सत्यो बालचर:
(१)
श्रेष्ठी कुवेरगुप्तो न केवलं लोकप्रसिद्ध्यैव 'महाजन:, अपि तु सत्यं सत्यमेव महाजन:। नगरस्याबालवृद्धं तन्नाम विख्यातमासीत्। अनाथानां विधवानां च कृते स हि जीवनस्याऽऽधार एवाभूत्। आसीदमुष्य सुस्थिरा पारम्परिकी सम्पत्ति:। कृषिकार्यादपि प्रतिवर्षं प्रभूतमलभ्यत धनम्। पञ्चसु वर्षेषु त्रयो ग्रामा: स्वयमेतेनाऽक्रीयन्त। प्राचलच्चतुर्थस्यापि ग्रामस्य चर्चा सङ्क्रयणाय। श्रेष्ठिन: पूर्वजेषु प्रावर्तत परम्परागत: कुसीदमेव, किन्तु नासीदस्य मनोरुचिस्तत्र। एष हि व्यापारमेवाऽभिरोचयामास।
श्रेष्ठिन: कुबेरगुप्तस्य षोडशसहस्ररूप्यकाणि प्रेषयितव्यान्यासन्मोहमयीम्। अत एव स प्रधानकर्मचारिणमाह्वयत्।
श्रेष्ठी.- वसुगुप्त! श्वस्तन: कियान् रूप्यकराशिर्भवत्समीपे साम्प्रतम्? अशीतिसहस्रमुद्राणां प्रबन्ध: साम्प्रतमेव मे आवश्यक:। किन्तु षोडशसहस्रमुद्रास्तु सम्प्रत्येवाऽपेक्ष्यन्ते, येन हि कोषद्वारा ता: प्रेष्येरन्मोहमयीम्।
कर्मचारी सहस्रसहस्रमुद्राणां षोडश शुल्कपत्राणि श्रेष्ठिने समार्पिपत्।
वाजिरथमारुह्य प्रातिष्ठत कोषगृहं श्रेष्ठी। मार्गे प्रचलन्त्यासीदतिवेगेनाऽश्वराकटी। किन्त्वश्रूयत मध्येमार्गं महान् कोलाहल:। श्रेष्ठी समपृच्छत्सूतम्-'कोऽयमकाण्डे कलकल:? किमेतत्सङ्घटितम्? स्वयमपि चोत्थाय वातायनादपश्यत्। शकटिचालक: प्रत्यवदत्-'न किञ्चित् स्वामिन्! विद्यालयस्य बालकेभ्य: पानीयादिपानाय सोऽयमवकाशावसर:।
स्वल्पेनैव कालेन प्राप धनागारं शकटि:। श्रेष्ठी समुत्तीर्य प्राविशत्प्रकोष्ठकं प्रबन्धकर्तु:। वेत्रासनादुत्थाय प्रबन्धक: श्रेष्ठिनश्चकार स्वागतम् सहर्षं चाऽमर्द्दयत्करम्। तत: सादरमप्राक्षीत्-'कथयत का भवतामाज्ञा?
''नाधिकं कार्यम्, किञ्चिद्धनं मोहमयीं प्रेषयेयम्।
''सम्यक्, समर्प्यतां मह्यं येन प्रेषयामि सङ्ग्राहकस्य निकटे, सूचनपत्रमिदमधुनैव निर्मीयते श्रेष्ठिमहोदय: शुल्कपत्रग्रहणाय प्रावेशयत्परिधानीयपार्श्वपुटे हस्तम्, किन्तु दृष्टं नैकमपि तत्र पत्रम्। नासौ किञ्चिदप्यनुमातुमपारयद्यत् राशीकृतानां शुल्कपत्राणां पुञ्ज: कुत्रायं
विगत इति। अधीर: सन्नयं वारंवारमपश्यत्परिधानीयपुटम्। किन्तु सर्वं मुधा, नासीत्तत्र पत्राणां सम्पुटोऽसौ। अतिरभसेन समयासीच्छकटेरपि निकटे। व्यलोकयदितस्तो मार्गे। किन्तु नालभ्यत शुल्कपत्राणां पुटक:। अपृच्छदयं शकटिचालकमपि भूयसा।
निराश: सन्कुबेरगुप्त: स्वाऽऽसनमग्रहीत्। अतितमामसमञ्जसव्यतिकरे निपतितो यावदयं भावयति तावदेव कोषगृहस्य प्रबन्धकर्ता समागत्याऽप्राक्षीत्-'कथयत, कियतां रूप्यकाणां सूचनापत्रमालिखेयम्? अपि निवासभवनान् मुद्राणामानयनं व्यस्मार्षीद्भवान्?
श्रेष्ठी.- नैवम्! मुद्राणामानयनं न व्यस्मार्षम्। अवश्यमहमानैषम्। शुल्कपत्राणां पुटको मन्ये मार्गे क्वापि न्यपप्तत्।
श्रुत्वैवेदं प्रबन्धकमहाशयो नीरव-निस्तब्धमतिष्ठत्। नासीदस्य सविधे वक्तुं किञ्चिद्वाक्यम्। पुररक्षाविभागेपथि पत्राणां निपतनस्य प्राहीयत सूचना। संवादपत्रेषु अन्वेषण-कर्त्रे पारितोषिकप्रदानस्याऽक्रियत घोषणा। द्वौ भृत्यौ मार्गे गवेषयितुं प्राहीयेताम्। यौ हि गृहं यावत् गतौ प्रत्यागतौ च। मार्गे बहुधा इतस्ततो गवेषितम्, पृष्टा: सर्वेऽपि मार्गगामिन:, अन्विष्टा: सर्वेऽप्यापणस्थायिन:; किन्तु सर्वोऽप्ययं परिश्रमो वृथाऽभूत्। नाऽवाप्यत धनपत्राणामेषां कश्चिदपि संवाद:।
(२)
श्रेष्ठी कुबेरगुप्तो गच्छति स्म प्रत्यहं वायुसेवनाय। अद्य प्रधानप्रबन्धकोऽपि सहाऽऽसीत्। आसीन्निदाघस्य काल:। प्रवहति स्म शीतलो वायु:। विहगानां कलरवा आकर्षन्ति स्म मानसं शृण्वताम्। कोकिलानां कुहूध्वनिर्मयूराणां केकाश्च श्रवणीया एवासन्। आम्रमञ्जरीणां दूरविसारी गन्धो मदयति स्म मानसं मानुषाणाम्। अभूदतिमनोहरं दृश्यम्। किन्तु नैतद्रोचते स्म किमपि कुबेरदत्ताय। विमनस्क: स शीघ्नमेव परावर्तिष्ट भवनम्। निपतितानां मुद्राणामद्य किल तृतीयो दिवस:।
विमनस्कावस्थायां परावर्तमान आसीत् सदनं श्रेष्ठिमहोदय:। बालविद्यालयस्याग्रत: प्रावर्तत गन्तुं शकटि:। स्मृतिपथमारोहत्कुबेरदत्तस्य पूर्वदिनवृत्तं यत्-बालकानां कलकलध्वनिमाकर्ण्य स हि निजस्थानादुत्तिष्ठतिपुरा। शकटेर्वातायनाच्चालोकयद्बहिर्वृत्तम्। एकैकशस्तदिदं सर्वं स्मृतिगोचरमभूत्तस्य। स हि वातायनाद्बहिर्विलोकनायाऽकुप्यद् भूरि! धनापगमे स ह्यात्मन एव दोषमभावयत्-यद्यहं वृथैव बहिर्न व्यलोकयिष्यं तर्हि न प्रापतिष्यंस्तानि शुल्कपत्राणि। शनै: शनै: सर्वापि तद्दिनघटना श्रेष्ठिनश्चक्षुषोरभिमुखमनृत्यत्। आसीदेवंविधेष्वेव
विचारेषु निमग्नोऽसौ। सवेगं प्रवहन्त्यासीत् शकटि:। अश्रूयत कस्याऽप्याह्वानशब्द:। शकटिवातायनान्मुखमपसार्य विलोकितं श्रेष्ठिना, नवदशवार्षिक: कश्चिद् बालक: सवेगं धावमानो मामनुसरतीति।
रथमवस्थापयितुमादिक्षत्कुबेरदत्त:। अचिरादेव दीर्घं नि:श्वसन् समुपातिष्ठत्तत्र बालक: अप्राक्षीच्च स हि सूतम्-'किमयं श्रेष्ठिन: कुबेरदत्तमहोदयस्य रथ:?
सूत:-आम्। बालक:-उद्घाटय शकटिद्वारम्, एषोऽहं श्रेष्ठिना सङ्गच्छेय।
श्रेष्ठिमहोदयो निजं नामधेयमाकर्ण्यैव समुदघाटयन् द्वारम्। प्राविक्षदभ्यन्तरम् बालक:। आसीत्तस्य सुप्रसन्ना मुखश्री: तथाप्यलक्ष्यत वदन्ते गाम्भीर्यम्। मुग्धमधुराकृति: स हि शोभते स्म बालचरवेषे।
पत्रेण परिवेष्टितमेकतमं पुटकं स हि नमस्कृत्य समर्पितवान् श्रेष्ठिनो हस्ते। आश्चर्यचकित: श्रेष्ठी प्रोदघाटयत्तदिदम्। प्रधानकर्मचारिणोऽप्यवधानमासीत्पुटकेऽस्मिन्नेव संलग्नम्। अभूदुद्घाटितं तदेतत्पुटकम्। दृष्टं यदेतस्मिन् सन्ति शुल्कपत्राणि। परिगणितान्य-भूवंस्तानि। आसन्नमूनि संख्यायां पूर्णानि षोडश। भ्रमनिराकरणार्थं पुन: पर्यगणयत्तानि श्रेष्ठिमहोदय:। तन्मध्यगतं श्रेष्ठिकरलिखितमेकं सूचनापत्रमप्यासीद्यत्र तस्य नामाप्यभूल्लिखितम्। तदेतदवलोक्यैव चकितमभूच्चेत: श्रेष्ठिमहाभागस्य। स हि बहून् वारानुद्वर्त्य तान्येतानि पत्राणि ससम्भ्रमाश्चर्यमालोकयत्। नासीत्परिसीमा श्रेष्ठिमहोदयस्यान्त:करणे कौतूहलस्य च हर्षस्य च। सम्प्रति विस्मयपूर्णे तस्य नयने बालकमालोकयितुमुत्कण्ठिते अभूताम्, परं नासीत्सम्मुखे कोऽपि। कर्मचारिणमप्राक्षीत् श्रेष्ठी, किन्तु तस्याऽप्यवधानं पुटकनिलीनमभूत्। अत एव नासावशक्नोत्किमपि वराको बोधयितुम्। शकटे: पर्यन्ततो दूरदूरं यावदन्वैष्यत परं नासौ बालक: पुनरालोक्यत। शकटिवाहकोऽप्यन्वेष्टुमितस्तत: प्राहीयत परं न प्राप्यत बालकस्यास्य सन्धानम्।
(३)
अभूद्दिवसस्य तृतीय: प्रहर:। अत्याचारिण: शासनमिव क्रमशो मन्दतामया-सीत्तिग्मरश्मेस्तेज: तथापि तप्तो वायुर्न व्यरंसीदधुनापि। उष्णोष्णास्तस्याऽऽवर्ता: प्लुष्यन्ति मुखमिदानीमपि। अस्मिन्नेव समये नवदशवार्षिक एको बालको विद्यालयद्वाराद्बहिरभवत्। प्राचालीच्चासौ प्रशस्तेन घण्टापथेन। यथैवायमुपशतान्युल्लङ्घयति पदानि तावदेवाऽस्य चरणं निपपात पत्रप्रावृते पुञ्जीकृतपत्रसम्पुटक एकस्मिन्। मार्गगमनं परित्यज्य स ह्यतिष्ठत्किञ्चित्। परामृष्टवांश्च पदादेव पत्रपुटकं तत् प्रतीयते स्म गुरुकमिदम्। अवनतो भूत्वा सावधानमिदमालोकयामास। अभूदस्य किञ्चित्सन्देह:। अत एव पत्रपुटकमिदमाददौ।
अतित्वरितपदै: प्राप बालको गेहम्। यत्किञ्चिद् भुक्तवानयम्। सहाध्यायिन: क्रीडार्थमिमं बहिर्नेतुमैच्छन्, परं न जगाम सोऽयम्। न मे प्रकृति: सुस्थेति विसर्जितवान्सर्वानेतान्! अभूत् सन्ध्या। भगवान् दिवाकरो विश्रमाय प्रायासील्लोकान्तरम्। प्रासरत्परितस्तमिस्रम्। दीपं प्रज्वाल्य सोऽयमध्ययनाय स्थित:, परं नाऽभून्मनोयोग:। उत्थाय सोऽयं परिधानीयपार्श्वसम्पुट-कात्तत्पत्रपुटकं बहिश्चकार। उद्घाटयत्तस्य बन्धनम्। एतावतैव प्रकोष्ठकस्य द्वारबहिर्भागे अश्रूयत पदध्वनिरिव कस्यचित्। अत एव साध्वसमापन्न: सोऽयं पुस्तकेषु गोपयामास पुटकमिदम्। परमयमेतस्याऽऽसीद्भ्रम एव केवलम्, नागच्छत्कोऽपि। पुनर्जग्राह सोऽयं पत्रपुटकमिदम्। तन्मध्यत: सोऽयमेकमेकं कृत्वा गणयामास षोडशपत्राणि। तेषामेकतमद् शुल्कपत्रं दीपकस्याभिमुखमानीय व्यलोकयत्सावधानम्। अहह न दशानाम्, न पञ्चाशत:, नापि वा शतस्य ,अपि तु तदेतत् सहस्रमुद्राणां शुल्कपत्रम्!!
