीमुपागच्छत्। गृहे गृहे प्रारेभिरे विजयोत्सवा बुन्दिवसुन्धरायाम्।
पराजितश्चित्रकूटमहीपालो लज्जया विनतवदनोऽभूत्। विशालां मे वरूथिनीं पञ्चशतसंख्यास्ते हाडाक्षत्रिया: समचूर्णयन्निति धिङ् मे जीवनम्। यावदहं बुन्दीदुर्गं नाधिकुर्याम तावन्न कुर्यामन्नजलग्रहणम् इति भीषणं प्रतिज्ञायं सैन्यसङ्ग्रहे समचेष्टिष्ट।
चित्रकूटाद्बुन्दी द्वात्रिंशत्क्रोशान् दूरे। सैन्यसङ्ग्रहाय च समयोऽप्यपेक्षित:। एतावत्कालं बिनाऽन्नजलग्रहणं जीवनयात्रा नूनम सम्भविनी। तत एव चित्रकूटाधिपतेर्बन्धुबान्धवा: समभूवन्सङ्कटग्रस्ता:। न्यवेदयंस्ते महाराणाम्-'' अतिभीषणा सेयं भवत: प्रतिज्ञा। तस्या: पालनपर्यन्तं तत्र भवत: प्राणारक्षा नूनं सन्दिग्धैव। तत एव सेयं सन्त्याज्यैव। परं नेदमकरोत्कर्णे चित्रकूटमण्डलेश्वर:। आसीत्तस्योत्तरम्-'अपि क्षत्रियाणां प्रतिज्ञा कदाचिद्वितथापि भवेत्?।
का गतिरिदानीम्? गभीरं विचारयतां मन्त्रिणामयमेक: प्रत्युपाय: प्रत्यभासत। ते प्रार्थयन्त महाराणामहोदयम्-' अस्तु वयमस्मिन् चित्रकूट एव बुन्द्या: कल्पितमेकं दुर्गं निर्मापयाम: सैन्यसमेवतस्तत्रभवान् दुर्गमिदं पराजित्य पूरयतु प्रतिज्ञाम्, निर्वर्तयतु च भोजनादिकम्। सैन्यसौविध्यानुसारमचिरादेव च साक्षाद्बुन्दीदुर्गेऽपि क्रियेताऽभिक्रमणम्। अन्वमोदत प्रस्तावमिमं चित्रकूटेन्द्र:। किमासीत्तत:? चित्रकूटस्य समीप एव प्रशस्ते प्राङ्गणे मृत्तिकया निरमीयत कृत्त्रिमं बुन्दीदुर्गं स्थापतिभि:। तावन्त एव गुल्मा:, तावन्त्येव द्वाराणि, तादृशावेव चाऽऽकारप्रकारौ। बालानामिव क्रीडनकमिदं सज्जीभूय प्रतीक्षाञ्चक्रे महाराणाकर्तृकमाक्रमणम्।
(२)
बुन्दीवसुन्धरायामासीद्येषां हाडाक्षत्रियाणां शासनम्, तद्वंशीयानां वीराणामासीदेकं दलं चित्रकूटेऽप्युपनिविष्टम्। अभूदिदं चित्रकूटाधिपतेरधीनम् तस्यैव वाहिन्या एकोंऽश:। अस्याधिपतिर्हाडावंशीय: कुम्भा वैरिसिंह:। भवितव्यतावशात्तदैव मृगयायै निरगमत्सोऽयम्। कृताऽऽखटोऽसौ यथैव नगरं परावर्तिष्ट तथैव मार्गें निर्मीयमाणमिदं कृत्त्रिमदुर्गं व्यलोकिष्ट। महदभूत्कौतुहलं तस्य, प्रधानास्थपतिमप्राक्षीदसी-'किमिदं निर्मीयते?
प्रधानम्- ''बुन्द्या: कल्पितं दुर्गम्।
कुम्भ:-किमिति? किं प्रयोजनमेतस्या: क्रीडाया:?
प्रधानम्- महीपालेन प्रतिज्ञातमस्ति यद् बुन्दीदर्गं पराजित्यैवान्नजले ग्रहीष्यामीति।
कुम्भ: - बालानां मनोरञ्जनसामग्री मृत्तिकागृहमेदं किं सभवेद् बुन्दीदुर्गम्?
प्रधानम् - सत्यमेतत्। किन्तु प्रतिज्ञापालनं कृत्वा प्राणरक्षाया: प्रत्युपायमात्रमिदम्। सत्यमपि दुर्गं पराजीयेत, किन्तु सुविधानुसारं परस्तात्।
कुम्भ: - सर्वमहमज्ञासिषं सम्प्रति। अहह साधीयसी युक्ति:।
कोपेन कर्कशीभवन्कुम्भ: स्वीयसैन्यावासं समागत्य हाडाक्षत्रियेभ्य: समग्रमिमं वृत्तान्तमावेदयात्। तेऽपि समाकर्ण्य कोपेन प्राज्वलन् ज्वलना इव-'अस्माकं मातृभूमेरेषोऽवमान:। प्राणसत्तायां वयं कल्पितमपि दुर्गमिदं न शक्ष्यामो ध्वस्तं द्रष्टुम्। अवश्यमस्माभी राज्ञ: सेवाङ्गीकृता, किन्तु तावता किं मातृभूमेस्तिरस्कारमक्षतशरीरा: प्रेक्षिष्यामहे? मैवम् मैवम् वयं निजमातु: प्रतिमूर्तेरपि प्राणपणेन रक्षां विधास्याम:। प्राणान्ते सत्येवास्माकं स्वामी दुर्गेऽस्मिन् प्रविशेत्, नास्मासु जीवत्सु। संविदमिमां विधाय शास्त्रास्त्रै: सुसज्जितास्ते कृत्त्रिमदुर्गमिदमधिष्ठाय प्रतीक्षां चक्रिरे चमूचक्राक्रमणम्।
नियते समये परिमितां पृतनां नयन् समभिससार कृत्त्रिमं दुर्ग चित्रकूटेश:। आज्ञाप्यन्त तेन निजसैनिका यद् दुर्गाभ्यन्तरतो रिक्तानां नालिकास्त्राणां ध्वनिर्विधेयो भवद्भिर्यावदाक्रम्य वयंमिदं दुर्गं ध्वंसयाम:। किन्त्वेतद्विपरीतं, यथैव राणा दुर्गमिदमुपेयिवान् तथैव दुर्गमुखात्प्रारेभे प्रबलतमा गुडकास्त्रवर्षा। चित्रीयते स्म राणा। किमिदमिति गवेषयितुमाज्ञापयत्स निजकिङ्करान्। दृष्टं राजदूतैर्यत् कुम्भ: कृत्त्रिमदुर्गस्य प्रधानद्वारे शस्त्रास्त्रै: सुसज्जितो रणाय सनद्धोऽस्तीति। दूतानालोक्यैव स निजोष्णीषमुत्तार्य भूमावास्तीर्णवान् प्रोद्गीर्णवांश्च-''निवेदयत चित्रकूटपरिवृढम् एषोऽहं स्वागताय सन्नद्ध:। मम मस्तकोष्णीषमिदं पदनिधानायाऽऽस्तीर्णम्, एतस्योपरि पदं निधायैव समागन्तव्यं श्रीमता। ध्वस्यतां कामं कृत्त्रिमदुर्गमिदम्। बुन्दीवसुन्धराया हाडाजातीयस्तुच्छोऽयं सेवक: प्रतीक्षते प्रभो: प्रत्यास्कन्दनमिदम्। परिणाम: समघटत यत्कुम्भस्तत्सहायकाश्च सर्वे युद्ध्वा तत्रैव धराशायिनोऽभवन्। तेषां शवानुल्लङ्घ्यैव चित्रकूटेश्वर: प्राविशत्कृत्त्रिमदुर्गम्।
चित्रकूटेश्वर: प्रतिज्ञां संरक्ष्य पानीयमवश्यमपिबत् भोजनं चाप्यसङ्कोचमगृह्णात्, किन्तु रणस्तम्भस्य कुम्भस्य तत्सहचाराणां चासाधरणीं वीरतां, मातृभूमेरतुलितां भक्ति, राजन्यमानमार्यादारक्षणाय प्राणानामप्युत्सर्गं च दृष्ट्वा स्वान्ते स हि सुभृशं समकुचत्। साक्षाद् बुन्दीदुर्गविजयाय नाकरोदसौ दु:साहसम्, अत एवाद्यापि बुन्दी सेयं न बुन्दीकृतजा राणावंशजै:।
वीरवर कुम्भ! सम्भावनीयोऽसि सर्वथा सर्वजगताम्। धन्या च ते मातृभूमेर्भक्ति:। यदि त्वादृशा: स्वार्थत्यागिन: स्वाभिमानिनश्च राजन्यवीरा नाऽभविष्यंस्तर्हि राजपुत्रप्रदेशे नैतावतीनां राजधानीनां दर्शनमभविष्यत्। क्रीडाकौतुकेऽपि य: स्वदेशस्य स्वजाते: स्वमातृभूमेश्चापमानं गौरवक्षतिं वा न सहते, प्राणान् प्रदायाऽपि यो मातृभूमेर्मर्यादामभिपालयति, स एव तस्या: स्वाम्यमुपलब्धुं सत्यो ह्यधिकारी नूनम्।
वीरवाणी
(१)
