द्वितीयः खण्डः
सङ्गच्छध्वं सं वदध्वं सं वो मनांसि जानताम्
(1)
शाकलपुरम्।52 अत्रैव यवनो राजा मिलिन्दः आगतः।
वर्षाभिः क्लिन्नाः सर्वे पन्थानः। जडीभूतेव चेतना। किमपि नावबुध्यते। वर्षाया आत्मनो रक्षणाय विशाखः एकस्याः पान्थशलाया अलिन्दे स्थितः। वस्तुत आत्मत्राणं न उद्दिष्टं, उद्दिष्टमासीत् मिलिन्दप्रश्नपुस्तकस्य रक्षणम्। वर्षाभिर्यदि मिलन्दप्रश्नपुस्तकस्य मञ्जूषा क्लिन्नास्यात्त तर्हि पुस्तकस्यापि क्षतिः सम्भाव्यते। स एतावता कालेन सप्रयासं मिलिन्दप्रश्नपुस्तकं रक्षति। पुस्तकम् आचार्यवसुमित्राय समर्प्य स गुरुदक्षिणाया गुरुतरभाराद् विमुच्येत। पुस्तकं बुद्धस्य वचनैः तदीयसन्देशैश्च गुम्फितम्। विशाख आत्मानं बौद्धं न मनुते, तक्षशिलायां यो भिक्षुवेषो विधृतस्तं काममद्यापि धारयति।
अथ सूर्यः मेघपटं संहृत्य नभोमञ्चे प्रवेशमनाटयत्। पान्थशालाया अलिन्दाद् बहिरेत्य विशाखः पुनरग्रे प्रचलितः।
विशाखः काष्ठमञ्जूषां परामृशत् यस्यां मिलिन्दप्रश्नपुस्तकं निहितम्। यवनभाषायां मिलिन्दस्य नाम मिनाण्डरेति कीर्त्यते। स आचार्यनागसेनेन दीक्षितः बुद्धवचनपुष्पासवमिलिन्दो जात इति मिलिन्दनाम्ना अस्मिन् देशे ख्यातिं गतः। तस्यैव महाप्रतापस्य प्रज्ञाविक्रमसम्पन्नस्य राज्ञो मिलिन्दस्य महास्थविरेण नागसेनेन संवादानां पुस्तकं मिलिन्दप्रश्नेति नाम्ना।तत् पुस्तकमसौ धारयति। महद्गौरवमिदम्। मध्ये मध्ये क्वचिदुद्घाट्य पठत्यपि। एकैकं वाक्यं मनसो मर्म स्पृशति। कीदृशी प्रश्नकर्तुर्जिज्ञासा कीदृशी च उत्तरदातुरप्रतिहता प्रज्ञा। एतादृशः संयोगः क्वचित् पुराकाले उपनिषत्सु जनकयाज्ञवल्कादीनां संवादेषु वा जातः।
अस्मिन्नेव शाकलपुरे महास्थविरो नागसेनः समागतः। इदानीमपि शाकलपुरे मिलिन्दमुद्राङ्किता नाणकाः प्रचलन्ति। जना मिलिन्दमाद्रियन्ते। यवनोऽपि इह ऋषीयते। स तु अर्हत् सञ्जात इति जना मन्यन्ते। मिलिन्दमन्दिराणि कोणे कोणे शाकलपुरे विलसन्ति। तेषु बुद्धस्य प्रतिमास्तत्पार्श्वे च मिलिन्दस्य।
विशाखो मिलिन्दस्य सहयात्रो जातः। यद्वा - मिलिन्दस्तस्य सहयात्र इति वक्तव्यम्। यतो हि स मिलिन्दस्य पुस्तकं धारयति। पुस्तकं सदैव तस्य पार्श्वे तिष्ठति। पालिभाषायां पुस्तकमिदं वर्तते। आचार्यपादानामादेशेन पुस्तकमिदं काश्मीरदेशं नेयम्, तत्र किन्नरपुरे विहारो वर्तते, आचार्या वसुमित्रास्तत्र वसन्ति, तेभ्यः पुस्तकं समर्पणीयम्।
मनसि तक्षशिलायाः स्मृतयः सताः। विशाखस्ताः स्मृतीः परीक्षते, अनुसन्दधाति, तासां पुरवलोकनं करोति। अतीतानि दशवर्षाणि। विशाखस्तक्षशिलां त्यक्त्वा याति स्म। इदानीं स द्वाविंशतिवर्षीयो युवा वर्तते।
अधीयानस्य देहे कदा नवयौवनेन पदं विहितमिति न ज्ञातवान्। तक्षशिलायां ज्ञानसाधनया नवः कायोऽधिगतः आचार्येण भद्रबाहुना उक्तमासीत् - इदं ज्ञानशरीरमक्षुण्णं स्थास्यति।
तक्षशिलायाः काश्मीरं गन्तव्यमासीत्।
अन्येद्युः स शाकलपुरमेव प्राप्नोत्।
चरणतलं धूलिधूसरितम्। आगुल्फाद् जानुपर्यन्तं रिङ्गते गतागतस्य वेदना। स्कन्धे कन्था रिक्ता। वस्त्राणि मलिनानि। कुत्र गन्तव्यमिति न जानाति। भोजनं कुत्र कथं लभ्येत इति न जानाति। लक्ष्मणपुरं त्यक्तम्, हरिद्वारे सनातनसूतस्य साहचर्यं त्यक्तम्। बदरिकाश्रमे कियती शान्तिरासीत्, सर्वमनवद्यम्, निष्कलुषम्, पावनम्, परमशीतलम्। अथ तक्षशिला ....साऽपि अवशतया त्यक्ता। पिण्डपातवेला प्राप्ता। तक्षशिलायाः स्मृतयो मानसं निकृन्तन्ति।
