प्रथमः खण्डः
तेजस्वि नावधीतमस्तु
(1)
निकषा काशीं भद्रपुरी नाम ग्रामः। अयमेव ग्रामः सम्प्रति भदौहीति कथ्यते इति अस्य उपन्यासकारस्य मतिः। परन्तु सम्प्रति यः ग्रामः भदौहीनाम्ना व्यपदिश्यते, तस्य कथा अस्मिन् उपन्यासे न प्रस्तूयते। इयं कथा कदाचित् इतः प्रायः द्विसहस्रवर्षपुरातनी स्यात्।
इदम्प्रथमतया ग्रामस्य सरस्वतीभवने समाजो भवति स्म। समाजस्य आयोजनं कारयति ग्रामठक्कुरः।
समाजेषु मेलकेषु वा अश्लीलनृत्यनाटकानि विद्रवाश्च भवन्ति इति राज्ञा अशोकेन अतीतेषु बहुषु वर्षेषु समाजाः प्रतिबन्धिता इति श्रूयते। ततश्च कैश्चिद् भगवद्भक्तिपरायणैः जनैः पुराणपारायणानाम् आयोजनाय पुनरपि समाजानां प्रवर्तनमारब्धम्। विघ्नानां निवारणाय एतादृशाः समाजाः सरस्वतीभवनेषु भवन्तु इति च व्यवस्था विहिता। एवं स्थिते भद्रपुरीग्रामेऽपि ग्रामठक्कुरेण सरस्वतीभवनं निर्मापितम्।
सरस्वतीभवनमिदं नातिविशालं, परन्तु रम्यम्। बहिः सप्तपर्णवृक्षस्य अधः वर्तते एका वेदिका। तत्परितस्तुलसीपादपानां पङ्क्तिः। चतुर्दिक्षु व्रततिवलयाः। द्वित्रा इङ्गुदीवृक्षा अपि सन्ति। तेषां मध्ये वर्तते महान् रसालतरुः, तत्पार्श्वे च एक आमलकवृक्षोऽपि। अन्तः वर्तते शाला। शालायां समाजे सङ्गता जनाः आख्यानं शृण्वन्ति स्म। अत्रत्याः आख्यानस्य कृते पुराणपारायणमिति व्यवहारमपि कुर्वन्ति।
आख्यानकथकः वर्तते कश्चन ग्रन्थिकः। ग्रन्थः तस्य सम्मुखं स्थापितः। परन्तु ग्रन्थात् पठित्वा प्रायो न आख्याति स कथाम्। कथा तु तस्य कण्ठगता। कण्ठे तदीये साक्षात् सरस्वती विराजते इति प्रतीयते। यद्यपि सारसस्य क्रेङ्कार इव विरसस्तस्य स्वरः, परन्तु स्फीता वाग्धारा स्वप्रवाहेण श्रोतॄणां मनांसि हरन्ती तदीयमुखात् प्रवहति।
ग्रन्थिकस्य आकृतिः भव्या। आयुरस्य वक्तुं न शक्यते, पञ्चाशद्वर्षीयः स्याद्, षष्टिवर्षीयः स्यात्, सप्ततिवर्षीयो वा। मुखमस्य श्मश्रुणा दीर्घेण कूर्चेण च प्रावृतम्। नितान्तं गौरः वर्णः, प्रांशुबाहुः कपाटवक्षाः परिणद्धकन्धरश्च वर्तते। चन्दनतिलकेन शोभमानं तदीयंप्रशस्तं ललाटपटलम्। उज्ज्वलो गौरवर्णः, मुखे प्रलम्बं कर्बुरं कूर्चं तदुपरि दूरं विलम्बमाने श्मश्रुणी। धवलो वेषः, पीतं दुकूलं स्कन्धयोः।
कथायां विघ्ना अपि भवन्ति। विघ्नकर्तार आसन् पृष्ठभागे उपविष्टाः केचन जनाः। ग्रन्थिकः कथां कथयति, ते च परस्परेण आलपन्ति स्म। तथापि अत्यन्तं
मन्दस्वरेण। ग्रन्थिकस्तु तेषां वार्तालापमशृण्वन् कथाकथने मग्नः। अग्रिमपङ्क्तौ उपविष्टा जना अपि कथारसे निमग्नाः। परन्तु पृष्ठभागे उपविष्टानां जनानां संवादा एवं भवन्ति स्म -
-- अपि नाम अयं साक्षाद् व्यासः?
--- अथ किम्? व्यास एव साक्षात्...
--- न, न। व्यासमुनिः कथं स्यात्? व्यासमुनिस्तु द्वापरे युगे अभवत्। अयं कलियुगः। कलियुगस्यापि सार्धसहस्रं वर्षाणि व्यतीतानि।
-- तर्हि एते व्यासमुनय इति कथम् अकथयत् अस्माकं ठक्कुरः?
-- अरे एवं कथनीयं भवति। व्यासस्य उच्छिष्टमपि अस्य मुखे नास्ति - व्यासः कथं स्यात्। अयं वर्तते कश्चन सूतः।
-- किमाह भवान् -- सूतोऽयम्?
-- अथ किम् - अथ किम्? सूत एव। अयं कलियुगस्य महिमा .. वेदविदो विप्रा न क्वापि दृश्यन्ते। सूता यद्वा तद्वा गायनं वादनं नर्तनं च कुर्वन्ति - इदानीं गायने नर्तनेच शास्त्रमवशिष्टम्। तत्रैते शूद्राः प्रगल्भन्ते...
- ठक्कुरेण किमिदं कृतम्! वासुदेवस्य कृष्णस्य धर्मे दीक्षितः, सूतस्य आख्यानं चायोजयति!
- कश्चन सुव्रतो नाम मुनिस्तं हरिद्वारे मिलितः। तेनोक्तं तव पुत्रेण श्रीकण्ठेन स्थूलशरीरं तु त्यक्तम्, सूक्ष्मशरीरेणासौ भद्रपुर्यामेव भ्रमति। तस्य मुक्तये पुराणपारायणमायोजनीयम्। तस्य मुनेः उपदेशेनायं तथा करोति। अत एव सूत आमन्त्रितो आख्यानाय -- इदानीमयमेव शास्ता - अयमेव धर्मोपदेशकः --अस्मिन् ग्रामे - शास्त्रज्ञस्तु कश्चन नास्ति, एकः स्त्रीयाजकः वर्तते अपरस्तावदयं सूतः समागतः -
-- पूर्वं त्वत्र वेदमित्रनामानः सोमपीथिनः महान्तः श्रोत्रिया आसन्। एतस्य स्त्री- याजकस्य डिण्डिमपण्डितस्य कारणात् ते ग्राममिमं विहाय काशीं गताः। इदानीं डिण्डिमपण्डितो यद्वा तद्वा करोति कारयति, अन्यथा इमे सूताः...
-- अरे भवान् न जानाति - एतदपि व्यासेन मुनिना एव प्रोक्तम् - यत् कलियुगे एते एव राज्यं करिष्यन्ति...
-- अस्य ग्रामस्य का गतिर्भवित्री? पूर्वमत्र भैरवमन्दिरे महानन्दनामानो महायोगिनो न्यवसन्। ते समाधिं गृहीतवन्तः... अथवा अन्यथा किमपि जातं तेषाम् - इदानीं तस्मिन्
भैरवमन्दिरे महान् दुराचारो भवति.....
-- तूष्णीं भव इदानीम् - शृणु किमयं कथयति -- स्वर्गोऽपि नास्ति नरकोऽपि नास्तीति।
यथोक्तं ग्रन्थिकस्य सूतस्य वा स्वरो यद्यपि नात्यन्तं मधुरस्तथापि कथाकथनरीतिरतीव रुचिकरी। मध्ये मध्ये हस्तेन शम्याम्, आवापं सन्निपातं5 वा विरचयन् गायति, तदा चित्ते झङ्कृतयो जायन्ते।
प्रसङ्ग आसीत् कपिलमुनेः तदीयमातुः देवहूतेश्च संवादस्य। कपिलमुनिरवदत् - मातः, अस्यामेव धरायां स्वर्गश्च नरकश्च। नास्याः बहिः स्वर्गो वा नरको वा। नरः स्वयमेव
स्वकीयं स्वर्गं स्वकीयं च नरकं निर्माति..
- अलीकम् अलीकं खल्वेतत्। स्वर्गस्तु वर्तते उत्तरकुरोः परम् --
श्रोतारश्चकिताः। कुतोऽयं विघ्नः?
यः ग्रन्थिकः सूतो वा आख्यानं करोति स्म, तस्य नयने मुद्रिते। स श्रोतॄन् नावलोकयति, अवलोकयति आख्यानस्य संसारं प्रत्यक्षम्। यस्मिन् संसारे स्थित्वा येन केनापि एतादृशी शङ्का उपस्थापिता तस्मिन् संसारे एव स नासीत्। परन्तु शङ्कावचनं तु तस्यापि कर्णकुहरे निपतितम्। स क्षणं मुकुलितलोचनो ध्यानमग्नः स्थितः, अनन्तरम् नयने उदघाटयत्। उन्मीलितनयनं तं सम्मुखमवलोकयन्तं वीक्ष्य प्रश्नकर्त्रा स्वकीयः प्रश्नः आम्रेडितः।
प्रश्नः येन विहितः स सम्मुखं स्थितः।
अरे अयं तु बालक एव! अधिकादधिकं दशवर्षीयः स्यात्। प्रत्यादेशपरुषः अभियुञ्जान इव तस्य स्वरः। अस्मिन् अल्पीयसि वयसि एतावती कटुता कथम् ?
बालको दूरात् आगच्छन् श्रान्तः परिलक्ष्यते। तथापि तस्य मुखाकृतौ तेजस्विता न परिहीयते। स्कन्धे एकं तुम्बिकं भिक्षाकपालश्च तस्य स्कन्धात् लम्बेते।वस्त्राणि मलिनानि। एकं कार्पासोत्तरीयम् अस्तव्यस्तं दृश्यते, तदधः स्रस्तमधोवस्त्रम्।।
- उपविश रे डिम्भ उपविश! तं परितः उपविष्टा द्वित्राः श्रोतारस्तं तर्जयन्तोऽवदन्-आख्याने बाधा नैव कार्या.. एते सन्ति व्यासाः- एतेभ्योऽधिकं तु न जानासि त्वम् ...
- "न, न ....कथयतु सः" - ग्रन्थिकोऽवदत् - "बालकस्य मनसि शङ्का वर्तते...सा समाधेया.. एहि वत्स इत एहि - किमसि वक्तुकामः ?"
-एतद् वक्तुकामोऽस्मि यद् नास्ति स्वर्गो वा नरको वेति यद् भवान् वदति तन्मिथ्या। पुस्तकमदृष्ट्वैव भवान् यदृच्छया किमपि वदति। पुस्तके अवलोकयतु.. तत्र लिखितं स्यात् स्वर्गः कुत्र वर्तते .... मया महाभारतकथाश्रुता ...तत्र तु कथितम् -
ग्रन्थिको बालकं कौतुकगर्भाभ्यां नयनाभ्यां निर्वर्णयन् क्षणं जोषमास। अनन्तरं सस्मितमाह - किं कथितं महाभारते?
- महाभारते कथितं यत् स्वर्गः वर्तते हिमालयात् परम् उत्तरकुरुदेशे --
ग्रन्थिकोऽहसत्। अनन्तरं मधुरेण स्वरेण तं बालकमाह - सत्यं वदति आयुष्मान्। उत्तरकुरुदेश एव स्वर्ग इति केचन मन्यन्ते। स्वर्गस्तु ततोऽपि परमिति अन्ये वदन्ति। अपरे कश्मीरदेश एव स्वर्ग इति कथयन्ति। अथ कपिलमुनिना यदुक्तम् - अत्रैव स्वर्गो नरकश्चेति तदपि सत्यम्।
-- अरे व्यामिश्रं वदति भवान् पुष्पितया वाचा। यदि स्वर्गस्तत्र उत्तरकुरौ तर्हि अत्र कथं स्यात् ? एवं तु न भवति -
ग्रन्थिकस्तं किशोरं मर्मवेधिन्या दृष्ट्या पश्यन् अवदत् - कथं न भवितुमर्हति विशाख!त्वं लक्ष्मणपुरात् स्वगृहं त्यक्त्वा इतस्ततो भ्रमसि। तव पिताऽनिशं त्वां स्मरति स्म तत्र।तेषां स्मृतौ त्वं विद्यमानः। अतस्त्वं तत्राप्यसि। अत्राप्यसि। एवमेव स्वर्गोऽपि। अत्राप्यस्ति। तत्राप्यस्ति। नरकोऽपि तथा।
बालकस्य नाम सत्यमेव विशाख इत्यासीत्। स च विशाखो विस्मयविस्फारिताभ्यां चक्षुर्भ्यां तं ग्रन्थिकं पश्यन् कथमयं मां जानातीति चकितोऽवाक् स्थितः। अनन्तरं तस्य नयने वाष्पाविले जाते।
ग्रन्थिको व्यासासनादुत्थाय तमुपासर्पत्, तस्य शिरो हस्तेन परामृशन् सस्नेहं चावदत् - विमातुर्दुर्व्यवहारं सोढुं नैव अशक्नोस्तपस्वी त्वम्। मातरं च मृगयसि। माता क्व स्यात्? माता तु अत्रैव वर्तते। सा तव हृदये वर्तते।
अनन्तरं विशाखस्य हस्तं स्वहस्ते गृहीत्वा स श्रोतृसमाजमुद्दिश्य अवदत् – पुराणपारायणम् एतावदेव भवतु अद्य। सन्ध्या सम्प्राप्ता।
काचन अत्यन्तं रूपवती श्वतेवस्त्रावृता कन्या उपरि व्यासासनस्य स्थापितस्य देवस्य आरात्रिकं कर्तुमारब्धवती। ग्रन्थिकः स्तुतिं गायति।
कृष्णाय वासुदेवाय हरये परमात्मने।
प्रणतक्लेशनाशाय गोविन्दाय नमो नमः।।
विशाखश्चकितचकितो विलोकयति। स गुरुकुले अधीतवान्। वेदवेदाङ्गेषु कृत- श्रमः। एतादृशमारात्रिकं तत्सहचरितं गानं च तेन इदम्प्रथमतया श्रुतम्। जनाः कथं ध्याना- वस्थिततद्गतैकमानसा जाताः! या कन्या श्वेतवस्त्रावृता आरात्रिकज्योतिः भ्रमयति सा तु साक्षात् सरस्वती प्रतीयते।
अथ गृह्णन्तु वासुदेवस्य भगवतः प्रसादमिति कथयन् ठक्कुरः फलानि श्रोतृषु वितरति स्म।
एतस्य सर्वस्य आयोजनस्य सूत्रधारः स एव ग्रन्थिकः। तं सर्वे अवलोकयन्ति। यथा स निर्दिशति तथा कुर्वन्ति। विशाखस्तं मर्मभेदिन्या दृशा अवलोकयति। अयं क्वचित् कदाचिद् दृष्ट इति स्मरति।तथापि प्रत्यभिज्ञानं नोदेति। स चिन्तयति - मामयं कथं जानाति? कथमनेन मम नाम कीर्तितम् ? मम पितुर्विमातुश्च स्मरणं कृतम्। पूर्वं तु मया चिन्तितं यत्सत्यमेवायम् अन्तर्यामी, सर्वज्ञः - अत एव मम भूतं च वर्तमानं च ज्ञातवान्। परन्तु न। नायं कश्चन ऋषिः। एतादृशा मया बहवो दृष्टा दाम्भिकाः। अयं कश्चन परिचितः। तथापि मम स्मृतेः किं सञ्जातम् - कथमियं नोदेति ? कुत्र वा कस्मिन् प्रसङ्गे वा एनं दृष्टवानस्मि, आकृतिः क्वचित् स्मर्यते, ततोऽप्यधिकतरं परिचितः प्रतीयते अस्य स्वरः।
स स्वकीयां स्मृतिमधिकृत्य महद्गर्वं बिभर्ति स्म। तद्गर्वं विच्छिद्यमानमिव भाति अद्य।
तं तथा अपहस्तितव्यवसायं हतप्रभमिव अवलोकयन्तं स ग्रन्थिकोऽवदत् - वत्स, त्वं मां न प्रत्यभ्यजानीः। अहमस्मि सनातनसूतः। वाग्भटस्य पिता।
विशाखस्य नयनयोरुद्गतमश्रु शुष्कम्, तत्स्थाने अधरोष्ठयोः स्मितम् उल्लसति।
-- "अरे, भवन्तो वाग्भटस्य पितृपादाः!"- साश्चर्यं तमवलोकयन् सोऽवदत् -"एतदेव अहम् एतावता चिन्तयामि यत् भवन्तः क्व दृष्टाः किमर्थं प्रत्यभिज्ञाप्रत्ययो मे न भवतीति। श्मश्रुद्वयं तु पुरापि भवता अभवताम्, परन्तु भवद्भिः एतत् कूर्चं किमर्थं वर्धितम्? अस्य कारणात् भवन्तं परिचितमिति कलयन्नपि सर्वथा प्रत्यभिज्ञातुं नाशक्नुवम्। अस्तु,प्रणमामि अत्र भवन्तम्।"
इति वदति विशाखे -- "अहो महान् आनन्दः, महान् आनन्दः" इति कथयन् सूतवर्य उच्चैरहसत्। अथ प्रणमतो विशाखस्य उभौ हस्तौ स्वहस्ताभ्यां गृह्णन् प्रणामात्तं निवारयन्नाह - मा, मा। मा प्रणम वत्स!अलं मयि पातकन्यासेन। त्वं विप्रः, अहं शूद्रः..
-- अहं जन्मना जातिं न मन्ये। अन्यच्च - भवानपि वासुदेवस्य कृष्णस्य मतं प्रतिपादयति स्म अधुनैव - स आभीरः। सम्प्रति विप्रैरपि स पूज्यते। सोऽपि गुणकर्मशःश्चातुर्वर्ण्यं मनुते..
-- महानानन्दः! महानानन्दः! अरे त्वं तु महापण्डितः सञ्जातः। वर्धस्व - इति कथयन् सूतवर्यस्तस्य मस्तकं हस्तेन परामृशत्।
श्रोतृषु अवशिष्टा द्वित्रा जना अपि सकौतुकं विशाखस्य सूतवर्यस्य च एवं संवादं दूरान्निर्वर्णयन्ति स्म। अनन्तरं - "नमो नमो व्यासमुनये" - इति कथयन्तस्ते सूतं प्रणम्य सरस्वतीभवनान्निर्गताः।
- "त्वां विलोक्य वाग्भटं स्मरामि। वाग्भटेन सह असकृत् लक्ष्मणपुरे दृष्टः, तदानीं तु अत्यन्तं बाल आसीः। इदानीं त्वं महाविद्वान् सञ्जातः। वाग्भटस्तु तथैव अनधीतो वर्तते - सूतवर्यः सस्पृहं विशाखं निर्वर्णयन् वदति स्म। इदानीमहं व्यासो नास्मि। उपविश अस्मिन् आसने स्वैरमुपविश।.."
तस्याग्रहं मानयन् विशाखः पीठके उपविष्टः।
सूतवर्यो ब्रवीति स्म -एहि, मया सह आगच्छ। एतावता अटन् श्रान्तः प्रतिभासि। किमपि भुङ्क्ष्व। अद्य मया सह वस। ठक्कुरस्य गृहं गच्छामः। तत्रैव करिष्यामो भोजनम्।
विशाखः श्रान्तः बुभुक्षितश्च आसीदिति सत्यम्। स्वग्रामात् लक्ष्मणपुराद् विनिर्गतस्य तस्य त्रयो मासा अतीताः।
श्रोतृमण्डल्या जना उत्तिष्ठन्तः परस्परमालपन्ति स्म - अहो सर्वज्ञता मुनेर्व्यासस्य! तस्य बालकस्यभूतं च वर्तमानं च सर्वं करतलगतम् आमलकमिव विलोकयन् तदीयं गर्वं सर्वज्ञतया कथमसौ अच्छिनत्!
सूतवर्यः ठक्कुरम् आह - अयं मम ग्रामस्य लक्ष्मणपुरस्यैव सोमयाजिनो विप्रस्य तनयो विशाखः। अद्य मया सह अत्रैव वसेत्।
ठक्कुरः प्राह - यथा व्यासमुनिभ्यो रोचते। स्वागतं श्रोत्रियपुत्रस्य ... अस्माकं सौभाग्यात् भवान् प्राप्तः...।
(2)
शकटः शनैः शनैर्याति। कायस्तेन सह शनैर्दोलयति। विशाखस्य मनसि शनैः शनैः स्मृतयो दोलां रचयन्ति।
उभौ शकटेन स्वगृहं नयन् ठक्कुरो विशाखं पृच्छति स्म - किमर्थं गृहं त्यक्तम्?
श्रान्तस्य अटाट्यया पर्याकुलस्य विशाखस्य मनो न भवति तेन सह आलापाय।
तथापि स उक्तवान् - आर्य, विद्याध्ययनाय।
ठक्कुरस्तं पुनरपि पृच्छया अनुदत् - भवान् विप्रकुले लब्धजनिरिति उक्तं व्यासमुनिना -
विशाखः उदतरत् - अथ किम्? अथ स शुक इव रटितानि वाक्यानि उदाजहार - आर्य, तैत्तिरीयशाखाध्वर्युः सोमपीथी भारद्वाजगोत्रोत्पन्नो विशाखो नाम कर्कटकपौत्रः शाखोटकतनयोऽहम्।
श्रुत्वा सूतवर्यः पुनरहसत्। निरर्गलं प्रवहन् गङ्गाप्रवाह इव अच्छस्तदीयो हासः। सोऽवदत्- अरे विशाख! तव पितुर्नाम शाखोटक इत्येव मया विस्मृतम्। अहो महान् आनन्दः। बहोः कालात् तस्य दर्शनमेव मया न अवाप्तम्, अतीते मासे यदा अहं लक्ष्मणपुरं गतस्तदा स दृष्टः.....
विशाखः सहसा कौतुकाविष्टः। तमपृच्छत् - कदा मिलितो भवान् मम पित्रा? स कथं वर्तते इदानीम्?
-- सर्वं कथयिष्यामि। सम्प्रति ठक्कुरस्य गृहं प्राप्य किमपि अशनं च पानं च कुर्मः। अयम् अस्य ग्रामस्य राजा। अयम् अस्माकम् आश्रयदाता।
विशाखोऽपृच्छत् - "राजाऽयम्? तर्हि अस्य राजचिह्नानि क्व? अस्य छत्रम्, ध्वजः, चामरग्राहिणी??".
सूतवर्योऽवादीत् - "अरे! त्वं बहु प्रश्नान् करोषि। राजा तु राजैव.. किं छत्रेण, ध्वजेन, चामरेण वा?
श्रुत्वा ठक्कुरो हसति स्म। कथयति च - अरे परिहासं कुर्वन्ति व्यासमुनयः। अहमस्मि केवलं सेवकः। राजसेवकश्च भवतां दासश्च।
चरर- मरर इति ध्वनिं कुर्वन् शकटो याति। विशाखस्य क्लान्ते काये श्रान्तिः, उदरे च बुभुक्षा स्त्यायते। तथापि मनस्तु न क्लान्तम्, मनोऽध्यवस्यति, स्मृतीनां रोमन्थनं करोति। ताः स्मृतयो मुहुर्मुहुस्तदन्तः सृता वात्याचक्रं विरचयन्ति। तास्तं श्मशाने नयन्ति।
एतावति स्वल्पे वयसि द्विः कृता तेन श्मशानयात्रा। जीवनमेव श्मशानायितमिति सोऽनुभवति। ताः स्मृतयस्तं लक्ष्मणपुरस्य तदीये गृहे पुनर्नयन्ति। स्मृतीनां वातायनेन स पुनर्यात्रां करोति अतीतस्य जगतः........
....श्मशानकल्पं जगत्। यस्मिन् माता भस्मसाद् अभूत्,गुरुवर्याः सौम्यदेवा अपि कायमत्यजन्..
(3)
विशाखः पञ्चवर्षीयो वर्तते।
श्मशाने मातुर्देहश्चितायां स्थापितः। पिता मुखाग्निं ददाति स्म। विशाखो विलपति स्म। पिता इमं मन्त्रं जपति -
वायुरनिलममृतमथेदं भस्मान्तं शरीरम्।
ओम् क्रतो स्मर, कृतं स्मर
क्रतो स्मर कृतं स्मर।।
अग्ने नय सुपथा राये अस्मान्
विश्वानि देव वयुनानिविद्वान्।
युयोध्यस्मज्जुहुराणमेनो
भूयिष्ठां ते नम उक्तिं विधेम।।6
कृतमौर्ध्वदैहिकं कृत्यम्। विशाखेन दृष्टं मातुः शरीरं भस्मीभूतम्। श्मशानात् सर्वे परावृत्ताः। एकत्र न्यग्रोधवृक्षच्छायायां वेदिका आसीत्। सहसा पिता मस्तकं हस्ताभ्यां ताडयंस्तत्र उपविष्टः फूत्कृत्य रोदितुं चारब्धवान्। अन्ये तम् अवबोधयन्ति स्म।
विशाखेन इदम्प्रथमतया पिता एवं रुदन् दृष्टः। अपि नाम मातरि अस्य तथा स्नेह आसीत्?
परस्तात् सौम्यदेवानां गुरुकुले तेन धर्मशास्त्राणि अधीतानि। धर्मशास्त्रेषु विधानं वर्तते - कुटुम्बगतस्य कस्यापि निधने और्ध्वदैहिकं सम्पाद्य क्षीरवृक्षस्य च्छायायां रोदनं कुर्यादिति। तदनुसृत्य पित्रा रुदितम्। सहजं तु रोदनं नासीत् तस्य।
मृत्युना स्थूलं शरीरमेव नश्यति। सूक्ष्मेन देहेन मनुष्यः मृत्योरनन्तरं तिष्ठति, इति पिता वदति स्म। तव माता सूक्ष्मशरीरेण तिष्ठति इत्यपि तेनैव कथितमासीत्। - अपि नाम सा अवलोकयितुं शक्या? अपि नाम सा मया आलपेत् सूक्ष्मेण शरीरेण? इति एकदा तेन पृष्टम्। पिता किमपि न उदतरयत्, उष्णं निःश्वासममुञ्चत्।
तस्य माता अत्यन्तं सौम्या। माता यावती स्निग्धा, कोमला पिता तावानेव कोपनशीलः कठोरः क्रूरश्च। यदा स रुषा प्रचण्डः तं ताडयितुं प्रवर्तते, तदा मातैव तमङ्के सङ्गोप्य रक्षति स्म।
मातुर्निधनानन्तरं त्रीणि वर्षाणि प्रायोऽतीतानि। ग्रामाद् बहिः गुरुकुलमासीत्। स पित्रा अध्ययनाय तत्र प्रेषितः। गुरव आसन् आचार्याः सौम्यदेवाः। तदानीं स अष्टवर्षीयोऽभवत्। पञ्चमे वर्षेऽपि ब्राह्मणबालकस्योपनयनं भवति स्म। पिताऽपि अयं ब्रह्मचारी एव भवतु इति निश्चित्य पञ्चवर्षीयमेव तं गुरुकुले प्रेषयितुकाम आसीत्। परन्तुमाता अयं तु सर्वथा शिशुरेवेति निगदन्ती तदानीं तस्योपनयनं नानुमेने। प्रतिवेशे वसति स्म वैद्यश्चिरजीवी। तस्य पुत्रो विपाको विशाखस्यैव समवयस्कः सखा च। सोऽपि चिरजीविवैद्यस्तदानीम् आह - पञ्चमे वर्षे तु ब्रह्मवर्चस्कामस्यैव उपनयनं कार्यमिति मनुराह, अपरेषां तु विप्राणाम् अष्टमे वर्षे उपनयनं भवति। अत एव उभौ बालकौ इतः परं व्यतीते वर्षत्रये गुरुकुलम् उपनेतव्यौ इति।
पिता मयि न स्निह्यति इति आबाल्यात् तस्य मनसि प्रत्ययोऽभवत्। तथापि पितरि तस्य मनसि श्रद्धा वर्तते। स एव तस्य प्रथमो गुरुः। यदा पञ्चवर्षीयस्य तस्य उपनयनं न जातम्, तदा पिता गृह एव तमक्षरमातृकामशिक्षयत्। अनन्तरं च वेदाभ्यासमकारयत्। गृहे आस्तां यजुर्वेदस्य महर्षिगौतमप्रणीतस्य धर्मसूत्रस्य च मातृके। विशाखो यदा कदाचित् पुस्तकमुद्घाट्य पाठाय यतते। यद् वा तद्वा वाक्यं समग्रं पठित्वा कदाचित् अर्थमपि असौ तस्य घटयति, घटिते अर्थे प्रमुदितो भवति। अरे पुस्तकस्याध्ययनेन तु संसार एव नवीनो भवति इति सकौतुकं कथयति आत्मनाऽऽत्मानम्। अक्षरे तु समस्तं क्षरं विश्वं समाहितम् इति स तदानीमजानात्।
आसंस्तस्य सखायस्तदानीं वैद्यस्य चिरजीविनः पुत्रो विपाकः, पुराणवाचकस्य सनातनसूतस्य तनयो वाग्भटः, पङ्क्तिपावनस्य विप्रस्य सुमनोदेवस्य कुण्डः पुत्र ऋजुश्च। तैः साकं क्वचिदसौ आकर्षक्रीडां पट्टिकाक्रीडां मुष्टिद्यूतक्षुल्लकादिद्यूतानि मध्यमाङ्गुलि ग्रहणं षट्पाषाणकं वा अक्रीडत्। कदाचित् क्ष्वेडितकानि सुनिमीलिका मारब्धिकां लवण- वीथिकामनिलताडितकां गोधूमपुञ्जिकामङ्गुलिताडितकांवा।
सनातनसूतस्य तनयो वाग्भटः गायने नर्तने वादने च पटुः। अत्यन्तं कर्णसुखावहाः गाथाः गायति, क्वचित् एकतन्त्रीं क्वचिच्च वंशीं वा वादयति। तस्य पिता प्रायः ग्रामे न भवति। पुराणपारायणाय प्रायो नैमिषे भवति, क्वचित् वाग्भटोऽपि तेन सहैव याति। सर्वेषु सखिषु विपाकस्तस्य अन्यतमः सुहृत्।
सैकतोत्सङ्गसुखोचितैः पयोभिः परिवर्धिता गोमती नदी। गोमत्याः तटे विपाकेन सह असकृत् विचरति।
माता व्रतोपवासकर्शिता तापसीव प्रतिभाति स्म। ज्येष्ठशुक्लपक्षे सा सावित्रीव्रतं करोति। सावित्र्याः कथामपि कथयति। सावित्री सा सत्यवतः प्राणान् याचते स्म यमम्।
विशाखो मातरि सावित्र्याः स्वरूपमवालोकयत्। एतादृशी माता या स्वयमेव यमस्य प्रत्यादेशायालमासीत्, सैव कथं यमेन नीता इति विचिन्त्य सोऽरोदीत्।चैत्रशुक्लपक्षस्य तृतीयायां गणगोरव्रतं करोति स्म माता। कार्तिकशुक्लपक्षषष्ठ्यां सा सूर्यषष्ठीव्रतं समाचरति।
अथ समायातायाम् अक्षयनवम्यां पुनरपि व्रतम्।
पिता कथयति- अरे!कीदृशमिदं विधानम्, केन प्रोक्तम्, कस्मिन् शास्त्रे लिखितम्? स्त्रीणां कृते व्रतविधानमेव नास्ति। स्त्रियः केवलं यज्ञे भर्त्रा सह आहुतय उपविशन्तु इत्येव विधानम्।
पिता तस्यै कुप्यति। माता तूष्णीं सर्वं तस्य जल्पितं शृणोति, निःशब्दं हसति च।
विशाखः कथयति - मातः, यदि पिता निवारयति तर्हि किमर्थं व्रतमाचरसि?
माता वदति - इमानि व्रतानि मम मात्रा उपदिष्टानि। तस्यै तस्या मात्रा... मम मातामह्या...उपदिष्टानि। इमानि अस्माकं कुलव्रतानि। मातुः गौरवं तु सर्वेभ्योऽतिरिच्यते। मातुरुपदेशात् कुलधर्माच्च व्रतं चरामि। कुलधर्मं न हास्यामि।
तदानीं पितुरिव विशाखस्यापि मातुर्व्रतानुष्ठानेन विप्रतिपत्तिरासीत्। बहोः कालादनन्तरं क्वचित् सूतवर्येण सङ्गतेः कारणात् विशाखोऽवागच्छत् - अनेन पौराणिकधर्मेण पुरोहितानां वैदिकानाम् आतङ्कः समाप्तिं नीत इति।
लक्ष्मणपुरस्य स्मृतिभिः सम्भिन्ना वर्तते कार्तवीर्यस्य सहस्रबाहोः उपासकानां परशुरामोपासकानां च मध्ये कलहस्य स्मृतिः। वैशाखशुक्लपक्ष आसीत्। केचन परशुरामपूजकाः परशुरामं पूजयन्ति स्म। अपरे सहस्रबाहोः कार्तवीर्यस्य उपासकाः। उभयोर्मध्ये विवादः जातः। परशुरामस्य यात्रा यस्या वीथ्या निस्सरति तस्यामेव वर्तते सहस्रबाहोः मन्दिरम्। इतः परशुरामस्य मातृघातकस्य भ्रूणहत्याकरस्य यात्रा न निस्सरेदिति सहस्रबाहोः पूजका अवदन्। परशुरामोपासका अपि अवदन् - यथा भगवता परशुरामेण पूर्वमपि एतेषां क्षत्रियाणामुच्छेदः कृतस्तथैव पुनरपि वयमपि युष्माकं नाशं करिष्यामः। विवादोऽवर्धत। तस्मिन्नेवावसरे राजा स्वयं लक्ष्मणपुरं समागतः। स उभयोः पक्षयोः सभामकारयत्। सहस्रबाहु-परशुराम-पूजकाभ्यामुभाभ्यामपि स्वस्वपक्षस्तस्य पुर उपस्थापितः, कथच्चिच्च साम-दाम-दण्ड-भेदैः स उभौ पक्षौ अशमयत्।
विशाखस्य मनसि प्रश्ना उत्कायन्ते स्म। एतादृशः कलहः किमर्थं भवति? किमर्थं राज्ञा इमे अनुशासनीयाः। यो धर्मो रक्षति नः, स एव सर्वनाशस्य कारणं कथं जायते?
पञ्चदेवालया लक्ष्मणपुरे आसन्। तेषु एकः विष्णोः, अपरः शङ्करस्य, अन्यो गणेशस्य। विष्णोः शङ्करस्य च पूजका अपि परस्परेण कलहायमानाः। यद्येतेषाम् ईश्वराः परस्परेण कलहस्य कारणं, तर्हि एतादृशा ईश्वराः किमर्थं पूजनीयाः, किमर्थं च तेषां देवालया निर्मेया इति स एकदा पितरम् अपृच्छत्।
पिता अवदत् - अत एवाहं श्रौतविधाने विश्वसिमि।अस्मिन् नवीने पौराणिके धर्मे मम न विश्वासः। अस्माकं सनातनो वैदिको धर्मः, स एव गरीयान्, स एव ज्यायान् इति।
अष्टमे वर्षे तस्य उपनयनं जातम्। फाल्गुनमास आसीत्। वसन्तर्तुना लक्ष्मणपुरं प्रसाधितम्। गृहम् अभितो लक्ष्मणपुरसीमानः पलाशपुष्पैः रञ्जिताः।गृहे मालती प्रफुल्लिता।
फाल्गुनमासे यस्य उपनयनं भवति स समधिकतरः प्राज्ञः स्यात् - इतिपितरः कथयन्ति स्म।
यज्ञोपवीतं कयाचित् कन्यया कर्तितेन सूत्रेण निर्मातव्यं भवति। विपाकस्य भगिनी आसीत् वैजयन्ती। सा षड्वर्षीया, परन्तु सर्वेषु गृहकृत्येषु अत्यन्तं निपुणा। तयाकार्पासं कर्तयित्वा स्वभ्रातुः विशाखस्य च कृते सूत्रं दत्तम्। पिता भूरित्युच्चारणेन षण्णवतिरङ्गुलानां सूत्रं, भुव इत्युच्चारणेन पुनस्तावदेव, अथ च स्व इत्युच्चारणं विधाय पुनस्तावदेव सूत्रं मापयित्वा यज्ञोपवीतं निर्मितवान्। एतत् सर्वं मत्कृते पित्रा क्रियते इति विशाखः सगौरवं सकौतुकमपश्यत्। पिता तस्मिन्नेव समये तेन विहसन् दृष्टः। पितुर्हसन्ती सा छविस्तदीये मानसे चिराय अङ्किता।
विपाकेन सह स गुरुकुलं प्राप्तः। समित्पाणिः ब्रह्मनिष्ठं श्रोत्रियं सौम्यदेवम् उपसृत्य श्रद्धया प्राह - भगवन् अध्ययनकामोऽस्मि। गायत्रीमन्त्रोच्चारणसहितं यज्ञोपवीतं तेन धृतम्। आचार्या अवदन् -- अस्य यज्ञोपवीतस्य त्रिषु सूत्रेषु तेजः, आपः, अन्नं च सन्नह्यन्ते। आयुर्बलं च तेजश्चानेन ते परिधापितम्।
सौम्यदेवस्य गुरुकुले तेन यजुर्वेदस्य शिक्षाकल्पनिरुक्तज्योतिषच्छन्दोव्याकरणानां च वेदाङ्गानां शिक्षा प्राप्ता।
मौञ्ज्या मेखलया निबद्ध्य कट्यां कृष्णाजिनं परिहितम्। मेखला त्वचा संसज्यते पीडयति च। कृष्णाजिनम् अतितरां खरं भाति। उत्तरीयमभवत् शणनिर्मितम्। तदपि विशाखाय न रोचते स्म। अथ प्रातः गुरोः पादोपसङ्ग्रहणं कृत्वा स्नात्वा पञ्चदशमात्रान् त्रीन् प्राणायामान् विधाय आमस्तकमुन्नतं पलाशदण्डमादाय भिक्षाटनं करणीयं भवति गुरुकुले।
गुरुकुलेऽपि स मातरमेव अहर्निशं स्मरति स्म। कार्पासवस्त्राणि परिधापयन्ती माता। मातेव कोमलानि कार्पासवस्त्राणि। भोजनंसाग्रहं कारयन्ती माता। यथा तस्या मधुरा प्रकृतिस्तथैव मधुरं भोजनम्।
गुरव आसन् वशिष्ठकुलोद्भवाःसौम्यदेवाः। यथा नाम तथा स्वभावस्तेषां नासीत्। अथ च आरम्भत एव विशाखं प्रति तेषां वक्रा दृष्टिरभवत्। सायंकाले ते सर्वेषामन्तेवासिनां कृते धर्मस्य तत्त्वं प्रतिपादयन्ति। ते एकदा धर्मशास्त्रेषु ऋणं प्रतिपादयन्ति स्म।ऋणानि त्रीणि भवन्ति - देवानाम् ऋणम्,ऋषीणाम् ऋणम्, पितॄणाम् च ऋणम्। नरेण एतेभ्यः त्रिभ्योऽप्यानृण्यं प्राप्तव्यम्।
- आचार्य, किमपि प्रष्टव्यमस्ति। - सहसा विशाखस्तान् मध्ये निर्वार्य अवदत्।
गुरवः एतेन व्यवधानेन वक्रभ्रुवो जाताः। तथापि संहृत्य स्वीयं कोपं ते विशाखमवदन् - पृच्छ, किमस्ति प्रष्टव्यम्।
-- यथा पितॄणां कृते भवति ऋणम्, तथा मातुः कृते कथं न भवेद् ऋणम्?
प्रश्नमिमं श्रुत्वा गुरवः सोपहासमवदन् - "इयं ते बालबुद्धिः, एतेष्वेव त्रिषु ऋणेषु सर्वाणि ऋणानि समाविष्टानि। ये धर्मशास्त्रकारा अभूवन् गौतमादयस्तेभ्यस्तु त्वम् अधिकं न जानासि।"
अनन्तरं तैर्विशाखस्तथा भर्त्सितो यत् तस्य नयनयोरश्रूणि उद्गतानि। तेषां शब्दा कशाघाता इव तस्य मर्मविध्यन्ति।
तस्मिन्नेव दिने कौण्डिन्यस्यस्नेहस्तेन प्राप्तः। कौण्डिन्यस्य अनुकम्पा मयि तस्य स्नेहो मयि, तस्य सौहार्दं मयाऽऽप्तमिति आत्मानं धन्यमसौ अकलयत्। प्रवचनान्ते कौण्डिन्यः स्वयमागत्यं तस्य हस्तौ स्वहस्ताभ्यां गृहीत्वा अवदत् - भ्रातः विशाख, त्वया अत्यन्तं समीचीनः प्रश्नः कृतः। अहमेतन्मन्ये यत् सर्वाणि धर्मशास्त्राणि तु पुरुषैः विरचितानि, अतस्तैः मातुः ऋणं न प्रतिपादितम्। कयापि स्त्रिया विरचितं किमपि धर्मशास्त्रं न लभ्यते। अहं मन्ये मातुः ऋणं भवति। पत्न्या अपि पत्युः कृते ऋणं भवति।वयं सर्वे मातुरधमर्णाः।
महाभारते आयोदधौम्यस्य कथा श्रूयते। गुरवः सौम्यदेवा अपि आयोदधौम्यसदृशाः। अत्यन्तं परुषाः, कटुभाषिणः कठोरहृदयाश्च त आसन्। अन्तेवासिनः अतितरां नुदन्ति, तुदन्ति। गुरुकुलवासः क्लेशावहः। आश्रमे स गाश्चारयति, भिक्षायां यत्किमपि लभ्यते तत्सर्वं तेभ्योऽर्पयति, स्वल्पमेव भोजनं लभते, बहुश आराधिताऽपि गुरुपत्नी सदैव तं भर्त्सयति।
पित्रा कथितमासीत् अस्माकं वेदो यजुर्वेदः, तैत्तिरीया शाखा। सौम्यदेवाः सन्ति
आम्नायविदः। तेषां सविधौ समग्रां तैत्तिरीयशाखाम् अभ्यस्यैव गुरुकुलात् परावर्तस्व।
विशाखस्य स्मृतिस्तीक्ष्णा। मन्त्रान् सकृत् श्रुत्वा प्रायः स्मरति। परन्तु तेनानुभूतं यद् गुरुचरणास्तस्य अनेन वैचक्षण्येन प्रसन्ना न भवन्ति, प्रत्युत तमधिकाधिकं गवां चारणे, समिदानयने भैक्ष्यचरणे च योजयन्ते।
तथापि तेन द्वाभ्यां वर्षाभ्यां समग्रो यजुर्वेदः कण्ठाग्रीकृतः। अश्वमेधे पारिप्लवानाम् आख्यानानां प्रवचनं भवति, तेन तान्यपि आख्यानानि अभ्यस्तानि। अन्यान्यपि आख्यानानि कानिचित् तेन श्रुत्वा श्रुत्वा परिज्ञातानि। अग्निचयनं कर्तुं स शिक्षितः, अरणिमन्थनमपि ज्ञातवान्।
कदाचित् विशाखश्चिन्तयति - एतेषां गुरुचरणानां सौम्यदेवानां सौम्यदेव इति नाम केन किमर्थं विहितम्? एते परमप्रचण्डाः। सद्यः क्रोधेनाध्माताः भवन्ति। एतेषाम् आर्यकौण्डिन्यस्य च कियदिव अन्तरम्! ते यावन्तः कठोराः भीषणाः, कौण्डिन्यस्तावानेव अभयप्रद आश्वस्तिप्रद ऋजुश्च।
बहोः कालात् स विपाकेन मन्त्रणां करोति स्म - अद्य प्रक्ष्यामि आचार्यं कुत्र वर्तते स्वर्ग इति।
तस्मिन् दिने साहसं सञ्चित्य स सौम्यदेवानां सम्मुखं प्राञ्जलिः साष्टाङ्गं प्रणिपत्य सादरमूचिवान् - विशाखोऽभिवादयते।
-- आयुष्मान् भव। अभिवादयते इति आत्मनेपदं प्रयुक्तम्। तेन केनापि स्वार्थेन प्रणमसीति मन्ये।
-- एवमेव भगवन्। स्वार्थेन प्रणमामि।
- शिष्येषु शुश्रूषा स्यात्, न स्वार्थः। तैर्निःस्वार्थैर्भाव्यम्। अयमेव तेषां कृते परमार्थः। तथापि वद, कस्ते स्वार्थः।
-- भगवन्, किमपि प्रष्टव्यम्।
-- प्रष्टव्यम्? त्वया?गुरुपादास्तम् आश्चर्येण तथा पश्यन्ति स्म, यथा तेन किमपि सर्वथा अनार्यम् अप्रत्याशितं च आचरितम्।
विशाखः प्राञ्जलिः अपराधीव तेषां पुरस्तथैव स्थितः।
-- अस्तु पृच्छ !
-- एतद् ज्ञातुकामोऽस्मि भगवन् यत् स्वर्गः कुत्र वर्तते -
-- स्वर्गः? अरे डिम्भ, किं ते प्रयोजनं स्वर्गेण नरकेण वा?
--- मम माता स्वर्गं गता, तां तत्रैव गत्वा अवलोकयितुमीहे।
-- अहो ते कामना - अरे षण्ढ, नरके पतिष्यसि - स्वर्गस्य कथा तावद् दूरे आस्ताम्।
विशाखः निराशः प्रणम्य ततो यावत् प्रचलति, तावत् गुरुचरणा अवदन् - स्वर्गस्तु वर्तते हिमालयात् परम् उत्तरकुरुदेशे - परं तत्र कोऽपि गन्तुं न शक्नोति -
गुरुचरणैः स्वर्गस्य सङ्केतस्तस्मै सूचितः, अनन्तरं गतेषु दशसु पञ्चदशसु वा दिनेषु ते स्वयमेव स्वर्गं प्रयाताः। तस्मिन् दिने स समित् आदाय विपाकेन सह गुरुकुलं परावृत्तः, गुरुपत्नी रोरुद्यमाना विलपन्ती क्रन्दन्ती च दृष्टा।
वरिष्ठा अन्तेवासिन ऊचुः - गुरुपादा अस्मान् विहाय गताः। तेषां संस्कारः अस्माभिरेव करणीयः। तेषां नास्ति कोऽपि पुत्रः।
विशाखेन पुनरपि प्रत्यक्षीकृतं महाप्रयाणं कस्यचिज्जनस्य। गुरुकुलं सर्वथा शून्यं जातम्। आर्यः कौण्डिन्यस्तुपूर्वमेव गुरुकुलमिदं विहाय साकेतं गत आसीत्। तस्य गमनेनापि विशाखः अत्यन्तं खिन्नः, इदानीं गुरव एव अवसानं गताः। सर्वमवसितमिति सोऽन्वभूत्।
अनन्तरं पिता आगतः। सोऽवदत् - आश्रमे गुरवो न सन्ति, तर्हि त्वं गृहमेवागच्छ। परस्तादन्यस्मिन्नाश्रमे प्रेषयिष्यामि अथवा गृह एव यत्किमप्यत्राधीतं तदभ्यस्य
स्वाध्यायं कुरु इति।
गृहगमनाय मनो न सज्जते स्म। गृहे माता न स्यात्। स तत्र किं करिष्यति? मातृसूक्तं तेन गुरुकुलनिवासदिनेषु सृष्टम्। तस्य पाठं करिष्यामि, तेन मातुः दर्शनं भविष्यति - इति स व्यचिन्तयत्।
इत्थम् ऊहापोहं मनसि कलयन् विशाखः पित्रा सह गृहमायातः।
विपाकोऽपि गुरुकुलात् परावृत्तः।
उज्झितम् आचार्यसौम्यदेवानां गुरुकुलम्। वर्षद्वयं तत्र उषितं विशाखेन। अस्मिन् वर्षद्वयावधौ तेनं किं प्राप्तम् गुरुकुलात्? काश्चन उपनिषदोऽधीताः। श्रौतयागविधिः परिज्ञातः। किन्तु सर्वमेतदतिरिच्य यत् प्राप्तं तदमूल्यम्। विपाकस्य मैत्री आर्यस्य कौण्डिन्यस्य सौजन्यं च। अथ च मातृसूक्तम्। तत् तु तेनैव दृष्टम्। तस्य मातृसूक्तस्य स ऋषिः।
(4)
शकटः शनैर्याति। सूतवर्यः कस्मिन् प्रसङ्गे इदानीमेव उक्तवान् - महानानन्दो जात इति ... विशाखेन सम्यङ् नावहितम्। तस्य मनः स्मृतीनां रोमन्थनं कुर्वाणमासीत्।
ठक्कुरो वाचालः। स पुनरपि विशाखं तुदति स्म - संन्यासाय गृहं त्यक्तम्! एतावतोऽल्पीयसो बालकस्य संन्यासः कथं भवेत्? अस्माकं गृहे निवासं कुरु। कामपि कन्यकाम् अन्विष्य भवन्तं परिणाययामः, भवतः सन्ततयः स्युः। किं जानाति भवान् - अग्निहोत्रं कथं भवति - अग्निचयनं कथं करणीयम् अरणयः कथं प्रज्ज्वाल्यन्ते....??
- सर्वं जानामि - केवलम् इत्येव स सविश्वासमूचिवान्।
ठक्कुरस्य गृहं प्राप्य स्नात्वा भुक्त्वा विशाखः सुस्थः। आदिवसम् अटाट्या कृता। इदमेव मनसि कलयति स्म सः - अद्य कथञ्चित् भोजनं वासाय स्थानं च प्राप्येत.. सूतवर्यस्यास्य कृपया तत् सर्वं प्राप्तम्। इदानीं निद्रया नयने घूर्णेते। शिरो भ्रमति। स सनातनं सूतमाह- द्वारालिन्दकोणके स्वप्स्यामि। इयं कन्था वर्तते मत्पार्श्वे। अन्यच्च प्रावरणमप्यस्ति। - स कन्थामुद्घाट्य दर्शयति स्म।
सूतवर्यः पुनर्विहस्य अवादीत् - महानानन्दः। परन्तु तव प्रावरणं तिष्ठतु। तव शय्या वासगृह एव रचिता। अहमपि तत्रैव स्थण्डिले स्वप्स्यामि। त्वं ब्राह्मणः। अस्माकं सूतानां कृते परमपूज्यः।
विशाख आह - भवान् वाग्भटस्य पिता। मत्कृते पितृतुल्यः। अहमेव स्थण्डिले स्वप्स्यामि। अनिच्छन्तमपि विशाखं सूतवर्यः ठक्कुरस्य वासगृहे रमणीये पर्यङ्के अस्वापयत्।
विशाखः कृतज्ञताभारेण नितान्तं नम्रो जातः।
कियत्कालं स बम्भ्रमीति स्म। कियतां घट्टानां वारि निपीतम्, कियन्तो ग्रामाः
दृष्टाः, कियत्सु नगरेषु अटाट्या कृता। कुत्रापि मनस्तोषो न लब्धः, ज्ञानस्य पिपासा न प्रशमिता, कुत्रापि मातुः सङ्केतो नाधिगतः। ग्रामाद् ग्रामं नगरान्नगरं गच्छन् स भद्रपुरीं प्राप्तः।
इदानीं भद्रपुरीतोऽग्रे गमनं सहजं न स्यादिति प्रतीयते। सूतवर्यस्य सान्निध्ये स तस्य सहजवात्सल्येन आप्यायितः, आकस्मिकतया तस्य स्नेहबन्धनं भङ्क्त्वा अग्रे गन्तुं न शक्नोति। वासगृहे रमणस्य पुत्रवधूः कालिन्दी शय्यां रचयति स्म। वत्से, एकं भृङ्गारमपि अत्र स्थापय। - सूतवर्यस्तामाह।
गच्छन्ती सा परावर्त्य मुखं विशाखमपश्यत्। तां विलोक्य सहसा विशाखो विपाकस्य भगिनीं वैजयन्तीं अस्मरत्। विशाखस्य चेतसि तदीये नयने निखाते इव।वैजयन्तीव इयमपि दृष्टपूर्वा प्रतीयते - कुत्र दृष्टा स्यात् पूर्वम्?
सहसा स प्रत्यभिज्ञातवान् - अरे अद्य अनयैव तु आरात्रिकं कृतमासीत् पुराणपारायणस्य अन्ते। तदानीं तु सर्वथा कन्या भगवती प्रतिभाति स्म। इदानीं तु सत्यं कस्यचित् श्रेष्ठिनो दुहिता प्रतिभाति।
-- तपस्विनी! चतुर्दशवर्षीयैव वर्तते। - विधवा जाता! - सनातनसूतः प्राह।
-- इयं विधवा जाता? कथम्? - विशाखेन पृष्टम्।
-- ठक्कुरस्य पुत्रः श्रीकण्ठो महान् शूरः। गताब्दे ग्रामः पुलिन्दैराक्रान्तः। स तैः परमशौर्येणायुध्यत। पुलिन्दाःपरास्ताः पलायिताः। परं विजयस्यास्य महन्मूल्यं ग्रामेण देयमभूत्। श्रीकण्ठः शरैः शरीरस्य पर्वणि पर्वणि विद्धः कथञ्चित् सखीभिर्गृहमानीतः अन्तिमं श्वासं व्यसृजत्।
श्रावं श्रावं विशाखस्य नयनयोर्निद्रा अवतीर्णा। स्वप्ने स पश्यति स्म - माता स्मयमाना उपेत्य तम् उत्थाप्य अङ्के अधारयत् प्राह च - मम वत्सक, कियानिव दुर्बलो जातः...
विशाखो विह्वल इव उत्स्वप्नायते स्म - मातः, मातः...
कियतः कालात् विशाखो गुरुमन्विष्यति, मातरमन्विष्यति। बहु ऊहते तर्कयति क्षुभ्यति प्रश्नान् करोति। प्रश्ना अस्य मनसि आहिण्डन्ते। अयम् असमये प्रौढो जातः, बाल्येऽपि बालसुलभं चापल्यं प्रायोऽस्मिन् न वर्तते।
दिवङ्गतायां मातरि स आत्मानमपूर्णममन्यत। यावन्माता आसीत्, जीवने सर्वं परिपूर्णं प्रत्यभात्, सा पूर्णताप्रत्यभिज्ञा गता।सोऽचिन्तयत् - केनात्मानं पूरयामि येन पुनः पूर्णः स्याम्? गुरुस्तस्य अभवत् सौम्यदेवः। तेन गुरुणा तस्य मनो नाश्लिष्यत्। स पूर्णतामिच्छन् भ्रमति। एवं भ्रमन् आहिण्डमानः स क्वचित् सत्रागारे भुङ्क्ते स्म, क्वचित् कस्यचिदाश्रमे, क्वचिद् कस्मिंश्चिद् देवालये। एवम् एकं वर्षं गतम्। गृहान्निर्गतः सोऽद्य इदम्प्रथमतया कस्यचिद् गृहस्थस्य वासगृहे स्वपिति। कदाचित् ठक्कुरस्य सम्पन्ने गेहे शेते
इति कारणात् तादृशः स्वप्नोऽवलोकितः स्यात्।
स्वप्ने माता कथयति - भोजनं तु कृतं स्यात्। सम्यङ् न खादसि अत एव इयान् दुर्बलः। अहं पचामि त्वत्कृते भोजनम्। किं भक्षयिष्यसि ? - अपि नाम अपूपान्
साधयामि?क्षीरोदनं वा ?
विशाखः कथयति - मातः सर्वं तिष्ठतु, मा सन्तु अपूपाः, अद्य तु उदरपूरं भुक्तं ठक्कुरस्य गृहे। मा भवतु नाम क्षीरोदनम्। त्वं मया सह तिष्ठ।
-- अरे त्वया सार्धं कथमहं स्थातुं शक्नोमि? अहमत्रत्या न भवामि। अहं तत्र वसामि - माता कथयति।
-- कुत्र मातः! कुत्र?..कुत्राहं त्वाम् अन्विष्यानि?
सहसा कटुकर्कशकाकरवैस्तस्य निद्रा छिन्ना। - अरे प्रभाता रजनी! - स उत्थाय प्राह।
सूतवर्यः पूर्वमेव जागरितः पुराणस्य ग्रन्थं वन्दते स्म। स आह - रात्रौ त्वं किमपि स्वप्ने जल्पसि स्म। किं दृष्टं स्वप्ने? - माता दृष्टा?
-- अरे तात सूत-- अत्यन्तम् अद्भुतः स्वप्नः। माता आगत्य माम् आह्वयति स्म। विशाखः सोल्लासमवदत्। अनन्तरं च सहसा विषण्णो जातः --इदानीं माता क्व प्राप्येत?