'गृह्णीत, खण्डश: कुरुत, हिन्दूनां कूपे निपातयत इत्यादिघोरकल-कलैर्गगनतलमाकुलयन्त: कियन्त: सशस्त्रा: पुरुषा येषु केषाञ्चन करे वंशयष्टय: केषाञ्चन करे लगुडा: केषाञ्चन छुरिका: केषाञ्चिच्च खड्गा आसन्नेकस्य साधोरुपरि पर्यापतन। सर्वेऽप्यासन्मोगला:। दीनस्यैकस्य विरागिणो निग्रहणं बलान्निबर्हणं च तैर्निजपुरुषार्थ एव किम् स्वधर्मनेतॄणामादेशानुसारं पुण्यकार्यं बत पर्यगण्यत। विवशो विरागी महता कौशलेन निजहस्तदण्डं परिभ्रमयन्नात्मरक्षायै पर्यचेष्टिष्ट।
सुरतनगरे राजरथ्यायां विपणीनां सम्मुख एव तदिदम ब्रह्मण्यमारभ्यत। तया रथ्यया गच्छन्नेको गौराङ्ग: कलकलमिममाकर्ण्य कौतुकवश: सहचराभ्यां सह जनसम्मर्दमिमं कठिनतया विच्छिद्याभ्यन्तरं प्राविशत्। दृष्टं तेन- दृढशरीरसन्धेर्भस्मावृतवपुष: साधोरेकस्योपरि सर्वेऽपि यवना युगपदाक्रमणमकार्षु:। स च केवलमेकेन लघुलगुडेन निजप्राणरक्षाया: प्रयत्नं यथाकथञ्चिदाचरतीति। चत्वारिंशत्पञ्चाशन्मुगला नि:शस्त्रमेकं पुरुषमाक्रमन्, निजयष्टीनां प्रहारै: प्रापीडयन्, कियद्वा कोऽपि वराको रक्षायै विचेष्टेत? कोऽपि पाषाणमक्षिपत् तर्हि कश्चिद् गोमयं वा मार्गस्थमवकरनिकरं वा प्रक्षिपन् प्रादर्शयन्निजतवीरताम्। अन्यो ह्यसभ्यैर्दुरुक्तैरेव निजमानसमतर्पयत्। विषमायामस्यां दशायां वराको विरागी कियन्तं कालं वा निजात्मानं गोपायेत्? अकस्मादेकस्य पाषाणप्रहारस्तस्य ललाटाल्लोहितं प्रावाहयत्। यथैव तन्निरोद्धं स हि द्वाभ्यां कराभ्यां मस्तकमगृह्णात्तथैवान्यमहावीरस्य यष्टिस्तस्य शिरस्यपतत्। प्राघूर्णत: साम्प्रतं साधो: शिर:। स हि विसंज्ञो भूत्वा भूमौ न्यपप्तत्।
निजपराक्रमेण प्रफुल्ला: सर्वे मृतमपि पुनर्मारयितुमधावन् वीरविक्रमेण। किन्तु साक्षात्तस्मिन्नेव समये गौराङ्ग एक: पर्यापतत्तस्मिन् स्थले। तस्य हृदयमनौचित्येन मानवोचितदयाभावेन चाद्रवत्। सरभसमेष निजसहचरयो: साहाय्येन विरागिणमिममनयत् स्थानान्तरम्। सक्रोधातिशयमाक्रमन्मोगलास्तमेनमपि, किन्तु गौराङ्गस्य तत्सहचरयोश्च हस्ते सज्जान्यासन् नलिकास्त्राणि। द्वित्राणां गुलिकानामुपायनेनैव सर्वेषां वीरता विजहार व्योममण्डले।
संज्ञामुपलभ्यैव साधुरयमुदतिष्ठत्। दृष्टं तेन- एकोऽपरिचितो गौराङ्गो निजसहचरयो: साहाय्येन क्षतस्थाने पटमाबध्य मे सेवां करोतीति। विरागी पूर्णया कृतज्ञतया तस्योपकारभारममन्यत समभाषत च सस्नेहम्- 'वीर किं तत्र भवतो नाम? अद्य यस्त्वं मे प्राणानरक्षीर्नेममुपकारमहं कदाचिदपि विस्मर्तास्मि। भारतीया मनस्विनो निजोपकारमपकारं वा चिराय हृत्पटलेऽङ्कयन्ति न विस्मरन्ति चादेहपातं तत्प्रतिशोधं नूनम्। सप्ताहाभ्यन्तर एवास्य प्रमाणं प्राप्ता भवान्। एतावदुक्त्वा पुनरपृच्छत्तस्य फिरङ्गस्य नामधेयं साधु:। महता स्नेहेन च तद्धस्तं संस्पृश्य यथागतं गच्छन् नेत्रयोरन्तरितो बभूव।
जॉन रो महोदयो (गौराङ्ग:) विस्मयस्तिमित: स्थूणेव तस्थौ तथावस्थ एव। व्यचारयच्चेतसि- 'अहो कोऽयं पुरुष:? यस्याधिकारसूचिका वाणी सहसैवाऽऽनमयतीवा-ऽपरिचितस्यापि गौरवान्मस्तकम्। स्वरेऽस्य स्वामिता, नेत्रयोरसाधारणं तेज:, शरीरे च शार्दूलस्येव शक्तिवहं शौर्यम्। हस्तस्पर्श एव वज्र कठोरो घोषयतीवास्य महावीरताम्। एवमादि चेतस्यावर्तयन्नेवासौ परावर्तिष्ट निजनिवासस्थानम्।
(२)
द्विशतसार्द्धद्विशतवर्षेभ्य: प्राक्तनी सेयं कथा। अद्येव नासीद्भारते सर्वतन्त्रस्वतन्त्र-मेकच्छत्रं गौराङ्गणामाधिपत्यम्। अभून्मोगलानामन्तिमं शासनं यद्धि अस्तमुपयास्यतो भास्वतो लोहितायमान: प्रकाश इव स्वस्यासूचयत्पतनोन्मुखताम्। सुरतनगरे चतु:पञ्चा: फिरङ्गा व्यापाराय निजनिवासमकल्पयन्। अलक्ष्यत तदा तत्परिस्थितिर्नितरां निराशाजनिका। फिरङ्गीत्यङ्गीकृत-ख्यातयस्ते व्यवसायमालम्ब्य देशे शनै: प्रवृत्तिमलभन्त। व्यापारमन्तरा नासीत्तेषां कश्चिदन्यो नियोगो देशे। यदि कश्चिन्मोगलस्तान्पर्यपीडयत् हानिमापादयत्तदापि नासीत्कोऽपि तेषां विशिष्य संरक्षक:। अभियोगे समुपस्थापितेऽपि मोगलराजशासनान्नासीन् न्यायप्राप्ते: प्रत्याशा तेषाम्। अत एव निभृतं निजकार्ये निलीनास्ते शनै: शनैरितस्तत: प्रसृतेर्निजसमुन्नतेश्च मार्गमध्यारो-हन्नात्मनैव।
पूर्वसंघटिता घटना घोरमुदघाटयत्सङ्घर्षं यतस्तत: संघटमानेषु मुसलमानेषु। अङ्कोपगतस्यापि धर्मविद्रोहिणस्तदेवंप्रकारेण विमुक्तिं ते दैवदुर्भुक्तिमभावयन्। एवंविधेनापयश:पावकेन समधिकमदह्यत मोसलमानानामखिलानां हृदयम्। दोषभागिनो विरागिणो ह्यनुचितसाहाय्यप्रदानापराधे 'जॉनरो महोदय: समभूत्तेषां कोपभाजनं नूनम्।
व्यत्यगुश्चतु:पञ्चान्यहानि घटनाया: पूर्वोक्ताया:। आसीत्सन्ध्यासमय:। जॉनरोमहोदय: समस्तमपि दिवसं निजव्यवसाकार्यमापूर्य साम्प्रतं प्रयाति स्म विश्रमाय निजनिवासम्। एतस्मिन्नेव समये पत्रखण्डमेकं करे वहन् शिशुरेक: समाययौ सम्मुखे, पत्रञ्च तन्निभृतं निधाय निलीनोऽभूदितस्तत:। जॉनरो पत्रमिदमुदघाटयत्। आसील्लिखितम्- 'अद्य निशीथे भवेद्भवदुपर्याक्रमणम्। सर्वोऽपि च व्यवसायवस्तुसंघात: सन्दाह्येतं पावकेन। भाव्यमवहितेन भवता। कश्चिद् हितचिन्तक:। रो महोदय: पर्यकम्पत भयेन। स ह्यापणानां द्वाराणि दृढार्गलैर्दृढीचकार। प्रचुरपुरस्कारेण निजभृत्यानन्यानपि सहायकानद्य रात्रावानेतुं न्ययुङ्क्त्व नैपुण्येन। सशस्त्रान् परिचारकान् परित: प्राहरिककार्यं कर्तुमादिशन्महताऽवधानेन। यावच्छक्यमेवमनुष्ठाय निजरक्षोपायान् स हि साशङ्कं प्रत्यैक्षिष्ठ परिपन्थिनां पन्थानमागमनस्य।
उपातिष्ठतार्द्धरात्र:। सहसैव परित: कोलाहल: प्रसृत:-समाययुर्वैरिण इति। 'दीन-दीन इति दारुणदुर्वार: समश्रूयत सर्वत: संराव:। अङ्गरेजा: शस्त्राण्युत्तोल्य समनह्यन्त सर्वथा। सत्यं सत्यमकुर्वन्नाक्रमणं पशुबलेन मोहम्मदा:। 'रो साहब: तत्सहचराश्च महता साहसेन समयुण्यन्ताततायिभि:। किन्तु पर्यन्ते पर्यलभन्त ते पराभवम्, आसन्नपरिमिता: परिपन्थिन:। विजयगर्वितैररातिभि: सानन्दं बन्दीकृता गौराङ्गा: परतन्त्रतया पर्यालोकन्त परिलुण्ठनं निजनेत्राभ्याम्। विजयकोलाहलमाचरन्तो द्विषन्तो विपणीनामग्रत एव शुष्ककाष्ठान्याहरन्नितस्तत: पर्यदीप्यत पावकस्तस्मिन् काष्ठकूटे। रोमहाशयो निगडितहस्तपदतया विवशीकृतो निजनयनाभ्यामभ्यालोकिष्ट निजसर्वस्वस्य लुण्ठनं पावके परिदहनं च। शोकामर्षाभ्यामभ्यामर्दित: स नैतद्विलोकयितुमपारयत्, पर्यमीलयल्लोचने विवशम्।
