अकिञ्चनकाञ्चनम्
पात्र परिचयः
राजा (कथानायकः)
नवनीतकः (विदूषकः)
पुरोहितः (कुलगुरुः)
दौवारिकः (राजभृत्यः)
सूत्रधारः (कथापरिचायकः)
मनीषा (नटी)
राजमहिषी (कथानायिका)
कपर्दिका (राजसेविका)
रचनाकालः – दिसम्बर १९७४ ई.
कथासार
कञ्चन-कीमिनी में बुरी तरह आसक्त नरेश (मूलतः युनान का राजा “मीदास”) राजकार्य छोड़ बैठा है। उसके सद्गुण धीरे-धीरे नष्ट होते जा रहे हैं। बस, एक ही चिन्ता उसके तन-मन में समाई हुई है कि किस तरह उसके कोषागार में अपार स्वर्णराशि एकत्रित हो जाय। राजा का बालसखा नवनीतक उसके इस पतनोन्मुख स्वभाव-परिवर्तन से क्षुब्ध हो उठता है। पुराने दिनों की स्निग्ध स्मृति तथा अपनी तात्कालिक उपेक्षा के आत्यन्तिक विरोधी दो वातावरणों में पड़ा नवनीतक राजधानी छोड़ देने का निश्चय करता है। “मुकदमे से लौटे गवाह” की भाँति उसे अपना जीवन एकदम मूल्यहीन लगने लगता है।
जिस प्रातःकाल नवनीतक यह निर्णय लेता है उसी पिछली रात राजा ने सपने में एक दिव्य पुरुष देखा। देवदूत ने राजा को ईश्वर का शुभाशीष कहा, उसके लोकोपकारी कार्यों की प्रशंसा की। और चलते चलते यह वरदान भी दिया कि प्रातः स्नान करके राजा जो कुछ भी छुएगा, वह वस्तु सोने की हो जायेगी। राजा आनन्दमग्न हो गया। उत्कण्ठा एवं कुतूहल के मारे बेचारा ठीक से सो भी न सका।
ब्रह्मबेला होते ही आलसी नरेश युक्जनोचित उत्साह एवं फुर्ती से उठा। चुपके-चुपके स्नान कर आया और पागलों की तरह अन्तःपुर की वस्तुयें छूने लगा। देखते ही देखते सारा महल “सोने की लङ्का” बन गया।
परन्तु मुर्ख राजा देवदूत की चाल नहीं समझ सका था। भूख-प्यास से विकल होकर ज्यों ही उसने कुछ खाना-पीना चाहा, सारी सामग्री सोना बन गयी। दुर्दशा की पराकाष्ठा तो तब हुई जब राजा की एकमात्र लाडली कन्या भी इसी आपाधापी में निर्जीव स्वर्णप्रतिमा बन बैठी। सारे राजपरिवार में कुहराम मच गया।
कपर्दिका से सारा ब्यौरा सुनने के बाद नवनीतक ने अपना कर्त्तव्य निश्चित किया। उसने सच्चे मन से देवतायन में बैठकर मित्र की प्राणरक्षा के लिये देवता की अराधना की। उसने अपना सिर पूजावेदी पर पटक दिय़ा। रक्तधारा वह निकली और तभी अकस्मात् आकाशवाणी सुनाई पडी। देवदूत ने लोभी नरेश के अनाचारों का हवाला दिया और भविष्य के लिये सावधान रहने का निर्देश देते हुय़े उपचार विधि भी बताई।
नवनीतक कुलगुरु के साथ अन्तःपुर पहुँचा। अभिमंत्रित जल के मार्जन मात्र से राजा प्रकृतिस्थ हो गया। समस्त सोना बनी हुई चीजें भी पुनः अपने स्वाभाविक रूपों में आ गई। दुलारी बेटी को पाकर राजा निहाल हो गया। उसने जीवन भर के लिये धन-वैभव से मुंह मोड़ लिया तथा प्रजा के कल्याण में दत्तचित्त हो गया।
अभिराजराजेन्द्रविरचितम्
अकिञ्चनकाञ्चनम्