-- विशाख, उत्तिष्ठ, स्नानाय गच्छामो नदीतीरम्।
ठक्कुरस्य गृहान्नदीतीरं यावत् तौ यातः। शकटद्वयं वर्तते। एकेन शकटेन ठक्कुरः स्वयमेव याति। तस्य शकटोऽग्रे सृतः। अपरेणानेन शकटेन सूतवर्येण सह याति विशाखः। उभयोरग्रे देवी उषा स्वीये रथे राराज्यमाना चलति। सनातनसूतो वदति स्म- पश्य देवी सन्ध्या अग्रे अग्रे गता। तामनुवर्तमाना देवी उषा आयाति। अयमेव क्रमः। अनयोः देव्योर्गमनागमने कालचक्रं भ्रमति। प्रातः सन्ध्या, तदनु उषा, तदनु अरुणस्तदनु सविता। सवितरि अस्तं याति पुनः सायं सन्ध्यातदनु रात्रिः।
विशाखोऽवदत् - उषा दिवो दुहिता वर्तते। तत् क्षितिजं भवानवलोकयति? तत्र वर्तते अगाधम् अपां निधानं सरः। तस्मिन् सरसि सा स्नात्वा उत्तिष्ठन्ती अतीव मनोहरा प्रतिभाति। अनन्तरं सा स्वकीयं रथं युनक्ति। तस्या रथस्य एकं चक्रं प्रकाशरूपम्, अपरं चक्रं तमःस्वरूपम्।
तदानीमेव शकटेन गच्छन् अपरः शाकटिकः गाथामगायत्।
सहि ईरिसिव्व गई मा रुव्वसु तंसवलिअमुहचंद।
एआणँ बालवालुंकिततन्तुकुडिलाणं पेम्माणं।।9
श्रुत्वा विशाखश्चमत्कृतः। काऽपि विकलता श्रावं श्रावमनुभूता। नयनयोरश्रूणि
उद्गतानि। सूतवर्योऽपि वाष्पगद्गदो मुग्धभावेनाह - अहो गीतम्, जितं नाम अनेन शाकटिकेन।
स शकटः किञ्चिद् दूरं गतः। विशाख आह - अरे कीदृशीयं गाथा? नेयं छान्दसी न वा लौकिकी।
-- न, लौकिकी तु वर्तते।
-- लौकिकी स्यात्। परं भाषायां नास्ति।
-- अरे भाषा किमर्थं नास्ति। भाष्यते इति भाषा।
-- भवान् मम कथनस्य आशयं न ज्ञातवान्। या दैवी वाक् पाणिनिना संस्कृता, तां वयं भाषेति व्यपदिशामः।
-- अन्या या अस्मादृशैर्व्यवह्रियन्ते ताः काः, ता भाषाः न सन्ति?
-- ताः शिष्टा भाषा न सन्ति।
-- अस्तु तावत्. वयमशिष्टा एव। अहं तु स्वयमेव या भाषास्त्वया अशिष्टा इति कथ्यन्ते ताभिरपि पुराणप्रवचनं करोमि।
-- अस्तु तावत्। मा भवान् रुष्यतु। भवतां यदि अशिष्टभाषया सन्तोषस्तर्हि तथा भवतु। भाषायाः प्रयोजनं व्यवहारः। स व्यवहारः प्रचलतु। एतत्तु सत्यं यद् या गाथा अनेन शाकटिकेन गीता, सा अत्यन्तं मनोहरा। श्रुत्वा मनो रमते, मनो दोलायते। पुनः श्रवणाय उत्कायते।
-- तर्हि कथयामि तं शाकटिकम् अपरामपि गाथां गायतु सः।
-- भवतामादेशेन गायेत् सः?
-- न ममादेशेन। मम प्रार्थनया गायेत्। नाहं प्रभवामि तस्मै आदेशप्रदानस्य।
एतावता तूष्णीं वार्तालापं शृण्वन् शाकटिको राङ्कवोऽवदत्- मुनिवर्याः! स शाकटिको मम भ्राता। यद्यादेशस्तर्हि अहं तमाह्वयामि।
अरे तस्मिन् शकटे भवतां स्वामी ठक्कुर उपविष्टः। स रुष्येत् - सूतवर्यः सविनोदमवदत्।
-- अस्माकं स्वामी तु गाथाभि(सु)रतितराम् अनुरज्यते। मन्ये तं श्रावयितुमेव गाथा गीता स्यात् सोड्ढलेन। किन्तु भवादृशा विद्वज्जना गाथाभिः कदाचित् उद्वेजिताः स्युरिति स निषिद्धः स्यात्।
-- आह्वय तर्हि तं स्वबन्धुम्-सूतवर्योऽवोचत्।
अथ राङ्कवस्तं शाकटिकमुच्चैराह्वयत् - भो भो बन्धो सोड्ढल!
अपरेण शाकटिकेन शकटः स्थगितः। "अरे! क एष मामाह्वयति?" - इति स चीत्कृतवान्। पृष्ठे परावृत्य राङ्कवं शाकटिकं दृष्ट्वा अत्यन्तम् उच्चैरवदत् - "अरे भ्रातः, किमाह भवान्?"
राङ्कवोऽवदत्- व्यासमुनयः शकटे वर्तन्ते। ते च एते विप्रवर्याश्च तव गाथाः श्रोतुमिच्छन्ति।
शकटे स्थितः ठक्कुर एतच्छ्रुत्वा अवदत् - अरे सोड्ढल, धन्यस्त्वम्। तव गाथां व्यासमुनिरयं च महाज्ञानी विप्रबालकः श्रोतुमिच्छतः।
सूतवर्य आह - अयं विशाखस्तव गाथां श्रुत्वा प्रमुदितः। अपरामपि गाथां श्रोतुमिच्छति।
श्रुत्वा शाकटिकः सलज्जमहसत्। अवदच्च - अरे अहं तावद् ग्रामीणः। तथापि श्रोत्रियपुत्रो यदि मम यद्वा तद्वा गानेन प्रसीदति तर्हि गायामि।
अथ शनैः शनैः राङ्कवस्य शकटेन समं स्वशकटं चालयता सोड्ढलेन पुनरेका गाथा गीता। गाथाऽऽसीत् --
एह्इ सो वि पउत्थो अहं अ कुप्पेज्ज सो वि अणुणेज्ज।
इअ कस्स वि फलइ मणोरहाणं माला पिअअमम्मि।।10
गाथायाः प्रतिपदं सूतवर्यः "अहो अहो" इति कथयन् मूर्धानं धुनोति स्म। श्रावं श्रावं तस्य नयनयोरश्रूणि उच्छलन्ति स्म। - महानानन्दः - स द्विस्त्रिरकथयत्। अनन्तरम् विशाखमवदत् - विशाख, अपि गाथाया अर्थो ज्ञातः?
-- "प्रवासात् स आगमिष्यति, अहं कोपं करिष्यामि, सोऽनुनेष्यति माम् - प्रियतममधिकृत्य इत्येवं मनोरथानां मालाकस्याः फलति इति अत्र कथितम् - विशाख आह।
"अहो कथं विशदं परिष्कृत्य अर्थः स्फोरितः"- सूतवर्यः सविस्मयं तं पश्यन् अवदत् - "परन्तु गाथायाः श्रवणे यथा आनन्दो न तथा तस्या व्याख्याने".... -
विशाखस्य स्मृतौ विपाकेन श्राविता गाथाः आवर्तिताः। समिदानयनाय तौ वनं गच्छतः स्म। वने कदाचित् विपाको गाथा गायति स्म।
पुनरपि गुरुकुलवासस्य स्मृतयस्तस्य मनसि आवर्तन्ते......
(5)
.... समिदानयनाय वने गन्तव्यं भवति। तत्र देहश्चङ्क्रमीति, मनो बम्भ्रमीति। तस्मिन् दिने विपाकेन सह वनं गतः।
पलाशपुष्पैः सर्वा अरण्यानी आचिता। शाखासु शाखासु पुष्पाणां स्तवका लम्बन्ते। इमानि पुष्पाणि सहसा अद्यैव दृष्टानि, अथवा तस्यैव दृष्टिर्न गता।
-- अहो कियन्ति मनोहराणि पुष्पाणि! विशाखः पलाशपुष्पाणां धरित्र्यां निपतितान् सञ्चयान् दृष्ट्वा अवदत्।
-- मनोहराणि, परन्तु निर्गन्धानि। केवलं दर्शनमेव एतेषां रम्यम्। अपरं च - चैत्रमासः वर्तते, अत एव सर्वत्र पलाशपुष्पाणि दृश्यन्ते, परन्तु कियन्ति दिनानि दृश्येरन्, दश वा पञ्चदश वा -
-- अनन्तरम्?
-- अनन्तरं शुष्येत सर्वा पलाशसमृद्धिः। समाप्तं जीवनम्। एतावदेव पलाशपुष्पस्य आयुः। वैशाखे समुपागते न पुनः नवीनकलिका स्फुटन्ति द्रुमेषु - प्रथमं कुसुमजन्म, ततो नवपल्लवाः ...
- अरे त्वमेतत् सर्वं कथं जानासि - मया तु न एतत् सर्वं कुत्रापि अधीतम्!
-- अस्य अध्ययनं कथं भवेत्? एतत् सर्वं तु मम पितरः कथयन्ति, ते पलाशस्य मूलेन ये ओषधयो निर्मीयन्ते तानपि जानन्ति - अस्य फलिन्यः, तासां बीजैरोषधं भवति। यदा फलिन्यो भवन्ति पलाशे, शुका अहमहमिकया ता विदार्य विदार्य बीजानि भक्षयन्ति - बीजेषु भवति महान् गुणः -
सहसा विपाकोऽवदत् - विशाख, एकां गाथां गायामि पलाशविषये -
-- गाय तावत् - विशाखः सकौतुकं विहसंस्तमाह।
विपाको गायति स्म -
कीरमुहसच्छद्देहि रेहइ वसुहा पलासकुसुमेहिं।
बुद्धस्स चलणवंदननिपतितैरिव भिक्खुसंघैः।।11
विशाखश्चकितः। -- अरे इयं गाथा त्वया कुतः श्रुता? इयं तु भाषायां नास्ति!
-- इयं प्राकृते वर्तते। मम गृहे सेवकः वर्तते - खुल्ल इति नामधेयः। तस्य मुखाच्छ्रुता।भाषा तथैव वर्तते।
-- अरे किमिदं त्वया कृतम्? प्राकृतगाथा गीता! यदि गुरुवो जानीयुस्तर्हि ते
अत्यन्तं कुप्येयुः। अन्यच्च - अस्माकं कृते इयं भाषैव निषिद्धा...
विपाकोऽवदत् -- प्राकृतं वा स्यात् भाषा वा स्यात्। शब्दास्तु त एव सन्ति, अर्था अपि ज्ञायन्ते। मनसि इयं श्लिष्यति। गुरवो यद् वा तद् वा वदन्तु, मह्यं तु गाथेयं रोचते। तुभ्यं न रोचते किम्?
--- मह्यमपि इयमरोचत। परन्तु कोऽर्थोऽस्याः।
-- अर्थं तु अहमपि सम्यङ् नावगच्छामि। बुद्धस्य चरणवन्दनाय अवनतैः भिक्षुभिरिव शुकतुण्डसदृशैः पलाशकुसुमैः वसुधा आचिता इत्येवात्र कथितम्। मया खुल्लः पृष्टः - कोऽयं बुद्धः?कश्च तस्य सङ्घ इति। स आह - अरे बुद्धस्य भगवतः विषये न जानाति भवान्?बुद्धस्तु महाज्ञानी महात्मा, स एव भगवान् इति।
एवमालपन्तौ तौ समिधां चयनमपि कुरुतः स्म।
खदिर-पलाश-देवदारु-बिल्वानां समिधो भवन्ति। देवदारास्तु तस्मिन् वने नासन्। खदिरवृक्षा अपि विरला एव। पलाशवृक्षास्तु भूयिष्ठम् आसन्निति तेषामेव समिद्भिः यज्ञादि कर्म सम्पाद्यते स्म। सौम्यदेवैः कदाचित् उपदिष्टमासीत् - न्योग्रोधोदुम्बराश्वत्थमधूकानामपि समिधो भवन्तीति। परमेतेषां वृक्षाणामौन्नत्यादेतेभ्यः समिधां चयने भवति क्लेशः। सर्वथा सुकरा भवन्ति पलाशसमिधः।इन्धनायापि काष्ठानि नेयानि भवन्ति। इन्धनाय तु स्वयं भूमौ निपतितानि अत्यन्तं शुष्कानि काष्ठानि नीयन्ते।
त्वं पलाशशाखां निकृन्त, अहमपि पुष्पाण्यादाय आगत एवेत्युक्त्वा विपाकः पुष्पाणि चेतुम् अन्यत्र विनिर्गतः।
विशाखः समिधः कृते वृक्षस्य शुष्कां शाखां छिनत्ति स्म। समित् श्लक्ष्णीकृता भवेत्।ग्रन्थियुक्ताः, असरलाः समिधो दृष्ट्वा गुरवः कुप्यन्ति, कथयन्ति च - समिधो विशीर्णा विदला ह्रस्वा वक्राः स्थूलाः द्विधाकृताः न स्युः। विशीर्णा समित् आयुःक्षयं करोति, द्विदला सन्ततिं हन्ति, ह्रस्वा पत्नीम्। वक्रा बन्धुविनाशिनी भवति। यदि कृमिदष्टा समित् वेद्यां स्थापिता तर्हि अग्निहोत्री रोगी भवेत्। द्विधाविभक्ता स्थापिता चेत्, सा यजमानस्य कृते सर्वत्र विद्वेषं जनयेत्। स्थूलया अर्थनाशः, दीर्घया बन्धुनाशः।
स पलाशवृक्षं छित्त्वा स्वेदाञ्चितः क्लान्तः श्रमार्तो निःश्वसन् भूम्यां निपतितः, निद्रां चोपगतः। निद्रायां स्वप्नमद्राक्षीत् - माता तस्य मुखं स्वकोमलकरतलेन परामृशन्ती पृच्छति - वत्सक, किमपि भुक्तम्?
-- मातः आप्रातः किमपि न भुक्तम्। बलवती बुभुक्षा मां बाधते - किमपि
अशनाय देहि - स प्ररुदन्निव न्यगादीत्।
अहं तुभ्यं दातुमिच्छामि भोजनम्, परन्तु त्वमेव मत्सकाशं नायासि, माम् अन्विष वत्सक - अहं त्वां प्रतिपालयामि अनिशम् -
--- मातः मातः - स उच्चैश्चीदकरोत्। तदानीमेव तन्द्रा भग्ना।
-- अरे विशाख - किमिति निद्रायमाणो यद्वा तद्वा जल्पन्नसि - विपाको वदति स्म - दिवास्वापेन पापः भवति - इति न जानासि?
- विपाक, मया माता स्वप्ने दृष्ट्वा, सा मामाह्वयति - मामन्विष इति अर्थयति स्म!
-- अरे दिवास्वप्नेषु भूतार्थता भवति किम्? क्षुधा उदरे धमधमायते, चक्षुषी खटखटायेते, मनश्च भोजने झम्पां दातुं त्वरते। एतादृशेन मनसा दृष्टस्य स्वप्नस्य कोऽर्थः? सर्वथा मिथ्यावार्ता। तव माता गता, गतैव। न सा आयास्यति।
-- सा प्राप्तुं शक्यते। सा सूक्ष्णशरीरेण तिष्ठति। मम पिता अवदत् - सूक्ष्मं शरीरं भवति। तेन मरणोत्तरं प्राणी तिष्ठति, अवलोकयितुं शक्यते च। पूर्वमपि मदीयेस्वप्ने सा आविर्भूता। सा मुहुर्मुहुः मामाकारयति। मदीयं दीनदशां दर्शं दर्शं दूयते। परन्तु कुत्र अहं तां प्राप्नुयाम्।
--- सा स्वर्गे वर्तते। स्वर्गं यदि गन्तुं शक्नोषि, तर्हि तत्र प्राप्येत - विपाकस्तमबोधयत्।
-- स्वर्गे गमनमेव कठिनं भवति भ्रातः! किं कुर्मः। गुरुवर्यैः तस्मिन् दिने त्रिशङ्कोराख्यानं प्रोक्तम् - विश्वामित्रः त्रिशङ्कुं सदेहं स्वर्गं प्रेषयामास, परन्तु तस्य प्रवेशं देवा नैव अनुमेनिरे। इक्ष्वाकुवंशीयो रामः स्वर्गं गत्वा कञ्चिद् ब्राह्मणदारकं पुनर्धरित्रीमानयदिति कथापि श्रूयते।
-- कदाचित् गुरुचरणा एव जानीयुः कथं स्वर्गो जीवता गन्तुं शक्येत। पश्य महाभारताख्याने धर्मराजोऽपि जीवन्नेव स्वर्गं गतः।
-- अरे अहं तु यत्र माता वर्तते तत्र सर्वथा गमिष्यामि। को मां निवारयेत्। केवलं स्थानं ज्ञातव्यम्, कस्मिन् स्थले स्वर्गो वर्तते -
-- एतत् अस्माकं गुरुवोऽवश्यं जानीयुः - विपाकः प्रोवाच।
--- तर्हि गुरुवर्यानेव पृच्छामि।
--आर्यः कौण्डिन्यः प्रष्टव्यः स कदाचिज्जानीयात्...
- आर्यः कौण्डिन्यस्तु मया पृष्टः....
-किमाह सः?
- तन्मतेन तु न स्वर्गो न वा नरकः। एताः खलु मिथ्यावार्ताः......
-- एवं कथयति सः? तर्हि स न जानीयात् ....
-- सत्यं न ज्ञायते भ्रातः विपाक! आर्यकौण्डिन्योऽपि सर्वं जानातीति कथं वक्तुं शक्यते। कदाचित् गुरुवर्या जानीयुः, तान् प्रक्ष्यामि ---
गुरुभ्यो बिभेति स्म असौ। सर्वे अन्तेवासिनस्तेभ्यो बिभ्यति। रुष्टाः कदाचित् ते ताडयन्ति। विपाकः कल्पसूत्रं लगधं व्याकरणं च न सम्यगधीते। स कथयति - किं मम एतैः शास्त्रैः? मया स्नातकेन वैद्यकवृत्तिरभ्यसनीया। सा मम कुलपरम्परया हस्तगता। इमे गुरवः ! ...एते किमपि वैद्यकं न जानन्ति - अहं जानामि हृदयरुक् एतान् बाधते।
- अरे किं कथयसि - एतत् त्वं कथं जानीषे?-
-- विशाख! अहं शैशवादेव पित्रा नाडीविज्ञानं शिक्षितः, एकदा इमे अस्माकं गुरवः वर्षासु पङ्किले पथि नद्यां स्नात्वा आगच्छन्तो निपतिताः, तदानीं ते मामाहुः - विपाक, धारय माम्। उत्थापय माम्! मया ते हस्तेन हस्ते गृहीत्वा उत्थापिताः। तदा मया संयोगवशात् तेषां नाडी परामृष्टा। नाडी विच्छिद्य विच्छिद्य स्पन्दते तेषाम्। एतद् हृदयरोगलक्षणम्। यदि ते इच्छन्ति तर्हि अहं पितृपादान् निवेद्य तादृशमौषधमानयामि येन तेषां रोगो नश्येत्। अथवा औषधानयनस्य का वार्ता? अत्रैव सन्ति शतशोऽर्जुनवृक्षाः, अर्जुनवृक्षस्य त्वचा क्वाथं निर्माय यदि प्रतिदिनं पीयते, तर्हि हृदयरोगो विनङ्क्ष्यति। क्वाथनिर्माणमपि अहं जानामि। परमेते मयि रुष्टाः सन्ति, मम सेवामेव न ग्रहीष्यन्ति।
एतैः रोषो न करणीयः, एतेषां रोष एतेषामेव कृते भस्मासुरः सन् एतान् कदाचित् दाहयेत्।
भस्मासुरस्य कथा आर्यकौण्डिन्येन कदाचित् प्रोक्ता। कथां श्रावं श्रावं विशाखस्य हास्यं न विरमति स्म। भस्मासुरः तपस्तप्त्वा यस्य मस्तके अहं स्वहस्तं स्थापयामि, स दग्धो निधनं यात्विति वरं प्राप्नोत्। अनन्तरंभस्मासुरः स्वहस्तेन मम मस्तकं स्प्रष्टुमायातीति भयभीतौ शिवः ब्रह्मा च कथं धावतः इति वर्णनं तु परमं कौतुकं विनोदं च जनयति। अथ विष्णुना मोहिनीरूपं धृत्वा तस्य पुरो नर्तनम्। तेन तस्य नृत्यस्य अनुकुर्वता भस्मासुरेण स्वमस्तके एव स्वहस्तस्य परामर्शस्तेन च तस्य दाहः --
तस्मिन् दिने साहसं सञ्चित्य - भगवन् यत् स्वर्गः कुत्र वर्तते? इति पृष्ट्वा गुरव उक्ताः- मम माता स्वर्गं गता, तां तत्रैव गत्वा अवलोकयितुमीहे। तैः कथितमासीत् - --
अहो ते कामना - अरे षण्ढ, नरके पतिष्यसि - स्वर्गस्य कथा तावद् दूरे आस्ताम्। अनन्तरं च ते अवदन् - स्वर्गस्तु वर्तते हिमालयात् परम् उत्तरकुरुदेशे - परं तत्र कोऽपि गन्तुं न शक्नोति -
तस्मिन्नेव दिने स कौण्डिन्यमपृच्छत् - भ्रातः, उत्तरकुरुदेशः कुत्र?
- किमर्थं जिज्ञाससे भद्र विशाख?
गुरवो वदन्ति -स्वर्गो वर्तते उत्तरकुरुदेशे - परं तत्र कोऽपि गन्तुं न शक्नोति -
कौण्डिन्यः सस्मितमवदत् - भद्र विशाख, यतः प्रभृति त्वया स्वर्गमधिकृत्य जिज्ञासा कृता, मया बहु चिन्तितमस्मिन् विषये। अहं मन्ये स्वर्गो न भवति, परन्तु निर्मातुं शक्यते।
- कथं निर्मीयेत?
- तदेव वदामि। भ्रातः विशाख, स्वर्गः शब्दैः निर्मातुं शक्यते। ऋषयो ऋग्भिः स्वर्गं रचयन्ति स्म। यदि वयं मन्त्रान् रचयितुं प्रभवेम, तर्हि स्वर्गमपि रचयितुं प्रभवेम।
- तस्मिन् अस्माभिर्विरचिते स्वर्गे माता लभ्येत किम्? - विशाखः पुनस्तमपृच्छत्।
- तस्मिन् स्वर्गे माता अवतरेत्।
कौण्डिन्यस्य वचांसि तस्य मनसि गहनं निविष्टानि। तानि तदीये हृदये गुञ्जन्ति। यद्यहम् ऋचो रचयितुं प्रभवेयम्, तर्हि तासु ऋक्षु स्वर्गं रचयितुं प्रभवेयम्, तस्मिन् स्वर्गे च मातुराह्वानं कृत्वा तस्याः सान्निध्यमपि लभेय इत्यसौ चिन्तयति स्म। एवं चिन्तयतस्तस्य वैकल्यं घनीभूतम्। तस्मिन् घनीभूते वैकल्ये स मातू रूपम् अपश्यत्। तत्क्षणं स मातृसूक्तं साक्षादकरोत्।विशाखेनानुभूतं यत्तस्य सूक्तस्य प्रत्येकम् ऋचि माता समाहिता, अथवा ता ऋच एव साकल्येन मातृरूपा आसन्। सूक्तं मुहुर्मुहुस्तस्य पुरः स्फुरति, तस्य सर्वाङ्गमालिङ्गति तमवशमिव करोति स्म। तत् सूक्तमासीदित्थम्-
सूनृतानां गिरां कर्त्रीं मङ्गलानां च मातरम्।
जगद्वन्द्यां जगत्स्रष्ट्रीं मातरं तां नु धीमहि।
स्वर्णवर्णां सुवर्णाक्षीं वर्णाम्नायसमन्विताम्।
श्रीरूपिण्यै नमो मात्रे धियं माता पुनातु मे।।
सदा सत्यमयं यस्या हृदयं सुविराजते।
सा मे माता स्वपुत्रस्य हृदये स्यात्प्रतिष्ठिता।।
ऋषिस्त्वं च कविस्त्वं च सत्यरूपा ऋतम्भरा।
सुव्रता मृत्युहन्त्री त्वं सावित्री परिनिष्ठिता।।
स्मयमाना द्योतमाना स्वर्या धात्री मनस्विनी।
वसुदा वसुधानी या विमृग्वरी विभावरी।
आविरस्तु स्वयं माता पुत्रस्यास्य पुरस्तु सा।।
सा ददातु स्वयं स्वीयं माता पुत्राय मे पयः।
इदं सूक्तं मया साक्षात्कृतम्, अस्य अहम् ऋषिः। सूक्तस्यास्य पाठेन माता अवतीर्णा भवति। इत्यनुभूय स निखिलं जगत् परिवर्तितमिव अपश्यत्।
निद्रा नागता। स कथं रजनी अवसीयेत, कथं सूक्तस्य आविर्भावघटनाम् आर्याय कौण्डिन्याय निवेदयामि इति चिन्तयतस्तस्य नयनयोरेव प्रभाता रजनी।
उषसि उत्थाय सर्वप्रथमं स कौण्डिन्यमेव उपासर्पत्। तं चावदत् - आर्य, भवता कथितमासीत् यद् ऋग्भिः स्वर्गः निर्मातुं शक्यते, तस्मिन् स्वर्गे च माता अवतीर्णा स्यात्। मया ऋचो रचिताः। अपि नामाहं ताभिः स्वर्गं निर्मातुं शक्नुयाम्?
कौण्डिन्यो विहसन्नाह - ऋचः का इति शृणुमस्तावत्।
विशाखो भूमौ उपविश्य मातृमण्डलं निर्मितवान्। मातृसूक्तं च पठन् मातुराह्वानं कृतवान्। माता साक्षात् तस्मिन् उपविष्टा आभाति।
कौण्डिन्यो विस्मयाभिभूतस्तं हृदयेन लगयन् साश्रु सस्नेहमवदत् - भ्रातः विशाख, सत्यं कविरसि। अपि जानासि, न केवलं इदम् स्वमातुः कृते सूक्तं भवता निर्मितम्, ममापि मातुः स्तवनमिदम्।
- भवतां मातुः?
मम माता वर्तते सुवर्णाक्षी। तस्या नाम भवता अत्र कीर्तितम्।
श्रुत्वा विशाखः सविस्मयं कौण्डिन्यं निध्यायन् स्थितः।
तस्मिन्नेव दिने समिदानयनाय वनं यदा स विपाकेन समं गतस्तदा सूक्तस्यास्य आविर्भावघटनां विपाकस्य पुरोऽवर्णयत्।सर्वं श्रुत्वा चकितचकितस्तस्मै स्पृहयन् विपाक आह - विशाख, सत्यं त्वम् ऋषिरसि।
एवमेव। अस्य सूक्तस्य विशाख ऋषिः, माता देवता, अनुष्टुप् छन्दः।
(6)
अद्य शाकटिकस्य गाथां श्रुत्वा स मातृसूक्तं स्मरति स्म, तस्मिन् सूक्ते राजमानां स्वां मातरं च पुनरवलोकयति स्म। दर्शं दर्शं च मातृरूपं स आत्मानं कस्मिंश्चित् स्वर्गे द्युलोके वा प्रतिष्ठितमकलयत्।
सूतवर्यस्तम् अंसाभ्यां दोलयन् पृच्छति स्म - विशाख, विशाख, त्वमेतादृशः उन्मत्त इव, भूताविष्ट इव किमर्थं लक्ष्यसे, वत्स किं सञ्जातम्? किमत्याहितम्?
सद्य एव विशाखः प्रकृतिस्थः। स आह - तात, न किमपि अत्याहितम्। अनेन शाकटिकेन गाथां गायता मातुर्दर्शनं कारितम्।
विशाखस्य स्मृतौ विपाकेन श्राविता गाथाः आवर्तन्ते स्म।
शाकटिकस्य नाम वर्तते सोड्ढलः। शकटं चालयन् स शनैः शनैः किमपि मन्दं गुञ्जारवमिव करोति। सूतवर्यस्तेन सह वार्तायां रमते।
- भद्र, कुत इमा गाथा भवता ज्ञाताः? सूतवर्यः शाकटिकं पृच्छति स्म।
- इमा गाथास्तु मम पितरो गायन्ति स्म मुनिवर! अस्मिन् अस्माकं ग्रामे एकः कविर्वत्तते - कर्णपूर इति तस्य नाम। स गाथा रचयति, अत्यन्तं सुस्वरं गायत्यपि।
-- अरे तर्हि तस्य सुकवेः कर्णपूरस्य अवश्यं दर्शनं करिष्यामः।- सूतवर्यस्तं कथयति स्म - कुत्र स्यात् तस्य दर्शनम्?
-- मुनिवर, स ग्रामे नास्ति सम्प्रति। स शिविकावहनाय गतः -
-- शिबिकावहनाय? - कस्य कृते?
-- जनपदस्य यः समाहर्ता वर्तते - तेन विष्ट्याः कृते आकारितः कविः कर्णपूरः- तस्य भार्या अस्यैव भद्रपुरीग्रामस्य कन्या - तस्याः पितरौ अत्र वसतः, सा काशीत इत आयाता। तस्याः कृते शिबिकावहनाय भारवाहका अपेक्ष्यन्ते - तेन आकारितस्तपस्वी कर्णपूरः, श्वोऽवश्यं स भवतां दर्शनाय आगच्छेत् ....
समाहर्ता भवति राजाधिकारी, स ग्रामजनेभ्यः शुल्कं गृहीत्वा काश्यां राजकोशे निधापयितुं कोशाध्यक्षाय ददाति। सभद्रपुर्यां न निवसति, निवसति काश्याम्,यदा शुल्कादिकं ग्रहणीयं भवति तदा आगच्छति। कदाचिद् ग्रामे विद्रवोपद्रवादिकं भवति, तस्यापि नियन्त्रणमनेनैव करणीयं भवति।
गच्छतां तेषां ठक्कुरस्य क्षेत्राणि आगतानि। क्षेत्रेषु शस्यं प्ररूढम्। ठक्कुरस्य बहूनि क्षेत्राणि भद्रपुरीग्रामे सन्ति। सीताध्यक्षः12 क्षेत्रनिरीक्षणार्थं समागतः। ठक्कुरस्य द्वितीयः पुत्रः सालङ्कः तेन सहालपति।
उभौ गङ्गातटं प्राप्तवन्तौ। स्नात्वा नद्याः बहिरागच्छन् विशाखोऽपश्यत् - नद्या अपरे पारे देवः सविता उदेति। अनूरुः अरुणः तस्य सारथिः अग्रे स्थितः। सप्ताश्वो रथः।
अकस्मादेव तस्य मुखादियं ऋक् निर्गता -
पुनः समव्यद्विततं वयन्ती मध्या कर्तोन्यधाच्छक्मधीरः।
उत संहायास्थाद् व्यृ 1 तूँरदर्धररमतिः सविता देव आगात्।।13
आर्येण कौडिन्येन इयं ऋक् कदाचित् पठिता आसीत्। तन्मुखात् सकृदेव श्रुत्वा विशाखेन कण्ठस्थीकृता। विशाखस्य स्मृतिं वीक्ष्य चकितः कौण्डिन्योऽपृच्छत् - ऋक् स्मृता, अर्थोऽपि ज्ञातः?
विशाख आह - अर्थं कथं जानीयां भ्रातः? मन्त्रास्तु अनर्थका इति गुरवो वदन्ति। अपि भवान् अर्थं जानाति?
कौण्डिन्यः प्रावोचत् - अत्र रात्रिः वस्त्रं वयन्ती नारीति निगदिता। सा अन्धकारस्य वस्त्रं वयन्ती प्रकाशमावृणोति। प्रकाशे आवृते लोकोऽपि स्वं स्वं कार्यं मध्ये एव रुणद्धि। सविताऽपि अस्तं याति, पुनश्च समुदेति। अथ पुनः सवितारमुद्यन्तं दृष्ट्वा लोकः शय्यां विहाय स्वे स्वे कर्मणि संलग्नो भवति।
विशाखः सूर्योपस्थानं कृतवान्। अनन्तरं च शिवसङ्कल्पसूक्त14मपठत्। सूतवर्योऽत्यन्तं मुग्धस्तं सूक्तं पठन्तं पश्यति स्म।
-- कियानिव मधुरः स्वरः!--सूतवर्यो नितरां प्रीतिस्निग्धया दृशा तं स्नपयन्निव अवोचत्।
अनन्तरमुभौ नद्यास्तटे उपविष्टौ। सूतवर्यस्तमपृच्छत् - अधुना वद, क्व यास्यसि?
-- तात, हिमालयं यास्यामि ....हिमालयं गत्वा स्वर्गं प्राप्य मातरम् अवलोकयामीति मम सङ्कल्पः।
-- तात, इति कथं मां व्यपदिशति भवान् ?
- भवान् मम बाल्यमित्रस्य पिता। मत्कृते पितृतुल्य एव। अत एव तात इति कथयामि।
-- न, भवान् विप्रः, मत्कृते पूज्यः। अहमस्मि सूतः। अत एव सूत इत्येव शब्दो मत्कृते युज्येत।
-- न, यथा मे रोचते, तथैव अनुमन्यतां भवान्।
-- अस्तु, किं किमभिहितं भवता कुत्र यास्यामीति?
-- हिमालयं यावत् गत्वा स्वर्गं प्राप्य मातरम् अवलोकयामीति मम सङ्कल्पः।
हिमालयं गत्वा प्राप्य स्वर्गं मातरं पश्यामीति निश्चयस्तस्य मनसि बहोः कालात् पच्यते। माता तं विहाय दिवं गता। ततः प्रभृति तस्य बालसुलभचापल्यं विच्छिन्नम्। मातुः अन्त्येष्टिस्तेन दृष्टा। शरीरं विहाय सा गता, परन्तु स्वर्गे तु सूक्ष्मेण शरीरेण जीवति- तत्र गत्वा सा अवलोकयितुं शक्यते - इति तस्य बलवती धारणा अभवत्।
विशाखस्य वचांसि श्रावं श्रावं सूतो हसति स्म। अथ स आह - अरे महान् सङ्कल्पः।श्रुत्वा मे मनसि महानानन्दः। अहं त्वां नेष्यामि मातुः समीपम्। अद्य पुनर्मया सह वस। मयाऽपि तस्यामेव दिशि गन्तव्यम्। कनखले मम गुरवो व्यासपादा वसन्ति।
कनखलं प्राप्य अहं त्वां हिमालयमार्गं दर्शयिष्यामि।
-- अन्यच्च...
-- अहो अन्यदपि किमपि वर्तते। अन्यत् किम्?
-- अन्यच्च - अपरोऽपि मे निश्चयः।
--शृणुमस्तावत्।
-- सद्गुरुम् अन्विष्य तस्माद् अध्यैमि।
-- अयं शोभनः सङ्कल्पः। पश्यामस्तावत् कथमेतत् चरितार्थो भवति।
उभौ शकटे पुनरारूढौ। शकटः शनैः शनैश्चलति। सनातनः सूतः मन्दं मन्दं गुञ्जन् भृङ्ग इव किमपि गायति स्म। सहसा स विशाखमाह - मातुरन्वेषणाय त्वया गृहं त्यक्तम्? किमिदं कृतं त्वया विशाख!स्वपितुः किं भविष्यतीति त्वया न चिन्तितम्?
- मम कोऽपि पिता नास्ति। मया संन्यासः स्वीकृतः। संन्यासिनः कः पिता -
-- संन्यासिनस्तु माताऽपि न स्यात्। कदा संन्यासी अभवस्त्वम्?
-- मया दीक्षा प्राप्ता -आजीवकसम्प्रदाये ---
-- एतत् त्वया किं कृतम्?स्वधर्मः परित्यक्तः! अस्तु आजीवके यदि सम्मिलितस्तर्हि किमर्थम् एवं अटसि? अपि जानासि आजीवका किं मन्यन्ते?
- आजीवकसम्प्रदायजनाः अजितकेशकम्बलिनो मतं मन्यन्ते। संसारो निरर्थकः। कस्यापि केनाप्यत्र सम्बन्धो नास्ति। निरर्थकं जन्तुर्जीवति। म्रियते च।
-- ततः किं करणीयम्?
-- सर्वं सहजं स्वीकार्यम्।
-- एतद् भवान् मङ्खलिपुत्रस्य घोषालस्य मतमाचष्ट अजितकेशकम्बलिनो वा?
--- मम मतौ तु उभयोर्नास्ति कोऽपि विशेषः। तथापि अहं यस्य आजीवकमुनेराश्रमे न्यवसम्, तस्य मतं तु अजितकेशकम्बलिनो मतेन भिन्नम्। स क्वचिद् वासुदेवस्य कृष्णस्यापि मतं प्रतिपादयति, क्वचिद् सौगतस्य सर्वज्ञस्य बुद्धस्यापि - एवं सूतवर्येणनालपतो विशाखस्य मनसि कङ्काश्रमनिवासस्य तानि दिनानि पुररावर्तितानि। कङ्कस्य जीवनचर्यया स अतितरां आवर्जितः। अत्यन्तं पावनमासीत् कङ्कस्य जीवनम्। परन्तु कुत्रापि विश्वासस्तस्य नास्ति। देवो नास्ति, वेदो नास्ति, अस्ति केवलं मनुष्यः। मनुष्योऽपि किमर्थं जायते, किमर्थं जीवति किमर्थं च म्रियते इति सर्वमज्ञातम्। स्वमतस्य समर्थनाय स वासुदेवं कृष्णमपि स्मरति।
नद्यां स्नात्वा तौ समागतौ। श्रेष्ठिनो रमणस्यैव भवने भोजनं कल्पितम्। भोजनाय उपविष्टो विशाखः। विशाखस्य मनसि स्मृतयः पुनर्विपच्यन्ते।
सूतवर्यस्तमुपदिशति स्म- विशाख, गृहं परावर्तस्व, तव पिता त्वत्कारणादत्यन्तं खिन्नः, तमवेक्षस्व। गुरुकुलं याहि, तत्र पुनः अधीष्व। अन्यथा अहमिव निरक्षरः स्यास्त्वम् - भगवान् व्यासः किमाह - आम्नायानामयोगेन विद्या विस्मर्यते।
- किमाह भवान् - भवान् निरक्षरः ! समग्रं पुराणं भवदायत्तं वर्तते - पुराणं तु वेदस्वरूपमेवेति भवन्तो मन्यन्ते -
- तथाप्यहम् अपण्डित एव। अहं केवलं ग्रन्थिकोऽस्मि। ग्रन्थं किञ्चित् वाचयामि- कथाप्रसङ्गं निरूपयामि। आख्यानं करोमि। त्वं तु विप्रकुले जातः - त्वं वेद-वेदाङ्गानि शास्त्राणि च अध्येतुं क्षमः - त्वमनूचानो भवितुमर्हसि -- अनूचानस्य ते सर्वं वेदवेदाङ्गादि स्वायत्तं स्यात्। मम किं वर्तते - केवलम् एकः ग्रन्थः ...
विशाखस्य मनसि गुरुकुलस्य स्मृतय आवर्तन्ते। विपाकश्च स च गुरुकुले अधीतवन्तौ। सूतवर्यस्य सूनुः - वाग्भटः क्वचिदन्यत्र अध्ययनाय गतः।
- वाग्भटः क्व वर्तते तात?-- विशाखस्तमनुयुनक्ति स्म।
-- वाग्भटो वर्तते कनखले - तत्र मद्गुरवो व्यासतीर्था वसन्ति। तेषां सविधेऽसौ पुराणमभ्यस्यति। विशाख, त्वया गृहं किमर्थं त्यक्तम्। तव पिता त्वां विना नितरां खिन्नः।
-- पिता मयि न स्निह्यति। स तु तस्या मम विमातुः कृते ..।
-- साऽपि इदानीं नास्ति। सा तव पितरं विहाय गता।
-- गता सा?
--- तव पितुः गार्हस्थ्यं नष्टम्। दासी मल्लिका ...सा तेन गृहमानीता... सा तु शीलवती नासीत्।
--- जानामि, जानामि। सा श्मशानंगच्छति स्म रात्रौ। मया दृष्टम्।
श्रुत्वा सूतवर्योऽहसत्।
विशाखोऽवदत् - किमर्थं हसति भवान्?
त्वं कथं जानासि - यत् सा रात्रौ श्मशानं गच्छति?
यन्मया प्रत्यक्षं दृष्टं तदहं वदामि....यदा आचार्यसौम्यदेवेषु निधनमुपागतेषुगुरुकुलादहं प्रत्यागतः....
(7)
आचार्यसौम्यदेवेषु निधनमुपागतेषु स गुरुकुलात् प्रत्यागतः। तदेव लक्ष्मणपुरम्, सैव रथ्या, ते एव गृहाः, किन्तु स्वकीयं गृहं न दृश्यते। अस्मिन्नेव स्थाने त्वभूत्! अत्र त्वन्यदेव गृहम्।
अस्माकं गृहं कुत्र गतम्? - स चिन्तातुर इव पितरं पृच्छति स्म।
-- इमे नो गृहाः। - पिता वदति।
सहसा विशाखस्य मनसि प्रत्ययो जातः। अरे, गृहं तदेव वर्तते, आश्रमं प्रतिष्ठता तेन नैऋत्यां दिशि आम्रपादप आरोपितः, मनाङ् म्लानः स्यात्, परन्तु स पादपो दृश्यते। अन्यच्च - ऐशान्यां तेन क्रीडापुत्तलिका एका स्थापिता आसीत्- इयं पुत्तलिका मात्रा स्वहस्ताभ्यां निर्माय तस्मै दत्ता। माता अतीव रमणीयाः पुत्तलिकाः निर्माति स्म। सा पुत्तलिका न दृश्यते। अन्यच्च -पृष्ठतो गृहस्य कदलीनिकुञ्जमासीत्, तस्य पार्श्वे बिल्ववृक्षः, तदनु सहकारवृक्षः - बिल्वसहकारौ तु दृश्येते, कदलीकुञ्जं विलीनम्। अन्यच्च....
अन्यच्च इति शब्दद्वयं विशाखस्य वाचि अव्ययः, इदं तस्य जीवनस्य अव्ययीभावो जातः।
गृहं तु तदेव। किन्तु सर्वमेव परिवर्तितम्। विशाखः कुत्र गता मम पुत्तलिकेति आत्मानमात्मना जल्पन् गृहस्य पृष्ठभागं प्राप्तः। अत्रापि सर्वं विपर्यस्तं दृश्यते, किन्तु पृष्ठभागे बहूनि वस्तूनि प्रक्षिप्तानि। तेषां चये तदीया पुत्तलिका स्कन्ना विलोकयितुं शक्या। विशाखः काचकुतुपानां, पुराणस्य शिक्यस्य च अधस्तात् विमर्दितां सीदन्तीमिव तां पुत्तलिकां निष्कास्य जग्राह।
अत्र मात्रा वाटिका निर्मिता अभूत्। सा मूलकसूरणादीनि बहूनि कन्दानि रोपयति स्म, पलंकी- दमनक-आम्रातक-ऐर्वारुकत्रपुष-वार्ताक-कूष्माण्डालाबुप्रभृति-शाकानामपि सम्भारा अत्र प्ररूढा आसन्। ते तु न दृश्यन्ते। वृक्षवाटिका शुष्का अदृश्यत। विशाखस्य मनो विषण्णम्। कदलीनिकुञ्जं शुष्कम्, विलीनमेव। रसालतरौ प्रायः कोकिलः कूजति स्म, तदधश्च वर्षासु मयूरो नरीनृत्यते स्म। इदानीं न कोकिलो, न मयूरः।
पुनः द्वारोपान्तमागत्य स विलोकयति - तत्र बालमन्दारवृक्षः रूढ आसीत्। माता तस्मिन् वृक्षे विशाख इव स्निह्यति स्म। मातरं विना म्लानो दृश्यतेऽसो वृक्षः। यदा स गुरुकुलं गतस्तदा अस्मिन् बालमन्दारे कलिका विकसन्ति स्म। गुरुकुलेऽपि स यदा यदा गृहस्य स्मरति तदा बालमन्दारोऽयं स्मृतिपथमुपैति स्म।
सर्वमेव परिवर्तितम्। द्वारस्य उभयोः पार्श्वयोः भित्तौ शङ्खपद्मौ निधी लिखितौ आस्ताम्। तौ न स्तः। तत् स्थाने स्वस्तिकं निर्मितम्। बालमन्दारवृक्षं निकषा शेफालिका तु वर्तते। मनःशिलापट्टकैरिव आचितास्तस्याः शाखाः कुसुमैः।
पिता तं पुत्तलिकाहस्तं विलोक्यावदत् - अरे प्रक्षिप एनां क्रीडापुत्तलीम्। किमनया प्रयोजनम्? गृहे सम्प्रति मल्लिका वर्तते। दासी मल्लिका - सा सर्वविधकार्येषु निपुणा - तया ह्यस्तने दिने एव बहिः कच्चरे प्रक्षिप्ता। अनया किं करिष्यसि अधुना? त्वं नाल्पवयस्को बालः। इदानीं वयस्कोऽसि। अनया न क्रीडनीयम्। अस्तु आगच्छ।
पिता किमाह? किं कथयत्येषः?कीदृशी दासी गृहमागता? मात्रा तु दत्ता मह्यम् इयं पुत्तलिका स्वहस्तेन निर्माय। अयं कथयति यत् दास्या मल्लिकया ह्यस्तने दिने एव पुत्तलिकेयं बहिः क्षिप्ता।
--कीदृशी सा दासी? किं तया मम मात्रा निर्मिता पुत्तलिका बहिः क्षिप्ता - सा एव बहिर्निस्सार्या अस्माद् गृहात् -- विशाखः सक्रोधमाह।
- पिता ईषदहसत्। अनन्तरं साक्षेपमाह - तस्यै एतादृशः कोपस्तव सर्वथा अनुचितः, सा सर्वविध- कर्मनिपुणा। किमर्थं तां बहिर्निस्सारयेयम्?। सा मया सोमयागे दाने प्राप्ता। सा तव मातृतुल्या।
-- दाने प्राप्ता? स्त्रियः दानेन दीयन्ते?
-- अथ किम्? गोपगिरिग्रामे सामन्तेन भास्करवर्मणा सोमयज्ञः कारितः। बहवः विप्राः तत्र आहूताः। सर्वेभ्यः स एकैकां दासीं दाने अददात्, दास्यः तेन आकारिताः, पङ्क्तिषु स्थापिताः, यस्य या रुचिता भवेत्, सा ग्राह्या इति चोक्तम्, मया दृष्टम्, इयं मल्लिका सर्वलक्षणसम्पन्ना सर्वविधकार्ये कुशला। मया इयं पृष्टा किं किं कार्यं करिष्यसि, इयं सर्वविधं कार्यं कर्तुं क्षमेति प्रोक्तवती। अत एवाहमेनामानीतवान्।
स गृहाभ्यन्तरं प्रविष्टः। गृहे काऽपि स्त्री वर्तते। नवयुवती, अलङ्कृता, सुवसना।
परन्तु तस्या उपस्थितिरुद्वेगकरी। तीक्ष्णनयनाभ्यां तं सा कौतुकं सासूयं निध्यायति। इयमेव मल्लिका दासी स्यात्। स उदासीनो बहिरागतः।
अत्रान्तरे मल्लिका भृङ्गारे जलं भृत्वा पित्रे अददात् - आचमनं करोत्विति चावदत्। ततो विशाखं सतिरस्कारमवलोक्य साऽजल्पत् - अयं भवतां पुत्रः। स एवायम्।
विशाखस्तस्याः कथनभङ्ग्या मर्माहतः। - अरे दासी भूत्वा त्वं कथं जल्पसि? - स तामाह।
-- अरे विशाख, किमेवं ब्रवीषि? कामं दासी, परन्तु ते मातृस्थानीयेयम्।
विशाखः साश्चर्यं पितरमवालोकयत्। किमिदं व्याहृतं पित्रा? मातृस्थानीयेयं दासी कथं स्यात्?स कटुना स्वरेण पितरमवदत् - मम मातुः स्थानं तु इयं दासी न कथमपि गृह्णीयात्।
-- कीदृशोऽयं भवतां पुत्रः?अयं तु सर्वथा अशिष्टः!मल्लिका पितरमवादीत्।
मल्लिकाया वचांसि विषदिग्धानि शल्यानीव मनसि विध्यन्ति। ततः प्रभृति तेन मल्लिकाया नाम कृतम्-विषकन्येति। परन्तु विषकन्या न तथा व्यथयति विशाखस्य मनो यथा पितुरिदं वचनम् - "कामं दासी, परन्तु ते मातृस्थानीयेयम्" इति।
अन्यमनस्कः खिन्नश्च विशाखो विपाकस्य गृहं प्रयातः।
विपाकस्तमवलोक्य उल्लसितः हृदयेन अलगयत्। अवदच्च - "अरे मित्र, कालेन प्राप्तो भवान्।मम पितृपादाः कथयन्ति - गुरुकुलमुज्झितं तव च विशाखस्य चायुष्मतः, तर्हि किं करिष्यथो युवाम्,, मत्सकाशमायुर्वेदोऽध्येतव्यो युवाभ्याम् इति। यदीच्छसि, तर्हि आवां पितृपादाणां चरणयोरुपविश्य प्रतिदिनमायुर्वेदमधीवहे)।
विशाखः सहसा विपाकमालिङ्ग्य रोदितुमारब्धवान्।केवलम् अयमेव तादृशोऽवसर आयातो यस्मिन् विशाखो विपाकस्य समक्षम् अरोदीत्। रोदनानन्तरं तदीये मनसि अयमपि निश्चयो जागरितः - अतः परं न कदापि रोदिष्यामीति।
विपाकोऽतितरां चिन्तातुरः तं पृच्छति स्म - मित्र, किमभवत्, किमर्थं बाल इव क्रन्दसि? त्वं विद्वान् - कविः - बुद्धिमान् भूत्वा एवं रोदिषि?
विशाख उद्विग्नः मल्लिकामधिकृत्य तं व्यजिज्ञपत्।
सर्वं श्रुत्वा विपाकस्तं बोधयति स्म - अरे विशाख, त्वमतीव व्युत्पन्नः, पण्डितः।
कविरसि, ऋषिरसि। कथं सामान्यबालक इव रोदिषि? यादृशी आकृतिस्तादृशी प्रज्ञा यादृशी प्रज्ञा तादृश एव ते आगमः। त्वमेवं कातरो भूत्वा रोदिषि? त्वं मम गृहं स्वगृहं मत्वा
अत्रैव तिष्ठ। तव पिता तया दास्या सुखी भवतु।
विपाकस्तस्य अभिन्नहृदयः सहचरः। इदम्प्रथमतया पितरं प्रति स्वीयां जुगुप्सां विशाखस्तस्य प्रत्यक्षमभिव्यानक्।
मल्लिकाया दर्शनात् प्रभृति विशाखस्य मनसि पितरं प्रति उदग्रा द्वेषभावना जागरिता।कीदृशोऽयं मे पिता - साक्षात् सीतासदृशीं मातरं विस्मृत्य तादृशीं दासीं चण्डीं गृहमानीतवान्। इयं दासी मम पितुरधःपतनस्य कारणमेव भविष्यति। इयं सुन्दरी वर्तते, परन्तु विषकन्येव वर्तते। कदाचिन्मामियं स्पृशेत्तर्हि अहं मृतः स्याम्।
आर्येण कौण्डिन्येन चाणक्यरचितस्य अर्थशास्त्रस्य चर्चा कदाचित् कृता आसीत्। तत्र कथं जन्मनः प्रभृति विषं दत्त्वा दत्त्वा विषकन्याः निर्मातुं शक्यन्त इति प्रतिपादितम्। विषकन्या यं वा कं वा स्पृशेत्, स जनस्तत्कालं म्रियेत। स भास्करवर्मा वा यः कोऽपि वा सामन्तः, येन पित्रे इयं दासी दत्ता, सोऽवश्यं पितुः प्रच्छन्नवैरी। अत एव स्वगृहे विषकन्यात्वेन संवर्धितामेनां सोऽददादेतस्मै।
दासीं मल्लिकामधिकृत्य अन्तरां पितरं च विशाखं च विवादोऽवर्धत। पित्रापि रुष्टेन कथितम् - इयं मम रक्षिता, इयं मम भार्या, इयं त्वया मातेव पूजनीया।
पितुरिममुपन्यासं श्रुत्वा श्रुत्वा दासी मल्लिका अत्यन्तं घृणितदृशा सोपहासं सोत्प्रासं तं निध्यायति।
गुरुकुले निवसन् स कदाचित् छन्दांसि रचयति स्म। विपाकं च श्रावयति स्म। विपाकः चकितः शृणोति, वदति च - विशाख, त्वं सत्यम् ऋषिरसि। यतो हि ऋषय एव मन्त्रान् छन्दांसि च साक्षात्कुर्वन्ति।
दास्या मल्लिकाया आचरणं पितुर्व्यामोहं च विलोक्य एतच्छन्दस्तेन गृहमागतेन अपरेद्युरेव प्रणीतम् -
व्याली चन्दनवृक्षं फूत्कुर्वती विषेण विलिम्पति।
गृहमानीता दासी पुरुषं चैवं तथा हिनस्ति।
विशाखः प्रायो विपाकस्य गृहे भवति। अनध्याये बहुकालं यावदुभौ वार्तां कुर्वतः।
तस्मिन् दिने विपाकस्य पितरो वैद्याश्चिरजीविनो विपाकमाहूय अवदन् - पुत्र, घटद्वयमपेक्ष्यते। अद्य सेवको नागतः। घटौ आनय।
विपाकस्तमाह - एहि कुम्भकारवीथ्यां यावः।
-- कुम्भकारवीथ्याम्? किं तत्र?
-- तत्र गत्वा घटद्वयमानेयम्। पितृभिः घटौ इष्येते औषधस्य निधापनं करणीयं तयोः घटयोः।
-- कुम्भकारवीथी क्वास्ते -अहं तु तत्र कदापि न गतवान्।
-- एहि मया सह। अहं त्वा दर्शयिष्यामि।
विपाकः लक्ष्मणपुरस्य येन येन मार्गेण तं नीतवान् स स मार्गो विशाखेन न कदापि दृष्टः। स चकितश्चिन्तयति स्म - विपाकः कथम् अस्य पुरस्य सर्वा वीथीः परिचिनोति?
विपाकोऽभ्यस्ताभ्यां चरणाभ्यां वीथ्याः वीथीं सञ्चरति स्म। विशाखस्तमनुपदं याति।
एकस्यां वीथ्यां सर्वतः कटुकर्कशः क्रेङ्काररवः प्रसरति। "इयमस्ति कांस्यकारवीथी" -- विपाक आह -- "इतः परमस्ति लौहकारवीथी, ततोऽनन्तरं कुम्भकारवीथी।"
कुम्भकारो मृत्तिकापिण्डं चक्रे स्थापयति। पार्श्वे स्थितो गर्दभः सहसा अत्यन्तं विस्वरम् अनदत्।
-- अरे विपाक, सौम्यदेवानां गुरुकुले मया कश्चन ग्रन्थः पठित आसीत् - तत्र कुम्भकारो यदा घटं निर्माति, तदानीं गर्दभस्तत्रैव उपस्थितः। घटस्य निर्माणे स गर्दभो निमित्तकारणं भवति वा न वेति प्रश्नो ग्रन्थे विचारितः।
-- ग्रन्थो यद्वा तद्वा वदतु। अहं तु मन्ये, गर्दभ एव अस्य घटस्य, सर्वेषां घटानां मूलकारणम्।
-- तत् कथम्?