इतो वह्निं प्रदीप्य द्विगुणीभूतमदा मोहम्मदा: प्रकामं पर्यतुष्यन् यदिदानीं न केवलं फिरङ्गिणां धन भवनाद्येव, अपि तु गौराङ्गाणाममीषामङ्गान्यपि प्रज्वलज्ज्वलने समर्प्य सर्वदार्थमेतेषां नाम नि:शेषीकरिष्याम:। गृहपरिसरे पावकप्रदानस्य पर्यशिष्यन्त पला: कतिचिदेव। एतस्मिन्नेव समये समुदतिष्ठद् दूर एव गगनमण्डलमागुञ्जयन् भयङ्करकोलाहलो यत्र 'हर हर महादेव इति दुर्मदो ध्वनि: परित: प्रासरत्परिसरे तस्मिन्। समभूवन् सर्वेऽपि चकिता:। व्यलोक्यत तैर्यत् नगरप्रान्तान्महाभयानका: पावकज्वाला: संस्पृशन्तीवान्तरिक्षं सर्वत:। आसीत्सा तामसी रात्रि:, अत एव प्रकाशेनानेन प्रादीप्यत निखिलं नगरं सर्वत:।
हरहरमहादेवेति दुर्मदध्वनिना विद्रुतहृदया यवना: पलायन्त पलाभ्यन्तर एव सर्वत:। हस्तपतितस्य फिरङ्गिणोऽपि पर्यनुसन्धानं नैतैरक्रियत परावर्त्य मुखम्। किन्तु तत: सर्वमपि सूरतनगरं परित: पर्यवेष्ट्यत पर्यलुण्ठ्यत पर्यज्वाल्यत ज्वालाभि: प्रज्वलज्ज्वलनस्य। दह्यमानान् गृहापणानालोकयन्त: प्रशान्तीभूतमदा: प्रचक्रुर्माहम्मदा दीनार्तरवं यतस्तत: सर्वतोऽपि।
पलायितेषु परिपन्थिषु प्राप्तविमोक्षो रो महोदय: शीघ्नमेव प्रायतिष्ट पावकशमनाय निजसहचराणां साहाय्येन। आसीदधुनापि तस्य भयं यदिदानीमपि नावलुण्ठेयुर्धनभवनादिकं दस्यवोऽमी। अस्मिन् भयङ्करे व्यतिकरे धीरो गम्भीरश्चाश्रयत वीररव:- 'जॉनरो महोदय: क्वास्ति? इति। स्वरोऽयं पूर्वपरिचित इव प्रतीतोऽभूद् रोममहोदयस्य। वदनं परावर्त्य विलोकितं तेन यन्महान्तं मेचकमश्वमारूढ: श्वेतोज्ज्वलदिव्यवसनो महाराष्ट्रवीर एक: स्थितोऽस्ति। मुखेऽस्य मधुरमन्दस्मितेन सह संविराजते राजतेजोऽप्यनुपमम्। अन्त:करणाद्धीरता गम्भीरता च, प्रत्येकमङ्गतश्च वज्रशरीरता वीरता चाऽनक्षरं समलक्ष्यत। विस्मयाविष्ट: साहव:- 'आम्, एष एवास्ति जनो जॉनरोनामा। किन्तु श्रीमन्तं केन परिचयेन समर्हयामि?
मधुरमहसीदश्वारोह: प्रावदच्च- ''एकवारमभूदावयो: समागमो नगरेऽस्मिन्, किन्तु तदा सोऽहमासं संसारत्यागी विरागी, साम्प्रतं चास्मि कोङ्कणमण्डलस्यैको राजाऽध्यारूढवाजी शिवाजी। मन्येऽहं न विस्मरेन्मत्समीरितां वाणीं तत्र भवान् यद्भारतीया न विस्मरन्त्युपकारमपकारं वा स्वस्य कृतं केनचिद्, विशेषतश्च महाराष्ट्रीया इति। अत एव प्रत्यक्षमालोकतां भवानालोके यत्सर्वस्य नगरस्य सर्वत: प्रलुण्ठने प्रज्वलने चाऽपि भवान् सर्वथा सुरक्षितस्तिष्ठतीति। यैराततायिभि: पूर्वापरमनवेक्ष्य, योगयायोग्यमसमीक्ष्य साधुसज्जनै: साकमत्याचार: प्रारभ्यत तस्य प्रतिशोधो मध्येरथ्यमद्य मयाऽनुष्ठित: संघोषितश्च भारतीयवीराणामनादिप्रचलितोऽनुभाव:। एवमपकारस्य प्रतीकारमारचय्य उपकारस्य कृते यत्किञ्चिदुपहार: सोऽयं साम्प्रतं मे प्रदेयोऽस्ति। स्वीक्रियताम् कृपया। इत्याभाष्य महामूल्यहीरकजटितमङ्गुलीयमेकं जानरोमहोदयाय सस्मितौदार्यं समार्पिपन्महासमरधीर: शिवराजवीर:।
विस्मयेन प्रमोदेन कार्तज्ञ्येन परितोषेण च प्रचुरं पुलकित: फिरङ्गपुङ्गव: सादरविनयमगृह्णादुपायनमिदम्, प्राणंसीच्च निजदेशपद्धत्या तमेनमत्यादरेण। सप्रमोदपुलकमयमभावयन्मनसि- अद्यावधि कर्णाभ्यामाकर्णित: सोऽयं महाराष्ट्रवीर: प्रत्यक्षमालक्षितोऽद्य नेत्राभ्यामिति सत्यमातृप्तोऽस्मि। शौर्ये यथायं वज्रपाणिस्तथा सुदृढाऽस्य नूनं 'वीरवाणीति सत्यं सत्यम्।
प्राणानां भाषा
'पद्मदल राजधानी सत्यं पद्मदलमिव। एषा हि प्राकृतिकसौन्दर्ये सर्वतोऽप्यतुल्याया: (महानद) कुल्यायास्तटे समवस्थिता। कुल्या च सेयं वङ्ग-कलिङ्गयोरङ्गसन्धात्री धात्रीव दूरदूरग्रामाणाम्। न च केवलमियं कुल्या कृषेरुपकारायैव, व्यवसाय-वाणिज्ययोरपि प्रभूतमुपयोगिनी सेयम्। महान्तोऽग्निपोता विशालास्तरणयोऽनेका नौकाश्च प्रवहन्त्यस्याम्। 'पद्मदल- भूम्यधिकारिणो नरेन्द्रचन्द्रस्य विलासतरणयो भ्रमणनौका: प्रवाहिकपोताश्चानेके राजधान्यास्तटे कुल्यायामाबद्धा: सन्ति।
ज्येष्ठो मास:। अस्तमुपगच्छता भास्वता प्रकामशीतलीकृतस्तटप्रदेश:। ततोऽपि प्रवहता मलयमरुता सर्वोऽप्युत्ताप: प्रशममुपनीत:। नरेन्द्रचन्द्रस्य प्रासादशिखरेषु विश्राम्यन्त्यो मार्तण्डमरीचयश्चामीकरकलशकान्तिभिरखिलमिमं प्रदेशं स्वर्णमयमापादयामासु:। राज्ञो विलासवापिकासु म्लानमुखा: कमलिन्यो मन्दमन्दमवनमयाञ्चक्रुर्नयननलिनानि। कालिदासभाषया परिणामरमणीयेऽस्मिन्दिवसे पद्मदलाधीशो नरेन्द्रचन्द्रो निर्जगाम बहिहर्म्यमालात:।
स्वच्छविशदं सूक्ष्मसुभगं गुल्फावलम्बि परिकुञ्चितं धौतम्। उपरि महामूल्यमतिमञ्जुलं कौशेय कमीजम्। कमलजैत्रयोर्नेत्रयो: सौवर्णमुपनेत्रम्, पादयो: कारुकार्यखचिते कोमलोपानहौ परिदधत् परिवार्यते स्म सवयोभिर्विहारसचिवै:।
विभवविशालाया हर्म्यमालायास्तिस्र: कक्ष्या:। मार्गमुभयतो हरितहरितानि दूर्वास्थलानि, अन्तरान्तरा जलयन्त्रसुभगानि कमलसरांसि। रथ्याया: पार्श्वद्वये कटिदघ्नभित्तिकल्पा निबिडघना वृक्षराजि:। दूराल्लक्ष्यवृक्षच्छटानां निष्कुटानां मध्यत: समुपागच्छन् मल्लिकामालतीपाटलादीनां बहल: परिमल:। यथैव प्रथमकक्ष्यायामुपागमन्नरेन्द्रस्तथैव स्वस्वास्थानमण्डपान्नि:सृत्य सविनयप्रणामपर्यस्ताञ्जलय: सचिवास्तमनुजग्मु: सम्भ्रमेण। करपरिगृहीतसेवोपकरणा राजपरिचारका: पङ्क्तिबन्धेनानुसस्रु: स्वामिनम्। यस्यां यस्यां कक्ष्यायामुपागमन्नरेश्वरस्त-स्यास्तस्या: सेवकसैनिका: खङ्गमुत्तोल्य दक्षिणकरेण प्रणोमुर्भूमिपतिम्। सस्मितवदनेन सेवकानभिनन्दयन् तृतीयकक्ष्याद्वारोपगतां विशालपरिखां सुभगसेतुना समुल्लङ्घयसमुपाग-च्छत्कुल्यातटं सपरिकर: पद्मदलेश्वर:।