किं सर्वाण्येवंविधान्येव पत्राणि? स ह्येकैकं सर्वाण्येव विलोकयामास पत्राणि। ज्ञातमनेन यदयं षोडशसहस्रमुद्राणां महान् निधि:। जजागाराऽस्य हृदये लालसा। प्रमदेन चानृत्यन्मनोमयूर:। व्यचारयन्मनसि- किमेषामहं करिष्यामि, कुत्र च निधास्यामि। मत्समीपे यदि च कश्चित्पश्येत्तर्हि चौर्येणानीतानीत्यवश्यं ब्रूयात्। अतीव सङ्कटमिदमापतेत्, सर्वथा च दुर्यश: प्रसरेत्। तर्हि कस्यचिदन्यस्य समीपे निदध्याम्? किन्तु लोभाक्रान्त: स यदि न प्रत्यर्पयेत् त्तर्हि किमहं कुर्याम्? मन्ये, एतदेवोत्तमं यदिमानि रूप्यकाणि मातु: सविधे स्थापयेयम्, भृशमनुरुन्ध्यां च तदिदं रहस्यं गोपयितुम्। किन्तु नेदं सा सम्मन्येत्, अवश्यमिदं विदितं स्यात्तातचरणानाम्। तत: किं तातचरणेभ्य एव समर्पयेयम्? का वा हानि:?
सर्वं सत्यमहं निवेदयेयम्। ततस्ते कथं वा प्रतिषिध्येयु:, अवश्यमिमे निभृतं गोपयेयु:, अहं मुक्त: स्यां सर्वेभ्य: सङ्कटेभ्य:। प्रावेशिकपरीक्षा- (एन्ट्रेन्स) पर्यन्तं मां ते पाठयेयुरिति स्वाभिप्रायं प्राकाशयन्मातुरन्तिके। इदानीमहमनुरोधं विदध्यां यद् बी.ए. परीक्षां यावदध्यापयेयुर्मामिति।
व्यत्यगाद्रात्रेरर्धम्। अवाद्यन्त घटिकाया द्वादशटङ्कारा:, किन्तु नैतदासीद्विदितं विचारमग्नस्यास्य। अन्ते तु स्वयं निद्रादेव्येव तमेनं संवेष्टुं विवशमकार्षीत्, किन्तु नाभूद्रात्रौ निर्भरं निद्रा। बहून् वारानयं मध्ये प्रबुद्ध: शयितश्च। अभूत्प्रभातम्। रात्रेर्निश्चयानुसारं पित्रेधनसमर्पणमसौ निश्चिकाय। उदतिष्ठत्स्वासनात्। जग्राह करे शुल्कपत्राणि। परमस्मिन्नेव क्षणे विचार एक: समुपस्थाय निरुरोध तमेतम्। अपतदस्य दृष्टि: सम्मुखभित्तौ। अत्र हि पत्रारूढा बालचराणां नियमावलिर्लम्बते स्म सम्मुख एव। एतत्पत्रगतानामक्षरपङ्क्ती-नामभ्यन्तरादेका पङ्क्ति: पूर्वतो द्विगुणस्थूलैरक्षरैर्लिखितेव तच्चक्षुषोरग्रे साम्प्रतं समदृश्यत। अभूदियं तस्य हृदये वज्रोत्कीर्णेव। अकम्पत हन्त हस्तद्वयम्। अपतच्च भूमौ शुल्कपत्रपुटकमिदम्।
साम्प्रतमसमञ्जससङ्कटेऽसावपप्तत् आसीदेकतो लोभस्तर्ह्यपरतस्त्याग:। स हि सावधानतया शुल्कपत्रसम्पुटकमादाय पुनरधितष्ठौ निजस्थानम्। पूर्वकल्पित: सर्वोऽपि विचारसौधो भूमिसादभवत्। हन्त न जाने, कस्य वा वराकस्य तानीमानि शुल्कपत्राणि? मम यावानानन्दस्तदपेक्षया शतगुणितं तस्य दु:खं चिन्ता च भवेत्। अन्वेषणप्रयत्नेऽपि च न तेन काचिन्न्यूनता कृता स्यात्। एतावद्धनं हारयित्वा किं कश्चिदवस्थातुं शक्नुयान्निश्चेष्ट:? परं कोऽत्र ममापराध:? न मया स्तेयमाचरितं न च बलादपहृतं कस्माच्चित्। एतानि हि मया मार्गे पतितान्यवाप्तानि। एवं तर्हि निभृतमेतेषां गृहे स्थापनं किन्नु न्यासङ्गतम्? परं तस्य हृदयकष्टम्, अन्त:करणस्योष्णोष्णा नि:श्वासा वा न मे सुखनिद्रां सहेरन्। एकदिनमात्रमेवाद्य व्यतीतम्, ततोऽपि न मे रात्रौ निद्राभूत्। न जानेऽग्रे किं भावि? अवेपत तस्य कोमला गात्रयष्टि:। प्रास्रवल्ललाटे प्रस्वेद:।
तत: किमहं कुर्याम्? एतस्य धनस्य को वा स्वामी? कथमहं तं मृगयेय?
बालक: पुनरेकवारं तानि शुल्कपत्राण्याददौ करे। तानि हि उद्वर्त्य परिवर्त्य पुनरेकवारमपश्यत्सावधानतया। एकैकं निरैक्षत। शुल्कपत्राणां पृष्ठभागे धनागारकस्य मुद्रां तिथिं वा विहाय नान्यत्किञ्चिदासीदङ्कितम्। पत्राण्येतानि राशीकृत्य यथैवायं स्वस्थाने स्थापयितुमुदयुङ्क्त, तथैवाऽकस्माद्वेष्टनपत्रोपर्यस्याऽपतद् दृष्टि:। आसीत्तद् भुग्नीकृतम्। भूतलादुत्थाप्य विवारयामासैतत्। स्थूलस्थूलैरक्षरैरेकं नाम तत्राङ्कितमासीत् अवाचयदयं तन्नाम।
इदानीं प्राक्रीडत्प्रमोदलहरिर्बालकस्यास्य वदनोपरि। व्यत्यगाद्दिवस:। ततोऽक्षीयत क्षणदाऽपि। आसीत्पूर्वरात्रेर्जागरणम्, अत एव समघटत नीरन्ध्र: सुषुप्ति:। अभूत्प्रत्यूषम्। आवश्यककार्येंभ्यो निवृत्य, अधारयदसौ परिधानीयानि। पुस्तकान्यादाय प्रतिष्ठतासौ विद्यालयाय। अन्यदिवसापेक्षया बहुबालात्पूर्वमेव प्राप सोऽयं पाठशालाम्। विद्यालयस्य द्वारोपरि स्थितो यमसौ प्रतीक्षते स्म समागादसौ, किन्तु त्वरितगामिना तुरगेण वाहिता शकटि: क्षिप्रमेवाग्रे जगाम्। एकवारमस्य हृदये समुदैच्छङ्का, किन्तु सारथे: शिरोवेष्टनेन समभूद् दृढो निश्चय:। प्रत्यहमेवासौ तमेतं सारथिं व्यलोकत। अत एव बालचरो चितेन साहसेन पर्यधावदसौ शकटे: पृष्ठत:।
(४)
शकटिमध्यासीन एव श्रेष्ठी व्यचारयन्मनसि- अहो इयान् लघुर्बालक:, एतावांश्च तस्य त्याग:। निसर्गस्मेरमस्यासीदाऽऽननम्। हन्त कथमसंसूच्यैव मां सोऽयं प्रत्यावर्तिष्ट। मन्ये, नास्य सङ्घोषितस्य विपुलस्य पारितोषिकस्य भवेत्तस्य परिज्ञानम्। किन्त्वाश्चर्यम्, एतावतामपि शुल्कपत्राणां किमु नास्याऽभवत्स्वल्पोऽपि लोभ:? अपि मन्ये न जानीयादसौ बालक: पत्राणामेषां मूल्यम्। किन्तु नैतदपि सम्भवति। अवश्यं तेन विलोकितानि स्यु: शुल्कपत्राणि पूर्वम्। विद्यालयेऽसौ पठति। अवश्यं च भूयान्सम्भवो यदस्मिन्नेव विद्यालयेऽसौ पठेत्।
असामान्योदार: सोऽयं बालकस्य व्यवहार: श्रेष्ठिनो हृदयपटले दृढतरमङ्कितोऽभूत्। अत एव बालकस्यास्यान्वेषणे विवशीचकार तमेनम्। स हि विद्यालयाभिमुखं शकटिमुपनेतुमादिक्षत्सारथिम्। विद्यालयस्यास्य द्वारदेशे न्यषीदच्छकटि:। रथावदरुह्य कुबेरदत्तो विद्यालयस्य प्रधानाध्यापकस्यान्तिकमाससाद। निजशुल्कपत्राणामपगमस्य वृत्तान्तमामूलचूडं सर्वमपि वर्णयामास तन्निकटे। शुल्कपत्राणामेतेषां यथाऽवस्थित: सम्पुटक: केन प्रकारेण बालकस्यैकस्य करात्तेनाधिगत इत्यपि सूचयामास सर्वम्।
मुख्याध्यापक: सर्वामपीमां कथामत्युत्साहेन चावधानेन चाश्रौषीत्। स हि सूचनामेकां त्वरितं विलिख्य सर्वास्वपि श्रेणिषु भ्रामयितुमादिदेश कर्मकरम्-
''श्रेष्ठी कुबेरदत्तमहोदय: पञ्चशतमुद्रा: प्रदास्यति पारितोषिकम्। येन किल बालकेन शुल्कपत्राणां पुटकोऽसौ श्रेष्ठिन: करे समर्पित: स्यात्सह्यचिरमस्मिन् कार्यालये समुपतिष्ठेत्। पारितोषिकस्य चर्चा प्रासरत्सर्वास्वपि श्रेणिषु कर्णाकणिकया। किन्तु व्यत्यगु: पञ्च 'मिनटा:, दशापि ते व्यतीयु:। शनै: शनैरर्धघण्टापि व्यतिययौ। न कोऽपि बालक: समाययौ। अन्ते विवशो विद्यालयाव्यक्ष: समाहूतवानखिलानपि बालचरान्। श्रेष्ठी बद्धलक्ष्यमालोकितवानेकैकम्, किन्तु न तं बालकमपारयत्परिचेतुम्। अत एवान्ते निराश: सन्प्रत्यावर्तिष्ट निजनिकेतनम्।
अपरस्मिन्दिने बालविद्यालयस्य प्रबन्धकर्ता बालचरस्यास्यालौकिकमिदं हृदयमहत्त्वमसाधारणं चेदं त्यागचेष्टितममुद्रयत्तत्तेषु प्रकटपत्रेषु, प्राकाशयच्चानेनैव सह श्रेष्ठिन: कुबेरगुप्तस्यापि गुणप्राहितां दानशीलतां च। बालकस्याऽस्य नि:स्वार्थभावेन प्रणोदित: श्रेष्ठी समुपलब्धमिदं सर्वमपि षोडशसहस्रात्मकं वसु प्रत्यददात्तस्मायेव बालविद्यालयाय। तदतिरिक्ता द्वादशच्छात्रवृत्तीश्च विशेषरूपेण समकल्पयद्यासच्चरित्रेभ्योऽध्ययनशीलेभ्यश्च बालेभ्य: समर्प्येरन प्रतिमासमेतस्मिन्। विद्यालयप्रबन्धसमितिरपि प्रधानाध्यापकमहोदयस्य प्रोत्साहनेन बालकस्याऽस्य हृदयमहत्त्वस्मरणमिदं सर्वदा स्थिरीकर्तुं वार्षिकोत्सवमेकमकल्पयद्विद्यालये, यस्मिन् सदाचारिभ्य: सत्कार्यकारिभ्यश्च प्रदीयते साम्प्रतमपि समुचितं पारितोषिकम्। किन्त्वद्यावध्यपि तस्यास्त्यागमूर्तेर्न जानाति कोऽपि पुण्यं नामधेयम्। केवलं मानसपूजयैव तामेतामर्चयन्ति चिन्तयन्ति च प्रतिवर्षम्।
धन्यो भारतीयवीर:
(१)
आसीदक्टूबरमासस्य निर्मेघाडम्बर: स्वच्छो द्वादशदिवस: (ता.१२ सं. १९४८)। शरत्काले काश्मीरप्रान्तस्य प्रात:कालो येन जनेन दृष्टो भवेत्स हि निर्भ्रसं जानीयाद्यत् तस्मिन् समये कीदृश: सुखद: शीतोऽनुभूतो भवति। मानसोन्मादकरं कमप्युत्साहं सञ्चारयन् प्रवहति स्म शीत: पवन:। भारतीयशिबिरे विराजते स्म तस्मिन् समये शान्तिमयी निस्तब्धता। रात्रौ रात्रो: शिबिरोपरि कृताऽभिधावना सेयं पृतना सम्प्रति निष्कण्टकं विश्रामसुखमनुभवति। समरे सम्मुखयोधिनो वीरा: साम्प्रतं शयनीये विश्राम्यन्ति। एतस्मिन्नेव समये तडित्संवादयन्त्रे (टेलीफोन) टनट्टनदिति समाकर्ण्यत सरभसो ध्वनि:। प्रधानसेनापति: सर्वान् विश्राम्यतो विलोक्य स्वयमेव सत्वरमगाद् यन्त्रसम्मुखे। यन्त्रस्यैकं भाग कर्णे, अपरं च मुखसम्मुखे कृत्वा ध्वनिमकरोत्-'अला। कर्णे ध्वनिरुपागच्छत् -भारतीयशिबिरपतिना संलपितुमिच्छामि। सेनापति:-'अहं शिबिरपति: सम्मुखगोऽस्मि। सूच्यतां नियोग:। ध्वनिरभूत्-'त्वरिततरमेव तादृशीं वायुयानसेनां प्रेषयेर्यस्या: साहाय्येन भारतीयस्थलसेनाया: प्रधानतमस्य सेनापते: सुजानसिंहस्य प्राणरक्षा शक्येत कर्तुम्।
सेनापति:-'अपि स ह्युत्तरगुल्मे शत्रुभिरास्कन्दित:? प्रेष्येत तत्रैव सेना? ध्वनिरागच्छत् 'न हि। स हि 'पूंछ स्थाने तादृक्स्थले शत्रुभि: परिवेष्टितोऽस्ति यद्धि परितो महामहद्भि: शत्रुसैन्यै: संवृतमस्ति। अतीव निकटगताश्च सम्मुखयोधिन: शत्रुवीरा:।
सेनापति:-पृष्ठत: स्थलसेनापि काचित्प्रेषणीया स्यात्?