-- तदित्थम्। शृणु। कुम्भकारो अस्मिन्नेव गर्दभे मृत्तिकाया भारान् आरोप्य आनयति। यदि गर्दभो मृत्तिकाया भारान् नानयेत्, तर्हि कथं निर्मीयेरन् एतावन्तो घटाः दीपाः शरावा वा? अतो गर्दभ एव सर्वस्य मूलं कारणम्।
- ग्रन्थे तु अन्ततः कथितं यत् गर्दभो निमित्तकारणमपि नास्ति।
- "अरे विस्मर ग्रन्थम्। अहमस्मि आचार्यो विपाकः। अहं यद् वदामि तत् शृणु" -- इत्युक्त्वा विपाक उच्चैरहसत्। विशाखोऽपि अहसत्। अनेन विनोदव्यतिकरेण विशाखः गृहे यज्जातं तत्सर्वं व्यस्मरत्। स्वकीयां पीडां दुःखं च व्यस्मरत्। विषकन्यायाः कथामपि व्यस्मरत्।
अनन्तरमेव किमपि अद्भुतं वृत्तं सम्पन्नम्।
दण्डेन चक्रं तीव्रं भ्रमयित्वा सहसा कुम्भकारेण मृपिण्डः स्पृष्टः। तस्य स्पर्शेन मृत्पिण्डे परिवर्तनमजायत।विशाखस्य मुखान्निर्गतम् - अरे -अयं कुम्भकारस्तु प्रजापतिः -- अयम् एकेन क्षणेनैव मृत्पिण्डात्कीदृशीमाकृतिम् उत्पादयामास-पश्य विपाक - एवं घटो जायते --
विपाकोऽवदत् - मया तु एतत् असकृद् दृष्टम्, अत्र किमपि चित्रं नास्ति।
विशाखो निर्निमेषनयनाभ्यां कुलालचक्रे प्रकटीभवन्ति नानारूपाणि पश्यन् तस्थौ।
केचन गुरवो विद्यार्थिनः स्वगृहे अध्यापयन्ति। ते उपाध्यायाः इति कथ्यन्ते। लक्ष्मणपुरेऽपि एके उपाध्याया आसन् श्रुतिशीलनामानः। नाम्नैव श्रुतिशीलाः, तेषां गतिस्तथा श्रुतिषु नास्ति। तथापि धर्मशास्त्रमर्मज्ञाः सन्ति। किं करोमि - ते यदि पाठयन्ति तर्हि धर्मशास्त्राण्येव तेभ्योऽधीये इति कृत्वा विशाखः कदाचित् तेषां गृहं गत्वा अधीते स्म। अन्यथा तस्य मनो रमते स्म विपाकस्य गृहे। तत्र विपाकस्य सन्निधिः, तस्य पितुश्च आयुर्वेदज्ञानेन लाभः।
विपाकस्य पितरः वैद्याः आसन्। तेषां सन्निधौ किमपि आयुर्वेदमेव अधीये इति पितरमुक्त्वा स प्रायः विपाकस्य गृह एव अवर्तत। विपाकेन तस्य मैत्री एतेषु दिनेषु व्यवर्धत। यदा विपाकस्य पितृपादा रिक्ता भवन्ति तदा स तेभ्य आयुर्वेदोपदेशं गृह्णाति। अन्यथा विपाकेन कथां करोति। गृहे अन्तरां च तं च दासीं मल्लिकां च प्रचलतिकिमपि शीतयुद्धमिव। स "विषकन्या"या आचरणमधिकृत्य विपाकमेव विज्ञापयति। तया सर्वं गृहमायत्तीकृतम्। तामानीय पित्रा किं कृतम्? सा सर्वस्य गृहस्य सम्पदं स्वकीयामिव मनुते। अन्यच्च कटु जल्पति, वचनभल्लैः सशल्यं तस्य चेतो विदधाति। - "किं कथयामि मित्र, इदानीं गृहत्यागमेव वरं मन्ये" - इति विपाकं स सखेदं कथयति - "कस्मिंश्चिदाश्रमे निवत्स्यामि। विद्यापि अनवसिता। स्नातकोऽहं न जातः। महदिदं दुर्भाग्यम्।"
विपाकोऽपि ब्रूते - ममापि इदानीं जागरिता विद्याध्ययनस्य मनीषा। कदाचित् श्रुतम् - विद्यया अमृतम् अश्नुते जनः। अहमपि अमृतो भवेयम्। रसायनानि कथं निर्मीयन्ते इति पितरः उपदिशन्ति। तैरपि कायः अजरो भवति, परन्तु अमृतत्वमधिकृत्य पितरः कथयन्ति यत् तन्न सुकरम्। ... त्वया सह अहमपि अगमिष्यम्, परन्तु पितृपादाः कथयन्ति, माता अस्वस्था। मातरं सेवस्व।
विशालमासीत् विपाकस्य गृहम्। परितो विशालमुद्यानम्। कुटजार्जुननिम्बकदम्बवृक्षाणां पङ्क्तयः, ततोऽग्रे आमलककुञ्जम्, ततश्च ओषधिपादपानां पाली। यदा विशाखो विपाकेन सह आयुर्वेदस्य अध्ययनार्थं तत्र प्रतिदिनं याति स्म, तदा तस्य पितृपादाः वैद्याश्चिरजीविनःअस्मिन्नुद्याने उभौ प्रतिपादपं, प्रतिद्रुमं, प्रतिविशाखं, प्रतिस्तम्बिनीं, प्रतिशशं दर्शयित्वा तेषां तेषां वनस्पतीनां गुणान् विवेचयन्ति स्म। इयं प्रतन्वती, इयं वीरुत्, इयम् अलसाला, इयम् इयं व्रततिः, इयं फलिनी इति नामान्यपि ते कीर्तयन्ति स्म। घृतकुमार्याः प्रियङ्गुलताया वा विशेषान् कीर्तयन्तस्ते नितरां प्रमुदिता भवन्ति स्म।
अयम् अश्वकर्णः, अयं खदिरः, अयं धवः, अयं पलाशः, अयं तिनिशः, इयं सल्लकी अयं शालः अयं च बदरीवृक्षः, अयं तिन्दुकः इति तैस्ते ते वृक्षाः परिचायितास्तदानीम्।
-- इयं या "विषकन्या" वर्तते, सा सत्यं पिशाची स्यात् - एकदा विपाको रहस्योद्भेदनमिव कुर्वन् तमाह।
- कथं त्वया ज्ञातम्?
-- पिशाचीनां यानि यानि लक्षणानि - तानि सर्वाणि तस्यां संवदन्ति - त्वं तावत् रात्रौ अवेक्षस्व - सा अवश्यमेव श्मशानं गच्छति रात्रौ -- सा शृङ्गारं कृत्वा श्मशानं गच्छति - श्मशानं गत्वा शिशूनां शवान् उत्खाय खादति --
विशाखस्तस्यां रात्रौ स्वपिमीति प्रदर्शयन् जागरितस्तस्थौ। आयान्तीमपि निद्रां न्यवारयत्। विपाकस्य कथनं परीक्षणीयम्। मल्लिका सत्यं पिशाची तर्हि पिताऽपि बोध्यः।
अर्धरात्रिः सञ्जाता। बहिः फेरवाणां रवोऽश्रूयत। अभिभूय तेषां रवं कुक्कुराः कटुकर्कशं बुक्कन्ति स्म। पार्श्व एव पिता सुप्तः। तस्य नासारवस्य घर्घरध्वनिः समस्तेऽपि गृहे गुञ्जति।
सहसा विशाखेन नूपुराणां मन्दं क्वणनं कङ्कणानां च कणत्कारः श्रुतः। अन्धकारेऽपि विमातुराकृतिं स पर्यचिनोत्।
सा बहिर्याति स्म। किं करोमि पितरं जागरयामि - कथयामि तस्मै यत् इयं या दासी भवता गृहमानीता - सा तु पिशाची वर्तते - पश्यतु - सा श्मशानं गच्छति अर्धरात्रे ...
पिता शय्यायां गाढं सुप्तो नासारवं विमुञ्चति। परन्तु तस्य पुरः स्थितस्य विशाखस्य मुखादेकोऽपि शब्दो न निर्गतः।
स तूष्णीमेत्य स्वशय्यायामशेत। क्षणानन्तरमेव बलवती निद्रा तां वशीचकार।
अन्येद्युः विपाकस्य गृहं प्राप्तः सोऽवदत् विपाकम् - भ्रातः, सत्यमुक्तमासीत् त्वया। इयं या दासी मल्लिका वर्तते - सा सत्यं पिशाची। सा अर्धरात्रे उत्थाय शृङ्गारं विहितवती। अनन्तरं गृहाद्विनिर्गता। मन्ये नित्यमेव सा एवमेव गच्छति। पिता किमपि न जानाति।
- सा अवश्यं श्मशानं गता स्यात्। तत्र सा शिशूनां शवान् उत्खाय उत्खाय भक्षयति। अनन्तरं प्रेतैः सम्भोगं करोति।
- प्रेतैः सम्भोगः? तत् कथं क्रियते?विशाखो विस्फारितचक्षुर्भ्यां विपाकं पश्यन् साश्चर्यमवदत्।
-- सम्भोगं न जानासि? नितान्तं मुग्धोऽसि। सम्भोगो नाम मैथुनम्। निधुवनम्। सुरतम्। मोहनम्। मया कामसूत्रं पठितम् - गृहे वात्स्यायनप्रणीतस्य कामसूत्रस्य मातृका वर्तते। तत्र लिखितम् - रसो रतिः प्रीतिर्भावो रागो वेगः समाप्तिरिति रतिपर्यायाः। सम्प्रयोगो रतं रहः शयनं मोहनं सुरतपर्यायाः।
-- अरे शठ, नाहं निघण्टुं वा पर्यायान् वा पृच्छामि। एतत् किं भवतीति वद।
विपाकस्तस्य प्रश्नमुत्तरयन् स्त्रीपुरुषसंसर्गस्य तादृशं बीभत्सं वर्णनं विहितवान् यत् विशाखस्य उदरे वमनावेश इव अजायत। स सघृणमवदत् - थूः थूः! किमिदं जुगुप्सितं कथयसि!
विपाको विहसन्नाह - अरे किमिति थूत्करोषि?सन्ततेर्लाभाय प्रत्येकं पितरौ एतदेव कर्म कुरुतः। एतत्कर्म विना अपत्यं नाप्यते। सत्यं कर्म तु अत्यन्तं जुगुप्सितमेव भवति - ....सर्वं जुगुप्सितम्, अनयैव जुगुप्सया वयं जनिं प्राप्ताः - वयं सर्वे। अस्माकं मातृपितृभ्यामेतदेव कृतम् - तव पित्रा तव मात्रा सह एतदेव कृतं, तदैव त्वं जातः ..
विशाखो नितरामुद्वेजितस्तमाह - विरम, विरम। अतः परं न श्रोतुं क्षमस्तव मिथ्यावादम्।
-- अहं तु सत्यमेव वच्मि। - विपाक आह।
-- एतत् ते सत्यम्! तर्हि चिरंजीव त्वम्। नास्ति मे त्वया प्रयोजनम्। अधुना न कदापि तव मुखमहं विलोकयिष्यामि, न च त्वं मम मुखं द्रक्ष्यसि।
इत्युक्त्वा प्रचलन्तं विशाखं विपाक आह्वयत् - विशाख, विशाख तिष्ठ, तिष्ठ शृणु, शृणु। विशाखस्य मनः क्रोधेनाध्मातम्। न मे अनेन पापं जल्पता विपाकहतकेन प्रयोजनमिति निश्चित्य तस्य आह्वानं शृण्वन्नपि स न परावृत्तः।
दिवसद्वयमतीतम्। विशाखः विपाकस्य गृहं न गतवान्। उभयोर्मध्ये वैमनस्यस्य अमङ्गला छाया प्रसृता। जीवनं नारकीयं जातम्। विपाकेन सम्बन्ध एव भग्नः। इदानीमनुशयो भवति। गृहे विषकन्या, तस्याः फूत्कारैस्त्राणं येन विपाकेन प्राप्यते स्म, तेनासौ कलहं कृतवान्। विपाकेन कलहं कृत्वा असौ पश्चात्तपति। आत्मानमेव कुत्सयते विगर्हते च - किमर्थम् अहम् एतावान् कोपनः, किमर्थं विपाक इव आत्मनियन्त्रणे न प्रभवामि?
पिता यजमानस्य गृहे वर्तते। दिवसद्वयमतीतं गतस्य तस्य। तेनोक्तमप्यासीत् - "विशाख! मया सह चल। एकस्य श्रोत्रियस्य गृहे सोमयागः सम्पाद्यः, दक्षिणाऽपि प्रचुरा प्राप्येत।"
विशाखेन चिन्तितमासीत् अद्य विपाकस्य गृहं गत्वा तं क्षमापयामि। तेन सह सन्धिं करोमि। ऋते तं न वर्तते मम कोऽप्यस्मिन् जगति।
विशाखस्य सोमयागार्थंमनो नोत्सहते। मनः शून्यं जातम्। सोमयागेन किं स्यात् - केवलं दक्षिणालाभः?
स पितरमवदत् - मया आयुर्वेदपाठाय विपाकस्य गृहं गन्तव्यम्।
पिता वदति स्म - अरे आयुर्वेदस्तु उपवेदः। अस्माकं धर्मो वेदरक्षा। वयं याजयामः। तेन इह चैव परत्र च ऐश्वर्यं स्वर्गश्च।
पितरि गते विशाखस्य मनो गृहेऽपि नारमत। मल्लिका - तस्य पितू रक्षिता --तं वत्स इति विशाख इति वा न कदाप्याह्वयति। बालक इत्येव आह्वयति। बालक इति तस्याः सम्बोधनं तस्या मुखादति विकृतं प्रतिभाति। यदा यदा पिता गृहे न भवति, तदा विशाखोऽपि आयुर्वेदाभ्यासाय विपाकस्य गृहं याति। परन्तु दिवसद्वयमतीतम्। विपाकस्य गृहं तेन न गतम्। उभयोर्मैत्री विघटिता। केवलम् एकेन विपाकस्य वाक्येन सम्बन्धो नष्टः। तत्र ममैव पौरोभाग्यमिति विशाखोऽनुभवति, क्षमापयितुं च गन्तुकामस्य तस्य पादौ न प्रसरतो विपाकस्य गृहं प्रति। मनो ग्लानं च म्लानं च। विपाकेन यद् जुगुप्सितं कर्म वर्णितं तत् सत्यं स्यात्। सौम्यदेवस्य गुरुकुले साङ्गो वेदोऽधीतः, आख्यानम् उपवेदाश्च नाधीताः। सर्वं कण्ठाग्रीकृतम्। अर्थास्तु न ज्ञाताः। यदि अर्था ज्ञायेरन्, तर्हि एतद् रहस्यमपि उन्मीलितं स्यात्। वेदेषु सृष्टिविद्या वर्णिता इति कदाचित् कौण्डिन्येन कथितमासीत्। विपाकस्य कैश्चित् शब्दैः सर्व एव संसारो विपरिवर्तितः। यदि विपाकजल्पितं सत्यं स्यात्, तर्हि सर्वेयं सृष्टिरेवमेव समुत्पन्ना। गृहाद् बहिः पशुषु पक्षिषु च मिथुनानि एवमेव कुर्वन्ति विलोक्यन्ते - तन्न मया विचारितम्। लताः पादपमालिङ्गन्ति। काकः काकीं कामयते. चटकः चटुलीकरोति चित्तं चटकायै। दूरे नद्यास्तीरे चातक आह्वयति चातकीम्। वेदान्तविद्यायां तु गुरुभिरुपदिष्टम् - जरायुजा, अण्डजा, स्वेदजा, उद्भिज्जेति चतुर्विधा सृष्टिः। तत्र मनुष्याणां जरायुजा सृष्टिः। जरायुर्नाम स्त्रियः गर्भाशयः। तस्मिन् पुरुषस्य शुक्रे निषिक्ते गर्भः सम्भवति।
तस्मिन् पुरुषस्य शुक्रं कथं निषिच्यत इति तु तेन न ज्ञातम्। यदा गुरवः पाठयन्ति स्म तदानीमपि मनसि अयं प्रश्न आगत आसीत्। अथ च एतज्जिज्ञासते अयं विशाख इत्युक्त्वा किमर्थं न पृच्छामि इति स चिन्तयति स्म, अनन्तरं च कदाचित् खिद्यन्ते गुरवः प्रश्नैरिति विचार्य जोषमतिष्ठत्।
अयं संसारस्तु सर्वथा कालुष्येन पापेन चोत्पन्न इति विचिन्त्य विचिन्त्य विशाख इदानीं मुहुर्मुहुः खिद्यति। पश्चात्तपति, तदीये मनसि शयः शतगुणीभवति।
उदरे बुभुक्षा सन्धुक्षिता। दासी मल्लिका किं करोतीति न ज्ञायते। सा भोजनं किमर्थं न साधयति मत्कृते। पिता अनुष्ठानार्थं गतः। श्वः परावर्त्स्यति। तर्हि किं गृहे भोजनमेव न भविष्यति ? रसवत्यां गत्वा अवलोकितवान् - कदाचित् किमपि तत्र भक्षणाय स्यात् - एकतः कण्डनी - अपरत उलूखलमुसले, एकस्मिन् कोणे शिला च लोष्टिका च। अस्यां शिलायां माता लेह्यां निर्मातुं कदाचित् बदरीफलानि, कदाचित् तिन्तिणीं वा पिनष्टि स्म। तस्या हस्तेन निर्मिता लेह्या अतीव स्वदते स्म। स्मृत्वा स्मृत्वा जिह्वा लालाप्लाविता भवति।
इदानीमपि जिह्वा लालायते। अपरस्मिन्कोणे च घट्टिका उपेक्षितेव स्थिता - माता उषसि उत्थाय अनया गोधूमं यवं च पिनष्टि स्म।पट्टके लग्नं काष्ठदण्डं गृहीत्वा द्रुतं भ्रमयति, पट्टकस्य मध्ये वर्तते रन्ध्रः, तस्मिन् मुष्ट्या आदाय आदाय त्वरितं धान्यं निदधाति - तद्धान्यं चूर्णं भूत्वा पट्टकाभ्यां पिष्टं बहिरायाति - एकदा गृहे यज्ञः प्रावर्तत, दशप्रस्थमात्रं गोधूमा यवाश्च पेषणीयाः, मातुः हस्तौ पेषणं कृत्वा कृत्वा उच्छूनौ, तदा स तौ हस्तौ परामृश्य अवदत् - मातः, अहं भ्रमयामि अस्या घट्टिकायाः पट्टकम् -माता विहसन्ती अवदत् - अस्तु, भ्रमय। स पट्टके लग्नं काष्ठदण्डं गृहीत्वा भ्रमयितुमयतत। महता बलप्रयोगेणापि पट्टकं किञ्चिदेव तस्य चलितम्, माता पुनरहसत् - प्राह च - गच्छ, बहिग्गत्वा क्रीड। श्वः यज्ञे समाप्ते अपूपांस्ते दास्यामि -
यज्ञे समाप्ते न केवलमपूपानेकं निष्कमपि माता अददात्।
निष्कप्राप्तेरपि कथैवान्या। यज्ञे समाप्ते पिता सर्वेभ्यो विप्रेभ्यो दक्षिणां ददाति स्म। तस्य मित्राणि - विपाकः, वाग्भटः, ऋजुः -एतेऽपि दक्षिणाम् अवाप्नुवन्।अथ मम दक्षिणा? - स हस्तं प्रसार्य पितुः समक्षं स्थितः।
-- अरे तव दक्षिणा कथम्, त्वं तु याजकस्य पुत्रः।
स विषण्णो मातुः समीपं जगाम। अम्ब, पित्रा मह्यं किमपि न दत्तम्, विपाकादयः सर्वे दक्षिणां प्राप्तवन्तः-स मातरम् अवदत्।
-- अहं ददामि तुभ्यं दक्षिणाम् - माता तं लालयन्ती अकथयत्।
तस्मिन् अवसरे निष्कोऽयं तेन मातुरवाप्तः।
... मातुः स्मृतिरस्यां रसवत्यां व्याप्ता। इदानीं माता नास्ति, अशनाय किमपि नास्ति। भाण्डानि सर्वाणि रिक्तानि -
रिक्ताया रसवत्याः स बहिरागतः। आगत्य आसन उपविश्य प्राणायाममकरोत्। यदा चित्तम् उद्विग्नं भवेत् तदा प्राणायामः करणीय इति गुरुभिरुपदिष्टमासीत्।त्रयः प्राणायामाः प्रत्येकं पञ्चदशमात्राभिर्विहिताः। एकस्याः त्रुटेरेका मात्रा भवति। यथागुरूपदिष्टं पञ्चदशमात्रापर्यन्तं स प्राणवायुमन्तर्धारयति।तेन सह सप्रणवां गायत्रीं पठति।
प्राणायामेन उदरे अग्निः समधिकतरं सन्धुक्षितः। दासी मल्लिका किं करोतीति न ज्ञायते। सा शयनकक्षादेव न निर्गता। किमर्थं निर्गच्छेत्। आरात्रि तु श्मशाने शिशून् भक्षयति। तां तु दिवसे बुभुक्षा कथं बाधेत?
मध्याह्नवेला सम्प्राप्ता। भोजनकालोऽयमुपागतः। सा तथापि न बुध्यति। किं कुर्यात् सः। अपि नाम पलाशदण्डमादाय भवति भिक्षां देहीति निगदन् गृहान्निर्गच्छेत्? परन्तु इदानीं सः अधीयानो ब्रह्मचारी नास्ति।
गेहाद् बहिः विल्ववृक्षो वर्तते। स फलति, ग्रीष्मे एव। विशाखः परितः पश्यति, यदि तस्मिन्नेव फलानि भवेयुः, स चित्वा भक्षयेत्। परन्तु एषमो बिल्ववृक्षो न फलितः, केवलं सहकारपादपे द्वित्रा मञ्जर्यो दृश्यन्ते। एतत् कथं जातम्? अन्यच्च अत्रासीत् कदलीनां कुञ्जम्। तत्तु विलीनमेव। कदली फलति स्म, अत्यन्तं मधुराणि फलानि, द्वित्राणि फलानि यदि लभ्येरन्, सर्वा क्षुध् व्यपयाति। परन्तु कदलीकुञ्जमेव नास्ति का कथा फलानाम्?
बहिर्वीथ्यां विविधा रवाः श्रूयते। कश्चन रथ्याकार्पटिकः भिक्षां याचते, अनन्तरम् अङ्गारविक्रेतुर्विक्रयघोषः - अङ्गारकं क्रीणन्तु - क्रीणन्तु अङ्गारकम् - उदरे अङ्गारा ज्वलन्ति - अथ कदलीफलविक्रेतुर्घोषः - मात्रा दत्तो निष्कः तस्य सविधे वर्तते - स तत् सङ्गोप्य रक्षति - बुभुक्षा बाधते परं तं दत्वा फलानि क्रीत्वा भक्षणाय मनो न प्रवर्तते - निष्कं दर्शं दर्शमसौ मातुर्दर्शनमिव करोति - यावन्मातुः साक्षाद् दर्शनं न भवति
तावदेतत् धारयिष्यामीति स चिन्तयति -
उदरगता अङ्गाराः सन्धुक्षिता भवन्ति।
अथ विचित्रः स्वरः कस्यचिदश्रूयत - शिलाटङ्कणं कारयन्तु - गृहे शिलानां टङ्कणम् -
सहसा निकषा आयास्यत्टङ्ककस्य तदाह्वानं विरतम् - अरे मन्ये अयं टङ्ककः अस्माकं द्वारि एव आगत्य स्थितः - - शिलाटङ्कणं कारयन्तु - गृहे शिलायाः टङ्कणम् - स द्वारे स्थितः आह्वानमकरोत्। अनन्तरं च हस्तेन द्वारे लम्बितां शृङ्खलामवादयत्।
विशाखो द्वारमुपागतः, द्वारमुद्घाट्य अपृच्छत्- भद्र, किं प्रयोजनम्, किमिष्यते?
शिलाटङ्कको युवा वर्तते - अतीवकुसृतिपरायणाभ्यां चक्षुर्भ्यां तं निर्वर्णयति, कथयति च - शिलानां टङ्कणं करोमि अहम्। गृहस्वामिनीमाह्वय। यदि शिलाटङ्कणं कार्यं, तर्हि करोमि -
-- गृहस्वामिनी नास्ति।- स उपेक्षया तमवदत्।
-- बालक, स्यात् सा मल्लिका - तव गृहं या पित्रा आनीता -
विशाखः - कथमयमेतद्वृत्तं जानातीतिआश्चर्यमनुभवन् , शिलाटङ्ककात् तस्माज्जुगुप्समानोऽवदत् - - सा - गृहस्वामिनी नास्ति ... सा वर्तते ....दासी मल्लिका.....
श्रुत्वा शिलाटङ्कको व्यहसत्। अवदच्च - अस्तु दासी वा स्यात् गृहस्वामिनी वा स्यात्। तामेवाह्वय।
-- सा - स्वपिति - अन्यदा आगच्छ।
सकौतुकं तं निध्यायन् टङ्ककः पृच्छति स्म - बालक, त्वं पूर्वं न दृष्टः। कस्त्वम्?
विशाखस्य चित्तं क्रोधेनाध्मातम्। अयमपि मां बालक इत्याह्वयति - साऽपि मां बालक इति आह्वयति। क्रोधं निगीर्य तेनोक्तम् - त्वमपि पूर्वं न दृष्टः।
-- अरे अहं तु अस्यामेव रथ्यायां भ्रमामि प्रायः। यत्र यत्र यस्मिन् गृहे टङ्कणं करणीयं तत्र तत्र टङ्कणं करोमि। मुसलेन उलूखलस्य सन्धानमहं करोमि। त्वं मया न कदाप्यत्र दृष्टः।
-- अहमस्मि विशाखः। गुरुकुलादागतः।
-- अहो त्वमसि विशाखः। सोऽहसत्। तस्य हास्येन विशाखोऽधिकतरं दुर्मनायितः।
-- तर्हि सा दासी -- यद्वा गृहस्वामिनी स्वपिति !....इयत् कालं यावत् सा किमर्थं स्वपिति ?
तस्य एतादृशेन प्रश्नेन विशाखस्तथा खिन्नो यत् पश्यतस्तस्य टङ्ककस्य सम्मुखमेव भटाक् इति ध्वनिना द्वारमावृणोत्।
अन्ततः काममियं दासी, परन्तु अस्याः कर्तव्यं भवति यन्मत्कृते भोजनं साधयेदिति कृत्वा इमामेव भोजनार्थं वच्मीति स व्यचिन्तयत्। शयनागारस्य द्वारं यावत् गत्वा स तामाह्वयत् - अयि मल्लिके, बुभुक्षितोऽस्मि, किमपि भोक्तुं देहि।
मल्लिका निद्राधीना आसीत्। सा नाशृणोत्। विशाखः पुनरपि तारतरेण स्वरेण आह्वानमकरोत्।
खट्वा चरमरायिता। सा उत्थाय द्वारं यावदागता। किं बालक, किमर्थं क्रन्दसि?
-- अतीव बुभुक्षितोऽस्मि। किमपि भोक्तुं देहि।
-- भोजनं न साधितम्। बहिर्गत्वा भिक्षां याचस्व। यत् प्राप्येत तद् भक्षय।
-- किमर्थं भिक्षां याचे। नाहम् अधीयानो ब्रह्मचारी अधुना।
-- बालक, याहि याहि। मा मां क्लेशय।रात्रौ तव पिता मां क्लिश्नाति, दिने त्वम्। एकस्यसेवां कर्तुं शक्नोमि, पितुर्वा पुत्रस्य वा। एकस्मिन् काले सेवितुं शक्नोमि दिवा वा रात्रौ वा। त्वमपि मां पीडयसि तर्हि त्वत्कृते शोभनं न स्यात्।
सहसा विशाखस्य शिरः क्रोधेन बभ्राम। रुषाऽऽध्मात इव स उच्चैरवदत् - किं करिष्यति भवती? यथा प्रतिरात्रं श्मशानं गत्वा शवान् भक्षयति तथा मामपि भक्षयिष्यतीति चिन्तयति? नाहं ते भक्ष्यः --
-- किमाह रे बालक?
-- अलमपशब्दान् प्रयुज्य।
मल्लिका तमुपासर्पत्। त्वया किं कथितं पुनः कथय - किमहं करोमि प्रतिरात्रम्?
-- त्वं रात्रौ गृहाद् बहिर्यासि। श्मशानं गच्छसि। तत्र शिशूनां शवान् उत्खाय भक्षयसि। त्वमसि पिशाची। पिशाची!
सा क्रोधताम्रायताक्षी तम् अपश्यत्, अनन्तरं - हताश, प्राप्स्यसि अस्य अविनयस्य फलमित्युक्त्वा पुनः वासगृहस्य कपाटं पिधाय अन्तर्निलीना।
विशाखः बुभुक्षया उन्मत्त इव, ज्वराविष्ट इव आर्त इव जातः। कथञ्चित् एकस्मिन् पिटके स्थापिताः सक्तवस्तेन प्राप्ताः. स जले तान् संसृज्य अपिबत्। अनन्तरम् अस्वपीत्।
अपराह्णे पिता आगतः। मल्लिका रुदती विशाखस्य विषये किमप्याह, तेन पिता क्रोधाध्मातः चीत्कुर्वन् तमाह्वयत्, साभियोगं चावदत् - विशाख, किमर्थमेनां त्वमपशब्दैः पीडयसि?
विशाखः किमपि वक्तुं नापारयत्। - यतः प्रभृति गुरुकुलादागतस्ततः प्रभृति त्वं सर्वथा अनार्यमेवाचरसि - मया उक्तः - सोमयागाय आगच्छ मया सह - तत् तु न कृतवान् - यतः कुतश्चिद् गत्वा एवमनार्यभाषणं शिक्षितोऽसि --- इति वदन् पिता तं सहसा वेत्रेण निर्दयमताडयत्। विशाखः पीडया चीत्कृतवान्।आह च - अहं बुभुक्षितः, आदिवसं मया आहारो न प्राप्तः, एतद् भवता न विलोकितम्, अस्याः दास्याः कृते अहं ताडितः!
पितुर्मुखं वेदनया क्रोधेन च नितरां विकृतम्। स मल्लिकामवदत् - किं दास्याः पुत्रि, किमर्थं पुत्राय मे अन्नं न दत्तं त्वया?
मल्लिका पितरमपि अध्यक्षिपत्। तदेव अवदच्च - एकस्यसेवां कर्तुं शक्नोमि, पितुर्वा पुत्रस्य वा। एकस्मिन् काले सेवितुं शक्नोमि --- दिवा वा रात्रौ वा।
पिता लज्जित इव वेत्रं क्षिप्त्वा गृहाद् बहिर्विनिर्गतः।
विशाखः दुःखेन दिग्ध इव स्तब्ध इव जोषं स्थितः। किमेतज्जातम्? तस्य कारणात् पिताऽपि खिन्नः, इयं दासी अपि खिन्ना तिष्ठति, उभौ तस्य कारणात् दुःखितौ, तर्हि किमर्थमेतादृशे गृहं स वसतु?
विशाखेन दृष्टं मल्लिका रोदिति स्म। विशाखश्चकितस्तां निध्यायति। इदानीमेव इयं मत्कृते एवं कालुष्यमयी, इदानीं रोदिति। - अयि देवि, भवानि, इदानीं किमर्थं क्रन्दसि?" -स तामपृच्छत्।
सा रोरुद्यमाना अवदत् - अहं पिशाची नास्मि। अहं विवशाऽस्मि, सन्तप्तास्मि, मम केवलमयमेवापराधो यद् रूपवती नीचकुले प्रसूता च। अत एव सर्वतो धिक्कृता अवमानिता। तत्र सामन्तस्य भास्करवर्मणः गृहे स्वयं सामन्तः तस्य अनुजौ च द्वौ मां निर्दयं भुक्तवन्तः। अनन्तरं मां निष्प्राणं वस्तु इव दाने प्रायच्छन्। अनन्तरं तव पिता - स मां भुनक्ति।
विशाखस्य पुरो वसुमती भ्रमति स्म। पित्रा सह सोऽसकृत् सोमयोगेषु सामन्तानां गृहाणि गच्छति स्म,तेषु गृहेषु दासा दास्यश्च बहुशो भवन्ति। ते खिन्नाः सन्तप्ता भवन्ति इति तु न कदापि इतः पूर्वमनुभूतम्। सर्वे दासाः परस्परेण परिहासं कुर्वन्तो विहसन्तो वा तेन निभालिताः। एवमेवदास्योऽपि प्रायो नृत्यन्त्यो गायन्त्यो विहसत्यो विलोकिताः। एतेषाम् एतासां जीवनं कष्टमयम् इति न प्रत्यभात्। अपि नाम यथा इयं मल्लिका दुःखिता तथा मनसि सर्वे ते दासाः दास्यो वा दुःखिता स्युः?
द्रवीभूत इव ग्लपित इव लज्जित इव विशाखोऽवदत् - अस्तु, स विपाकः शठः। स यद्वा तद्वा वदति। तस्य वचनप्रत्ययान्मया भवती तथोक्ता। क्षम्यतामयं मेऽपराधः। मा रोदीः। अयमन्तिमः अवसरः मया त्वं खेदिता, इतः परं न ते खेदस्य कारणं भविष्यामि, अहमेव इतो गमिष्यामि। प्रणमामि भवतीम्। सुखेनास्व। अहं यामि अस्माद् गृहात् ....
-- त्वं किमर्थं यास्यसि बालक! - अभिमानिनीव मल्लिका अवदत् - अहमेव यास्याम्यस्मात् गृहात्.... तव पिता वदति निष्कसहस्रं प्राप्य स मां मोचयिष्यति - अस्ति कश्चिज्जनो यो मत्कृते दद्यात् सहस्रं निष्कान्।
- अपि नाम स शिलाटङ्ककः? - विशाखः प्रष्टुमियेष, परन्तु तूष्णीमास। तथापि दास्या मल्लिकायाः कृते तदीये मनसि या कटुता आसीत् सा व्यपगता। इयं विवशा वर्तते, क्लिष्टा वर्तते इति विचार्य तस्याः कृते मनसि कारुण्यमुत्पन्नम्।
- त्वया किमपि न भुक्तम्। - मल्लिका तं वदति स्म।
-मया सक्तवो भुक्ताः। इति कथयन् स निर्गतः।
तस्मिन्नेव दिने स गृहमत्यजत्।
लक्ष्मणपुरात्तु अन्यत्र गन्तव्यम्, परन्तु क्व गन्तव्यमिति गृहत्यागसमये मनसि न निर्धारितम्। इदानीं सहसा आर्यस्य ज्येष्ठान्तेवासिनः कौण्डिन्यस्य स्मृतिर्मनसि स्फुरिता। आर्यकौण्डिन्यस्तु मयि बद्धस्नेहः। सदैव मां स्निग्धेन चक्षुषा पश्यति स्म। सौम्यदेवेन यदा यदा अहं ताडितस्तदा तदा तस्यैव वचांसि हृन्मर्मव्रण औषधलेपमिव कुर्वन्ति स्म। कथं न यत्र स आस्ते तत्रैव गच्छामि। स तु आचार्यविमलमतेराश्रमे साकेते अधीते। सोऽवश्यं मत्कृते आचार्यं विमलमतिं प्रार्थयेत् - अन्तेवासित्वेन अयमपि वटुः स्वीकरणीय इति।
विशाखस्य मनसि उदग्रे द्वे कामने -- एका मातुर्दर्शनस्य अपरा ज्ञानार्जनस्य। उभयोरपि अन्योन्याश्रयत्वं स मनुते स्म। ज्ञानेन सशरीरं स्वर्गगमनं तत्र मात्रा समागमः।
लक्ष्मणपुरे तदन्तिमं तदीयं दिनम्। स्वगृहाद् विनिर्गत्य प्रथमं स विपाकस्य गृहं गतः। मनसि चिन्तयति स्म- अन्तिमोऽयं पर्यायस्तस्य दर्शनस्य स्यात्, तं पश्यामि क्षमापयामि च। ... परं विपाक एव स्वगृहे नासीत् - स न मिलितः.... तस्य पिता मिलितः .... चिरजीवी वैद्यः। तेन फलानि दत्तानि, औषधं दत्तम्। तेषामेव फलानामौषधस्य चायं प्रभावो यदसौ चिरं जीवति स्म। तानि गृहीत्वा स विपाकस्य गृहात् परावृत्तः।
तस्यां रात्रौ स ग्रामदेवीमन्दिरे सुप्तः, अन्येद्युः ब्राह्ममुहूर्त एव समीपवर्तिनि तडागे स्नानं विधाय सूर्योपस्थापनं च विधाय चिरजीविना प्रदत्तेषु फलेषु अवशिष्टानि भक्षयित्वा साकेतं प्रति प्रचलितः।
अनुसरयूतटं स याति स्म। परितः क्षेत्राणि, क्षेत्रेषु शस्यं प्ररूढम्। हरीतिमा मनो हरति। सीमानम् उल्लङ्घ्य सायङ्काले स साकेतं प्राप्तः। साकेतनगर्या एकतः सरयूः, अपरतो वप्रम्। वप्रे एकत्र गोपुरद्वारम्। स द्वारं यावदागतः। तत्र प्रहरी तमरुणत्। प्रहरी सर्वमपृच्छत् - कस्त्वम्, कुत आयातः, एकाकी किमर्थमायातः,
विशाखः सर्वमवेदयत् - विमलमतेराश्रमं गन्तुकामोऽस्मि -
श्रुत्वा प्रहरी तं गमनाय अन्वमन्यत।
आदिवसं साकेते भ्रमति स्म। बहूनि तीर्थानि दृष्टानि। एकस्मिन् सत्रागारे भुक्तम्।
साकेते एकतः कलकलं प्रवहतिः सरयूः। अपरतो घर्घरो नाम नदः सघर्घररवं वहति।। सरयूतीरे कियन्तो यूपाः सन्तीति विशाखो गणयति स्म। एते यूपा इक्ष्वाकुवंशीयैः राजभिः निखाताः। तैः अश्वमेधाः सरयूतीरे अनुष्ठिताः। प्रत्येकम् अश्वमेधस्य कृते पुनरपि नवीनान् यूपान् आरोपयन्ति स्म। यद्यपि सम्प्रति जना अयोध्येति नाम न व्यवहरन्ति, ते अयोध्यां कथयन्ति साकेतम्। परन्तु साकेतं त्वद्यापि रामनिकेतमेव। पदे पदे कुशीलवा मिलन्ति। ते केवलं रामायणगानं कुर्वन्ति अन्यत् किमपि कार्यमेव न तेषाम्। विशाखश्चकितः स्तब्धस्तेषां गानं शृणोति, गानश्रवणाय तिष्ठति। गच्छन्तो जना गानश्रवणाय विरम्य तिष्ठन्ति। स्त्रियः श्रुत्वा श्रुत्वा रुदन्ति।
कुशीलवेषु कश्चन वेणुं वादयति, अपरो मृदङ्गम्,कश्चन नृत्यत्यपि। जनाः तैः साकं नृत्यन्ति, हसन्ति रुदन्ति। बहवस्तेषां रामायणगाने सम्मिलिता भवन्ति।
निकषा एव वर्तते सीताकुण्डम्। रामेण सीतादेव्याः स्नानाय विनिर्मितम्। तदनु रुक्मिणीकुण्डम्। अत्र श्रीकृष्णभार्या रुक्मिणी कदाचित् स्नाति स्म। तन्निकटं विद्यते क्षीरोदकुण्डम्। निकषा एतत्कुण्डम् ऋष्यशृङ्ग ऋषिः दशरथस्य कृते पुत्रेष्टियज्ञं सम्पादयामास। ततः परं प्राचीनो दुर्गः कश्चन आसीत्। अत्रैव रामस्य प्रासाद आसीदिति जना आहुः।
अथ एवमेव भ्रमन् गोप्रतारतीर्थमसौ प्राप्तः, तदा बहवो जनास्तत्र स्नान्ति स्म। कश्चन पुरोहित उच्चैश्चीत्कुरुते - आगच्छन्तु, अद्य पुण्यं दिनम्, पूर्णिमा वर्तते, अस्मिन् गोप्रतारतीर्थे स्नानं कुर्वन्तु, यथाशक्ति दक्षिणां यच्छन्तु - इदमतीव पावनं तीर्थम्, अत्र स्नानेन सहस्राश्वमेधयज्ञानामनुष्ठानस्य यत् फलं तल्लभ्यते, अत्र भगवता रामेण स्वर्गं गच्छता स्नानं विहितम्। भगवान् रामः साक्षाद् विष्णुः।"
श्रुत्वा विशाखश्चकितः। रामो नाम राजा कदाचिदत्र शास्ति स्म। तेन लोकापवादभिया स्वभार्या सीता परित्यक्ता इति कथा तेन श्रुता, आर्येण कौण्डिन्येन प्रोक्ता। परन्तु स साक्षाद् विष्णुरिति कीदृशी वार्ता?अथ यदि स साक्षाद् विष्णुस्तर्हि किमर्थं स्वर्गं गतः, किमर्थं न स्वकीयं विष्णुलोकं परावृत्तः?
-- अरे किमपि प्रष्टुकामोऽहम् - स तं पुरोहितं गत्वा आह।
-- दूरमपसर, बालक! दूरम् अपसर। यदि स्नानं करणीयं तर्हि गत्वा स्नानं कृत्वा आयाहि, तदा अहं त्वया वार्तां करिष्ये। स्नानं कृत्वा यत् किमपि द्रव्यं स्यात् तन्मह्यं देयम् - तेन महान् पुण्यलाभस्ते स्यात् - स्वर्गं यास्यसि -
उपनयनावसरे मात्रा दत्तो निष्कः विशाखस्य सकाशे आसीत्। यदि एतद् ददामि तर्हि नयेदयं मां स्वर्गमिति विचार्य स स्नानं कृत्वा सद्यस्तं पुरोहितम् उपसृत्य आह - आर्याः, गृह्णन्तु निष्कमिमम्, प्रापयन्तु च मां स्वर्गम्।
अरे एक एव निष्कस्तव सकाशे वर्तते, अपरं किमपि नास्ति?
-- न, अपरं किमपि नास्ति। एतन्मम सर्वस्वम्।
-- अहो सर्वस्वं ददाति वटुः। अस्तु, त्वरितं पूजां सम्पादय। ततः स्वर्गभाग् भविष्यसि।
विशाखेन पूजा सम्पादिता।
-- गच्छ सम्प्रति। - पुरोहित आह।
-- अथ स्वर्गम् ?... अधुना प्रापय मां स्वर्गम्।
- अरे कथं प्रापयामि त्वां स्वर्गम्? किमर्थं प्राणांस्त्यक्तुमिच्छसि?
-- प्राणान् किमर्थं त्यक्तुमिच्छेयम्? भवता प्रोक्तं स्वर्गं प्रापयिष्यामीति। इदानीं प्रापयन्तु -
-- अरे मूढमते, जीवन्नरो न गच्छति स्वर्गम्। यदा म्रियेत तदा स्वर्गं वा नरकं वा गच्छेत्।
-- तर्हि कदा मरिष्यामि?
-- एतत्कथं वक्तुमहं क्षमः? अपसर, अपसर इतः। अन्ये स्नानार्थिन आयान्ति, तेभ्योऽवकाशं देहि।
पुरोहितेन कलहो जातः। जनाः प्रहसन्ति।
-- बालक, सशरीरमपि इदानीमेव त्वां स्वर्गं प्रापयामि, परं तत्कृते समधिकतरं धनमपेक्ष्येत।
हताशो विशाखस्ततश्चलितः। यदि प्रचुरं धनं भवेत् तर्हि तद्बलेन स्वर्गः गन्तुं शक्येत इति स मनसि करोति स्म।
निकषा गोप्रतारतीर्थं वर्तते तिलोदकं तीर्थम्। ततः परम् अग्नितीर्थम्, यत्र विष्णोरेव
अवतारो नृसिंहः पूज्यते। ततो बृहस्पतितीर्थम्।
ब्रह्मकुण्डे विप्रा घोषयन्ति स्म - अस्मात् परं किमपि तीर्थं नास्ति, इदं सर्वेषामपि तीर्थानां राजा। आयान्तु स्नानं कुर्वन्तु अस्मिन् ब्रह्मतीर्थे।
एवं व्रजन् स तत्स्थलं प्राप यत्र सरयूः घर्घरेण नदेन सङ्गमं प्राप्नोति। तत्रैवासीत् स्वर्गद्वारतीर्थम्। तत्र पुरोहिताः कथयन्ति स्म - अरे इदं साक्षात् यदृच्छयोपन्नं स्वर्गद्वारमपावृतम्। प्रविशत, प्रविशत अनेनस्वर्गम्। केवलं स्नानं कृत्वा दक्षिणा देया। अश्वमेधसहस्राणि वाजपेयशतानि सम्पाद्य यत्फलमवाप्यते, तत्फलं केवलमत्र स्नानेन अवाप्यते।
सर्वत्र पुरोहिताः स्नानार्थिभ्यः स्वर्गप्राप्तेः प्रलोभनं ददति, तेभ्यश्च दक्षिणां प्राप्नुवन्ति। यथा वणिज आपणे स्वविक्रेयवस्तूनां विक्रयाय महाघोषं कुर्वन्ति तथा एते पुरोहिता अत्र तीर्थेषु स्वान् स्वान् आपणान् उद्घाट्य तेषां जलं स्वर्गार्थिभ्यो विक्रीणते। स्वं स्वं तीर्थं ते सर्वोच्चं घोषयन्ति। इदानीमवगतम् - आपणे धनदानेन तत्कालं वस्तु अवाप्यते, अत्र तत्कालं किमपि नावाप्यते, मरणानन्तरं स्वर्गोऽवाप्स्येत इति आश्वासनं केवलम् अवाप्यते।
रात्रौ सत्रागारे किमपि खादित्वा विशाखस्तत्रैव सुप्तः। अन्येद्युः उषसि एव विमलमतेराश्रमस्य सङ्केतं पृच्छन् अनुसरयूतीरं गच्छन् मुहूर्तेन तत्र प्राप्तः।
आश्रमः अत्यन्तं रमणीयः। वृक्षाः पुष्पफलैः समृद्धविटपाः। परितो विश्रब्धम् अचकिता हरिणाश्चरन्ति। गुल्मेषु निलीनास्त्रयः शशका प्रविष्टमात्र एव विशाखे तस्य पदध्वनिना उद्वेल्लिताः प्रभञ्जनेन उड्डापितास्तूलराशय इव द्रुतं सृताः।
आश्रमद्वारेण सोऽन्तः प्रविष्टः। उभयत आसीत् पादपानां पङ्क्तयो यासु मुनिकन्या जलं ददति स्म। चटकाः कलविङ्काश्च परितः सञ्चरन्ति, सेकान्ते मुनिकन्या आलवालात् तत्क्षणमपसरन्ति, अपसृतासु तासु झटिति सरन्तश्चटका आलवालेभ्यो जलं पिबन्ति। द्वित्रा बालका विशाखं सकौतुकं पश्यन्तः क्रीडन्तः शशा इव प्रधाविताः। वामतः केचन मुनयोऽग्निहोत्रं कुर्वन्ति स्म। अपरत्र पञ्च वटवो वेदघोषं कुर्वन्ति। ततोऽग्रे महति प्राङ्गणे धनुर्वेदमभ्यस्यन्तो ब्रह्मचारिणः क्वचित् मृत्तिकाभिर्निर्मितेषु मयूरेषु बाणेन लक्ष्यसन्धानं कुर्वन्ति स्म। अन्यत्र अपरे दण्डचालनं शिक्षमाणास्तेन दृष्टाः।
आश्रमे विशाखस्य मनो लग्नम्। यादृशी आश्रमस्य रमणीयता तादृशी तत्र शान्तिः, यादृशी शान्तिस्तादृशी कापि कान्तिः। पृष्ठतः प्रवहति सरयूः। सरय्वास्तटमभितः सुदूरं प्रसृता वनराजिः। वृक्षाः क्वचित् स्वशाखाबाहूनवनाम्य अवनाम्य जलस्य आचमनं कुर्वाणाः क्वचित् पुष्पाणि तदीये जले विकीर्य विकीर्य सरयूदेव्या अर्चनं कुर्वाणा इव भान्ति। स्वच्छस्फटिकमपि सरय्वा जलं तेषा हरीतिम्ना क्वचिन्मरकतविशदम्, क्वचित् पुष्पाणां प्रकरैः रङ्गवल्लीरचनारम्यं च भवति स्म। सरयूतरङ्गाणां कणवाही मरुन्मन्दं क्वणन्नङ्गानि शीतलयति। सर्वस्मिन् परिसरे स विचरन् यद् यद् विलोकितवान् तत्सर्वमेव सुकविविनिर्मितं पद्यमिवानवद्यं च हृद्यं च प्रत्यभात्। तथा चित्तं प्रफुल्लितं यद् येन प्रयोजनेन समागतस्तदपि चिरं विस्मृत्य स प्रहरकं यावत् आश्रमे सञ्चरन्नासीत्।
वेदिकायामुपविष्टः कश्चन मुनिर्ब्रह्मचारिण आन्वीक्षिकीं विद्यामध्यापयति स्म। विशाखः तूष्णीं स्थितोऽशृणोत्। स प्रमाणविवेचनं करोति स्म। प्रत्यक्षमनुमानमुपमानं शब्दश्चेति चत्वारि प्रमाणानि। तेषाम् एकैकस्य स्वरूपमसौ प्रतिपादयति। अत्यन्तं रुचिकरी प्रतिपादनशैली। चतुर्णामपि प्रमाणानां लक्षणानि तेन साकल्येन प्रतिपादितानि। अथ चाह - एतेषां जीवने क्रमेण विनियोगो भवति - प्रथमं प्रत्यक्षेण वयं किमपि वस्तु जानीमो ज्ञातुं वा वाञ्छामः। यस्य वस्तुनो ज्ञानं प्रत्यक्षेण न कर्तुं शक्यते, तस्य ज्ञानम् अनुमानेन प्राप्नुमः। प्रत्यक्षानुमानाभ्यां साधयितुमशक्यं क्वचिद् उपमानेन निरूप्यते। परन्तु यत्रेमानि प्रत्यक्षानुमानोपमानानि त्रीण्यपि न प्रभवन्ति, तत्र शब्दप्रमाणम्। आप्तवचनं शब्दः। ननु आप्तः कः?
स आप्तलक्षणं विशदयति स्म। शृण्वतो विशाखस्य ध्यानमन्यत्र गतम्। ये पुरोहिताः साकेतस्य तेषु तेषु तीर्थेषु स्वर्गप्रलोभनं दत्त्वा दत्त्वा यात्रिकेभ्यो धनमपहरन्ति ते तु आप्ता न सन्ति। मात्रा दत्तो निष्कस्तेन व्यर्थमेव तस्मै पुरोहिताय दत्तः।
स मुनिराप्तलक्षणं परिष्कृत्य कथयति स्म - ...परन्तु मोक्षविद्यायां शास्त्रे वा एतद्विपरीतः क्रमः। तत्र प्रथमं शब्दप्रमाणमुपयुज्येत। शब्दप्रमाणपोषाय क्वचिदुपमानमानीयेत, एवं च यज्ज्ञानं लब्धं तस्य संवर्धनम् अनुमानेन अन्ततश्च स्वयम् आत्मनि आत्मज्ञानेन प्रत्यक्षेण विधीयते। अयमेव साक्षात्कारः। .....भवतु, अद्य तावद् एतावदेवास्तु। मध्याह्नसवनस्य समयो जातः।
इत्युक्त्वा विरते तस्मिन् सप्रणामं ब्रह्मचारिण उत्थिताः, शनैश्च ततः प्रस्थिताः।
तस्य सौम्यगम्भीराम् आकृतिं वीक्ष्य विशाखोऽचिन्तयत् - अमुमेव पृच्छामि तावत् कुत्रआचार्याणां विमलमतीनां दर्शनं प्राप्येतेति।
विशाखः शालाया द्वारि प्रतीक्षायां स्थितः। बहिरागतः स मुनिः तं तथा स्थितं दृष्ट्वाऽपृच्छत् - आगन्तुको भवानिति मन्ये।
विशाखः तमभिवाद्य अवदत्- सम्यगुपलक्षितं मुनिवर्येण भवता।
तैत्तिरीयशाखाध्वर्युः सोमपीथी भारद्वाजगोत्रोत्पन्नो विशाखो नाम कर्कटकपौत्रः शाखोटकतनयोऽहम्। लक्ष्मणपुरे आचार्यसौम्यदेवानां गुरुकुले अधीयान आसम्।
एच्छ्रुत्वा सौम्यदेवनामसङ्कीर्तनात् तेषां कृते अञ्जलिं बद्ध्वा स मुनिराह - श्रूयन्ते तत्रभवन्तः आचार्याः सौम्यदेवाः। मम पितृचरणानां ते सतीर्थ्या आसन्। ते इदानीं न सन्तीति ज्ञातम्।
-- एवमार्य! तेषु दिवङ्गतेषु मम विद्या अनवसितेति अन्यत्र कस्मिंश्चित् गुरुकुले दीक्षां प्राप्तुमटामि। श्रूयन्ते अस्य आश्रमस्याधिपतयो सुगृहीतनामधेया विमलमतय इति नाम्ना प्रथितयशसो मुनयः सत्यमेव विमलमतयः। तेषां पूर्वं लब्धदर्शनसौभाग्योऽयं जनः। यदि ते अनुमन्येरंस्तर्हि अस्मिन् आश्रमे दीक्षां प्राप्य विद्यां समग्रां विधातुकामोऽस्मि।
- भद्र विशाख, विलम्बेनात्र सम्प्राप्तो भवान्। येषां पूज्यपादानां नाम कीर्तितं तेषामेव ज्येष्ठस्तनयोऽहं शुभमतिरिति नामधेयः। मम पितृचरणाः गतमास एव संन्यासाश्रमं प्रविष्टाः। अटन्तश्च हिमालयं प्रति प्रस्थिताः। अतः तेभ्यो दीक्षामवाप्तुं भवतो यः सङ्कल्पस्स तु न चरितार्थतां यायात्।
विशाखस्य मुखं नैराश्यतमसा आच्छन्नमिव।
-- मुनिवर, त्रय एव आश्रमा भवन्तीति मया अधीतम्। चतुर्थस्य अस्य संन्यासाश्रमस्य तु चर्चा अद्यैव श्रुता। -
शुभमतिरवदत् - भद्र विशाख, अवितथमुक्तं भवता। यथा वेदेषु ऋग्यजुःसामेति त्रयी यथा च धर्मार्थकामा इति पुरुषार्थत्रयी, तथैव ब्रह्मचर्यगृहस्थवानप्रास्थेति आश्रमत्रयी। परन्तु यथा इदानीं वेदेषु चतुर्थो वेदः अथर्ववेदः, पुरुषार्थेषु च चतुर्थो मोक्षस्तथैव आश्रमेष्वपि अयं चतुर्थः संन्यासाश्रमः। सर्वे न संन्यस्ता भवन्तीत्यपि सत्यम्। केचन मनीषिणः सर्वान् कामान् परित्यज्य अरण्ये विश्राम्यन्ति, अथवा अनागारिका अटन्ति। ते संन्यासिनो भवन्ति।
- सम्यग् बोधितोऽस्मि।
अथ क्षणं तूष्णीं स्थितः स सप्रश्रयम् तं शुभमतिं मुनिमाह - आर्य, भवन्तस्तेषां पूज्यचरणानां तनयाः, भवतां दर्शनेन पावितोऽस्मि, कृतार्थोऽस्मि। यदि अन्यथा न मन्येरन् आचार्यवर्यास्तर्हि अपरमपि किमपि वेत्तुमिच्छामि -
-- उच्यतां स्वैरम्।
-- आसीदत्र मदीयो ज्येष्ठान्तेवासी आर्यकौण्डिन्यो नाम पैप्पलादशाखाध्यायी। यदि तस्यापि दर्शनं प्राप्येत तर्हि कृतकृत्यः स्याम्।
-- "भद्र विशाख, कष्टं यन्न भवतां कामनामिमामपि पूरयितुं वयं शक्ताः। भवतो ज्येष्ठान्तेवासी पैप्पलादशाखाध्यायी आर्यकौण्डिन्यस्तातचरणेन अधीयान इहैवास। महान् ममपितृचरणानां तं प्रत्यनुग्रहः। यदा ते संन्यासाय मतिं व्यदधुस्तदा स तैरुक्तः-- आयुष्मन् कौण्डिन्य! मम या कापि विद्या आसीत् सा मया एतावता कालेन तुभ्यं दत्ता। त्वं मेधावी असि, विचक्षणोऽसि। धर्माचरणे प्रसक्तस्यापि सन्दिहाना मतिरस्ति ते। तक्षशिलां याहि। तत्र वर्तते महद्विद्यापीठम्26। कदाचित् तव शङ्कानां समाधानं तत्र स्यादिति।
"आर्यः कौण्डिन्यो मत्पितृचरणेषु दृढं निबद्धभक्तिस्तेषां सान्निध्यलाभाद् वञ्चित इति खिन्नोऽपि तक्षशिलागमनावसरेण प्रसन्नः। विद्यतेऽत्र कश्चन पूर्णयशा नाम सौगतमतानुयायी आचार्यः। साकेत एव पूर्वं बुद्धावतारभूताः महान्तः पण्डिताः पार्श्वनामानो न्यवसन्। अयं पूर्णयशास्तेषामेव शिष्यः। सोऽपि तक्षशिलामेव यातीति तेन सह आर्यः कौण्डिन्योऽपि तक्षशिलां गतः।
विमलमतयो यतयो जाताः, आर्यः कौण्डिन्यः तक्षशिलां गतवान्। विशाखः खिन्न इव कान्दिशीक इव स्थितः।
तथाविधं तं दृष्ट्वा शुभमतिः ससौजन्यमाह - भद्र विशाख, दूरात् समागतोऽसि। आचार्यसौम्यदेवस्य शिष्य इति, आर्यकौण्डिन्यस्य सतीर्थ्य27 इति त्वम् अनुजकल्पोऽसि मे। यदि न चेदन्यकार्यातिपत्तिस्तर्हि द्वित्राणि दिनानि इहैव तिष्ठ। परस्तात् साकेते वा काश्यां वा प्रयागे वा कस्मिंश्चिद् गुरुकुले आश्रमे वा यथेच्छं विद्यार्जनाय गन्तुमर्हसि।
- महानयम् अनुग्रहो मयि आर्यस्य - मया अस्याः शालाया बहिः स्थितेन प्रमाणविषये श्रुतम् आर्यस्य व्याख्यानम्। अहं त्रय्यां वेदाङ्गेषु च कृतश्रमः। आन्वीक्षिकी विद्याप्यध्येतव्या मया। यदि आर्यवर्या मां शिष्यत्वेन स्वीकुर्वन्ति तर्हि कृतकृत्यो भवेयम् -इति कथयित्वा विशाखस्तमभ्यवादयत्।
विशाखः शुभमतेः सौजन्येन अभिभूतस्तत्र स्थितः। तेनासौ आन्वीक्षिक्या अध्ययनमकरोत्। मासत्रयं व्यतीतम्। आन्वीक्षिकीमधीयानस्य तस्य महती रुचिः सांख्ये जागरिता। आचार्यः शुभमतिरपि आन्वीक्षिक्याः सिद्धान्तान् प्रतिपादयन् वारं वारं कपिलमतस्य सांख्यस्य वा चर्चां करोति स्म। विशाखस्तमाह - आचार्य, सांख्यमपि यदि अध्येमि तर्हि उपकारः स्यान्मे।
शुभमतिरवदत् - विशाख, तातचरणानामेव कश्चित् शिष्यो वर्तते ईश्वरकृष्ण नामधेयः। महाज्ञानी.. स इदानीं एकस्मिन् मठे अत्रैव साकेते निवसति। कदाचित्स त्वां सांख्यमध्यापयेत्।
ईश्वरकृष्णस्य मठः सरय्वा अपरे पारे वर्तते। स महान् साधकः, महान् योगी। कपिलमुनेः सांख्यसूत्रं विशदयितुं सांख्यकारिकां नाम नवीनग्रन्थं स व्यरचयत्। विशाखो यदा तस्य मठं प्राप्तस्तदा स एकाकी समाधौ लीनः स्थितः। क्लेशेनैव स विशाखं शिष्यत्वेन स्वीकृतवान्।
तथापि साङ्ख्यस्य अध्ययनेन मनो न तुष्यति। तत्र पुरुषो निःसङ्गः, प्रकृतिः नटीव तत्सम्मुखं नृत्यति। परन्तु विवेकोदये सति प्रकृतिः पृथक्, पुरुषः पृथक्। रङ्गे यथा नृत्यं दर्शयित्वा नर्तकी निवर्तते, पुनर्न दर्शनपथमुपेति सामाजिकस्य, एवमेव पुरुषः अस्मिन् संसारे केवलं दर्शकः, स केवलं साक्षी। किमपि किमपि वैकल्यं जायते। किं करोमि...अतीव परिपूर्णं दर्शनम् ईश्वरकृष्णेन निर्मितम्। कपिलस्य मतं कारिकासु सङ्क्षिप्य अत्यन्तं सुबोधतया हदङ्गमं यथा स्यात् तथा तेन प्रस्तुतम्। तथापि पूर्णः सन्तोषो न भवति।
अथैकदा ईश्वरकृष्णस्तमाह - भद्र विशाख, यावदहं जानामि, तावन्मया त्वमध्यापितः। त्वमसि विचक्षणः, शतावधानी एकश्रुतिश्चासि। एकवारं श्रुत्वा स्मरसि। एतादृशस्य त्वत्कृते तक्षशिलाविद्यापीठे अध्ययनमेवोचितं स्यात्।
तक्षशिलाविद्यापीठम्? - तत्तु सौगतमतानुयायिनां वर्तते। भवन्तस्तु सौगतमतं न मन्यन्ते। मम ज्येष्ठान्तेवासी आर्यः कौण्डिन्यस्तत्र गत्वा सौगतमतानुयायी जात इति श्रूयते।
-- तद् विद्यापीठं केवलं सौगतमतानुयायि इति तु सत्यं नास्ति। सत्यं एतद् वर्तते यत् तक्षशिला खलु विद्यायाः महती साधनास्थली। महाज्ञानी महर्षिर्धौम्यः अत्रैव स्वकीये आश्रम उपमन्युम् आरुणिम् वेदं च उपानयत् तेभ्यश्च ज्ञानं प्रादात्। मगधमिथिलावन्त्यादि- जनपदेभ्य इदानीमपि तत्रैव प्रयान्ति विद्यार्थिनः। तत्रैव महावैयाकरणः पाणिनिः अर्थशास्त्रस्य व्याख्याता कौटिल्यश्चाधीतवन्तौ। तक्षशिलानगरमपि अत्यन्तं प्राचीनम्। रामस्य अनुजेन भरतेन एतत् स्थापितम्। भरतस्य पुत्रोऽभवत् तक्षः। तस्य नाम्ना इयं नगरी तक्षशिलेति विज्ञायते। ते सर्वाणि शास्त्राणि अध्यापयन्ति, सर्वेषां धर्माणां च तत्र ब्रह्मचारिणः सन्त्यधीयाना इति श्रूयते। अथ यदि भवत्यपि सौगतमतानुसारि तत्, तेन किम्? विद्या तु यस्मात् ग्रहीतुं शक्यते तस्माद् ग्राह्या। अस्माकं मुनयो वदन्ति यवनेष्वपि ज्ञानं संस्थितम्, ते खगोलविद्यायां निपुणाः, ज्योतिषेऽपि तेषां वर्तते महत् प्रस्थानम् - यदि ते स्वकीयं शास्त्रं धर्महानिम- कुर्वन्तः अस्मभ्यं ददति तर्हि ग्राह्यम्। स्वधर्मो न हातव्यः न वा स्वविवेकः।
विशाख ईश्वरकृष्णस्य मठात् प्रचलितः। अनवरतं चङ्क्रमणम्। पादौ पीड्येते। अविश्रान्ता यात्रा, इयं यात्रा कदापि अवसानं नैति। यथा यथा देशदर्शनं करोति तथा तथा कौतुकं वृद्धिमेति। कीदृशा जनाः, कीदृशोऽयं भारतवर्षः, जम्बूद्वीपं तु अतोऽपि विस्तीर्णं
स्यात्। किमर्थं न पारेसमुद्रं यामि, स्वर्णद्वीपं यवद्वीपं यावत् भ्रमामि इति श्रावं श्रावं विविधदेशानां तीर्थानां वर्णनमस्य मनो विकल्पयति। नाना सम्प्रदायाः। पौणभद्राः पूर्णभद्रं यक्षं पूजयन्ति। अन्ये मणिभद्रस्य अर्चां कुर्वन्ति। चान्द्राश्चन्द्रमस उपासकाः सौरा भगवन्तं भास्करम् उपासते। निर्ग्रन्थाः वस्त्रमेव न धारयन्ति। एतादृश एतेषामपरिग्रहः। केवलं करतले यत्किमपि प्राप्येत, तद् गृहीत्वा भुञ्जते।
अथासौ आजीवकसम्प्रदायेऽपि कतिचित् कालं व्यत्यापयत्। ते सहजं जीवनं यापयन्ति। आजीवको मुनिः। तस्य नाम कङ्कः। कङ्कमुनेः आकृतिर्गम्भीरा, वदनं प्रसादसदनं, हृदयं सदयम्। करुणाया अवतार इति भाति।
तस्य उपदेशं श्रावं श्रावं विशाखस्य मनसि एतदागतम् - अरे यत्किमपि अयं मुनिर्वदति तत् तु अस्माकमपि श्रुतिरुपदिशति। आत्मा वा अरे ज्ञातव्यः श्रोतव्यो मन्तव्यश्च। यदि आत्मनो ज्ञानमेव प्रथमं करणीयं तर्हि किमर्थं श्रौतयागे अग्निहोत्रे वा चेष्टा विधेया? आत्मनि एव आत्मा अवलोकनीयः। तत्रैव सर्वं निहितम्। न कस्यापि पूजा, न कस्यापि उपासना।
बाल्यभावात् स्वर्गं सशरीरं प्राप्य मातरं द्रक्ष्यामि इति कामना तदीये मनसि आसीत्। शनैः शनैरपयाति स्म स बाल्यभावः, शनैः शनैः सा कामना क्षीणा। संसारस्य दिदृक्षा ज्ञानस्य च पिपासा बलवती भवति। तथापि कदाचिच्छक्येत सशरीरं स्वर्गगमनम्, कदाचिद् गत्वा अनेनैव देहेन स्वर्गं प्रेक्षिष्ये मातरमिति आशा मनसि आसीत्।
ईश्वरकृष्णस्य मठात् प्रचलितोऽसौ द्वित्रान् मासान् कङ्कस्य मुनेराश्रमे न्यवसत्, अनन्तरं मार्गे विष्णुपुरं ग्रामं प्राप्तवान्। तत्र स्वामिचरणा अनन्ततीर्थाः प्रवचनं कुर्वन्ति स्म। सशरीरं स्वर्गः कथं प्राप्यत इति ते विवेचयन्ति स्म। विशाखः स्तब्धः सोत्कण्ठं तेषां प्रवचनमशृणोत्। समाप्ते प्रवचने गत्वा तेषां पादयोः स्वशिरो न्यदधात् - अवदच्च - भगवन् सशरीरं स्वर्गं गन्तुकामोऽयं जनः।
अत्यन्तं मधुरं स्मितं स्वामिपादानाम्। एवं विशाख, सशरीरं स्वर्गं त्वामहं नेष्यामि।
विशाखस्तेभ्यो दीक्षां प्राप्तवान्। अध्ययनं प्रति महानाग्रहोऽभूत् स्वामिपादानाम्। तेषां कृते अध्ययनस्यार्थो भवति रटनम् - आम्रेडनम्। पाणिनेरष्टाध्यायी तेन कण्ठाग्रीकृता। विशाखो मुहुर्मुहुः पृच्छति - केवलं कीर इव रटामि, अस्य अध्ययनस्य अर्थं कदा ज्ञास्यामि?