लघुप्रेक्षणकम्
रुद्राणी रावयित्री शतदुरितदृशां शातयित्री शठानां
सावित्री पुण्यभाजां विबुधबुधनृणां भावयित्री भवानाम्।
पीतं वासो वसाना कलितमृगपतिश्शङ्खचक्रं दधाना
प्रच्छनं छिन्नमस्ता मदरितनुदरीं छिन्नभिन्ना करोतु।।१
अपि च
सन्ध्यारागोपलिप्तो मम सुखसमये संभ्रमे भैरवाभः
द्वैधे कालाभ्रछन्नप्रखरदिनमणिप्रौढमध्याह्नकल्पः।
सन्तापे ताण्डवीयो ननु निकृतिविधौ मृत्युपर्यायपात्रं
गात्रम्मे पातु नित्यं श्वजनकृतभये चाण्डिकेयो दृगग्निः।।२।।
(नान्द्यन्ते ततः प्रविशति पुष्पाञ्जलिकः सूत्रधारः)
सूत्रधारः – अलमतिविस्तरेण! आदिष्टोऽस्मि सुरसिकपरिषदा कलितकल्पितकथानकं सुलघुवितानकं सुहृदयनयनपानकं यत् किमपि नूतनप्रेक्षणकं समवतारयितुम्। यत्सत्यं नवनवाभिनेयाबद्धचित्तवृत्तिनापि साम्प्रतम्मया नैकं किमपि संस्मर्यते।
(चिन्तां नाटयन्)
सत्यमेवाक्तं मनीषिभिः यत्
क्वचिदनवरतमकामा क्वचिदपि च साक्षाद्भवसि कामाख्या।
त्वमसि मनीषे! धन्या न किमपि सिद्धयति विना त्वयेह।।३
नटी – (ससम्भ्रमम् अपटीक्षेपेण प्रविश्य)
आर्य! किमिति मामविज्ञापितपूर्वसूचनं सम्बोधनपदेन सस्पृहम् आमंत्रयते भवान्? तदाज्ञानियोगेन मामनुगृह्णात्वार्यः।
सूत्रधारः – (सस्मितं साश्चर्यम्)
अये प्रिये मनीषे! समागतासि त्वम्! हन्त भोः धूमाकुलितदृष्टेर्यजमानस्य पावक एवाहुतिः पतितेति यत्सत्यमेव कविकुलगुरुणा कालिदासेन शाकुन्तले भणितम्।
(नाट्येनाभुमिखीभूय)
प्रिये! तदित्थं स्मृतिमन्थरां स्वमनीषामुपालभमानस्य मेऽभिधानसाम्यवशात् त्वमेव प्रत्यक्षं सम्प्राप्तासि। तत्साहाय्यं विधेहि साम्प्रतम्।
नटी – नन्वार्य! प्रयोजनमुपदिशतु भवान्।
सूत्रधारः – प्रिये! चण्डिकार्चनमहोत्सवेऽस्मिन् निरर्गलनाट्यरसमाधुरीरोदरायमाणैस्तीर्थपतिसहृदयैस्सभाजनं साग्रहमाज्ञप्तोऽस्मि नूतनतम प्रेक्षणकावतरणाय। परन्तु दुःस्मृतिपुरोभागितया नैकमपि साम्प्रतमुररीक्रियते।
नटी – (सोल्लुण्ठम्)
ननु भणामि, मा शुचं यात्वार्यः! स्मृतिशून्यत्वमेव कलौ विद्वज्जनलक्षणं भवति।
सूत्रधारः – सुन्दरी! अलमनवसरपरिहासेन। नखलु वरटादष्टस्य जनस्य वारुण्योपचारः क्रियते। तद् विधेहि दाक्षिण्यम्।
नटी – (सविलासं बिम्बाधंरं किञ्चित् विकृत्य)
जडभरत! ननु समाधानगर्भं प्रश्नमेकं ददामि। तेनैव नाट्यकारस्याभिधानमपि सङ्केत्यते।
सूत्रधारः – (सकुतूहलम्)
ननु विज्ञापय!
नटी – आर्य! कथय, पितृव्येण मुञ्जराजेन कल्पितमृत्युर्भोजराजः कविना बल्लालसेनेन शतधा कथं सम्बोध्यते?
सूत्रधारः – (प्रत्युत्पन्नमतिं नाट्यन्) ननु राजेन्द्र इति।
नटी – आर्य! यत्सत्यं कथं न तर्हि अभिराजराजेन्द्रेण विरचितेन हैयङ्गवीनोपमेन स्वायत्तीकृतयूनानदेशीयलघुवस्तुना अकिञ्चनकाञ्चनाभिधेन प्रेक्षणकेन सहृदयजनमनोरञ्जनं क्रियते?