तटमुपगतवत्येव राज्ञि धूमपोत- विलासतरणि-नौका-द्रोणिकोडुपादीनां सर्वेऽपि परिचालका: पङ्क्तिमाबध्य करशिर:स्पर्शेन सविभ्रममानेमुर्भूपालम्। राजा तु सुप्रसन्नदृष्ट्यैव सर्वान् परितोषयन् वैदेशिकप्रकारेण प्रसाधितां विहारतरिमारुह्य स्वकरे क्षेपणीं गृह्णन्निषसाद परिचालकासने। राज्ञो मनोरञ्जनायैव पालिता: प्रपुष्टभुजदण्डा नौकादण्डान्परिगृह्य पृष्ठवर्तिषु परिचालकासनेषु विहारसचिवा अपि निषेदु:। नाविका: पृथगवतस्थिरे। जले यथैव नृप-नौरनुधावेत्तया सह स्थले स्थले राज्ञ: सेवायामनुधावितुं सेवकसैनिका: शरीररक्षकाश्च बबन्धुर्निजपरिकरम्। नीरे नौश्चचाल तीरे तया सह सैनिका: पर्यधावन्।
इत: क्रोशाद्र्धे शक्तिपुरग्राम:। तत्र विश्वम्भरभट्टाचार्यस्य निवास:। दृष्टं तेन यत्कतिपयदिनेभ्यो नावमाधिरुह्य वायुसेवनार्थमित एव समागच्छति नृप:। अद्य किञ्चिद्विचार्य निजग्रामस्य सम्मुखे वेलातटोपरि स्थितोऽसौ नृपतिं प्रतीक्षते। तटे धावन्तोऽपि सैनिका: कियद्दूरमेव नौकया सह शक्नुवन्ति धावितुम्। दशदशमल्लै: प्रचण्डै: क्षेपणीदण्डैरभिहता तरणिर्विशिखवेगमभिधावति। तामेनामनुधावन्त: स्वल्प एवान्तरे पृष्ठगा भवन्ति नृपसैनिका:। तरणिस्त्वग्रेऽभिधावति।
यदा शक्तिपुरसम्मुखं प्राप तरणिस्तदा नृपनौकात: पृष्ठवर्तिनोऽभूवन्सैनिका:। विश्वम्भरो भूपतिप्रतीक्षायामासीदेव। नौकां कियद्दूरे दृष्ट्वैव स विचित्रप्रकारकमेकं मुखध्वनिं तारतरं चक्रे येन राज्ञोऽवधानं तत: समाकृष्टमभूत्। यथैव राजा तं विलोकयाञ्चक्रे तथैव स राजानमुद्दिश्य गगनेऽङ्गुल्या विलिलेख। जठरं प्रपीड्य हस्तेन मुखे भोजनचेष्टामिव चक्रे। ततो द्वावपि हस्तौ प्रकम्प्य निषेधमुद्रामिव प्रदर्शयामास।
राजा कुतुकेन निनिमेषमिदं ददर्श। शनै: क्षेपणीं दातुमादिशत्। परिवृत्त्य च दृष्टं यत्परिचारकसैनिकादूरे सन्ति। सम्प्रति नौ: शनै: प्रावहत्। विश्वम्भरो नौकाया: पृष्ठतो जठरं दर्शयन् सह पलायाञ्चक्रे। राजा यदा हि पृष्ठत: सैनिकानवलुलोके तदा पूर्वं विश्वम्भरो मुद्रामिमां दर्शयन् दृग्गोचरोऽभूत्। कुल्यातटेऽन्येऽपि यातायातं चक्रु :। विश्वम्भरस्य चेष्टामिमामालोकयन्तस्ते परिजहसु:। सम्प्रति तरणेर्गतिमन्दतमामालोक्य सैनिकास्त्वरितं दुद्रुवु:। समीपमागत्य स्पष्टं दृष्टं तैर्यदेकोऽपरिचितो राज्ञा साकमविनयमाचरति। राज्ञो भावजिज्ञासया विलोकयामासुस्तं प्रति सैनिका:। ददौ शिर:सङ्केतं नरपति:। सैनिका विश्वम्भरं परिवार्य परित: प्रजह्नु:। नौका च तत एव पद्मदलं पराववृते।
परिचारकैर्या मुद्रा विश्वम्भरस्यावलोकितास्तासामर्थावबोधने नासीत्तेषां विलम्ब:। तं दण्डैर्मुष्टिभिश्च प्रहरन्तस्ते भर्त्सयाञ्चक्रु:- 'कथं रे! अस्माकं महाराज: प्रजानां मुखं बलान्मुद्रयति? उदरं रिक्तीकृत्य ता: प्रपीडयति? अङ्गुल्या परलोकभयं दर्शयसि? पादौ दण्डैराहत्य हस्तौ च यष्टिमुखैश्चूर्णीकृत्य सैनिका: परावर्तन्त। वेदनया विह्वलो विश्वम्भरस्तत्रैव निपपात। सोऽयममङ्गलसंवादो विश्वम्भरगृहे प्राप। दीनस्याऽस्य पत्नी बालविधवां किशोरीं दुहितरं, बालौ द्वौ पुत्रौ चादाय रुदती त्वरितमुपागात्कुल्यातटे। अन्येऽपि ग्रामजना: समाययु:। आहतं विश्वम्भरमादाय ग्राममानिन्यु:। खट्वामधिशाय्य आहतस्थानेषु हरिद्रया चूर्णेन च प्रालिपन्। राज्ञो गुप्तचराश्छद्मवेषेणेतस्तत: संवादं जगृहु:।
ग्रामवासिनो नृशंसव्यवहारेणाऽनेन भृशं राज्ञे चुक्रुषु:, परं राज्ञ: प्रबलप्रतापेनाक्रान्ता न किमप्यशकन्कर्तुम्। राज्ञो विरोधापेक्षया ब्राह्मणस्य सेवा-साहाय्यमेव सममन्यन्त समुचितम्।
विश्वम्भर: सरल: सत्यो ब्राह्मण:। नाधिकमसौ विद्वान्। देवपूजां केवलं जानाति। शक्तिपुरग्रामात्क्रोशत्रयान्तराले रङ्गनगरम्। तत्र राज्यस्य विशालाक्षी देवी। एतस्या एव पूजको विश्वम्भर:। मुद्रात्रयं मासिकवेतनं, प्रत्यहं पादोनप्रस्थमितान् तण्डुलान् चत्वारि कदलीफलानि च प्राप्नोति पूजार्थं राज्यात्। गृहे भोक्तार: पञ्च मनुष्या:। कथञ्चिदतिकष्टेन निरवहत्। इतो विंशतिमासा व्यत्ययु:, न लब्धमनेन वेतनम्। पादोनप्रस्थमिता: शालय: केवलमाश्रय:। अवसरे लब्धे स्वयं, पत्नी चापि शारीरिकं परिश्रमं कुरुते, तथापि यथावन्नाभून्निर्वाह:। विश्वम्भरो वेतनप्राप्त्यर्थं वत्सरद्वयेऽस्मिन् प्रददौ विंशतिप्रार्थनापत्राणि परं न कश्चिदशृणोत्। इदानीमवसरं लब्ध्वा प्राणानां भाषया हृदयभावं प्रकटयदसौ राज्ञ: सम्मुखे। गगने अङ्गुल्या प्रक्षुद्य असूचयत्- 'लिखित्वा भवते सूचितवानस्मीति। उदरं प्रमद्र्य दर्शितवान् 'क्षुधया व्याकुलोऽस्मि। कपोलयोर्हस्तचेष्टा 'मुखे भोजनं वाञ्छामीति, हस्तौ प्रकम्प्य निषेधचेष्टया 'भवन्तं विहाय नान्यो ममाधर: इति सुस्पष्टमसूचयत्। हृदयस्पर्शिन्या हृदयभाषया सुस्फुटं प्रार्थनेऽपि राजा निजापमानं बुबुधे। सैनिका अर्थान्तरं विविदु:।
गुप्तचरै: सूचितं राज्ञे-शक्तिपुरे सन्ति राजविद्रोहिण:। तैर्विश्वम्भरं मुग्धं विदित्वा तद्द्वारा श्रीमत: सोऽयमवमानो विहित:। विश्वम्भरो विद्रोहिभिर्धनप्रलोभनाद्वशीकृत:। तत एव पारम्परिकं राजाश्रयं विगणितवान्।
दिनेषु गच्छत्सु विश्वम्भरस्याघातव्रण: पुरे, परं हृदयव्रणो दुष्पूर: समजायत। राज्यादाज्ञापत्रं प्राप्तम्- 'देवपूजायां नास्ति साम्प्रतं भवदपेक्षा राज्यस्य।
विजयिघण्टा
(१)
कलिङ्गदेशवासिभिर्धैर्येण सोऽयं समाकर्णित: सन्देशो यन्महतीं चमूं समाकर्षन् युवक: सम्राडशोकस्तानाचस्कन्द। किमिति कल्पितवानाक्रमणम्? शान्तदेशोपरि, निरपराध-मानवसङ्घोपरि, सम्राडशोक: प्रज्वलद्वह्निवर्षणाय तप्तलोहलम्बनाय च किमिति कठोरमाचचार विचारम्?