त आहुः -- "विशाख, अधीतैः कालान्तरेण विज्ञेया भवन्त्यर्थाः। तस्मादध्ययनं कुरु।"आप्रातः सन्ध्याम् अग्निहोत्रं च विधाय रटनम्। अनन्तरं भिक्षाटनम्। न्यस्तमुसलात्
व्यङ्गारात्गृहात्भुक्तवत्सु तत्र गृहस्थेषु भिक्षायाचनम्।
अनन्ततीर्थानां तेजस्वि वपुः। प्रचुरां भिक्षां ददति ग्रामीणा जनाः।उदरपूर्तिः भवति, मनसो जिज्ञासानां पूर्तिर्न भवति।शङ्कानां समाधानं न भवति।
एकदा सोऽअनन्ततीर्थेन साकमुपविष्टः वेदान्तचर्चां करोति स्म।काचन स्त्री सहसा समेत्य स्वामिवर्यस्य पादौ जग्राह। अरे किं करोति भवती? मुच्यतां मम चरणम्। - स्वामिवर्य आह।
-- इदानीं न मुञ्चामि। भवान् गृहे मामेकाकिनीं त्यक्त्वा गतवान्। धर्मपत्नीमनापृच्छ्य संन्यासः कथं भवेत्? इदानीं क्व यामि...सर्वथा अनाश्रिताऽस्मि -
स्वामिवर्याः सर्वथा निःस्पृहाः जोषं स्थिताः।
विशाखस्य मनसि तस्याः स्त्रियो रोदनं श्रावं श्रावं व्यथा समुत्पन्ना।
--- मर्षयन्तु ममाविनयमाचार्यपादाः, परन्तु यदीयं तत्रभवतां भार्या, एनामनापृच्छ्य च यदि भवन्तः संन्यस्तास्तर्हि इयम् अवेक्षणीया -
अनन्ततीर्थस्वामिनः - "त्वं तूष्णीं तिष्ठ, अलमनया अनधिकारचेष्टये"ति तं निर्भर्स्य तां स्त्रियम् अवदन् - न मे त्वया प्रयोजनम्, न कुटुम्बेन। संन्यस्तोऽस्मि।
तदानीमेव कश्चन पुरुषः सम्मुखमुपेत्य अत्यन्तं रोषेणाध्मातः चीत्कृत्य उवाच - अरे पाषण्ड, युवतीं पत्नीं विहाय इतस्तत आहिण्डमानस्त्वं चत्वरबलीवर्द इव भ्रमसि --अहं राजसैनिकानानीतवानस्मि।
कोलाहलं श्रुत्वा बहवो जनास्तत्र सम्भूय समायाताः। ते विशाखं पृच्छन्ति स्म - किं सञ्जातम्? कोऽयं पुरुषः, का चेयं स्त्री?
स पुरुषस्तान् जनान् तारतरेण स्वरेण अब्रवीत् - पश्यन्तु भावमिश्राः, अयं मम जामाता। सत्कुलं च शीलं च वीक्ष्य मयेयं स्वकीया दुहिता अनेन विवाहिता। अथ यदेयमापन्नसत्त्वा तदेव अयं तां विहाय संन्यस्तः। कस्याज्ञया अनेन संन्यासः स्वीकृत इति अयं प्रष्टव्यः।
जनाः परस्परेण वार्तां कुर्वन्ति स्म। तदानीमेव राजसैनिकास्तत्र प्राप्ताः।
विशाखः न मे किमपि प्रयोजनमनेन संन्यासिना न वा अनेन कलहेनेति चिन्तयन् ततो विनिर्गतः, न ततः परं तेन स्वामिनोऽनन्ततीर्थस्य काऽपि वार्ता प्राप्ता।
ततः स एकं बौद्धविहारं प्राप्तवान्।
कथं स तत्र प्राप्त इति विचित्रैव कथा। स्वामिनोऽनन्ततीर्थस्य सकाशाद् विनिर्गतः स इतस्तत भ्रमति। करतलभिक्षया तरुतलवासेन कालं नयति। अनन्तरं देशे दुर्भिक्षं व्यजृम्भत। भिक्षा क्वापि न लभ्यते। जना म्रियन्ते।
स क्षुधार्त आहिण्डते। विपाकस्य पितृभिः चिरजीविवैद्यैर्यच्चूर्णं दत्तमासीत्, यस्य प्रभावात् क्षुत्पिपासा न बाधते, तदपि समाप्तम्। कथमिमं देशं विहाय अन्यं देशं यामि। परन्तु गमनस्य शक्तिरेव नास्ति। विशाखः अशक्तो निपतितः। मृत्युरेवमायास्यतीति तेन न चिन्तितमासीत्।
प्राप्तसंज्ञः स इतस्ततो व्यलोकयत्। स बौद्धविहार आसीत्। कश्चन भिक्षुस्तस्य वदनं सीकरक्लिन्नं करोति स्म।
बौद्धविहारे पञ्चदशदिनानि स न्यवसत्। भदन्तात् कल्याणबुद्धेः सौगतमतमधीतवान्। भदन्तोऽपि तस्य प्रज्ञया प्रभावितः।
परन्तु यथा ईश्वरकृष्णस्य मठे तथैव बौद्धविहारेऽपि मनस्तोषो नाभूत्। सुस्थः सन् विहारं विहाय स प्रचलितः। अनुप्रयागम् अनुगङ्गं च यास्यन् भद्रपुरीमिमां प्राप्तः। अत्र मिलितोऽयं सूतवर्यः। सूतवर्येण सङ्गत्य विशाख आश्वासनमिव अलभत। शक्यमिदानीमुच्छ्वसितुम्।
(8)
-- त्वया या स्त्री रात्रौ गृहान्निर्गच्छन्ती दृष्टा, सा पिशाची नासीत्, अभिसारिका आसीत् सा। - सूतवर्यो विशाखं कथयति स्म।
-- अभिसारिका? - सा कीदृशी भवति?
सनातनसूतोऽहसत्। अरे त्वया वेदाः स्मृतयः शास्त्राणि चाधीतानि, काव्यं नाधीतं किम्? अस्माकम् आख्याने तु काव्यमपि भवति। तत्र अभिसारिकाः निरूप्यन्ते। अष्टनायिकासु एका भवति अभिसारिका। या रात्रौ प्रच्छन्नं स्वजारेण सङ्गन्तुं याति सा अभिसारिका।
विशाखो विहसन्नाह - इदानीं स्मरामि। अभिसारिकेति संज्ञा न ज्ञाता, किन्तु याः स्त्रियः रात्रौ स्वस्वप्रियैः रन्तुं यान्ति तासां विषये अधीतम्।
-- अरे शठ, किमिदमधीतवानसि - कस्मिन् शास्त्रे? अपि नाम वात्स्यायनीये?
-- न। वात्स्यायनीयं शास्त्रं नाधीतम्। मम मित्रेण विपाकेन क्वचित् तदधीतम्। वर्तते कश्चित् कविः कालिदासाख्यः। तस्य काव्यं सकृन्मया पठितमासीत् - मेघसन्देशः इति। जानन्ति भवन्तः तत् काव्यं कुत्र मया प्राप्तम्? तन्मया प्राप्तम् ईश्वरकृष्णस्य मठे। ईश्वरकृष्णः सांख्यशास्त्रस्य आचार्यः परन्तु परमरसिकः। कालिदासे तस्य महती प्रीतिः। प्रकृतिमसौ नर्तकीं मनुते। प्रकृतिः का? प्रकृतिस्तु ईश्वरकृष्णमतेन सृष्टेर्मूलम् अव्यक्तम्।
अस्याः प्रकृतेरेव गुणानां वैषम्यात् सर्वा सृष्टिः प्रादुर्भवति।अस्तु अस्मिन् मेघसन्देशकाव्ये कालिदासेन उज्जयिन्यां रात्रौ रमणवसतिं यान्तीनां रमणीनां वर्णनं कृतम्। किन्तु भवद्भिरेका अपराऽपि संज्ञा प्रयुक्ता जार इति। जारस्तु वैदिकः शब्दः। वेदेषु पठ्यते --- अहल्याजार इन्द्र इति।
-- अहो महान् खलु त्वं पण्डितोऽसीत्युक्त्वा सूतवर्यो जहास। उक्तवांश्च - महानानन्दः।
-- अन्यच्च, तात सूत, अपूर्णं मम वक्तव्यम्।
-- अहो अन्यदप्यस्ति वक्तव्यम्। उच्यताम्, उच्यताम्। अनुक्तं हि विवक्षितम् अपक्वः अपूप इव उदरे क्षोभं जनयति - इत्युक्त्वा सूत उन्मुक्तकण्ठं विकटं जहास। उक्तवांश्च - महानानन्दः।
-- अन्यच्च -
-- किमन्यत्?
-- अन्यदेतत् पृच्छामि - वैदिकोऽयं जारशब्दः कुतो भवद्भिर्ज्ञातः?
-- वत्स, वयं वैदिका न स्मः, तथापि किञ्चित् किञ्चित् मन्त्रं तन्त्रं चापि जानीमहे। इत्युक्त्वा पुनरपि सूतः सकिलकिलं हसितवान्।
सूर्यः अधिक्षितिजं द्विहस्तमात्रमारोहत्। सनातनो विशाखमवदत् - एहि, तस्य क्षीरवृक्षस्य च्छायायामुपविशावः।
वटतरोरधः उपविष्टौ तौ। सनातनः सम्प्रति गम्भीर इव दृश्यते। कथयति स्म सः -विशाख, भगवन् विप्रदेव! एकं सत्यं वदामि, श्रुत्वा खिन्नो मा भूः। मा च मां शापं निपातय। भवतां ब्राह्मणानां शापप्रदानात् अस्मादृशा भृशं बिभ्यति -
- किं वक्तुकामो भवान्?
- तव विमातरमथवा तां दासीमधिकृत्य किमपि वक्तुकामोऽस्मि। अहं पश्यामि तव मनसि महती जुगुप्सा वर्तते तस्याः कृते। अनया जुगुप्सया त्वं वर्तसे, अनया व्यहरसि। इयं तु नोचिता। एनां विसृज। तया यत्किमपि कृतम्, तत् साधु कृतम् -
- तया -- साधु कृतम्? किमर्थमेवं वक्ति भवान्?
-- सा आसीत् युवती - रामपुरग्रामे केनचिद् यूना सा बद्धा। कश्चन शिलाटङ्कक आसीत्।तस्मिन् सा रज्यति स्म। तेनैव सह पलायिता।
-- शिलाटङ्ककेन?विशाखः साश्चर्यं सनातनस्य मुखं पश्यन् आस।
-- एवमेव।
विशाखस्य मानसे सहसा काचन स्मृतिः स्फूर्ता। कस्मिंश्चिद् दिने शिलाटङ्ककस्य गृहद्वारे स्थितस्य स्मृतिः। अतीवकुसृतिपरायणाभ्यां चक्षुर्भ्यां स तं निर्वर्णयति स्म। - "शिलानां टङ्कणं करोमि अहम्। गृहस्वामिनीमाह्वय। यदि शिलाटङ्कणं कार्यं, तर्हि करोमि" इति तेनोक्तमासीत्। पुनश्च तस्य कथनम् - "अहम् अस्यामेव रथ्यायां भ्रमामि प्रायः। यत्र यत्र यस्मिन् गृहे टङ्कणं करणीयं तत्र तत्र टङ्कणं करोमि। मुसलेन उलूखलस्य सन्धानमहं करोमि। त्वं मया न कदाप्यत्र दृष्टः.."......"अहो त्वमसि विशाखः।" इति कथयतस्तस्य हासः। तस्य हास्येन विशाखस्य मनसि कोपस्य उद्रेकः। पुनश्च - -- "तर्हि तव माता स्वपिति - इयत् कालं यावत् सा किमर्थं स्वपिति ?" इति तस्य कथनम्। विशाखेन पश्यतस्तस्य टङ्ककस्य सम्मुखमेव भटाक् इति ध्वनिना द्वारस्य पिधानम्।
- किं चिन्तयसि विशाख! मा खिन्नो भव।
- अहं चिन्तयामि भवान् सर्वथा ऋषितुल्यः। सर्वेषां कृते सर्वथा साधुभावमेव मनसि धारयति भवान्। तथापि इदं जगत् साधूनां वसतिर्नास्ति। अत्र प्रायः असाधव एव मिलन्ति।
सनातनः सूत उच्चैरहसत्।अरे त्वं वृद्ध इव भाषसे! महानानन्दः -
- अरे! खेदस्य विषयेऽपि भवतामानन्द एव विजृम्भते -
-- किं रे! तव मनसि इयान् खेदः किमर्थं विजृम्भते -
विशाखः स्वयमपि चिन्तयति - तस्य मनसि इयान् खेदः कस्य कृते। कस्मै कुप्येत सः, किमर्थं च? क्षणं विचारयन् स सनातनसूतमवदत् - अहं बिभेमि - भवतां कृते - भवानेतावान् सज्जनः - हिंस्रैः श्वापदैरिव पूर्णा इयं भवाटवी।
-- पुनरपि वृद्ध इव भाषसे त्वम्। मयि तु नास्ति भयम्। अहं भयादपि न बिभेमि। वासुदेवो रक्षेत्।स यत् कर्तुमिच्छति तत् करोतु, मम किम्?
विशाखः चकित इव तं निध्यायन् स्थितः। सूतवर्यः सम्मुखं विलोकयति - नदी प्रवहमाणा आस्ते। तरङ्गाः उत्तिष्ठन्ति, विलीयन्ते। सूर्यस्य रश्मयः तरङ्गेषु विच्छुरिताः। कियन्तोऽब्दा अतीता, इयं नदी तथैव प्रवहमाणा आस्ते।
विशाखोऽपृच्छत् - किमिति शून्ये निध्यायति भवान्।
सूतवर्योऽवदत् - एनां नदीमवलोकयामि। एनामवलोकयन् नैमिषस्य फल्गुनदीं स्मरामि। सा बहुमूलफलोदका। तत्रत्या मुनयोऽप्यत्यन्तं कृपालवः। मयि अतितरां स्निह्यन्ति। तेषामनुरोधेन प्रतिवर्षं शरदि तत्र यामि। एवं मया दशकृत्वो नैमिषे पुराणाख्यानं विहितम्।
-- अरे भवतां च अस्य बालकेन तु जन्मान्तरीयः सम्बन्धः प्रतीयते यतो हि भवद्भिरयं एतावता स्नेहेन आप्यायितः। - ठक्कुर आगत्य अवदत्।
-- राजन् ठक्कुर! अनेन बालकेन मम वर्तते जन्मान्तरीयः सम्बन्धः, जन्मगतश्च सम्बन्धः। इदानीं भवान् प्रक्ष्यति - कथमिति। अयं पूर्वस्मिन् जन्मनि बादरायणो व्यास आसीदिति अहं मन्ये, अहं चास्य सेवकः तस्मिन्नपि जन्मनि कश्चन सूत एव। अथ अस्मिन् जन्मनि यस्मिन् लक्ष्मणपुरे ग्रामे साकेतजनपदे अयं जातस्तस्मिन्नेवाहमपि। अयं प्रकृतजन्मगतः सम्बन्धः।
-- राजन्, इमे मत्पितृतुल्याः। अजानता मया गते दिने धृष्टता विहिता यदिमे प्रत्याख्याताः। एतस्य अपराधस्य कृते मर्षणीयो विशाखः।
इति कथयित्वा अञ्जलिं बद्ध्वा स्थितं विशाखं तर्जयन् सूत आह - अरे किमिदमनौचित्यम्? विशाख, त्वं विप्रः। मम पूज्यः। कामं बालकस्तथापि विद्वान्। अतो द्विगुणितो मम त्वयि आदरोऽपि अभिमानोऽपि। स्तनन्धयो मया दृष्टः, इदानीं महान् सञ्जातः- महापण्डितः, महाविद्वान्। उपविश, उपविश।
-- पुनरपि चातुर्वर्ण्यचर्चा कृता भवद्भिः।
-- गुणतश्चातुर्वर्ण्यं तु अहमपि स्वीकरोमि। सूतवर्योऽवदत्।
-- एतदेव तु भगवान् बुद्धोऽप्याह - न जात्या वृषलो भवति, न जात्या भवति ब्राह्मणः। कर्मणा ब्राह्मणो वा वृषलो भवति।
-- अरे त्वया सौगतमतमपि अधीतम्। कुतः?
-- अहं बहूनि दिनानि बौद्धविहारे न्यवसम्।आस्तां तावत्। अन्यच्च - भवतो वंशी क्व गता?
-- मम वंशी? किमाह भवान्? वंशी क्वासीन्मम? इति सच्छलमुक्त्वा सूतवर्यः पुनरहसत्।
--- वंशीं विना कीदृशो भवान् सूतः - अहं स्मरामि भवता स्वयमेव वंशखण्डेभ्यो वंश्यो निर्मीयन्ते स्म। वंशीवादनसहचरितो भवताम् आख्यानं भवति स्म।
- अरे त्वं बहु स्मरसि - विहसन् सूत आह - वंशी क्वचित् स्थापिता मया? क्वचिद् वर्तते। कदाचिन्निस्सारयिष्यामि। परन्तु अहं न वादयामि ताम्। वासुदेवो वादयति। स एव सर्वान् नर्तयति नः।
विशाखस्य स्मृतौ तद् दृश्यं पुनरपि उन्मीलितं यदा तेन वाग्भटो वंशीं वादयन्
नृत्यंश्च दृष्टः।
लक्ष्मणपुरे लौहकारवीथ्याः कांस्यकारवीथ्याः मध्ये आसीत् शृङ्गाटकः। तत्र तस्य पुराणप्रवचनं भवति स्म। एकदा स विपाकेन साकं भ्रमंस्तं शृङ्गाटकं प्राप। अपराह्णसमय आसीत्। सनातनसूतः पुराणं पठति स्म। वाग्भटोऽपि तेन साकं क्वचित् पठति, अथ गायति, नृत्यत्यपि। - अरे अयम् अस्माकं मित्रं वाग्भटो वर्तते! कथं नर्तको जातः। - विपाको वाग्भटं सहासं सविस्मयं निध्यायन् वदन्नासीत्।
अयमेव सूतवर्यो ध्रुवस्य आख्यानं प्रस्तौति स्म। तौ ध्रुवस्य उपाख्यानम् अनवधाय वाग्भटस्य गायनं शृणुतः स्म, नर्तनं वा विलोकयतः स्म, हसतश्च स्म। आश्चर्यमेव... स गायत्यपि, गानेन सह वंशीमपि मध्ये मध्ये वादयति, अनन्तरं च वंशीं दक्षिणहस्ते धारयन्, चरणौ तालेन उल्लासयन् कटिं च मोटयन् यदा नृत्यति, तदा तं दर्शं दर्शं विशाखविपाकयोर्मुखाभ्याम् अवशं हास्यं प्रस्फुटति स्म।
तस्मिन् समये बाल्यभावाद् विशाखेन सूतवर्यस्य प्रज्ञा न प्रत्यभिज्ञाता। श्रोतृषु बालकाः, स्त्रियः वृद्धाः बाहुल्येनासन्। ते कथं तन्मयीभवनं गताः। ध्रुवस्य तपोवर्णनं तदाकारतां याताः शृण्वन्ति स्म इति स इदानीं स्मरति। तदानीं तु केवलं वाग्भटस्य कटिमोटने एव अवधानं यातम्।
इदं द्वितीयं दिनं भद्रपुरीमागतस्य तस्य। ह्योऽपराह्णे सोऽत्र आगतः। सूतवर्योऽत्रैव पुराणं व्याचष्ट। अद्य स तस्य पुराणपारायणं श्रोतृषु उपविश्य सश्रद्धं शृणोति स्म। सूतवर्यो महाभारतीयां कथां विवृण्वन् मुहुर्मुहुः एवं भगवता व्यासेनोक्तम् इति वक्ति।
ठक्कुरस्य गृहाः विशालाः। ग्रामे त्रिभूमिकं केवलं तस्यैव सदनम्। आकर्षफलकं द्यूतफलकं च अन्तर्गत्वा अवलोकयितुं शक्यते। तदुपान्ते क्रीडाशकुनिपञ्जराणि। ततः परं तक्षणस्थानम्।
शयनार्थं विशाखः पुनस्तस्मिन्नेव वासगृहे आनीतः ठक्कुरेण। ह्यो दिने तु श्रान्तेः कारणात् स कुत्र कथं सुप्त इति नावधारितम्। इदानीं सर्वं कौतुकेन पश्यति स्म विशाखः। द्विवासगृहं गृहमासीद् रमणस्य श्रेष्ठिनः। पर्यङ्किकायाः पार्श्वे मातुलुङ्गत्वचस्ताम्बूलानि स्थापितानि। भूमौ च पतद्ग्रहो निधापित आसीत्।सुश्लक्ष्णमुभयोपधानं मध्ये विनतं शुक्लोत्तरच्छदं शयनीयं तत्र विरचितम्।
एतादृशे वासगृहे तेन न कदापि शयितम्। "इदं श्रीकण्ठस्य वासगृहम्" - ठक्कुरो वदति स्म - "मम पुत्रः। स इदानीं नास्ति" - इति कथयतस्तस्य नयनयोरश्रूणि उच्छलितानि।
विशाखः परितः पश्यति - नागदन्तावसक्ता वीणा, चित्रफलकम्, वर्तिकासमुद्गकः, नातिदूरे भूमौ वृत्तास्तरणं समस्तकम्।
श्रीकण्ठः वीणावादक आसीत् चित्रकारोऽपि च? विशाखस्तं पृच्छति स्म।
-- किं कथयामि श्रोत्रियपुत्र! स यदा वीणां वादयति तदा सरस्वती स्वयमेवावतीर्णा शृणोतीति प्रतिभाति। स चित्रकारोऽपि। तस्य चित्राणि सर्वाणि मम पुत्रवध्वा
नीतानि - सा तानि धारयति।
अस्मिन् गृहे सर्वत्र श्रीकण्ठस्य स्मृतयो विकीर्णाः इति विशाखोऽनुभवति। प्रतिक्षणं तमेव ध्यायन्ति सर्वे कुटुम्बिनः। न केवलं श्रीकण्ठस्य पितरौ - ठक्कुरः ठक्कुराणी ईश्वरीदेवी,तयोर्वधूः कालिन्दी वा, दासा दास्योऽपि वा तं स्मृत्वा स्मृत्वा रुदन्ति। कालिन्दी ... सा तु बालिकैव.. परन्तु श्रीकण्ठस्य स्मृतीनां महद्भारं बिभ्रती सा गुरुः प्रतीयते।
केवलमेक एव जनो विद्यते उदासीनः। सालङ्कः -- श्रीकण्ठस्यानुजः। स पुराणपारायणेऽपि उपस्थितो न भवति,श्रीकण्ठस्य नाम्नि कीर्तिते स सर्वथा तूष्णीं तिष्ठति। परन्तु यदा स कालिन्द्याः समक्षं भवति, तां अत्यन्तमभियुञ्जान इव विलोकयति। विशाखो विभावयति - सालङ्कस्य दृष्टिः कलुषिता वर्तते। विशाखस्तस्माज्जुगुप्सते।
सूतवर्यः कालिन्दीं वत्से इति पुत्रीति वा सम्बोधयति। स कथयति स्म - इयं तपस्विनी... इयं कथं जीवनं धारयिष्यति - पतिर्विना नार्याः का गतिः..।
गृहस्वामिनी - ठक्कुरस्य भार्या ईश्वरी देवी कालिन्दीं वक्रदृशा पश्यतीति विशाखेन अवबुद्धम्। तथापि कालिन्दी यदा यदा अवलोकिता तदा तदा प्रसन्नवदना।
बहोः कालं यावन् निद्रा नागता। विषादस्तस्य अन्तर्निखात इव। स शय्यायां परिवर्तते स्म। सूतवर्यः प्रतिशय्यिकायां शेते स्म। स शयान एवापृच्छत् - विशाख, अपि निद्रा नायाति?
- ह्यो दिने तु शयितमात्र एव निद्रा गाढं माम् समालिङ्गत। अद्य तथा न भवति। अद्य सर्वमवलोकयामि, अत्र श्रीकण्ठः शेते स्म, स नास्ति ... कथमेतस्मिन् शयनीये शये.....
श्रुत्वा विहसन् सूतवर्यः श्लोकमिममपठत् -
सुखं वा यदि वा दुःखं प्रियं वा यदि वाऽप्रियम्।
प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः।।
क्वचित् स्थण्डिले शेते क्वचित् कोमलस्रस्तरे।
मनीषी गणयेन्नैव श्रान्तिं विश्रान्तिमेव वा।। इति।
विशाखः शयनादुत्थाय - अपृच्छत् - एतदपि श्लोकद्वयं भगवता व्यासेनैव प्रोक्तम्
इति कथयिष्यति भवाननधुना?
-- कोऽत्र सन्देहः?
-- सन्देहोऽस्ति।
-- कथं नाम?
-- यावत् पुराणं भवतो मुखादन्यथा वा श्रुतं तत्र तु भगवतो व्यासस्य या शैली सैव प्रथमे श्लोके अनुभूयते। द्वितीये श्लोके तु अन्यैव शैली।
-- अयं शैल्या विचारो भवत्सु विप्रेष्वेव शोभते। अस्माकं या परम्परा अस्ति सा व्यासपरम्परा। तस्यां यत्किमपि निगदितं तत् सर्वं व्यासोच्छिष्टम्। व्यासोच्छिष्टं ये भुञ्जते, ते सर्वे व्यासायन्ते।
-- इयम् उच्छिष्टपरम्परा तर्हि युष्माकम्।
-- यत् उच्छिष्टं तद् ब्रह्म भवति।
सहसा विशाखश्चमत्कृतः। इदं वाक्यं तेन कुत्र श्रुतम् - उच्छिष्टं वै ब्रह्मेति। अरे मदीया स्मृतिरीदृशी कथं जाता? - स आत्मनाऽऽत्मानमपृच्छत्।
स आत्मनो विस्मृतिमभिलक्ष्य ग्लायति स्म। वाक्यं स्मर्यते, वाक्यं कुतः श्रुतमिति न स्मर्यते। न स्मर्यते तर्हि तद् वाक्यं केवलं वाक्यम्। श्रुतिवचनं न भवति तत्। आन्वीक्षिकीवादिनां मतेन आप्तप्रमाणं तन्न स्यात्।
सहसा स्मृतम्। अरे, मया तु आर्यस्य कौण्डिन्यस्य मुखात् श्रुतमासीद् वाक्यमिदम्। आर्यः कौण्डिन्योऽथर्ववेदमधीयानः। अथर्ववेदे उक्तम्- उच्छिष्टं ब्रह्म। तत्र तु यत् सर्वेभ्य उपरि शिष्यतेतद् ब्रह्म इति
कदाचित् तात्पर्यं स्यात्।
आर्यं कौण्डिन्यं स्मारं स्मारं दूयते तस्य मनः। मातुर्वियोगो यथा व्यथयति, तथैव कौण्डिन्यस्य गुरुकुलाद् गमनम्। कौण्डिन्यं मार्गयन् स साकेतं गतः, परं तत्रापि कौण्डिन्यो न मिलितः।
(9)
कौण्डिन्यं स्मरतो विशाखस्य नयनयोः कदा निद्रा उपसर्पति स्म। सहसा स चैतन्यो जातः। केचन विचित्रा एव स्वराः श्रुतिपथमागताः।
यस्मिन् श्रीकण्ठस्य वासभवने उभौ - सूतवर्यश्च स च - शायितौ - तत्समीपमेव एकस्मिन् कक्षे शेते श्रीकण्ठवधूः कालिन्दी। तस्याः कक्षादेव स्वरा आयान्ति स्म। अनन्तरं किञ्चित् वस्तु यथा प्रक्षिप्तं स्याद्वा किमपि निपतितं स्याद्वेति तादृशो ध्वनिः।विशाखस्य मनसि शङ्का जागरिता। किमपि अभव्यं भवतीति स कलयति स्म। सूतवर्यो गाढनिद्रानिमग्नः। तस्य नासिकातः मन्द्रो मेघगर्जनतुल्यो रवो निस्सरति। विशाखेनैतादृशो रवो न कदापि श्रुतः। विपाकस्य पितृपादाः चिरजीविनो वैद्यास्तु -अयं रोगो भवति मनुष्येषु। अस्य नास्ति औषधम्। प्राणायामेन कदाचित् साध्येत -इति वदन्ति स्म।
कालिन्द्याः कक्षात् स्वरा अप्रशान्ताः। विशाखः शनैरुत्थाय बहिरागतः। अलिन्दे ते स्वराः स्पष्टतरं श्रूयन्ते।
मुञ्च मां नीच! ... अहं पितृचरणं शब्दापयिष्ये - कालिन्द्याः आस्कन्दितमिव कुण्ठितमिव कण्ठे स्खलितमिव वचनम्।
- सर्वे सुप्ताः। कः शृणुयात् ते आह्वानम् - अहं कियत्कालं प्रतीक्षे - कस्यापि पुरुषस्य स्वरः।
अनन्तरं हस्ताहस्ति परस्परं सङ्घट्टः जायते इति विशाखेनानुमितम्। सहसा पुरुषस्य मन्दश्चीत्कारोऽश्रूयत।
- अरे दष्टोऽस्मि गाढम् - पुंश्चलि, मह्यं रतिं न ददासि -
कदाचित् त्वामुपमर्दयिष्यामि यथा स्मरिष्यसि - इति कथयन् कश्चन कालिन्द्याः कक्षात् द्रुतं विनिर्गत्य सोपानपङ्क्त्या नीचैरवातरत्।
- कः स्यात् सः? विशाखोऽत्यन्तं चिन्ताकुलः स्ववासभवनमागतः। नयनयोरिदानीं निद्रा नावतरति स्म। कालिन्द्याः कक्षात् उत्थितास्ते स्वरास्तं मुहुर्मुहुरनुयान्ति।
किं करोमि - अपि नाम सूतवर्यम् उत्थापयामि? विशाखश्चिन्तयति। अथ किङ्कर्तव्यविमूढः स्वशय्यामुपेत्य पुनः शेते। निद्रा तु नायाति। यत्किमपि श्रुतं तेन किमपि अनीप्सितंभवति भवनेऽस्मिन् इति सुकरमनुमातुम्। कालिन्दीं कश्चन पुरुषो बलादभियुङ्क्ते, सा तं नेच्छति। तस्या रक्षा करणीया। परन्तु विशाख एतस्मिन् व्यतिकरे किं कुर्यात्?
शयानः स कौण्डिन्यं स्मरति स्म। कौण्डिन्यः समेषां प्रश्नानां समाधानं समस्यानां च निदानमभवत्। स सम्प्रति सुलभो नास्ति।
कौण्डिन्य एव गुरोः कोपात् कनीयसः अन्तेवासिनोऽरक्षत्। तस्य वेदवेदाङ्गानां ज्ञानं नितरां सौम्या प्रकृतिः अतितरां प्रभावशालिता वचसाम्, भव्या आकृतिः रम्या च कृतिरिति न कोऽपि तस्य अनादराय प्रभवति।सौम्यदेवाः तस्मात् बिभ्यतीति भाति।
कौण्डिन्यस्य आचार्यसौम्यदेवानां गुरुकुलात् प्रस्थानं स्मरति स्म विशाखः। गुरवो विमलमतयःकदाचित् तस्मिन् आश्रमे समायाताः। त एव अयं बालकः मया सह आगच्छतु इति स्वमनोगतं प्रकटीचक्रुः।
सौम्यदेवगुरवो विपाकाय अधिकं कुप्यन्ति। एकदा ते विपाकं वेत्रयष्ट्या ताडयन्ति स्म। तस्मिन्नेव अवसरे मुनिर्विमलमतिस्तत्रागतः। समीपे एव तस्य आश्रमः। विमलमतिः अयं च गुरुवर्यः उभौ अपि सहाध्यायिनौ आस्तां काश्याम्।
सौम्यदेवेन यष्ट्या ताड्यमानं विपाकं विलोक्य विमलमतिराह - अरे सौम्य, किमर्थं बालकमेनं ताडयसि? शिष्येभ्यो रोषो न विधेयः।
-- विपाक, त्वमितो गच्छ - सौम्यदेवो विपाकमवदत्।
विपाको विमलमतिमभिवाद्य ततोऽपसृतः।
अथ विशाखो विपाकश्च वृक्षवाटिकायां स्थितौ। उभौ गुरुचरणयोर्वार्तालाप- मशृणुताम्।
सौम्यदेवः सतीर्थ्यं विमलमतिं भणति स्म - "अहं किमपि धर्मशास्त्रविरुद्धं नाचरामि। धर्मशास्त्रे यथा विहितं तथा करोमि। तत्र विधानं वर्तते शिष्याः शासनीया अतः शासनं करोमि। "
-- शिष्याः शासनीयाः शिष्या विनेयाः इति तु सत्यम्। परन्तु शासनं नाम उपदेशः, विनयाधानं नाम शीलार्जवादीनां गुणानां स्वप्रज्ञयैव तेषु आधानम्।
"पश्यतु भवान्" - सौम्यदेवो भणति स्म - "धर्मशास्त्रकारो गौतमः किमाह -
"शिष्यशिष्टिरवधेन" - कोऽभिप्रायः? शिष्यः ताडनीयः, किन्तु तस्य वधो यथा न स्यात् तथा अवधेयम्" -
विमलमतिश्चकितचकितो सौम्यदेवं निध्यायन्नाह - सौम्य, आवाभ्यां सहैव काश्याम् आश्रमे धर्मशास्त्राणि अधीतानि। अयमर्थस्त्वया कुतो गृहीतः? अयं तु अर्थस्य अनर्थ एव। गौतमः कथयति - शिष्यशिष्टिरवधेन - तत्र क आशयः? तत्र वधो नाम ताडनम्। शिष्यः शासनीयः परन्तु ताडनं न विधेयमित्येव तत्राशयः।
-- भवान् अग्रिमं सूत्रं किं न पठति - अग्रे कथयति भगवान् गौतमः - अशक्तौ रज्जुवेणुविदलाभ्यां तनुभ्याम् - यदि गुरुः चपेटाप्रहारादौ अशक्तस्तर्हि रज्जुना वेत्रेण वा ताडयेत्।
- "न, न। एतदप्यपपाठ एव। अशक्तः भर्त्सनादिभिः शासितुमशक्य एव शिष्यः तन्वा रज्ज्वा तनुना वेणुदलेन वा ताडनीय इति तत्र अभिप्रैति भगवान् गौतमः। तत्रापि क्रोधवशात् ताडनं न विहितम्। शिष्येषु कदापि क्रोधो मा भूत्। अग्रिमं सूत्रं गौतमीयधर्मशास्त्रस्य भवानपि स्मरतु तावत् - तत्र तत्र भवान् गौतम आह - अन्येन घ्नन् राज्ञा शास्यः - यदि हस्तादिना क्रोधवशात् ताडयति गुरुस्तर्हि राजा तस्य कृते दण्डं दद्यात् इति।"
तस्मिन् दिने एतत् सर्वं वार्तालापं शृण्वतो विशाखस्य मनसि स्पृहा जाता - किमर्थं पित्रा अहं विमलमतीनां गुरूणामाश्रमे न प्रेषितः। तेषामाश्रमो वर्तते साकेते। श्रूयते साकेतपुरी अपि रम्या। पुरा सा अयोध्येति व्यपदिश्यते स्म। तत्रैव राजा दशरथो शास्ति स्म। तस्यैव पुत्रस्य रामस्य चरितं प्रोक्तं रामायणे।
दिवसत्रयं विमलमतिः सौम्यदेवस्याश्रमे न्यवसत्। ज्येष्ठान्तेवासी आर्यः कौण्डिन्यः तस्य सेवायां नियोजितः अथवा स स्वयमेव अहं आचार्यपादानां सेवां करिष्ये इति प्रास्तोषीत्। यद्वा तद्वा स्यात्, परन्तु आचार्यो विमलमतिः कौण्डिन्येन नितरां प्रसन्नः। स न शिष्यत्वेन यं वा कं वा स्वीकरोतीति श्रूयते। परन्तु आर्यस्य कौण्डिन्यस्य विषये स स्वयमेव सौम्यदेवमाह - भद्र सौम्य! अयं कौण्डिन्यः परां विद्यामध्येतुमिच्छति मत्सन्निधौ। यदि ते रोचेत, अहमेनं नयामि।
-- अरे अस्य बुद्धिर्भ्रष्टा - अस्य निर्वाहोऽप्यत्र न भवति। नयतु भवानेनम्। सौम्यदेवः प्राह।
आर्यः कौण्डिन्यः विमलमतिना सह प्रस्थितः। गते तस्मिन् स आश्रमः शून्यो जातः। कौण्डिन्यस्य शान्तस्निग्धा मृदङ्गमांसला कर्णकुहरे पीयूषधारामिव पूरयन्ती वाग्धारा अधुना आश्रमे न प्रवहति। तस्य सङ्गीतं, तस्य गाथाः, तस्य पाण्डित्यमयं व्याख्यानं सर्वमिदानीं नास्ति। कौण्डिन्यं विना विशाखो विमनायते, किमर्थं मयाऽपि न आचार्या विमलमतयः प्रार्थिताः कदाचित् ते मामपि अनेष्यन्। परन्तु पितुःइयमेव आज्ञा। अत्रैव अध्ययनं करणीयम्। भद्रं भवतु आर्यस्य कौण्डिन्यस्य, स तु गतः। मया तु अस्मादाचार्यसौम्यदेवादेव यत्किमपि विद्यार्जनं शक्यं तत् करणीयम्।
कौण्डिन्यं स्मरतो विशाखस्य नयनयोरर्धरात्रे निद्रा अवतीर्णा।
(10)
ब्राह्मे मुहूर्त एव स जागरितः। रात्रौ यत् श्रुतं तत् स्मृतिमायातम्। सहसा स चकितो व्यचारयत् - अपि नाम रात्रौ कालिन्द्या वासगृहमागतः पुरुषः सालङ्कः?
कश्चन गाथां गायति स्म। श्रावं श्रावं विशाखो रात्रौ गोचरीकृतं दुर्वृत्तं व्यस्मरत्।
सहि ईरिसिव्व गई मा रुव्वसु तंसवलिअमुहचंद।
एआणँ बालवालुंकिततन्तुकुडिलाणं पेम्माणं।।
पूर्वश्रुता गाथा। परिचितानि पदानि। एनामेव गाथां शृण्वतस्तस्य सनातनेन सूतेन भाषास्वरूपमधिकृत्य ह्य एव विवादोऽभवत्। क एनां पुनर्गायति? अरे, तातः सूतवर्य एव तां गाथां गायति स्म।
-- अरे भवता तु गाथा स्मर्यते। - विशाख उत्थाय तस्मै प्रणम्य अवदत्।
-- "स्वस्ति आयुष्मान् भव" इति आशीर्वादं ददानः सूतवर्य आह - अपि जानासि आयुष्मान् विशाख - कश्चन महीपालो वर्तते सातवाहनो नाम - केचन तं हाल इति नाम्ना स्मरन्ति। तस्य सभायां सन्ति शतशः प्राकृतकवयः। ते कवय ईदृशीः गाथाः रचयन्ति, गायन्ति। श्रावं श्रावम् अपरेऽपि तादृशीर्गाथाः रचयन्ति गायन्ति च।
तदानीमेव भृत्य आगतः। स आह - स्वामिनी कथयति - शकटेन नदीं यावद् गमने तत्र सन्ध्योपासनादिना च विलम्बो भवति। तेन भोजनमपि विलम्बेन भवति। यदि रोचते तर्हि अत्रैव वाप्यां स्नानादिकं कुर्वन्तु व्यासमुनयः विप्रवर्याश्च।
- परन्तु तत्र अस्माकं गमनेन तव स्वामिन्याः स्नाने व्याघातः स्यात्।
-- तास्तु पूर्वमेव स्नाताः। कनीयसी स्वामिनी अपि स्नानं कृतवती।
- महानानन्दस्तर्हि। गच्छावः। विशाख! एहि वाप्यामेव स्नानादिकं कुर्वः।
विशाखेन लक्षितं - महानानन्दस्तर्हि - इति वाक्यं जिह्वायां वसति सूतवर्यस्य। एतद्वाक्यं श्रुत्वा तेनापि साकेते विमलमतीनां गुरुकुले अधीतं श्रुतिवाक्यं स्मर्यते - आनन्दाद्ध्येवखल्विमानि भूतानि जायन्ते आनन्दं प्रयन्त्यभिसंविशन्ति चेति।
स सूतवर्येण सह वासगृहाद् बहिरागतः। भवनस्य पृष्ठभागे एव वापी आसीत्। वापीं परितो रमणीया वाटिका। तत्र एकतो माधवी लता शुभ्रैः पुष्पैराच्छन्ना, अपरतः कौन्दीनां लतानां निकुञ्जः। वाप्याः तरङ्गैः स्नानमिव विधाय माधवीं लतां निषिञ्चन् कौन्दीं च लासयन् शनैः शनैर्वायुर्वाति स्म। परतो मेषाः अजाश्च विचरन्ति। कुक्कुटलावक- शुकशारिकापरभृतमयूराः पक्षिणोऽपि दृश्यन्ते। वानराः कूर्दन्ते वृक्षाणां शाखासु शाखासु। स्वास्तीर्णा प्रेङ्खादोला वृक्षवाटिकायां सप्रच्छाया। स्थलपीठिका च सकुसुमा।
तत्र सनातनसूतेन सह स्नानादिकं समपादयत्। स्नानं विधाय स उद्याने परिभ्रमति स्म। वृक्षवाटिकायाम् एकतो रसालवीथी अपरतश्च निम्बवीथी। सुन्दरः सिन्धुवारवृक्ष उभयोर्मध्ये निभृतं स्थितः। तत्समीपमेव चम्पकानां पाली। तत्पृष्ठत आसीत् शाकोद्यानम्। मूलकालुकपालङ्कीदमनकाम्रातकैर्वारुकत्रपुशवार्ताकूष्माण्डालाबुकसूरणशुकनासास्वयंगुप्ता
तिसपर्णिकाग्निमन्थलशुनपलाण्डुप्रभृतीनां सर्वौषधीनां च बीजग्रहणं काले वापं च ठक्कुरः
कारयति स्म।
सूर्योपस्थापनं सम्पाद्य विशाखः पुनर्गृहाभ्यन्तरं समागतः।
ठक्कुरः समागत्य उभौ अभ्यवादयत्, अपृच्छच्च - भवतोः सम्यक् निद्रा जाता?
विशाख इदानीं परीक्षमाण इव ठक्कुरमपश्यत्। स ग्रामप्रधानः। अस्य ग्रामस्य स राजा एवेति वक्तव्यम्। तथापि कियान् सौम्यः, प्रकृत्या मृदुश्च ऋजुश्च। सामान्यजनवत् व्यवहरति। तेन सह आलापे विशाखः सङ्कोचं नानुभवति।
ठक्कुरो मुखाग्रे करतलं निधाय वार्तां करोति। विशाखः सविनोदमपृच्छत् - अपि भवान् श्रमणधर्मे दीक्षितः?
कस्मात् एतादृशं प्रश्नं करोति श्रोत्रियपुत्रः? अहं तु सर्वथा वैदिके मते आस्थां बिभर्मि। - श्रेष्ठी प्राह।
-- यतो हि भवान् यदा वार्तां करोषि तदा मुखस्याग्रे करतलं निदधाति। श्रमणेषु एके मुनयः सदैव मुखाग्रे पट्टिकां बध्नन्ति। तस्मान्मया पृष्टम्। आस्तां तावत्।
ठक्कुरः उद्विग्न इव अवोचत् - किं वच्मि, मुखे दुर्गन्धो भवति मम। भवन्तः श्रोत्रियपुत्राः। मा मे श्वासः भवन्तं दूषयत्विति धिया -
-- गोमूत्रे हरीतकीचूर्णं मेलयित्वा सप्ताहावधि तस्मिन् निम्बयष्टिकां स्थाप्य अनन्तरं च एला- सिंहल-तेजःपत्रमधु-मरीचिभिः सुवासिते जले सा निधेया। तया यष्टिकयादन्तधावनं करणीयम्। दुर्गन्धो निर्गच्छति --
-- विशाख! भवता आयुर्वेदोऽधीत इति प्रतीयते - सूतवर्य एतत् सर्वं शृण्वंश्चमत्कृतः प्राह।
-- नैवम् आर्य, मम बालसखो विद्यते विपाकः। भवन्तस्तु जानीयुरिति मन्ये। अस्माकं लक्ष्मणपुरे वैद्याः सन्ति तस्य पितृपादाः स्वनामधन्याः चिरजीविनः। तेषां सविधे किञ्चित् किञ्चिदधीतम्।
-- अरे किं कथनीयम्? -- सूतवर्यो भाले अञ्जलिं बद्ध्वा सादरमाह - तेषां चिरजीविवैद्यवर्याणां तु अहमाजीवनमनृणो न स्याम्। एते प्राणाः तेषामेव उपहारः।
- किं जातं भवतां प्राणानाम्? - विशाखः सविनोदमपृच्छत्।
लक्ष्मणपुरे कदाचित् अहं पुराणप्रवचनं करोमि स्म। सहसा व्यासासनादधोनिपतितः, मूर्च्छितश्च। श्रोतारो मां तेषां चिरजीविनां गृहं नीतवन्तः। नाडीं परीक्ष्य ते निगदितवन्तः --हृदयरोगः वर्तते अस्य, परन्तु चिकित्सा कर्तुं शक्यते। तैरहं चिकित्सितः। यदि तस्मिन् दिने मुहूर्तमपि विलम्बोऽभविष्यत् मम तेषां सविधे गमने, तर्हि अहं नाभविष्यम् -
इत्येवं निगदन् सूतवर्यो वैद्यस्य कृते मस्तके अञ्जलिमबध्नात्।
- "अहमपि तेषामधमर्णोऽस्मि" - विशाखोऽवदत्।
- त्वम्? अरे तव को रोगः?
-- मम बुभुक्षा एव रोगः। तस्य चिकित्सार्थं तैर्दत्तानि फलानि - अथ च चूर्णमेकम् - यत्सेवनेन बुभुक्षा न बाधते --
इति कथयन् विशाखः लक्ष्मणपुरे तम् अन्तिमं दिवसम् अस्मरत् - यदा स वैद्यैश्चिरजीविभिर्मिलितः। तस्मिन्नेव दिने स विपाकस्य गृहमपि अन्तिमं वारं गतवान् - विपाकं क्षमापयितुम्। परन्तु विपाको न मिलितः।
तस्मिन्नेव दिने तेन स्वगृहं त्यक्तम्....
(11)
सहसा तेन गृहं त्यक्तम्। पितुराज्ञा न गृहीता। पिता तु पूर्वमेव गृहत्यागाय आदिशत्। गृहत्यागे तस्य मातुर्दर्शनेच्छा कारणमासीत्, अन्यस्मिन् गुरुकुले आश्रमे वा अध्ययनस्य इच्छापि कारणं स्यात्।
साकेतं गमिष्यामि, तत्र आर्येण कौण्डिन्येन समागमः स्यात्-इति तस्य मनसि विचार आसीत्। श्वो गमिष्यामि - अद्य तु इयं राक्षसी वेला प्राप्तप्राया। सायन्तनसवनसमयः समागतः।
तस्मिन् दिने आ अपराह्णात् विशाखश्चिरं ग्रामे लक्ष्मणपुरे वृथाटाट्यामकरोत्। कुत्र यामीत्यात्मानम् आत्मना पृच्छति स्म। अनिच्छतस्तस्य चरणौ विपाकस्य गृहं प्रति तमनयताम्। विपाकं हृदयेन लगित्वा सर्वं कल्मषमपनेष्यामीति समुल्लासपुरस्सरं स विपाकस्य गृहं प्रति सरति स्म।
विपाकस्य पितृपादाः वैद्याः चिरजीविनः उद्यान एव दृष्टाः। तानवलोक्य विशाखस्तेषां चरणौ अस्पृशत्, अवदच्च विशाखोऽहमभिवादये।
-- चिरञ्जीव। आयुष्मन् विशाख,अपि कुशलं ते?
-- भवतां दर्शनेन सर्वथा कुशलम्।
ते विहसिताः। -- मम दर्शनेन?भद्र, तर्हि सर्वथा कुशलं नास्तीति मन्ये। क्लान्तः प्रतिभासि। विपाकं मार्गयसे? विपाकस्तु अत्र नास्ति।स मया प्रेषितः - कान्यकुब्जम् -
-- कान्यकुब्जम् - तातपादाः! तत्तु दूरं स्यात्?
-- नातिदूरं वत्स! साकेतात् प्रायः पञ्चाशत्क्रोशेन स्यात्।
-- विपाकः कदा पुनरायास्यति?
-- विपाकः कदाचित् वर्षद्वयं तत्रैव तिष्ठेत् -
-- हन्त! - सर्वथा निराशस्य विशाखस्य मुखादयमस्फुट इव ध्वनिर्विनिर्गतः।
-- कान्यकुब्जे सन्ति आसवविशारदा मम सुहृदः वैद्याः समाधानमिश्राः। ते पुष्पेभ्य आसवनिर्माणविधिं यथा जानन्ति तथा न समग्रेऽस्मिन् जम्बूद्वीपे कोऽपि जानाति। विपाको मया तेषां सान्निध्ये अध्ययनाय प्रेषितः। इति कथयित्वा विशाखं मर्मभेदिदृशा निरीक्षमाणास्त आहुः - वत्स, त्वं श्रान्त इव लक्ष्यसे। अहं तुभ्यं कुटजार्जुनप्रभृतिवृक्षाणां त्वग्भिर्निर्मितं चूर्णमेकं ददामि। यदा कदाचित् शरीरं सुष्ठु न स्यात् तर्हि कर्षमात्रं भक्षय।एतेन चूर्णेन क्षुत्पिपासे न बाधेताम्।
इति कथयित्वा ते गृहे अन्तः गतवन्तः। एकस्मिन् समुद्गके फलानि, काचकुतुपे च औषधमानीय तस्मै दत्तवन्तः। विशाखो महानयमनुग्रहस्तातपादानां मयि इत्युक्त्वा तान् प्रणम्यजिगमिषुरपि किञ्चिद्विवक्षया स्फुरिताधरौष्ठस्तस्थौ।
-- वत्स, अपि नाम किमपि वक्तुकाम:?