सूत्रधारः – साधु प्रिये! साधु ! सम्यगवबोधितोऽस्मि। तदिदानीं राहुमुक्तः पार्वणयामिनीकामुक इवोपाययोगो मे नाट्यप्रयोगस्य प्रतिपलं वैशद्यमुपयाति।
(परिक्रम्य सम्मुखं विलोक्य सहर्षम्)
हन्त भोः सोऽयम्
विद्वत्पाटच्चराणां विकलितवचसां लोकनिन्दारतानां
धृष्टद्युम्नायमानो जितरिपुविजयी यस्तु संशप्तकानाम्।
काव्यत्वं किन्तु यस्य प्रभवति नितरां भालपाटीरशिल्पम्
आचार्याणामृजूनां भवतु मम कविर्बागलेयश्शतायुः।।४
(किञ्चित्तारस्वरेण)
अयि भोः नाट्यदर्शनलालसाः सुहृदयसमाजिकास्तदस्यां निशीथिन्याम्मयाभिराजीसूनोः कलभायुष्यमुपगतस्यानेकसंस्कृतहिन्दीलोकभाषाबद्धप्रवणकवनक्रियासपर्यासमर्चितवरटवाहिनीचरणेन्दीवरस्य पञ्चगव्यमात्रेणैव प्रसह्य स्वायत्तीकृतोत्तरप्रदेशशासनपुरस्कारस्य मिश्रोपनाम्नोऽभिराजराजेन्द्रस्य नवनवं स्तोकप्रयत्नाभिनेयं लघुरूपकम् अकिञ्चनकाञ्चनं नाम प्रस्तूयते।
(जवनिकापरिसरं समवलोक्य)
अये! प्रकृत्यैव विदूषकः सोऽयम्मेऽनुजो भूमिकावसादनार्थ स्फुरदङ्गुलीभिः सङ्केतयति। तदलं वृथा कालक्षेपेण।
(नटीं प्रति)
मनीषे! एहि तावत्। आवामपि रङ्गस्थलिकामवतरावः।
(इति निष्क्रान्तः)
(इति प्रस्तावना)
(ततः प्रविशति विषण्णवदनो विदूषकः)
नवनीतकः – धन्यासि रे कालव्यालि तृष्णे! अप्रतिमासि चाण्डालि! दुष्प्रधर्षासि। अहो यो मम वयस्यो दानेन कर्णः दयया शिविः करुणया च तथागतोऽभूत् स एव साम्प्रतं त्वया राक्षस्या कार्पण्येन वेनीक्रियते। नैष्ठुर्येण कंसीक्रियते। निष्कारुण्येन च रावणीक्रियते।
(हस्तौ सम्मेल्य साधरदंशनम्)
तदहमपि अवसितोद्वाहमहोत्सवे श्रीहीनतृणमण्डप इव नात्र वसतिं करिष्ये। व्यवहारसत्रनिवर्तितसाक्षिकस्येव का में प्रतिष्ठा? योऽहं सुगृहीतनामधेयो भूसुरवंशावतंसो नवनीतकः
नरपतियुवतीभिस्सादरं भोज्यमानो
निखिलसदुपभागैर्नैकधा स्तूयमानः।
चटुलचटु वचोभिः प्रत्यहं प्रीणितात्मा
स्तवनवनवनेशश्शेषदोषीभवामि।।५।।
(सवेदनं परिक्रामति)
कदर्पिका – (एकतः प्रविश्य, स्वगतम्)
अये देवानाम्प्रियोऽयं नवनीतकः! तत्कथमयं प्रवृत्ते दैवसंकटे नरपतिसहचरणं परित्यज्य वितथाहिण्डनं करोति? भवतु, वाचालयाम्येनम्।
(प्रकाशम्)
आर्य नवनीतक! कः कालस्त्वामन्विष्यामि? महाराजस्त्वां विना विजलं शफरायते। आरूढो मध्याह्नस्तत्कथं क्षुधायातुधानीं प्रशमयितुमुत्सहसे?
नवनीतकः – (अश्रुतिमिव नाटयन्)
कपर्दिके! अन्तःपुरमनवसरं विहाय कथमिह वृथा पर्यटसि?
कपर्दिका – (आत्मगतम्)
अये कथमयं वैधेयपण्डितो मद्व्याहारं श्रुत्वापि नानुकूलम् आचरति?
(प्रकाशम्)
आर्य! वयस्यसन्देशं न श्रुतवानसि? महाराजत्स्वां झटिति द्रष्टुं समीहते।
नवनीतकः – भद्रे! साम्प्रतं का मेऽपेक्षा? धनसंग्रहैकचित्तोऽयं भूपतिर्न मैत्रीमवलम्बते। तदहमपि केवलमुदरपोषणार्थं नात्र निवसामि। तीर्थं व्रजामि। यत्र कुत्रापि वा कठिनकान्तारे विलीय देवोपासनं करोमि। तद् गच्छ। शुकसारिकां भोजय। हर्म्यशिखिनं नतय। गोपुरकुक्कुटं योधय। गच्छ भद्रे गच्छ!
(इति सस्नेहं स्वहस्तकटकं ददाति)
कपर्दिका – (आत्मगतम्)
अये सत्यमेवार्यो नवनीतकः स्फुटितहृदयस्तदिदं मया नोपलक्षितम्। अवश्यमेव किञ्चित् करणीयमत्र। भवतु अद्यतनमेव राजकुलवृत्तमस्मै निवेदयामि।
(प्रकाशम्)
आर्य! लोभानलज्वालयादन्दह्यमाने सति निखिलेऽपि राजपरिवारे कोऽयन्ते व्यामोहः?