उत्तरम्-साम्राज्यवादस्य निर्निरोधप्रसाराय। मानवोऽयमीदृशो लोलुप: प्रमत्तो वा प्राणी यत्सन्तोषो वा प्रशान्तिर्वा न तस्य समीपमप्युपसर्पति। प्रत्येकनरे नरेश्वरताकामना निसर्गत: प्रबला। प्रत्येकनरेश्वरेप्यात्मन: परमेश्वरंमन्यता नितान्तमुत्सर्पिणी। स हि बलादितरान्मनुष्यानात्मानं परमेश्वरं मानयितुं विवशीकरोति। मन्ये मानवचर्यायामेव मदो जृम्भते। मदे एव च सत्यमनृतं वाऽस्ति। सत्ये अनृते एव च संसारस्य माया मोहो वा प्रबलायते। मायायां मोहे एव च विविधाकारा जगतो व्यतिकरा: क्रीडन्ति। एभ्यश्च मानवतामदसत्यानृतमायामोहम्यतिकरेभ्यो नास्त्येकोऽपि सुरक्षित:।
संसारस्यास्य मिथ्याभूतमेकमंशं कलिङ्गं सत्यं भावयित्वा महान् सम्राडयमशोकश्चकार तस्योपर्याक्रमणम्। मिथ्याभूतमिमं देशं सङ्कटे संप्रेक्ष्य सत्यमिति भावनया कलिङ्गदेशवासिभि: सोऽयं वक्षसि समालिङ्गित:। कथमिव? यथा वानरी मृतमपि शिशुं वक्षसा संवहति। ते हि परमं प्रबलस्य सम्राज: कालवाहिन्या लोहमासञ्जयितुम् मातृभूमेर्मर्यादामारक्षितुं च निबद्धवन्त: सुदृढं परिकरम्।
कलिङ्गदेशस्य कोणात्कोणात् युद्धं युद्धमिति प्रारेभे प्रबल: कोलाहल:। देशस्य बुद्धा युवका बालका महिलाश्चापि रणनिमन्त्रणे भागं ग्रहीतुमभूवन् सर्वत: सज्जा:। ये यत्किञ्चिदपि सङ्कल्पविकल्पमकल्पयन्नितस्तत:, प्राणानां ममता वा यान् समाकर्षत्पश्चात्पदं तान् कलिङ्गदेशस्य दार्शनिका: कवयश्च वीरोपदेशैरोजस्विभिश्छन्दोभिश्च निर्मितवन्तो नितान्तं मदोन्मत्तान् रणरसिकान्।
वैज्ञानिका ह्यनभिज्ञान् समबोधयन्- 'देहोऽयं क्षणभङ्गुर:। भये भूता: निर्भयतायां च निखिलेश्वरो भगवान्निवसति। प्रेतास्तिमिरमया: भगवाँश्च निर्भर: प्रकाश:। विना प्रकाशं यथा छाया: समाच्छन्ना भवन्ति तथा भगवत: प्रसङ्गमात्रेण भूतपिशाचा: पलायन्ते। कवय: समघोषयन्- 'उत्तिष्ठ, निष्ठुरमागृहाण शस्त्रम्। कलितकलिङ्गदेशवासिन् युवक! देशोपरि ते विदेशात्थिता दस्यवो राज्यमास्थापयितुमागच्छन्ति। अयमशोकोऽस्माकं कृते तथैव विदेशी यथा हूणा:। यो हि नि:सङ्गमानवस्य समाच्छिनत्ति स्वातन्त्र्यम्, अपि भवेत्सोऽयं स्वदेशवासी, समर्हणीयोऽयमार्यो वा?
कलिङ्गवासिवीरा:! धत्त धनुषि सायकम्। निर्भयं निबोधयत मागधमूर्खान् यन्न कालिङ्गा: शाका मूलका वा यान् पशवो नि:शङ्कमश्रीयुर्निर्भरं च जरयेयु:। ये हि व: परतन्त्रान् दासांश्च चिकीर्षन्ति तेषां जनकान् पालकांश्चापि निर्भरं निर्दलयत। परतन्त्रता निरय:, स्वतन्त्रता स्वर्ग:। दासता मृत्यु:, स्वच्छन्दता चिरममरता। अयि वीरा: वीरगर्जनया परितो ध्वनयत जनन्या जन्मभूमेर्विजयम्। दस्यूनिमान् लोहितेन स्नपयन्त: सर्वथा सम्बोधयत यद् भवद्भिस्तादृश्या मातु: स्तन्यमापीतं यस्य परिणामाद् भवदस्थीनि स्नायवश्च वज्राणीव!
किमासीदधुना! सर्वोऽपि कलिङ्ग: समालिङ्गदेकताम्। परितोऽपि मागधसेनामसौ समावेष्टितवान्। प्रारेभे नितान्तं तुमुलयुद्धम्।
(२)
समयेऽस्मिन् भारतवर्षम्, तस्यैकैकोऽपि प्रदेश:, स्वतन्त्रताया मूल्यं सम्यगवैति स्म। युद्धे तनं विसृजन्त: साम्प्रतमपि साम्प्रतमपि सम्मन्यन्ते वीरा:, किन्तु वीरगते: समादरस्तादृशो नास्ति साम्प्रतमस्मिन् देशे, यादृश: समभूत्तस्मिन् काले यस्य प्रभावादितिहासपत्त्रेष्वद्यावध्यपि गुणगानमक्षुण्णं समेधते। भवतु यत्किमपि। अशोकस्य मागधवीरा: कालिङ्गवीरेषु शलभपातमपतन्, किन्तु कीलितलोहलेखेव कालिङ्गवीरराजिरचला समवास्थित। अशोको विकटवह्निवर्षामकरोत्, मागधभटा: कालिङ्गानां शिरसि निशितनाराचवर्षणमकुर्वन् परं कलिङ्गवासिनो दृढतया निर्भयमतिष्ठन्, मन्ये हिमालय:। कति लक्षाणि कालिङ्गा देशभक्ता: स्वेष्टदेवस्य कृते मातृभूमे: पूजायै च चिराय समरशय्यामध्यशेरत। सहस्रसहस्राण्याततायिनो मागधभटा वीरगतिमवाप्नुवन् परमद्यापि सम्राडशोको नेदं स्थिरीकर्तुमशकद् यद्भीषणसमरेऽस्मिन् जयलक्ष्मी: कस्मिन्पक्षे विश्राम्येत्।
बहून्मासान् लोमहर्षणं लोहवर्षणं चेदं महायुद्धमचलत् किन्तु कलिङ्गदेशोपरि मानवती मागधसेना नात्मनो विजयपताकां प्रस्फोरयितुमपारयत्। 'समरेऽस्मिन् विजयाऽवाप्तेरत्यन्त-मावश्यकता सम्राणमन्त्रिमण्डलस्य सविधे मन्त्रणामकरोत्। 'कठिनमतिकठिनं धर्मावतार! प्रावददेको मन्त्री-पञ्चाशत्सहस्त्रकालिङ्गेषु समरशायिष्वपि न ते पश्चात्पदा भवितुमीहन्ते।
'सत्येमतद्देशस्य लोका वीरहृदया: सन्ति, मन्त्रिमहोदया:! अशोक: सत्यस्य रक्षामकरोत्- 'एवंवीरैरायोधने एव समरवसन्तोत्सवसुषमा विजृम्भते। अहह! मण्डलाग्राणां वर्णगोलका:, लोहितस्य यन्त्रजनानि, मुण्डानां भैरवगानं रुण्डानां ताण्डवतोलदानं चात्रैव गोचरीभवति। कालिङ्गानां सङ्ग्रामे मे प्रसीदतो बाहू। किन्तु सेयमभूद्वैरिणो गुणप्रशंसा, सम्प्रति निजदुर्गुणानां निन्दनमप्यावश्यकम्। 'एतावत्कालात् मौर्यमहासाम्राज्यस्य समवेता महाचमूरेकतमं क्षुद्रदेशं न पराजेतुमशक्नोदिति लज्जाजलनिमज्जनस्य कथा। प्रावादीदिमशोक:।
'सम्प्रति वयमधिकं स्थिरीभूय संघीभूय च योत्स्यामहे
'स्थिरीभूय चञ्चलीभूय वा, संघीभूय वियुक्तीभूय वा येन केनापि रूपेण कालिङ्गास्त इमे पराजेतव्या: स्यु:। अन्यथा समग्रोऽपि संसार: सम्मानेऽस्माकं निष्ठीवेत्। अहह सम्राडशोकस्य मागधी महासेना क्षुद्रस्यैकस्य देशस्य मुष्टिमेयेभ्यो मन्दमनुष्येभ्यो निर्भरं पराजीयत। पराजयादेवंविधान्मृत्युरेव वरम्।