ध्वनि:-मैवं तावत्! स्थानमिदं शत्रुभिस्तथा स्वायत्तीकृतं यथा नात्र काचिदपि वाहिनी प्रभवेत्प्रवेशं लब्धुम्। सम्प्रति वायुयानमेवैकं साधनं येन सेनापते: प्राणरक्षा सम्भवति। स्थलगतस्य नान्यस्योपायस्य तत्र प्रसर:। किन्तुं तदिदं पूर्वत एव निश्चेतव्यं स्याद्यत् वायुयानस्याऽऽरोहणेऽवरोहणे च शत्रो: शतघ्नीनां गोलका: प्रत्येकक्षणे एव शिरोगता: सन्ति।
'अपि पूंछ स्थानस्य पृष्ठगुल्माद्वैदेशिकी सेना न दद्यात्साहाय्यम्?
ध्वनि:-नैवं नैवम्। सर्वतोऽप्युत्तरं लब्धम्। सम्प्रति भारतीयवीरेभ्य एवैकमात्रमाशा। नाधिकमालापस्य समय:। त्वरितं प्रबध्यतां वायुसेनायास्तत: प्रस्थानम्। टन् टन् इति ध्वनिना समसूच्यत संलापस्य समाप्ति:।
(२)
'त्वरितमाकारय वायुसेनासञ्चालकम् इति शिबिरनिरीक्षकमालप्य प्रधानसेनापति: प्राविक्षत्स्वकक्षम्। वायुयानाध्यक्ष: कक्षं प्रविशन्नेव सस्मितमवोचत्-'किमद्य प्रात: कालादेव शत्रूणां रक्तरञ्जनक्रीडा प्रारभ्येत, प्रातरेव कस्य मुखं दर्शनीयं भवेत्?। सेनापति:-'महाशया! मुखदर्शनस्य नात्र प्रसङ्ग:। अत्र हि शत्रो: पूंछ स्थानं दर्शनीयं भविष्यति। वायुसेनाध्यक्ष: परिहासे एव प्रोदतरत्-'वायुयानचालका शिरोदेशं परामृशन्ति, न पूंछस्थानम्। प्रधानसेनापति:- 'वायु घोटकमारूढानामेष एव परिणाम:। अस्तु, भवेत्परस्तात्परिहास:। युद्धस्थलात्सम्प्रति सूचना समवाप्ता-'स्थलसेनाया: प्रधानसेनापति: सुजानसिंह: 'पूंछस्थाने तादृक्स्थले वैरिभिरास्कन्दितो यत्र सेनाया अन्या कापि सहायता न प्राप्तुं शक्ता। केवलं वायुसेनाया एवात्र कर्तव्यं यत्सा सेनापते: प्राणान् संरक्षेत्। किन्तु वर्तमानकाले तुमुलस्थलेऽस्मिन् प्रतिक्षणं शत्रूणां भीषणगोलका अविज्ञातं वर्षन्ति। अत एव विक्रमैकरसस्य साहसिन एवात्राऽवकाश:।
वायुसेनाध्यक्षस्त्वरितमेव निजनिवासे समागमत्। स हि सर्वानपि वायुयानपरिचालकान् स्वसमक्षे समाह्वयत्। समसूचयच्च परिस्थितेर्भीषणताम्। किन्तु वीरा न किल बिभ्यति युद्धक्षेत्रात्। प्रत्युत ते हि वीरताप्रदर्शनस्योपयुक्तमवसरं प्रयत्नेनाप्यन्विष्यन्ति। अत एव अहमहमिकया बभूवुरनेके सज्जा:। वायुसेनाध्यक्षस्तेभ्य एकतमं विचित्य नि:सम्भ्रममाज्ञापयत्- 'वीरसिंह! 'गरुडमादाय त्वमेव गच्छ। तव साहाय्याय करोम्यन्यमपि प्रबन्धम्। यदा हि गरुडमादाय त्वं रक्षाक्षेत्रमवतरिष्यसि तस्मिन्नेव काले द्वितीयमेकं वायुयानं 'विमानविश्रमस्थानस्योपरिप्रदेशे साटोपं परिभ्रमदवतिष्ठेत। मन्ये युक्त्याऽनया भवद्भूयसी संरक्षा।
(३)
कथनसमकालमेवोड्डाययामास गगने गरुडं वीरसिंह: वीरसिंहस्य गरुड शत्रूणां चक्रव्यूहे पूर्णतयाऽवतीर्णमपि नाऽभूदेतावतैव प्रारभ्यत शत्रुपेक्षाद्भीषणा गोलकवर्षा। किन्तु गरुडस्य सञ्चालकेन समयेऽस्मिन् या वीरता बुद्धिमत्ता च प्रकटिता तां साम्प्रतमेव किम्, अनन्तकालपर्यन्तमपि साहसिका: प्रशंसिष्यन्ति। स हि निर्भीकभावेन तावता प्रचण्डवेगेन वायुयानं समचालयद् यथा शत्रोर्लोहगोलका अपि वायुयानमिदं प्राप्तुं न प्राभवन्। इत: सेनाध्यक्षेण या चातुरी पूर्वमभ्युहिताभूत्समभूत् साऽपि पूर्णतया सफला। शीघ्नगामिनो गरुडस्य गतिर्यावता परिलक्ष्यते तत: पूर्वमेव भारतीयं वायुयानमेकं सशब्दं परिभ्रमददृश्यत युद्धस्थलस्य वियत्तले। स्थूलरूपेण शत्रुशतघ्नीनामभूदेतदेव लक्ष्यं सर्वभावेन। अत एव प्रारभ्यत भारतीयं वायुयानमिदं परितो लोहगोलकवर्षा शत्रूणाम्। किन्तु चञ्चलमिदं वायुयानं गोलकेभ्य: स्वस्य रक्षां कुर्वदेव शत्रोर्गुप्तगुल्मानामुपरि न्यपातयत्सहसा गृध्रदृष्टिमिव विद्युत्प्रकाशसृष्टिम्। लक्ष्य स्थिरीकृत्य यथैव वायुयानमिदमपातयद् विध्वंसकगोलकाँस्तथैव ते पूर्णतया लक्ष्यमस्पृशन्। शत्रोस्त्रीणि गुल्मानि ('चौकी) समूलमुदमूल्यन्त। भयानकेनानेन विध्वंसककाण्डेन शत्रोर्व्यूहे परित: प्रासरदसाधारणी व्याकुलता। शत्रो: सैन्यानि निजरक्षायै व्यस्तान्यभवन्। व्यतिकरणानेन शत्रूणां शिबिरात् शतघ्नीनां गोलकवर्षा यथैव किञ्चिच्छिथिलाऽभवत्तथैव भारतीयेन वायुयानेन समवाप्त: समुचितोऽवसर:। शत्रूणां सैन्यानि निजप्रबन्धे दृष्टिमपातयन्, इत: स्थलसेनानायकं निजवक्षसि सङ्गोप्य गरुडयानं गुरुगर्वेण गगनमुदपतत्। विना च कञ्चित्प्रतिबन्धं प्रापयामास स्थलसेनानायकमिमं यथास्थानम्।
असाधारणेनानेन वीरसिंहस्य साहसकाण्डेन 'पूंछप्रदेशस्य भारतीयशिबिरमिदं वायुयानविश्रमस्थलं च नानाविपत्तिभ्य: समभूत्सुरक्षितम्। अन्यथा गुल्मस्यास्य सर्वापि प्रबन्धव्यवस्था भग्राऽभविष्यत, शत्रूणां च मनोऽभीष्टमभविष्यत्। किन्तु भारतीयानसञ्चालकस्यास्य समयोपयोगिनी वीरता घोरसङ्कटात्समग्रमपि व्यूहं सर्वथा समरक्षत्। भारतीयानां वायुसेनासञ्चालकानामन्यान्यवीरताभि: साकं वीरसिंहस्य सेयमपि वीरता युद्वकालिकसाहसस्येतिहासे चिराय संस्मरणीया भवेत्। प्रशंसन्ति तामिमां प्रत्युत्पन्नमतितां युद्धकलावैज्ञानिका:।
शस्त्रपाणि: क्षत्रियाणी
(१)
घोरतरग्रीष्मस्य प्रचण्डो मध्याह्न:। सिकताया: महीमहाना: स्तूपा: (टीला, टीबा इत्याख्या:) साम्प्रतं वह्निमिव उद्गिरन्ति। ज्वालामिव परित: प्रवाहयन्ती सन्तप्ता वात्या प्रचण्डरुपे संज्वलति। कर्णयोरन्तिके प्रवहन् प्रचण्डपवन: कर्णयो रोमाणि दंदहीति। नीचैरियं धरणी तातप्यते उपरि अनन्तमिदमाकाशम्। शमीवृक्षस्य छायायामुपविष्टो राष्ट्रौनवयुवको बहिरन्तश्च सर्वत: सन्तापेन दह्यते। माध्याह्निकसूर्यस्य प्रचण्डा रश्मयश्चक्षुषो प्रलायं सृजन्त: परितोऽन्धकारमिव समुपस्थापयन्ति। किन्तु क्षत्रिययुवकस्य नास्योपरि दृष्टिपात:। स हि गहनविचारेषु तादृक् सुनिमग्नो यत्तस्य कृते सर्वा अपि दिश: सर्वत: सङ्घीभूता इव। अद्य तस्य भाविन: श्वशुरस्य सन्देशहर: संवादमिमं समुपाहरत् यत् यदि विवाह: काम्यते तर्हि द्विसहस्रमुद्रा दिनत्रयान्तराले इत: समुपाहर। अन्यथा अक्षयतृतीयायामस्यां, भवदर्थे कल्पिता सेयं कुमारिका अन्येन सह परिणाय्येत।
संवादस्याक्षराणि समाकर्णयत एव राष्ट्रौढयुवकस्य चक्षुषो: लोहितमिव सर्वत: प्रावहत्। तस्य हस्त: करगृहीतखड्गस्योपरि अप्रेरित एव सत: सुदृढा बभूव। दन्तेन स हि कर्कशतया अधरमदशत्। तस्य पत्नी द्वितीयस्य भविष्यति। यस्या: सौभाग्यपूर्णोऽङ्क: तस्य जनन्या रूप्यकनारिकेलाभ्यामपूर्यत, यस्या: सुखदविवाहस्य सुखस्वप्नान् समीक्षमाणौ तस्य मातापितरौ मृत्यो: क्रोडे व्यश्राम्यतां, गृहं सर्वत: शून्यमिव समभवत्। को वा कृषिक्षेत्राणि उपवनानि वा सम्भालयेत्। गृहं सर्वतो दारिद्रयं समाक्राम्यत्। क्रमक्रमेण घोरं धनसङ्कटमुपातिष्ठत।
क्षेत्राणि गो-महिष्य:, उष्ट्र-बलदाश्च, क्रमक्रमेण उत्तमर्णवणिजां गृहे समपूर्यन्त। गृहोपकरणान्यपि एकैकश: ऋणदातुरन्तिके प्रापन्। सम्प्रति रूप्यकाणां सहस्रद्वयं कथमिदं समाहिृयेत? किं वस्तु बन्धकीकृत्य उत्तमर्णो दद्यात्? एतं धनराशिं विना च एतस्य परिणेया पत्नी परस्य सम्भवेत। यस्या: सुखस्वप्नान् स हि दशवर्षेभ्य: सोत्कण्ठं विलोकते स्म, सा परिणेया प्राणप्रिया पत्नी अक्षयतृतीयायामेतस्यामन्यस्य परिगण्येत्। परस्याऽङ्कशायिनी सम्भवेत्।
राष्ट्रौढयुवकस्य मुखं क्रोधावेशेन रक्ताक्तमिव व्यलोक्यत। अद्यावधि किमीदृशोऽनर्थ: केनचन वीरक्षत्रियेण स्वयमनुभूत:? परिणेयाया: कृते तु पुरा पर:शतानि मस्तकानि व्यच्छिद्यन्त क्षत्रियो जीवितस्तिष्ठेत्, तस्य परिणेयया भाविपत्न्या च सह द्वितीयस्य विवाहो भवेत्? किमेवं सम्भव:? न कदाचित्, न कदाचित्।
(२)
अर्थस्य पुरुषो दास:
'श्रेष्ठपितृव्य! मम प्रतिष्ठा, वंशस्याऽस्य लज्जा च सम्प्रति भवद्हस्तगता।
''लज्जा, प्रतिष्ठा च मया बहुशो रक्षिता। किन्तु कुमार! त्वमेव मां निर्दिश, कतमस्य कृषिक्षेत्रस्योपरि तुभ्यं द्विसहस्रमुद्रा: परिगणयेयम्? इदानीं किं मे बन्धकीकरिष्यसि?