नवनीतकः – (सग्रीवाभङ्गम्)
भद्रे! नावगच्छामि ते वचनम्। किमभूद्राजपरिवारस्य?
कपर्दिका – आर्य! अद्यतनं वृत्तं न किमपि भवता श्रुतम्?
नवनीतकः –(साश्चर्यम्)
कपर्दिके! न खलु किमपि। तदाशु श्रावय किमभवन्मम वयस्यस्य?
कपर्दिका – शृणोत्वार्यः। लोकविश्रुतोऽस्माकं महाराजस्य काञ्चनाभिलाषस्तु आर्येणापि सुष्ठु ज्ञायते। असौ तु,
प्रासादप्रतिमागृहप्रविततप्रेक्षालयप्राङ्गणं
वीथोगोपुरचैत्यशुल्कसदनप्राकारघण्टापथम्।
वापीकूपतडागभूधरगुहावृक्षालवालादिकं
साम्राज्ये सकलं निजे कलयति स्वर्णाञ्चितं यत्नतः।।६
नवनीतकः – एतत्तु सर्वे पौरजनाः शोभनं जानन्ति। ततस्ततः?
कपर्दिका – ततस्त्वार्य! भोजनविधिं निष्पाद्य सुप्तो नरपतिः व्यतीतायां रजन्याम्। किन्त्वजातशत्रुः सन्नपि काञ्चनलोभापहृतचेतनो निशीथं यावत् न निद्रामभजत।
नवनीतकः – (अपाङ्गे विकुञ्चय)
ततस्ततः?
कपर्दिका – अथ शर्वर्यास्तृतीये प्रहरे यावदेव राजा नयने निमील्य निद्राङ्गनोत्तुङ्गकुचशर्करिलोत्सङ्गतल्पे सुखमनुभवति, तावदेव
न्यक्कुर्वञ्छयनप्रदीपममलं कुड्याविटङ्कस्थितं
सौरभ्यं मकरन्दविन्दुकलितं विस्तारयन्सर्वतः।
वाद्यं दिव्यमदं लसद्दिविषदां चर्यानुकूलं किम-
प्यातन्वन्प्रकटीबभूव पुरुषः कोऽप्युज्ज्वलाभो महान्।।७
नवनीतकः – (नयने विस्फार्य)
कपर्दिके! ननु रोमाञ्चमनुभवामि। ततस्ततः?
कपर्दिका – तततस्तु प्रबोधितो धरणीपतिस्तेन दिव्यपुरुषेण मंत्रितश्च – राजन्! त्वत्सपर्यया वैशद्यमुपगतैः भगवच्चरणैः सम्प्रेषितोऽयं सेवकस्तवाभिलाषं पूरयितुं समागतः। तन्निशामय मे वचनम्। दिव्यशक्तिन्ते ददामि। श्वः प्रातरेव...............
(इत्यर्धोक्त एव)
नवनीतकः – आश्चर्यमाश्चर्यम्। पूर्वन्तु न श्रुतं न वा दृष्टम्। कपर्दिके! ततस्ततः?
कपर्दिका – आर्य! देवदूतस्य सावशेषं सन्देशं मध्यत एव खञ्जीकृत्य भूपालेन हर्षोन्मत्तीभूय प्रार्थितम् यत् प्रभो शरणागतवत्सल! मदनुग्रहाभिलाषिन्! किम्मे काञ्चनस्वप्नोऽपि अवैतथ्यमुपगमिष्यति? ततस्तु यावदेव,
प्रातरेव समुत्थाय कृत्वा स्नानं महीपते।
यत्त्वं स्पृशसि साकांक्षं तत्सद्यः स्यात् सुवर्णकम्।।८
इति तारस्वरेण शुभाशीर्वचनं वितीर्य देवदूतोऽसावदर्शनमेति तावदेव किञ्चिदपरमपि प्रष्टुकामस्य नृपतिपुरन्दरस्य नयनयुगलम् उन्निद्रतामुपगतम्। प्रहरमात्रावशेषापि सा निशीथिनी युगायमानेव यथाकथञ्चिद् व्यरंसीत्।
नवनीतकः – (साश्चर्यं मुखं व्यादाय लोचने विस्फार्य च)
भवतु। कपर्दिके! किमिदानीमनुतिष्ठति मे वयस्यः?