(३)
'जयोऽस्तु महासम्राज:, वैशाल्या महापुरोहितेन विजयिनी सेयं मन्त्रघण्टा सानुकूलशकुनमभिप्रहिता। एतस्या: स्वनेऽभिगुञ्जति निश्चितस्त्रैलोक्येऽपि सम्राजो महाविजय: सादरमभिवाद्य जाङ्घिको वीरपुरुषाणां साहाय्येन स्थापयामास महामहतीमेकां विजयघण्टाम्। मन्त्रिभिर्मन्त्रयमाणस्य महासम्राजो नासीदस्योपरि दृष्टिरपि। स हि मानचित्रेण युद्धस्थले सैन्याक्रमणस्य मार्गसुविधां सर्वत: सम्बोध्य द्वितीयदिवसीयं सङ्ग्रामं निश्चिकाय सचिवै:।
द्वितीयेऽह्नि प्रातरेव मागधी सेना विद्युत्तेजसा प्रास्फुरत्कालिङ्गवीराणां मूर्द्धनि। समबध्यत महातुमुलम्। लोहेन लोहो मनुष्येण मनुष्य: समयुज्यत हिंसाभावेन। शोणितसरित: प्रावहन्। गगने मण्डलायन्ते स्म गृघ्नश्येनकङ्ककुलानि।
कालिङ्गा महावीरा: समयुध्यन्त प्राणपणेन समयुध्यन्त। न तै: किञ्चिदवशेषितं युद्धवीरतायाम्। पितामहश्चेत्समरे समपतत्तर्हि पिता समयुध्यत, पितरि चोपरते सुकुमारा: कुमारा: कलिङ्गानां साहसिकतां समसूचयन्। सोत्साहं खड्गपरिचालका बालका अपि मागधान्वीरानचर्वयन् लोहचणकान्नूनम्। किमधिकम्, कलिङ्गाभिजना वीराङ्गना अपि रणाङ्गने रोषारुणनयनाभ्यां विदहन्त्य: साम्राज्यवादिनोऽशोकस्य शासनाय सहस्रसहस्रपङ्क्तिभिरयुध्यन्त व्यमुञ्चन्त चोत्साहेन रणाङ्गने प्राणान्।
किन्तु हन्त! विधेर्विडम्बना, कलिङ्गोऽयमलभत वीरतापुरस्कारं पराजयस्वरूपे एव। तमपि तदा, यदा समग्रोऽपि देशो युद्धमहायुद्धै र्निर्धनो निर्जनोऽपि चैकथा समभवत्। अत एव तु वेतालनृत्यरङ्गे कलिङ्गेऽस्मिन् पिशाच इव पाशवप्रमोदेन प्रविशन् पाटलिपुत्रपति: सम्राडशोको मनसि शोकोच्छ्रयेण न जाने कीदृशेन पीड्यते स्म यदहर्दिवं दूयते स्म देहं संवहन्नपि। हन्त अशोकस्यापि शोकप्रसार:!
सर्वत: प्रथमं प्राङ्गणेषु कृषिक्षेत्रेषु च शवानां व्यलोकयत्सर्वत: प्रसृतं महान्तं राशिम्। कृषीवल: खलाभ्यन्तरे बुसानां धान्यानां च यथा महान्तं राशिमवपुञ्जयति तथा काल-कृषीवलो रणक्षेत्रेऽस्मिन् पुरुषार्थकृषिं विलूय शवशस्यमिदं राशिराशिरूपे सनाससञ्ज।
पानव्यसनी पुरुषो मदिरोपलम्भे विलम्बमवलोक्य यथा निर्भरं रुष्यति लोकं चाभिक्रुश्यति, परं मदोन्मत्त:, सन् तस्यैव पुरुषस्य चरणाववचुम्बति कामं भवेत्स हि गृहदास एव। एवमेव कलिङ्गपराजयपर्यन्तं तु तावत् प्रचण्डप्रलयं कररुद्रतां दधौ महासम्राडशोक:। परं प्रलयोपरामोत्तरं भुवनभयङ्कर: सोऽयं रुद्रतानुभावो विचारे सति कियन्महर्घ: संसिध्यतीति समक्षमक्षिभ्यां निरीक्ष्य कारुणिकोदारचरितस्याशोकस्यार्यहृदयमेकान्ततोऽकम्पत, नितान्तमद्रवत्।
नायं न्यबध्यत नवीनो महासमर: सम्राजा। मागधमहासाम्राज्यस्य गरुडध्वजं प्राणमिव करे संवहन्नयमशोको बहून्वारान् निर्विचिकित्सं विजहार हाहाकारपूर्णे रणाङ्गणे नूनम्। नैकान् वारानयमप्रतीकारैर्निजशस्त्रप्रहारै: पृथगभावयद्वैरिमस्तकानि कायेभ्य:। परं कलिङ्गवासिनामविरता वीरतालिपिर्वज्रोत्कीर्णेव समवर्तिष्ट सम्राजो हृदयपटले। समरविजयिना विलोकितं सम्राजा, यद् योऽयं कलिङ्गदेश: स्वर्गप्रदेश इव हरितभरित: सर्वत: श्रीसम्पन्नश्चासीत् स एव साम्प्रतं कान्तारस्य श्मशानस्य वा पूर्ण: प्रतिद्वन्द्वी समघटत्।
हन्त सर्वत: समरविजयिना समालोकितं सम्राजा कलिङ्गदेशस्य पङ्गून् प्राणिनो विहाय समवाप्रुवन् सर्वेऽपि वीरगतिम्! वृद्धा नियुद्धाङ्गणे वीरशय्यामध्यशयिषत। यूनामुपरि यूनां शवशरीराणि राशीकृतानीव निर्भरमसेवन्त तावत्समरशय्याम्। किमेतदन्यत्, प्रथमोद्भिन्नश्मश्रुरेरव: सुकुमारा: कुमारा अपि हस्तयोर्लोहमावहन्त: सन्ततमास्वपन्ति स्म लोहितशयनीये।
समरजयी सम्राडशोक: पराजिते कलिङ्गे किमलभत्? धनानि धान्यानि? नैव नैव। अपि सुन्दरीणां समूहो वीरहृदयस्याशोकस्य हस्तगतो भवेत्? नैव नैव। तर्हि कलिङ्गवासिन: समभूवन् बन्दिनो लक्षलक्षसंख्यायाम्? हन्त नेदमपि, वीरपुरुषा बन्दिभावात्पूर्वमेव सर्वतो विगतबन्धना भवन्ति बन्दिकारकै: पुरुषैरेव साकम्। ननु साम्राज्यशासनसामग्री संलब्धा भवेत् सम्मुखसमरे सम्राजा? हा हन्त नेदमपि नूनम्। न नाम जीवन्त: सन्दिशन्ति वीरभटा: परिभवसामग्रीमिव शासनसामग्रीमात्मन:। तर्हि किं लब्धं समरजये महासम्राजाऽशोकेन? अकाण्डहत्यामपयशश्च विहाय न किञ्चिदप्युपलब्धवान् समरेऽस्मिन् सम्राट्।
एतदतिरिक्तमपि यदि किञ्चिदुपलब्धं कलिङ्गेषु सम्राजा, तर्हि आम विधवा: शवानां राशि:। देशे सर्वतोऽप्यव्यवस्था। प्राणिषु वृद्धा मातर:, विकला विधवा:, विह्वला अबला:, सहस्रसहस्राणि, पङ्गव: खञ्जा: अन्धा: कुष्ठिनश्च।
विजयगर्वितस्याऽशोकस्य हृदयमकम्पत-हन्त तुच्छस्यैकस्य मे केवलमभिनिवेशस्य कृते लक्षलक्षप्राणिनामेवमभूदकाण्डहत्या। विफलस्य मे मनस्तरङ्गस्य कृते भगवत: सृष्टेरेकोऽयं भागो निरमूल्यत नूनमेवम्! विजयकीर्तिमता लब्ध: संवादोऽशोकेन यन्महासमरस्य समाप्तावपि कालस्योदरं नाद्यापि पूर्णतया पूर्णम्। अनेके रोगा: परित: प्रसृत्य युद्धावशिष्टान्मानवान् चौरानिव चतुर्दिक्षु विवशीकृत्यैकैकं व्यापादयन्ति! विवशान्प्राणिन: पशुमारं मारयन्ति!!