आचार्येण वज्रकायेनोक्तमासीत् - भिक्षापात्रं सदैव धारणीयम्, यावत् करतले भिक्षापात्रं, तावत् भिक्षा प्राप्येत इति आशा। बुभुक्षितेन न स्थातव्यम्। इदं महत् पापं यज्जनः शरीरं क्षुधा पीडयति।तक्षशिलायां नाना शास्त्राणि अधीतानि। अत्र समस्ता विद्या अध्याप्यन्त इति यत् तेन श्रुतं तदत्र अनुभूतम्। सर्वमवाप्तं तक्षशिलायाम्, केवलमेकं वस्तु विहाय। कौण्डिन्येन तत्र समागमो न जातः। साकेते सर्वे कथयन्ति स तक्षशिलां गतः, परन्तु, तत्र न तदीया कापि प्रवृत्तिर्लब्धा।
उपालिस्तदानीमपि तक्षशिलायामासीत्। स सम्प्रति प्रौढः परिलक्ष्यते।
विशाखो दन्तकारवीथ्यां प्रचलति स्म। अत्रैव पुरा परिवेणः53 आसीत्। तस्मिन् परिवेणे आयुःपालो नाम स्थविरो न्यवसत्। राजा मिलिन्दस्तमुपागतः, तेन शास्त्रचर्चामकरोत्, स्वकीया जिज्ञासास्तस्य पुरः (अ)स्थापयत्। आयुःपालो यत्किमपि अकथयत्, तेन नातुष्यत् मिलिन्दः।
आपणे सर्वत्र नागदन्तविनिर्मिता रमणीया मूर्तयः। बुद्धस्य मूर्तयः अत्यन्तं सौम्याः, स्मितं परमम् आश्वस्तिकरम्, नयनोरपूर्वैव करुणा। तक्षशिलायामपि दृष्टास्तेन तथाविधा मूर्तयः। दर्शं दर्शं हृदयं प्रह्वं भवति।
दन्तकारवीथ्या विनिःसृत्य सोऽग्रे प्रयाति स्म। ततः परमासीत् तन्तुवायश्रेणी। तुन्- तुन् इति नादो आपणेभ्यो निस्सरति स्म। पिञ्जापकाः तूलं पिञ्जयन्ति स्म। पिञ्जापकपिञ्ज्यमाना तूलस्य शुभ्रा लवा राजहंसा इव डयन्ते स्म। कासच्छविं सागरफेनराशिं तथैव शङ्खस्य श्वेतिमानं न्यक्कृत्य तूललेशा नभसि डयन्ते। तन्तुवायश्रेण्याः पद्यायां स्थितो विशाखः सकौतुकमवलोकयामास - महतो धनुषोऽधस्तात् अपिञ्जितस्य तूलराशेः पिञ्जनं करोति स्म पिञ्जापकः। धनुषः शिञ्जायाः सन्धानेन विच्छिन्नस्तूलराशिर्लवशःप्रस्फुटति। विशाखस्य मनसि गाथा समुदिता -
तूलं मनो मदीयं पिञ्जापक इव विमर्दयन् नितराम्।
शिञ्जां मुहुराकर्षन् धनुर्धरस्त्वं कथंविधोऽसि।।
शाकलपुरस्य विचित्रां शोभां निर्वर्णयन् विशाखः नगरचतुष्पथे समागतः।
भिक्षापात्रं करतले निधाय स शाकलपुरस्य चत्वरे स्थितः। पुरतो विनिर्गता मदविह्वला काचन रमणी। "भवति भिक्षां देहि" - इति विशाखस्य मुखात् अनिर्ज्ञातं विनिर्गतानि त्रीणि पदानि इमानि।
स्खलद्गत्या सरन्ती रमणी व्यरमत। सा आपादमस्तकं विशाखमपश्यत् अवदच्च -भिक्षो, मत्सकाशं केवलमेकमेव वस्तु वर्तते, तद् भिक्षायाम् उपहरिष्यामि। अपि ग्रहीष्यसि?
-- भवति, उपासकः श्रद्धया यत्किमपि दद्याद् तद् भिक्षुणा स्वीकार्यम्। भगवतो बुद्धस्यायमेवोपदेशः।
रमणी अट्टहासं व्यतनोत्। विशाखस्तस्या मुखाद् विनिर्गतेन अशुचिना मद्यगन्धेन उद्विग्नः ततो मनाग् अपासरत्। करकङ्कणध्वनिना समन्वितेन समुच्छलता स्वरेण सा पुनर्निजगाद - यदि तद् वस्तु उच्छिष्टं वा अर्धशिष्टं वा स्यात्?
विशाख आह- श्रद्धया दत्तम् उच्छिष्टमपि वस्तु ग्राह्यमित्यपि भगवतो बुद्धस्य आदेशः।
-- नास्ति मत्पार्श्वे भक्ष्यं भोज्यं वा किमपि वस्तु। रात्रौ श्रेण्यामासम्। जानासि श्रेणीम्? श्रेष्ठीनां वसतिर्भवति श्रेणी। महाश्रेष्ठिनोऽपि तत्र वसन्ति द्वित्राः। परन्तु न ते मयि दृष्टिं निदधति। यस्य आगारे अहमासम्, स महाश्रेष्ठी नास्ति, तथापि प्रचुरं द्रव्यं दत्तवान्। स मया अरमत, अहं तेन अरमम्। अनन्तरं तस्य गेहे उदरपूरं भुक्तवती, मदिरामपि आतृप्ति पीतवती। प्रातस्तस्य गृहाद् विनिर्गता। हस्ते यत्किमपि वित्तमासीत्, तद् दस्युना आच्छिन्नम्। धनं गतम्, गतानि आभूषणानि। शाकले पुरा एते दस्यवो नासन्, न ज्ञायते कुत इमे दस्यव आगताः। मम तु सर्वं गतम्। अवशिष्टं केवलं यौवनम् - नैकैः कामिभिः परिभुक्तं विमर्दितम् आस्कन्दितं यौवनम्। अपि ग्रहीष्यसि?