''मम समीपे साम्प्रतं किं वा अवशिष्टं वीक्षसे। राजपुत्रस्य प्राण:, प्रतिष्ठा, सर्वस्वं वा, सेयं तरवारिरेव केवलमवशिष्टा।
''तर्हि कस्यचिद् द्वितीयस्योऽत्तमर्णस्य द्वारं वीक्षस्व राष्ट्रौढयुवक: साम्प्रतमतीव व्याकुल: संवृत्त:। विवशोऽसौ व्याहरत् - ''पितृव्य, भवता मद्भवनस्य एकैकं तृणमपि सत्यं वा अनृतं वा, आयव्ययं दर्शयित्वा, आत्मसत्कृतम्। मम गृहे सम्प्रति छिन्न-भिन्नमपि पात्रं नेक्ष्येत। न च किमप्यवशेषितं साम्प्रतम्। मया हि स: सर्वस्वमपि समर्पितं भवते। साम्प्रतमपि यत्किञ्चिद् वदसि दातुमयमहमुद्यत:। किन्तु साम्प्रतं मम, मद्वंशस्य च लज्जां मा विगमय। यस्य क्षत्रियस्य परिणेया परकीया भवेत् स तु जीवितोऽपि मृतकतुल्य:। एतां तरवारि-जगदम्बां शिरसि निधाय घोरतरशपथं करोमि यद् भवत: एकैकमपि पणं दुग्धेनेव प्रक्षाल्य भवते समुज्ज्वलं समर्पयिष्यामि। काममस्य वृद्धिं (व्याज) यथेच्छं योजय, किन्तु साम्प्रतमेव तमिमं धनराशिं मह्यं समर्पये:।
यदि सत्यं राजपुत्रवीर्यमसि, तर्हि यथाहं पत्रे लिखामि, तदुपरि सत्येन मनसा हस्ताक्षराणि विदध्या:।
यदि मम मस्तकमपि याचिष्यसि, तर्हि नि:शब्दं दास्यामि, किन्तु समयेऽस्मिन् प्रतिष्ठां च लज्जां च मे सहसा संरक्ष।
वणिजा पत्रमेकमालिख्य युवकस्य सम्मुखे निहितम्। कर्णोपरि निहिता लेखनी क्षत्रिययुवकस्य हस्ते समर्पिता, प्रोक्तं च- ''यदि सत्यं क्षत्रिमात्मानं मन्यसे, तर्हि हस्ताक्षराणि कुरु।
राष्ट्रौढयुवकेन पठितमिदं पत्रम्। आसीदत्र लिखितम्- ''एतद् ऋणम् वृद्धिसहितं यावन्न परिशोधयामि, तावद् विवाहितामिमां पत्नीं सहोदरभगिनीमिव भावयिष्यामि।
ओष्ठौ दन्तैर्निर्दयं दशन्, ज्वलद्भ्यामिव नेत्राभ्यां पत्रमिदमालोकयन्, युवको विदधे हस्ताक्षराणि।
(३)
असिधारं व्रतं मम
बहुवर्षाणामनन्तरं राष्ट्रौढवीरस्य शून्यं गृहमावासितमभवत्। पुनरिव तत् सजीवमिवालोक्यत। द्वारोपरि प्रज्वलन् प्रदीप: आलोक्यत। कीटैरामूलचूलमात्मसात्कृतम्, पङ्कधूल्यादिभिरभिव्याप्तं तस्य भवनं साम्प्रतं सुमृष्टपरिमार्जितं सुधया लेपितं च दिव्यां कान्तिमाधत्ते स्म। प्रसन्नमिव सस्मितमालोक्यत तद्भवनम्। बहुसमयानन्तरमद्यैव तेन भूषणणत्कार: कर्णाभ्यामाकर्णित:। विवाहितपत्न्या सह समागतेन पूर्णशकटिपरिमाणेन गृहोपकरणेन तद्गृहमद्य पुन: स्थाने-स्थाने सज्जीकृतमभूत्। युवको यदा भोजनायोपविष्टोऽभवत् तदा तत्पत्नी सरसानिर्मितेन सुन्दरव्यञ्जनेन सुखं वीजयति स्म तम्। हस्तिदन्तनिर्मिता वलया वीजनसमये सुमधुरझङ्कारमकुर्वन्। अरुणरागमिश्रिताभ्यां कराभ्यां सस्नेहं व्यञ्जनानि परिवेषयन्ती सानुरागमभोजयत्पत्नी युवकम्। हृदि नानाभावाननुभवन्नपि क्षत्रिययुवको न किञ्चिद् वक्तुमशकार। नवागता पत्नी तु स्वत: कथमिव वाचमुद्घाटयेत्। किन्तु तस्या नेत्रयो: प्रणयप्रवाह: प्रत्यक्षं प्रेक्ष्यते स्म। किन्तु इत: क्षत्रियवीरस्य नेत्रे सुतरामास्तां गम्भीरे।
भोजनं समाप्य यथा सं हस्तप्रक्षालनाय प्राचलत्तदा क्षत्रियाणी सेयं जलपात्रमादाय तस्य हस्तयोरुपरि जलधारामदात्। क्षत्रियस्य गम्भीरा दृष्टि: सुदीर्घावगुण्ठनस्य अन्तरालगते प्रस्वेदभृते मधुरमुखे सहसा अपतत्। किन्तु तस्य नेत्रयोरन्ते उत्तमर्णविलेखितं तत्पत्रं पाषाणशिलेव सुस्थिरमभूत्। वीरस्य हस्तयोरभूद् भृशं कम्प:। पात्रात् प्रपतन्ती जलधारा हस्तयोरुपरि न पतित्वा, केवलं नालिकायामवहत्।
शनैरभवत् सन्ध्या। समागता निशीथिनी। 'सौभाग्यरात्रे: सर्वाण्युपकरणानि संव्यधीयन्त। श्वशुरगृहात् समुपलब्धे पर्यङ्के द्वावप्यशयाताम्। किन्तु राष्ट्रौढवीर: कोषात् खड्गं नि:सार्यं दम्पत्योर्मध्यत: स्थापयामास। मुखं परावर्त्य शेते स्म।
क्षत्रियाणी नितरामभूच्चकिता। हन्त केयं चर्या? मया को वा ईदृशोऽपराध: कृतो यस्यऽयमसाधारणो दण्ड:।
एका द्वे तिस्र: इति कृत्वा दश पञ्चदश वा रात्रयो व्यतीता:। स एव निष्कोष: खड्ग: भुजङ्ग इव तयोर्मध्ये शयानोऽभवत्। दिवा स्वच्छन्दं द्वयोद्भूत् संलाप:। क्षत्रिययुवा व्यवहारे न किञ्चिदप्यदर्शयद् वैगुण्यं वा मलिनतां वा। संलापसमये अमृतमिवाऽस्रवन्नूनम्। चक्षुषो: प्रत्यक्षं प्रणयप्रवाह: प्रावहत्। किन्तु यथैव रात्रिरागच्छत्, तस्य मुखादेकाऽपि वार्ता नाऽश्रूयत। तस्य नयने सम्मुखमपि नाऽपश्यताम्। नीचैर्नयन एव सर्वं दिनकृत्यमपयूयत्। हन्त रात्रौ सहशयनमधिशयानौ अपि परस्परं शतक्रोशान्तरितमिव आस्ताम्।
विचारशीला क्षत्रियाणी अतिगभीरतया पत्युश्चर्यां व्यचारयत्। व्यवहारं च मार्मिकदृष्ट्या समीक्षाञ्चक्रे। सा चिरमभूच्चकिता। अन्ते सा विवशतया समभूत्। एकदा यथैव राष्ट्रौढक्षत्रिय: तरवारिमाकृष्य शय्यायां पादं न्यधात्, क्षत्रियाणी सेयमानम्रीभूय तस्य चरणौ अगृह्णात्, गद्गदमगादीत्- ''को वा मत्त: प्रमादोऽभवत्? केन वा भवान् मयि एतावद् रुष्ट:? अवश्यं मम जनकेनाऽपराध: कृतो यत् अतिसूक्ष्मसमये धनस्य कृते भवत: उपरि सोऽयं भारो निपातित:। किन्तु मम कोऽत्रापराध:? तस्या नयनाभ्यामश्रुवृष्टि: कृता, पत्युश्चरणौ प्राक्षालयत्।
''को वा इदमकथयत् यदहं त्वयि रुष्टोऽस्मि। त्वं ममैव। भवती मम गृहस्य सर्वात्मना स्वामिनी। निजकराभ्यां तस्या: करौ निजचरणयो: सकाशाद् दूरमपसारयता राष्ट्रैढेन सभावगद्गदमुक्तम्।
''तर्हि एतावत्समीपे निवसन्नपि भवान् मत्त: एतावद्दूरे किमिति तिष्ठसि?
क्षत्रियस्य ललाटे द्वे रेखे अदृश्यताम्। विचारमग्न एव समलपत् असौ- ''अपि त्वं ज्ञातुमभिलषसि?
''आम्।
''तर्हि पत्रमिदं पठ।
दीपस्य मन्दीभवन्तं प्रकाशं प्रोज्ज्वलीकृत्य समपठत् सा वणिजा लिखितं तत्पत्रम्। यथा यथा सा पत्रमिदमपठत् तथा तथा तस्या मुखे नितान्तं गम्भीरता व्याप्नुते स्म। अन्ते किङ्कर्तव्यविमूढतायामपि हृदयदार्ढ्येन तस्या मुखं नितान्तमुज्ज्वल प्रत्यभासत। पत्रमिदं पत्युर्हस्ते परावर्तयन्ती, सन्तोषस्य सुखनि:श्वासं च गृह्णती सा समभाषत- ''सम्प्रति न मे काचिच्चिन्ता। मम चिन्ता केवलमासीद्भवत: क्रोधस्य, अप्रसन्नताया:। व्रतस्याऽस्य पालनं नेदं कठिनम्।
यथैव प्रभातमभूत्, क्षत्रिया निजगात्रात्तानीमानि लघु लघुभूषणानि, मूल्यवन्ति वस्त्राणि च एकग्रन्थौ निबध्य पत्यु: सम्मुखे स्थापयन्त्या वस्त्राणि च एकग्रन्थौ निबध्य क्रीणीह। सर्वप्रथमम् ऋणविमोक्ष आवश्यक:। अयं हि धर्म:। गृहे स्थिता: केवलं कृषका एव शोभन्ते। राजपुत्रास्तु सेवया, पराक्रमकार्यैरेव कीर्तिं लभन्ते। अतएव इत: प्रस्थाय कस्यचिन्नरेशस्य सेवायामेव योगं दास्याव:।
''पितुर्गृहं कीदृक्? यत्र भवान् तत्रेयं ते अद्र्धाङ्गिनी, द्वौ तुरगौ साम्प्रतमानेयौ।
क्षत्रतेजसा देदीप्यमानं पत्न्या मुखमालोकयन् राष्ट्रौढो नितान्तमभूत् स्तम्भित:।
(४)
विक्रम: क्व न पूज्यते
सूर्य: साम्प्रतं सपादहस्तमितमाकाशमधिरुढ:। समयेऽस्मिन् दिव्यभव्याकृती द्वौ युवकौ अश्वद्वयारुढौ अम्बर (आँबेर) नगरस्य परिसरे सरभसं प्रतियात:। द्वावपि समवयस्कौ, समानां च वेषभूषामधिवहन्तौ। द्वयोरपि हस्तयोस्तीक्ष्णभल्लौ भानो: प्रभया सम्प्रति सुतरां देदीप्येते। कटिनितम्बित: खड्गस्तुरगस्य पृष्ठं मुहुर्मुहुराघट्टयन् तस्य त्वरितगतिमिव संवर्द्धयति। द्वयोरपि वीरसज्जामालोक्य को वा परिचेतुं शक्नुयाद् यद् द्वयोरनयोरेकतरा महिला।
घोटकौ धावयन्तौ आम्बेरदुर्गस्य द्वारसीमानमुपगतौ। महाराजो मानसिंहो दुर्गद्वारमुल्लङ्घ्य बहिरागच्छन्नासीत्। तस्य दृष्टि: सम्मुखगतयोरनयोरुपर्यपतत्। मुखाकृत्या सद्य: परीक्ष्य, निजतुरगं स्थापयन् महाराज: सहसा समपृच्छत्- ''कतमौ भवन्तौ राजन्यौ?
''राष्ट्रौढौ
''इत: किमित्यायातौ?