कपर्दिका – आर्य! अथाद्य ब्रह्मवेलायामेव शयनादुत्थाय लीलाशुकश्लोकपाठं खलीकृत्य लोललोचनाङ्गरक्षिकोत्थापनविधिं निवर्त्य वितानवैतालिककृतालीकयशोगाथामनास्वाद्य चरणचणचारणभणितिचर्यामननुश्रूय पट्टमहिषीमुखाम्बुजचुम्बनैकप्रातराशमपहाय अत्रभवन्तमपि परमविनीतकंनवनीतकं वयस्यरत्नम् अविज्ञाप्य भर्ता निभृतनिभृतं स्नानमकरोत्।
नवनीतकः – (सोल्लुण्ठम्)
बाढम्। सम्यगुपलक्षितम्मयेदानीम्। कपर्दिके! निवेदयाग्रतः।
कपर्दिका – आर्य! ब्रह्मवेलायामेव क्रोशति हर्म्यताम्रचूडे, विनदति गोपुरपणवानके प्रवहति रुचिरं पुरन्दरदिक्पवने प्रवुद्धेऽपि च निखिलेऽन्तःपुरे भूजानिरस्माकं विवेकशून्य इव यन्त्रचालित इव सर्वथोन्मत्त इव सकलमपि वस्तुजातं धावंधावं संस्पृशन् सन्दृष्टः। अथ कतिपयनिमेषान्तराल एव,
कृपाणकवचाङ्गदं निखिलवेषभूषाम्बरं
विटङ्कप्रमदाटवीनियुतरत्नसिंहासनम्।
मतङ्गजहयादिकं पशुधनं लसद्वैभवं
बभूव सुमनोहरं हतकलङ्कचामीकरणम्।।९
नवनीतकः – अहो अश्रुतपूर्वं वृत्तम्। दैवगतिरपि.............
(इत्यर्धोक्ते)
कपर्दिका – आर्य! श्रूयतां तावदुत्तरांशोऽपि कथानकरसायनस्य। अमन्दानन्दारविन्दमिलिन्दायमानो भूपतिस्तु चिरकालसञ्चितं स्वमनोभिलाषं सम्पूर्यमाणं दर्शं दर्शं परां तितिक्षामुपजगाम। एवमेवाचरतस्तस्य विगतः पूर्वाह्णः। समुत्थितश्च माध्याह्निको दुन्दुभिध्वनिः। वैतालिकैरपि गीतमासीत्,
धन्या सा रम्यवापी विहरति नितरां यत्र मत्तो मरालः
क्षोणीयं सैव धन्या नलिनवलयिनी यत्र वापी निखाता।
धन्यं कीलालजालं मृदितमृगमदं धौति यत्ते शरीरं
राजंस्ते स्नानमानं कलयितुमधुना वर्ततेऽलं नपाशी।।१०
नवनीतकः – (सब्रूभङ्गम्)
साधु गीतं वैतालिकैः।
कपर्दिका – तदनन्तरमार्य! तदभूत् यद् दृष्ट्वा सकलमप्यन्तःपुरं निरर्गलजडतामुपगतम्। यावदेव भर्ता स्नानाय जलमल्लकं गृह्णाति तावत् स्पर्शमात्रेणैव निखिलापि जलद्रोणी संशप्तगौतमगेहिनीव द्रवीभावमपहाय जडसुवर्णताङ्ता।
नवनीतकः – अये मातः च्च च्च च्च! अद्भुतं संवृत्तम्! ततस्ततः?
कपर्दिका – आर्य! इदानीन्तु वर्णनमात्रैकरुचिकोऽयं वृत्तान्तः। न स्नाति, न खादति, न पिवति। स्पर्शमात्रेणैव सुवर्णजडताङ्गतेषु सर्वेषु भोज्यपेयग्राह्यपदार्थेषु किंकर्तव्यविमूढो नरपतिः केवलं मुक्तास्थूलान् नयनजलबिन्दून् निपातयन्नास्ते (इति गादीभूयास्फुटं रोदिति)
(नेपथ्येऽनुश्रूयते)
भोः भोः पौरजनाः अप्रमत्ताः भवत। निरनुक्रोशो दैवकोपानलो विदहति नगरम्। संशयापन्न इदानीमस्माकं नरपतिः। स्नेहविकलेन सन्ततिवत्सलेन महाराजेन निर्विवेकं र्सस्पृष्टा राजपुत्री सुवर्णप्रतिमा जाता। तत् क्रियतां सयत्नं देवाराधनम्। दीयतां गृहदेवताभ्यो बलिः। समर्च्यतां विनश्यद्राष्ट्रकल्याणाय जगन्नियन्ता परमेश्वरः।
कपर्दिका – (ससंभ्रमम्)
आर्य नवनीतक! अनर्थवृत्तमापतितम्। हा हन्त, साम्प्रतं किं कर्तुं युज्यते? हा राजपुत्रि! कुटुम्बिजनान् तिरस्कृत्य कुत्र गतासि! हा दैव! मुषितं त्वयाऽस्मत्सर्वस्वम्। छलितं त्वयाऽस्मदावलम्बनम्!