-- भवति, यौवनं नास्ति किमपि वस्तु। तत् तु विकारः।
रमणी उच्चैरहसत्। तस्या उच्चहासस्य स्वराः नूपुररवा इव प्रसृताः। अयि मातः, अयं तु महाज्ञानी वर्तते। ए माणवक, शृणु,किमाह भिक्षुः। अयं बुद्ध इव भाषते।
यं माणवकमुद्दिश्य सा रमणी विशाखमधिकृत्य यद् वा तद् वा अवोचत् स आसीत् कश्चन आपूपिकः। अपूपानां सुगन्धः तस्य मञ्जूषातो विनिर्गच्छन् नासापुटयोः प्रविश्यसमधिकं सन्धुक्षयति स्म उदरगतां ज्वालाम्, निस्सारयति स्म मुखाभ्यन्तरे लालाम्।
अरे कल्माषि,किमर्थं खेदयसि तं भिक्षुम्? चिरादस्मिन् चत्वरे स्थितस्तपस्वी। समय एव एतादृशः इदानीं भिक्षापि दुर्लभा जाता। - माणवकः तां रमणीं वदति स्म।
-- अहो तव चित्ते एतादृशी करुणा अस्य तपस्विनः कृते - तर्हि त्वमेव अस्मै अपूपं देहि - देहि देहि एकमेव अपूपं देहि -----
-- मूल्यं को दद्याद् अपूपस्य - ह्यस्त्वया मम अपूपाः क्रीताः, मूल्यं न दत्तम् -
-- अलं चिन्तया। तव ऋणाद् यावदनृणा न स्याम् तावत् प्राणान् न त्यक्ष्यामि - दास्यामि श्वः दास्यामि -- श्वः पुनरन्यः कामी मां रमयेत् -- अद्य तु मम सर्वं वित्तमपहृत्य पलायितः कश्चन दस्युः।
तदानीमेव कश्चन अपूपक्रेता समागतः। अपूपचतुष्टयं देहि - स माणवकमाह।
सहसा सा रमणी - कल्माषी -- चीत्करोति स्म - अरे अरे अयमेव सः, अनेनैव मम वित्तम् आभूषणानि चापहृतानि अनेन मम मुखे करतलं निहितं, मया चैतस्य कपोलो विदारितः, पश्यतु इदानीमपि क्षतम् अस्य कपोले मम नखानाम् - हे- अरे चोर, देहि मम वित्तम् - इति कथयन्ती सा तेन अपूपग्राहकेन हस्ताहस्ति कर्तुमारब्धवती।
-- अपसर, अपसर! कुलटे - पुंश्चलि - त्वं मया भुक्ता - सम्भोगकाले त्वं मम कपोलयोर्नखक्षतं विहितवती - ममैव वित्तं त्वया गृहीतम् - तव सकाशं धनमेव कुत्र आसीत् - इति कथयन्नसौ पुरुषस्तां हस्तापसारैरुत्सारयति स्म।
-- पश्यतु पश्यतु अन्यायम् - अनेन मम पञ्च दीनाराः सर्वाणि चाभूषणानि आच्छिन्नानि। इदानीं मामेव तर्जयति --
विशाखः शान्तस्वरेण तं चोरमवदत् - "भद्र, यदि त्वया अस्या देव्या द्रव्यं गृहीतं तर्हि निर्यातय वित्तं आभूषणानि च।"
स चोरः सतिरस्कारं विहसन् अवदत् - वेश्यायाः हितचिन्तकः भिक्षुः! अहो संयोगः - न निर्यातयामि - किं करिष्यसि भिक्षो - पुंश्चलि - त्वमपि अपयाहि इतः। भिक्षो, त्वमपि तूष्णीम्भव। इति कथयन् स चोरः छुरिकां निष्कास्य विशाखं च कल्माषीं च भीषयितुमारब्धवान्।
एकस्मात् क्षणादनन्तरं स भूमौ निपतितः पीडया क्रन्दति स्म - अरे मातः! अरे पितः! त्रायध्वं त्रायध्वम्!!
विशाखेन केवलम् उत्फालकरणमाश्रित्य वामचरणस्य अङ्गुष्ठेनैव प्रहारस्तस्य उदरे विहित आसीत्।इदानीं विशाखो जानाति - मुहूर्तं यावदयं चोरो भूमेः उत्थातुं न शक्नुयादिति। स तां रमणीं कल्माषीमाह - इदानीं गृह्णातु भवती स्ववित्तम् आभूषणानि च यदि एतस्य पार्श्वे तत् सर्वं स्यात् ---
कल्माषी इदानीं यावत् चकिता स्तब्धा किङ्कर्तव्यविमूढा च स्थिता कदाचित् विशाखं कदाचित् भूमौ पतितं पीडया विचलन्तं कूणन्तं स्विद्यन्तं तं चोरमवलोकयति स्म। विशाखस्य उद्बोधनेन सा चैतन्या अभवत्। मूर्च्छितप्रायस्य दस्योः उपहस्तिका-भ्यन्तरे स्वहस्तं प्रवेश्य सा आभूषणानि दीनारांश्च निस्सार्य हर्षगद्गदम् अवादीत् - प्राप्तम्, प्राप्तम्। सर्वं प्राप्तम्। ममैव वित्तमेतत्। अरे कियानुपकारो मम विहितो भगवता भिक्षुणा, अथवा साक्षाद् बोधिसत्त्वोऽवतीर्णः, मम वित्तस्य परावर्तनाय..।
विशाखः प्रचलितः।
पृष्ठतः कल्माषी अपि आगच्छति स्म। - भगवन्, विरमतु विरमतु - सा स्खलिताक्षरैर्वदति स्म।
विशाखो नानया प्रयोजनं ममाधुनेति चिन्तयति स्म।
इमे अपूपाः मया भवतां कृते क्रीताः। भवतां भोजनं न जातम्। अहमपि बुभुक्षिता। कुत्रापि उपविश्य भोजनं कुर्मः, अथवा मम गृहमागच्छतु भगवान् बोधिसत्त्वः ..।