''प्रस्थमितस्य अन्नस्यं कृते अन्नदात:।
''तर्हि मृगयायां मम सहचरौ भवेताम्।
नम्नीभूय प्रणमन्तौ द्वावपि निजनिजं तुरगं परावर्तयामासतु:। आम्बेरनरपते: पृष्ठगामिनावभूताम्। शूकरनिकरस्य पृष्ठे त्वरितमधावत्सेयं मृगयुमण्डली। अग्रे सेयं वाराहपङ्क्ति:, पृष्ठे च कुन्तान् करे वहन्त: क्षत्रियवीरा: समधावन्। घोटका: प्राणपणेन धावन्ति स्म। एक: शूकर: समण्डलमतिक्रम्य दूरमभूदतिक्रान्त:। सर्वेऽप्यधुना कोलाहलमकार्षु:- ''एको नि:सृत:, त्वरितं धावत। विपोथ्यतामयम्।
सर्वेषामपि तुरगाणां वल्गा एकस्यामेव दिशि पराववृते। एतावतैव एकतमस्तुरगो विद्युद्वेगेन सर्वाग्रतो बभूव। अश्वारोहो निजभल्लेन वाराहमिमं लक्ष्यीचकार। सवेगं प्रक्षिप्तो सूकरस्योदरं विदार्य परपारमादृश्यत। अम्बरनरपालो दूरत: पश्यन्नेव ससन्तोषमगदत्- ''साधु साधु।
प्रस्वेदान् परिमार्जयन्नश्वारोहो घोटकान्नीचैरवारोहत्? सविनयं शिरसा प्रणम्य पुनरश्वमारोहत्। अहह: को विश्वसितु, कश्चेदं कल्पयतु, यदेषां मध्ये एकतमया नार्या एकस्मिन्नेव सम्प्रहारे सोऽयं वराह: समापित:।
नरपरीक्षकोऽम्बरनरपाल: सप्रणयमवदत् ''भवन्तौ वीरौ। अद्यत: प्रभृति भवन्तौ द्वावपि राजहर्म्यस्य प्रधाननिरीक्षकौ नियतौ। निशि मम शयनकक्षस्य भवन्तौ एव सन्निरीक्षणं करिष्यत:।
द्वावपि- ''वर्द्धतामन्नदाता अस्माकम् इति वदन्तौ घोटकादवरुह्य विनयं प्रणेयतु:, पुनश्च तुरगमुपारुरुहतु:।
'सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रय:।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम्।।
भाद्रपदस्य घोरकृष्णा रजनी। दूरदूरतो हर्म्यस्य प्रणालिका कलकलं कुर्वन्त्य: अतुलजलं प्रवाहयन्ति। उपरि कज्जलमलिना मेघघटा: सर्वत: संछन्ना:। मुहुर्मुहुर्भीषणरवेण तास्तथा गर्जन्ति यथा क्षणेनैव प्रलयदृश्यं दर्शयिष्यन्ति। अहह। विद्युदप्येषा चतुर्दिक्षु तथा चमत्कुरुते यथा दृढाविहितस्याऽपि चक्षुषी निमील्येते। परितस्तथा सूचीभेद्योऽन्धकारो यथा हस्तेनापि हस्तो नाऽऽलोक्यते। मन्दमन्दा: पयोविन्दव: प्रारब्धा: पतितुं परित:। समयेऽस्मिन् सङ्कटाऽऽपन्नोऽपि गृहं विमोक्तुं नोद्यतो भवेत् स्वेच्छया। समयेऽस्मिन्नाम्बेरधराधीशो निजशयनागारे निस्तब्धमासेवते निद्राम्। ''शीघ्नमेव साम्राज्यस्य विपुलवाहिनी नरपति: काम्बोजविजयाय प्रतिष्ठेत, इति हि राजधान्यां सर्वतोऽपि प्रवाद: प्रचलित:। महाराजाधिराजो युद्धेऽस्मिन् स्वेच्छया शिक्षितानां वीरराजन्यानामप्येकं महत्सैन्यं स्वेन सह सन्नयेत यस्योपरि सर्वात्मना स्वस्य विश्वास:, दृढनिश्चयश्च भवति अत एव दूर दूरतो वीरराजन्यानां यशस्विनो वंशधरा: प्रयत्नेन सङ्गृह्यन्ते। श्रुत्वा चान्ये महाराजस्याश्रये स्वत: समुपागच्छन्ति। युद्धसज्जाकार्यं दिवा सर्वतोऽपि निरीक्षमाणो ढुण्ढारधरापति: साम्प्रतं निद्रया विश्राम्यति। शयनागारस्य द्वारदेशे द्वाविमौ वीरराजपुत्रौ प्राहरिककार्यं कुरुत:। द्वयोरपि हस्तयोर्निष्कोश: करवाल: यो हि विद्युच्चमत्कृत्या सह द्विगुणतरं चमत्कुरुते।
घोरा निशीथिनी, मध्यरात्रस्य द्वादशतमा घण्टा साम्प्रतमेव सूचिता तत्कारेण। महाराजस्य विस्रब्धा निद्रा श्वासप्रश्वासै: सर्वथा सूच्यते। किन्तु राजमहिष्या नयनयोर्नाधुनापि निद्रा। सा हि महाराजस्य विजयप्रस्थानं विचारयन्ती नानाचिन्ताभिराक्रान्ता। साम्प्रतं च प्रावृट्-प्रकृत्या भीषणं चाऽद्भुतं च दृश्यमालोचयन्ती सा विस्रब्धं स्वर्णपर्यङ्कमधिशयाना। द्वावपि नवागतौ राजपुत्रौ निष्कोषं खड्गं वहन्तौ, शयनागारस्य द्वारोपान्ते संरक्षणे जागरुकौ। पश्चिमदिशि भीषणा च प्रखण्डा च चपला चकितचकितं चमत्कृतवती। क्षत्रियाणी वीरपुरुषवेषं वहन्त्यपि साम्प्रतं निसर्गत: सस्मार-यदियं चपला अस्मज्जन्मभूमौ चमत्कुरुते। अनया स्मृत्या सह अन्यान्यवार्तानामप्यभूत्स्मरणं तस्या:। अद्याऽहं धनार्जनस्य कृते पुरुषवेषमधिवहन्ती विदेशेऽस्मिन् अर्द्धरात्रे प्राहरिकसेवाकार्यमनुतिष्ठामि। अन्या: सम्भावितमहिला: समयेऽस्मिन् शयनागारं निरुध्य निर्भरं निद्रामासेवन्ते। अहं च दीना निष्कोषखड्गं वहन्ती दण्डायमानैव रजनीमतिवाहयामि।
एतावत्येव, समीपस्थतरोर्हृदयग्राही 'पी०पी० इत्यश्रूयत शब्द:।
अबला हृदयस्य दुर्बलतां प्रयत्नात्प्रकामं निगृहीताऽपि साम्प्रतमजाग:। हन्त प्रिय: कुत्र? अत्यन्तसमीपे अस्ति। तथापि नितान्तं दूरे। अहो मम गणना न साम्प्रतं प्रियतमसंयोगिनीषु, न च वियोगिनीष्वपि। हन्त ममाऽपेक्षया चक्रवाकयोर्युगलमेव सम्यक्, यौ हि दूरे दूरे स्थितौ वियोगवेदनामिमां विवशतया विषहेते। अहं तु दिवारात्रिं सहसंस्थितापि विवशवियोगिनीत्यतोऽति दुर्भाग्या।
अस्खलत्तस्या धैर्यबन्ध:। समीपमुपगत्य वीरपत्यु: क्षत्रियस्य स्कन्धे करमस्पर्शयन्निभृतं सा। हस्तस्य स्पर्शमात्रे एव तथा प्रतीयते स्म, यथा विद्युच्छक्ति: शरीरे सञ्चरिता भवेत्। द्वावपि निर्भरमकम्पेताम्। राष्ट्रौढक्षत्रियस्त्वरिततरं प्राबुध्यत। मुखादस्य निरसरत्- ''क्षत्रियाणि! प्रबुद्धा भव।
सत्या क्षत्रियाण्यपि सा त्वरिततरं प्रबुद्धाऽभूत्। दीर्घनिश्वासं त्यजन्ती सा राजस्थानीयभावनया समुदगिरत्-
'देशो दूरे सह पति:, तदपि बन्धुमवयामि।
देशं यदि यायां पुन:, तदा प्रियं कलयामि।।
'देस विमाघर परिका प्रिय बान्धव रे भेस।
जिण दिन जास्यां देसमें बांधव पीय करेस।।
शयनीयमधिशयानयैव राजमहिष्या सर्वेयं लीला श्रुता च, किञ्चिद् दृष्टा च। प्रातर्जागरित्वैव सा अम्बरनरेन्द्रमवादीत् अनयोर्वीरक्षत्रिययोरन्तरे तु गुप्ततम: कश्चिद् भेदोऽस्ति।
''किं, कोऽस्ति भेद:? किं कुर्यामनयो: शिरोभेदम्?
''नहि नहि भेदस्य नावश्यकता, द्वयो: भेदस्याऽपेक्षा। एनयोरन्यतरा महिला।
''मान्यमहिषि! मुग्धमहिलेव नूनं प्राभ्यसि। इदं दार्ढ्यम्, एष नेत्रयोर्भङ्गिमा, इयं वीरता, किं कदाचिन्नारीषु दृष्टपूर्वा?
''श्रीमन् प्रभु:। काममिदं मे कथनं मन्यतां, न वा स्वीक्रियताम्। किंत्वनयोरेकतरा नारी, विपद्गता च सा सम्प्रति।
''प्रिये! कथमिदं परीक्ष्यताम्?
''अहमेतत्परीक्षां सर्वत: कुर्याम्। भवान् प्रासादन्त: स्थित: प्रेक्षताम् तावद्।
द्वावपि राजपुत्रौ अन्तराहूय, राजमहिषी चुल्लिकोपरि दुग्धस्य कटाहिकामधात्। स्वयं च बहिराह्वयत्। स्वल्प एव समये दुग्धं सन्तप्य उत्फाणोन्मुखमभवत्। एतावतैव क्षत्रियाणी सहसैव अशब्दायत- ''दुग्धम् उत्फणति। राष्ट्रौढो यावत् क्षत्रियाणीमिङ्गितेन किञ्चित्प्रबोधयति, तावत् राजमहिषी सरभसमभिधाव्य साग्रहमपृच्छत्-
''पुत्रि! सत्यं निर्दिश काऽसि त्वम्। मत्तो गोपनस्य नास्त्यावश्यकता।
क्षत्रियाणी विवशा, नेत्रे निमील्य, राजमहिष्या वक्षसि निजमुखमगोपयत्।
राष्ट्रौढक्षत्रिय: सर्वामथात्मकथामम्बरधरणिपालस्य सम्मुखे अवर्णयत्। कथामिमा सावधानमभिनिशम्य ढुण्ढारनरपाल: परममप्रीयत। सहसैव ससन्तोषमगादीत्- ''भवत: ऋणस्य सर्वमपि धनं, वृद्ध्या सह राजकीयाश्वारोहस्य हस्तेन साम्प्रतमेवाहं प्रेषयामि भवद्ग्रामम्। त्वं मम सविधे सानन्दं निवसे: गृहस्थाश्रमं च संस्थापये:।
हस्तासम्पुटं संयोज्य सविनयं न्यवेद्यत राष्ट्रौढवीरेण............ ''अन्नदातुराज्ञा शिरोधार्या। किन्तु यावदहं स्वयं निजजन्मभूमिं गत्वा, ऋणं न परिशोधयामि, ऋणपत्रं च स्वहस्तेन न परिसमापयामि, तावत्कालस्य कृते भूरिभूरिक्षमां याचेऽहमन्नदातु: सविधे। आवां द्वावपि विसर्जनीयौ तावत् दयालुना स्वामिना। आम्बेरधरणीपालं सर्वमपि ऋणद्रव्यं गृहस्थापनोचितानि सर्वाण्युपकरणानि च तस्मै तत्कालमेव प्रदाप्य द्वावपि व्यसर्जयन्निजगृहगमनाय। त्वरिततरं परावर्तनाय च न्ययोजयन्निर्देशम्, यतो हि शीघ्नमेव भवेद् भवदपेक्षा।
भाग्यरेखा
(१)
उन्नततरे गिरिशिखरेऽवस्थितं चित्रकूटदुर्गमात्मनो ह्यजेयतागर्वेण मौलिमुन्नमय्य गगनमिव चुम्बदासीत्। शैलानां विशङ्कटतया मार्गाणामगम्यतया प्राकृतिकसङ्घटनस्य निसर्गनिबिडतया च दुर्गमिदं सैनिकदृष्टौ सत्यं सत्यमजेयमवभासते। वर्तमानेऽस्मिन्समये वीरभारतस्य सर्वत: सुदृढीमदं प्रख्यायते स्म दुर्गम्। राजपुत्रप्रान्त एव किम्, भाग्यभूमेर्भारतस्य प्रान्ते प्रान्त एवास्योपगीयन्ते स्म विक्रमगाथा:। प्राकृतिकं विषमनिवेशमद्भुतां निर्माणपद्धतिं चावलोक्य विश्वकर्मण: सेयं निर्मितिरिति बहुधा प्रास्तुवन् जना:। नूनं प्रत्यक्षमस्याऽजेयतामवलोकयमान: को वा नेदं श्रद्दधीत?
निसर्गरमणीयायामस्यां प्रभातवेलायामेतस्य दृश्यमालोक्यते स्मातीव गौरवपूर्णमाकर्षकं च। वैरिणस्तर्जयन्तीव शिखरे प्रस्फुरन्ती ह्यमुष्य वैजयन्ती गगनतलमलङ्कुर्वतो भगवतो भास्वतस्तिरश्चीनै: किरणैर्दधात्यद्भुतां शोभाम्, तथापि नित्यनवं संविधातुर्विधातुर्दृष्टौ नेयमभून्मर्षणीया नाम। अजस्रं स्तब्धीकृतकन्धरस्य हि शिर: कदाचिदानमत्येव नूनम्। अत एव हि भुवनमण्डलमाकम्पयतां शतघ्री निनादानां प्रतिध्वनिभि: सह स्तब्धमिदं ध्वजोऽकस्मादेवनतमक्रियत।
हन्त! भुवनभर्तुर्मङ्गलमयेऽस्मिन्समये हृदयमवदारयतां शतघ्नीनिनादानां कोऽर्थ:? मेवाडमण्डलस्य गौरवघोषिणी सेयं राजपताका च हन्त कथमवनामिताऽद्य दुर्दैवेन? स्फुटमियं राजवंशस्याऽमङ्गलसूचना। चकितदु:खितानां नागरिकाणां दृष्टिर्दुर्गाभिमुखं विलग्नाऽऽसीत्। किन्तु न किञ्चित्तत्र समदृश्यत जिज्ञासा व्यपगमाय। तोपध्वनीनामवसानोत्तरं सर्वत्र शान्ति: प्रसृताऽभवत्। शान्तिरपि कीदृशी? अमङ्गलमयी, शोकशबला, श्माशानिकी! विषण्णवदनानां जनानां दृष्टिर्व्यलीयत दुर्गस्य प्रधाने द्वारे। दृष्टम् श्वेतवस्त्रधारिणाम्, कालचिह्नाङ्किता: श्वेतपताका: संवहतामश्वारोहिणां पय: प्रावृण् नदी पूरा इव त्वरितं विनिर्गत्य परित: प्रसृता अभूवन्। सर्वत: प्रचरतामासीत्तेषां घोषणा- ''महाराणा स्वर्गवासी जात:। त्रयोदशदिनानि राज्यमात्रेऽभिमन्येत शोक: कनीयान् राजकुमारश्च महाराणासिंहासनमलङ्कुर्यात्। स्वर्गगतस्य भूमिभर्तु: श्मशानयात्रा च भेवत्सम्प्रति दिवसस्यैकादशवादने।
राजमार्गतटे वीथिनिकटे रथ्यामुखे चतुष्पथसम्मुखे च सर्वत्र समभूज्जनानां सङ्घट्ट:। प्रासरत्सर्वत्रेयमेव चर्चा- ''कथं नाम जातो लघीयान् राजकुमारो महाराणा? युवराज-सङ्ग्रामसिंहस्याऽधिकार: कथमयमकाण्डेऽवहेलित:? मेदपाटस्य चिरन्तनी मर्यादा कथमद्य मूलघातं विहता? युवराज: किमन्यायस्यास्य न कुर्यात्प्रतिशोधम्? नगरनिवासिन: सर्वेऽप्येकमतेनाऽऽसन् युवराजस्य पक्षपातिन:। आसन्सर्वेऽपि प्रतीक्षमाणा राजकुमारस्याऽऽदेशम्। केवलमासीद्राजकुमारस्य रसनापरिचालने विलम्ब: , न त्वासीद्विलम्ब: पुरवासिसन्नाहे। सर्वतोऽपि प्रसृतोऽभूदन्यायस्य भीषणो विरोध:।
आसीद्युवराज: सङ्ग्रामसिंहो निश्चलमवस्थित:। हृदयगत: पितृशोको मौलिकबिन्दुरूपेण नयनसलिलाभ्यां प्रवहन्नासीत्। मन्ये तेनैव सह प्रतिशोधस्य भावनापि। त्यागस्य दिव्यं ज्योति: जागर्ति स्म तन्मुखे। धीर: स हि सर्वं निश्चितवान् हृदये। निजं प्रियतममश्वमारुह्य दुर्गाद्बहिरभवत्। करुणया हृदयविदारणं दारुणमासीदिदं दृश्यम्। पौरा: पूर्वत एव युवराजस्य कृते समुत्कण्ठिता आसन्, सम्प्रति विषण्णमनसा बहिर्गच्छन्तमिमवलोक्य सर्वेऽपि परित: परिवार्य तुरगस्य पश्चादन्वचलन्। सर्वेऽपि नीरवा: प्रावर्षन्नश्रुबिन्दून्वि-लोचनाभ्याम्। गच्छताममीषां परिसमाप्यत नगरसीमा। विचारनिमग्नो युवराज: प्राबुध्यत साम्प्रतम्। स हि सङ्घशोऽनुसरतो नागरिकानालोक्य निर्विचलस्वान्त: सान्त्वेन समबोधयत्- 'मम प्रणयप्रकाशिनो नगरनिवासिन:! यदि सत्यमेव मय्यनुग्रह: प्रणयश्च भवतां तर्हि मानयत मेऽन्तिमं सन्देशम्। निजनिजगृहान्परावृत्त्य स्वीकुरुत नवीनस्य वोभूमिभर्तुराधिपत्यम्।
नगरनिवासिनो निजयुवराजस्याधिकाराणां कृते समभूवन्सन्नद्धा: समराय, किन्तु युवराजस्तान्प्राबोधयद्बहुधा- ''मेदपाटीयवीराणाममूल्यमिदं रक्तं राजवंशस्य गृहकलहे माभूत्प्रवाहितम्। प्रत्यक्षमिदं दृश्यं श्रीरामस्य वनवासयात्रामस्मारयन्नूनम्। विनयानता जनता प्रिययुवराजस्य करुणाद्र्रमिमनुरोधं दु:खिना हृदयेनाऽभिमन्य परावर्तत यथाकथञ्चिन्नगराभिमुखम्। सर्वेषां मुखे सेयमेकैव चर्चाऽऽसीत्- 'कथमयमन्यायोऽभवत्? किन्तु पर्वतै: पराहत: प्रतिध्वनि: प्रत्युत्तरमदात्- 'राजनीतौ एवमेव भवति। विषादजनितं मूकभावं भञ्जन्तो वृद्धा अनुभविनोऽपि प्रोचु:- 'रामसदृशाय ज्येष्ठपुत्राय किमिति पुरा वनवासोऽभवत्? शिशोध्रुवस्य तिरस्कार: किमित्यभूत्?