-- एवमार्य! विपाकेन कदाचिन्मे पुनः समागमो न स्यात् - यदा स आगच्छेत् तदा तं ममापि स्वस्तिवाचनिकया वर्धयन्तु तातपादाः।
-- एवमस्तु वत्स! - स्मयमानाः वैद्याश्चिरजीविन आहुः - अन्यत् किमपि?
-- अन्यच्च ...- इति कथयन् विशाखो मध्ये एव व्यरमत्।
-- अन्यत् किमपि वाच्यम्?
-- तातपादाः, किमपि प्रष्टव्यम् अस्ति।
-- यथेच्छं पृच्छ्यताम्, अनियन्त्रणानुयोगोऽयं जनः।
-- एतत् ज्ञातुमिच्छामि। अपि नाम सशरीरेण जनेन स्वर्गो गन्तुं शक्यते?
उद्याने वृक्षाणां पृष्ठतः सूर्योऽधिधरित्रि निपतन्नासीत्। तस्य रश्मयः पत्राणां संहतिं भित्त्वा तेषां विशाखस्य च वदनं स्पृशन्ति।
ते तयैव स्मयमानदृशा तं विलोकयन्तः क्षणं स्थिताः। अनन्तरमाहुः - वत्स, एतदहं वच्मि तव हिताय। स्वर्गस्य नरकस्य वा चिन्तैव न कार्या। अस्मिन् लोके अनेन कायेन स्वस्थः सन् नरो जीवति अयमेव महान् लाभः, अयमेव स्वर्गः। इतः परं किं भविष्यति - तेन विचारितेन किम्?
विशाखः तूष्णीं तेषां वक्तव्यमशृणोत्। मनःसमाधानं तु न जातम्। किं पृष्टं किं चैतैरुत्तरितमिति चिन्तयन् स तान् प्रणम्य प्रचलितः।
विपाकेन आजीवनं पुनरपि समागमो न जातो विशाखस्य। केचन प्रसङ्गा
अरुन्तुदाः सन्ति तस्य जीवने। अयमपि तादृशः प्रसङ्गः - -विपाकेन कलहः अनन्तरं निरवधिर्वियोगः।"अधुना न कदापि तव मुखमहं विलोकयिष्यामि, न च त्वं मम मुखं द्रक्ष्यसि।" इति तेनैव विपाक उक्तः। इदानीं स्वमुखाद् विनिर्गता इमे एव शब्दा ज्वलदङ्गारोपमास्तं दहन्ति स्म।
अपरः प्रसङ्गः पितरं प्रति द्रोहः। यद्यपि इयं द्रोहभावना तेन परस्तान्मनसो निस्सारिता। परन्तु मनसि बहोः कालं विपच्यमानोऽयं द्रोहस्तं क्लिश्नाति स्म।
(12)
अरे अपामार्गः!- सहसा चिरजीविवैद्यस्य स्मृत्या विशाखस्तेन प्रोक्तमौम् अस्मरत्।
स ठक्कुरमवदत् - भवताम् उद्याने तु अपामार्गः प्ररूढः - तस्य पत्राणि शाखाया दण्डो वा
मुखे निधाय यदि चूष्यते, तर्हि दुर्गन्धो विनश्यति।
अस्मिन् ग्रामे तु वैद्योऽपि कश्चन नास्ति। मम वायुविकारो भवति। अस्यापि किमपि औषधं देयम्। - ठक्कुरः साञ्जलिः विशाखं वदति स्म।
श्रुत्वा विशाखोऽहसत्, अवदच्च -हरीतकी केवलं सेव्यताम्। -
महानानन्दः। महान् वैद्यो गृहमायातः ठक्कुरस्य राज्ञः। सत्यम्, सत्यम्। येषां कापि न माता स्यात् तेषां माता हरीतकी - सूतवर्यः प्राह।
चतुःशाले भोजनं भवति स्म।
चतुःशालं प्रविशता ठक्कुरस्य भवने कुशूलः अवलोकितः। कुशूलो विविधैर्धान्यैः पूर्णः। शालय एव नानाजातीया अत्र सङ्गृहीताः रक्तशालि-षष्टिक- काङ्गुक-मुरुन्दक- पाण्डुक-पीतक-प्रमोदकादयः, ते यथावसरं पच्यन्ते। नीवार-कोद्रवोद्दालक- श्यामाक- गोधूम-यवा-दीनामपि सम्भाराः सन्ति। अपरत्र मुद्ग-वनमुद्ग- मुकुठ-कलाय- मसूर- मङ्गल्य-चणक-आढकी-प्रभृतीनि धान्यान्यपि स्थापितानि।
सनातनसूतोऽवदत् - अयं विशाखो विप्रः। अयं प्रथमं भुनक्तु।
कालिन्दी चमसेन पात्रेषु तानि तानि व्यञ्जनानि निदधाति। नासापुटौ तेषां सुवासेन उत्फुल्लौ। जिह्वा लालां स्रवति।
पात्रमानयन्तीं कालिन्दीं तस्याः श्वश्रूः ईश्वरीदेवी साधिक्षेपं न्यवारयत् - अरे त्वं कथं परिवेषणं कुरुषे - सौभाग्यवत्याः कृते भवति एतेषां विप्राणां परिवेषणस्य अधिकारः। त्वमन्तस्तिष्ठ।
विशाखेनावलोकितं - कालिन्द्या मुखं विवर्णं जातम्।
सनातनः प्राह - मातरः, का क्षतिः, सर्वाः स्त्रियो देवीस्वरूपाः। इयमपि मातृरूपा।
- "अरे कीदृशी इयं मातृरूपा - अनया मम पुत्रः" ...इति निगदन्ती ठक्कपुराणी ईश्वरीदेवी फूत्कृत्य रोदितुमारब्धवती। - अनन्तरमाह - क्षम्यतां क्षम्यतां विप्रवर्याः मुनिवर्याः, महानविनयो मम जातः, मङ्गलकाले मया रुदितम्। स्वैरं स्वैरं भोजनं कुर्वन्तु। इयं दासी परिवेषणं करिष्यति - इयं कन्या वर्तते..
विशाखस्य मनो ग्लानम्। भोजने रुचिर्व्यपगता। कालिन्द्याः अन्तःकक्षात् आगच्छद् रोदननिरोधजन्यः क्षीणः सीत्कारः श्रूयते।
विशाखः क्षणं स्तब्ध इव आस। एतादृश एव सीत्कारस्तेन श्रुत आसीत् रात्रौ... कालिन्द्याः कक्षात्---
अद्य प्रभातायां रजन्यां सूतस्य गाथां शृण्वन् रात्रौ यद् घटितंस्वप्नोपमं तत्सर्वं वृत्तं विशाखो व्यस्मरत्। इदानीं सर्वं स्मृतिपथमायाति। कालिन्द्याः कक्षादेव अस्फुटा बुद्बुदोपमाः स्वरा आयान्ति स्म। अनन्तरं किञ्चित् वस्तु यथा प्रक्षिप्तं स्याद्वा किमपि निपतितं स्याद्वेति तादृशो ध्वनिस्तेन श्रुत आसीत्।शङ्काकुलः स किमपि अभव्यं भवतीति कलयन् शनैरुत्थाय बहिरागतः। सूतवर्यो गाढनिद्रानिमग्नोऽभूत्।
अलिन्दे तेन विवादशब्दाः श्रुताः - स्त्रीस्वरस्तु कालिन्द्याः। ......"मुञ्च मां नीच - अहं पितृचरणं शब्दापयिष्ये" इति तस्याः आस्कन्दितानि कुण्ठितानि कण्ठे स्खलितानि वचनानि।
- सर्वे सुप्ताः। कः शृणुयात् ते आह्वानम् - अहं कियत्कालं प्रतीक्षे - इति पुरुषः कथयति स्म। कोऽयमासीत्? कदाचित् सालङ्क एव - कोऽन्यो भवितुमर्हति?
अनन्तरं हस्ताहस्ति परस्परं सङ्घट्टः सञ्जातः, स पुरुषः चीत्कृतवान्। "- अरे दष्टोऽस्मि गाढम् - पुंश्चलि, मह्यं रतिं न ददासि - कदाचित् त्वामुपमर्दयिष्यामि यथा स्मरिष्यसि" - इति कथयन् स कालिन्द्याः कक्षात् द्रुतं विनिर्गत्य सोपानपङ्क्त्या नीचैरवातरत्। ....स सालङ्क ए स्यात् - तस्य वासगृहं नीचैः भूमिकायाम् वर्तते।
किं करोमि - कस्मै कथयामि घटनामिमाम्?
परिवेषितं भोजनम्। विशाखस्य सम्मुखं स्थालिका स्थापिता। कारविल्लस्य शाकः अलाबूश्च दध्ना संस्कृता। अत्यन्तं रुचिकरी। ओदनम् अतितरां घृतदिग्धम्। अपूपाः सद्यः कटाहान्निस्सारिताः वाष्पायमाणाः। अथ च संयावः ..
मनोग्लानिं भीषणां तां च स्मृतिं मनसोऽपाकृत्य स भोक्तुमारभत।
चतुःशाले मध्यभागे प्रशस्तं स्थानम्। यत्र तत्र दासाः दास्यः तेषु तेषु कार्येषु लग्नाः। एकस्मिन् कोणके उपविष्टा दासी दधि मथ्नाति। अपरा तर्कुं भ्रामयन्ती कार्पासैः सूत्रकर्तनं करोति। अन्या सूत्रस्य वानं विदधाति। पृष्ठभागात् उलूखले कलमकण्डनी धान्यकुट्टनं करोति। दधिमन्थनस्य धान्यकण्डनस्य च मन्थरो रवः किमपि सङ्गीतं रचयति, तस्मिन् विक्षेपं कुर्वाणाः ठक्कुराण्याः मुखादुद्गताः दासानां दासीनां च कृते आदेशशब्दाः। -- अरे सुन्दरक, याहि शिक्यरज्जुपाशवल्कलसङ्ग्रहणाय। कालिन्दि, अपि आमचा स्थापिता? मण्डो निस्सारितः? तुषकणान् मा क्षिप, सुवर्णकाराय तान् दास्यामः। शोभनक, कुट्यङ्गाराणामुपयोजनं कुरु - इति सा क्वचिद् वामतः क्वचिद् दक्षिणतः क्वचित् सम्मुखं वा मुखं परावर्तयन्ती स्वैरं पीठिकायाम् उपविष्टा दासीदाससमूहं भ्रमयति नर्तयति वा।
सूतवर्यो भोजनं कुर्वति विशाखे सानन्दं तया सह आलपति। - मातृचरणाः, भवत्यः कियानिव श्राम्यन्ति! सर्वस्य गृहस्य भारो भवतीस्वेवेति मन्ये।
-- किं करोमि व्यासमुने, मया तैलगुडयोः निर्माणं करणीयं भवति। भृत्यवेतनभरणस्यापि चिन्ता करणीया भवति।दैवसिकायव्ययपिण्डीकरणं नित्यमेव कर- णीयमेव। सुराकुम्भीनामासवकुम्भीनां च स्थापनं तदुपयोगः क्रयविक्रयादायव्ययावेक्षणमपि ममैव कर्म। इयं पुत्रवधूः.. इयं तु अबोधा एव। अद्य तावत् महत् कार्यमापतितम्।
-- किं नाम तत्?
-- गृहस्वामिना बहूनि त्यक्तानि जीर्णवस्त्राणि। तेषांजीर्णवाससां सञ्चयो हर्म्यपृष्ठे निहितः। तानि तानि वस्त्राणि विविधरागैः रञ्जयिष्यामि, अनन्तरं परिचारकपरिचारिकाभ्यो दास्यामि।
-- अरे श्वा! सहसा विशाखस्य मुखान्निस्ससार। गौतमीयं धर्मशास्त्रमनुमन्यमानः स भोजनं कुर्वाणः मौनमालम्बते, परन्तु अतर्कितमेव शुनि दृष्टे मौनमपि भग्नम्।स सोद्वेगं - इदं किं जातम्, धर्म एव गतः, धर्मो हतः - इति निगदन् उत्थितः।
कृष्णवर्णः कश्चन रथ्याश्वा आसीत्। ईश्वरी देवी सेवकान् सगर्हम् उच्चैः आक्रोशत् - "अरे सुप्ताः किं वा मृताः किं वा यूयम्? अभ्यन्तरचतुःशालं श्वा कथं प्रविष्टः? उत्सारयत एनम्! उत्सारयत!!!
तदानीमेव आगत्य कश्चन सेवकः श्वानम् उदसारयत्।
-- विशाख, किं करोषि, परिवेषितं भोजनं विहाय उत्तिष्ठसि। अहं वदामि उपविश, उपविश - सूतवर्यः कथयति स्म।
--- अरे, भवान् न जानाति - महान् अधर्मो जातः - भुक्तवति मयि श्वा प्रविष्टः।
अनन्तरं च मया भुञ्जानेन भाषणं कृतम्। प्रायश्चित्तं करणीयं स्यात् .....
--- तेन किम् - श्वा अपि ईश्वरस्यैव रूपम्। वासुदेवः कथयति - शुनि चैव श्वपाके च पण्डिताः समदर्शिन इति।
--- परन्तु अहं तु न वासुदेवप्रोक्तस्य धर्मस्यानुगामी। -
भोजनपात्रं पुरः स्थितम्। विशाखः सनातनेन सूतेन विवदते। बुभुक्षा बाधते। अन्ततः सनातनसूतः स्वयमुत्थाय विशाखं हस्तयोर्गृहीत्वा उपावेशयत्। आह च -भोजनं तु न दूषितम्। अन्नं नाम ईश्वरः। तस्य परित्याग ईश्वरस्य त्यागः। अतः प्रथमम् अन्नं गृहाण। अन्नम् उच्छिष्टमेवं न त्याज्यं भवति इत्यपि धर्मः। यो धर्मस्त्वया अधिगतः सोऽल्पीयान्, यं धर्मम् अहं प्रवदामि, स ज्यायान् ....
विशाखश्चकितचकितस्तं निर्वर्णयति स्म। अनन्तरं शान्तो भूत्वा शनैः स्वासनं गत्वा पुनर्भोक्तुमारभत।
उच्छिष्टं वै ब्रह्म। अन्नं वै ब्रह्म। सहसा एते वाक्ये आर्यकौण्डिन्यस्य स्मृत्या साकं पुनरपि मनसि स्फुरिते।
अपराह्णे सूतवर्येण सह पुराणप्रवचनात् प्राक् स विश्राम्यति स्म। मनो बम्भ्रमीति। मनसोः किमपि न ज्ञायते, अस्मिन् मनसि किं किं समाहितम्! विशाखः चकितश्चिन्तयति - किं समग्रः संसार एव मदीये मनसि सम्पिण्डितः, मुहुर्मुहुरुन्मिषति --
पुनरपि मनसि विषाद उदितः। रात्रौ यद् घटितं, तद् दुर्वृत्तं मनसि कण्टकवन्निखातम्। भोजनकाले शुनो दर्शनं जातम्, भोजनकाले न किमपि वक्तव्यं नोत्थातव्यं चेति नियमोऽपि उल्लङ्घितः। ममैव अनवधानतया अनेकगुणितं धर्मोल्लङ्घनं जातम्। इतो रात्रौ यद् श्रुतम् ... कालिन्द्याः कक्षात् --
स सूतवर्यं रात्रिवृत्तमकथयत्।श्रुत्वा सूतवर्यः गम्भीरः, प्राह च - विशाख, त्वं विचक्षणोऽसि, बुद्धिमानसि। एतन्मम कथनं मनसि धारय। कानिचिद् दृष्टानि श्रुतानि वा वृत्तानि मनसो निस्सारणीयानि भवन्ति। एतदपि वृत्तं तथैव। अलमावेगेन। खिन्नो मा भूः।
-- अद्यधर्महानिरपि जाता मे। शुनि दृष्टे भोजनासनात् सम्भ्रमवशादहमुत्थितः। एतन्नैव करणीयमासीत्।
--- विशाख, भगवता व्यासेन प्रोक्तम् - द्विविधो भवति धर्मः, एकस्तु सर्वसाधारणो धर्मः, अपरस्तावद् विशिष्टः। यः सर्वसाधारणः स सर्वेषां कृते पालनीयः। स एव रक्षितो रक्षति। यः विशिष्टो धर्मो भवति, स तु देशकालसापेक्षः स्यात्। यस्य धर्मस्य हानिं त्वमाशङ्कसे, स विशिष्टः धर्मः। स गुरुकुले यदा त्वं ब्रह्मचर्यमधारयः तदानीमेव पालनीय आसीत्।
सूतवर्यः कथं तस्मिन् एवं स्निह्यतीति स न जानाति। विशाखस्य मनसि भवति - कदाचिदयं मां दर्शं दर्शं वाग्भटं स्मरति, अत एव अधिकतरं मयि रज्यति।
भोजनानन्तरं विश्रम्य उभौ सरस्वतीभवनं प्राप्तौ। सूतवर्यो व्यासासने उपविष्टः। प्रथमं स श्रीकृष्णमपूजयत्। पुष्पाणि, दूर्वाः अक्षताः आराध्याय अर्पिताः। अनन्तरं नैवेद्यम् - जातीफलम्, कदलीफलानि, नारिकेलम्, दाडिमाः मातुलुङ्गाः। फलानाम् एतादृशः सम्भारो विशाखेन इदम्प्रथमतया अवलोकितः। ह्यो दिनेऽपि फलान्यत्र एतावन्ति स्युः, परन्तु तस्य दृष्टिस्तेषु न गता। अद्य फलैः सम्भृतानि पात्राणि अवलोकयन् सोऽस्मरत् - ह्यो दिने अवसिते पारायणेगृह्णन्तु वासुदेवस्य भगवतः प्रसादमिति कथयन् ठक्कुरः एतानि फलानि श्रोतृभ्यो वितरति स्म।
अपराह्णे प्रतिदिनमिव सरस्वतीभवने सूतस्य आख्यानमारब्धम्। लक्ष्मणपुरस्य विप्रवाटे सनातनसूतस्य नासीदादर इति विशाखो जानाति। अस्यां भद्रपुर्यां जनास्तं साक्षाद् व्यासं कलयन्ति। तस्य पुराणपारायणे जनसम्मर्दो जायते।
सूतवर्यः पुस्तकात् पठेद्वा न पठेद्वा, पारायणात् प्राक् पुस्तकमवश्यं प्रणमति। प्रणामं कृत्वा शनैः शनैरुपांशु किमपि जपन् पुस्तकस्य सूत्रं विमोचयति। प्रथमे एव पत्रे ओङ्कार आदौ विलिखितः।विशाखेन दृष्टम् यत् तमेव दृष्ट्वा सूतः पुस्तकं पुनरपि काष्ठफलकेन आच्छादयत्।
विशाखस्य तस्मिन् दिने पारायणे मनो नारमत।
सूतः कथयति स्म - अयमस्माकं ग्रामः - भद्रपुरी। अयं ग्रामो वर्तते काशीजनपदे। काशीजनपदो वर्तते भारतवर्षे। भारतवर्षश्च कीदृश इति भगवान् व्यास आह-
उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम्।
वर्षं तद् भारतं नाम भारती तत्र सन्ततिः।
अन्यत्रापि भगवता व्यासेनोक्तम् -
एतस्मिन् भारते पुण्ये प्राप्य मानुष्यमध्रुवम्।
यः कुर्यादात्मनः श्रेयस्तेनात्मा रक्षितः स्वयम्।।
अयं भारतवर्ष एव अस्माकं जन्मभूमिः। अत्रैव वासुदेवः कृष्णो जातः। देवाः अपि आकाशात् एनं देशं दर्शं दर्शं प्रमुदिताः अस्य गुणान् गायन्ति --अस्मिन् भारते वर्षे निवसन्ति ते धन्याः मान्याः वदान्या भवन्ति। देवा अपि तेभ्यः स्पृहयन्ते।
तस्य कृते सा रात्रिर्दुःस्वप्नमयी अभवत्। स्वप्ने स मातरमाह्वयन्तीमपश्यत्। अन्तरा च तं च मातरं च काचन विषकन्या प्रादुर्भूता। सा सर्पिण्या रूपं धृत्वा विशाखमुपसर्पति। विशाखश्चीत्करोति अरे अरे अपसर, अपसर!! इति कथयतस्तस्य निद्रा भग्ना। का वेला स्यात्। समीपमेव तातः सूतः स्वपिति। तस्य नासिकातः स एव श्रुतपूर्वो घर्घररवो निस्सरति।
विशाखो व्यचिन्तयत् - मयि भुञ्जाने श्वा प्रविष्टः, भोजनकाले शुनो दर्शनेन रात्रौ दुःस्वप्न एवमेव प्रभाता रजनी। सूतवर्यमभिवादयतो भोजनसमये समागतस्य शुनः स्मृतिस्तस्य मानसे उदिता। - अस्मिन् ग्रामे कश्चन पङ्क्तिपावनो वसति किम्? सहसा स सनातनमपृच्छत्।
-- पङ्क्तिपावनेन किं प्रयोजनं भवतातः।
-- भुञ्जानेन जनेन यदि श्वा अवलोक्यते, तर्हि तज्जनितं दोषं शमयितुं पङ्क्तिपावनो जानाति। किन्तु वास्तविकः पङ्क्तिपावनः भवेत्। पङ्क्तिपावनलक्षणं गौतमीये धर्मशास्त्र उक्तम् -स शिक्षा- कल्प- निरुक्त- ज्योतिष-छन्दःशास्त्रेति षण्णां वेदाङ्गानां ज्ञाता स्यात्,ज्येष्ठसामिको भवेत्, त्रिणाचिकेतो भवेत्, त्रिमधुस्त्रिसुपर्णोऽपि स्यात्।पञ्चाग्नयस्तस्य गृहे स्युः।गृहीतविद्येन स्नातकेनापि भवितव्यं तेन। अथ धर्मज्ञश्च ब्रह्मदेवानुसन्तानश्चापि स्यात्।
सनातनो व्यहसत्। आह चविशाख, त्वं बहु प्रज्ञावादान् भाषसे। पुष्पितां वाचं वदसि। अरे अद्यापि तस्य शुनो भयम् आयुष्मतो मनसि! अत्र कोऽपि पङ्क्तिपावनो नास्तीति मन्ये। अहं तावदपाङ्क्तेयः। लक्ष्मणपुरे पङ्क्तिपावनो ब्राह्मण आसीत् सुमनोदेवः। तस्य किं जातं -स्मर्यते? -
-- तस्यैव पुत्रो मम मित्रमासीत् ऋजुः।
-- तपस्वी। स तु तेन बहिर्निष्कासितः। परन्तु इदानीं सोऽपि नास्ति।
-- नास्ति? क्व गतः?
-- स दिवङ्गतः।
-- अरे तर्हि ऋजुः गोलको जातः!
-- गोलको नाम कः?
--- विशाख आह - परस्त्रियां जातः पुत्रः यावत् पिता जीवति तावत् कुण्ड इति
कथ्यते। मृते च पितरि गोलको भवति।
विशाखस्य स्मृतौ मातुर्निधनानन्तरं विप्रभोजने ऋजोः निष्कासनस्य दृश्यमागतम्।
दिवङ्गतायां मातरि लक्ष्मणपुरस्य सर्वे विप्राः भोजनाय पित्रा आमन्त्रिताः। सर्वे तत्र समागताः, परन्तु सुमनोदेवो नागतः। स पङ्क्तिपावनो ब्राह्मणः। श्राद्धेषु न भुङ्क्ते। तस्य तनयेन ऋजुना विशाखस्य मैत्री। विशाखस्तमामन्त्रयत्- "एहि मम गृहे भोजनं भवति, सर्वे विप्रा भोजनं कुर्वन्ति।"
पङ्क्तौ ऋजुरुपविष्टः। तं दृष्ट्वा सोमयाजी अकूपारोऽब्रवीत् - अरे अयं कुण्डो वर्तते। अयं कथमामन्त्रितः?
अपरे विप्रा ऊचुः - "यदि अयं भुनक्ति, तर्हि वयं यामः।"
विशाखो वाष्पनयनो व्यलोकयत् - ऋजुस्तूष्णीम् उत्थाय परिवेषितं भोजनं त्यक्त्वा यातीति।
विशाखश्चिन्तयति स्म - ऋजुरिदानीं कुत्र स्यात्, न, गुरुकुलं न प्रेषितः, स तु विप्रस्य पुत्रः सन्नपि सर्वथा अवरः।
सहसा स सूतवर्यमपृच्छत् - अपि नाम अहं स्वमातुः पुनर्दर्शनं कर्तुं शक्नोमि?
-- माता तु सदैव त्वया सह वर्तते। सा सूक्ष्मशरीरेण विद्यते, सा त्वां निध्यायति। तव परिरक्षणं करोति। त्वं कस्तूरीमृग इव निरर्थकमाहिण्डसे तस्या अन्वेषणाय।
अथ सूतवर्योऽवदत् - विशाख, एहि नदीतटं यावः।।
-- किमर्थं नदीतटम्? अत्रापि वापी उत्तमैव।
ह्यस्तने दिने वाप्यामेव स्नानं विहितम्। वापीं परितो यदुद्यानं, तस्मिन् विशाखस्य मनो रमते। नदीपरिसरं यावत् गमने अरुचिर्भवति। भद्रपुरीग्रामस्य रथ्याः मलीमसाक्रान्ताः कच्चरचयावृताः।
-- अद्य वाप्यास्तटे पुरातनवस्त्राणि प्रसारितानि श्रेष्ठिभार्यया।
विशाखः शकटमारुह्य सूतेन सह पुनरपि नदीं प्राप्तः। नदी वहति। काननोदुम्बराणां परिणमयिता शीतो वायुर्वहति। मनो वहति। नद्यास्तटे रसालवृक्षाणां पङ्क्तयः सन्ति। द्वित्रा इङ्गुदीवृक्षा अपि सन्ति निकटमेव। ग्रीष्मस्य समयः। रसालफलानि पक्वानि। बालकैः क्वचित् फलानि खादितानि स्युः, भक्षणानन्तरं क्षिप्ता अष्ठीला इतस्ततो विकीर्णाः। अपक्वस्य आम्रफलस्य अष्ठीलाया बीजं निस्सार्य बह्व्य ओषधय निर्मातुं शक्यन्ते - स सनातनं सूतं वदति स्म - अनेन निर्मितं चूर्णं ठक्कुरस्य उदरविकार- शमनायापि अलं भवेत्।
-- "एवं किम्, अरे तर्हि वयम् इमा अष्ठीलाः सञ्चिनुमः" -इति कथयन् सनातनः अष्ठीला उत्थाप्य एकत्र तासां सञ्चयं कर्तुमारभत। विशाखोऽवदत् - अरे किं
करोति भवान् - रमणस्य कश्चित् सेवकस्तथा कुर्यात् - मया अनेन अभिप्रायेण तु नोक्तम्
- ता अष्ठीला उच्छिष्टाः सन्ति -
-- विशाख, तव उच्छिष्टानुच्छिष्टविवेकः सदैव सर्वत्र जागर्ति - अहं तु मन्ये, सूर्यस्य रश्मिभिः इमा अष्ठीलाः स्पृष्टाः अत्र सर्वमशुचित्वं व्यपगतम्, एताः सञ्चित्य नद्यां स्नानं करिष्यामः किमत्र अशौचं स्यात्?
विशाखो विहसन् अष्ठीलानां सञ्चयकरणे तस्य साहाय्यं कर्तुमारभत।
नद्याम् अवगाहमानः स वाग्भटम् अस्मरत्, विपाकम् अस्मरत्, गोमतीं नदीं च अस्मरत्, गोमत्याः तरङ्गेषु विपाकेन वाग्भटेन सह उच्छलनम् अस्मरत्।
स सूतवर्यमवदत् - तात, सौम्यदेवानां गुरुकुले गमनात् प्राक् ... यदा अहं पञ्चवर्षीयः षड्वर्षीयो वा आसम्,अहं प्रतिदिनं गोमत्यां स्नानाय गच्छामि स्म -- प्रहरकं यावत् वयं सर्वे गोमत्यां तरामः, क्वचित्तु अपरं पारमपि गच्छामः, ते दिवसा एव गताः ---
"ये दिवसा गतास्ते न पुनरायान्ति -- परन्तु कालः पुनरायाति - कालस्तु परावर्तते" - सूतवर्यो भाषते स्म।
श्रुत्वा विशाखस्तूष्णीम्भूतः। तस्यमनसि चिन्ताचक्रेण पुनरपि भ्रमणमारब्धम्।
स्नात्वा सन्ध्यामुपास्य विशाखः सैकते उपविष्टः सिकतासु तर्जन्या किमपि लिखति स्म।स्नात्वा आगतः सूतवर्यः तस्य अक्षराणि अपश्यत्।
-- अहो सुवाच्यानि अक्षराणि। विशाख, विशदा ते सरस्वती, साधिता च विद्या। परन्तु इदं किं लिखितम् - माता इति।
विशाखेन स्वलिखितं मार्जितम्। सैकते लिखितानि अक्षराणि भवन्ति सर्वथा क्षराणि।
सूतो यस्मिन् स्थाने विशाखेन अक्षरद्वयं लिखितम्, तत्पुरत उपविष्टः, अञ्जलिं बद्ध्वा च तत्र शिरो नामयित्वा प्रणाममकरोत्। विशाखः चकितोऽपृच्छत् - किमिदं क्रियते?
त्वया स्वमाता अत्र लिखिता। माता तु दैवानामपि देवता। तस्या नाम्ना इयं भूमिः पवित्रा जाता। देवमयी जाता।
-- अक्षरे एव मया लिखिते। तेऽपि मार्जिते। इदानीं किमवशिष्टम्?
-- अक्षराणि क्षराणि न भवन्ति। यस्मिन् स्थाने अक्षराणि लिखितानि तस्मिन् देवा अवतीर्णाः। अत एव तान् प्रणमामि।
विशाखः सर्वथा स्तब्धः शून्ये ध्यायन्नास। सहसा स मातृसूक्तम् अस्मरत्। अवदच्च सूतम्- गुरुकुले मया मातृसूक्तस्य दर्शनं कृतम्।
-- दर्शनं कृतम्?
-- विरचितं वेति वक्तव्यम्। श्रावयामि किम्?
सूतवर्यस्तं मातृसूक्तं पठन्तं साश्चर्यं विलोकयति स्म। तूष्णीम्भूते तस्मिन् स गद्गदं स्तम्भितवाष्पवृत्तिकलुषेण कण्ठेन अवदत् - श्रुत्वा स्वस्य मातरं स्मरामि। निश्चप्रचं एतादृशी एव मे माता अभूत्। विशाख, त्वं कश्चन सिद्धःपुरुषः। त्वया मह्यं मदीयमातुर्दर्शनं
दापितम्।
अथ सूतवर्यस्तस्य पार्श्व उपविष्टः तं साकूतं पश्यति। अनन्तरमाह -- "विशाख, त्वम् अधीती पण्डितः। मम एकं कार्यं निर्वर्तनीयं त्वया......."
-- किं कार्यम्?
-- मत्सकाशे यत्पुराणं वर्तते, तत् सर्वथा जीर्णम्। ठक्कुरेण अहमस्मि आश्वासितः - स मह्यं भोजपत्राणि समर्पयिष्यति, परं लेखकः कः स्यात्? मया वाग्भटः वारं वारं कथितः - पुत्र, वर्णमालाया अभ्यासं कुरु, केवलं पठनमात्रेण सर्वं न सिध्येत-- यावत्स्वयमपि लेखनं न सम्यग् जानासि, तावत् अस्माकं सूतानां जीवनम् अधन्यम्। परन्तु सोऽपि अहमिव निरक्षरः। लेखने तस्य मनो न रमते। अस्या मातृकायाः प्रतिलिपिः करणीयेति मया स कथ्यते स्म, प्रतिलिपिं कीदृशीं करोति, भोजपत्राणि विनाशयति - मया कुपितेन स द्विस्त्रिः कुट्टितः -
--- वाग्भटो भवद्भिः कुट्टितः?- मातृका तेन न लिखिता इत्यस्मात् कारणात्? अरे स तु बालकः शिशुरेव - किमर्थं भवता एतादृशं कृतम्?-
सहसा विशाखः सनातनस्य मुखं दृष्ट्वा स्तब्धः। तस्य नयनयोरश्रुधारा प्रवहति स्म।
विशाख आह - "तात, किमेतत्? भवान् रोदिति - भवानपि बालको जातः!"
सूतो विहसन्नवदत् - न रे, अहं पश्चात्तपामि। स्मृत्वा स्मृत्वा मनसि दाहो भवति। सत्यमुक्तं भवता। वाग्भटो बालक एवासीत्। स मया ताडितः। मया त्रिः चपेटास्तस्मै दत्ताः। ताश्चपेटाः स्मृत्वा स्मृत्वा आत्मानं गर्हे। ताश्चपेटाः स्मृत्वाऽहमनेकवारं स्वकपोले चपेटा अददम्।
उभौ क्षणं तूष्णीं स्थितौ। विशाखो विचिन्तयति स्म एवं मम पिताऽपि किमनुतप्यति?
अथ सूतवर्यः पुनर्विहसन् अवदत् - त्वया सङ्गत्य महानानन्दो जातः। मया सह कतिचन दिनानि अत्रैव वस। मम पुराणस्य प्रतिलिपिं कुरु।
-- अस्तु तावत्। अहं भवतां कृते लेखको भविष्यामि, पुराणस्य प्रतिलिपिं करिष्यामि। परन्तु लेखनसामग्री अपेक्ष्यते।
-- सामग्री तु कल्पिष्यते। भोजपत्राणि ठक्कुर आनाय्य दद्यात्। तेषु सुवाच्यलिपौ मदीयस्य पुराणस्य मातृका पुनः लेखनीया।
-- एतत्तु महत्कार्यम्। मया तक्षशिला गन्तव्या। तत्र अध्ययनं समाप्य स्वर्गं यावत् गन्तव्यम्।यदि नाम भवतः पुराणप्रतिलिपिकार्ये संलग्नः स्यां तर्हि आयुरेवमेव क्षपितः स्यात्!
-- अरे त्वत्कृते अल्पं तत् कार्यम् - शीघ्रमेव समाप्येत। मया दृष्टं त्वं कियल्लघु लिखसि, सुन्दरं च लिखसि। मत्पुस्तकं सर्वथा जीर्णं जातम् - विशाखस्य भणितमनवधाय सनातनः स्वमनीषितमग्रे सारयति स्म।
सहसा तस्य स्वरे उत्साहः समचरत् --प्राप्तेषु भोजपत्रेषु मसी अपि उपलभ्येत। अहं काश्यामेकं मसीकारं जानामि, स सर्वथा उत्तमां मसिं निर्माति। यदि मसी साधीयसी, तर्हि लिपिः सर्वथा सुवाच्या अवतरति पत्रेषु। अथ लेखनी - लेखनीविषये किं करिष्यामः? अहं लेखनीं शरकाण्डैः निर्मामि।
यदि सनातनसूतस्य पुस्तकमहम् अनुलिखामि, तर्हि पुराणवाचनस्य दुर्लभः संयोगः प्राप्येत इति विचार्य विशाखो बहिररुचिं प्रकटयन्नपि यथाकथञ्चित् लेखनाय अनुमेने। सूतवर्यः कथयति स्म - "अहं त्वां कनखलं यावत् प्रापयामि। कनखलात् बदरिकाश्रमं गच्छ, तत्र पितरं द्रक्ष्यसि - अनन्तरं याहि तक्षशिलाम् -- सनातनसूतस्तमाश्वासयति स्म।
-- "ततश्च गमिष्यामि उत्तरकुरून्" -विशाखस्तस्य वाक्यशेषमवदत् - उत्तरकुरव एव स्वर्गः।
श्रुत्वा सूतवर्योऽहसत्, अवदच्च - "अहो महानानन्दः।"
यावत् विशाखः सूर्योपस्थापनान्निवृत्तस्तावत् सूतेन मञ्जूषायाः वासुदेवस्य प्रतिमा निस्सारिता। --
-- अरे भवान् प्रतिमायाः पूजनं करोति।
-- किमत्र अनौचित्त्यम्?
अनन्तरं स एकस्मात् समुद्गकात् पीतवर्णं किमपि वस्तु आदाय जलं तस्मिन् मिश्रयति स्म। जलमेलनेन तद्वस्तु जले श्यानीभूय मिश्रितम्। तेन स तिलकं रचयति स्म।
भद्रपुर्यां समागतस्य विशाखस्य अद्य तृतीयं दिनम्, विगतयोर्दिवसयोरपि सूतवर्येण एवमेव पूजा कृता स्यात्, पूजां च कृत्वा एवमेव चन्दनेन तिलकं विरचितं स्यात्। परन्तु मया नावहितम् - इति स विमृशति स्म।
सुगन्ध इवानुभूयते। अपि नामैतत् चन्दनम्?
-- चन्दनमेव। परन्तु न चन्दनवृक्षस्य।
-- वृक्षादन्यत्र क्व चन्दनं भवति?
- भवति। द्वारकायां वर्तते एकं सरः। तदीया मृत्स्ना एषा। इयमपि वासुदेवस्य प्रसादेन चन्दनायिता। एतच्चन्दनं गोपीचन्दनमिति कथयामो वयम्।
-- विचित्रोऽयं धर्मो भवतां यत्र मृत्तिका ललाटे दीयते - विशाखोऽवदत्।
- विशाख, युष्माभिर्ब्राह्मणैर्यज्ञो विधीयते। तत्र क्वचित् कुशाः क्वचित् पुरोडाशः क्वचित् समिधः एतादृशाः पदार्थाः। अस्माकं धर्मे इयं मृत्तिका मस्तके दीयते, यतो हि इयं वासुदेवचरणाङ्कितायाः धराया मृत्तिका। इयं पुण्या, इयं पुण्यप्रदा, इयं पावनी। अस्यां वासुदेवस्य छविमहं पश्यामि, अतो एनां मस्तके दधामि।"
सूतो गोपीचन्दनेन ललाटे तिलकं व्यरचयन् पुनरवदत् - "इदं वैष्णवं तिलकम्, शैवानां तिलकं पृथक् -- तत् त्रिपुण्ड इति कथ्यते।"
-- यद् वा तद् वाऽस्तु। परन्तु इदं तिलकं भवतां ललाटे नितरां शोभते, एतेन
भवतां वेष एव सर्वथा विशिष्यते -
नद्याः परावर्तमानौ तौ। परितो वृक्षाणां पङ्क्तिः। समीपमेकमुपवनम्।
-- इदमाम्रवनं वर्तते ठक्कुरस्य। अत्र विश्रामाय मुहूर्तं तिष्ठामः।
आम्रवनम्। अत्यन्तं रमणीयम्। न केवलम् आम्रवृक्षाः, अन्यत्र अर्जुनवृक्षाणां पङ्क्तिः, क्वचित् कुटजवृक्षाणाम्। उभौ एकस्मिन् शिलापट्टके उपविष्टौ।सनातनसूतः एकस्य वृक्षस्य अधः स्थितः। स सस्नेहं हर्षनिर्भरं तस्य वृक्षस्य स्कन्धं परामृशन्नाह - अरे कार्पासः -मम बन्धुः ---
विशाखः सविस्मयम् अवदत् - अरे, एतादृशः भवति कार्पासः। सत्यं कार्पास एव। न मया दृष्टपूर्वः। एतादृशी भवति कार्पासच्छविरिति इदम्प्रथमतया ज्ञातम्।
वृन्तेभ्यो बहिरागतेभ्यः नवनीतपिण्डोपमेभ्यः तूलगुच्छेभ्यः कार्पासवृक्षो खिलखिलमिव विहसति स्म।सूत आह - विशाख, कथमस्य कार्पासस्य अनृणोऽहं स्याम्? अननैव मम बन्धुना कार्पासवृक्षेण सम्प्रति अहं समालिङ्गितोऽस्मि।
--भवान् मां दूषयति यदहं पुष्पितां वाचं वदामि। इदानीं पुष्पितां वाचं को वदति?
-- न। अनुभूतसत्यं वदामि। इदं मम दुकूलं पश्यति भवान्?
-- पश्याम्येव प्रतिदिनम्। कस्तत्र विशेषः।
-- अयमत्र विशेषः - यदिदं दुकूलमस्यैव कार्पासवृक्षस्य कार्पासेन निर्मितम्।
गतवर्षे ठक्कुरः अस्य कार्पासवृक्षस्य पुष्पेभ्यः कार्पासान् अचाययत्, तैरेव एकं दुकूलं तेन स्वगृहे तानेन वानेन च निर्मापितम्। यदा अहमागतस्तदा तेन एतद् दुकूलं मह्यमर्पितम्। अस्य कार्पासवृक्षस्यैव अंशं स्वदेहे धारयामि, अयं मामालिङ्गति इति अनुभवामि - किमत्र अनृतम्?
तदानीमेव ठक्कुरस्तत्र समागतः। शरावे फलानि तयोः पुरः अस्थापयत्।
कश्चन बालकः गुटिकाधनुषा प्रस्तरमेकं सन्धाय आम्रफलमपातयत्।
(13)
अपराह्णे सूतेन पुनरपि वासुदेवचरितचर्चा स्वपुराणप्रवचने आरब्धा। वृन्दावने कृष्णस्य गोचारणम्, गोपीभिः परिहासः इति विविधान् प्रसङ्गान् वर्णयन् अन्ततः स कथयति स्म - वासुदेवस्य कृष्णस्य वंशीनादः मुक्तेर्महानादः। इयमस्ति वृथावादेभ्यो मुक्तिः प्रज्ञावादेभ्यो मुक्तिः। धर्मनाम्ना विधीयमानात् दुराचरणान्मुक्तिः। तं नादं श्रुत्वा स्त्रियो गृहेभ्यो विनिर्गताः। गृहाणि बन्धनानि। ब्राह्मणाः श्रोत्रियाः पुरोहिताः स्वगृहेभ्यः स्त्रीणां बहिर्गमनं नानुमन्यन्ते स्म।
विशाखः शृणोति, परन्तु मनस्तस्य लक्ष्मणपुरे भ्रमति। वृन्दावनस्य विप्रभार्याणां वर्णनं श्रुत्वा श्रुत्वा स स्वां मातरं स्मरति। यथा ताः विप्राणां भार्यास्तथैव तदीया मातापि कदापि स्वगृहान्न निर्गता।
तस्मिन् दिने मध्याह्ने भोजनावसरे विशाख आह - मम प्रार्थना वर्तते, भवान् मया सहैव भोजनं करणीयम्। नाहं सम्प्रति अधीयानो ब्रह्मचारी, न मत्कृते गुरुकुलवासनियमाः पालनीयाः।
अस्तु यथा ते रोचते - किन्तु त्वमसि युवा - अहं वृद्धः। वृद्धस्य युना सह भोजने का सङ्गतिः -
तस्मिन्नेव दिने ठक्कुरो भोजपत्राणि आनीय विशाखस्य पुरो न्यदधात् - अवदच्च - मुनिवर्यैः प्रोक्तम् - श्रोत्रियपुत्रेण पुराणं विलेखिष्यते - इति मया एतानि पत्राणि आनीतानीति।
भोजपत्राणि दृष्ट्वा विशाखस्य मनः प्रीतम्। मसृणानि केशाग्रतनूनि पत्राणि।
भोजपत्राणि पुनः वस्त्रपुटके निबध्य स सूतवर्यमवदत् - शोभनानि भोजपत्राणि - अस्माकं गुरुकुले यदा कदाचित् द्वित्राणि भोजपत्राणि प्राप्यन्ते स्म, तान्यपि अतितरां जीर्णानि स्थूलानि च भवन्ति ---
-- ठक्कुरस्य अयं प्रतापः। तेन कथमेतानि पत्राणि प्राप्तानि इति अहमपि ज्ञातुं न
प्रभवामि। - सूतवर्यो ब्रूते स्म।
मासपर्यन्तं विशाखो भद्रपुर्यां न्यवसत्। प्रतिदिनं दैनन्दिनं कृत्यं सम्पाद्य पुराणस्य प्रतिलिपिकरणम् - एकस्मिन् दिने क्वचित् त्रिंशत् पर्णानि पूरयति, कदाचित् चत्वारिंशत्। यथा यथा पुराणलेखनम् अग्रे सरति तथा तथा वर्धते ठक्कुरस्य ठक्कुराण्या ईश्वरीदेव्याश्च तस्मिन् भक्तिः। सूतवर्यस्तु अत्यन्तं प्रहृष्टः। स विशाखं मुहुर्मुहुः श्लाघते - त्वया मम निरक्षरस्य मातृकायाः उद्धारः कृतः, त्वां विना एतत्कार्यं कोऽन्यो विदध्यात्? इदं पुस्तकं वंशपरम्परया अस्माकं गृहे स्थितम्। मम पित्राऽपि पठितम्, पितामहेनापि।
पुस्तकं जीर्णं तथापि सुपाठ्यम्। महानादरस्तस्मिन् पुस्तके सूतस्य वर्तते। यदा पुराणवाचनं करोति तदा अत्यन्तं सावधानतया उद्घाटयति। विशाखमपि स वारं वारम् अनुरुणद्धि -- पुस्तकं निर्वाते स्थाने सावधानेन उद्घाटनीयम्। यदा सूत्रस्य ग्रन्थिर्विमोच्यते, तदा वासुकेर्नागस्य ध्यानं करणीयम्, यतो हि तस्मिन् सूत्रे वासुकेर्निवासः। यदेतद्यत् काष्ठफलकद्वयं, तस्मिन् द्यावापृथिव्यौ वसतः।
काष्ठफलकमेकं पुस्तकस्योपरि, एकं चाधः निहितं सदैव भवति। काष्ठफलकयोरुपरि भवति सूत्रम्--सूतवर्यो वदति स्म- अस्य सूत्रस्य धारणात् वयं सूताः। सूत्रधार इति संज्ञयापि ज्ञायामहे।
-- परन्तु यज्ञसम्पादनात् प्राग् वेदिकायाः परिमाणस्य मापनाय ये सूता यज्ञवाटे आगच्छन्ति स्म, तेऽपि सूत्रधारिणः। तेषां सूत्रधारेति संज्ञा प्रथममभवत् - विशाखस्तं प्रत्यवदत्।
- कोऽत्र भेदः, ते सूता अपि सूत्रं धारयन्ति स्म। वस्तुतः यज्ञमण्डपस्य यज्ञवाटस्य च निर्माणादस्माकं स्थपतिरित्यपि संज्ञा। जन्मान्तरेभ्यो वयं सूता एतत् सर्वं कारयन्तः स्मः - यज्ञवेदिकाया यज्ञमण्डपस्य निर्माणं, रथानां निर्माणं, भवनानां, नगराणां च निवेशः। वयं सूता रथचर्यामपि कुर्मः, वयं भवनानि प्रासादान् सौधान् हर्म्यांश्च रचयामः, वयं काष्ठकर्मापि कुर्मः स्थापत्यमपि वास्तु कर्मापि। अथ च वासुदेवे भक्तिमपि कुर्मः, पुराणानां
प्रवचनं चापि कुर्मः।
-- निखिलं विश्वमेव भवद्भिर्निर्मितम् इति कथनीयम् -विशाखः सपरिहासमवदत्।
-- एतदपि वक्तुं युज्यत एव। यतो हि विश्वकर्मा अस्माकं देवः। मनुष्यास्तु ब्रह्मणा निर्मिताः, परन्तु इयं या भौतिकी यन्त्रमयी काष्ठमयी वा सृष्टिस्सा सर्वा विश्वकर्मकृतैव।
शनैः शनैः सूते अवर्धत विशाखस्य स्नेहः। एतादृशं साहचर्यं तेन जीवने इदम्प्रथमतया प्राप्तम्। सूतवर्यस्तस्य गुरुः, सखा, नर्मसचिवो मार्गदर्शकश्च युगपद् अभवत्। आयुषा अयं ज्यायान्, मत्सख्युः वाग्भटस्य पितेति विशाखस्य तस्मिन् पूज्यबुद्धिरभवत्, परन्तु सूतवर्यस्तस्य विप्रत्वं बहु मन्यमानः आत्मानं सूतमिति ख्यापयन् त्वमेव मे पूज्यो गुरुरिति विनयवशाद् बहुधा ब्रूते। सूतवर्यः परिहासप्रियः, बहु विनोदं करोतीति विशाखस्य मनस्तेन सह रमते। विशाखः बहुधा तेन विवदते, स्वीयं बालभावमाविष्करोति तस्य पुरः। उभयोर्मध्ये कृतककलहोऽपि भवति।
महान् भाण्डागारः आख्यानानां प्राचीनेतिहासवार्तानां च सूतवर्यस्य मनसि विलसति। कथायाः आरम्भं यदा करोति तदा निर्निमेषं तमवलोकयन्तः तद्गतेन मनसा ध्यानावस्थिताः शृण्वन्ति जनाः। पुराणस्य यत् पुस्तकं तस्य सविधे वर्तते तत् केवलमाधारभूतम्। वास्तविकं पुस्तकं स्वयमेव सनातनः सूतः। क्वचित् क्वचित् सूतस्य प्रवचनं शृण्वन् पुराणपुस्तकेऽपि तत्प्रोक्तान् श्लोकान् क्वचिद् आविष्करोति विशाखः, पठति, अन्यथा सहस्रं श्लोकान् कण्ठस्थितान् पुस्तकं विना -- इदं भगवता व्यासेनोक्तमिति कथयित्वा सूतः स्वप्रवचने पठति, ते अस्मिन् पुराणपुस्तके न सन्ति इति तदीयपुस्तकस्य प्रतिलिपिं कुर्वता विशाखेन इदानीं ज्ञातम्। नैकानि आख्यानानि सूतवर्यः अवितथं स्मरति, वक्ति च, तान्यपि अस्मिन् पुस्तके न सन्ति। यदि सर्वाणि आख्यानानि लिखित्वा सङ्गृह्यन्ते तर्हि बहूनि पुराणानि स्युः।
तस्मिन् दिने सूतस्तमवदत् - "विशाख, श्वः प्रतिपदि पुराणवाचनं न स्यात्। विशाख, श्वः काशीं गच्छामः। अन्येद्युः पुनरागमिष्यामः।"
-- काशीपुरी ? तत्र गमनागमनम्....एकेन दिनेन कथं स्यात्?
-- का चिन्ता... ठक्कुरस्य राज्ञः शकटं नयामः। शनैर्यास्यामः, शनैः निवर्त्स्यामः। महान् आनन्दः स्यात्। काश्याः किं वर्णनीयम् - काश्याम् एकस्य दिनस्य वासः....
-- अश्वमेधसहस्राणां वाजपेयशतानां च फलं दद्यात् - विशाखेन कुसृतिपरायणतया तदीयं वाक्यं पूरितम्।
- "अरे त्वम् अत्यन्तं शठोऽसि। भृशं मामुपहससि। तथापि महानानन्दः-" विहसन् सूतवर्योऽवदत्।
गमनवेला प्राप्ता। तदानीमेव ठक्कुर आगत्य खिन्न इव अवदत् - कष्टमापतितम्। शकटस्य एकं चक्रं विनिर्गतम्। अपरं शकटं तु सालङ्को नीतवान्। अस्यां भद्रपुर्यामेक एव रथकारः वर्तते। सोऽपि स्वभ्रातृव्यस्य विवाहे ग्रामान्तरं गतः। इमौ सोड्ढल-राङ्कवौ मूर्खौ। किमपि न जानीतः। सोड्ढलस्तु केवलं गाथां गायति। गाथागानेनतु चक्रं न संयुज्येत।
सूतवर्य आह - चिन्ता मास्तु। महानानन्दः। अहं चक्रं योजयिष्यामि।
-- अरे भवन्तो व्यासाः। एतत् कार्यं कथं भवद्भिः कारयामः।
-- राजन् ठक्कुर, अहमस्मि सूतः। रथनिर्माणं तु वंशपरम्परया आगतं कर्म। दर्शय मह्यं रथम्।
विशाखः पश्यति स्म सूतस्य कौशलम्।मुहूर्तेनैव स रथं संयोजयामास। काश्याम् एकस्य दिनस्यैव निवासः। अग्रिमे दिने पुनस्तौ भद्रपुरीं परावृत्तौ।
(14)
लेखनीनिर्माणे महान् श्रमः सूतेन विहितः। बहून् शरकाण्डान् वंशखण्डांश्च कांश्चन स आनीतवान्। तेषामपि कर्तनं कृत्वा कृत्वा बहून् खण्डानक्षिपत्। विशाखेनोक्तम् - किमर्थमेतान् खण्डान् भवान् क्षिपति, एतेभ्यस्तु बह्व्यो लेखन्यो निर्मीयेरन्।
सनातनेनोक्तम् - एतेषु खण्डेषु ग्रन्थयः सन्ति। पर्वरहितं ग्रन्थिहीनं च खण्डमादाय लेखनी निर्मेयेति अस्माकं परम्परा। लेखन्या यदि अग्रे भागे ग्रन्थिर्भवति तर्हि तेन लेखकस्य आयुःक्षयः स्यात्, मध्ये भवति तर्हि धनक्षयः, यदि नीचैः भवति तर्हि सुखक्षयः। श्लोकोऽप्यत्र भगवतो व्यासस्य वर्तते -
आग्र्यग्रन्थिर्हरेदायुर्मध्यग्रन्थिर्हरेद् धनम्।
अन्त्यग्रन्थिर्हरेत् सौख्यं निर्ग्रन्थिर्लेखनी शुभा।।
अत्यन्तं सुदर्शनाः लेखन्यो सूतवर्येण निर्मिताः। ता दर्शं दर्शं विशाखस्य मनसि मोहो जायते स्म। स आह - पूरिते भवतां पुराणे एता लेखनीर्मह्यं दास्यति भवान्?
सूतवर्यो विहसन्नाह - लेखनी, मसी, अवशिष्टानि भोजपत्राणि - सर्वं त्वदीयमेव। मम तत्र किम्? एकं पुस्तकं सुलिखितं सुवाच्यं मया प्राप्यते तदेव मम सम्पत्। शिष्टं सर्व त्वदीयम् .. पुण्यमपि त्वदीयम् --
- पुण्यम्? तन्मदीयं कथम्?
- त्वया पुस्तकं लिखितम्। एतदेव महत् पुण्यकर्म। पुस्तकलेखनेन
यत्पुण्यमवाप्यते तत्तु ...
-- "अश्वमेधसहस्राणां वाजपेयशतानां च फलं दद्यात्" -पुनरपिविशाखेन कुसृतिपरायणतया तदीयं वाक्यं पूरितम् -- एवं भवतो भगवान् व्यासोऽकिञ्चित्कराणामपि
कर्मणां कृते सहस्रकृत्वो यज्ञानां फलं प्रददाति। सर्वथा महानेवासौ।
- "न, नात्र परिहासावसरः। व्यासेनोक्तं यत्किमपि तत् तु सर्वथा सत्यम्।"- सूतवर्यो गम्भीरया गिरा अवदत्।
लेखनीनां पृष्ठे मयूरपिच्छं निबद्धम्। मयूरपिच्छस्य उपयोगमपि सूतवर्यो विशाखमबोधयत् - पश्य, यदि क्वचित् प्रमादात् अन्यथा लिखितं, तर्हि तस्य मार्जनाय मयूरपिच्छाग्रं श्वेतमसीभाण्डे हरिताले वा दत्वा अन्यथा लिखितेषु अक्षरेषु अर्पणीयम्। तेन अक्षराणि आच्छादितानि स्युः। तदुपरि पुनः शुद्धं लेखनीयम्। एतेन भोजपत्रे स्थानस्य क्षतिर्न भवति।
विशाखोऽवदत्-- "यदि भ्रमात् वकारस्थाने बकारो लिखितः तर्हि सम्पूर्णस्य
अक्षरस्य मानं न कार्यं स्यात्, केवलं बकारस्य उदरे श्वेतमसिर्देया।
-- एतत् सर्वमहं तु नावगच्छामि। परं त्वं सुतरां शुद्धं लिखसीति मम मनसि प्रत्ययो जातः। त्वया लिखितानि पत्राणि काश्यां मया आचार्यप्रवराय सुबन्धवे दर्शितानि, सोऽकथयत्- "केनचित् पण्डितेन एतल्लिखितमिति प्रतीयते, अत्यन्तं शुद्धम्।"
वस्तुतः सनातनसूतस्य सविधे यत् पुस्तकमासीत् तत् केनचिदपण्डितेन लिखितमासीत्। तत्रापि अज्ञानवशात्तेन असंस्कृतं प्रयुक्तम्। विशाखः अशुद्धीः स्वयं शोधयित्वा लिखति स्म।
पुस्तकलेखने शनैः शनैः गतिर्वृद्धिमेति। तेन सहैव वृद्धिमेति विशाखस्य आनन्दः। प्रतिलिपिं करोति, तेन सह पुराणं पठत्यपि। तेन संसार एव नवायते।
प्रथमं तु मनसि एवमभूत् तस्य - सौम्यदेवाः कथयन्ति स्म यत् पुराणं वेदविरुद्धम्, अत एव प्रतिलिपिं कुर्वन् पठित्वा पठित्वा ज्ञास्यामि कुत्र कुत्र कथं कथं वेदविरोधोऽत्र पुराणकारेण व्यासेन कृतः। परन्तु लिपिं कुर्वन् कुर्वन् यथा यथा विशाखः पठति तथा तथा वेदस्य मन्त्रास्तस्य मानसे उद्यन्ति।
लेखनम् अग्रे सरति।
स हरतालस्य पीते वर्णे एकां लेखनीं ब्रोडयित्वा तन्वीं शिरोरेखां ददाति, एनां
रेखामनुसृत्य अत्यन्तं सुन्दरैः लघ्वक्षरैर्मातृकां रचयति। भोजपत्रं स्वल्पमेव। यदि शिष्यते तर्हि मयैव लभ्यत इति धिया पत्राणां यथा अपव्ययो न भवति तथा अवधानं ददाति।
त्रिविधा मसी सूतेन तस्मै दत्ता आसीत्। सौवर्णी, राजती कृष्णा च। अनन्तरम् आजीवनं तेन तथाविधाः मस्यो न दृष्टाः, न वा प्राप्ताः। आश्रमे स अङ्गारकैर्निर्मितां कृष्णामेव मसीं प्रयुनक्ति स्म। साऽपि जलबिन्दुनिपातेन क्षयं याति। इयं या मसी सूतवर्येण दत्ता, तस्यां सहवर-भृङ्गराज-त्रिफला-कासीस-लौहचूर्णसदृशाः पदार्था मिश्रिताः। अतः सा अक्षया मसी।
कदाचित् पुराणलेखनान्मन उद्विजते। अरे इदमपि कार्यं भवति किम् - स आत्मानमात्मना वदति - अहमस्मि तैत्तिरीयशाखाध्वर्युः सोमपीथी ब्राह्मणः, इदं कार्यं लेखकस्य मया करणीयं भवति - कीदृशी मम कुगतिर्जाता! ततः ससूतवर्यं च वदति - इतः परं लेखितुं न शक्नोमि। अन्यं कमपि नियोजयतु भवान्। मया उत्तरकुरवो गन्तव्याः। अन्यच्च - अध्येतव्यं मया। यदि अध्ययनं त्यजामि तर्हि कीदृशोऽहं विप्रः ...