(इति करुणं विलपति)
नवनीतकः – (शोकवेगं नियम्य सधैर्यप्रदर्शनम्)
माऽऽलं सन्तप्य कपर्दिके! भद्रे! समाश्वसिहि समाश्वसिहि। सर्वथा शुभमेव विधास्यति विरिञ्चिः।
कपर्दिका – (तारस्वरेण विलप्य)
आर्य! कथन्नु खलु समाश्वसिमि। यदधश्छायायामाजन्मनः विश्रमं लभे तमेव महार्धद्रुमं साम्प्रतमसाम्प्रतकारी कृन्तति कृतान्तः।
नवनीतकः – (सस्नेहस्पर्शम्)
भद्रे! जानामि तेऽनुरागं नृपतिकुटुम्बं प्रति! तन्माऽऽत्मानमधिकं पीडय। एहि भद्रे! त्वरितं तत्रैव गच्छावः।
(उभौपरिक्रामतः)
(ततः प्रविशति दीनवदनोन्मत्तवेषो राजा विलपन्त्या महिष्य़ानुगम्यमानः)
राजा – (सोदरताडनं व्यथां नाटयन्)
हा प्रिये! बुभुक्षया प्रसह्यापह्रियन्ते प्राणाः। पिपासया सरभसमिन्द्रियाणि निर्बलीक्रियन्ते। हा दुर्दैव! किमिदमापतितम्? मया नाम परप्रत्ययनेयबुद्धिना सुवर्णलोभादयमात्मा संशये निपातितः।
(मूर्छां नाटयति)
राजमहिषी – प्राणवल्लभ! समाश्वसिहि। नाथमज्जीवितसर्वस्व!! किमेवं मामेकाकिनीं परित्यज्य लोकान्तरं जिगमिषसि? दीनबन्धो! त्वया विना नाहमस्मिन् भूतले पलमात्रमपि जीवितुमिच्छामि!
(इति राजस्पर्शमुपेक्ष्य भूमौ निपतति)
राजा – (समाश्वस्य नयने चोन्मील्य)
देवि! सम्प्रति सज्जय मे चिताम्। देहि से चरमं तिलाञ्जलिम्। एष जीवन्नेव चेतनया मुच्यमानोऽस्मि। तत्किम्मया जीवितेन मृतेन वा? पश्य प्रिये,
मृणालमृद्वी मृगशावकाक्षी
शशाङ्कलेखेव विवर्द्धमाना।
ममैव पापस्य सुवर्णलोभात्
सुतानघा हन्त बभूव नष्टा।।११
(आकाशे लक्ष्यं बद्धवा)
वत्से! एष ते वैधेयो जनकस्त्वरितमागच्छति। पुत्रि! मा भैषीः। अयमहमागच्छामि त्वत्समीपम्।
(स्मरणं नाटयित्वा)
हा वयस्य नवनीतक! त्वमपि विपत्पारावारे विनिमज्जन्तं मां न सन्दृष्टवानसि। त्वयाऽसकृन्निवारितोऽपि स्वर्णलोभं नात्यजम्! हा हन्त,
प्रनष्टो धीदीपश्चलति ननु लोभस्य पवने
ततोऽन्धत्वं सकलककुभः शून्यविकलाः।
हृतं मच्चैतन्यं दुरितसुकृतस्थानगणकं
ततः किं किं वृत्तं न खलु मम जानाति हृदयम्।।१२
हा अकरूण देवदूतहतक! मादृशं प्राकृतजनं विपरीतलक्षणया विमोह्य निकृतिगर्ते च निपुणं निपात्य प्रसीद साम्प्रतम्। हा पौरजानपदाः! एतत् ते सेवकस्य जीवितम् (इत्यर्धोक्ते)
(नेपथ्ये महान् कलकलध्वनिः श्रूयते)
कपर्दिका – (अपटीक्षेपेण प्रविश्य) आगच्छति।
(इति स्थूलस्थूलं श्वसिति)
राजमहिषी – (ससम्भ्रमम्)
कपर्दिके। क आगच्छति, कुतो वाऽऽगच्छति?