(२)
युवराजस्य प्रियामाता मेवाडमहीभर्तु: प्रधानमहिषी शिशुं षड्वार्षिकमिमं सङ्ग्रामं जनताया: स्नेहाश्रये परित्यज्य, अद्यतोऽष्टादशवर्षेभ्य: पूर्वं प्रातिष्ठत् परलोकम्। अद्य मृतस्य मेवाडमहीभर्तुर्द्वितीयविवाहोत्तरं द्विगुणं प्ररूढ: प्रजाप्रणय एव बालयुवराजस्याकरोदसामान्यं पालनं पोषणं च। एवं परिस्थितौ मेदापाटीयजनता निजयुवराजस्य कृते किमिति न भवेत्प्रमत्ता? किन्तु मान-ममतामय्यां मेवाडमृत्तिकायां क्रीडया प्रवृद्धो युवराजोऽपि केवलं निजविमातुर्दोषेण तामेव मृत्तिकां निजप्रणयिनां रुधिरेण कथमिव शक्नुयाद्रञ्जयितुम्? केवलं निजस्य हिताय परस्सहस्राणां मेवाडवीराणां कथमिव सङ्घटयेत्समरम्? युवराजो वीरो हृदि धीरश्चासीत्, सहि सर्वस्वं परित्यज्य सिद्धार्थ इव महतेऽर्थसाधनाय गृहाद्बहिर्भवितुमासीत्प्रभु:। अत एव निजभाग्ये भरवशमाधाय पर्यचलदज्ञातां दिशम्।
मेदपाटस्य सीमानमधिगम्य स हि प्रियाया निजमातृभूमेरधारयद्रज: शिरसि। सभक्ति चान्तिमं प्रणामं विधाय वाष्पपूर्णाभ्यां नेत्राभ्यामयाचदनुमतिं बहिर्गन्तुम्। ततो धीरोऽपि भासक्रान्तमना विदेशाभिमुखमकरोन्मुखम्। त्वरितगामी तस्य तुरगो वायुना बद्धस्पर्द्ध इवालङ्घयदध्वानम्। आसीत्तस्याग्रतो महत्त्वपूर्णमेकमात्रं लक्ष्यम्, पृष्ठतस्त्वभूद्वाजिखुरविधुता मार्गधूलि:।
युवराजोऽनवरतमासीन्मार्गमवलङ्घयन्। रात्रौ विश्रम्य समस्तं दिनमकरोद्यात्राम्। विश्रमस्थाने-युवराजस्य राजवेषमवलोकयन्त: प्राय: पप्रच्छुरपरे पथिका: ''को भवान्, कुत आगम्यते कुत्र च गन्तुमध्यवसाय:, किं च भवत: शुभनामधेयम्। उत्तरप्रदानं विना मार्गान्तरमलक्षयमाण: स हि सङ्क्षेपेण प्रावदत्- 'योधपुरस्य राजसेवकोऽस्मि। मेदपाटे सन्देशं प्रापय्य साम्प्रतमहमुपयाम्याम्बेरराजधानीं तदर्थमेव। नाम च मे विजयसिंह:। एवं कतिपयदिनानि मार्गमुल्लङ्घयतोऽस्य। समभूदेकस्मिन्दिने दूरतो दृष्टिगोचरं तारागढदुर्गम्।
मनस्यभूत्किमिति मार्गपतितं तीर्थमहमुल्लङ्घयामि, कुतो वा न स्नामि पावनीकृतजनसमाजे पुष्करतीर्थराजे? स्वेच्छावशोऽसौ प्रायात्पुष्करम्। अरावलीपर्वतमालया परिवृत: पुष्करपरिसर: समभूत्सर्वतो मनोहर:। पर्वतोपत्यकायामासंस्तपस्विनामाश्रमा:, पवनोपनीतो येषां होमधूमगन्ध: पुनाति स्म प्राणिनां बहिरिवाऽन्त: करणमपि। चतुर्दिक्षु विराजते स्म काचिन्नैसर्गिकशान्ति:। पाषाणरचितैस्तीर्थावतारैर्मनोहर: पुष्करसागर: सततोत्थिताभिर्वीचिभिरुद्वेलितोऽभूद्यस्य तटपरिसरो नानाजातीयैर्मत्स्यैर्जलकुक्कुटैश्चाभिव्याप्त:। तीर्थराजस्य मध्यगता श्वेतपाषाणरचिता गुल्मटिका प्रकाशते स्म विकचं पुण्डरीकमिव।
युवराजो विमलजले स्नानादिना विगतपरिश्रमं तुरङ्गमं विधाय स्वयमपि सश्रद्धमस्नासीत्तीर्थराजे। स्वर्गमुपयाताय जनकाय जलाञ्जलिं वितीर्य विदधौ श्रद्धया श्राद्धम्। वत्सलस्य पितु: स्मरणेन द्विगुणीभूतशोकावेगस्यास्य प्रावहन्कपोलयोरश्रुनिर्झरिण्य:। किन्तु न कोऽपि मां परिचिनुयादिति भयेन शोकमिमं महता धैर्यावष्टम्भेन विष्टभ्य संस्थापयामास यथा कथञ्चिदात्मानम्। अधिककालं चावस्थानमनुचितं मन्वान: पुष्करराजं प्रणम्य पावनं तत्पयस्त्रि: प्राश्य पवनवेगं वाजिनमारुह्य पुनर्यथागतमाम्बेरराजधानीं प्रास्थित। चतुर्थेऽहनि चाम्बेरराजधान्या: समीपगतमात्मानमालक्ष्य विचारसागरे पुनरन्वभवन्मज्जनोन्मज्जनानि।
आम्बेरराजधानीं परितो लघुलघुषु पर्वतशिखरेषु सैनिकगुल्मानामद्भुतं दृश्यमजस्रम-धीरीचकार युवराजस्य वीरहृदयम्। उच्चावचेषु पर्वतशिखरेष्वावासितमिदमाम्बेरनगरम्। जलनिर्झरस्रावण: श्रावणश्चायं मास:। तदुपर्यनवरतं वर्षतो मघवत: सेयमुन्मादकरी सलिलझरी। दुर्गस्याधस्तात्प्रावृषेण्यवारिभिरुद्वेलितस्य 'मावट्ट सरोवरस्य तरङ्गचञ्चले सलिले शिखरगतानां राजहर्म्याणां प्रतिफलन्प्रतिबिम्ब:। सर्वमिदं सम्भूय निसर्गनिस्तरङ्गेऽपि युवराजस्यान्तरङ्गे नानाविधभावकल्लोलमुल्लोलयामास साम्प्रतम्। अस्तु नगरस्य प्रधानं गोपुरमतिल-ङ्घ्यप्राविशद्युवराजो राजधानीम्।
अकस्मात्स्मृतिपथमुपारूढं प्राक्तनं तद्दृश्यमनृत्यद्युवराजस्य चक्षुषो: पुरत:- यदा हि चित्रकूटराजकुमारीमात्मनो भगिनीम्, अम्बेरराजमहिषीं विवाहस्य पश्चात् प्रथमवारमयं चित्रकूटराजधानीमुपनेतुं समायासीदाम्बेरनगरीम्। अत्यनुपममभूदेतस्य तत्स्वागतम्। शतमश्ववारा: पुरत:, शतं च पृष्ठतोऽस्य सैनिकसज्जया सन्नद्धा: पर्यचलन्। आम्बेरमहीमहेन्द्रेण ससमारोहं प्रहितै: सर्वैरेव राज्यस्य प्रमुखसामन्तै: पुरस्य प्रधानद्वार एवास्य निरवर्त्यत स्वागतोपचार:। मङ्गलमुखीभिरन्त:पुरस्य परिजनसुमुखीभिर्वारवधूभिश्च मङ्गलकलशमुपनीय माङ्गलिकगीतै: कृतोऽभून्मङ्गलाचार:। कीदृशेनानिर्वचनीयेन समारोहेण राजहम्र्येषु तत्स्वागतमुपलक्ष्य बहुदिनानि यावद् गायकगुणिनां गीतिगोष्ठ्य: समभवन्। राजमहिषी, तस्य सहोदरभगिनी प्रहर्षपरवशा न माति निजाङ्गेषु। किन्तु अद्य? युवराज: स्वयमात्मानमवगोपयन् चौर इव निभृतं प्रविशति। नूनमपरिपठनीयलेखा सेयमेव भाग्यरेखा नाम!