- निखिलं पुराणं त्वयाऽधीतम्। एतदपि वेदतुल्यम्।
सूतवर्यस्तस्य बाल्यसुलभचपलतामवगच्छति। अन्यच्च स जानाति कथं विशाखः
प्रसादनीय इति। एतादृशेषु अवसरेषु स कथयति - एहि, शकटेन भ्रमणाय यावः।
सूतवर्येण सह विशाखो न केवलं निखिलां भद्रपुरीं परितः स्थितान् ग्रामानपि अपश्यत्, त्रिः काशीमपि गतः।
भद्रपुर्या बहिः सीमान्ते आसीत् भैरवमन्दिरम्। एकस्मिन् दिने तौ शकटेन व्रजन्तौ निकषा मन्दिरं समागतौ, विशाखेनोक्तम् - अरे देवालयः वर्तते गत्वा पश्यामः।
सूतवर्यो गभीरया गिरा अवोचत् - "न, तत्र न गन्तव्यम्।"
- अरे किमर्थं निवारयति भवान् - को दोषः, पश्यामः कीदृशो देवः -
-- स देवो वासुदेवे अनुरागं न धारयति - अतस्तं न पश्यामः - सूतवर्य उवाच अनन्तरं च तूष्णीं स्थितः।
विशाखस्य मनसि महत्कौतुकमभवद् भैरवमन्दिरस्यावलोकनाय। परन्तु सूतवर्यस्य गम्भीरतां परिलक्ष्य विशाखोऽपि न तेन विवादमकरोत्।
एकस्मिन् दिने विशाख एकाकी एव पद्भ्यां भ्रमन् ग्रामाद् बहिर्विनिर्गतः। अटंश्च तमेव देवालयं प्राप्तः। कौतुकमासीत् तदीये मनसि कीदृशो देवालयः -अन्तर्गत्वा पश्यामीति।
नद्यास्तटे इदं भैरवमन्दिरमासीत्। सायं समयः। सूर्योऽस्तमेति स्म। शून्यं मन्दिरम्।
अरे कथमेतस्मिन् देवालये कोऽपि नास्ति। गर्भगृहे भैरवस्य प्रतिमा वर्तते।
अस्मिन् मन्दिरप्राङ्गणे स्थित्वैव सन्ध्योपासनं करोमीति तस्य मनसि समागतम्।
स सन्ध्योपासनमारब्धवान्।
सहसा कश्चन कटुकर्कशस्वरेण मध्ये तं न्यवारयत् - - "किं करोषि? कथमिदं भैरवस्य स्थानं मलिनीकुरुषे?मूढ, न जानासि यदि अस्माकं गुरुः पश्येत् तर्हि त्वां विनाशयेत्!"
कश्चन कापालिक आसीत्। भाले सिन्दूरम्, आरक्ते नेत्रे, नग्नः कायः भस्मना च्छन्नः।
- किं मया कृतम्? - विशाखः ससम्भ्रममपृच्छत्।
- किं त्वया कृतम्? मूढ़, त्वया अत्र वेदमन्त्राः पठिताः!
-- तेन किम्?
-- वयं कापालिकाः वेदं न मन्महे।
-- नाराच - किं जातम्, केनालपसि - इति कथयन् कश्चन भैरवाकृतिः कापालिकः तत्र समायातः।
स कापालिको युवा तमाह - गुरो, अयं कश्चन वटुः। अयमपटुः पटपटायते - मन्त्रान् वाचयति।
कापालिको बहिरागतः, तस्य हस्ते त्रिशूलमस्ति। नेत्राभ्यामङ्गारा इव वर्षन्ति।
- अरे, नाराच, तूणीर!गृह्णीतम् एनम् बालकम्। भैरवेण अयं बलिः प्रेषितः। भैरव इच्छति - अस्माकं तत्र किम्?यद् भैरव इच्छति तत् तस्मै अर्पयामः।
"विशाख पलायस्व , पलायस्व - अयं घातकः!" इति कश्चन विशाखस्य अन्तः चीदकरोत्।
विशाखो न अजानात् कदा तस्य चरणौ द्रुतं धावितुमारभेताम्।
कापालिकस्य शिष्यौ तमनुधावतः, किन्तु विशाखो धावने पटुः।
ग्रामसीम्नि समागत्य तेन दृष्टं शाकटिकः शकटं नयन् याति -
-- "भद्र, मामपि शकटे उपवेशय" - स तमाह।
-- अरे विप्रवर्य, कुत आगम्यते, कथं विभ्रान्त इव भवान् परिलक्ष्यते ! अपि नाम किमपि अत्याहितम्?
इदानीं विशाखः पर्यचिनोत्। अयं तु सोड्ढल आसीत् - ठक्कुरस्यैव शाकटिकः, यो गाथा अपि अत्यन्तं रमणीयाः गायति।
विशाख उच्छ्वासं च निःश्वासं च नियमयन् क्षणं तूष्णीं स्थितः। सोड्ढलस्तमातुर इव निध्यायति। अथ स्वस्थो विशाखोऽवदत् - न किमपि अत्याहितम्। गृहं यामः।
रात्रौ शयनात् प्राक् स सूतवर्याय सर्वं वृत्तमाचष्ट। सूतवर्येण सर्वं श्रुत्वा गभीरया गिरा प्रोक्तम् - विशाख, एतत् त्वया किं कृतम्, त्वया एवं सुदूरं न गन्तव्यम्, एकाकिना तु न कदापि गन्तव्यम्। अयं तावत् घोरः कलिकालः। भगवता व्यासेन उक्तमेव - कलिकाले पाखण्डास्तान्त्रिकाः स्वैराचारं करिष्यन्ति, एतेभ्यः कथं त्राणं स्यात्? वासुदेव एव त्राता।
अन्येद्युः सूतवर्यः ठक्कुरायापि सर्वं व्यजिज्ञपत्। सूतवर्यस्य एतादृश एव स्वभावः, तस्य उदरे किमपि वृत्तं न जीर्यति। श्रुत्वा ठक्कुरोऽवदत् - अरे अहं जानामि तं कापालिकम्। पूर्वं स दुष्टः अपरस्मिन् ग्रामे लुण्टाक आसीत्। सदैव तस्करकर्मणि निरतः राज्ञा वाराणस्याः कारागारे निक्षिप्तः, कारागारात् कथञ्चिन्मुक्तः वाराणस्यामेव तान्त्रिकेन भैरवानन्देन दीक्षां प्राप्नोत्। लम्बकर्ण इति नाम वर्तते तस्य। तस्य शिष्यौ इदानीं द्वावेव। पूर्वं त्रयोऽपरेऽप्यासन्, ते कलहं कृत्वा अस्य लम्बकर्णस्य विपुलां सम्पदं हृत्वा विनिर्गताः। तथापि भैरवमन्दिरे इदानीमपि महान् रत्नसञ्चयः स्वर्णराशिश्च वर्तते इति ये अन्तर्वृत्तं जानन्ति ते कथयन्ति। अस्तु, अहं स्वयं तु किमपि कर्तुं न शक्नुयाम्, राज्ञा नियुक्तः समाहर्ता वर्तते, स श्व आगच्छेत्, तदा अहं तस्मै सर्वं निवेदयिष्यामि।
-- सम्पत् कुतः वर्तते तस्य? - सूतवर्योऽपृच्छत्।
-- पूर्वं यदा अयं तस्कर आसीत् तदानीं चौर्येण स्वर्णाभूषणानि धनं वा यदपहृतं तत्सर्वं भैरवमन्दिरे अनेन स्थापितम्। .....पूर्वमत्र भैरवमन्दिरे आसीत् महायोगी महानन्दो नाम। स सत्यमेव योगी। तस्य निर्घृणो वधोऽनेन कारित इति ज्ञायते, परं महायोगी महानन्दः समाधिं प्राप इति अयं प्रचारितवान्। ...विप्रदेवेन तत्र कदापि न गन्तव्यम्, सत्यमुक्तं व्यासमुनिना भवता - एते कापालिकाः सन्ति दुराचाराः स्वैराचाराः। एका भैरवी अपि आसीत् तेषां सविधे, अनन्तरं सा पलायिता, विवाहं कृत्वा कुत्रचिद् गूढं वसति - असौ दुष्टः ग्रामजनान् भ्रमयति - वञ्चयति - तस्य को धर्मः? वञ्चनमेव धर्मः - परन्तु जगत्यस्मिन् भवन्ति तादृशा मूर्खाः, ये एतादृशानां धर्मकञ्चुकिनां प्रपञ्चे भ्रान्ताः भवन्ति -
(15)
प्रायः मासो व्यतीतो विशाखस्य भद्रपुर्यां समागतस्य। बहवो जना इदानीं तस्य परिचिताः। सूतवर्यस्य पुराणपारायणे सहस्रशः स्त्रियः पुरुषाश्च सङ्गच्छन्ते आख्यानस्यप्रवचनस्य वा श्रवणाय। नद्यां स्नानार्थं गमनागमनसमये नदीतीरे वाऽपि बहवो जना मिलन्ति।
सूतवर्यस्य सनातनस्य आदरो वर्धमानः, तेन सह विशाखं प्रत्यपि ग्रामजना समधितरं
सम्प्रति श्रद्धधानाः सन्ति।
विशाखस्य वैदुष्येण प्रभावितः ठक्कुरस्तस्मिन्नधिकाधिकं बद्धादरो जायते। तस्मिन् दिने अग्निहोत्रं सम्पाद्यमासीत्। अस्मिन् ग्रामे कोऽपि अग्निहोत्रमेव न सम्पादयति। केवलं डिण्डिमपण्डित एव होमयज्ञादिकं कारयति। ठक्कुरो डिण्डिमपण्डितमाकारयत्, परं मया अन्यत्र यज्ञः सम्पादनीय इति उक्त्वा स नागतः। ठक्कुरस्यानुरोधेन विशाखोऽग्निहोत्रमकारयत्। सर्वं सम्यक् सम्पादितम्। ठक्कुरोऽतितरां प्रसन्नः, स श्लाघते स्म - श्रोत्रियपुत्रेण अत्यन्तं विधिपूर्वकम् अग्निहोत्रं कारितम्। वस्तुतः स डिण्डिमपण्डितः मिथ्यापण्डितः वर्तते, स किमपि न जानाति --
यथा यथा सूतवर्यस्य तेन साकं स्वयं विशाखस्यापि प्रतिष्ठा वर्धते, तथा तथा विशाखोऽनुभवति - सर्वं भद्रं नास्ति भद्रपुर्याम्, किमपि अस्वस्तिकरं निगूढं वर्तते। ग्रामे केचन जना अवश्यमेव सूतवर्यं प्रति श्रद्धालवो न सन्ति इति विशाखोऽनुभवति। तेष्वेव वर्तते डिण्डिमपण्डितः।
अपराह्णभोजनं कृत्वा ठक्कुरः सूतवर्येण विशाखेन च सह उपविष्टः गोष्ठीं करोति स्म। तदानीमेव डिण्डिमपण्डितस्य चर्चा प्राचलत्।
-- किं कुर्मः, एक एव वर्तते ग्रामयाजकः स एव स्त्रीयाजकोऽपि वर्तते। अयं डिण्डिमपण्डितः। - ठक्कुरः कथयति स्म।
-- स्त्रीयाजकः किमिदं नाम?- विशाखोऽपृच्छत्।
-- स्त्रियो याजयति इति स्त्रीयाजकः। विशाख, तव साहचर्येण एतावत् पाण्डित्यं मय्यपि समागतम्। - विहसन् सूतवर्योऽवदत्।
-- इदानीं स्मरामि- विशाखोऽवदत् -स्त्रीयाजको भवति। भगवता गौतमेन धर्मशास्त्रे लिखितम् - स्त्रीयाजकं न भोजयेत्। यतः स्त्रियो यो याजयति स तु पातकी स्यात् - विशाखेनोक्तम्।
-- न, न। अहं मन्ये यः स्त्रियो याजयति स परं पुण्यात्मा।
-- एतत् केन कथितम् - भवत आराध्येन वासुदेवकृष्णेन वा भगवता व्यासेन वा?
सूतोऽहसत्। "सर्वं धर्मतत्त्वं भगवता व्यासेन वासुदेवेन वा नोक्तम्। यदवशिष्टं तत् अस्माकं शिष्याः कथयिष्यन्तीति भगवता व्यासेनोक्तम्। तस्य परम्परया अहमस्मि व्यासशिष्यः। तस्य व्यासशिष्यस्य सनातनस्य वाक्यमिदम्।"
-- तर्हि सनातनवाक्यमेतत्, अथवा सनातनधर्मः यत् यः स्त्रियो याजयति स परं
पुण्यात्मा। किन्तु भगवतो व्यासस्य भवान् शिष्य इति कथम्।
- न साक्षात् शिष्योऽहं भगवतो व्यासस्य। तस्य परम्परया शिष्योऽस्मि इति मया उक्तम्।
-- कथमेतन्नाम?
-- पश्य, व्यासस्यासन् पञ्च शिष्याः। उक्तमस्मत्पुराणे -
वेदानध्यापयामास साङ्गानाख्यानपञ्चमान्।
सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम्।
प्रभुर्वरिष्ठो वरदो वैशम्पायनमेव च।
संहितास्तैः पृथक्त्वेन भारतस्य प्रकाशिताः।।
एतेषु वैशम्पायनस्य शिष्योऽभूत् सूतो रोमहर्षणः। अस्तु, रोमहर्षणस्य अपत्यक्रमे षड्विंशतितमोऽहम्। रोमहर्षणस्य षट् शिष्या आसन्, तनयश्च आसीत् उग्रश्रवाः। अयमेव उग्रश्रवाः नैमिषारण्ये अष्टाशीतिसहस्रस्यमुनीनां कृते पुराणप्रवचनम् अकरोत्। स तैरेव मुनिभिरुपरि व्यासपीठे उपवेशितः, ते अधः भूमौ उपविश्य तस्मात् पुराणानि शृण्वन्ति। एकदा वासुदेवस्य कृष्णस्य अग्रजो बलरामस्तत्र समागतः। सूतं तं मुनिभ्य उपरि उपविष्टं विलोक्य स क्रुद्धः। स उग्रश्रवसमादिशत् - अधः अवतीर्य प्रवचनं कुरु, त्वं सूतः सन् मुनिभ्योऽप्युपरि उपविष्ट इति तु नोचितम्। उग्रश्रवास्तु पुराणप्रवचने तल्लीनः, स बलरामवचनं श्रोतुं नाशक्नोत्। क्रुद्धेन बलरामेन च हलप्रहारेण निहतः। अनन्तरं ते शौनकादयो मुनयो बलरामाय अक्रुध्यन्, ब्रह्महत्यायाः प्रायश्चित्तं त्वया करणीयमिति तमादिशन्। अस्तु, तेषामेव रोमहर्षोग्रश्रवःप्रभृतिसूतानां वंशे लब्धजनिः भगवतः कृष्णद्वैपायनस्य साक्षाच्छिष्यपरम्परायाम् अहम् अस्मि। सनातन इति मे नाम।
एतत् सर्वं शृण्वन् ठक्कुरः मस्तकन्यस्याञ्जलिरवदत्- "विप्रवर्येणानेन यथा प्रश्नः कृतः, यथा च व्यासमुनिना उत्तरितोऽस्य प्रशनस्तेनाहमपि सम्प्रति किञ्चित् किञ्चिदवगतवानस्मि। उभावपि भवन्तौ पूज्यौ। स स्त्रीयाजको डिण्डिमस्तु गर्ह्यः।"
स्त्रीयाजकस्य नाम वर्तते डिण्डिमपण्डितः। डिण्डिमपण्डितस्य प्रतिष्ठा भद्रपुर्यां नास्ति, स्त्रीष्वपि काश्चन तं मानयन्ति। वस्तुत एके वेदमित्रनामानः सोमपीथिनः महान्तः श्रोत्रियाः पुरा अत्र आसन्। तेषां तादृशी प्रतिष्ठा यत् कोऽपि डिण्डिमपण्डितं न कदापि
पृच्छति। एकदा जम्बालो नाम कश्चन वणिग् निधनमुपगतः। तस्य पुत्रो नासीत्। भार्या शम्बा प्राह- जम्बालेन मम पत्या इयं मम सुता शैवलिनी सदैव पुत्रवत् पालिता। इयमेव और्ध्वदेहिकं कृत्यं करिष्यति - वेदमित्रैः आचार्यैः सर्वथा निषेधः कृतः। इयं कन्या और्ध्वदेहिकं नान्दीश्राद्धं वा कर्तुं नाधिकृतेति वदद्भिः। तदा अयं डिण्डिमपण्डित आह - अरे वेदमित्रो यद् वा तद् वा वदति, अहं जानामि धर्मशास्त्रव्यवस्थाम्। एतस्मिन् व्यतिकरे कन्येयं शैवलिनी और्ध्वदेहिकं नान्दीश्राद्धं च कुर्यात्।
भद्रपुर्यां तदा महान् विवादो जातः। काश्या अपि पण्डिताः समागताः। ते सर्वे नेदमुचितमिति व्यवस्थां ददुः। तेषां व्यवस्थां निराकृत्य डिण्डिमपण्डितः शैवलिन्या सर्वं मरणोत्तरविधानं श्राद्धं च समपादयत्।
ठक्कुरः सूतवर्यं कथयति स्म- मुनिवर, स्त्रियो याजनीया वा न वेति न जानामि, एतत्तु भवतां विदुषां विचारविषयः। परन्तु अयं डिण्डिमपण्डितः दुश्चरित्रः वर्तते। परस्ताद् ज्ञातं सर्वैर्यदस्य तया शम्बयाऽपि सम्बन्धा आसन् -- इति वदन् स तूष्णीम्भूतः।
सूतवर्य आह - अरे, अहमचिन्तयं यत् स पण्डितः वर्तते अत एव उत्तमचरित्रः स्यात् -
ठक्कुरोऽवदत् - स न केवलं स्त्रियो याजयति, तासां बहूनि कार्याण्यपि करोति। काशीं याति तदा तासां कृते क्वचित् सिन्दूरं क्वचित् अन्यानि वस्तूनि आनयति। विशाखेन एकदा दूरादेव तस्य दर्शनं कृतम्। स स्नानाय सूतवर्येण सह नदीं प्राप्तः।डिण्डिमपण्डितः स्नात्वा घट्टे महता डिण्डिमघोषेण सान्ध्यविधिं सम्पादयति स्म। विशाखेन सूतवर्येण च स्नानं विहितम्, डिण्डिमेन च सान्ध्यविधिः सम्पादितः। कृताह्निकः स तीक्ष्णया वक्रया च दृशा एतौ विलोकयन् गतः। विशाखाय न मनागपि अरोचत। वनविडालस्येव तस्य अत्यन्तं घर्घरायमाणः परुषः स्वरः, उष्ट्रस्येव गतिः, चिप्पटनासा...
सूतवर्यस्य लम्बप्रलम्बाभिः कथाभिः कदाचिद् विशाख उद्विजते।स मनसि करोति -किमर्थम् अहम् सूतवर्येण सह निरर्थकं समयं नयामि? अयं वर्णसङ्कराणां कुले जातः। यस्मिन् कुले स्त्रियः शीलभ्रष्टास्तत्र जायन्ते वर्णसङ्कराः। कालो गच्छति, आयुर्विगलति। मया अग्रे गन्तव्यमासीत्। मया माता द्रष्टव्या। अत्र अनेन सूतवर्येण गतिरेवावरुद्धा। पुनश्च सूतवर्यस्य स्नेहेन प्रसीदति।
मनसि स्मृतयो विपच्यन्ते। गोमतीनद्याः स्मृतिः, मातुः स्मृतिः। गोमतीजले स्नानम्। उपनयनात् प्राग् यदा माता जीवति स्म, स आप्रातः मध्याह्नं यावत् सरय्वां निमज्जति। अयं
विशाखो नास्ति, अस्ति कश्चन मीनः, यतो जल एवायं रमते - इति पितुः कथनम्।
साकेतात् स प्रचलितः। सरयूमुल्लङ्घ्य अनुगङ्गातटं गच्छन् प्रथमं प्रयागं, प्रयागाच्च गच्छन् अत्र मध्येमार्गं निरुद्धः। केन निरुद्धः, कस्मादितोऽग्रे गन्तुं नार्हति सः? सूतवर्यस्य कारणान्निरुद्धः। स सूतवर्यं सहसा त्यक्तुं न प्रभवति। तस्य कृते मनसि महानादरोऽपि जागर्ति। कदाचित् तस्य वचोवितानैरसौ चेखिद्यतेऽपि। सूतवर्यस्य स्वभाव एव एतादृशः, यदसौ प्रलम्बां कथां करोति। वचनशय्यामास्तृणोति। मध्ये मध्ये दीर्घं कथानकं योजयति। स स्वयमेव स्वीकुरुते -भगवान् व्यासो अस्माकं गुरुः। तस्माद् अस्माकमस्ति व्यासशैली। न वयं समासेन वदामः। अस्माभिः निरक्षराः अनधीताः जनाः बोधनीयाः। तेषां कृते ज्ञानगङ्गा प्रवाहनीया।
विशाखो वदति - ज्ञानगङ्गां कामं प्रवाहयतु, परन्तु ज्ञानगङ्गायां अपद्रव्याणि किमर्थं मिश्रयति?
विशाखस्य सात्त्विकं रोषं दृष्ट्वा सूतवर्यो हसति। अनन्तरं सस्नेहं तस्य स्कन्धयोः स्वहस्तौ निधाय स कथयति - यावान् तव कायः, ततो द्विगुणतरं कोपः। विशाख, त्वयि एतावान् क्रोधः किमर्थं वसति?
विशाखः मनाग् लज्जितः प्राह - किं करोमि? क्रोधो मां विनाशयेदिति जानामि, परन्तु क्रोधस्य नियन्त्रणे न प्रभवामि।
-- अपि जानासि वासुदेवेन किमुक्तम्?
-- ओह! पुनः स एव वासुदेवः! अयं न मुञ्चति भवन्तम्।
-- स मुञ्चेद् वा न वा मुञ्चेन्माम्। अहं तं न मुञ्चामि।
--- अस्तु तावत्। किमाह भवतां भगवान् वासुदेवः?
स आह - क्रोधस्य आत्मनैवात्मना वशीकरणं कार्यम्। अन्यथा क्रोधात् सम्मोहः स्यात्, सम्मोहात् स्मृतिनाशः स्यात्। तेन बुद्धिनाशः स्यात्। तेन च सर्वनाशः।
-- एतत्तु कथनं तस्य नोचितम्। अहं कुप्यामि, परं मम स्मृतिरुदग्रा वर्तते। अत एव भवतो वासुदेवस्य कथनं न निर्दुष्टम्।
-- अरे त्वया सह को विवादं कुर्यात्?
विशाख आह - "तात सूतपाद, मया एतेषु दिवसेषु विचारः कृतः यन्मयि एतावान् रोषः किमर्थं सम्भृतः। तत्र सन्ति त्रीणि कारणानि। वात-पित्त-कफेति त्रिविधाः धातवः शरीरे भवन्ति। एतेषां गुणप्राधान्येन शारीरकस्य प्रकृतिर्निर्धार्यते। मया भवान् दृष्टः, भवान् कफप्रकृतिकः, कफप्रकृतिका जनाः भवन्ति मृदवः, प्रकृत्या शान्ताः। अहं तावत् पित्तप्रकृतिः, पित्तप्रकृतयो जना भवन्ति उग्राः .....
-- उग्राः प्रचण्डाः भीषणतर्कपरायणाः - इति वक्तव्यम्।
विशाखोऽहसत्। सूतवर्योऽपृच्छत् - अथ वातप्रकृतयो जनाः कीदृशाः?
-- वातप्रकृतयः? यथा भवतां ठक्कुरराजः।
श्रुत्वा सूत उच्चैरहसत्। आह च - महान् आनन्दः। अस्तु इदं तु एकं कारणं ज्ञातं श्रीमतः मुहुर्मुहुः क्रोधपरवशत्वस्य यत् पित्तप्रकृतिकत्वम्। अन्यत् कारणद्वयं किम्?
द्वितीयं कारणं त्वेदत् भवितुमर्हति यन्मया सम्यग् विद्या नावाप्ता। विद्यया विनय आयाति। को नाम विनयः? विनयो नाम न केवलं विनम्रता। विशिष्टो नयः विनयः। तर्हि विशेषः कः कश्च नय इति तावच्चिन्त्यताम् --
सूतवर्य उभौ करतलौ संयोज्य अञ्जलिं बद्ध्वा कृत्रिमं विनयं प्रदर्शयन् अवदत् - एतावदेवास्तु महापण्डितप्रवर! नाहं विनयस्य स्वरूपं ज्ञातुकामः। भवद्भिर्विद्या न प्राप्ता इति तु नाहं स्वीकरोमि - भवादृशो विद्यासम्पन्नः कोऽपरः स्यात्?
-- अस्मिन् ग्रामे भद्रपुर्याम् .... कदाचिन्न स्यात्-- इत्युक्त्वा विशाखः पुनरपि व्यहसत्। अथाह - विद्यासम्पन्नोऽस्मि, परं विनयसम्पन्नो नास्मि।
--- अथ तृतीयं कारणं श्रीमतो रोषावेगानाम्?
-- अन्यच्च - तृतीयं कारणमिदं मया निश्चीयते तात यद् बाल्य एवाहं मात्रा वञ्चितः। भवद्भिरिह स्वकीये आख्याने वासुदेवस्य चरित्रं जेगीयते। वासुदेव एतावान् महान् किमर्थं जातः इति न विचारितं भवता - तेन मातुः स्नेहो सर्वतोमुखोऽवाप्तः - न केवलमेकस्या मातुरपितु द्वयोः मात्रोः --
(16)
यथा यथा समाजस्य सन्नाहः वर्धते तथा तथा विशाख उद्विग्नो भवति। कापि आशङ्का अन्तरन्तः सम्प्लवते। तस्मिन् दिने भैरवमन्दिरे दृष्टाः कापालिकाः तेषां रोषान्विताः परुषाः स्वराः मनसि आवर्तन्ते....
परन्तु सूतवर्यस्य लोकप्रियता अनुदिनं वर्धते। तस्य आख्यानेन भद्रपुर्यां किमपि परिवर्तनं जातम् इति विशाखोऽनुभवति। आख्याने आनन्दोऽपि द्विगुणायितः। कृष्णस्य चरित्रे मध्ये मध्ये गाथा विनिवेशिताः। ह्य एव गोपीभिः कृष्णस्य लीलाया निरूपणे राधाया इदम्प्रथमतया चर्चा सूतवर्येण विहिता। तत्रैव इयं गाथा तेन गीता -
मुखमारुएण तं कण्ह गोरअं राहिआए अवणेन्तो।
ताणं वल्लवीणं अण्णाण वि गोरअं हरसि।।
कृष्णो मुखमारुतेन फूत्कुर्वन् राधिकाया एकस्मिन् नयने निपतितं गोरजःकणम् अपनयति। अन्याः गोप्यो निर्वर्णयन्ति। ता राधिकायै स्पृहयन्ते, तस्यै असूयन्ति।
श्रोतार एतादृशीभिर्गाथाभिः उन्मत्ता इव भवन्ति, गायन्ति, नृत्यन्ति। विशाख एतस्मादानन्दसागरात् बहिर्भूतः। तस्मै वासुदेवस्य कृष्णस्य इयं लीला न रोचते। परन्तु जनास्तु अधिकाधिकं रज्यन्ते। तस्मिन्नेव दिने सूतवर्येण अपरापीयं गाथा प्रगीता -
णच्चणसलाहणणिहेण पासपरिसंछिआ णिउणगोवी।
सरिसगोविआणं चुंबइ कवोलपडिमागअं कण्हं।।
नर्तनस्य श्लाघाया व्याजेन एका गोपी अन्यस्याः कपोले प्रतिबिम्बितं कृष्णं चुम्बति।
कृष्णस्य वासुदेवस्य या या लीलाः सूतवर्यो वर्णयति स्म, ता अधिकृत्य विशाखस्तेन विवदते।
एवमेव सूतवर्येण क्वचित् विवादं क्वचित् संवादं क्वचित् वार्तां क्वचित् कथां कुर्वतो विशाखस्य भद्रपुर्यां समयो याति। सूतस्य कृते स नान्तरीयक इव जातः, सूतस्तस्य कृते नान्तरीयको जातः। भद्रपुर्यां ठक्कुरः अन्ये च वदन्ति - आकस्मिकतया अयं बालकः मिलितः, अनेन च तादृशः सम्बन्धो भवतां घटितो यथा जन्मान्तरीयः सम्बन्धः स्यात्!
विशाखो यदा वितण्डां वितनोति कुतर्कं वा कुरुते, तदा कदाचित् सूतवर्यस्तथा कटु वदति यत् तस्य वचनं विषाक्तः शर इव विशाखस्य मर्म भिनत्ति। तदा विशाखः सूतवर्याय द्वेष्टि, तस्मै कुप्यति, तस्मै द्रुह्यति। तस्मै स्पृहयतेऽपि। एतादृश एव प्रसङ्गे सूतवर्येण एकदा उक्तम् - विशाख, त्वमसि मुकुरमन्दिरमध्यस्थो वानरः।
- वानर इति मां भाषते भवान्। अथ किमिदं मुकुरमन्दिरं नाम?
- मुकुरमन्दिरस्य कथां न जानीषे? इयमपि कथा भगवता व्यासेन प्रोक्ता। शृणु। आसीत् राजा ब्रह्मदत्तो नाम वाराणस्याम्। तेन शृङ्गारप्रियायै(याः) स्वपट्टमहिष्यै(ष्याः) कृते मुकुरमन्दिरं निर्मापितम्। मुकुरमन्दिरं नाम तादृशं भवनं यत्र सर्वासु भित्तिषु मुकुराः जटिताः। एकस्मिन् मुकुरे यस्तस्य बिम्बस्तस्य बिम्बस्य समक्षवर्तिनि मुकुरे प्रतिबिम्बः, अथ तस्य प्रतिबिम्बस्य पुनरस्मिन् मुकुरे पुनःप्रतिबिम्ब इति बिम्बप्रतिबिम्बानां(म्) अनन्ता श्रेणी तत्र भवति। सा राज्ञी आत्मन एव अनन्ताश्छवीः प्रतिच्छवीश्च निर्वर्णयन्ती आत्मन एव रूपं केवलं निरीक्षते, निर्वर्ण्य निर्वर्ण्य मुग्धा भवति सा रूपगर्विता।
"एकदा तस्मिन् मुकुरमन्दिरे कश्चन मर्कटः प्रविष्टः। प्रविष्टमात्रः सोऽभित उभयतः परितः निकषा आत्मन एव प्रतिबिम्बान् विलोकयति। अरे किमेते एतावन्तो मर्कटा मां प्रहर्तुम् उत्पतन्तीति विचिन्तयन् स ततः पलायितुकामो यस्यां दिशि गच्छति तस्यामेव दिशि मुकुरमयभित्तिभ्य आक्रमणाय प्रधावन्तो मर्कटा दृश्यन्ते। उद्विग्नस्तर्जित इव स तान् प्रहरति।
"त्वम् आत्मनश्चैतन्यस्य मुकुरमन्दिरे स्थित आत्मनः प्रतिबिम्बान् विलोकयसि। एते प्रतिबिम्बास्त्वदीया एव, परन्तु तान् परकीयानिति कलयित्वा त्वं तान् प्रहरसि, तेन आत्मानमेव व्रणप्रहारैर्विघट्टयसि त्वम्।"
इत्युक्त्वा सूतो विहसन् तं च निध्यायन् स्थितः।
-- इयमपि कथा व्यासेनैव प्रोक्ता! कुतः व्यासप्रोक्ता स्यादीदृशी कथा? भवतां कृते सर्वमेव व्यासोच्छिष्टम्। तर्हि अनुच्छिष्टं किमपि न स्यात्?
--- विशाख, त्वं सत्यं विशाखोऽसि। विशाख इति शब्दस्य अर्थः अवगम्यते?
---कस्तावदर्थः?
--- शाखाहीनत्वाद् विशाख इति संज्ञा। विगताः शाखा यस्य स विशाखः। का नाम शाखा? शाखा तु सम्प्रदायः। सम्प्रदायो नाम परम्परा। तव शाखा नास्ति, सम्प्रदायं त्वं त्यक्तवान्। त्वया गुरुर्न प्राप्तः, गुरुमन्विष्यन् भ्राम्यसि। अथ कमपि गुरुमपि नो मन्यसे।
विशाखः क्षणं सूतम् अवलोकयन् स्थितः। अनन्तरं च पदान्तरेण किञ्चिदुपसर्प्य पृष्टवान् - तर्हि किं भविष्यति मे? मम किं स्यात्?
-- अयं प्रश्नो वा मयि आक्षेपो वा?
--- प्रश्नमेव करोमि भगवन्! - विशाखः मनाग् उद्वेजित इव आह - शाखारहितस्य सम्प्रदायविहीनस्य परम्पराच्युतस्य गुरुकृपावञ्चितस्यास्य जनस्य का गतिः स्यात् इदानीम् इति अत्र भवन्त एव वदन्तु।
-- वासुदेवः कृष्णः कथयति यत् शाखा भवतु मा वा भवतु, सम्प्रदायो भवतु मा वा भवतु, वेदानां ज्ञानं स्याद्वा न वा स्यात्। गुरुरपि नास्ति का क्षतिः। मनुष्यः स्वयमेव स्वस्य गुरुः। कोऽपि कस्यापि गुरुर्नास्ति। आत्मैवात्मनो गुरुः। आत्मना आत्मानमुद्धरेत्। आत्मैव अन्धकूपः। आत्मैव रज्जुः। आत्मैव घटः। आत्मनः कूपात् आत्मनो रज्ज्वा आत्मनैव आत्मा घट उद्धरणीयः।
श्रुत्वा विशाख उच्चैरहसत्। सनातनोऽपृच्छत् - अपि नामाहं श्रीमतां हासस्य कारणं ज्ञातुं शक्नोमि?
विशाखो हास्यं संहृत्य सविनोदमुवाच - पुनरपि तेनैव वासुदेवव्याधिना ग्रसितो भवान्। कोऽयं वासुदेवः किञ्चासौ कथयति? यादृशे कूपे स अस्मान् निपातयति तस्मात् कदापि उद्धारो न स्यात्। तस्य कृते तु वेदा अपि प्रमाणं न स्युरित्यहं पश्यामि।
- वेदेभ्यः यावत् प्रयोजनं सिध्यति तावत् साधनीयम्। वेदास्तु महासरोवरसदृशाः। तेभ्यो यावज्जलमपेक्ष्यते तावदेव गृह्णीमः। ते त्रैगुण्यविषयाः। मुक्तये तु नरो निस्त्रैगुण्यो भवेत्।
विशाखः सासूयवोचत् - तर्हि असौ वेदनिन्दकः। गुरुं प्रति श्रद्धामेव खण्डयति। एतादृशे खण्डनकरे कः श्रद्दधातु? अथ एतदपि पृच्छामि भवन्तं महापण्डितं यद् विगता शाखा यस्येति विशाख इति व्याकरणं कस्य? निरुक्तं किमाह इति जानन्ति भवन्तः? विशिष्टा शाखा यस्य स विशाख इति निरुक्तकाराः।
विशाखस्य रोषावेशं दृष्ट्वा सूतस्तूष्णीम्भूतः। अथ शनैराह - विशाख, अहमस्मि अल्पज्ञः सूतः। त्वमसि ज्ञानवान्। निरुक्तं किमपि भवति तत्त्वमिति मया अद्यैव ज्ञातम्। त्वादृशेभ्यः पण्डितेभ्यः यत्कमपि शृणोमि तदेव स्वप्रवचनेषु संयोज्य किमपि किमपि वदामि। मया विनोदः कृतः, न सत्यं वा तथ्यं वा तत्र।
तस्य विनयं वीक्ष्य विशाखः विगलितः। स आह - आर्य, भवतः पुरः अहमस्मि बालक एव। अतः यदि किमप्यनुचितं मयोक्तं तर्हि बालकस्य वचनं मत्वा क्षन्तव्योऽहम्।
तस्यां रात्रौ विशाखः सुखेन शयितुं नापारयत्। मनसि मुहुर्मुहुः लक्ष्मणपुरस्य स्मृतयो विपच्यन्ते। मल्लिकायाः कथनम् -- बालक, अहं पिशाची नास्मि। अथ तस्या रोदनम्। पिताऽपि गृहं विहाय प्रव्रजितः। तस्य सकलं कुटुम्बं विनष्टम्। तस्य माता नास्ति पिता नास्ति। स शिलालिरिव सञ्जातः।
शिलालिः लक्ष्मणपुरे ग्रामे ब्रह्मचारी आसीत्। तं सर्वे ब्रह्मचारिन्नित्येव समबोधयन्। सोऽपि सोमपीथीनां कुले जातः। परन्तु आजन्मनोऽनाथोऽनाश्रयश्च। केवलं भैक्ष्यचर्येण जीवनं निर्वहति। एकदा श्रेष्ठिना सुवदनेन सोमयागः कारितः। गोमत्यास्तीरे यज्ञमण्डपो निर्मापितः। सूतो यज्ञवेदिकाया निर्माणाय आहूतः। तत्र ब्रह्मचारी कः स्यादिति अध्वर्युभिः पृष्टम्। विशाखस्य पिताऽपि तस्मिन् सोमयागे होता अभवत्। तेनोक्तम् - ब्रह्मचारी तु वर्तते एव अस्माकं लक्ष्मणपुरे। पुंश्चली अपि वर्तते।
तस्य सोमयागस्य काश्चन एव स्मृतयो विशाखस्य मनसि शिष्टाः। ब्रह्मचारिणः पुंश्चल्या संवादस्तत्र भवति। तस्य कानिचित् वाक्यान्येव असौ स्मरति। पुंश्चली ब्रह्मचारिणं ब्रूते स्म - दुश्चरितिन् अवकीर्णिन् इति।
ब्रह्मचारी उदङ्मुखः स्थितः पुंश्चलीं ब्रूते - धिक् त्वां जाल्मि पुरुषस्य पुरुषस्य शिश्नपुणेजनि ..
विशाखश्चकितचकित उभौ निध्यायति। स तदानीं चतुर्वर्षीयो बालक एवासीत्। ये शब्दा ब्रह्मचारिणा शिलालिना उच्चार्यन्ते, ये पुंश्चल्या वा,तेषामर्थमसौ न जानाति, परन्तु ते शिष्टाः शब्दाः न सन्तीति अवगच्छति स्म। किमित्यवचनं प्रयुज्यते... किमर्थम् एतौ विवदेते....किमर्थं च एतादृशैः शब्दैः परस्परं दूषयतः?
परस्तात् गुरुवर्यैः सौम्यदेवैः सोमयागस्य प्रक्रिया अन्तेवासिभ्योऽध्यापिता। तत्रापि तेन पृष्टम् - दुश्चरित इति किमर्थं ब्रह्मचारिणं पुंश्चली प्राह? अवकीर्णी कः भवति?
सौम्यदेवा अवदन् - अरे मूढमते, सोमयागविधिर्वर्तते। तत्र आशयगवेषणे क आशयः?विधौ आशयो न भवति।
इदानीं त एव शब्दास्तस्य मनसि आहिण्डन्ते। पापविचारा मनसि आयान्ति। कीदृशा विचारा मनसि विपच्यन्ते? इदानीमात्मनियन्त्रणं करिष्यामि। एतादृशेभ्यो विचारेभ्यो मनसि अवकाशं न दास्यामि इति स सङ्कल्पं व्यदधात्।
अन्येद्युः प्रातरुत्थाय स पुरुषसूक्तं रुद्राष्टाध्यायीं चापठत्। एतयोः पावमानेष्वन्यतमत्वम्। इदानीं मासं यावत् तपः चरिष्यामीति सङ्कल्पं कृतवान्। ब्रह्मचर्यं सत्यवचनं सवनेषूदकस्पर्शनमार्द्रवस्त्रताम् अधःशायितां च तपांसि प्राहुः गौतमपादाः।
सूतवर्यस्य आख्यानेषु जनसम्मर्दो भवति स्म। श्रावं श्रावं जना हसन्ति जना रुदन्ति। परन्तु कोऽपि एकाकी न रोदिति, एकाकी न हसति। एकस्य अश्रुबिन्दवः पार्श्ववर्तिनो जनस्य अश्रुबिन्दुभिः साकं विगलन्ति। एकस्य हासः अन्येषां हासैः सङ्गमितो जायते। आख्याने जनानां मेलकं घटते, तस्मिंश्च मेलके अन्योन्यसङ्घट्टो भवति जनचेतनानाम्। चेतनाः प्रस्फुरन्ति, एकीभवन्ति।
तथापि विशाखस्य मन उत्कायते भद्रपुरीतो गमनाय - इतः प्रस्थानं कदा भवष्यति - स चिन्तयति। इयं भद्रपुरी मम विरामभूमिर्नास्ति - अत्र मया स्कन्धावारः कल्पितः बहु ज्ञातं बहु लब्धम्, परन्तु इदमासीत्यात्रायां मम एकं प्रस्थानम्।
कदाचित् बाल्यभावेन सोऽतितरां रुष्टः सूतेन विवादं कुरुते, कदाचिच्च उद्वेजितः जोषमास्ते। तदा सनातनसूतो विहसन् तं लालयति मानयति, कथयति च - वत्स, अलं रोषेण, पश्य, अहं तावत् सूतः। नाहं त्वत्सदृशः पण्डितः, न मया वेदाः वेदाङ्गानि चाधीतानि। केवलं पुराणमेकं पठामि निरक्षर इव ग्रन्थिकः।।
ग्रामे एका अपरा महती घटना सम्पद्यते इति अद्यैव विशाखेन ज्ञातम्। ठक्कुरेण श्रीकण्ठस्य स्वपुत्रस्य स्मृतौ एकः देवालयः सङ्कल्पितः। ग्रामस्य सीमान्ते स निर्मीयते। समाहर्ता स्वयमागत्य भूमेश्चयनाय अनुमतिमददात्। राज्ञ आज्ञापत्रमपि प्राप्तं काशीतः। सूतवर्योऽपि गत्वा गत्वा स्थपतेः कार्यं निर्वहति। स गत्वा वास्तुशास्त्रप्रमाणेन भूमेः पूर्वमेव चयनं कृतवान्। समा स्थिरा कठिना गौरी च अत्र मृत्तिका वर्तते - इदमेव शोभनं स्थानम्। प्रथमं शोधनं कारयित्वा लाङ्गलेन तत् स्थलं कर्षितम्। अस्थिकीलकपालतृणगुल्मानां शोधनं कृतम्। पुष्यनक्षत्रयोगे सूतवर्यः शुक्लेन सूत्रेण भूमिभागस्य मानं कृत्वा विभाजनमकरोत्। तस्मिन् दिने ठक्कुरेण भद्रपुर्याः सर्वे नागरिका आमन्त्रिताः।
विशाखः सनातनस्य वास्तुविद्यावैशारद्यं दर्शं दर्शं चकितः। देवालयनिर्माणविषये स कुत्र जगती, कुत्र गर्भगृहं कुत्र प्रदक्षिणापथ इति सर्वं निरधारयत्।
कदाचित् विशाखोऽत्यन्तं चिन्ताकुलो भवति। किमिदं सर्वं विपर्यस्तं जातम्। स सनातनसूतस्य वचोभङ्गीभिर्विमोहितः आत्मनः प्रयोजनं विस्मृतवान्। माता अन्वेषणीया गुरुश्चान्वेषणीय इति सङ्कल्पो गृहीतः। इदानीमस्य सूतवर्यस्य कृते पुराणप्रतिलिपिं करोमि। एतन्मया किमर्थं करणीयम्? यामि यामीति मनः कुरुते। एतादृशं चलचित्तं तं विलोक्य सूतः कथयति - जानाम्यहं यत् तव च मम च साहचर्यं चिरं न स्यात्। यतो हि त्वमसि नैगमिकः अहमस्मि आगमिकः।
-- को विशेष उभयोः, किमन्तरं वा आगमनिगमयोः?
- अहं मन्ये निर्गमनं यतः सर्वस्येति निगमः। अथवा किं कथयति भवतो निरुक्तकारः? आगमनं यतः यस्मिन् वा सर्वेषामित्यागमः। तव प्रस्थानं सर्वस्य अपरिग्रहमुपदिशति - विषयाणां त्यागः, कर्मणां त्यागः। तव पिता कर्माणि त्यक्त्वा संन्यासं श्रितवान्। परन्तु कर्माणि नरं मुञ्चन्ति किम्? वासुदेवः कृष्णो ब्रूते - एकस्मै क्षणायापि कर्म नरं न जहाति। अवशेन जनेन कर्म करणीयं भवति - कामं स परिग्रही भवेत् संन्यासी वा। यद्यवशं करणीयमेव कर्म, तर्हि किमर्थं कुशलतया न कुर्मः, येन कर्माणि परस्तान्न बाधेरन्। अत एव कर्मणां निग्रहो न करणीयः प्रकृतेरपि निग्रहो न करणीयः, प्रकृतिस्तु दुस्त्यजा। प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति?तर्हि अयमेव आगमः। यः स्वीकरोति प्रकृतिम्।
(17)
भद्रपुरीग्रामे निवसन् मासेन विशाखः सूतवर्यस्य पुराणप्रतिलिपिमपूरयत्। अन्तिमे च पत्रे तेन लिखितम् -
सूतप्रोक्तं पुराणं हि जीर्णपुस्तकसंस्थितम्।
एतद् ज्ञानमयं शास्त्रं सनातनमजं विभुम्।
प्रतिपङ्क्ति मयाऽधीत्य पुस्तकस्य नवा शुभा।
भद्रपुर्यां च मासेन मया प्रतिलिपिः कृता।
यादृशं पुस्तकं दृष्टं तादृशं लिखितं हि तत्।
भग्नपृष्ठकटिग्रीवो जातोऽहं लेखनात् तथा।
लिखितं विशाखेन कलियुगे कलिप्रथमचरणे युगाब्दाः शतम्, वैशाखकृष्णतृतीयायाम्। इति।
पुराणं पूरयित्वा स प्रसन्नः। ठक्कुरेणसहस्रं भोजपत्राणि एतत्कृते दत्तान्यासन्। तेषु शताधिकानि पत्राणि तस्य सविधे अवशिष्टानि। स तेषु स्वकीयानि छन्दांसि लिखति, सांख्यकारिकाकारेण ईश्वरकृष्णेन प्रोक्ता कारिकाः अपि स्मृत्वा स्मृत्वा स्वोपज्ञया चूर्णिकया समं लिखति।
अथ च पुस्तकं सस्मितंसूतवर्याय समर्प्य सोऽवदत् - गृह्णातु एतत्। मुञ्चतु च अस्य जनस्य पिण्डम्।
सनातनसूतवर्यः - अरे पूरितं किम्? साश्चर्यं वदन् प्रथमं पत्रमवालोकयत्। अहो रमणीयता अक्षराणाम्! तस्य मुखादवशमिव निस्सृतम्। अनन्तरं तेन अन्तिमं पत्रमुद्घाटितम्। लेखकस्य विशाखस्य पुष्पिका स्खलता स्वरेण तेन पठिता। सोऽपृच्छत् - अरे एतत् किं कृतम् त्वया? किमिदं स्वाच्छन्द्येन लिखितम्।एतानि व्यासवचनानि न सन्ति। कोऽत्राशयः? पुस्तकं तु अस्माकं पितृपरम्पराप्राप्तम्, त्वदीयं नाम अत्र किमर्थम्?
विशाखो विहसन्नाह - का हानिः? मया गृहे तथा आश्रमेऽपि पुस्तकानि दृष्टानि। ये लेखकाः पुस्तकानां लिपिं कुर्वन्ति ते एवं लिखन्ति।
--- परन्तु किं लिखितं त्वया, मया आशयो नावगम्यते?
--- अरे किमत्रावगन्तव्यम्? यादृशं भवतां पुस्तकं मया दृष्टं तादृशं लिखितं स्वमनसा किमपि तत्र न योजितम्, लिखंश्च लिखंश्चाहं भग्नपृष्ठकटिग्रीवो जातः।
श्रुत्वा सूतो व्यहसत्। विशाखोऽपृच्छत् - किमर्थं हासः?
सूतवर्य आह - येन प्रतिलिपिः कृता, स एव अमरतां यातु - ये सूताः पुस्तकस्य ज्ञानं मनसि निधाय प्रवदन्ति तेषां तु नामापि न --
-- भवतामपि नाम वर्तते तत्र - सूतप्रोक्तं पुराणमिति तु मया लिखितमेव। भवतां नामापि मया तत्र योजितम् -
-- योजितम्? - कुत्र? -
--पश्यतु भवान् - पठतु अत्र - अत्र लिखितम् - एतद् ज्ञानमयं शास्त्रं सनातनमजं विभुम् - अत्र भवतोऽपि नाम -
-- अहो महानानन्दः - पश्यन् पश्यन् विहसंश्च सूतो न्यगादीत्। अनन्तरं च अञ्जलिं मस्तके निधाय पुस्तकं प्रणतवान्। अथ तथैव विशाखमपि प्रणतवान्।
-- अरे! किमिदम्? विशाखः स्वपादौ पृष्ठतो नयन्नाह -- "अहं कथयामि... नाहं भवतां कृते प्रणम्यः"...
-- विशाख! त्वया इदमस्माकं वेदः, अयमस्माकं देवः, अयं हि भगवान् - त्वया पुनः सृष्टः - अतस्त्वं प्रणम्यः --
सूतो भावविह्वलः, नितरां गद्गदः। पुस्तकं नितरामादरेण शिरसि धारयित्वा स्थितः। तं तथा कृतज्ञतया अवनतमिव विशाखः पुनरप्यवदत् - - तात, लेखकस्य कर्तुश्च भवति अन्तरम्।अहमस्मि अस्य लेखकः, न कर्ता। लेखको नाम लिपिकारः।कृतिस्तु व्यासस्यैव, भवतां कृतिः, यतो हि भवानपि व्यासस्थानीयः। मम तत्र किमपि न। मया केवलं प्रतिलिपिः कृता।
-- न, इयं भवतामपि कृतिः। भवता इमानि अक्षराणि सृष्टानि। यत् भवता कृतं तत् तु परमं पुण्यप्रदम्। एतेन भवान् सर्वेषु श्रोत्रियेषु मूर्धन्यो जातः।
एतच्छ्रुत्वा विशाखो व्यहसत्। प्राह च - एतदेव युष्माकं पौराणिकानां विशेषो यद् धरित्रीमाकाशेन तुलयथ -
-- अत्र किमपि हास्यास्पदं नास्ति। सत्यं वदामि। पश्य, अकारो वासुदेवः, आकारश्च ब्रह्मा, कं ब्रह्म। एवमेवान्यान्यपि अक्षराणि देवमयानि। प्रत्यक्षरं देवाः निवसन्ति।एतानि अक्षराणि त्वया लिखितानि। समग्रोऽयं ग्रन्थ एव साक्षात् भगवान्। एतस्य त्वया सृष्टिः कृता।
-- इदानीमवगतम् अस्माकं युष्माकं च सम्प्रदाययोः को विशेषः।
-- को विशेषः?
-- वयं वैदिकाः। अस्माकं देवा अधिमानसं वसन्ति। तेषामाकृतिर्नास्ति, तेषां प्रतिमा नास्ति। वयं निराकारपूजकाः, निराकृतीन् देवानुपास्महे। निराकारवादिनः। यूयं पौराणिकाः। युष्माकं देवाः साकृतयः। मातृकाया अक्षराण्यपि युष्माकं दैवतानि।
-- विशाख, निराकारो वा भवेत् साकारो वा भवेत्। विष्णुस्तु विष्णुरेव। व्याप्नोतीति विष्णुः। य एव विष्णुः, स एव कृष्णः।
दूरम् उपविष्टः ठक्कुरस्तूष्णीमिदानीं यावत् सश्रद्धम् अनयोर्वातालापं शृणोति स्म।
अथ स प्राह - अहं श्रावं श्रावम् एतदेव विचारयामि यदत्र भवतोः द्वयोरपि को ज्यायान् - इदानीं मन्ये उभावेव परमपूज्यौ।
"अयमेव ज्यायान्" - सूतवर्यो विशाखं निर्दिशन्नवदत् - "अयं यथा लघुकायो दृश्यते राजन् ठक्कुर, तथा लघुरयं नास्ति। वामनावतारकथा मया प्रोक्ता आसीत् तस्मिन् दिने,अयमपि अस्माकं भगवान् वामनः। परन्तु विराट् वर्तते। अस्य अनुग्रहेण मम पुस्तकस्य उद्धारो जातः, एतदस्य महदवदानम्। इयं व्यासस्य भगवतः कृतिः, स खलु अस्माकं बन्धुः ----
विशाखः कथयति स्म- अहो इदानीं भगवान् व्यासो भवतां भ्राता जातः।कृष्णद्वैपायनो व्यासः सत्यवत्याःमहामुनेः पराशरस्य च सूनुः। यदि स भवतां भ्राता भवति तर्हि भवद्भिः कियता कालेन इदं धराधाम सनाथीक्रियते इत्यपि उच्यताम्।
सूतः पुनरपि व्यहसत्। प्राह च - अस्मिन् क्षुद्रे कलेवरे निवसतस्तु मम केवलं पञ्चाशद् वर्षाणि अतीतानि,परन्तु पञ्चसहस्राब्दम् आयुर्मम अवश्यं स्यात्।
-- सत्यम्, सत्यम् - अधरं च ओष्ठं च विकूणयन् विशाखः सोपहासमाह।
ठक्कुरोऽपि विहसन् ततो विनिर्गतः। विशाखः सूतवर्यमाह - एका गाथा मयाऽपि रचिता अद्य प्रातः। अपि श्रावयानि?
सूतवर्योऽवदत् - प्रथमः कल्पः। पर्वतात् स्रोत इव विशाखस्य मुखादियं गाथा विनिर्गता।
असरिसचित्ते दिअरे सुद्धमणा गुरुजणे विसमसीले।
न कहइ कुडुंबविहटणभएण तणुयायए त्थ बहू।।
श्रुत्वा सूतवर्योऽत्यन्तं चकितः स्तब्ध इव तं पश्यन् स्थितः। विशाखोऽपृच्छत् -कथं भवानेवं निध्यायति माम्?अपि नाम किमपि अतथा मया कृतम्?
सूतवर्यः शनैः गम्भीरस्वरेण अवदत् - गाथाया भावं किमपि किमपि अवगतवान्।
तथापि भवतो मुखादेव श्रोतुमिच्छामि कोऽभिप्रायोऽत्रेति।
- अभिप्रायस्तु न कश्चन विशेषः - विशाखोऽवदत् - "पश्यतु भवान्। देवरः असदृशचित्तो वर्तते, कुलवधूरस्ति सच्चरित्रा। गुरुजनास्तामुपेक्षन्ते। कुटुम्बविघटनभयात् सा देवरस्य अत्त्याचारं न कस्मै अपि कथयति, आत्मन्येवात्मना ग्लायति - इत्येवात्र कथितम्।
सूतवर्यः सस्मितं विशाखं निर्वर्णयन् निमेषद्वयं तूष्णीं स्थितः। अथासौ अवदत् -विशाख, एतत् सर्वं तु गाथां श्रुत्वा अहमपि अवगतवान्। गाथाया यद् रहस्यं तदपि अहं वेद्मि। मया पुत्री कालिन्दी बोधिता यथा सा आत्मानमपि रक्षेत्, ठक्कुरस्य कुलमपि रक्षेत्। भवतु, गाथेयमत्यन्तं रमणीया। पुनरपि एकवारं गाय तावत्।
विशाखः पुनस्तामेव गाथां गायति स्म। गाथां गायत आर्यकौण्डिन्यस्य स्मृतिस्तदीये मनसि उदिता। तस्य मुखाद् कियत्यो रमणीया गाथाः श्रुताः। स गाथा अपि बह्वीः जानाति। कथं गानं भवतीत्यपि जानाति।
उत्तरमन्द्रायाः स्वराः वायुमण्डले विकीर्णाः। तस्य स्वरलहरी भवनाभोगं पूरयतीव। सूतवर्य आह - अहो गीतस्य माधुर्यं स्वराणां च विशेषतः। त्वं कश्चन किन्नरोऽसीति मन्ये।
-- अरे किन्नर इति मां वदति भवान् - अपि नामाहं किन्नरसदृशः?