तदानीमेव वर्षा आगताः।
शाकलपुरात् सद्यो गमनं न समभाव्यत। आषाढो नागतः, परन्तु वर्षाः समागताः। कल्माषी एव पान्थशालाया मार्गं दर्शितवती।
शाकलपुरे तस्य तानि दश दिनानि। शाकलपुरं द्वीपं जातम्। एकतो वितस्ताशतद्र्वोः सङ्गमस्तत्रौघः उत्थितः, अपरतः।
(2)
वितस्तायास्तटे चलति स्म विशाखः। हिमालयस्य पादप्रदेशेषु स्खलन्ती प्रवहति वितस्ता। वितस्तातरङ्गानां कणवाही पवनो गात्रमालिङ्गति। नितरां शीतलस्तथापि प्रीतिकरः। अत्रैव कुत्रापि वसतिं कल्पयेत् - कियत्कालं यावदेवमेव भ्रमिष्यामि इति मनसि कलयति विशाखः-. परन्तु गुरुवर्याणां कार्यं तदकृत्वा कथं क्वापि स्थातुं शक्येत। अतः पुनरपि अग्रे गमनम्।
इदानीमेव तीक्ष्णातप आसीत्। इदानीं हिमवर्षाः। कीदृशमिदम् ऋतुपरिवर्तनम्। मेघघटा नभो आवृत्य सङ्कुलीभूताः। शनैः शनैः शीतं वृद्धिमुपेतम्। अतीतासु वर्षासु आश्विनमासे स शाकलात् प्रचलितः। इदानीम् आग्रहायणः। मासद्वयमतीतम्।
अस्थिच्छेदकश्च प्रवहति हिमार्द्रः पवनः। कुत्र गन्तव्यमासीत् कुत्र प्राप्त इति न ज्ञायते। अतिक्रान्ताः शिवालिकशिखराः। आप्रातरारात्रि हिमवर्षा जाता। नभसो धरित्रीं यावत् हिमस्य सितं कान्तिमयं वितानम् आलम्बितम्। कासपुष्पाणां सागरफेनस्य वा शुभ्राच्छविमिव चोरयित्वा हिमराशिपुञ्जा नभसो निपतन्ति। निपतन्त आलिङ्गन्ति वृक्षाणां शाखाः।द्रुमाणां शाखासु शाखासु हिमस्य पुष्पाणीव विकसितानि प्रतिभान्ति।
हिमानी हन्ति मनः। हिममया मार्गाः। विशाखस्य मनो हिमशीतलम्। हिमालयस्य पादप्रदेशेषु दुग्धकुल्या इव निसरन्त्यो दृश्यन्ते। स शाकलपुरे तन्तुवायवीथ्यां दृष्टं तूलपिञ्जनदृश्यं स्मरति। स्मरति च तत्र निर्मितां स्वकीयां गाथाम् - तूलं मनो मदीयं पिञ्जापक इव विमर्दयन् नितराम् -- अत्र तु मन एव हिममयं जातम्। आकाशः कायं हिमैः पीडयति। एवं स्थिते स कथं प्राप्स्यति काश्मीरम्।
विगतेभ्यः त्रिभ्यो मासेभ्योऽनवरतं यात्रा कृता। सूतवर्येणोक्तमासीत्--विशाख, तव चरणयोः द्वे चक्रे बद्धे इति मन्ये। त्वं कुत्रापि स्थिरं न निवत्स्यतीति पश्यामि...। सत्यं तक्षशिलायां स स्थैर्येणउवास - .. गुरुजनानामावसथेषु चङ्क्रमणम् -- तक्षशिलातः स्नातकतां प्राप्य पुनरपि स चङ्क्रमीति। तस्य चरणाभ्यां कुत्र कुत्र अङ्किता चक्रारपङ्क्तिरिति स न स्मरति। लक्ष्मणपुरं स्मृतौ क्रन्दति - साकेतं साकूतं मनसि जागर्ति - तक्षशिला चित्तं विदलयति -
कदाचिदियं चङ्क्रमणा समाप्तिमियात्।
काचन छाया वर्तते या तमनुसरति। स मुहुर्मुहुः मुखं परावृत्य पश्यति - कश्चन
जनो वर्तते, स आयाति। विशाखेन उच्चैराह्वानमपि कृतम् - कोऽयं भोः? परन्तु सा छाया तस्य स्वरेण कुत्रापि विलीना।
अकस्मादेव समुत्था वात्या। पश्यतो विशाखस्य द्वौ वृक्षौ धराशायिनौ जातौ। प्राणान् रक्षितुकामः स आश्रयान्वेषणाय अधावत्। उपरि वात्यायाः वेगो न्यून इति उपरि आरोहति स्म।सहसा स चीत्कृत्य भूमौ निपपात। काचन शिला आसीत्, अथवा केनापि प्रहारः कृतः, कस्तं प्रहरेत् - सा छाया उपसर्पति, सा तस्य वस्तूनि गवेषयति, विशाखो किञ्चित् किञ्चिदवगच्छति, परन्तु तस्य पाणिपादं न प्रसरति।
(3)
संज्ञामवाप्य विशाखः प्रशस्ते एकस्मिन् शिलापट्टके आत्मानं शयानमपश्यत्। परितो दृष्टिमददात्। न वात्या, न वा हिमानी न वा हिमम्। भास्करो भास्वरं प्रकाशते।तेन कुत्र गन्तव्यमासीत् - कुत्र च प्राप्तः? किमिदं स्थानम्? परितः सन्ति उत्तुङ्गाः शिलोच्चयाः। अधस्ताद् हरीतिमा प्रसृतः - अनन्ता वनराजिः। आतपस्य स्वर्णराशिः सर्वत्र विकीर्णः।
स उत्थाय परितो व्यलोकयत्। न कोऽपि दृश्यते। किं तर्हि तेनापि देवेनाहमत्रानीतः। अहं पर्वतस्य पादप्रदेशे आसम्। तत्र शिलाः निपतन्ति स्म।
मम वस्तूनि? मञ्जूषायां मिलिन्दप्रश्नस्य पुस्तकम्, मम सक्तूनां प्रसेवकम्, मम उपहस्तिका - कुत्र गतं तत् सर्वम्?
