अन्यच्च
(उपन्यासः)
प्रणेता
राधावल्लभः त्रिपाठी
प्रकाशिका
संस्कृत भारती
नवदेहली
प्रथमं संस्करणम्, 2011
सर्वेऽधिकाराः ग्रन्थकाराधीनाः
मूल्यम् -
55
उपन्यासोऽयंसमर्प्यते
कविपुङ्गवेभ्यो रसिकशिरोमणिभ्यः
श्रीजगन्नाथपाठकेभ्यः
कथायाः पात्राणि
विशाखः - उपन्यासस्य नायकः
सनातनः सूतवर्यः - ग्रन्थिकः पुराणवाचको वा सूतः।
शाखोटकः - विशाखस्य पिता।
सौम्यदेवः - गुरुकुले विशाखस्य आचार्यः
कौण्डिन्यः - गुरुकुले विशाखस्य ज्येष्ठः सतीर्थ्यः।
चिरजीवी - लक्ष्मणपुरस्थः वैद्यः।
विपाकः - गुरुकुले विशाखस्य सतीर्थ्यः, चिरजीविवैद्यस्य पुत्रः।
ठक्कुरः--भद्रपुरीग्रामस्य ग्रामणीः।
वेदमित्रः-- भद्रपुरीग्रामस्य श्रोत्रियः।
डिण्डिमपण्डितः -- भद्रपुरीग्रामस्य अपरः श्रोत्रियः, स्त्रीयाजकः।
लम्बग्रीवः - भद्रपुरीग्रामे तान्त्रिकः
नाराचः, तूणीरश्च - लम्बग्रीवस्य शिष्यौ
श्रीकण्ठः - ठक्कुरस्य दिवङ्गतो ज्येष्ठपुत्रः।
सालङ्कः- भद्रपुरीग्रामे ठक्कुरस्य कनीयान् तनयः। श्रीकण्ठस्य अनुजः।
कालिन्दी - भद्रपुरीग्रामे ठक्कुरस्य पुत्रवधूः। श्रीकण्ठस्य विधवा भार्या।
राङ्कवः - ठक्कुरस्य प्रथमः शाकटिकः शकटचालको वा।
सोड्ढलः - ठक्कुरस्य अपरः शाकटिकः शकटचालको वा।
ईश्वरीदेवी - ठक्कुरस्य भार्या।
कर्णपूरः -भद्रपुरीग्रामस्यशिबिकावाहकः कविश्च।
कल्माषी - शाकलपुरस्य काचन वेश्या।
कनिष्कः - शकसम्राट्।
अश्वघोषः - महाकविः, कनिष्केण सम्मानितः।
सुश्रवाः - किन्नरपुरे तदनु नवकिन्नरपुरे निवसन् नागजातीयः उद्यानपालः।
इरावती - सुश्रवसो नागस्य ज्यायसी पुत्री।
चन्द्रलेखा - सुश्रवसो नागस्य कनीयसी पुत्री।
खण्डकः - नागजातीया युवकाः
सुमन्तः - काश्मीरे विशाखस्य
पैलः - सहायकाः
ककुत्
सिद्धाञ्जनः
वज्रकायः
वज्रकीर्तिः - तक्षशिलाविद्यापीठे आचार्याः
विनयशीलः
भद्रबाहुः
छन्नः - अश्वघोषेण विशाखस्य कृते प्रेषितेषु सेवकेषु मुख्यः
भूमिका
अन्यच्च इति उपन्यासः मम आजीवनसाधनायाः प्रतिफलम्। साधनैवेयं कियती अल्पीयसी इति शक्यमनुमातुममुना लघुना मत्प्रयासेन।
यत्किमपि अधीतम्, ज्ञातम्, अवबुद्धम्, परिशीलितम् वा-प्रायः तस्य सर्वस्यात्र समावेशाय मया प्रयतितम्। कृतेऽपि प्रयासे प्रायः सर्वमेव अवशिष्टम्। अन्यच्च इति उपन्यासस्यास्य नाम अमुमेवावशेषं सङ्केतयति।
प्रयासस्तु मया महान् कृतः, तथापि कियल्लघुरेवायं प्रयास इति विज्ञा विज्ञास्यन्त्येव।
उपन्यासस्यास्य लेखने बहोः कालादहं व्यापृत आसम्। तथापि यावान् कालोऽत्र विनियोजनीय आसीत् तावान् न विनियोजितः।
दिष्ट्या अयमैषमः पूरितः। महता श्रमेण सायासं पूरित इति वक्तव्यम्। तथाप्यपूरित एवेति प्रतिभाति।
उपन्यासनायकस्य विशाखस्य भारतवर्षे आमध्यदेशात् आकाश्मीराच्च यात्राऽत्र क्रमशो विवृता। अन्यच्च इयं यात्रा नाद्यावधि समाप्ता। बहु अवशिष्टमिति वक्तुं शक्यते।
कालगणनायाम् ऐतिहासिकघटनानां च निरूपणे उपन्यासोऽयं क्वचित् कल्हणस्य राजतरङ्गिणीं श्रयति। क्वचिदाधुनिकैरितिहासकारैर्निर्दिष्टानां घटनानामपि अत्र उल्लेखो दृश्येत। अलक्षेन्द्र (एलेक्ज़ेण्डर)-मोअस-एअस- इति ग्रीकराजानः, शुङ्गवंशीयो बृहद्रथः, सेनापतिः पुष्यमित्रः तदमात्यः पतञ्जलिस्तथैव हेलियोदोरस-वसुमित्र-चरक-सुश्रुतादयः अत्र प्रसङ्गवशात् केवलं नामभिश्चर्चिताः, सर्व एवैते इतिहासविश्रुताः। तथैव चात्र निरूपितेषु पात्रेषु अश्वघोष-ईश्वरकृष्ण-कनिष्काः सत्यमेव ऐतिहासिकाः, शिष्टानां पात्राणामस्तित्वम् इतिहासे कदाचिन्न न सिध्येत।
आदरणीयाभिः दीक्षितपुष्पाभिर्न केवलं व्याकरणदृष्ट्या अस्य उपन्यासस्य मातृका शोधिता, क्वचिद् बहुमूल्येन परामर्शेनापि कृतिरियमुपकारिता। तासामुपकारेण कृतकृत्योऽस्मि। मम अत्यन्तं योग्येषु शिष्येषु नारायणदाशोऽपि मातृकामवलोक्य सूक्ष्मेक्षिकया शोधनं कृतवान्।मन्ये उपन्यासोऽयं समकालिकसंस्कृतसाहित्ये नवसर्जनादिश उद्घाटयिष्यति। इति -
- राधावल्लभः