-- अस्तु, यदि किन्नर इति कथनेन रुष्यति भवान् तर्हि गन्धर्वो भवानिति वदामि। वस्तुतः भेदो नास्ति किन्नरगन्धर्वयोरित्यहं मन्ये। किन्नरा अपि गन्धर्वतुल्या एव। हिमालयस्य पादप्रदेशेषु वसाना जनाः किन्नराः किन्नर्यश्च कथ्यन्ते। तत उपरि निवसन्ति गन्धर्वाः। किन्नरा अपि भवन्ति सुरूपाः। गन्धर्वाणां रूपस्य तु कथैव का! अहं तु तव कण्ठस्य रागं प्रशंसामि। सङ्गीतशास्त्रे कण्ठस्य ये ये गुणा निगदितास्ते सर्वे त्वयि सन्तीति मन्ये।
-- के सन्ति ते गुणाः?
-- कण्ठगुणाः सन्ति षट् - सुश्राव्यत्वम्, घनत्वम्, स्निग्धत्वं, माधुर्यम्, अवधानता त्रिस्थानशोभा च। कपिलः, अव्यवस्थितः, संदष्टः, काकी, तुम्बकी इति पञ्च दुष्टा गायकाः। कण्ठाद् यदि श्लेष्मकारणात् घर्घरध्वनिरायाति गायनकाले तर्हि कपिलो गायकः, स्वरसंयोजने त्रुटिं करोति सोऽव्यवस्थितः। दण्डप्रयोगात् सन्दष्टः, रूक्षस्वरः काकी, नासाग्र ग्रस्तशब्दश्च तुम्बकी।
विशाखश्चकितः सूतवर्यं निध्यायति स्म। एतादृशमस्य शास्त्रज्ञानम्!
-- मया सङ्गीतं शिक्षितं परन्तु तथा रमणीयं गातुं न प्रभवामि - सूतवर्यस्तं वदति स्म -यदि त्वं गायसि, तर्हि मदीयमुपाख्यानमाख्यानं स्यात्।
-- आख्यानोपाख्यानयोः को विशेषः?
-- पश्य, समस्तमेव पुराणमाख्यानमेव। महाभारतम् आख्यानम्। तस्मिन्आख्याने भवन्ति बहूनि उपाख्यानानि। यथा सावित्र्युपाख्यानम्, नलोपाख्यानम्।
-- नलोपाख्यानमिति भवानाह, मया श्रुता भवद्भिर्यथा कथिता सा कथा। तत्र नलस्य किम्? तत्र तु सर्वं कर्म दमयन्त्याः। यथा सावित्र्युपाख्यानमिति कथ्यते, तथैव दमयन्त्युपाख्यानमिति वक्तव्यम्।
अस्तु, माऽस्तु नलोपाख्यानम्,दमयन्त्युपाख्यानमित्येवास्ताम्। एवमेव सावित्र्युपाख्यानं वर्तते,रामोपाख्यानं वर्तते। एताः कथाः उपाख्यानत्वेन किमिति व्यपदिश्यन्ते? आख्यानान्तर्गतत्वात्। उपाख्यानमेव साभिनयं सङ्गीतसमन्वितं यदि प्रस्तूयते, तर्हि आख्यानसत्तां तल्लभते। यदि त्वं मयि उपाख्याने कथयति, मध्ये मध्ये गायसि,तर्हि अस्माकम् उपाख्यानम् आख्यानं भविष्यति।
पुराणप्रतिलिपिकार्ये अवसिते रिक्तता अनुभूयते। इदानीं किम्?इदानीमितो गमनीयम्। सनातनसूतस्य विचित्रैव प्रकृतिः। अयं यत्र तिष्ठति तत्रैव रमते। सः कथयति - विशाख, ममानुरोधेन यावत् तस्मिन् नवनिर्मिते देवालये वासुदेवस्य प्रतिष्ठा भवति तावत् अत्रैव तिष्ठ।
विशाखस्य मनो दोलायते। सूतवर्यस्य सन्निधौ महान्तम् आनन्दम् अपि असौ अनुभवति, इयं च सन्निधिर्मया त्याज्या अग्रे गमनीयमित्यपि अनुभवति। अपि नाम तिष्ठामि भद्रपुर्याम्? विशाख आत्मना आत्मानं पृच्छति स्म।
मनसः कस्मिंश्चित् कोणे कश्चन तं बोधयति स्म - इदं तव स्थानं नास्ति, इदं ते प्रस्थानम्। अपसर इतः। अग्रे चल इतः। तथापि सोऽन्यथापि विचिन्तयति स्म -अन्या गतिर्नास्ति। सनातनसूतो यादृशस्तादृशः किन्तु तस्य सङ्गतिर्मां रक्षिष्यति।
देहोऽग्रे गन्तुं सन्नह्यते। मनस्तु पृष्ठतो धावति। लक्ष्मणपुरे अतीता दिवसा मुहुर्मुहुः स्मृतिपथमुपयान्ति। स्मृतौ अवतरतः मातुर्नयने। विशाले ते नयने तस्याः, ताभ्यां विनिर्यान्ती करुणाधारा। महाप्रयाणकाले तया प्रसारितो दक्षिणकरतलः, येन सा तस्य मूर्धानं कपोलौ च परामृशत्। .....स्मृतौ अवतरति गोमती नदी। गोमतीरपि मातृतुल्या। तस्याः सैकतोत्सङ्गे विपाकेन सह असकृत् स शयितः। गोमत्यास्तटे कतिवारं सोऽटाट्यामकरोत् विपाकेन सह।....माता स्वप्ने तमाह्वयति। सैकतोत्सङ्गसुखोचितैः पयोभिः परिवर्धिता गोमतीरपि तरङ्गहस्तैराह्वयन्तीव स्वप्नेषु दृश्यते।
उपनयनात् प्राग् विपाकेन साकं स गोमत्यां तरन् अपरे तीरे नैककृत्वोऽगच्छत्।
अपरतीरे अकृष्टपच्या भूमिः। नदीमातृका देशाः समन्तात् वितताः गोमती येषां सामान्यधात्री।
सैव क्षेत्राणि सिञ्चति।
एकतो लक्ष्मणपुरस्य स्मृतयो विशाखस्य मानसं न मुञ्चन्ति, अपरत इदं गृहं भद्रपुर्यां ठक्कुरस्य। अत्र तु समधिकतरं विषादपिनद्धाः स्मृतयः।ठक्कुरस्य गेहे सर्वत्र दिवङ्गतस्य तनयस्य श्रीकण्ठस्य स्मृतय आहिण्डन्ते। एताभ्यः स्मृतिभ्योऽस्य गृहस्य मोक्षः स्यात् किम्? ठक्कुरेण एतेषु दिवसेषु विशाखस्य पुरः स्वहृदयस्य कपाटौ अनावृतौ। स वारं वारं दिवङ्गतस्य श्रीकण्ठस्य चर्चां करोति। चर्चां कुर्वाणोऽश्रुप्लावितो भवति। श्रीकण्ठस्य कापि च्छविः सर्वस्मिन् ग्रामे राजते।
ठक्कुरः कथयति स्म - सर्वे जना अस्या भद्रपुर्यास्तस्मिन्ननुरक्ताः। सर्वे तं सदैव द्रष्टुं वाञ्छन्ति। सर्वेषां स नेत्रतारकोऽभूत्। एते गाथे तदानीं भद्रपुर्या युवतयस्तस्य विषये गायन्ति स्म -
णिक्किव जाआभीरुअ दुद्दंसण णिम्बईडसारिच्छ।
गामो गामणिनंदण तुज्झ कए तह वि तणुआइ।
पहरणमग्गविसमे जाआ किच्छेण लहइ से णिद्दं।
गामणिउत्तस्स उरे पल्ली उण सा सुहं सुवइ।।
सूतवर्यः श्रावं श्रावं कथयति स्म - श्रीकण्ठो नाम साक्षात् विष्णुः। स विष्णुलोकमेव प्रयातः। विष्णुस्तु कृष्ण एव।
अथ समागताः वर्षाः। धरित्री शस्यश्यामला। कर्षकाः वपनमारेभिरे। ठक्कुरः कथयति - मन्दिरं निर्मीयते - यावन्निर्माणं पूर्णं न भवति तावत् अत्रैव तिष्ठन्तु। वर्षासु गमनमपि दुष्करं स्यात्। सनातनस्य सूतस्यापि भद्रपुर्यां मनो रमते स्म। स विशाखमाह - विशाख द्वित्रान् मासान् इहैव तिष्ठामः।
विशाखो विषण्णः। चैत्रे सोऽत्र समागतः। सम्पूर्णे वैशाखे सूतवर्यस्य पुराणपारायणं श्रुतम्, तेषां पुराणग्रन्थस्य प्रतिलिपिः पूरिता। इदानीम् अत्रत्यं कार्यमवसितम्। किमर्थमत्र स्थेयम्? सआह - मम मनो नोत्सहते। कस्मै प्रयोजनाय विनिर्गतः कस्मिन् प्रपञ्चे लग्नः।
-- एवं किमर्थं भणसि?
-- भद्रपुर्यां मम निवासस्य इदानीं प्रयोजनं नास्ति।
-- सत्यं त्वत्कृते अत्यन्तं लघुरेवायं ग्रामः। अस्तु, इदानीमेक एव मासः। अहमपि गमिष्यामि नैमिषम्। त्वं यास्यसि तक्षशिलाम्।
-- एकमासः?अनन्तरं भवता कनखलं गन्तव्यं नैमिषं वा?
-- अस्तु प्रथमं त्वया सह कनखलमेव यास्यामि। तत्र वाग्भटोऽपि दृश्येत।
विशाखः किमपि विमृशन् तूष्णीं स्थितः। सूतवर्यस्तं स्थिराभ्यां नयनाभ्यां कांश्चित् क्षणान् निरवर्णयत्, अनन्तरमाह - तव चरणयोः द्वे चक्रे बद्धे इति मन्ये। त्वं कुत्रापि स्थिरं न निवत्स्यसीति पश्यामि, यदि क्वचित् स्थिरः तिष्ठसि तदा..... -इति वदन्नेव मध्येऽसौ व्यरमत्।
-- तदा किं स्यात्? विशाखोऽपृच्छत्।
-- तदा किमपि अघटितं घटिता - गम्भीरं धीरं च मन्दध्वनिना स न्यगदत्।अथ पुनरुच्चैरवदत् विशाख, त्वं मेधावी असि, प्रज्ञावानसि। तीक्ष्णा ते स्मृतिः, जागरिता च प्रज्ञा। यदि सम्यगध्येषि तर्हि विचक्षणो भविष्यसि, आचार्यो भविष्यसि।
वर्षाः विगताः। शरद् ऋतुः समागतः।
तस्मिन् दिने गोपाष्टमी अभवत्। सर्वे आभीरदेवं पूजयन्ति स्म। तदनु एकादशी समायाता। देवोत्थापनं करणीयम्। इक्षुकाण्डा आनीताः। सूतवर्येण तुलसीविवाहोत्सवः कारितः। अथ भद्रपुर्यां महान् समाजोऽभवत्। यद्यपि प्रतिवर्षं वैष्णवा एतादृशं समाजमायोजयन्ति स्म, परन्तु ठक्कुरस्य उत्साहेन सूतवर्यस्य च सान्निध्याद् ऐषमो यादृश उत्सवः समाजे अजायत स तु अभूतपूर्व एव।
(18)
सर्वं यथाचिन्तितम् अभविष्यत्, यदि दुर्दिनमिव तद्दिनं नायास्यत्। तस्मिन् दिने सर्वं विपर्यस्तं जातम्।
तस्य स्मृतिरपि दंशं ददाति।
भद्रपुर्यां तद्दिनं स्मरति स्म विशाखः। जना रोरुद्यमानाः। कृष्णस्य महाप्रयाणं वर्णितम्। कृष्णमन्दिरे श्रीकण्ठस्यापि प्रतिमा स्थापिता। विशाखेन दृष्टं जना यथा कृष्णं पूजयन्ति, तथैव श्रीकण्ठं पूजयन्ति।
सर्वथा अभूतपूर्व एव देवालयः श्रीकृष्णस्य निर्मापितः ठक्कुरेण। भव्या प्रतिमा, वंशीं वादयतः श्रीकृष्णस्य, पार्श्वे राधायाः। एतादृशी रमणीया प्रतिमा विशाखेन अन्यत्र नावलोकिता।
महान् उत्सवः सञ्जातः। शनैः शनैः प्रणम्य सूतं च विशाखं च जनाः प्रतिनिवृत्ताः। केवलं ठक्कुरः ईश्वरीदेवी वधूः कालिन्दी सनातनः सूतः विशाखश्च इति पञ्च जना
देवालये अवशिष्टाः। दूरे केचन कर्मकराः शाकटिकौ च उभौ आस्ताम्। विशाखो मनसि
किमपि अस्वस्तिकरमिवानुभवति स्म। दूरात् कोलाहलोऽश्रूयत। सूतवर्यः ठक्कुरं भणति स्म
- "इदानीम् इतः प्रस्थानं करिष्ये, मम कार्यमवसितम्, विशाखेन पुराणं लिखितम्, महत्कार्यं पूरितमनेन। अनेनापि इदानीं गन्तव्यम्।"
कालिन्दी भक्तिभावेन सनातनं सूतं प्रणमति स्म। तदानीमेव तत्सर्वं सहसा घटितम्।
बहिरत्यन्तं कर्कशेन स्वरेण कश्चिद् वदति स्म - एतान् वासुदेवमतानुयायिनो निहन्मः।
"अरे, अयं तु लम्बकर्णो नाम कापालिको वर्तते।" - विशाखस्य मुखाद् यावदिमे सप्त शब्दा विनिर्गच्छन्ति तावदेव लम्बकर्णः स्वकीयशिष्याभ्यां सह देवालयं प्रविष्टः। त्रिभिरपि स्वस्वदक्षिणहस्तेषु त्रिशूलानि धृतानि।
भीषणास्तेषामाकृतयः, मदिरपानक्षीबा घूर्णमानास्ते आसन्। "नाराच, तूणीर – विनाशयताम् इमां लीलाम्" - कापालिकः कथयति स्म। "अयमेव वर्तते अस्या लीलायाः सूत्रधारः!" - स सूतवर्यं सङ्केतयति स्म। यावद् विशाखः किमप्यवगच्छति, तावदेकः तस्य कापालिकस्य शिष्यो नाराचस्त्रिशूलमादाय सनातनं प्रहर्तुमपसृतः। अपरः शिष्यः तूणीरः ठक्कुरेण सङ्घट्टितः, ठक्कुरेण सोत्फालं तस्य कर्णोपान्ते प्रहारः कृतः। स रक्तं वमन् भूम्यां निपतितः।
"विरम, विरम" - विशाखो नाराचमाह। - अयमेव नाराचो भैरवमन्दिरे तं सन्ध्योपासनान्निवारयति स्म - "अरे किं करोषि? कथमिदं भैरवस्य स्थानं मलिनीकुरुषे -त्वया अत्र वेदमन्त्राः पठिताः....गुरो, अयं कश्चन वटुः। अयमपटुः पटपटायते - मन्त्रान् वाचयति" -- इति तदीयानि वचनानि सहसा स्मृतौ स्फुरितानि। तत्क्षणमसौ स्वकर्तव्यं निरधारयत्।
विशाखः सहसा झम्पां दत्त्वा नाराचस्य हस्तमगृह्णात्, हस्ते दन्तैरदशत् - अरे गुरो, अनेन बालकेन वानरेणेव दष्टोऽस्मि, स चीत्कृत्य यावद् वदति तावद् विशाखस्तस्य हस्तात् त्रिशूलमच्छिनत्।
परन्तु तावदेव कापालिको लम्बकर्णः त्रिशूलमादाय सनातनं प्रहर्तुमग्रेसृतः। तात, तात - यावद् विशाखो वदति - - "अरे त्वं वासुदेवस्य धर्मं प्रचारयिष्यसि अस्मिन् अस्माकं ग्रामे! अयमिदानीं त्वं न भवसि - इदानीं रक्षतु त्वां तव वासुदेवः!" - इति कथयन् स त्रिशूलेन सनातनस्य उदरं व्यदारयत्।
"अरे किं क्रियते - किमिदम् -व्यासमुनौ प्रहारः, किं त्वया कृतं,
दुष्टकापालिक!" -इति यावत् ठक्कुरो वदति, तावत् स ठक्कुरमपि प्रहर्तुं सन्नद्धोऽभवत्।
तदानीमेव सर्वथा अप्रत्याशितं किमपि घटितम्। विशाखस्तु कापालिकशिष्येण
नाराचेन सङ्घट्टते, नाराचस्य त्रिशूलं तु तस्य हस्ते परन्तु अपरः शिष्यः तूणीरोऽपि त्रिशूलमादाय तं निध्यायति प्रहर्तुम्। सहसा त्रिशूलेन ठक्कुरं प्रहर्तुमुद्यतस्य लम्बकर्णस्य हस्तात् कालिन्दी विद्युदिव सोत्फालं सरभसं च त्रिशूलमाच्छिनत्, लम्बकर्णः तस्या वेगेन आहत इव भूमौ निपतितः - कालिन्दी त्रिशूलहस्ता तस्य वक्षसि पादमेकं निधाय --"अरे नीच अयमिदानीं न भवसीति इति कथयन्ती यावत् त्रिशूलेन तस्य कण्ठे प्रहारं करोति, तावद् भूमौ निपतितः सूतवर्यः प्राह -- मा तावत् पुत्रि मैनं प्रहर - मम यज्जातं तज्जातम्।
भूमौ निपतितः कापालिको लम्बकर्णःसकरुणम् अञ्जलिं बद्ध्वा कालिन्द्याः चरणयोर्मस्तकं निधाय प्राह - देवि, क्षमस्व, क्षमस्व, मया त्वं न ज्ञाता - भगवती त्वम् - त्वं भैरवी - त्वं दुर्गा --
-- जय जय जननि, जननि जय जय - जय मातः त्रिपुरेश्वरी भुवनेश्वरी अम्बिके अम्बालिके --
इति यद्वा तद्वा स्तुतिभिः साकं प्रलपन्तं तं लम्बकर्णं कापालिकं कालिन्दी गाढं चरणेन जघान, स "आह"-इत्युच्चार्य मूर्च्छित इव अशेत।
स्वस्य गुरोरेवंविधम् अप्रत्याशितं दैन्यं दृष्ट्वा तस्य शिष्यौ नाराचः तूणीरश्च सभयं चकितचकितौ कम्पमानाभ्यां कराभ्याम् अञ्जलिं बद्ध्वा तूष्णीं स्थितौ।
ठक्कुरः उच्चैश्चीत्कृत्य शाकटिकौ राङ्कव-सोड्ढलौ आहूतवान् -सोड्ढलो गाथां गायति स्म, राङ्कवस्तम् अंसे गृहीत्वा दोलयित्वा अवदत् - अरे स्वामी आह्वयति!
तत्क्षणम् उभौशाकटिकौ धावितौ।
विशाखः परस्तात् तां घटनां स्मृत्वा चकितो भवति - तस्मिन् समये कथम् एतावती शक्तिस्तस्मिन् समुदिता, यद् द्वादशवर्षीयोऽसौयुवानं तं नाराचं धृत्वा स्थितः, उभौ शाकटिकौ कालिन्दीं कापालिकस्य वक्षसि चरणं निधाय प्रहर्तुमुद्यतां विलोक्य भयचकितौ इव स्तब्धौ इव अतिष्ठताम्, ठक्कुरः शाकटिकौ राङ्कव-सोड्ढलौसमागतौ विलोक्य ससम्भ्रमं चीत्कृतवान् - - अरे मूढौ, किमवलोकयथो युवाम्? अपि नामात्र नाट्यं भवति? गृह्णीत एनं कापटिकं कापालिकम्, अनेन महाननर्थः कृतः, व्यासमुनौ प्रहारः कृतः।
श्रुत्वा तौ त्वरितौ। उभाभ्यां कापालिको लम्बकर्णो विधृतः, अथ त्रयोऽपि विधृताः।
-- "प्रथमं तु व्यासमुनीन् पश्यामः , तेषाम् उदरे त्रिशूलं लग्नम्" - ठक्कुरः प्राह -
सूतवर्यः धरित्र्यां पतितो मूर्च्छितश्च। मध्ये मध्ये संज्ञां लब्ध्वा किमपि मन्दमस्फुटमालपति।
त्रीनपि कापालिकान् हन्तुमुद्यतौ तौ शाकटिकौ सूतवर्यः अत्यन्तं क्षीणस्वरेण निवारयति स्म, तस्य सङ्केतमवबुध्य विशाख उच्चैस्तौ समबोधयत् - अरे मुनिवर्यस्य आदेशः, एते त्रयोऽपि न हन्तव्याः, राजा न्यायं कुर्यात्, नैष अस्माकम् अधिकारः।
कोलाहलं श्रुत्वा समीपवर्तिषु क्षेत्रेषु कार्यं कुर्वाणा द्वित्राः हालिकाः पञ्चषाः पामराश्च प्रधाव्य आगताः। कापालिकः सशिष्यो विधृतः।
-- क्षम्यताम्, क्षम्यताम्, नात्र अस्माकं दोषः, तेन डिण्डिमेन भवतां पुत्रेण सालङ्केन वयं नियुक्ताः - कापालिको लम्बकर्णः इदानीं प्रह्वः सन् वदति स्म।
- अरे किमिदं व्याहृतं त्वया? - रोषाध्मातश्ठक्कुरस्तं तर्जयति स्म।
- महाभाग, सत्यमाह अस्माकं गुरुः, भवतां पुत्रस्य राङ्कवस्य तेन डिण्डिमपण्डितेन सन्धिर्जातः। सूतवर्यस्य वधः, अनन्तरं भवतां पुत्रवध्वाः अपहरणं काश्यां वेशवाटे चेयं प्रापणीयेति तेषां योजना आसीत्।
श्रुत्वा सर्वे स्तब्धाः। सूतवर्यस्य उदरात् रक्तं स्रवति, इदानीम् ईश्वरीदेवी चैतन्या जाता, सा देवालयादेव बहूनि वस्त्राणि आनीतवती हरिद्रां च।
-- सर्वथा नवीनानि कोमलानि कार्पासवस्त्राणि सन्ति, एतेषां पट्टिकाः कृत्वा हरिद्राया लेपेन बध्नीमः -सा अवदत्। शाकटिकाभ्यां हरिद्रायाः खण्डाः पिष्टाः - व्यासमुनीनामुदरे बध्नीमः - कालिन्दी सा च पट्टिका निर्माय ताभिः सूतवर्यस्य रक्ताक्तम् उदरं बध्नीतः स्म।
अथ यथा कथञ्चित् सनातनः शकटं यावद् आनीतः शकटे च शायितः। "इदानीमितो व्रजामः"-श्रेष्ठी रमणः प्राह। विशाखः सनातनस्य दशां दर्शं दर्शं व्याकुलो भवति - आशङ्कास्तस्य मनसि आहिण्डन्ते - किमिदं जातम् - कीदृशमत्याहितम् -
-- पुत्रि, उत्थापय मुनिवर्यम्, त्वया अद्य वयं त्राताः, इदानीमेतदपि त्वयैव करणीयम् - ईश्वरीदेवी स्वपुत्रवधूं सगद्गदं निगदति स्म।
-- कालिन्दी ईश्वरीदेवी च उभे सूतवर्यमुत्थापयतः स्म।
शकटे शायितः सूतः। तस्य पार्श्वे रमणः विशाखश्च उपविष्टौ। इदानीं विशाखस्य मनसि भयच्छायावतीर्णा। यत्किमपि घटितं तस्य भयावहता इदानीं विकरालं रूपं धृत्वा सम्मुखमाविर्बभूव। अयं तु महाननर्थो जातः -तस्य मुखान्निःसृतम्!
सूतवर्यो मूर्च्छितः। तस्य मुखात्तथापि वासुदेव वासुदेव इति निस्सरति।
ठक्कुराणी ईश्वरी रोदिति स्म, वारं वारं पुत्रवधूमालिङ्गति स्म - पुत्रि, त्वया मम भर्ता रक्षितः, अद्य अहमपि विधवा अभविष्यम्, अहं जानामि राङ्कवस्य दुश्चरितानि। ज्ञात्वापि स मया न वारितः, एकस्तनयो मम गतः, अपरस्तु कामं दुर्वृत्तः, तथापि जीवतु इत्येव वाञ्छामि स्म।
कालिन्दी अपि इदानीं रोदिति स्म।
ठक्कुरस्ते प्राबोधयत् - - इदानीं रोदने कालो न नेतव्यःयदि राङ्कवस्यापराधस्तर्हि सोऽपि दण्डभाग् स्यात्- व्यासमुनेः चिकित्सा शीघ्रं कारणीया - अन्यथा अनर्थो भवेत् - व्रणो वर्तते गम्भीरः -
सूतवर्यः अचेतनावस्थायां किमपि किमपि मन्दं मन्दं प्रलपति - विशाखः शकटे तस्य पार्श्वे उपविष्टः, स विशाखस्य हस्तं हस्ते दृढं गृह्णाति - अपरे पार्श्वे ठक्कुर उपविष्टः। स यत्किमपि सहसाघटितं तेन इदानीमपि चकित इव आहत इव किङ्कर्तव्यविमूढ इव वर्तते।
सूतवर्योऽत्यन्तं क्षीणस्वरेण अवदत् - वाग्भटः.....
ठक्कुरश्चिन्तातुरः पृच्छति स्म - विप्रवर, किं कथयन्ति मुनयः? -
विशाखः इदानीं स्वस्थः। किं करणीयम् इति चिन्तयति स्म। अवददसौ ठक्कुरम् - "राजन्, वाग्भटोऽस्य तनयो वर्तते मम मित्रम् -परन्तु स वर्तते हरिद्वारे, तं द्रष्टुमभिलषति तातः सूतः। स कथमानेतव्यः...
-- "अलं चिन्तया" - ठक्कुरो ब्रूते स्म - "तत्सर्वं साधयिष्यामःप्रथमं तु व्यासमुनयः स्वस्थाः भवन्तु..."
सूतवर्यश्चैतन्यो वर्तते श्वासः प्रचलति, केवलं पीडातिरेकातन्मुद्रितनयनः, मूर्च्छितो वा..कष्टेनोच्छ्वसिति।
ठक्कुरः शाकटिकं राङ्कवमाह -- राङ्कव, शनैश्चालय शकटम्, वैद्यस्य निधिदत्तस्य गृहं यास्यामः। तमपि वद सोड्ढलं स कालिन्दीं श्रीकण्ठमातरं च गृहं नयतु।
राङ्कवः शिर उन्नमय्य उच्चैः अपरं शाकटिकं सोड्ढलं अवदत् - भवनं याहि! वयं वैद्यस्य गृहादागच्छामः।
कालिन्दी अवदत् - न, यावत् व्यासमुनयः स्वस्था न भवन्ति वयं गृहं न यास्यामः।
सर्वे द्वाभ्यां शकटाभ्यां समं प्रचलिताः।
दिष्ट्या वैद्यो निधिदत्तो गृह एव मिलितः। द्विभूमिः तस्य सौधः। पृष्ठत उद्यानम्। रमणस्तं दृष्ट्वा साञ्जलिराह - वैद्यराज, महानयमस्माकं परीक्षाया क्षणः। व्यासमुनयस्तेन कापालिकेन प्रहृताः, उदरं विदीर्णम्।
वैद्यो निधिदत्तः सूतवर्यस्य दक्षिणं करम् अग्रहस्तेन गृहीत्वा क्षणं नाडीं परीक्षमाण आस। गम्भीरा तस्य मुखाकृतिर्लक्ष्यते। विशाखस्य प्राणा कण्ठगता इव।
अन्ततो निधिदत्तोऽवादीत् - "चिन्ताया विषयो नास्ति - रुधिरं तु अधिकं निरगलत् तथापि व्रणो गम्भीरो नास्ति.."
तत्क्षणं निधिदत्तस्य आदेशेन सेवकाः रक्तप्रवाहनिरोधकरं क्षीरं करञ्ज-एरण्डेङ्गुदीबीजैर्विनिर्मितं तैलं च व्रणोष्ठसीवनाय उपकरणानि च आनयन्।
-- दिष्ट्या मर्म न क्षतम्।" - निधिदत्तः ससन्तोषं प्राह।
-- मर्म किं भवति? "-- ठक्कुरः पृच्छति स्म।
निधिदत्तः सनातनस्य व्रणात् श्यानीभूय संसक्तं रक्तं मार्जयति स्म।
-- शिरो हृदयं वस्तिश्चेति त्रिविधं मर्म भवति। नाभेरधोदेशः जत्रूर्धमपि मर्म। हृदयं तु परमं मर्म। विशाखः ठक्कुरम् अत्यन्तं मन्द स्वरेणाह।
निधिदत्तश्चकितः परावृत्य तमपश्यत् - अरे, भवान् बालकः, परन्तु भवता वैद्यकशास्त्रमधीतं, सप्रमाणं च वक्ति भवान्! - स आह।
-- वैद्याश्चिरजीविनः मम बाल्यमित्रस्य विपाकस्य पितृचरणाः। तैः कदाचित् किञ्चिदधीतम् - विशाखोऽब्रवीत्।
श्रुत्वा निधिदत्तः शिरसि अञ्जलिं निबद्ध्य आह - अरे अपि श्रीमता लक्ष्मणपुरस्थानां परमपूज्यानां वैद्यानां चिरजीविनां नाम कीर्तिम्?
- अथ किम्? - विशाखोऽब्रवीत् - अपि नाम ते परिचितपूर्वाः अत्रभवताम्?
- ते तु मम ज्येष्ठाः सतीर्थ्याः मया च तैश्च तक्षशिलायां वैद्यकशास्त्रमधीतम्। तेषां रुचिरासीदौषधशास्त्रे मम च शल्ये - मम गुरुव आसन् सुश्रुतपादाः -
यद्यपि विशाखः वयसा केवलं द्वादशवर्षीयः बालकः, तथापि तस्य मतिवैलक्षण्यं विज्ञाय निधिदत्तः मित्र इव तस्मिन् व्यवहरन् वार्तां करोति स्म। विशाखः तस्य शल्यज्ञानं दृष्ट्वा अत्यन्तं विस्मितः। स तमवदत् - आर्य, मया तातपादाभ्यां चिरजिविभ्यां शालाक्यं कायचिकित्सा च किञ्चिदधीता, परन्तु शल्यविषये त आहुः - नैतद् युष्मादृशां बालकानां कृते। अस्य कृते अत्यन्तं नैपुण्यमपेक्ष्यते।अगदतन्त्रं कौमारभृत्यं रसायनतन्त्रमपि तैः मम च स्वपुत्रस्य विपाकस्य च कृते परिहृतम्। यदि युवानौ भवथ तदा शिक्षयिष्यामि इति च कथितम्।
बहोः कालं यावत् निधिदत्तो विशाखेन वार्तामकरोत्। स तं स्वशस्त्राणि अदर्शयत्। चतुर्विंशतिविधानि तावन्त्येव स्वस्तिकयन्त्राणि च, सन्दंशयन्त्राणि, विंशतिविधानि तालयन्त्राणि, अष्टाविंशतिप्रकारकाणि शलाकायन्त्राणि पृथक् पृथक् तेन मञ्जूषासु सन्निधापितानि। मण्डलाग्र-करपत्र-वृद्धिपत्र-नखशस्त्र-मुद्रकोत्पलपत्रकार्धधार-सूची- कुशपत्राटी मुख-शरारिमुखान्तर्मुख- त्रिकूर्चक- कुठारिका- ब्रीहिमुखारा- वेतस- पत्रक- बडिश- दन्त - शङ्क्वेषण्येति विंशतिप्रकारकाणि शस्त्राण्यपि अत्यन्तं व्यवस्थितया मञ्जूषायां तस्य आसन्। व्रणबन्धनद्रव्याणि क्षौम-कार्पासाविक-दुकूल-कौशेय-पत्रौर्ण-प्रभृतीनि पृथक् स्थापितानि आसन्।44
ठक्कुरो वीरः, युद्धेषु असकृत् प्रकटितभीष्मसमासमभीष्मपराक्रमोऽपि स्वपूज्यस्य व्यासमुनेरेतादृशीं दशां द्रष्टुं नाशक्नोत्। स बहिर्गत्वा रुदति स्म। निधिदत्तः व्रणं सीव्यति स्म। विशाखो महता कौतुकेन व्यलोकयत्।
अथ निधिदत्तो यत्र उदरं विदीर्णं तत्र कवलिकां ददाति स्म।
निधिदत्तो विशाखस्य उपस्थित्या प्रसन्न इति विशाखेनानुभूतम्। स मध्ये मध्ये किमहं करोमि कथमहं करोमीति व्याचष्ट। सुश्रुतेन चतुर्दशबन्धभेदाः व्याख्याताः, उदरे विबन्धो युज्यते इति मया स एव विहितः। तत्रापि अधिकः गाढः बन्धो नोपादेयः इति सुश्रुतपादा आहुः, मया सम एव बन्धः कृतः।- निधिदत्तः कथयति स्म।
विशाखः सर्वथा चमत्कृतः। विदारितस्य उदरस्य एवं निदानं कर्तुं शक्यते इति न तेन कदाचिच्चिन्तितमासीत्। स सूतवर्यस्य अवस्थां दृष्ट्वा अत्यन्तमेव आशङ्कितः आतङ्कितश्चासीत् - कथमयं चिकित्सितव्यः स्यादिति।
स मुहुर्मुहुर्निधिदत्ताय श्लाघमानः अजल्पत् - "त्राता भवद्भिर्वयं महतः सङ्कटात्।"
निधिदत्तोऽकथयत् - "अत्र मम किम्- सर्वं मम गुरूणाम्।"
-- के भवतां गुरवः?
- मम गुरवः सुश्रुतवैद्याः। जीवकाचार्योऽपि तदानीं तत्रासीत् तक्षशिलायाम्। स तु औषधशास्त्रस्य महान् पण्डितः। समग्रायां तक्षशिलायां ग्रामं ग्रामं भ्रामं भ्रामं तेन दशसहस्रमितानां वनस्पतीनां द्रव्यगुणविज्ञानं स्वप्रयोगैरेव अधिगतम्। चिरजीविवर्यास्तस्मादेव वैद्यकं गृहीतवन्तः। परम्परया अस्माकं सर्वेषां परमगुरुर्वर्तते भगवान् धन्वन्तरिः। स आद्यो वैद्यः। वस्तुत आदिगुरुस्तु भगवान् शङ्कर एव। स दक्षस्य यज्ञे यज्ञपुरुषस्यैव शिरः कृत्तवान्। अनन्तरं च शिरः समयोजयत्। सा कर्तरिका वर्तते - तां ददातु - भाषमाण एव स विशाखं समकेतयत्।
विशाखः कर्तरिकां तस्मै अददात्। निधिदत्तो अतिरिक्तं सूत्रमच्छिनत्। अनन्तरमवदत् - "इदानीमेते स्वस्था भविष्यन्तीति मन्ये। विशाख, मित्र! एकं मम वचनं मनसि धारय - शल्यज्ञानमेव वैद्यकशास्त्रस्य सर्वस्वम्। विविधव्याधीनां निदानाय औषधं दातुं बहवः प्रभवन्ति, परन्तु शल्ये प्रभवन्ति विरला एव। शल्यं तु पुण्यं यशस्यमायुष्यं वृत्तिकरं च।"
हरिद्रामिश्रितं दुग्धं पीत्वा सनातनः सुखं सुप्तः। कालिन्दी साश्रुनयना शनैः तस्य चरणौ संवाहयति। सूतवर्यो मध्ये मध्ये जागरितो "मा-मे"ति स्थलिताक्षरैस्तां प्रत्यादिशति।
विशाखस्तामब्रववीत् - देवि भगवति, चरणौ न परामृष्टव्यौ इति सूततातः कथयति - यतो हि भवती इदानीमस्माकं सर्वेषां कृते पूज्या जाता..... स कापालिको भवतीं तथा स्तौति स्म। यन्न शक्यं सर्वैरस्माभिस्तद् भवत्या अनुष्ठितम् -
कालिन्दी तं समर्मवेधं वेदनादिग्धेन चक्षुषा निरीक्षमाणा अवदत् - "विप्रवर, इयमेव रीतिः भवतां सर्वेषां पुरुषाणाम्। भवानपि तस्य पाखण्डस्य अनुकरोति! अस्मादृशो हतभाग् नारीजनो भवद्भिः कदाचित्तु एतावदधो निपात्यते यत् वयं दास्यः भवामो वा, सर्वथाधिक्कृतास्तिरस्कृता वा तिष्ठामः। कदाचित् भवद्भिः वयं तथा ऊच्चैः स्थापयिष्यामहे यत्र वयम् आत्मानमपि विस्मरामः।"
विशाखो निरुत्तरस्तां निध्यायति। किं कथयेयम्, किमनया कथितम्? केनाशयेन कथितम् - इत्यादिभिः प्रश्नैस्तस्य शिरो भ्रमति स्म। तदानीं तादृशमद्भुतं शौर्यम्, इदानीमियमस्या वेदना। किं नाम सत्यम्? तदानीं साक्षाद् भगवतीति भासमाना सा कालिन्दी, इयं च उपालभमाना पुरुषान् ज्येष्ठाभिर्महिलाभिः आतङ्किता कालिन्दी वा?
-- अपि नाममया किमपि अपराद्धम्?" - इति स शनैरपृच्छत्।
न किमपीति कालिन्दी तथैव शनैराह।
एतयोरेष वार्तालापस्तदानीं न केनाप्यन्येन श्रुतः। कालिन्द्या वचांसि आजीवनं विशाखस्य हृन्मर्मणि विध्यन्ति स्म।
सूतवर्यस्य श्वासा अविच्छिन्नं चलन्ति। निधिदत्तेन तस्मै अहिफेनमिश्रितं रसायनं दत्तम्।निधिदत्तः ठक्कुरं व्यसृजत्। चिन्ता नास्ति इदानीं व्यासमुनयः स्वस्था भवेयुः - स समबोधयत्।
विशाखः सूतवर्यस्य पार्श्वे स्थितः।
निधिदत्तेन सनातनस्य व्रणौष्ठद्वयम् अत्यन्तं कुशलतया स्यूतम्।
अन्येद्युरेव सर्वं वृत्तं ज्ञातम्। सर्वस्य अनर्थस्य मूलमासीद् स्त्रीयाजको डिण्डिमपण्डित एव। तस्मै सनातनस्य पुराणपठनं विशाखस्य च अग्निहोत्रादि सम्पादनं न रोचते, तस्य आयः व्यपगतः, स्त्रियस्तं नैव समाद्रियन्ते। ठक्कुरः एकं सन्देशहरं समाहर्तुः कृते व्यसृजत्। समाहर्ता समायातः। राङ्कवो गृहात् पलायितः। तस्य किमपि न ज्ञायते। डिण्डिमपण्डितः, कापालिकः तस्य शिष्यौ च इमे सर्वे निगृहीताः। काश्याः कारागारे च निक्षिप्ताः। धर्माधिकारिणां समक्षं प्रकरणमुपस्थाप्येत - तत्र मया गन्तव्यं स्यात् - सूतवर्यैरपि गन्तव्यं स्यात् - परं चिन्ता नास्ति - यः समाहर्ता वर्तते - स मम विश्वस्तः, सूतवर्येषु च अत्यन्तं बद्धादरः -
दशसु दिनेषु सूतवर्यस्य व्रणः शुष्कः। सूत्राणि त्रोटितानि। निधिदत्तेन सरल-देवदारु- गण्डीरी-शिंशपागुरुसारैर्निर्मितं तैलं दत्तम्, उदरे व्रणस्य यदवशेष आसीत् तस्य उपचाराय। एतेषु दिनेषु विशाखस्य निधिदत्तेन सख्यं दृढीभूतम्। स प्रतिदिनमेव निधिदत्तस्य गृहं याति स्म - औषधमानेतुम्। स तक्षशिलायां व्यत्यापितानां दिनानां स्मरणं कृत्वा तक्षशिलाविद्यापीठस्य बहुशश्चर्चां करोति। श्रावं श्रावं विशाखस्य मनस्तक्षशिलागमनाय पुनः पुनःसन्नह्यते।
सूतवर्यः शनैः शनैः स्वास्थ्यं लभते, परन्तु अत्यन्तं कृशकायो जातः। तस्य मनसि एकैव इच्छा प्रबला - कथञ्चिद् वाग्भट आगच्छेत्, तेन सह स नैमिषं यातु। नैमिषे एकाकिना गमनं न कार्यमिति ठक्कुरः कथयति स्म।
सूतवर्यमाच्पृछ्य विशाखो भद्रपुर्याः प्रस्थितः। सोड्ढलः शाकटिकः शकटं चालयति।
(19)
शनैर्याति शकटः। विशाखस्य मनस्तु त्वरते। कथञ्चिद् हरिद्वारं प्राप्नुयाम्, कथञ्चिद् वाग्भटं पश्येयम्, तस्य कीदृशी दशा भविष्यति सूतवर्यस्य वृत्तं विज्ञाय इति अनल्पकल्पनाकवलितस्वान्तो नितान्तं स खिद्यते। कदाचिदिदमेव मनो देशदर्शन- कौतुकेनाविष्टमपि भवति। अरे अहं नृशंसोऽस्मि यदेतस्मिन् विषादस्य समये आत्मनो विनोदं चिन्तयामि इति स आत्मानं गर्हते अपि।
-- भद्र सोड्ढल, किमिति एवं जोषं स्थीयते? किमपि गाय, किमपि आलप। - स शाकटिकं ब्रूते स्म।
- किं गायामि, किं वा आलपामि विप्रप्रवर! व्यासमुनीनां दशां स्मारं स्मारं चित्तं दूयते।
- अलं विषादेन। तातः सूतः स्वस्थो भविष्यति। कथञ्चित् हरिद्वारं प्राप्य वाग्भटं प्राप्नुमः।
निधिदत्तस्य चिकित्सया शनैः शनैः स्वास्थ्यलाभं करोति स्म सूतवर्यः। स मुहुर्मुहुर्वाग्भटं स्मरति स्म - क्वचित् तन्द्रायामर्धनिद्रायां स्वप्नायितेष्वपि वा वाग्भट - वाग्भट इति अस्पष्टबुद्बुदाक्षराणि निर्गच्छन्ति तस्य ओष्ठयोः। तस्य एवंविधां दशां वीक्ष्यैव विशाखेन उक्तमासीत् - तात, वाग्भटो यद्यत्र आगच्छेत्, तर्हि शोभनं स्यात् -
सूतवर्यस्य नयनयोरश्रूणि उच्छलितानि आसन्। स आह - मम तनयः स कथमत्र आगच्छेत् - अपि च तस्य अध्ययनं हरिद्वारे यावत् पूर्णं न भवति तावत् ततस्तस्य प्रस्थानमपि न वरम्।
तथापि यत्किमपि अत्र जातं तत् तस्मै यदि न सूचयामस्तदपि अनुचितं स्यात् - परस्तात् सर्वं विज्ञाय स खिद्येत। अतो यदि भवाननुमन्यते तर्हि अहं गच्छामि हरिद्वारम् - अहं तमानेष्यामि -
सूतः चकितचकितस्तं निध्यायति स्म। अनन्तरं रोदितुमारब्धवान्।
- तात, अपि नाम मया किमपि अनुचितमुक्तम्, किमिति अकाण्डे रोदिति भवान्..
-- न, वत्स, हर्षवर्षाद् रोदिमि, सत्यमुक्तमासीद् भवता यथा वाग्भटो भवतां तनयस्तथैवाहमिति। सत्यं भवान् मे तनय एव - वाग्भटो मे कनिष्ठस्तनयो भवानेव ज्येष्ठः। अस्तु, यदि शक्यते तर्हि गच्छतु भवान् हरिद्वारम्। हरिद्वारं यावत्तु गन्तव्यमेव। तत्र गत्वा वाग्भटो वाच्यः, स इह आगच्छतु- भवान् तक्षशिलां यातु। इयं भद्रपुरी विशाखस्य विरामस्थली नास्ति इति अहं जानामि। कियच्चिरं भवादृशैरस्मादृशां सूतानां साहचर्यम्, यावन्ति दिनानि साहचर्यमवाप्तं तावन्ति दिनानि पुण्यैः फलितानि। कियच्चिरमस्मादृशाः भवन्तं रुन्धताम्?
इदम्प्रथमतया विशाखेन तस्य एतादृशं भावप्रवणं रूपं दृष्टं चानुभूतं चासीत् तदानीम्।
प्रयान्तं तं प्रति सूतेनोक्तमासीत् - विशाख, प्रणमामि भवन्तम्। भवान् मत्कृते गुरुरेव। कृतज्ञोऽस्मि, अधमर्णोऽस्मि। भवता अहं त्रातः, तस्मात् कापालिकात् रक्षितः, अथ च मत्सुतं भवानेवात्र आनेष्यति।
- किमिदं विपरीतं विधीयते तात, साश्रुनयनेन विशाखेन सूतोऽभिहित आसीत् – अत्र भवान् सर्वथा मत्कृते पूज्यः, एवं निगदन् भवान् मयि अपराधं न्यस्यति।
-- किमिदमुच्यते आर्य विशाख! एतत्तु विपरीतमेव। भवान् मे गुरुः भवतो मया शुद्धः पाठोऽधीतः।
-- न। भवानेव मे गुरुः। मम यद् ज्ञानं तत्तु न तेजस्वि। कदाचित् तेजस्वि स्यात्।
भद्रपुर्याः स्मृतयो मुहर्मुहुर्मनो रुन्धन्ति। कालिन्दी कीदृशं साहसमाचरितवती! स कथं सर्वं स्तब्धोऽवलोकयन् स्थितः। स सनातनं सूतं रक्षितुं नैव अशक्नोत्।
सूतवर्यात् किं लब्धेन तेन? मात्रा च पित्रा च वियुक्तोऽयं तपस्वीति तस्य करुणा। तस्य इतिहासपुराणज्ञानम्। देशस्य नाना तीर्थानां, नदीनां पर्वतानां नगराणां च विषये स कियज्जानाति। तत्समक्षं विशाख आत्मानं वामनममन्यत। कथं नाम स सूतवर्याय कृतज्ञतां न बिभर्तु? जात्या सूतोऽवर इति कदाचिन्मनसि धारणा आसीत्। इदानीं विशाखो विचिन्तयति - जन्मना कोऽवरः कश्च ज्यायान्? ज्ञानेन ज्यायान् भवति नरः। सूत एव ज्ञानेन मत्तोऽतिरिच्यते।
एतेषु वर्षेषु विचित्र एव सम्बन्धः सनातनेन सूतेन विशाखस्य विकसितः। बालसुलभचापल्यवशात् पुरा स सूतम् उपहसति स्म, तस्य वर्णसाङ्कर्यं विचार्य न तस्मिंस्तथा आस्थां बिभर्ति स्म, तस्य वचनं शृणोति स्म, मननेन मनसि नावतारयति स्म। शनैः शनैः सूतं प्रति अश्रद्धा विगता। सूतवर्यो बहु अधीती नास्ति, तथापि ये ज्ञानिनो निरर्थकं कलहायन्ते वितण्डां च विरचयन्ति तेभ्यस्तु शतगुणमसौ वरीयान्। कियन्मया एतस्मात् प्राप्तं ज्ञानमिति स मुहुर्मुहुरनुभवति। अयमपि कश्चन ऋषिरेव, अहो अस्य तपः, अहो तितिक्षा। नायं वेद-वेदाङ्गेषु कृतश्रमः, न्यायं न वेत्ति कामं, न वा वैशेषिकमधीतवान्। कापिले वा बादरायणे वाऽपि अनेन न तथा अभ्यासो विहितः परन्तु लोकस्य आचारं यथाऽयं वेत्ति न तथा महान्तोऽपि आचार्याः। कथितमासीदेकदा ज्येष्ठेनान्तेवासिना कौण्डिन्येन -लोकश्च वेदश्चेति उभयमपि ज्ञातव्यम्। विशाखो वेदान् साङ्गानधीतवान्,
स याज्ञिकम् अनुष्ठानं जानाति, साङ्ख्यं वैशेषिकमपि अवगच्छति, परं तेन किम्? तेन मनो न तुष्यति।
विशाखः शकटे स्थितः। प्रचुरा सामग्री शकटे वर्तते - अपूपाः, सक्तवः, लाजाः, विविधानि फलानि - कदल्यः, आम्रफलानि। काशीतस्तौ प्रयागं जग्मतुः। तत्र यमुनातरङ्गैर्भिन्नप्रवाहा गङ्गाऽवलोकिता। यथा प्रभापिहितैरिन्द्रनीलैः कापि मुक्तामाला अनुविद्धा स्यात्, अथवा श्वेतपङ्कजानां माला नीलकमलश्रेणीसु गुम्फिता स्यात्।
सोड्ढलोऽञ्जलिं बद्ध्वा भक्त्या गद्गदोऽवदत् - इयमेव भगवती गङ्गा यमुनया सरस्वत्या च सङ्गता।
-- सरस्वती? कुत्र विद्यते सरस्वती? विशाखोऽपृच्छत्।
-- पश्यतु विप्रवर, इयं सर्वत्र शुभ्रा धारा गङ्गायाः - यमुनाया नीलेन जलेन सङ्गता -
-- पश्याम्येनाम्... एवं प्रतिभाति यथा चन्द्रमसः किरणास्तमोभिश्छुरिताः स्युः।
-- सरस्वती तु अनयोरन्तः क्वचिन्निलीना। तथापि धारा तु आसीत्। अत एव त्रिवेणी इति सङ्गमस्थलीयं कथ्यते।
सोड्ढलोऽपरं पारमवालोकयत्। -- पश्यन्तु विप्रवर्याः, तत्र वर्तते कश्चन ग्रामः।
-पश्यामि, परन्तु कतमोऽसौ ग्रामः?
सोड्ढलोऽवदत् - इदानीं ग्राम इवावलोक्यते - पुरा आसीन्महन्नगरम्। प्रतिष्ठानपुरम्। तत्र राजा पुरूरवा शास्ति स्म। दूरं दृश्यते एकः प्रासादः - इदानीं परित्यक्तः, भग्नावशेषतां गतः। स तु देवच्छन्दकः प्रासादः तस्यैव राज्ञः। तस्मात् स्थलात् उर्वशी तं विहाय प्रचलिता। अत एतत् कथ्यते उर्वशीतीर्थम्। पुरूरवा नितरां व्याकुलस्तामन्विष्यति स्म।
विशाखो विस्फारितनयनाभ्यां चकितः सोड्ढलं पश्यति स्म। कथञ्चित् विस्मयमुत्तीर्य स तं पृष्टवान् - एतावज्ज्ञानं कुतोऽधिगतं सोड्ढल!
आर्य मम पितृपादा आसन् वाराणस्यां चारणाः। तेषां महती रुचिरभवत् देशदेशान्तराणां वृत्ते - ते अस्मान् एतत् सर्वं वृत्तं श्रावयन्ति स्म। राजा अपि तान् बहु मन्यते स्म। तैः साकमहमसकृत् एतेषु देशेषु अटनं कृतवान्।
-- उर्वश्युपाख्यानं तु तातेन सूतेन श्रावितं भद्रपुरे। तत्तु मया श्रुतमेव - विशाखोऽवदत्।
प्रतिष्ठानपुरे हंसकूपतः अग्रे गत्वा तौ समुद्रकूपं प्राप्तौ। अपारः पारावारः पुरस्तरङ्गायमाणो यथाऽवलोकितः।
ततः परं ऋषिरसा46 तथा च पर्णशाला47 इति द्वौ ग्रामौ।
सोड्ढलोऽवदत् -- इतः पूर्वस्यां दिशि कालञ्जरो नाम महादुर्गः। निकषा कालञ्जरं दशार्णदेशः, यत्र प्रवहतो दशार्णा वेत्रवती च नद्यौ।
- दशार्णदेशांस्तु अहं जानामि। तत्र विदिशा नाम राजधानी।
--अरे कथं भवान् जानाति?
-- मया कवेः कालिदासस्य मेघदूतमधीतम्। कालिदासस्तु उज्जयिन्यां न्यवसत्। तेन मेघदूते वर्णितम् - सम्पत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः - तेषां दिक्षुप्रथितविदिशालक्षणां राजधानीम् -
-- अरे विप्रवर्य, भवांस्तु सत्यमेव पण्डितः। तर्हि किं ज्ञापनीयं भवद्भ्यः? तथापि विदिशामधिकृत्य एकं रहस्यं भवता न ज्ञातं स्यादिति मन्ये।
-- किं नाम तत्?
- तत्र यवनदेशादागतः कश्चन पान्थः। स विदिशायामेव न्यवसत्। महती सम्पत्तिस्तस्य आसीत्। तत्रत्यः शासकोऽग्निमित्रोऽपि तस्मिन् भृशं प्रसन्नः। तेन यवनधर्मं परित्यज्य अस्माकं धर्मः स्वीकृतः। स वासुदेवस्य परमभक्तः सञ्जातः....अस्तु - यदि कालञ्जरात् पश्चिमोत्तरं प्रयामस्तर्हि ततोऽग्रे गोपाचलगिरिः, ततश्च प्रवहति चर्मण्वती नदी। निकषा गोपाचलं पद्मावती नगरी। तत्र एकतः पारा नदी प्रवहति, अपरतः सिन्धुः। पारासिन्ध्वोः सङ्गमोऽपि अत्यन्तं मनोहरः- इति प्रयागात् यदा तौ प्रचलितौ तदा सोड्ढलस्तं परितः स्थितानि नदी-पर्वत-नगराणि परिचाययति।
प्रयागतः अनुयमुनातटं गच्छन्तौ तौ शूरसेनदेशमागतवन्तौ। अद्य मथुरायामेव विश्रामं कुर्मः - सोड्ढलः कथयति स्म - कामपि पान्थशालामन्विष्यामः -सत्रागारं वा -
शूरसेनेषु पदे पदे वासुदेवस्य कृष्णस्य मन्दिराणि, तस्यैव कीर्तनम्। वासुदेवमयी मथुरा। यदि सूतवर्योऽत्र अभविष्यत् तर्हि तस्य तु मनसि महान् प्रमोदोऽभविष्यत्। पूर्वमत्र इन्द्रपूजा प्रचलिता। इन्द्रं न्यक्कृत्य अत्रत्या वासुदेवं कृष्णं पूजयितुमारब्धवन्तो जानपदाः। तेन रुष्ट इन्द्रः समग्रं वृन्दावनं वर्षाया ओघेन वाहयितुं सन्नद्धोऽभवत्। परं वासुदेवो वृन्दावनगोपानरक्षत्। साम्बविनिर्मितमत्यन्तं पुरातनं कृष्णमन्दिरमपीह आसीत्। तदलक्षेन्द्रेण ध्वंसावशेषतां नीतम्। मथुरा तथापि मनो हरति। किमपि लावण्यमस्यां वर्तते।
इदानीमन्यादृशी एव भाति मथुरा। क्वचिदलक्षेन्द्रागमनस्य चिह्नानि लक्ष्यीकर्तुं शक्यन्ते। यवनैर्विनिर्मिता मूर्तयोऽपि भान्ति। यथा कृष्णपूजकास्तथा बौद्धा भिक्षवोऽपि सञ्चरन्ति।
विशाख एतादृशं नवीनं धर्मं दृष्ट्वा चकितः। तेन कदापि न चिन्तितमासीत् धर्म एतादृशोऽपि स्यात्। धर्मस्य अर्थस्तत्कृते यज्ञयागादिसम्पादनम्। परन्तु शूरसेनदेशीया ब्राह्मणा अपि अग्निहोत्रं त्यक्त्वा कृष्णस्य कीर्तनं कुर्वाणा दृश्यन्ते। किं कृतमनेन वासुदेवेन कृष्णेन? अनेन धर्मस्य पन्थान एव परिवर्तनं नायिताः।
काशीतो मथुरा, मथुरातो हरिद्वारम्।
कनखलं तौ प्राप्तौ। मध्ये मध्ये यस्मिन् कस्मिन्नपि ग्रामे वा आरामे वा कामं स्वीकृतो विरामः। क्वचित् सत्रेषु भुक्तवन्तौ, क्वचित् यजमानैः सादरं भोजितौ। विशाख इदम्प्रथमतया गङ्गायाः परमं कान्तिमयं रूपमवालोकयत्।
इयम् ऋषीणां तपोभूमिः। सन्त्यत्र विविधा आश्रमा। तेष्वेवएकस्मिन् आश्रमे सूतवर्येण सङ्केतितते वाग्भटो मिलितः। बहोः कालादनन्तरं विशाखेन वाग्भटस्य दर्शनं कृतम्। स आकारेण इदानीं दीर्घो दृश्यते, परं विनयेन नीचैर्विभाति। यथा सूतवर्यस्तस्य पिता तथैव अत्यन्तं सौम्यः विनम्रश्च। विशाखं वीक्ष्य अत्यन्तं हर्षितः प्रणामकरोत्। विशाखस्तं कण्ठेनालगयत्। तस्यापि मनसि महती प्रीतिर्विशाखेन सङ्गत्याभूत्। परन्तु मनसि आशङ्काः स्वशिरांसि उत्थापयन्ति स्म - कथं नाम स सूतवर्येण साकं यद् घटितं तत्सर्वं तस्मै निवेदयेत्। स मार्गेऽपि सोड्ढलम् एतदेव कथयन्नासीत् - मित्र, वाग्भटेन यदा वयं मिलामस्तदा तस्य पितुः वृत्तस्य तत्पुरो निवेदने त्वया मम साहाय्यं करणीयम्। अहं न जाने कथं तस्मा एतत् सर्वं कथनीयमिति।
दिष्ट्या सोड्ढलेन सर्वं साधु निर्व्यूढम्। सोड्ढलस्य उपस्थितौ वाग्भटोऽपि आश्वस्त इव भवति स्म, विशाखस्य पुरः स सङ्कुचित इव सञ्जायते स्म। अन्ततः सोड्ढलस्य उपस्थितौ विशाखेन तस्य समक्षं भद्रपुरीगतः सर्वोऽप्युदन्तो विवृतः। श्रुत्वा प्रथमं तु वाग्भटः स्तब्ध इव तस्थौ, अनन्तरं फूत्कृत्य रोदितुमारब्धवान्।
सोड्ढलेनैव स विशदं बोधितः। विशाखोऽपि तं समाश्वासयत्। अनन्तरं स सोड्ढलेन साकं प्रस्थानमकरोत्।
(20)
पितरो बदरिकाश्रमे सन्ति। मनसि विकल्प उदेति - प्रथमं गत्वा पितरं पश्यामीति।
पुनश्चिन्तयति - अथवा प्रथमं तक्षशिला गन्तव्या, तत्र विद्यां समाप्य पितरं द्रक्ष्यामि।
भद्रपुर्याः प्रतिष्ठमानः स सनातनेन सूतेनोक्त आसीत् - विशाख, तव पित्रा महत् कष्टमनुभूतं जीवने, एका भार्या व्रतोपवासक्लिष्टा दिवं गता। या रक्षिता तेन स्वीकृता, सा तं वञ्चितवती। स संन्यासी जातः, परन्तु त्वत्कृते ताम्यति। मया स आबाल्यात् दृष्टः। अहं जानामि शाखोटकं विप्रम्। स कठोरो नास्ति। अस्ति अत्यन्तं कोमलप्रकृतिः। कठोरताया आवरणं नारिकेलफलमिव तेन परिहितम्। तक्षशिलागमनात् प्राक् पितरं याहि। त्वां दृष्ट्वा स तपस्वी निर्वृतः स्यात्।
पितरः बदरिकाश्रमे वसन्ति इति सनातनसूतेन सूचितमासीत्। किं करोमि, गत्वा पितरं पश्यामि?अथवा प्रथमं तक्षशिलामेव यामि, तत्र विद्यां समाप्य पितरं द्रक्ष्यामि।
तक्षशिलां यास्यन् विशाखो विचारयति - तातस्य सूतस्य सङ्ग उज्झितः। तेन सह एतावान् कालो व्यतीतः, स कालो मनसि श्लिष्टः। इदानीं सूतो मदीये चैतन्ये विश्राम्यति। तेनाहं परिवर्तितः। इदानीं यावन्मया कश्चन गुरुर्नावाप्तः, सूत एव मे गुरुर्जातः। यैः गुरवोऽवाप्यन्ते तेषां तु ज्ञानमयः कायः कीदृशः समुज्ज्वलो भवेत्?