सहसा पुनर्नभसि मेघाः कृष्णमृगाणां यूथा इवाधावन्। पूगास्थूलानि पृषन्ति वृक्षाणां पत्राणि स्पृशन्ति, नीचैश्च निपतन्ति टप्-टप् इति रवं तन्वन्ति स्म। विरला वाता गुरवो जाताः। सन्सनेति हिमार्द्रः पवनः प्रवहंस्तत्र सङ्गीतकं समग्रयति स्म। कीदृशीयं लीला वर्तते नियतिनट्याः! इदानीमेव उन्मुक्ते नभसि रविस्तपति स्म अधुना इमा वर्षाः! तथापि वर्षा अत्र तथा न बाधन् यथा पूर्वं बाधन्ते स्म।
विरते वर्षावेगे सहसा स गीतध्वनिमशृणोत्। त एव शब्दा मुहुर्मुहुरावर्तिताः। स्वरोऽयं सूतवर्यस्य कषायितं प्रौढं स्वरमनुहरति। तस्यां अर्धतन्द्राया दशायामपि श्रावं श्रावं रोमाञ्चकञ्चुकैरन्वितं भलति स्म विशाखस्य वपुः।
न, नेदं गीतम्। पालिगाथा वर्तते। तक्षशिलायां स्थित्वा मागधी अधीता। त्रिपिटकान्यपि पठितानि। तत्र एतादृश्यः गाथा भवन्ति। शनैः शनैर्गाथायाः शब्दाः स्पष्टा जाताः--
छन्ना मे कुटिका सुखा सुवाता।
वस्स देव यथासुखम्।
चित्तं मे सुसमाहितं विमुत्तम्
आतापी विहरामि
वस्स देव यथासुखम्।।
कश्चन गायति स्म। स्वरो भुवनाभोगमिव पूरयति।
स्वराः मेघानां गर्जनेन, जवबिन्दुनिपातध्वनिना, पवनस्य प्रवाहजनितैः शब्दैश्च सङ्घट्टन्ते स्म। अस्मिन् निर्जने क एष गायति?आकान्यकुब्जादा सिन्धुदेशाच्च पथि पथि स पान्थानां मुखेभ्यः प्राकृतगाथाः अशृणोत्। परन्तु एतादृशी गाथा पूर्वं न श्रुता। भिन्न एव लयः, भिन्ना च यतिः। तथापि स्वरेषु वर्तते निरुपमं मार्दवम्। कदाचित् सूतवर्यः एवं गायति स्म, परन्तु तस्य कण्ठे वैस्वर्यं भवति।
मन्दीभूते पवनवेगे गाथायाः स्वरा अपि स्पष्टं श्रूयन्ते स्म। हिमालयगुहाः निस्तब्धं गाथायाः स्वरान् पिबन्त्यः प्रतीयन्ते पुनरावर्तयन्ति च। हिमालयोऽपि सतृष्णं गाथां शृणोतीति प्रतिभाति।
मन्ये - अहं नीचैः कस्यापि निर्दयप्रहारेण मूर्च्छितः, अथ केनापि उत्थाय इह आनीतः शायितो वेत्यकलयद् विशाखः।
स उत्थितः। गत्वा पश्यामि कः गायतीति तस्य मनस्यभवत्। यावत् पदात् पदान्तरं ददाति, तावत् शनैः शनैर्गाथाया स्वराः निकटीभूताः। स मनस्यकरोत् - मन्ये गायक इत एवागच्छतीति। अनन्तरं स्वराः विरताः, विशाखेन दृष्टम्- सम्मुखं स्थितः कश्चन भिक्षुः।
विशाखस्तं भिक्षुं तीक्ष्णनयनाभ्यां निध्यायति स्म। विशाला आकृतिः। दीर्घापाङ्गविसारिणी कान्तिमये करुणामये च नयने। उन्नता तीक्ष्णा नासा, अधरोष्ठे स्फीते। वर्णः स्निग्धश्यामलः। विशाखश्चिन्तयति स्म - मन्ये अयमत्रत्यो नास्ति, मध्यदेशान्मगधदेशाद्वा अत्र समागतः स्यात्, यतो हि एतादृशी आकृतिः उच्छ्रायश्च न भवति अत्रत्यानां पार्वत्यानां जनानाम्।
-- अरे, जागरितो भवान्!भवान् प्रकृतिमापन्न इति पश्यामि --इति विशाखमवलोक्य सोऽवदत्।
-- को भवान् - किमिदं स्थानम् - कुत्राहं वर्ते - अहमत्र केनानीतः? कुत्र गतानि मम वस्तूनि --
श्रुत्वा भिक्षुः अस्मयत। -- अरे एतावन्तः प्रश्नाः, एकैकशः यदि प्रश्नः क्रियेत तर्हि समाधानं शक्यं स्यात्। इत्युक्त्वा सोऽहसत्।
अथ चाह - भवतां वस्तूनि मया गुहायां सम्यक् स्थापितानि। वर्षा आयास्यन्ति।
भवतां मूर्ध्नः पृष्ठभागे वर्तते गुल्मः - भवान् केनापि पृष्ठतः प्रहृतः - मया तत्र औषधलेपनं विहितम् -
इदानीमपि मूर्ध्नः पृष्ठभागे पीडा भवति -
स भिक्षुः शान्तस्तं निध्यायति। विशाखः सकौतुकं तं निरवर्णयत्। वचोभङ्ग्या तु अयमत्रत्यो न प्रतिभाति। -- भवान् मगधदेशवासीति मन्ये - विशाखस्तमाह।
- अरे कथं ज्ञातं भवता? सत्यं मगधे जातोऽहं परन्तु इदानीं मगधे न वसामि।
--- भवतां भाषैव मागधी इति मया तथाऽभिहितम्।
-- भवांस्तु विचक्षण एव तर्हि - भिक्षुराह। अथ तमाश्वासयन्निव स कोमलेन स्वरेण न्यगादीत् - मया भवान् नीचैस्तत्र मूर्च्छितो दृष्टः। महती हिमवर्षा जायते स्म। अहम् उत्थाप्य भवन्तमुपरि आनीतवान्, इदं स्थलं सुरक्षितम्।
-- भवताऽहमानीतः, भवान् कथं मामानीतवान्?
-- बाहुभ्यामुत्थाप्य आनीतवान् -
विशाखश्चकितचकितस्तं भिक्षुमवलोकयति स्म। तस्य पुरः आत्मानं वामनं तं च विराडिव अमन्यत। एतादृशः दीनताबोधस्तेन इदम्प्रथमतया अनुभूतः। स आत्मनि आत्मानमवलोकयति स्म - कीदृशोऽहं सञ्जातः, मन्ये तस्करेण यन्निर्घृणं कर्म कृतम्, तेन मम आत्मविश्वास एव च्छिन्न इति विशाखश्चिन्तयति स्म।
भिक्षोरवस्था कियती स्यादिति ज्ञातुं न शक्यते, तस्यैव समवयस्कः स्यात्, अथवा दश-पञ्चदशवर्षाणि ज्यायान् स्यात्।
महानयम् उच्छ्रायः पर्वतशृङ्खलानाम्, कथमहमनेन उत्थाप्य शिखरपर्यन्तमानीतः इति स आश्चर्यनिर्भरं क्वचिद् भिक्षुं तमवलोकयति क्वचिद् उपरि वितानं विरचयन्ति विततानि सानूनि वा ऊर्ध्वमुखो निध्यायति।।
-- "अस्तु वार्ताः परस्ताद् भविष्यन्ति, भवान् श्रान्तः नितरां स्वस्थश्च नास्ति। मम गुहायां गच्छावः। तस्यां विश्राम्यतु भवान्।" --स भिक्षुः वदति स्म।
-- अहं स्ववस्तूनि अवलोकयितुमिच्छामि -
मिलिन्दप्रश्नस्य पुस्तकम् एकस्यां लघुमञ्जूषायां निधाय असौ धारयति। सक्तूनां प्रसेवकमपि धारयति। उपहस्तिकायां केचन कार्षापणाः निष्काश्चापि आसन्। ..