(३)
साक्षादिन्द्रपुरीमपि निजवैभवाद्विडम्बयन्ती सेयमम्बेरनगरी सम्प्रति पूर्णविकसितं निजस्य यौवनमुपगम्य मदमत्तेव प्रादर्शयद्विभ्रमविलासान्। विकचदाडिमफल इवोच्चावचभावेन यत्र निबिडा जनवसतिरासीत्। अभ्रंलिहेषु प्रासादशिखरेषु स्वर्णमणिमया: कलशा: किरणमालिनोराशिभि: शतगुणितं देदीप्यमाना: प्रददतीव देवनगर्यै युद्धघोषणाम्। महाराजस्य पृथ्वीराजस्य बाहुदण्डाच्छायायां निर्भयमभिरक्षिता, न्यायपूर्णेन सुवृष्ट्यनुरञ्जिता च सेयं ढुण्ढारधरणिरनभिलक्षितकालातिक्रमं प्रमोदते स्म। इतरराज्येषु दुखायात्तस्य प्रतापाच्छार्दूलच्छागो निरातङ्कमापिबत: स्म पानीयमेकस्मिन् घट्टे।
अम्बेरनगरस्य गृहलक्ष्म्यो विनयविभ्रमशीला: 'शीलावापिकातो जलमाहर्तुं निरातङ्कमुपयान्त्यो लक्ष्यन्ते साम्प्रतम्। निसर्गादेव निर्भरहर्षाभिरद्य वर्षाभिरालक्ष्यन्ते गृहे गृहेऽपि प्रमोदप्रकर्णा:। अन्यसमये निरन्तरं भासमानोऽपि भगवान् भास्वानद्य निबिडनिबिडासु श्यामघटास्वात्मानं निह्नुते, कामयते च पृथ्वीराजप्रतापात्परिभूतस्यात्मनो लज्जामिव गोपयितुम्। राजधान्याश्चतुर्दिक्षु हरितहरिता भूमिरासीत्। क्रोशान्यावदासीदास्तृतमिव हरितास्तरणम्। मन्ये प्रकृतिपुरन्ध्र्या परावरपते: प्रियतमस्य प्रसादनाय प्रसाधनमिव नवीनमिदमारचितम्। राजहर्म्यशिखरेषु सूर्यचिह्नाङ्किता: स्वर्णमयपताका आकाशमिव चुम्बन्त्य: प्रास्फुरन्। एवं किल नानाविधानि निसर्गमनोहराणि दृश्यान्वलोकयमानो युवराज: प्रायासीन्नगरस्य मध्यत:।
यावत्किल रथ्यायामग्रत: प्रचलति तावन्निपपाताऽस्य दृष्टि: प्रमाणवेणुयष्टिमाददानस्य सैनिकवेषस्यैकस्य नवयुवकस्योपरि। किश्चिन्मनसि निश्चित्य तत्रैवातिष्ठद्युवराज:। तुरगादवरुह्य तत्समीपमुपगत: प्रोवाच सोत्साहम्- ''अपि सम्भवति ममापि सन्निवेश: सेनायाम्? आसीत्तस्य नवयुवकस्य सैनिक सङ्ग्रह एव नियोग:। अत एव विजयसिंहस्य गात्रपरिमाणं स्वास्थ्यं च सेनोचितमालक्षयमाणोऽसौ चकार तमेवं सेनासन्निविष्टम्। विजयसिंहो नासीत्केवलं सैनिक एव प्रत्युत स हि समभूत्परपराभवदायक: सेनानायक:। निजपित्रा सह बहून् वारानयं गुर्जरमण्डले विजयलक्ष्मीमवाप्तवान्। तथापि नवनिविष्टेभ्यो दीयमानां सैनिकशिक्षां तथा गृह्णाति स्म यथा नितान्तमस्यामपरिचित: स्यात्। किन्तु नायमात्मानमधिककालं प्रबभूव प्रच्छादयितुम्। कतिपयसप्ताहेष्वेव सेनापरिचालनपाटवमस्याऽऽलोकयमान: सेनापतिस्तमेनं गुल्माध्यक्षमकरोत्।
राजकीयमश्वं त्रयोदशमुद्रामासिकं चाऽयमलभत। समस्तेऽपि स्कन्धावारे निजाया: सहृदयताया: कारणाद्विजयसिंह: समभूत्सर्वेषां प्रीतिपात्रम्। व्यतिगतं निजस्य वृत्तं विस्मृत्य सह्यानन्देन सैनिकसेवितो व्यजीगमत्समयम्। शनै: शनै: प्रधानस्य सेनापतेरयं सर्वश्रेष्ठो विश्वासभाजनमासीत्। सैनिकमहत्त्वस्य मुख्यमुख्यानि कार्याण्यभूवन् क्रमशस्तदधीनानि। न केवलं तदीयगुल्मस्यैव, अपितु समग्राया अपि सेनाया: प्रत्येकं सैनिको विजयसिंहस्य कृते प्राणानां बलिं दातुमासीत्सन्नद्ध:। दीना: सैनिकास्तस्य मासिकवृत्तेरवशिष्टमवाप्नुवन्। दु:खितहृदयास्तस्मै निजवेदनां निवेद्य लघूकृतहृदयभारा इवासन्। पीडिता: सैनिकास्तत्कृतेन रोगोपचारेण निजां जननीमपि व्यस्मार्षु:। सर्वत: सेनायां तदिदमेवाऽश्रूयत- 'विजयसिंहो मनुष्यरूपे कश्चिदमर:। यदि सत्यमुदीरितं न सिध्येदतिशयोक्तिस्तर्हि जानीत- आसीद्वास्तवेऽप्येवमेव।
(४)
पूर्वमिव सभायान्मेघध्वनिश्रावणस्तृतीय: श्रावण:। आम्बेरनगरी पुन: प्रमोदकरी समभासत विलासविभ्रमै:। राजहर्म्याणामध: स्थितं महासरोवरं पुन: पय: पूरै: प्रमत्तमिवाभवत्, यत्प्रवाहितं पय: सवेगं प्रवहद्दूरदूरप्रदेशानामुपचिकाय शोभाम्। विलासिषु नागरिकेषु सङ्घश: प्रारभ्यन्त गोष्ठीप्रमोदा:। नगरीसमीपस्थं प्रत्येकमुपवनं 'चूर्णमापूर्णमालक्ष्यत। मत्स्यावतारसंहारिभिस्तु निजभोज्यस्य कृते प्रक्षिप्तानि सरसि जालानि। 'भावट्ट सलिले क्रौञ्चकारण्डवकुक्कुटा: क्रीडाकल्लोलमाकलयन्। मानुषीष्वेव किम्, महिषीष्वपि यौवनप्रमाद: प्रारभ्यत यद्वशादितस्तत: केलिपरा अलक्ष्यन्त। गृहे गृहे गृहलक्ष्म्यो साम्प्रतमुपेहि गेहम्, आशा मे लग्नेति प्रावृषेण्यगीतैराह्वयन्प्रोषितान्प्रियतमान्। गार्हस्थ्यसरस्तरणीयं रमणीयमण्डली वर्षागीतैर्मनो विनोदयन्ती समाहरति सलिलं वापिकाभ्य:। घट्टेषु जलै: पूरितेष्वपि न तासां पूरिता भवन्ति सखीभि: सह विश्रब्धालापा:। शिरसि जलकलशमावहन्त्योऽपि मिथो रात्रिप्रणयवार्ताभिर्मार्गमतिवाहयन्ति। गृहमासाद्य शिरसो घटाऽवतारणविलम्ब: कामं क्षणमात्रायाऽप्यसह्यो भवेत्किन्तु सम्प्रति सखीसंलापे जलघटिकावाहिन्या घटिकापि न प्रतीता नूनम्। यासां स्तनन्धयो गृहे स्थितस्तास्तु सखीसमाह्वानेऽपि त्वरितपदैर्गृहाभिमुखमावर्तन्ते।
हन्त! विजयसिंहो यस्य श्मश्रुप्रवृद्धमासीद्, व्यतीतवार्तास्मरणेन मुहुर्वेपथुमिवा-ऽन्वभवद्धृदये, किन्त्वात्मनो गोपनाय नागरिकाणामानन्देषु ददौ सहयोगम्। अद्य तदधीनस्य गुल्मस्य रात्रौ राजहर्म्ये प्राहरिकतानियोगोऽस्ति। यथैव यामिकेन रात्रेर्दशटङ्कार: श्रावितास्तथैवायं शिबिरं परित्यज्य चचाल राजहर्म्याऽभिमुखम्। आसीत्परित: सूचीभेद्योऽन्धकार:। एकहस्तान्तरितमपि वस्तु नादृश्यतेति किम्, एकेन हस्तेनापरो हस्तो नाऽऽलोक्यत। भूमेरिदं कौतुकमालोक्य दिवि घनघटाघोरमकुर्वन्नट्टहासम्। पदमपि मार्गावलङ्घनमासीत्कठिनम्, किन्तु मुहुश्चमत्कुर्वत्याश्चञ्चलाया: प्रकाशे दूरपर्यन्तं मार्गमालक्ष्य विससार विजयसिंह:। गगनात्प्रारभ्यन्त मुक्तास्थूला वर्षाबिन्दव:, किन्तु सम्प्रति राज्यहर्म्यं नासीद्दूरे। अत एव त्वरितपदं वव्राज राजहर्म्ये।
प्रासादमालाया: प्रधानद्वारे प्राभवत्प्रदीपप्रकाश:। अत एव तत्प्रकाशप्रतिफलनेन वर्षाजलधारा रजताकारा: प्रतीयन्ते स्म। यथैव घटिकाया एकादशवादिताष्टङ्कारास्तथैव पूर्वप्रहारिकस्य समाप्यत नियोग:। विजयसिंहो जग्राह नियोगभारम्। सार्धघटिकाद्वयविगमोत्तरं द्वादशटङ्कारैर्यथैव निशीथस्य सूचनादत्ता, न तथैव मुशलधारावर्षमवर्षन्मघवा। परितो धाराप्रपतनरवैर्महान्नद: समुदभवत्। दूरतो झिल्लीझाङ्कारा येऽश्रूयन्त ते कर्णयो: प्रशान्ता अभवन्। सत्यम्, घोरतरे दुन्दुभिध्वनौ को वा शृणुयात्तूतिकारवम्? प्राहरिकगुल्माध्यक्षस्य यत्रासीत्स्थितिस्थानं। तस्य सविधगतमेवासीदम्बरवसुन्धरापुरन्दरस्य शयनमन्दिरम्, यत्र हि राजदम्पती विश्रब्धमन्वभूतां शयनसुखम्। वर्षाजलपूरै: शब्दायमाना: प्रासादनालिका दूरे त्वासन्नेव, किन्तु महानेको नालक: शयनमन्दिरस्य समीप एवापतद्यस्य कुट्टिमपाषाणोपरिप्रतनेन महान्नादोऽभवत्। वर्षाजनितौत्सुक्येन नानाविचारमग्नस्य विजयसिंहस्याऽवधानं नालकशब्दोपर्यकस्मादाकृष्यत। विचारे कृते स विचालितोऽभवत
'हन्ताऽनेन घोररवेण भूपतेर्निद्राभङ्गो भवेत्। कर्तव्यपरायण: स बहिर्गत्वा तृणपूलकमेकमानीय जलनितपनस्थानेऽस्थापयत् येन घोर: रव: सहसैवाऽशाम्यत् घोरवर्षया समभूवन्नार्द्राणि तस्य वस्त्राणि, परं नासीत्तस्योपरि भ्रूक्षेपोऽपि। स्वामिनो निद्राभङ्गो न भवेदेतस्यैवोपर्यासीत्तस्य लक्ष्यम्।
नालकस्य नीरनिपतननाप्ते नरेन्द्रस्य निद्रायां वास्तव एव बाधकोऽभूत्। घोरशब्देन जजागार जगतीपति:, किन्तु तन्निनादशान्तौ पुनर्निद्रामधिजगाम। सलिलपातस्य नियतसमये यदा निद्राभङ्गोऽभवत्तदापि दृष्टं यन्मेघस्तथैवाविरतं प्रवर्षतीति। निजगाद महाराज: - ''देवि! बहो: कालादद्य घोरो वर्षति घन:। नालकजलप्रपातरवेण मम निद्रा मध्ये व्यपगता, किन्तु मयाऽनुभूतं यत्तदैव स नालकशब्दो विरत:। साम्प्रतमपि दृश्यते, घोरवर्षा किन्तु नोपगच्छति कर्णयो: स नालक निपातनाद:। चित्रम्, किमस्य कारणम्।
''नाथ! साम्प्रतमेव कारणं निवेदयामि इत्युक्त्वा यथैव महाराज्ञी शयनमन्दिरस्य द्वारमुपतस्थौ तथैव सरभसमुपगताभि: प्राहरिकीभिर्द्वारदासीभि: सर्वमस्य कारणमवाग-च्छन्महाराज्ञी। प्रत्यागत्य निवेदयामास- ''सैनिकै: नालिकस्याधस्तात्तृणपूलका निहिता:। कारणमेतस्य सविनयास्ते एतदेव न्यवेदयन् 'यदनेन वर्षानिनादो न भवेदन्नदातुर्निद्रायां बाधक:। महाराजस्य का साम्प्रतमाज्ञा।
महाराज: - अहो विचारशीला अमी सैनिका:!
महाराज्ञी - न केवलं विचारप्रवणतैव, स्वामिभक्तिरप्येषामसामान्यैव। यैर्हि घोरवर्षा स्वशरीरे सोढ्वापि स्वामिनो हितचिन्तया तदिदं कार्यमप्रेरितैरेव कृतम्।
महाराज: - सामान्यप्राहरिकेषु नैतावान् विवेको बुद्धिश्च भवति। न चैवंविधा: प्राहरिका: पूर्वं दृष्टा एव। अवश्यमिदं हृदयकौतुकं श्वो व्यपनयेयम्।
राजदम्पती पुनर्गाढनिद्रामवाप्नुताम्। विजयसिंहोऽपि स्वनियोगकालं परिसमाप्य शिविरं पराववृते। आर्द्रवस्त्राणि विमुच्य शयनीयोपरि गाढनिद्राया: क्रोडे व्यश्राम्यत्। प्रभातप्रायायां रात्रौ स्वप्नेऽयं किं पश्यति यत् श्वेतवसनावृता एकाऽत्यन्तासुन्दरी वदति- 'सङ्ग्राम! तव साधना सम्प्रति समाप्ता। किन्तु विद्युदिव शीघ्नमेव नेत्रयोर्व्यलीयत। विस्मितो सङ्ग्रामसिंहो यावज्जागर्ति तावद्दृष्टं यज्जातं प्रत्यूषम्। अश्रूयन्त परित: कुक्कुटरवा:।
(५)
प्राकाश्यन्त पूर्वगगने प्रकाशरेखा:। सौभाग्यसिन्दूरं पुर: प्रकाशयन्ती यथैव परिजहास प्राची तथैव साचीकृतमलिनमुखा नीचीबभूव प्रतीची। अरुणपुरस्सरो भगवान् भास्करो मन्दं स्मयमानो ददौ दर्शनं शैलशृङ्गस्याधस्तात्। अरुणवर्णास्त्वावरणा: श्वेतच्छटाविच्छुरितान् राज- प्रासादान् लिलिपु: कुङ्कुमकर्दमै:। अम्बरनरेन्द्रस्य परित: श्रड्वाप्रकाशकरेषु देवमन्दिरेषु श्रूयन्त मधुर इव वल्लरी सहकारिणो। घनघण्टारवा:। अम्बावती पुरन्दर दुन्दुभिभवनेभ्य: पटुपटहघोषसहकृता: सुमधुरसहनायिकारचना: सहृदयमनस्सु तिलकमिव लिलिखुरासावरीमूर्तिम्। राजभवनेभ्य: प्रासरन्वनोपनीता: पार्थिवप्रबोधहेतवो मधुरवीणारवमिश्रा: सङ्गीतकलावतामालापध्वनय:। शिबिरे सूर्यदनिभि: सह सूर्यचिह्नाङ्कितं सैन्यध्वजमुच्छ्रिमकुर्वन् सैनिका:।
निद्राजनितमालस्यमवमुच्योत्तस्थौ विजय:। अक्षिणी परिमृज्य, उत्तरच्छं पदाभ्यां वृस्पनीय, त्वरितमवातरच्छयनीयस्याधस्तात्। प्रात:कालिकं शारीरककृत्यं विनिवर्त्य सैनिक वेषभूषाभि: सुसज्जित: समाययौ सैनिकाभ्यासप्राङ्गणे। यथैवायं स्वनियोगमङ्गीकृत्यसमवैति सेनायां तथैव तुरगमारुह्य शिबिरेऽस्मिन्नतार्कितमायान्तमवालोकयदम्बरधरणी पुरन्दरम्। सेनापते: सतर्कीकरणसङ्केत: सर्वानेव सैनिकान्समसूचयत्सावधानभवस्थातुम्। सेनामध्यमागत्यैव महाराजस्य तुरग: समभूदवस्थित:। विकोषान् खड्गानुच्छ्रयाय सैनिकैर्वादित्रध्वनिना संविदधे महाराजस्याभिवादनम्। अतर्किता प्रासरत्सर्वतो विनयविमिश्रा शान्ति:।
महाराज: सेनापतिमप्राक्षीत्-ह्यो रात्रौ द्वितीयप्रहरे के केऽभूवन्यामिका:? सेनापतिर्नामग्राहमाजुहाव गुल्माध्यक्षम्। विजयसिंह: साधिकृतै: सैनिकै: सह सविनयमुपातिष्ठत सम्मुखे। महाराज: पप्रच्छ-''ह्यो रात्रौ नालकस्याधस्तात्केन निक्षिप्तो घासपूलक:, किञ्च तत्कारणम्?