हरिद्वारात् कुरुक्षेत्रम्, कुरुक्षेत्रात् त्रिगर्तं जनपदमसौ प्राप। तत्रैव विपाट्शतुद्र्वोः महानद्योः सङ्गमतटे विशाखः स्थितः। निकषा वर्तते सिन्धुनदी। तस्यास्तीरे एव हिमालयस्य पादेषु प्रणतं पुष्कलपुरं यदभितो वहति नदी पुष्कलावती। अभितो वहन्ती सा तक्षशिलां तरङ्गैः संवाहयति, विपाट्-चन्द्रभागा-शतुद्रुभिः सङ्गमं विरचयति। निकषैव प्रवहति इरावती नदी।
मनसि ऊहापोहो भवति स्म। इतो यदि पूर्वस्यां दिशि यामि तर्हि बदरिकाश्रमं कैलासधाम च गन्तुं शक्नोमि, तत्र कदाचित् पितुर्दर्शनं स्यात्। यदि पश्चिमदिशि प्रयामि तर्हि गान्धारदेशात् प्रागेव तक्षशिला।
सूतस्यैव वचसां प्रभावो यत् विशाखोऽन्ततः प्रथमं बदरिकाश्रमं गत्वा पितुर्दर्शनं करिष्य इति निश्चितवान्। त्रिगर्तात् पूर्वस्यां दिशि गच्छन् स हिमालयस्य पादेषु सञ्चरति स्म। गहनमरण्यम्। पदे पदे श्वापदा विचरन्ति।
परित आश्रमाः तीर्थानि च सन्ति। उपरि गच्छति स्म सः। कन्दरासु बहवो मुनयो वसन्ति। ग्रीष्मस्य प्रखर आतपः। कश्चन मुनिरधो रविबिम्बस्य स्थितः पञ्चाग्नितपः करोति स्म। उपरि अङ्गारान् वर्षति भास्करः। तं परितश्चतसृषु दिक्षु चत्वारोऽग्नयः प्रज्ज्वलिताः।
इयं तपोभूमिः। परितो विविधा मुनयो तासु तासु तपश्चर्यासु संलग्ना दृश्यन्ते। कश्चनहस्तादानः। यत् किमपि अयाचितम् अनायासं फलं हस्ते समायाति, तदेव गृह्णाति। अपरो मुखादानः। यत्किमपि भक्षणीयं स्वतो मुखे निपतेत्, तदेवायं भक्षयेत्।
एवं क्रमात् बहून् आश्रमान् पश्यन् विशाखः कञ्चन अत्यन्तं तेजस्विनं संन्यासिनमपश्यत्।मन्ये भगवन्तः गुरुभिर्विमलमतिरिति गृहीतनामधेयाः ...स तमवलोक्य प्रत्यभिज्ञाप्रत्ययेनावदत्।
-- वत्स, एतत् नाम आसीत् मम पूर्वाश्रमस्य। तत् इदानीं परित्यक्तम्। इदानीमहं नामरहितः केवलं यतिः।
-- विशाखोऽस्मि, शाखोटकतनयः।
-- अरे त्वमेवासि विशाखः। तव पिता त्वां स्मरति।
-- क्व मे तातः?
-- सोऽत्रैव वर्तते। पश्य स आगत एव।
विशाखेन दृष्टम् - काचन आकृतिरायाति, अत्यन्तं कृशः कायः।
अयमेव पितेति कष्टेन स निश्चेतुं प्राभवत्। प्रत्यभिज्ञायाम् उदितायां स पितः इत्युक्त्वा भूमौ निपत्य तेषां चरणयोर्निपतितः।
- अरे कोऽयम्? भद्र, कस्त्वम्? पिता प्राह।
- अरे भवान् नाभिजानाति - अयं भवतां पुत्रो विशाखः यतिवर्या अवदन्।
- विशाख, अहो एतावान् दीर्घकायो जातः। स्वस्ति ते। आयुष्मान् भव। अहं बहोः कालात् प्रतीक्षमाण आसम्, कदाचित् त्वमत्र आयास्यसि।
विशाखो निरुत्तरः। किं कथयेत् स पितरम्?अपि कुशली तात इति कथनं केवलमुपचारः स्यात्,
क्षन्तव्योऽहं तात, मया भवान् न सेवितः, वार्धक्ये च भवान् कष्टानि सहते - इति कथनेन तु तस्य कष्टमेव वर्धेत। सोऽस्फुटाक्षरं किमपि किमपि वक्ति ... वार्तालापस्त्रुट्यति ....
--- भवतां हस्तौ - एतादृशौ किमर्थम् - पूर्वं तु एतादृशौ नास्तामेतौ .....
पितुर्नयने वाष्पाविले। स प्राह - "पुत्र, तस्मिन् दिने त्वं गृहं विहाय विनिर्गतः। अहं च गृहं समागतः। त्वं मया न दृष्टः, महान् मम मनसि अनुशय आसीत् – किमर्थं विनाऽपराधं त्वं मया ताडितः? किं करोमि, राजानं गच्छामि, स मां दण्डयतु, अस्य पुत्रताडनापराधस्य मार्जनं कथं भवेत्? प्रथमं तु पुत्रमेव गत्वा मर्षयामि - यदि पुत्रो मर्षयति तर्हि अपराधो मे प्रशाम्येत।परन्तु गृहमेत्य त्वामहं नापश्यम्। सा स्त्री मल्लिका भणति - भवतां पुत्रो गृहं विहाय गतः, अहमपि गन्तुमिच्छामि - आपृच्छे(च्छामि) भवन्तम् - मम सुहृदागतः, स सहस्रं निष्कान् दास्यति मम मोक्षाय ...
"..... ममैव स्खलनं यन्मया सा आनीता। अहं वार्धक्ये युवजानिः सञ्जातः। मया किमर्थं पुनः परिग्रहः करणीय आसीत्?पापप्रशमनाय मया कृच्छ्रव्रतं गृहीतम्। मया तस्या वचनं प्रमाणीकृतम्, त्वं न पृष्टः। मया एताभ्यां हस्ताभ्यां त्वं वेत्रेण ताडितः। एकदा यज्ञं सम्पादयतो मम महती ग्लानिर्वेदना च मनसि उत्पन्ना यत् कथं मया त्वं वेत्रेण ताडितः, तया वेदनया सम्भृतोऽहम् अग्निहोत्रस्याग्नौ एव आत्मनः करौ दाहयामि स्म।तेन एतादृशौ मम करतलौ जातौ।
विशाखस्य नयने वाष्पाविले। अथ पिता तं स्वकुटीरे अनयत्।
पिता इदानीं स्वस्थ इति दृष्ट्वा विशाखः सन्तुष्टः। पुनरपि ज्ञानचर्चाः प्रावर्तन्त विशाखस्य तेन सार्धम्। पिता अवदत् - सत्यमुक्तमासीत् त्वया, यज्ञेषु पाखण्डस्य परिव्याप्तिर्जाता। अहमपि शनैः शनैः महर्षिणा बादरायणेन कृत्स्नं वेदस्य सारमासूत्रितंब्रह्मसूत्रनाम्नेति विज्ञाय अस्मिन् बदरिकाश्रमे आगतः। तेभ्यो बादरायणपादेभ्यो दीक्षामवाप्य इह सुखेन वसामि। तपश्चरामि, स्वाध्यायं करोमि।
पञ्चदिनानि असौ तत्र उषितवान्। पितुः सन्निधौ ब्रह्मसूत्रमभ्यस्तम्।
पिता कथयति स्म- अत्रापि अध्ययनं कर्तुं शक्यते ---
तस्य प्रयाणसमये पिता विकल इव खिन्न इव अदृश्यत - आह च - विशाख, मया महान् अन्यायः त्वयि विहितः, इदानीं स्मारं स्मारं चित्तं व्यथते।
विशाखोऽवदत् - तात, अलं खेदेन, इदानीं सर्वम् उपपन्नम्। अनुजानातु मां गमनाय तातः। तक्षशिलां गच्छामि।
विशाखः पुनरग्रेसृतः।
भागीरथीनिर्झरसीकराणां वोढा कम्पितदेवदारुर्वायुर्वहति। पितुः स्मृतयः, ताभिः संश्लिष्टाः मातुः स्मृतयः। पुनः पुनरावर्तमानाः। अनन्तरं सूतवर्यः, इदानीं स स्वस्थः स्यात्, नैमिषं गतः स्यात्, तस्य पारायणं प्रतिवर्षं भवति मासत्रयं यावत् नैमिषे। मुनयः श्रवणाय उपतिष्ठन्ते।
(21)
तक्षशिलायाः गोपुरम्। प्राकारद्वारे कश्चन आकृत्या भीषणः, दीर्घकूर्चः,
विशालश्मश्रुः, धृतकुन्तः प्रतीहारी तं कुतःकारै कवलयन्निव न्यरुणत्। हीणामहे हीणामहे -
विशाखः स्तब्धः। कश्चन तं प्रवेशान्निवारयति स्म। प्रतीहारी स्यात्। परन्तु तस्य वाणी सर्वथा दुर्बोधा। यवनभाषया आलपतीति प्रतिभाति।
पुनरपि किमपि तेनोक्तम्। इदानीं विशाखोऽवगतवान् - यवनभाषया वदति स्म - अलं प्रवेशेनेति। विशाखोऽपि आत्मपरिचयं तस्मै दातुकामः आह - भद्र, अहमस्मि विशाखः, विद्यापीठे अध्ययनाय समागतोऽस्मि।
स प्रतीहारी उच्चैराक्रोशत्। कमपि आकारयतीति विशाखेनानुमितम्। अनुमानं तस्य सत्यमासीत्। प्राकारस्य उपरि आसीत् चूलिका। तेन दृष्टमपरः प्रतीहारः तस्या अधः अवतरति।
अयमन्यः प्रतीहारः प्रथमेन प्रतीहारेण वार्तामकरोत्। प्रथमो विशाखं निर्दिशन् किमपि वक्ति स्म। इदानीमन्यः प्रतीहारो विशाखमपृच्छत् -कुतः? कुत्र यासि -
विशाखः सर्वं तस्मै न्यवेदयत्।
अन्ततः कथञ्चित् स तक्षशिलायां प्रविष्टः। मनः क्लान्तम्। नगरे नासीत् कोऽपि परिचितः। विचित्रा विशालाकृतयो जनाः भीषणा इव प्रतीयमाना इतस्ततः सञ्चरन्ति। जनाः परस्परमाशङ्कया पश्यन्ति। पवने भयं सम्मिश्रितमिव, त्रसरेणुषु त्रासस्य गन्धो विच्छुरित इव भाति।
विशाखेन काशी दृष्टा मथुराऽपि विलोकिता।हरिद्वारदर्शनं कृतम्। बदरिकाश्रमे कियती शान्तिरासीत्, सर्वमनवद्यम्, निष्कलुषम्, पावनम्, परमशीतलम्। इयं तक्षशिला नगरी सर्वाभ्यो नगरीभ्यो विलक्षणैव। आपाततः सर्वमनवद्यं, परन्तु अन्तः सर्वम् अहृद्यमवद्यम् अत्र भाति।समृद्धिर्वर्तते, परन्तु जनाः विपन्ना इव प्रचलन्ति। कोऽपि केनापि नालपति। काश्यां काशते काऽपि हास्यच्छटा, मथुरायामपि निश्चिन्ता जना विलसन्ति। तक्षशिला तक्षितेव शिला भाति। सर्वत्र शिलासञ्चय इव।
तक्षशिला अन्तरन्तररुत्कायमानेव प्रतीयते। अत्र कोलाहलो वर्तते, आवापोद्वापः प्रचलति। घर्मः क्लिश्नाति, ललाटन्तपस्तपति भास्करः।
इतस्ततः भगवतो बुद्धस्य प्रतिमाः। प्रतिमानां निर्माणमपि प्रचलति।
स विद्यापीठस्य द्वारं प्राप्तः। अत्र द्वारेऽपि वर्तते कश्चन प्रतीहारः। स विशाखं न्यरुणत्। विशाखोऽवदत् - भद्र, विशाखोऽस्मि - अत्र अध्येतुकामोऽस्मि। प्रतीहारोऽवदत् -
"सम्प्रति विद्यापीठे नवीनानां ब्रह्मचारिणां प्रवेशो न भवति।"
-- कथं न भवति - किमर्थम्?
-- एतन्नाहं वक्तुं क्षमः।
विशाखोऽवदत् - "द्वारपण्डितमाह्वयतु भवान्। स मां परीक्षेत।"
-- "तन्न सम्भाव्यते" - प्रतीहारो रूक्षस्वरेण न्यगदत्।
-- अपि नामाहम् आचार्यचरणानां विनयशीलानां दर्शनं प्राप्नुयाम्? विशाखः पुनरपृच्छत्।
-- दर्शनं कर्तुं शक्येत वा न वा - एतदपि वक्तुं न शक्यते।
निराशो विशाखस्ततः प्रचलितः। तक्षशिलाविद्यापीठे तु अन्तःप्रवेशोऽपि न तेन प्राप्तः। किमतः परं करणीयम्?
विद्यापीठस्य द्वारं किमर्थं पिहितम्? द्वारं कदा उद्घाट्येत? द्वारे केनचित् पण्डितेन उपविष्टेन भाव्यम्, सोऽध्येतुकामस्य जनस्य योग्यतां परीक्षेत इति तु युज्यते। परन्तु द्वारे प्रतीहारस्तिष्ठति, स प्रवेशमेव नानुमनुते इति कथम्?
उत्तरं कोऽपि न ददाति। पृष्टा जना मौनमालम्बन्ते। जना आलपितुं नेच्छन्ति। जना आत्मनि सङ्कुचिताः। ते अस्मद्देशीया जना इव उन्मुक्ता न प्रतिभान्ति। कीदृशोऽयं देशः? शूरसेनेषु कुरुषु उत्तरापथे सर्वत्र जनाः प्रीत्या आलपन्ति, वैदेशिकान् अतिथीन् सर्वथा सम्भावयन्ति। अत्र तु सर्वे मां तथा निध्यायन्ति यथाहं कश्चन शत्रुः स्याम्।
आपणेषु हट्टेषु राजमार्गेषु राजपुरुषाः अश्वारोहिणः सञ्चरन्ति। ते जनान् विद्रावयन्ति, उत्सारयन्ति, सूक्ष्मेक्षिकया पश्यन्ति।
-- विप्रेषु अयमन्यायोऽसह्यः, अरे किमार्यावर्ते नास्ति कोऽपि राजा योऽस्मान् त्रायेत? नैतत् कनिष्कराज्यम्, एतत्तु आतङ्कराज्यम्।
कश्चन धृतयज्ञोपवीतः त्रिशिखः भस्मनावृतकायः यतिरिव उच्चैर्ब्रवीति स्म। अन्यो विप्रस्तं प्रबोधयति स्म तूष्णीं तिष्ठेति च सङ्केतयति स्म।
विशाखस्तौ उपसृत्य अपृच्छत् - आर्यौ, वैदेशिकोऽस्मीति पृच्छामि, कुतो भयं, केन वा भयं तक्षशिलायाम्?
तावदेव चत्वारोऽश्वारोहिणः समागताः। धरित्री दोलायमानेव जाता। तान् वीक्ष्य विप्रा द्रुतमितस्ततो भूताः।
(22)
तक्षशिलायां विशाखः सम्भ्रमी बम्भ्रमीति। बाधा नास्ति, तथापि काऽपि बाधा अन्तर्बाधते इति प्रतिभाति। भोजनं प्रचुरं कृतम्। परितः सन्ति अङ्कोल50पादपाः, अत्यन्त सुस्वादुफलानि तेषु लम्बमानाः, स्वयमेव शाखाबाहून् अवनाम्य अवनाम्य फलानि समर्पयन्तः प्रतिभान्ति ते वृक्षाः।चित्वा चित्वा उदरपूरं भुक्तवानसौ। अक्षोट51 वृक्षा अपि प्राचुर्येण सन्ति। कदाचित् भोजनमुपलब्धं न स्यादिति कृत्वा तेन बहूनि अक्षोटानि प्रस्तरेण भित्वा तेषां बीजानि स्वकन्थायां स्थापितानि। वृक्षेषु करुणा, मार्गे मार्गे स्थापितासु बुद्धस्य मूर्तिषु करुणाया अजस्रधारा। परन्तु जनानां सम्मर्दो निष्करुण इव याति च आयाति च। तक्षशिला शिलेव मौनं धृत्वा पुरः प्रसृता। सर्वमत्र शिलीभूतमिव दृश्यते। पर्वताकाराः प्रस्तरप्रतिमाः। बुद्धस्य प्रतिमास्तु ज्ञातुं शक्यन्ते, बह्व्यः वैदेशिकानां राज्ञामपि प्रतिमाः शृङ्गाटकेषु दृश्यन्ते। इमाः प्रतिमाः केषां सन्तीति न ज्ञायते। सनातनसूतेन कथितमासीत् तक्षशिलायां यवनराजा अलक्षेन्द्र आगतः। स तु अत्रत्येन राज्ञैव स्वदेशीयेभ्यो विश्वासघातं विधाय सानुरोधमामन्त्रितः। तेन पौरवो राजा पराजितः। तस्य राज्ञः कदाचिदिमाः मूर्तयः स्युः। उन्नता नासा। विशाले नयने। कुञ्चिताः केशाः। आकृतिरेव भिन्ना।
अद्यापि तक्षशिलायां यत्र तत्र क्वचिद् हूणा दृश्यन्ते, क्वचिद् यवनाः। एते सर्वे वेदविरोधिनः।इयं भारतधरा एभिराक्रान्ता।
वैदेशिकी संस्कृतिः, वैदेशिकानि परिधानानि, अपरिचितानि नामानि, असंस्तुतानि क्षेत्राणि। तक्षशिलां कश्चन क्षत्रपः शास्ति। स तु कुषाणेन राज्ञा कनिष्केण नियुक्तः। विमकैफिसेसस्य पुत्रः कनिष्को वर्तते महाप्रतापः सम्राट्। तस्य साम्राज्यम् आगान्धारदेशात् आकाश्मीरात् आवङ्क्षुतटादा सिन्धुतटाच्च व्याप्तम्। गुर्जर-मालव-प्रदेशयोः क्षत्रपा अपि तस्य अधीनतां याताः। आयुर्वेदविशारदश्चरकः बौद्धविद्याचार्यो वसुमित्रश्च तस्य सभायाः रत्नभूतौ।
तक्षशिलायां सर्वत्र आशङ्का इव प्रसृता, मनसि संशया जाग्रति। हरिद्वारेऽपि सर्वे मुनयः कथयन्ति स्म - तक्षशिला तु विद्याया नगरी। इयं तु अविद्याया नगरी प्रतीयते।
वैक्लव्यमनुभवन् विशाखस्तक्षशिलानगरस्य आपणान् वीथीः राजमार्गांश्चोल्लङ्घ्य नगराद् बहिरागतः। सहसैव नयने स्तब्धे - वारां राशिस्तयोः पुरः प्रसृतः। - अरे इयं तु वितस्ता वर्तते! तस्य मुखान्निःसृतम्।
परितश्चकास्ति वितस्ता। तस्या आलिङ्गनाय सुदूरात् प्रधाव्य समायान्त्यः चन्द्रभागाया धारा अपि तस्यां सम्मिलिता दृश्यन्ते। वितस्तातरङ्गाणां कणवाही समीरः शनैः शनैः स्पृशन् गात्रं तस्मै आश्वासनमिव प्रददाति स्म। इयं वितस्ता परमपावनी, अस्या वानीरपरामृष्टं नीरं पिबन्त एव पाणिनि-कौटिल्य-चरकप्रभृतयः ज्ञानस्य प्रकाशं व्यतन्वन्।
विशाखो वितस्तायास्तरङ्गान् पश्यति मनसि च करोति - किमस्ति जीवनं बुद्बुदोपमम्? स्थैर्यं क्व स्यात्? कौण्डिन्यस्य सङ्केतो यद्यवाप्स्यत तर्हि स्थैर्यमलप्स्यत।
आर्यस्य कौण्डिन्यस्य विषयेऽपि किमपि न ज्ञायते। अन्ततो विशाखोऽतितरामनाश्वस्त इव इतो व्रजामीति विचारयामास। मन्ये मम विद्या अपरिसमाप्तैव स्यात्। येषाम् आचार्यसौम्यदेवानां गुरुकुले प्रथमम् उपनीतस्ते निधनमुपगताः, येभ्यो विमलमतिभ्यो ज्ञानमवाप्तुं साकेतं गतवांस्ते प्रव्रजिताः हरिद्वारं च गताः। तक्षशिलामागतः, अत्र सर्वथा विपर्यास एव। इतः गमनमेव वरम्।
कथञ्चित् स एकस्मिन् सत्रागारे किमपि अशनं प्राप्तवान्, तत्रैव च सुप्तः।
अमावस्याया निशा वर्तते। तमसि निमग्नं जगत्। पान्थशालायां सर्वं निर्मक्षिकमिव भाति। यस्मिन् अलिन्दे स स्वपिति, तत्र सूचीभेद्यं तमः।
सहसा द्वौ पुरुषौ तत्र समुपागतौ। विशाखं तौ नावलोकितवन्तौ। तौ उपांशु परस्परेण लपतः स्म।
-- कनिष्क आयाति।
-- यद्यायाति तर्हि किं कर्तुं शक्यते?
आवां पूर्वराज्ञः सेवकौ। अयमेवावसरः। स स्थपतिरस्माकं मित्रम्। ते तमेव तोरणद्वारनिर्माणाय नियोजितवन्तः। ते तस्मिन् सन्दिहाना न स्युः। अस्माभिः सर्वं प्रच्छन्नैः साधयितुं शक्यते। न कोऽपि किमपि ज्ञास्यति। केवलं गत्वा त्वया स स्थपतिर्वाच्यः। महासामन्तेन एतदुक्तम् - स तोरणद्वारं निर्माति - कनिष्कस्य प्रवेशकाले एव तोरणद्वारं निपतेत् - इदानीमेव याहि - त्वरितं याहि, गूढं याहि।
-- रात्रावेव गच्छामि।स द्वारं निर्माय तदुपरि एव स्थास्यति ...
-- अस्तु - गच्छ - अन्यच्च -- गृहाण इमाम् उपहस्तिकाम् -
-- अत्र किम्?
-- अस्यां सन्ति शतं दीनाराः। इमे तस्मै स्थपतये देयाः। सिद्धे कार्ये अपरमपि शतं दास्याम इति स वाच्यः। सोऽवश्यं कार्यं साधयेत्।अयमेवोपायः।
-- सत्यम्, अयमेवोपायः। भवतापि सावधानेनभवितव्यम् --
विशाखः शङ्कितः। किमिदं व्याहृतं तेन जनेन?
अन्येद्युः एकवारं गत्वा पुनरपि तक्षशिलाविद्यापीठस्य द्वारं पश्यामि यदि तत्र आचार्यस्य विनयशीलस्य दर्शनं स्यात् तर्हि कार्यं सेत्स्येत इति आशया वितस्तायां स्नात्वा सूर्योपस्थापनं च कृत्वा मार्गे निपतितानि अङ्कोलाक्षोटफलानि जग्ध्वा स वितस्तायास्तीरान्निवर्तते स्म।
तीरे अधिकः जनसम्मर्दो नास्ति। महिलानां कृते पृथक् घट्टो विनिर्मितः। परितः राजसैनिकाः निपुणं निरीक्षमाणाः सञ्चरन्ति स्म। एकेन स पृष्टोऽपि - को भवान्, कुत आगतः?
विशाखेन स्वनाम निवेदितम्, अनन्तरं च तक्षशिलानगरद्वारे प्राप्ता मुद्रा तस्मै दर्शिता। सन्तुष्टः सोऽन्यत्र प्रचलितः।
तदानीमेव सम्मुखमागच्छता केनचिदसौ पृष्टः - भद्र, अपि नाम वैदेशिकोऽसि?
विशाखेन परावृत्य दृष्टम् - कश्चन तेजस्वी युवा सकौतुकं सस्मितं तं निध्यायन् पृच्छति स्म। वेषेण विद्यापीठस्य अन्तेवासी प्रतीयते।
-- एवमार्य! विद्याग्रहणाय इत आयातः। परन्तु विद्यापीठस्य द्वारमेव पिहितम्। दीक्षा न दीयते।
-- नैवम्, दीक्षा तु दीयते, परन्तु इदानीम् आचार्या विनयशीला ये दीक्षां ददति, ते अन्यस्मिन् कर्मणि व्यापृताः सन्ति - -
-कीदृशं तत् कार्यम्, येन दीक्षा एव निरुद्ध्यते---
-- सम्प्रति प्रत्यवायो वर्तते, नैमित्तिकोऽयं प्रत्यवायः।
-- आर्य, तदेव निमित्तं न ज्ञायते।
-- महाराजः कनिष्कः आयाति।
-- ज्ञायते तत्रभवान् कनिष्कः। स सम्राड् वर्तते। स आयाति। परन्तु तस्माद् विद्यापीठद्वाराण्येव पिहितानि इति कथम्?
-- भद्र, तक्षशिलाविद्यापीठस्य पिधाने तु प्रयोजनमेवान्यत्।
-- आर्य, तदेव तु प्रयोजनं न ज्ञायते। अहमत्र अध्येतुकाम आगतः। तिष्ठामि वा गच्छामि वा?
-- भवता आत्मनाम न निवेदितम्।
-- विशाखोऽस्मि गार्ग्यगोत्रोत्पन्नः तैत्तिरीयशाखाध्वर्युः ...
-- अहमस्मि उपालिः। केवलम् उपालिरित्येव उपाधिविहीनं नाम। न तत्प्राक् किमपि, न ततोऽग्रे किमपि। मयात्र प्रव्रज्या गृहीता। ततः प्रागहं शूद्र आसम्।
-- शूद्र आसीद् भवान्? मया तु श्रुतमासीद् यदत्र केवलं द्विजा एव दीक्ष्यन्त इति।
श्रुत्वा उपालिरहसत्। अथ चाह - एवं तु नास्ति। विरला एव वैश्याः शूद्राश्चविद्याग्रहणाय अत्र समायान्ति। ये आयान्ति तान् स्वागतीकुर्वन्ति अत्रत्या आचार्याः।
-- भवान् अस्मिन् विद्यापीठे अन्तेवासी?
-- अन्तेवासी आसम्। समाप्ता विद्या। परन्तु आचार्या गन्तुमनुमतिं न ददति। गन्तव्यमपि नास्ति क्वापि। इदानीं ज्येष्ठोऽन्तेवासी इति अत्रैव वसामि। कनिष्ठानध्यापयामि।
उपालेः सौजन्येन विशाखः प्रह्वो जातः। प्रणमंश्चाह - अहोभाग्यं मे भवतो दर्शनं जातम्। गुरुकल्पो भवान् मे। मन्ये भवतः सान्निध्येन ममापि उद्धारः स्यात्।
श्रुत्वा उपालिः पुनरहसत्। निर्व्याजे तदीये हास्ये काऽपि निश्छलता विच्छुरितेति विशाखोऽनुभवति।
उपालेर्बहु ज्ञानमवाप्तं तक्षशिलाया विषये। कश्चन कविर्वर्तते अश्वघोषः, स तक्षशिलाविद्यापीठस्यैव अन्तेवासी। तेन भगवतो बुद्धस्य चरितमधिकृत्य बुद्धचरितमिति महाकाव्यं प्रणीतम्। पूर्वमपि महाराजेन कनिष्केण अश्वघोषस्य काव्यं श्रुतम्, श्रावं श्रावं स भृशमावर्जितः। सोऽश्वघोषं स्वराजसभायां राजकवित्वेनालङ्कर्तुमिच्छति।पूर्वं यदा अश्वघोषं स नेतुमैच्छत्, तदा सम्प्रति तु मम विद्या न परिसमाप्तेति अश्वघोषोऽवदत्। ततो वर्षद्वयानन्तरमागमिष्यामीति महाराजोऽवदत्। तक्षशिला-विद्यापीठं गत्वा तत्रत्यैराचार्यैः विमर्शं कृत्वा अश्वघोषं स नेष्यति इति तस्य शाकलपुरादत्रागमने विशेषो हेतुः। महाराज आगच्छतीति विद्यापीठे सर्वम् अध्यापनं निरुद्धम्।
-- आस्तां तावत् - दीनारो नाम किं वस्तु इति पृच्छामि।
-- दीनार इति अत्रत्या मुद्रा। यथा भवतां देशे निष्कः काषापणश्च व्यवह्रियेते तथात्र दीनारः।
विशाखः स्वकन्थायाः एकं वस्त्रग्रन्थिं निस्सार्य ग्रन्थिमुन्मोच्यतत्र निहितं नाणकद्वयम् उपालये दर्शयन् अपृच्छत् - पश्यन्तु आर्यमिश्राः, किमेतौ एव दीनारौ -
उपालिः विशाखस्य हस्तात् मुद्रे आदाय साश्चर्यं क्वचिद् विशाखं क्वचिच्च मुद्रे विलोकयन् स्थितः। विशाखोऽपृच्छत् - आर्य, किमिति जोषं स्थितो भवान्?
-- विशाख, इमे मुद्रे भवता कुतो लब्धे?
-- अत्रैव वितस्तातीरे सिकतायाम् अङ्गुलिना किमपि विलिखन्नहमासम्, तदानीमेव मम करतलमेते समागते---
-- एवम् तर्हि। इमे मुद्रे सम्प्रति अत्र नैव प्रचलिते। मन्ये यदा अलक्षेन्द्रोऽत्र समागतः तदा एतादृशमुद्राणां प्रचलनमासीत्- अहं पठितुं शक्नोमि। अस्यां मुद्रायां लिखितम् - राजा मोअसः। राज्ञो मोअसस्यैव प्रतिमा च मुद्रायां वर्तते। अपरस्मिन् दीनारे लिखितम् - राजा एअसः। उपरि तस्य प्रतिमा-- इति कथयन् उपालिः मुद्रे विशाखाय पुनः समर्पयत्।
उभौ वितस्तातीरात् परावर्तेते स्म। वामतो मन्दिरम्, तस्यान्तर्दृश्यते विशाला प्रतिमा। एतादृशी प्रतिमा अपि न कुत्रापि अन्यत्र दृष्टा। केशाश्छत्रवत् शिरसि गुम्फिताः, तदुपरि उष्णीषम्। केशानां वेणयः अतीव कुशलतया तक्षिताः प्रतिमाकारेण। उष्णीषस्य पटलान्यपिसाधु निर्मितानि। कण्ठे मौक्तिकदाम्नि प्रत्येकं मुक्ता पृथङ् निर्वणयितुं शक्यते। इयमस्ति कलायाः पराकाष्ठा, न केवलमेतदेव उपरि दुकूलं कार्पासस्य वर्तते तदपि प्रस्तरे कथमुन्मीलितम्! विशाखश्चकितं पश्यति। मन्दिरं तु बुद्धस्यैव। "बुद्धस्य प्रतिमा एतादृशी?" तस्य मुखान्निःसृतम्।
- इयं भगवतो बुद्धस्य प्रतिमा नास्ति। अयमस्ति बोधिसत्त्वः।
उपालिः बोधिसत्त्वस्य विषये तं बोधयति। तस्य ज्ञानेन विशाखः आप्यायितः। अनन्तरम् अपरं मन्दिरं पथि समागतम्। अस्मिन्नपि पूर्ववत् प्रतिमा, परन्तु इदं तु मन्दिरं बुद्धस्य बोधिसत्त्वस्य न स्यात्, उपरि ध्वजे मीनः चित्रितः। इयं प्रतिमा कामदेवस्य स्यात् - विशाखेनोक्तम्।
-- सत्यं ज्ञातं भवता। अत्रत्याः जना भगवन्तं बोधिसत्त्वं बुद्धं वा पूजयन्ति, तेन सह कामपूजामपि ते कुर्वन्ति - इत्युक्त्वा उपालिरहसत्।
--- आसीन्मम ज्येष्ठान्तेवासी आर्यः कौण्डिन्यः। स तक्षशिलायामेव अधीते स्म इति ज्ञातम्।
-- कौण्डिन्यः?न एतन्नामधेयः कोऽपि अत्र नाधीतवान्।
विशाखो विस्मितश्चिन्तयति - मन्ये आर्येण कौण्डिन्येन कदापि समागम इतः परं न स्यात्। तत्प्रत्ययात्, तमन्विष्यन्नहमत्र समागतः।
आर्यः कौण्डिन्यः कुत्र लयं यातः - कुत्रासौ विलीनः?
विशाखः सम्प्रति स्वस्थो जातः। उपालिराह - आयुष्मन् विशाख,
अध्ययनार्थमागतोऽसि, अत्रत्ये विद्यापीठे तव दीक्षा भवेदिति अहमाचार्यान् निवेदयिष्ये।
द्वित्राणि दिनानि प्रतीक्षताम् भवान्।
उभौ राजमार्गे चलतः स्म। अपि नाम मया दीक्षा प्राप्स्येत? विशाखः पुनः पृष्टवान्।
उपालिः शान्ताभ्यां नयनाभ्यां तं निरवर्णयत्। अनन्तरमाह - आयुष्मन्, तक्षशिलायां काऽपि झञ्झा प्रवहति - वात्यासारेण कम्पते तक्षशिला। सम्राट् कनिष्क आयाति। स आचार्याणां विनयशीलानां दर्शनं वाञ्छति। सम्राट् यथा पूर्वमासीत् तथा इदानीं नास्ति, सम्प्रति तस्य धर्मे रुचिर्जागरिता, स प्रजानां कल्याणमपि सर्वथा कामयते। अत्र सन्ति केचन पूर्वराज्ञः पक्षपातवर्तिनः। ते कनिष्कस्य साम्राज्यविस्तारं न सहन्ते। तैः कनिष्कस्य छद्मघाताय दुरभिसन्धी रचितः। स च चारैर्विज्ञातः। बहवो जनाः सन्दिग्धा निगृहीताः, तेषु नैके सर्वथा निरपराधा अपि सन्ति।
-- येन कनिष्केण भारतवर्षमाक्रान्तं तस्यैव स्तुतिर्भवता क्रियते ....
-- भारतं वर्षम्? किं नाम तत्?
-- अरे भारतवर्षमपि न वेत्ति भवान्? निरक्षरा ग्रामीणा अपि जानन्ति। अस्माकं पुराणेषु वारं वारं भारतवर्षस्वरूपं निरूपितम्।
उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्।
वर्षं तद् भारतं नाम भारती यत्र सन्ततिः।।
उपालिः सस्मितमवदत् - सत्यमुक्तं भवता। भारतवर्षात् पश्चिमदिशि वर्तते गान्धारदेशः। तत आगता हूणाः क्वचिदाक्रामन्ति भारतधराम्। ते क्वचित् काश्मीरं क्वचित् सिन्धुदेशं यावत् स्वराज्यं स्थापयित्वा इमे देशा अस्माकं गान्धारदेशान्तवर्तिनः सन्तीति निगदन्ति। कदाचित् भारतदेशीया राजानो गान्धारे ततोऽप्यग्रे वा आक्रमणं कृत्वा तान् देशान् स्वराज्ये सम्मेल्य कथयन्ति अस्माकं भारतवर्षं गान्धारं यावत् ततोऽप्यग्रे वा वर्तते। एतेन कथं ज्ञायेत कियान् भारतवर्षम्!
-- अस्तु तावत्। वैदेशिकाः आक्रमणकर्तारो न श्लाघ्याः। ते वैरिणः।
उपालिः सस्मितं विशाखं विलोकयन् धीरगम्भीरमन्द्रस्वरेण धम्मपदस्य गाथामिमामपठत्
-
नहि वेरेन वेराणि सम्मंतीह कुदाचनं।
अवेरेन च सम्मंति एस धम्मो सनंतनो।।
अथ च उपालिराह - अहं मन्ये अद्यैव महाराजः विद्यापीठमागमिष्यति, आचार्यस्य
विनयशीलस्य दर्शनं करिष्यति, तेन चर्चां करिष्यति, अनन्तरं च कविमश्वघोषं नेष्यति। ततः परं सर्वं सहजं भविष्यति।
तदानीमेव अपसरत अपसरत इति कथयन्तः पञ्च अश्वारोहिणो विनिर्गताः। उपालिः विशाखं हस्ते गृहीत्वा मार्गादपासारयत्।
अयमेव महाराजः कनिष्कः - उपालिरुपांशुजापं विशाखमाह।
विशाखः सविस्मयं ददर्श- अत्यन्तं विशाला कापि आकृतिः अश्वे विराजते,मन्दमन्थरं याति अश्वः। पार्श्वस्थेभ्यो गृहेभ्यो वनिता विलोकयन्ति, पुष्पवृष्टिं च कनिष्कस्य पथि कुर्वाणाः।
सहसा पञ्च राजपुरुषाः पार्श्ववर्तिन्यां पद्धत्यां द्वौ निगडितौ पुरुषौ कर्षन्तो नयन्तोऽदृश्यन्त। हन्त, इमो तु तौवावे ब्राह्मणो यौ ह्यो दिने मया पथि दृष्टौ! -विशाखः प्रत्यभिज्ञातवान्। एतयोरन्यतरः कनिष्कं निन्दति स्म।
-- अरे, द्रुतं व्रजतं युवाम्, द्रुतम् - अपि नाम अन्धौ, पार्श्वत एव महाराजो याति - सैनिकेषु एकः कथयति स्म। द्वयोरन्यतरो ब्राह्मणश्चीत्कृतवान् - कनिष्कस्य तस्य कृतेऽपि मम शापः कुष्ठेन म्रियतामसौ, यस्य राज्ये निरपराधानां ब्राह्णणानां कृते त्रास उत्पाद्यते -
श्रुत्वा कोपेन अरुणः एकः सैनिकस्तस्मै पादाघातमकरोत्।
विशाख उपालिमवदत् - भ्रातः कुत्र गता भवता प्रतिपादिता भगवतो बुद्धस्य शिक्षा?
उपालेर्मुखं विवर्णम्। - किं कथयामि -- सोऽत्यन्तं लज्जित इव अवदत्।
तदानीमेव अत्यन्तमप्रत्याशितं किमपि घटितम्।
अश्वेन शनैः शनैर्व्रजन्नेकः अश्वारोही अनयोरेव पार्श्वे व्यरमत्। उपालिः विशाखस्य हस्तं हस्तेन आम्रेडयन् तस्य कर्णे अकथयत् - महाराजः कनिष्कः....
महाराजः कनिष्को विशाखाभिमुखीभूतस्तमपृच्छत् - कुतस्त्यो भवान्?
परितो गच्छन्तः सैनिकाः सम्भ्रान्ताः, महाराजः एवं सहसा विरम्य केनापि पदातिना संवादं करिष्यतीति एतादृशी प्रत्याशा न कदाचित् तेषां मनसि क्वापि अभवत्। अतस्ते चकिताः।
विशाखः अयं राजा, अहं च ब्राह्मण इति मया कः समुदाचारोऽस्य कृते करणीय इति क्षणं व्यचारयत्, अनन्तरं कनिष्कस्य नयनाभ्यां नयने मेलयन्नवदत्- स्वस्ति राजन्। विशाखोऽस्मि तैत्तिरीयशाखाध्वर्युः...साकेते पूर्वमध्ययनं कृतवान्-
कुतो लक्ष्मणपुरस्य जन्मभूमेर्नाम तस्मिन् क्षणे तस्य जिह्वायां नावतीर्णम्, कुतश्च
सहसा साकेते अध्ययनं कृतमिति तेन उक्तं तदानीमिति विशाखस्य मनसि परस्तात् महान् विस्मयो अभवत्। परन्तु अस्मिन् क्षणे तु यन्मुखान्निःसृतं, तेन महानुपकारो जातस्तस्य इत्यपि पश्चात् तेनावगतम्।
--साकेतेऽध्ययनं विहितम्?? -अरे, कविः अश्वघोषोऽपि साकेतवासी - इत्युक्त्वा महाराजो व्यहसत्। अग्रतो स्थिताः पञ्च अश्वारोहिणः पृष्ठतश्च स्थिता अपरे अश्वारोहिणोऽपि सकौतुकं विशाखं पश्यन्तोऽहसन्।
--किमधीतं भवता साकेते? - कनिष्कः पुनरपृच्छत्।
विशाखस्तथैव कनिष्कस्यनयनाभ्यां नयने मेलयन् उपालिना सद्य एव प्रोक्तां गाथामिमामपठत् -
नहि वेरेन वेराणि सम्मंतीह कुदाचनं।
अवेरेन च सम्मंति एस धम्मो सनंतनो।।
श्रुत्वा कनिष्कश्चकितचकितः प्रशंसानिर्भरमवदत् - अरे अतीव साधु पठति भवान् -
सहसा राजा कनिष्कः अश्वादवतीर्णः, विशाखेन उपालिना च समं पदातिरेव चलति स्म। तस्य परिवारसैनिकाः समधिकतरं भ्रान्ताः, तेऽपि स्वेभ्यः स्वेभ्योऽश्वेभ्योऽवतीर्णाः।
- तर्हि साकेतात् किमर्थं तक्षशिलायामागमनम्? कनिष्कः विशाखं पृच्छति स्म।
- किमन्यत्?अत्र विद्यापीठे अध्ययनमेव प्रयोजनम्, परन्तु तत् पूरितं स्याद्वा न वेति न जानामि।
- कथं नामैतत्?
- स्वयमेव चक्षुषी आकुलीकृत्य कारणं पृच्छति महाराजः -
कनिष्कस्य नयनयोः रोषारुणिमा उदियाय। सोऽवदत् - - किं कथयति बालक!
विशाखेनानुभूतं साक्षात् कालो भाययन् तस्य समक्षं तिष्ठति। सहसा स सूतवर्यस्य वचः अस्मरत् - नाहं भयेनापि भीतः। स कनिष्कमाह - एतदेव कथयामि महाराज, यद् भवतामागमनस्य कारणात् तक्षशिलायां नवीनब्रह्मचारिणां कृते प्रवेश एव निषिद्धः।
- एतत् किम्?
- सेनापते,किं कथयति अयं बालकः
सेनापतिः वैदेशिकभाषया किमपि अकथयत्। विशाखो न अवबुद्धवान्। उपालिः
विशाखस्य कर्णयोरजपत् - गान्धारभाषया एतौ आलपतः।
- भद्र विशाख - अनन्तरं सहसा अत्यन्तसौम्यस्वरेण तमाह - "सत्यं मम आगमनस्य कारणात् महत्कष्टमनुभूतं विप्रवर्येण भवता। अहमाचार्यान् प्रार्थयिष्ये। अद्यैव ते द्वारपण्डितेन भवतां परीक्षणं कारयिष्यन्ति। अन्यत् किमपि?"
-अन्यदेतत् - या गाथा मया सम्प्रत्येव पठिता - तस्याश्चरितार्थतां प्रार्थये -
- स्फुटम् उच्यताम् -- कीदृशीं चरितार्थताम् -
केचन विप्राः एतेषु द्वित्रेषु दिनेषु निगृहीताः, कारागारेषु बद्धाः, प्रायस्ते निरपराधा इति मन्ये - तेषां निगडनेन किम्?
-- अस्तु पश्यामस्तावत् -
कनिष्कः पुनरपि सेनापतिमाहूय तं वैदेशिकभाषयैव किमपि वक्ति स्म।
अथ स तक्षशिलाविद्यापीठस्य द्वारं प्राप्यविशाखमाह - भद्र ब्राह्मणबालक, तव कार्यं सेत्स्येत - यदि पुनः कदाचित् अवसरः स्यात् तर्हि मम सकाशमागन्तव्यम् -
विशाखः चकितः। सम्राजा कनिष्केण तस्य एवं स्वतः संवादः स्यादिति न कदापि तेन चिन्तितमासीत्। सोऽन्तसि आन्दोलितः। अस्मै एव महाराजाय कनिष्काय स इदानीमेव अतितरां द्रुह्यति स्म, कुप्यति स्म। इदानीं चित्तं तस्य कृते एव अतितरां प्रह्वम्। अयं महान् सम्राट्। अस्मिन् वर्तते महानुभावता, दाक्षिण्यं चेति स सम्प्रति अनुभवति।
राजा कनिष्कः पुनरपि अश्वारूढः।विशाखः सादरं प्रयान्तं तं पश्यति स्म।
अभितो गच्छन्तो जनाः विशाखं साश्चर्यमवलोकयन्ति - तस्य पार्श्वमेत्य पुनः पुनः पृच्छन्ति - किं कथयति भवन्तं महाराजः? उपालिस्तेन समं चलति तमपि जनाः पृच्छन्ति। जनाः सबहुमानं विशाखमुपालिं च पश्यन्ति।
सम्मुखमेव आसीत् तोरणद्वारम्। ह्यः यदा सोऽत्र समागतस्तदा एतद् द्वारमत्र नासीत्।
उपालिरवदत् - एतद् द्वारं महाराजस्य कनिष्कस्य स्वागतार्थमत्र निर्मापितम्।
सहसा विशाखः स्तब्धः। ह्यः रात्रौ श्रुता केचन वार्तालापशब्दास्तस्य मनसि अगुञ्जन्। - कनिष्क आयाति.....यद्यायाति तर्हि किं कर्तुं शक्यते? ... आवां पूर्वराज्ञः सेवकौ। अयमेवावसरः। स स्थपतिरस्माकं मित्रम्। ते तमेव तोरणद्वारनिर्माणाय नियोजितवन्तः। ते तस्मिन् सन्दिहाना न स्युः। अस्माभिः सर्वं प्रच्छन्नैः साधयितुं शक्यते। न कोऽपि किमपि ज्ञास्यति। केवलं गत्वा त्वया स स्थपतिर्वाच्यः। कनिष्कस्य प्रवेशकाले एव तोरणद्वारं निपतेत् - स द्वारं निर्माय तदुपरि एव स्थास्यति ...-- अस्तु -गच्छ - अन्यच्च-- गृहाण इमाम् उपहस्तिकाम्54 - - अस्यां सन्ति शतं दीनाराः। इमे तस्मै स्थपतये देयाः।
विशाखः चीत्कृतवान् - महाराज! तेन तोरणद्वारेण नैव गन्तव्यम् - तत्र वर्तते अन्तरायः।
राजा कनिष्कः परावर्त्य अपश्यत्। तस्य अश्वस्य गतिः मन्दा। ये सेनिकास्तं परिवार्य यान्ति स्म, ते अग्रे सृताः। किञ्चित् सम्मर्द इव जातः।
अथ सर्वथा अप्रत्याशितं किमपि घटितम्। तोरणद्वारं महता शब्देन धूलिसात् जातम्।जना इतस्ततः पलायन्ते स्म। विद्रवोऽभूत्। कुत्र केन गम्यते इति न ज्ञायते। विशाखः केवलम् एतदेव स्मरति यत् स चीत्कृतवान् - महाराज! तेन तोरणद्वारेण नैव गन्तव्यम् - तत्र वर्तते अन्तरायः इति, अनन्तरं कनिष्केण अश्वस्य वल्गाम् आकृष्य अमन्दवलितग्रीवं वीक्षितम्, क्षणाय स विरतः,तस्मिन्नेव क्षणे सधडधडाशब्दं सोल्कापातमिव मेघगर्जनमिव तोरणद्वारं धरायां निपतितम्।
विशाखस्य जीवनदिक् तस्मिन् क्षणे परिवर्तिता।
नगरचत्वरे घोषणा क्रियते स्म - श्रूयताम् - श्रूयताम् - देवानां प्रियः प्रियदर्शी महाराजः कनिष्कः आज्ञापयति - तक्षशिलाया नागरिकाः निर्भया भवन्तु - महाराजस्य नगरागमनेन न कस्यापि क्लेशः स्यात् - केचन नागरिकाः निगृहीताः, तेषामपि कारागृहान्मुक्तिः महाराजेन आदिष्टा.....
तक्षशिलायां नाना किंवदन्त्यः स्यन्दन्ते स्म।
- अरे कश्चन देवदूतोऽवतीर्णः, येन महाराजस्त्रातः।
यस्य कथनेन महाराजः निगृहीतान् विप्रानमोचयत् - जनाः कथयन्ति स्म।
उपालिरपि विशाखं श्लाघते स्म - भद्र विशाख, महान् साहसः कृतः, प्राणान् सङ्कटे निपात्य नैकेषां जीवनानि रक्षितानि - अन्यथा कारागारे निगृहीतानां विप्राणां किमभविष्यत्?
तक्षशिलायाम् अश्वघोषस्य कापि कीर्तिः प्रथिता बभूव। स कविः विपश्चित् मनीषी इति सर्वे कथयन्ति। यदा महाराजः कनिष्कस्तं नीतवांस्तदातक्षशिला शून्येव जातेति तत्रत्या अन्तेवासिनः आचार्या अमन्यन्त।
अनन्तरं यत्किमपि घटितम्, तत्सर्वं स्वप्नावलोकनमिव।
उपालिः विशाखं विद्यापीठाभ्यन्तरं नीतवान्।
अयमेव सः, सोऽयम्, सोऽयमिति तं वीक्ष्य सादरं सस्पृहं तक्षशिलान्तेवासिनः मन्दं मन्दं परस्परेण साकूतं निगदन्ति स्म। स आचार्यस्य विनयशीलस्य सम्मुखं नीत उपालिना। स्वागतं वत्स विशाख, श्रुतं भवतां विषये मया - स्वयं महाराजः कनिष्कोऽपि भवन्तं प्रशंसति - आचार्यो विनयशीलः प्रणमन्तं तं कथयति स्म।
कनिष्कस्य कृपा स्यात्, उपालेरनुग्रहः स्यात्, स्वस्य मेधा वा स्यात् -विशाखेन तक्षशिलायां दीक्षा प्राप्ता। आचार्यः वज्रकीर्तिः सुपरीक्ष्य तस्मै उपसम्पदम् अददात्। अनन्तरमस्याध्ययनमारब्धम्।
तक्षशिलाविद्यापीठस्य पुस्तकालयः अत्यन्तं रोचते विशाखाय। तत्र लक्षाधिका ग्रन्थाः। लेखका अनवरतं नवीनमातृकानिर्माणे रतास्तत्र कार्यं कुर्वन्ति।
उपालिना समं निवसन् स पुस्तकमेकमधीतवान् मिलिन्दपन्हो इति। दशसहस्रम् अन्तेवासिनः तक्षशिलायाम् अधीयाना आसन्। उषसि एव भवति स्म पिण्डपातवेला। एकवारमेव भोजनं लभ्यते स्म। विशाखः प्रागेव कृशकाय आसीत्, इदानीं कृशतरः सञ्जातः। केनापि कुशलतक्षकेण तक्षित इव सञ्जातस्तदीयः सुदृढः कायः। ब्राह्मे मुहूर्ते उत्थाय व्यायामः करणीयो भवति स्म। अभ्यासेन सर्वं साध्यते, अभ्यासेन गगनतलमप्यारोढुं शक्यते अनेनैव शरीरेण-इति कथयति स्म आचार्यो वज्रकायः। तस्य कायः सत्यमेव वज्रमयः।प्रस्तरमपि करतलाभ्यां मर्दयित्वा इदानीं चूर्णयितुं शक्नोति।
विशाखः मुहूर्तं केवलमेकेन पादाङ्गुष्ठेन स्थातुं शक्नोति। आचार्यस्तु दक्षिणहस्तस्य अङ्गुष्ठाग्रं भूमौ निधाय तस्मिन्नेव सर्वस्य शरीरस्य भारं दत्वा उत्तानपादो घटिकापर्यन्तं स्थातुं शक्नोति।
आचार्यः सिद्धाञ्जनस्तेन प्रसन्नः। स कथयति - विशाख, तव प्रज्ञा प्रतिष्ठिता।भगवती तारा अवश्यं त्वयि कृपाकटाक्षपातं कुर्यात्।
श्रुत्वा विशाखस्य मानसे तरङ्गा उत्तिष्ठन्ति। मातुः करुणाकुलिते नयने पुनरपि तस्य पुरः प्रस्फुरिते।
शनैः शनैः विशाखस्य मनस्तक्षशिलायां श्लिष्यति स्म। सिद्धाञ्जनः, वज्रकायः, वज्रकीर्तिः, विनयशीलः, भद्रबाहुश्चेति तक्षशिलाविद्यापीठे आचार्यास्तस्य अभवन्। सर्वेऽपि नितरामनुग्रहशीलाः करुणामयाः। केवलं वज्रकायः यथा कायेन तथा वाचा च मनसा चापि कठोरः।
आचार्यः सिद्धाञ्जनः मैत्री-मुदिता-करुणोपेक्षाणां स्वरूपं व्याचष्ट। विशाखोऽधीते स्म।
विशाखेन बौद्ध-शैव-वेदान्तमतानि अधीतानि, तत्त्वत एतेषु विशेषं न पश्यति। परन्तु शैवशास्त्रस्य परम्परा काश्मीरेषु यथा लसति, न तथाऽन्यत्र। आचार्या भद्रबाहवोऽपि एतदेव वदन्ति स्म -
अद्य समावर्तनदिनमासीत्। बहवः विद्यापीठाद् गमिष्यन्ति।
तस्य प्रयाणसमये काष्ठमञ्जूषायां निहितं ग्रन्थमेकं तस्मै अर्पयन्तो गुरवो भद्रबाहवोऽवदन् - वत्स! एतस्यां मञ्जूषायां वर्तते मिलिन्दप्रश्नस्य पुस्तकम्। एतद् आचार्येभ्यः वसुमित्रेभ्यः समर्पणीयम्। ते क्वचित् काश्मीरेषु सन्ति। कस्मिंश्चित् विहारे वसन्तीति ज्ञायते, परन्तु निश्चप्रचं न वक्तुं शक्यते कस्मिन् नगरे स विहारः। तेषां सङ्केतः भदन्तात् अश्वघोषात् अवश्यं प्राप्येत, स तेषां शिष्यकल्पः। महाराजस्य कनिष्कस्यापि अत्यन्तं प्रीतिपात्रमस्ति भदन्तः अश्वघोषः।सोऽपि अस्यैव विद्यापीठस्य अन्तेवासी। सोऽवश्यं जानीयात् क्व ते सन्ति। अतः प्रथमम् अश्वघोषेण तत्साहाय्येन च वसुमित्रस्य दर्शनं प्राप्य तेभ्य इदं पुस्तकं समर्पणीयम्। इयमेव ते तक्षशिलायाः कृते गुरुदक्षिणा।
---000----