-- सर्वं वर्तते। तत् स्यात्। - विहसन् स भिक्षुस्तमाह - बहूनि वस्तूनि धृत्वा प्रवासं करोति भवान्। एतावान् परिग्रहः कष्टमुत्पादयति।
अथ सविशाखम्अपृच्छत् - गन्तुं शक्यते? -उपरि आरोहणं करणीयं स्यात्।
- शक्नोमीत्युक्त्वा विशाखो व्रजन्तं तं भिक्षुमन्वगच्छत्।
कठिनमारोहणम्। स्वर्णकारस्य आध्माता भस्त्रेव विशाख उच्छ्वसिति निःश्वसिति च। मूर्ध्नः पृष्ठे पीडा भवति। येन स प्रहृतः, तस्य किं स्वार्थम्? भिक्षुरयं कथयति - यत् मम सर्वाणि वस्तूनि सन्ति। अतः स नासीत् कश्चन लुण्ठाकः... तथापि स मामनुसरन्नास्त, छलेन च पृष्ठतः प्रहारं कृतवान्, यदाऽहं प्रहारेण मूर्च्छितः अर्धमूर्च्छितो वा तदा स मम वस्तूनि अन्विष्यति स्म -तर्हि -
सहसा विशाखः स्तब्धः - स पुनः पतिष्यतीति भिक्षुस्तमधारयत् - अपि नाम अस्वस्थो भवान् - गन्तुं न शक्यते - किञ्चिद् विश्रामं करोतु, ततः पुनर्व्रजामः आरोहणं तु कठिनम् - न। व्रजामः। शीघ्रं व्रजामः। - विशाखस्तस्य अवलम्बनं निरस्य द्रुततरगत्या अग्रे अचलत्। स भिक्षुस्तमवलोक्य विस्मितः। आह च - शनैः शनैः - कठिनम् आरोहणम् - कठिनः पिच्छिलश्च पन्थाः ...
इतः सरलवृक्षाणां सघनाः पङ्क्तयः, परितो देवदारवः, मध्ये अत्यन्तं तन्वी पद्धतिः। तस्याम् उभयोः सहगमनं न सम्भवति। अग्रे स भिक्षुः, विशाखश्च तस्य पृष्ठतः कथञ्चित् सर्पति। पदे पदे लता-गुल्म-प्रतानानि अवरोधं कुर्वन्ति। उपरि काकः कर्कशं रारटीति। तं प्रत्युत्तरयन्निव कश्चन विहगः अतीव मनोहारि गायति।
गच्छता विशाखेन औष्ण्यमनुभूतम्। कीदृशमिदं स्थानम्। अत्र हिमपातो विरतः। शनैः शनैः कुज्झटिकां करैरपसार्य मेघपटीतोऽवालोकयत् भगवान् भास्करः।
हिमालयस्य अधित्यका इयं वर्तते। नीचैः नीचैः सन्ति देवदारूणां सरलानां च सघनाः पङ्क्तयः। यस्मिन्स्थाने स स्थितः, तत् परितो न सन्ति देवदारवः सरलद्रुमा वा। केवलं भूर्जवृक्षाणां विरलाः पङ्क्तयः। अरे एतादृशो भवति भूर्जद्रुमः - विशाखः सनातनस्य सूतस्य वर्णनं स्मृत्वा प्रत्यभिज्ञातवान्, कियती कोमला अस्य त्वक् - अयमेव अस्मिन् हिमशीतले उच्छ्राये जीवति - यत्र देवदारवः सरला अपि न प्ररोहन्ति तत्र भूर्जस्य प्ररोहः -अतो अग्रे सर्वं प्रशान्तम्। न कोऽपि स्वरः, न कोऽपि शब्दः। निखिला सृष्टिर्यथा स्थगिता स्यात्।
विशाखस्य मनः चिन्ता कृन्तति। अपि नाम सत्यमेव मिलिन्दप्रश्नस्य पुस्तकं गतम्?
भस्रायामिव याति आयाति च श्वासः। आत्मानमेव धारयितुं न प्रभवति शरीरम्।
-- भवान् श्रान्तो लक्ष्यते। अत्र क्षणं विश्राम्यतु। - स भिक्षुराह।
कियदुपरि अस्य गुहा भवेदिति सविस्मयं विचारयन् विशाखस्तमोमित्युक्त्वा शिलायामुपाविशत्।
-- "अयमहम् इतो गतश्च तत आगतश्च।" - इत्युक्त्वा स भिक्षुः सपदि ततः प्राचलत्।
-- "मम वस्तूनि" - विशाखो व्रजन्तं तं पुनरपि अस्मारयत्।
-- भवतां वस्तून्यपि इहैवानयामि - इति कथयन् सोऽन्तर्हितः।
दूरात् सिंहगर्जनस्य भैरवो रवोऽश्रूयत। निर्जनमिदं स्थानम्। सर्वथा अज्ञातं च।
सद्य एव स भिक्षुः कानिचित् फलानि आनीय तस्य पुरः स्थापितवान्। एतादृशानि फलानि विशाखेन इदम्प्रथमतया दृष्टानि।
विशाखस्य फलेभ्यः रुचिर्व्यपगता। "मम वस्तूनि" - स सोत्कण्ठं भिक्षुमवदत्।
भिक्षुः पुनरन्तर्हितः, पुनश्च तस्य परिच्छदेन सह आगतः। प्रसेवकः, भृङगारः रज्जु - समुद्गके सक्तवः -
-- एतावदेव ? -विशाखः सापेक्षं सर्वमवलोक्य तमपृच्छत्।
- एतावदेव। मया सावधानतया सर्वाणि वस्तूनि गृहीतानि -
-- भगवन् - तेष्वेव वस्तुषु एका मञ्जूषा आसीत् -
-- मञ्जूषा? सा तु न मया दृष्टा। -
-- गतं तर्हि पुस्तकम्। गतं सर्वस्वम्।
तस्य विवर्णं मुखं दृष्ट्वा असहायां च वाणीं श्रुत्वा स भिक्षुरवदत् - किं गतम्? - अथवा यद् गतं तद् गतम्, प्राणास्तु तिष्ठन्ति - शास्ता अस्मानुपदिशति - गते शोको न कर्तव्यः। सर्वं क्षणिकम्। यद् गतम्, तद् गतम्। तन्न निवर्तेत।
-- यद् गतं तत् प्राणेभ्योऽपिप्रियतरम् --
-- अस्तु,वयं पश्यामः, यत्र भवान् मया निपतितो दृष्टस्तत्र गत्वा अन्विष्यामः - किं वस्तु आसीन्मञ्जूषायाम्? मन्ये अतीव बहुमूल्यं रत्नं स्यात्। तत् प्राप्येत।
-- शाकलादहं प्रचलितः - तत एव स मामनुलग्नः, अनुपदमायाति - मया मूढेन नावहितम्। अहमपि कथं जानीयाम् यदेकस्य पुस्तकस्य कृते स तस्करकर्म कुर्यात्?