विजयकीर्तिमानशोक:, मानवोऽशोक:, सम्राडपि हृदयवानशोको विचारयितुमारेभे-हन्त अयं विजयो वा अकाण्डहत्याकाण्डो वा!.... विजय: सत्य: स:, येनाऽपरस्याऽपि मुखं प्रसादोत्फुल्लमालोक्येत। विजयिन: सन्ति ते, ये समरक्षेत्रेऽस्मिन् सस्मितवदना: शेरते निरपेक्षम्। विजयिन: सन्ति ते, यै: प्राणा: प्रदत्ता: परं पूर्वजानां प्रण-प्रणाशस्य न प्रेक्षित: प्रसङ्गोऽपि। अशोक! प्राणिप्रणाशपातकिन्नशोक! न त्वं विजयी! परं वातुल:। ईश्वरद्रोही, हृदयहीन:।... हृदयमासीत्तेषां ये क्षणभङ्गुरमङ्गमिदं समराङ्गणे विमुच्य वीरगत्या आदित्यान्तरालं भिन्दन्तोऽधिसन्तोषमगुर्नाकालयपर्यन्तम्। देशस्य कृते देहत्यागिनरते सर्वन्यासिनां संन्यासिनामप्यग्रपूज्या:। न तेषामासीद् धनस्य जनस्य निजसंहननस्यापि वा काचिन्ममता। आसंस्ते मुक्ता:। संसारे त एव धन्या धन्यैरुक्ता:, ये सन्ति नूनं मुक्ता:।
ते त्वाततायिन: पापिन: शीघ्ननाशिनश्च सन्ति ये परेषां परिचारकतया पापोदरं पूरयन्ति। 'अशोक! अशोक!! सम्राजो मस्तिष्कं विविधविचारैर्विभ्रान्तं व्यहरत्। 'त्वमस्मिन् युद्धे पराजितोऽभू:। यत्र हि विजयोत्सवदर्शनाय वीराभिमानी शत्रुर्न जीवितो भवेत्, सोऽयमपि विजयो नाम? पराजयो ह्यस्मिन् परित: परिक्रीडति।
'महाप्रभो! न्यायमन्त्रिणा निवेदितं-भवान् न भवेदधिकमुत्तेजितो विजयेनानेन।
'अशोक! नि:सन्देहम्। अशोक: समजल्पत्-'अयं नु नाम विजय:? अद्यं हि बुद्धमशोकेन यन् मृत्युना सह मानवानां महाप्रणय:।
'महादेव! श्रीमान् नि:सन्देहं महान्। निवेदितं दैवज्ञेन!
'महदत्र किञ्चिदपि नास्ति। गद्गदकण्ठेन प्रोक्तमशोकेन सम्राजा-'महानत्र विमोह:, महानत्रान्धकार:, महानत्र मायाऽऽडम्बर:।
'इयमेव वार्ता दीनबन्धो!- प्रोक्तं। मन्त्रिणा-'तथागतेनाऽपि समुपदिष्टा।
'महानत्र स एव यो महत्त्वात्सुरक्षितो भवेत्। महत्त्वमपि महान् रोग:-पादशोथ: कण्ठमालाप्रभृति:। विजयेनानेन विज्ञातं शान्ते रहस्यं मया। मन्त्रिमहोदय!
'आज्ञप्यतां देव!
'अद्यप्रभृति अशोकोऽयं परोपकारव्रती 'भिक्षु: सन् विश्वप्रेम्णा विश्वविजयस्य साधनां कुर्यात्।
'अनया अष्टधातुनिर्मितया विजयिघण्टया धर्मावतार! निवेदितं दैवज्ञेन-'भवान् देवलोकस्यापि विजयं शक्नुयात्कर्तुम्।
'दूरमपसारय घण्टामिमाम्। एतस्या उपरि प्राकृतभाषया युद्धाद्दूरीभावस्य विशेषादेशमुत्कीर्य, कुत्रचिद्दूरदेशे समुद्रस्य तटे, पर्वतस्य सन्निकटे वा सुरक्षितभावेन भूमौ निखान्यतामियम्।
'परं धर्मावतार! ज्योतिषिणा प्रोक्तम्- 'विजयघण्टात: साम्प्रतं मन्त्रबलं न पृथक्कर्तुंशक्यम्। यदा कदापि य: कोऽपि युद्धे घण्टाया एतस्या: साहाय्यं गृह्णीयादवश्यमसौ विजयी सम्पद्येत, यदि सेयं पातकेन केनचिदपवित्रीभावं न गच्छेत्।
अत एव तामिमां दूरदेशे, अगम्ये घोरारण्ये विनिधापयेर्यत्र न गन्तुं शक्नुयादेतदभिज्ञ: सहसा।
'एवमेव भवेद्धर्मावतार! प्रोक्तवान् विनतो ज्यौतिषिक:।
'किञ्च अशोक: सोत्तेजनमवादीत्- अमात्यवर! अद्यप्रभृति साम्राज्यस्य सर्वा अप्यनीकिन्यो निर्विशङ्कं भज्येरन्। युद्धकर्म, मृगयाधर्मश्च सर्वथा सर्वतो निरुध्यताम्। अद्यत: प्रभृति असेवितज्ञानाऽऽलोकोऽयमशोको ज्ञानोज्ज्वलेन प्रेम्णा समुज्ज्वलयेत् संसारमिमम्।
'नियुद्धमिदं राक्षसो धर्म:, प्रेमा च सोऽयं क्षेमाऽऽधायको देवधर्म:
'हे तथागत! हे मायेय! हे गौतम! दयां विधाय मामपि शुद्धं प्रबुद्धं निर्माहि देव!
भव्यभावैरभिभरितो मगधाधिपतिर्महासम्राडशोक: स्वात्मनि स्वात्मीयान् नानाविधानभावान्प्रत्यक्षमीक्षाञ्चक्रे। भयाभिभूत: सोऽयं निकाममकम्पत्, अभूदखिला रोमाञ्चिता तनु:।
कर्णश्चार्जुनश्च
[गाण्डीविन: काण्डै: प्रसभं निपोथितो महावीर: कर्णो यदा रणाङ्गणे नि:सहं न्यपतत्तदा महाभारतनाटकस्यास्य सूत्रधारो भगवान् श्रीकृष्ण: पार्थाय निभृतमसूचयद्यदयं कर्णस्ते ज्येष्ठो भ्राता। शोकविह्वलो धनञ्जय: कर्णस्य मस्तकमुत्सङ्गे निधाय सानुतापमिमं पर्यचरत्। अर्जुनाङ्कनिहितमौलि: कर्णो व्यालापीद्विपुलम्]
कर्ण:- (हस्तेन परामृश्य) कोऽयमस्ति? कस्याऽहं स्पर्शमनुभवामि? अपि दुर्योधन:? अवश्यमयं स्याद्दुर्योधन:। उपेहि बन्धो! हितकृत्ते कर्णस्त्वदर्थे नियुद्धवानयं जीवितान्तपर्यन्तम्। साम्प्रतमुपेत्य चिरकालाय तमिमं विसर्जय राजन्!
अर्जुन:- भ्रातर्नास्म्यहं दुर्योधन:। अहमस्मि पार्थ:, भवतो भ्राता, लघीयांस्तेऽनुज:।
कर्ण:- क: क:? पार्थ:? (निर्वर्ण्य) सत्यं सत्यमयं धनञ्जय एव त्वस्ति! किमिदं सखे! त्वदीयचिरशत्रु: सोऽयं मुमूर्षुरस्ति। आहत: शाहीन: प्रचुरं पराभूतश्चापतितोऽस्ति। किमितोऽधिकं सम्प्रति वाञ्छसि।
अर्जुन:- प्रिय भ्रात:! क्षमस्व सम्प्रति माम्। विहितवानहमपरिसीममपराधम्। भवान् मे सहोदर:, मम ज्येष्ठो भ्राता। ज्ञातवानहमिदानीमेवेदम्।
कर्ण:- सहोदर:, ज्येष्ठो भ्राता? शत्रून्प्रति कोऽयमभिनव: संव्यवहार:। अहमस्मि ते शत्रुस्त्वं च मे। अयमेवाऽवयो: सम्बन्ध:। किमहं भवतो ज्येष्ठो भ्राता? अपि सत्यमहं ते ज्येष्ठ: सहोदर:? अहह अद्यैवेदमाकर्णयामि। नेत: पूर्वं केनचिदप्यासूचितं यन्मम जननी भवतोऽपि माताऽस्ति। चिरद्वेषिणौ, चिरप्रतिद्वन्द्विनौ, चिरसपत्नौ च नकुलसर्पावेकस्मादेव गर्भात्समुत्पन्नौ? भ्रात: सोऽयं महान् भ्रम:, सोऽयं महान्प्रमादो विधातुरेव नूनम्। भवदीयश्चिरद्वेषी कर्णस्त्वदीयो ज्येष्ठो भ्राता भवेदिदं किं विधातुर्नास्ति महान्प्रमाद:? कर्णोऽयमधिरथस्य पुत्र:, इदमेवोचितम्, इदमेव सम्यक्। शत्रोर्हस्तेन निहतोऽस्मीत्येव विचार्य प्रचुरं मे पीडा। महती व्यथा, भूयान्क्लेश: पद्मावति। वृषकेतो! किं कोऽपि नास्ति?
अर्जुन:- भ्रातरलमलं शोकावेगेन! अवलम्बस्व धैर्यम्, उपाश्रय शान्तिम्।
कर्ण:- शान्तिमहमाश्रयिष्यामि, नैतदर्थमनुचिन्ते:। पश्य पुरत:, सोऽयं मम चिराराध्य:, पिता मे भगवान् भानुरस्तोन्मुखमभिगच्छति। तात! तात! साधयामि साम्प्रतमहम्। भविष्यामि चिराय शान्त:। भ्रात:, प्रियभ्रात: एषोऽहं गच्छामि सर्वदार्थम्। नेदानीमवस्थास्यते ते प्रतिद्वन्द्व:। भवतो दर्प:, तव शौर्यम्, त्वदीयं यश: सर्वदाऽक्षुण्णं भविष्यति। त्वमिदानीमद्वितीयवीरो व्यपदेक्ष्यसे, परम् नैव नैव। नेत: परमहममर्षमवलम्बिष्ये वाश्रयिष्यामि विद्वेषम्। न च सम्प्रति हिंसाया अपि भावो मयि। अहमस्मि ते ज्येष्ठो भ्राता, प्रददामि तुभ्यमहमाशिष: विदधामि ते कल्याणकामनाम्। एष समीपस्थो मे मृत्यु:, निकटगता चिराय शान्ति:। निश्चितं प्रत्येमि, नेत: परमहमधिकमवस्थास्ये। सम्प्रति द्वे वार्ते कथयितुमभिलष्यामि, केवलं द्वे वार्ते। अपि श्रोष्यसि मे हृदयवेदनाया द्वे वार्ते?