सेनापतिरनिष्टस्य भावनया बभूव भयभीत:। मा भूदन्यो राजकोपस्य भाजनमितिसर्वदा सैनिकसहायको विजयसिंह: साभिवादनमवादीत्- ''पृथ्वीनाथ! ममैवासीत्तदिदं कार्यम्। मास्तु राजदम्यत्योर्निद्राभङ्ग इति हि सेवकेनाऽनेन विभावितम्।
स्वामिभक्तस्य सैनिकस्य हितपरायणतां निपुणतां चालक्ष्य गद्गदोऽभून्महाराज:। तुरगादवरुह्य सरभसमाशिश्लेष कण्ठे सैनिकमिमम्। किन्तु नेदानीं हृदयरहस्यं गोपायितुं प्राभवद्विजयसिंह:। अतिबलेनावरुद्धोऽपि वेगात्प्रावहदश्रूणां प्रवाह: कपोलयो:। महाराज साश्चर्यमवालोकयन्मुखं विजयस्य। यावद्विजयसिंह: स्वात्मानमवस्थापयति तत: पूर्वमेवाम्बरधराधिपस्तमेनं बाहुपाशे निबिडं बबन्ध। सगद्गदमवोचत् महाराज: - 'न भवान्विजय:। त्वमसि सङ्ग्रामसिंह:। किन्तु किमिति त्वया स्वमात्मामवच्छाद्य क्लेशोऽयं विसोढ:?
अश्रूणां गङ्गायमुनाप्रवाहेणाभिषिक्तौ द्वावपि समाजग्मतु: प्रासादमालाम्। अजागरुश्चेतसि प्राक्तन्य: स्मृतय:। अक्रीडन् हृदयरङ्गस्थलो सहानुभूता: पूर्ववृत्तान्ता:। महाराज्ञा: प्रमोदस्य नासीदस्य परिसीमा। भगिन्या: स्वभावसदयाद् हृदयात्प्रावहत्प्रवाहस्नेह:। साह्यद्य सम्भ्रान्तेव सर्वतो व्यचरत्प्रासादमालायाम्। अदीयन्त नानाविधा आदेशा: परिचारिकाभ्य:। व्यधीयन्त द्विविधा: समारोहा: सौख्यसञ्जानाम्। निरमीयन्त नानाप्रकाराणि: भोज्यव्यञ्जनानि। पितु: परलोकवासस्य समग्रं वृत्तान्तमाश्राव्यत्सङ्ग्रामसिंह:। चकितौ दु:खितौ च सर्वमिदमत्रौष्टां महाराज्ञी महाराजश्च। बहूनि दिनानि चाऽचलत्सोऽयमेवप्रकार:। व्यत्यगमन् विंशतिदिनानि पल इव प्रमोदविभ्रमेषु।
एतस्मिन् समयान्तराले आम्बेराधिपतेर्महाराजपृथ्वीराजस्य दूतो मेवाडमण्डलात्-प्रत्यागत्य शुभसंवादमश्रावयद्येन हि प्रमोदपारावारे द्विगुणतरास्तरङ्गा: समुदभवन्। महाराजपृथ्वीराजस्य प्रस्तावं स्वीकृत्य मेवाडस्य महाराणा ज्येष्ठभ्रातु: सङ्ग्रामसिंहस्याधिकारं सम्प्रति सम्प्रधारयति सन्नद्धश्चायमस्मै मेवाडराज्यं समर्पयितुम्। ज्येष्ठसहोदरस्य मेवाडराज्याधिगमेन नितान्तमुच्छ्वसितहृदयापि तस्येत: प्रस्थानमालक्ष्य वियोगकातराऽभून्महाराज्ञी। सङ्ग्रामसिंहो महाराज पृथ्वीराजश्चोभावपि तामेतां बहुधा पर्यसान्त्वयतां यत् साम्प्रतिकपरिस्थित्यां तस्य चित्रकूटप्रस्थानमत्यावश्यकम्। शीघ्रं पुनर्दर्शनं भवेत्सङ्ग्रामस्य। हन्त! भगिन्या स्वाभाविक: स्नेह एव तामीदृशमकरोत्कातराम्, अन्यथा तद् हृदयगतं प्रमोदं को वाऽनुमातुं प्रभवेत्? तस्या ज्येष्ठ: सहोदरो मेदपाटमण्डलस्य महाराणा भवितुमित: प्रतिष्ठते, किमित: परमेतस्या: प्रियं स्यात्। सङ्ग्रामसिंह: सपारहासमभ्युत्थाय विनीत इव साञ्जलिबन्धमावेदयत्- ''पृथ्वीनाथ! गुल्माध्यक्षोऽयमुपस्थापयति यत् यस्मिन् सेनाविभागे सोऽयं सैनिको वर्षत्रयमयापयत् सोऽयं विभागो गच्छेन्मया सह मेवाडमण्डलम्, अधिवसेच्च तत्रैव। महाराजोऽपि तथैव भङ्गया सस्मितमवदत्- 'सामान्यगुल्माध्यक्षस्य यद्यपि नायमनुरोधो माननीयस्तथापि कार्यविशेषगौरवेण तदिदमङ्गी क्रियते।
अद्याम्बेरनगर्यां प्रावर्षत्प्रमोदस्य मघवा। रमणीयवेषभूषाभि: सुसज्जिता सर्वापि सेना सम्मुखमुपस्थिता। अवाद्यन्त परितो पङ्गलवाद्यानि। चारणा बन्दिगणाश्चागायन् स्तुतिगाथा:। स्थाने स्थाने समभ्रियन्त मङ्गलसम्भारा:। महाराज्ञी स्वहस्तेन सङ्ग्रामसिंहस्य तिलकमकरोत्। सङ्ग्रामसिंहश्च स्वभगिन्याश्चरणयोर्न्यददद्यान्मस्तकम्, सापि च तमुत्थाप्य, मस्तकमाघ्राय, प्रबलं वर्षस्तु विकचकुसुमेषु लोजेषु च, तमेनं विसर्जयामास। महाराज: पृथ्वीराज: सङ्ग्रामसिंहश्च द्वावपि पुरान्नीचैराजग्मनु:। जयघोषैर्मुखरिता अभूवन्दशदिश:। द्वावपि तुरगावारुह्य वर्षतां पुष्पाणामास्मरणं तुरगखुरै: क्षुन्दन्तौ पुष्पवन्दनमालाभिलङ्कृतां राजरथ्यामति चक्रमतु:। अतर्कितमेव तोपध्वनिभिर्गगनमगुञ्जत्। अयमेव किल चित्तौडाधिपतेर्महाराणासङ्ग्रामसिंहस्य राजोचित:सम्मान:। महाराजपृथ्वीराजस्याऽऽलिङ्गनं विधाय यथैव तच्चरणा प्रणामाभिमुखोऽभवत्सङ्ग्रामसिंहस्तथैव महाराजस्तमेनं मध्य एवावरुद्ध्य साश्रुगद्गदमवादीत- 'सङ्ग्रामम् अस्त्रंमियता! मेवाडमण्डलाधिपतेर्यदुचितं तत्कृतं भवता।
तोभध्वनिभि: प्रतिध्वन्यमाने गगने, दुन्दुभिध्वनिभिरापूर्यमाणेषु च दिग्मुखेषु सङ्ग्रामसिंहश्चित्रकूटाभिमुखं प्रातिष्ठत। महाराजो महाराज्ञी च निर्निमेषया दृष्ट्या समपश्यतां तावत्, यावत्तुरगखुरधूसर: समदृश्यत मार्ग:।
चित्तौडमुपगतस्य समभूत्सङ्ग्रामसिंहस्य राजतिलकम्। 'महाराणा साँगा नाम्ना अयमेव भारतेतिहासेऽमरतां दधारेति जानन्त्येवेतिहासविद:।
अमूल्यं वस्तु
कञ्चिद्देशमेको राजा प्रशास्ति स्म। नासीत्तस्यैकोऽपि पुत्र:, केवलमासीदेका कन्या। तां स पुत्रवदैषील्लोकं चावदद्यन्ममाऽनन्तरमेषैव सिंहासनस्य शोभां वर्द्धयिष्यति। राजा तच्छिक्षायै विदुषो बुद्धिमतश्च पण्डितान्नियुक्तवान्। राजपुत्री तु स्वल्पकालेनैव स्वपरिश्रमेण सर्वविद्या-म्पन्नाऽजनि। यावत्सा पञ्चदशवर्षायुरभवत्तावत्तत्परिणयार्थमन्यराजवंशेभ्य: सन्देशा आगन्तुमारेभिरे।
राजा सम्बन्धस्य वार्तां वारं वारं पर्यहरत्। एकदा तस्य मन्त्रिणस्तं प्रार्थयन्त- 'महाराज! राजकुमार्या विवाहसम्बन्धोऽधुना तु कुत्रचिन्निश्चित: कर्तव्य:। राजाऽवदत्- 'सम्यगुक्तम्। श्वो राजकुमार्या सह वार्तालापं करिष्ये। अपरेद्यु: राजा स्वकीयं प्रधानमन्त्रिणमाज्ञापयद्यत् सम्प्रति देशदेशेषु घोष्यतां यद्राजकुमारी तमेव राजपुत्रं वरयिष्यति योऽमूल्यं वस्तु समानीयोपहरिष्यति।
इमां घोषणां श्रुत्वा दूरदूरदेशेभ्यो राजपुत्रा एकैकशो बहुमूल्यानि वस्तून्यादायोपस्थितानि कर्तुं प्रारप्सत। कश्चिद् बहुमूल्येन बृहद्धीरकेणाऽगच्छदन्योऽद्वितीयं कृपाणमादायोपस्थितोऽभूत्। अपरसतु महाघ्र्यं चीनांशुकमानैषीदेवं बहवो राजपुत्रा अनेकानि वस्तून्यानैषु:। किन्तु राजकुमारी सा तानि दृष्ट्वा 'नैतानि ममाभिरुचितानि इत्युक्त्वा प्रतिददाति स्म।
एवं स्वल्पकाले गच्छति राजस्थानस्यैको राजपुत्र आगच्छत्। तस्य कापि शोभासामग्री नासीत्। स एक एवाश्वमेकमारूढ: सन्नागमत्। आगत्यैव स स्वागमनसूचनामकारयत्। राजभृत्याश्च तमवदन्- 'किं मुधा कष्टमनुभवति भवान्। महान्तोऽत्रागच्छन् प्रतिगताश्च। सा तु विक्षिप्तचित्ता जातेति प्रतीयते। न कस्यापि किञ्चिदपि शृणोति। राजकुमारोऽवदत्- 'न काचित्क्षति:, यूयं तु केवलं ममाऽऽगमनसूचनां तस्यै दत्त।
राजकुमारी यथापूर्वं सूचिता। राजकुमारो बहिरश्वं बध्वा राजकुमार्या: सविधमुपस्थातुमन्त:पुरप्रासादस्य द्वारं प्राप्त:। बहिर्भवने त्वयमुपविवेश, अन्तस्तु जवनिकान्तरिता राजपुत्री व्यराजत। राजकुमार एकं हस्तवस्त्रम् (हैण्डकरचीफ, रूमाल) यस्याञ्चले किञ्चिद्बद्धमासीद्दास्यै दत्वा राजपुत्र्यै समर्पयेत्युवाच। दासी खण्डवस्तं गृहीत्वा तिरस्कारसूचकं हास्यं चकार। सोंऽशुको राजकुमार्या हस्तं यावत्प्राप्नोति तावद्राजकुमार एवं कथयितुमारेभे-
वर्षद्वयादारभ्याऽद्यावधि, एषोऽहं जगति पर्यटन्नस्मि। अनेकानि वनानि, बहूनदीन्, कतिचित्सागरान्, बहुतराश्च नदी: साभिलाषं व्यलोकयम्। बहून्यमूल्यानि वस्तून्यन्वैषयं च। किन्तु तान्यादाय यदा प्रत्यागच्छन्नासं तदा किं पश्यामि यदेकं क्षुद्रराज्यमाक्राम्यन्ती पराक्रान्तस्यैकस्य भूपते: सेना युद्ध्यमाना तिष्ठति। लघुराज्यस्य सैनिका बहु युयुधिरे किन्तु वराकास्ते विशालसेनासम्मुखे किं कुर्यु:? तदैव क्षुद्रराज्याधिपति: कैश्चित्सैनिकै: सह दुर्गद्वारमुद्घाट्य स्थितोऽभवत्। एवं सति दुर्गं प्रवेष्टुमाक्रमणकारिणो राज्ञ: सेना सरभसमग्रेऽधावन्, महद् युद्धश्चाभवत्।
राजा स्वल्पसैनिकै: सह शत्रुसेनां नाशयन्नासीत्। आक्रमणकारिणो राज्ञ: सेना बह्वीं हानिमनुभूयाऽप्यग्रे गन्तुं न शशाक। अकस्मात् कृपाणं चालयतो राज्ञो दुर्गस्य प्राङ्गणात्पाद: प्राऽस्खलत्। यावत्स सावधानो भवति तावच्छत्रुखड्गस्तस्य कण्ठोपरि पतित:, तत्क्षणमेव स वीरगतिं प्राप्त:। मया तु पौरुषस्य, साहसस्य, जन्मभूमिप्रेम्णश्चेदृशं निदर्शनं न कदापि पूर्वं दृष्टम्। परिपन्थिनो निर्ममु:। अहमपि राजार्थं द्वे अश्रुणी तत्रैव प्रावाहयम्। प्रत्यागमनकाले च जनन्या: सुपुत्रस्य भस्मीभूतशरीरस्य तस्यैव रक्तरञ्जिातामिमां मृत्तिकां बध्वाऽऽगतोऽस्मि। मम बुद्ध्याऽस्माच्छ्रेष्ठतरं किञ्चिदपि वस्तु जगति न भवितुं शक्नोति।
राजकुमारी सर्वा वार्ता: श्रुत्वा स्वपितरमाजुहाव अवदच्च- 'यदि भवन्त उचितं मन्यन्ते तर्हि राजपुत्रेणानेन सह मत्सम्बन्धो विधीयताम्। यतो मे मतावयं वीरोऽस्ति। वीरत्वस्य मूल्यं जानाति। प्राणव्ययेनापि चासौ भवतां देशं सिंहासनं चाऽभिरक्षेत्।
राजापि राजपुत्र्या: कथनेनाऽनुमतोऽभवत्। राजकुमार्या विवाहं तेन राजकुमारेण सह चकार। राजकुमारस्तत्रैव राज्यस्याधिपतिर्भूत्वा न्यवसत्।*
जन्मभूमेश्च धर्मस्य यशसश्चाभिरक्षणे।
ये प्राणानां बलिं प्रादुस्तेभ्य: किं मूल्यवत्तरम्।।