- पुस्तकं गतं तर्हि - अहो - महती क्षतिः - स भिक्षुः सखेदमवोचत्। अस्तु किमपि अश्नातु भवान् - अनशनेन तु अशक्तिः स्यात्। अशक्तिर्यदि स्यात्, तर्हि अग्रे किं करणीयमिति न बुद्धिः प्रवर्तेत...
तेनारुनुद्धो विशाखः कथञ्चिदशनमकरोत्।
इदानीं स सुस्थः। स भिक्षुरपि तस्य पार्श्वे उपविष्टः। विशाखोऽवदत् - आर्य, महानयं भवतां मयि उपकारः। तथापि एतद् ज्ञातुमिच्छामि - किमिदं स्थानम्, को भवान् - केन हेतुना अत्र निर्जने वसति, यतो हि भिक्षवस्तु न एकाकिनः सञ्चरन्ति -
तथागतेन प्रोक्तम् - एको चरेत् खग्गबिसाणकप्पो - अत एवाहम् एकाकी विचरामि - अधुना अत्र एकाकी वसामि - इत्युक्त्वा स पुनरस्मयत।
असमाहित इव विशाखस्तं व्यलोकयन् आस।
- तथापि भवतां प्रश्नानाम् उत्तराणि न मया दत्तानि। अहमस्मि शान्तिशीलो भिक्षुः। इदं स्थानं हिमालयस्योपत्यका। उत्तरे कैलासः, इतश्च क्रौञ्चद्वारम् - तत्र सुदूरमवलोकयन्तु - काचन नगरी दृश्यते - सा अलका -
-- अलका - स मार्गभ्रष्टोऽलकां यावदागतः! इयं सैव अलका स्यात् या कविना कालिदासेन वर्णिता!
--केन कविना वर्णिता इति तु न जानामि, परमलकां प्रत्यक्षमवलोकयामि। तत्र यामि, पुनश्चात्र परावर्ते। एवं गतागतेन मे जीवनं याति।- शान्तिशीलः कथयति स्म।
-- एवमेकाकिनो भयं न भवति भवतो मनसि?
श्रुत्वा स पुनरस्मयत। अनन्तरं च गाथामिमामगायत् -
नाहं भयस्य भायामि।
सत्था नो अमतस्स कोविदो।
यत्थ भयं नावतिट्ठति।
तेन मग्गेन वजन्ति भिक्खवो।।50
अहो अस्य निर्भयत्वे अभिमानः! विशाखो विचारयति स्म - अथवा गाथाभिराभिरस्य निर्भयत्वम्। निर्जनेऽस्मिन् एता गाथा विरचयन् गायन् वा अयं मृत्योर्भयं जितवान्। किं गाथा अमृतत्वमापादयन्ति?
- अस्तु सा कुटी कुत्र वर्तते यस्यां भवतो महानभिमानः।
-- कीदृशी कुटी?
-- यामधिकृत्य भवान् गाथां गायति - छन्ना मे कुटी सुखा सुवाता।
-- श्रुत्वा भिक्षुः पुनरस्मयत। क्वास्ते कुटी?सोऽवदत् - नास्ति कापि कुटी।
-- अस्तु तर्हि नास्त्येव कुटी। - अयं मनाङग् विक्षिप्तः - किमहं वच्मीति स्वयमेव न जानातीति चिन्तयन् विशाखः प्राह।
-- अथवा - कुटी तु भवतां पुरो वर्तत एव।
विशाखः सम्मुखं व्यलोकयत्, परितो व्यलोकयत्। परितो हिमालयस्य शङ्खधवलाः सानवः, सम्मुखं च स भिक्षुः।
-- मम पुरः? तथापि न पश्यामि - स तं भिक्षुमाह।
-- पश्यतु माम्। अहमेवास्मि कुटी। मम मनः कुटी, मम कायोऽपि कुटी। इयं मम कुटी सुखा सुवाता। अत्राहं सुखेन वसामि, सङ्कल्पेन इयं मया छादिता, अतः दुःखातपस्य भयं नास्ति।
-- विज्ञानवादसम्मतं भाषते भवान् - विशाखोऽवदत् - तत्तु पूर्णं सत्यं नास्ति।
- को नाम विज्ञानवादः इति न जानामि। यथा आत्मानं पश्यामि तथा वदामि।
विशाखेनानुभूतं - सत्यमेवायम् आत्मानुभूताशंसी।
अनन्तरं प्रसृत उभयोर्मध्ये सेतुमिव रचयन् वार्तालापः। उभौ थेरवादं तदधिकृत्य वसुमित्रस्य व्याख्यां च विषयीकृत्य विवादमकुरुताम्, क्वचिद् प्रथमसङ्गीतौ त्रिपिटकग्रन्था यथा सङ्कलितास्तेषां प्रामाण्यमधिकृत्य।
शनैः शनैः शान्तिशीलः स्वजीवनगाथामपि गाथाभिः समं तमश्रावयत्। पाटलिपुत्रे शान्तिशीलस्य प्रपितामहः शुङ्गराज्ञो बृहद्रथस्य महासामन्तः। स परिणते वयसि बौद्धो जातः। पाटलिपुत्रे एवैकस्मिन् विहारे स निवसति स्म। शान्तिशीलस्य पितामहोऽपि शुङ्गराज्ञो बृहद्रथस्य विश्वस्तेषु अमात्येषु एकः। अथ मगधदेशे महान् विप्लवो जातः। बृहद्रथं निहत्य तस्यैव सेनापतिः विप्रः पुष्यमित्रः शासको जातः, पतञ्जलिर्नामा महान् वैयाकरणः आयुर्वेदविशारदः योगसूत्रकृत् तस्य अमात्यः। शान्तिशीलस्य पितामहः पुष्यमित्रेण निहतः। अथ पुष्यमित्रः यो मे बौद्धभिक्षोः निकृत्तं शिरो ददाति तस्मै अहं दीनारशतं दास्यामीति उद्घोषयामास इति श्रूयते स्म। भिक्षवः पाटलिपुत्रात् पलायन्ते।सङ्घे शतं भिक्षव आसन्।