अर्जुन:- श्रोष्यामि, तव सर्वामेव सङ्कथामवधानेन श्रोष्यामि। हन्त ! केन तदिदमवगतं पुरा यदन्तकाले सेयं व्यथा, प्रसह्य सहनीया भवेत्।
कर्ण:- अहो भ्रात:! सत्यमियमसह्या वेदना अमर्षणीयं दु:खम्। अद्यपर्यन्तमिदमहमात्मनो हृदये निभृतमगोपयम्। पार्थ, मम भ्रात:! अद्य तुभ्यमेवाहमात्मनो हृदय वेदनामावेदयामि। अद्यावधि नेमामहमभ्यधां कस्मैचिदपि। पार्थ विचारय चिरम् बाल्यमारभ्यैव कियन्तमपमानं कियतीमवज्ञां कियत्परिमाणामवहेलनां कियन्तं च तिरस्कारमहमभिमर्षितवानस्मि। समग्रादपि संसारादपमानं विहाय नान्यन्मया किञ्चिदुपलब्धम्। पदे पदे लज्जामवहम्, क्षणे क्षणे विफलतामहमात्मनोऽन्वभवम्। मम जन्मना मे जनन्येव लज्जामविन्दत्, प्राक्षिपत्सा मामवज्ञया। जन्मत: प्रभृत्येव मातुस्तिरस्कारमहमसहिषि। किशोरावस्थायां यदा मे हृदि वीरत्वमजागस्तदाप्तये यदा मे वाञ्छा समुदगात्तदाऽहमशिक्षार्थमभ्यसरं गुरुं द्रोणम् प्रार्थये च धनुर्वेदशिक्षाम्। किन्तु राधासुताय नेदमन्वजानात गुरु:। सावमान: सोऽहं विफलं परावर्तिषि। तत: शरणमहमगां जामदग्न्यम्। असेविषि तं सर्वात्मना, अलप्सि तत: साङ्गामशिक्षाम्। किन्तु यथैव स मां क्षत्रियं पर्यजानात्परिशशाप घोरं कोपेन। शापोऽपि कीदृक्? 'प्रतिद्वन्द्विन: सम्मुखोपगमन एव सर्वमिदं बाणबालं भवेत् विफलम्। स्मरति तद्दिनं भवान् यदा हि प्रदास्यत्यपरीक्षां वीरसभासमक्षे, अहं च ते प्रतिद्वन्द्वो भूत्वा समागमिष्यामि। प्रदर्शयिष्यामि चात्मन: कुशलतामहमपि सर्वसमक्षे। किन्त्वहमधिरथसुत इति लोका: सोपहासमपामन्यन्त माम्। सुयोधनस्तस्मिन् समये ह्यवश्यमकार्षीन्निजगुणैर्गौरवान्वितं माम्, किन्तु यथैवाऽहमात्मनोऽकौशलमसाधारणरूपेण प्रकटयितुमुदयच्छं तथैव सभायामायात्संवादो यन्महादेव्या: कुन्त्या: समभूदकस्मादेव पीडेति। अभज्यत सभया सह समग्राऽपि ममाशा। अभून्महान् क्षोभ:, समभूद् घोरा व्यथा। अद्यापि समाजस्येममविचारमन्यायमदूरदर्शितामगुणज्ञतां च स्मारं स्मारं प्रज्वलत्यन्तरात्मा मे।
अर्जुन:- भ्रात: मैवं स्मार्षीरतीतं दु:खम्। स्वयमहमपत्रये तेन कर्मणा।
कर्ण:- अतीतं दु:खं त्ववश्यं व्यतीतम् किन्तु हृदयस्य व्यथा सेयं चिराय कीलिता हृदये। मया सदैव निजभाग्येन सह युद्धमाचीर्णम्, किन्त्वन्ते सफलाऽभूदसफलता पराजितश्चाहम्। हन्त मे दु:खगाथा साम्प्रतमपि न समाप्यते, सम्प्रत्यपि बहुतरं श्रोतव्यम्। अनुभूतं मया भूयस्तरां निजजीवने। समभूद्यदा द्रौपद्या: स्वयंवरसमारोहो न प्राभूत्तदा कोऽपि क्षत्रियाऽङ्कुरो लक्ष्यभेदं कर्तुम्। सदर्पमहमुदस्थां लक्ष्यभेदाय। किन्तु समगादीत्तदा द्रौपदी-'नाहमधिरथसुतं वृणीयाम्। अवमानेन लाञ्छनया च मृतप्राय: सोऽहं परावर्तिषि नतमस्तकम्। आशा मे विफला, शक्तिर्मे निरर्था कामना मे व्यर्थासीत्। पञ्जरबद्ध: शार्दूल इव मनोऽमर्षेण पुटपाकमसहिषि। दुर्दान्तो युवाऽपि सिंहो बन्धनपारवश्येन प्रत्यक्षमपकारिणं पश्यन्नपि किञ्चित्कर्तुं यथा प्रभवेत्तथाऽहम-खिलमवमानमगोपयं मनस्येव।
अर्जुन:- भ्रातरलं परितापेन। मनुष्योऽयं विवशो भागधेयस्य, क्रीडनकं नियते:।
कर्ण:- अद्याहं प्रातरेव मानसे दृढतरं प्रत्यज्ञासिषि- चिरशत्रोर्धनञ्जयस्याऽद्य दर्पमवश्यमहं चूर्णयेयम्, निहन्यामद्य तमहं निश्चितम्। अद्य कर्णस्य जयघोषेण भवेन्मुखरिता समग्रापि सेयं वसुन्धरा। तदैव दृष्टं मया यत्कुन्ती सम्मुखेऽवस्थिता। सा ह्यवाङ्मुखी व्यथितहृदयेन मामसूचयद्यदहं तस्या: सुत:। क्षणमात्रे तिमिरमखिलमनश्यत्। उदपद्यत हर्षश्च विषादश्च मामके हृदये। शिथिलाऽभून्मे दृढा प्रतिज्ञा। पन्नग इव मन्त्र निबद्ध: स्तम्भित इव सोऽहमभूवं सम्मुखो रणभूमे:। अयाचत तदैव भिक्षां भूसुर एक:। यदा चाहं तदर्थनामूर्यकार्षं तदा ब्राह्मणोसौ मम जीवनरक्षाकवचं कवचकुण्डले चैवाभ्यार्थयत्। समार्पिपमहं कुण्डले कवचं च नि:शब्दम्, व्यसर्जयं च तेन सहैव जीवनस्य चाऽप्यन्तिमामाशाम्। तथापि मे शक्तिरासीत्प्रचण्डा। त्वया स्वयमेव मे प्रताप: समालक्षित:। कीदृशी दुर्धर्षा मे शक्तिरमोघं च मे वीर्यं कियदिति स्वयमनुभूतवान् भवान्। परं स्यन्दनस्य मे चक्रमवास्रसद् भूमौ। न्यपतत्पञ्जरे पञ्चास्य:।
हन्त जन्मारभ्य विलोकितवानहमेतादृशीमेव विफलताम्। स्वयमहं विरञ्चेरभिशाप:। जीवनं मे कीर्तिहीनं निष्फलमेव व्यत्यगात्। पुत्र: सन् मात्रा परित्यक्त:, शिष्य: सन् गुरुणा तिरस्कृत:, वीर: सन् ख्यात्या विरहित:, शक्तिशाली सन् विजयाद्वञ्चितोऽभूवम्। नभसि समुदितो धूमकेतुरिव प्रकाशं प्राप्यापि निष्फल एवाहम्। अयि भ्रातस्तवास्ति निजवंशोपर्यहङ्कार:, जनन्या: स्नेहोपर्यधिकार:। प्राप्तवान् भवान् सर्वत्र यश:, अर्जितवान् भवान् सर्वतो विजयम्। अवश्यमहं ज्येष्ठ: किन्तु न कुत्रापि श्रेष्ठ:। लुप्येत मे नामापि किन्तु नास्य कृते मे लेशतोऽपि खेद:। अन्तिमस्त्वत्तोऽयमेव मेऽनुरोधो यन्मदीयामिमां लाञ्छनां मामकं चेममवमानं मामकीनां चेमां व्यथां न जातुचिद्धृदयपटादपमाक्ष्यसि मदीयो भ्रातेति विभाव्य दास्यसि मे मानसे स्थानम्। हन्त मानववर्गे यन्न निष्पन्नं सम्पद्येत तत्स्वर्गे। आवां भ्रातरौ भूत्वा निवसेव देवलोके। नान्यदहं वाञ्छामि गच्छामि साम्प्रतं गन्तव्ये लोके। तुभ्यमहमाशिष: प्रददामि निरामय: सर्वदा सुखी निवसे:।