कपर्दिका – (श्वासगतिं किञ्चिन्नियम्य)
भट्टिनि! एष आर्यो नवनीतको भर्तुर्भव्यसम्पादनदक्षं देवदूतवराभिमंत्रितं परिपूतजलमादाय आगच्छति।
राजमहिषी – (सवेगं कपर्दिकां कण्ठेनाबद्धय)
वत्से! नाहं त्वामीदृगपूर्वप्रियनिवेदयित्रीं रिक्तपाणिं द्रष्टुमुत्सहे। तद् गृहाणेदम्।
(इति कण्ठप्रदेशादुन्मुच्य रत्नावलीं प्रयच्छति)
भद्रे! साम्प्रतं वर्णय नवनीतकवृत्तान्तम्।
कपर्दिका – भट्टिनि! मन्मुखात् सकलमपि भर्तृचरितमाकर्ण्य समकालमेव नेपथ्यवचनतो भर्तृदारिकायाश्चापि निधनविषयकमवितथतथ्यं श्रुत्वा कठिनीकृताकृतिः हा वयस्य हा जगदाधार हा चन्द्रवदनेति विविधमस्फुटं विलपन्नार्यो नवनीतकः प्रमदोद्यानपरिसरस्थितपुराणदेवालयं यावत् मया कपर्दिकया सार्धमाजगाम।
राजमहिषी – श्रुतम्। ततस्ततः?
कपर्दिका – भट्टिनि! तदनन्तरं भर्तुर्दौर्भाग्यनिवारणक्षमां देवसपर्यां सम्पादयितुकामेनार्येण नवनीतकेन पुष्पावचयार्थं साग्रहं सम्प्रेषिताहं यावदेव पुष्पाणि प्रावारके निधाय प्रत्यागच्छामि तावदेवात्रभवन्तं देवविग्रहसमक्षमवनमितशरीरं स्थूलरुधिरधाराक्लिन्नशिरसञ्च पश्यामि।
राजा – (चेतनामुपलभ्य) हा सुहृदेकबन्धो नवनीतक! किमिदं त्वयातिनृशंसमनुष्ठितम्?
राजमहिषी – (सपरिदेवनम्)
कपर्दिका – शृणोतु भट्टिनि! ततः प्रविष्टायामेव मयि देवायतने भक्तजनसमक्षमेव काप्यशरीरिणी दैवी वागुदचरत् – उतिष्ठ वत्स नवनीतक! उतिष्ठ!!
न युक्तस्ते प्राणत्यागसंकल्पः सुहृद्विनाशे सति। एष लोभाविष्टमानसो नरपतिः न साम्राज्यं साधु चिन्तयति, न विद्वज्जनसमादरं विदधाति, न वा कुलशीलव्यवस्थामपेक्षते। एष मूर्खः............
(इत्यर्धोक्ते राजविरुद्धसमुदाचारभयात् हस्ताभ्यां वदनं पिधाय)
राजमहिषी – न भेतव्यं कपर्दिके! देववाणीविनिवेदने कस्ते दोषः? तत्कथय़ाग्रतः?
कपर्दिका – (सवैलक्ष्यम्)
एवमेव भट्टिनि! भर्तृचरणानां बहून् दोषान् प्रख्याप्य पुनस्तया वाचयाभिहितम् यद् वत्स नवनीतक! मम पादमूले मस्तकमभिहत्य प्रवहन्त्या बहलरुधिरधारया यत्त्वं मदसाधारणसपर्यां कृतवानसि तयैव वशीकृतोऽहं तुभ्यं वरं दातुमिच्छामि। तद् ब्रूहि निर्विशङ्कं किन्ते प्रियमनुष्ठेयम्?
राजमहिषी, राजा – कपर्दिके! ततस्ततः?
कपर्दिका – भट्टिनि! महाराज!! ततस्तु आर्येण नवनीतकेन साष्टाङ्गीकृतकायेन मुखं किञ्चिदुन्नमय्य सबाष्पनयनमेतावदेव याचितम् – प्रभो शरणागतवत्सल! कल्याणं भवतु मे वयस्यरत्नस्य। चिरञ्जीवतु राजदारिका। देव विश्वम्भर! विनश्यतु स्वर्णविधात्री दानवी स्पर्शशक्तिः। प्रकृतिमनुसरतु मे प्रजावल्लभ इति।
राजा – एष सुहृदाशिषा प्रत्युज्जीवितोऽस्मि।
राजमहिषी – आर्य नवनीतक! आजीवनन्ते चरणारविन्दचञ्चरीका भवामो वयम्।
कपर्दिका – भट्टिनि! विरमितयाचन एवार्ये नवनीतके साप्यशरीरिणी वाक् ओमित्युक्त्वान्तर्हिता। एतत्पर्यन्तमेव संश्रूय सन्दृस्य प्रद्रुताहं भवच्चरणसकाशमागतास्मि। श्रुत्वा देवी प्रमाणम्।
दौवारिकः (प्रविश्य सहर्षम्)
देव! एष आर्यो नवनीतको देवालयपुरोहितेन सह समागत्य प्रतिहारभूमिमलङ्करोति।
राजा – (सोत्कण्ठमासनादुत्थाय बाहू प्रसार्य चोन्मत्तीभूय धावति)
प्रवेशय प्रवेशयाशु मे बालमित्रम्!
(तारस्वरेणोच्चार्य)
क्वासि भो नवनीतक! क्वासि!!
नवनीतकः – (पुरोहितेनानुगम्यमानो जानान्तिकम्)
महात्मन् पुरोहित! स्नेहविकलोऽयं नरपतिः न धैर्यमपेक्षते। तदत्रभवान् समापतन्तं तं दूरत एवाभिमंत्रितजलाभिषेचनेन प्रकृतिस्थं करोतु। अहमपि तावन्मित्रोचितसमुदाचारं प्रतिपालयामि।
(पुरोहितस्तथा चरति। राजा सद्य एव प्रकृतिस्थो भवति)
राजा – अहो मे सार्वकालिको वयस्यो नवनीतकः सम्प्राप्तः।
(नवनीतकं गाढमाश्लिष्य)
वयस्य! त्वया परित्यक्तस्य मम कीदृशं पतनं बभूव। पश्य मे दुर्दशाम्!
(इत्यात्मानं प्रदर्श्यं सोपगूढं चिरं रोदिति। सर्वे परिजना अश्रुपर्याकुलनयना भवन्ति)
नवनीतकः – महाराज! वयस्यरत्न!! अलं व्यतीतं संस्मृत्य। साम्प्रतमुपरागमुक्तः शशलाञ्छन इव पुष्कलं शोभसे। स्वस्ति भवते, विजयस्व, वर्द्धस्व!!
राजा – (विनम्रीभूय)
एषपुनर्भवद्भयः प्रणमामि।
नवनीतकः – (एकतो विनिर्दिश्य)
महाराज! एष ते देवालयपुरोहितो देवाज्ञामनुपालयितुं मया सार्धं समागतः। दिव्यशक्तिसम्पन्नेन अस्यैव देवचरणामृतजलप्रोक्षणेन प्रकृतिमागतोऽत्रभवान्। प्रणमैनम्।
राजा – (जानुभ्यां महीमुपस्पृश्य कमलकोरकाकृतिमञ्जलिं शीर्षे निधाय)
कुलगुरो! एष अकिञ्चनको वराको जनसेवकोऽत्रभवन्तं प्रणमति। प्रभो! कृतापराधो नाहं सम्मुखीभवितुं शक्नोमि। तत् क्षम्यताम्।
पुरोहितः – महाराज! चिरं विजयश्रियमवाप्नुहि। जननान्तरकृतपापोदये प्रवृत्ते सति कः प्रभवति! पश्य भूपते!
रघुपतिर्लुलुभे मृगपोतके
ननु दुरोदरके छलितो नलः।
प्रभवति प्रथितं नहि पौरुषं
बलवती खलु सा भवितव्यता।।१३
राजन्! एतत् सकलमप्यन्तःपुरवस्तुजातं देवताप्रसादात् सुवर्णभावं परित्यज्य पुनरपि प्रकृतिभावं समागतं वर्तते।
(इङ्गितंकृत्वा)
एषा राजदारिकापि............
(इत्यर्धोक्ते)
राजा – अये क्व वर्तते मे दुर्ललिता दुहिता...........?
(कपर्दिकोत्सङ्गे क्रीडन्तीं पुत्रीं स्वाङ्कपाल्यामारोप्य मुखं विचुम्व्य बहुप्रकारेण लालयन्)
वत्से! नयनज्योत्स्ने अद्य दैवप्रसादात् पुनः सम्प्राप्तासि।
पुरोहितः – महाराज! साम्प्रतं देवशासनमनुयाहि। एष ते नर्मसचिवो नवनीतकस्ते यथावसरं सदुपदेशं दास्यति। पृथ्वीपते! सत्यं वद, धर्मं चर, प्रजावत्सलो भव। मा पुनः अकिञ्चनकाञ्चनलोभं कार्षीः। ब्रूहि किन्ते भूयः प्रियमुपहरामि?
राजा – समर्च्यचरण! किमपरं मेऽभीप्सितं स्यात्? काञ्चनमोहो मे प्रनष्टः। दुहिता मे स्वर्गात् प्रतिनिवर्तिता। वयस्यो मे नवनीतकः पुनरपि मयि सानुक्रोशः। अत्र भवतां गुरुचरणानां देवपादमूलानाञ्चानुकम्पया सर्वमेवोपपन्नम्। तथापीदमस्तु भरतवाक्यम्!!
कण्ठे कण्ठे निकामं विबुधगुरुगुरं यत्नतः स्थापयित्वा
चित्ते चित्ते चरित्रं दुरितदरहरं पावनं पूर्वजानाम्।
विद्वेषाग्निञ्चहत्वा निखिलजनमनः कामनां कल्पयित्वा
राष्ट्रेऽस्मिन्भारताख्ये विलसतु नितरां लोकतंत्राधिकारः।।१४
(जवनिकापातः)