शान्तिशीलस्य पिता तदानीं प्रायो विंशतिवर्षीयः स्यात्। स स्वभार्यां कांश्चन सेवकांश्च आदाय पाटलिपुत्रात् प्रचलितः। मातुरङ्के आसीत् स्तनन्धयः शान्तिशीलः। इदं नाम तस्य पूर्वाश्रमनाम नास्ति। यन्नाम आसीत् तन्न कदापि स जिह्वायामानयति। आसन् रत्नजटितानि पात्राणि, हिरण्मयानि आसनानि, तानि आदाय ते प्रस्थिताः। पाटलिपुत्रात् पश्चिमोत्तरं ते प्रचलन्ति स्म। मार्गे लुण्टाकैस्ते परिवारिताः। ते राज्ञः सैनिका वा आसन् दस्यवो वा - परन्तु सर्वान् निहत्य तैः स्वर्णमुद्राः अपहस्तिताः। शान्तिशीलस्य पिता एकस्य दस्योरसिप्रहारेण व्रणितः भूमौ निपतितः। शान्तिशीलस्य माता कथञ्चित् विपिने गुल्मेषु लीना तं च आत्मानं च अरक्षत्।
महती कथा। अत्यन्तं कारुणिकी कथा। विशाखः शान्तिशीलं विलोकयति - यथा दुःखानां सङ्घातः वज्रकायं धृत्वा उपस्थितः। एतावन्ति दुःखानि तेन अनुभूतानि यत् स स्वयं दुःखातीतो जातः। कथां कथयतोऽपि तस्य अधरोष्ठयोः स्मितमेव। किन्तु कथां कथयन् मध्ये मध्ये विरमति। सहसा अपूर्णामेव कथां संहरति। माता कथं कुत्र तं नीतवती, कथं च असौ हिमालयस्य अस्मिन् प्रान्ते प्राप्त इति न स विवृणुते।विशाखस्यापि न भवति एतावत् साहसं यत् स तम् अग्रे किमभवदिति सनिर्बन्धं पृच्छेत्।
सहसा तर्जन्यां केनचित् कीटेन दष्टम्। विशाखस्य मुखात् सीत्कृतिर्विनिर्गता। अङ्गुष्ठो लौहमयो जातः तक्षशिलायां या व्यायामसाधना कृता तया। किन्तु तर्जनी इदानीमपि कोमला। सर्पः स्याद् वृश्चिको वा - परन्तु सर्पः स्वफणम् इयदुपरि उत्थाप्य कथं दशेत्? विशाखो दष्टां स्वतर्जनीं परामृशन् अवस्थितः।
तस्य सीत्कारं श्रुत्वा विरम्य स्थितः शान्तिशीलोऽवदत् - अरे, मन्ये वृश्चिकपादपेन दष्टो भवान्। इयं वर्तते पार्श्वत एव विषमोचकः पादपः। अस्य पर्णमेकं लुनातु, मर्दयित्वा च तं पर्णम् अङ्गुल्यां लिम्पतु। विषं न भवति वस्तुतः, तदप्यौषधमेव। वस्तुतः शास्ता अस्मानुपदिशति एतेषां पादपानां व्याजेन - यत् एतेषां पत्राणि न छेदनीयानि इति।
श्रुत्वा विशाखोऽस्मयत। सर्वत्र शास्तारमेवायं पश्यति - सर्वत्र अस्य कृते शास्ता समेत्य उपदिशन्नास्ते -
देवदारुद्रुमस्य अधः वेदिका निर्मिता। तस्यामेव शान्तिशीलो विशाखमुपावेशयत्।
(4)
शान्तिशीलेन तथा स्नेहोऽवर्धत यथा जन्मान्तरीयः सम्बन्धः स्यात्। इदानीं काश्मीरं
गत्वापि किं स्यात्...? यत् प्रयोजनमभूद् गमनस्य, तदेव अतीतम् - - अथ च अस्मात्
स्थानात् सहसा अग्रे गन्तुं न शक्नोमि। यात्रा स्थगिता, गुरोर्भद्रबाहोः कार्यं स्थगितम्।
-- मन्ये काशीजनपदवासी अथवा साकेतवासी स्यात् भवान्। शान्तिशीलस्तं पृच्छति स्म।
-- साकेतादेवास्मि। कथं भवता ज्ञातम्।
-- भवतां भाषणेन। अत्यन्तं शुद्धम्। एतादृशं शुद्धं तालव्यं मूर्धन्यं च काशीवासिनः साकेतवासिन उच्चारयन्ति।
अनन्तरं पुनः प्रारभन् हिमवर्षाः। शान्तिशीलोऽवदत् - भद्र विशाख, यदि अत्रैव आलपन्तस्तिष्ठामस्तर्हि हिमावहै। तर्हि गुहां गच्छावः।
गुहा तु आसीत्। बहिर्न दृश्यते। द्वयोः शिलयोर्मध्ये अत्यन्तं सङ्कीर्णं द्वारम्। तत्र सर्वथा अवनम्य प्रवेष्टव्यं भवति। - दृष्ट्वा दृष्ट्वा अवनम्य अवनम्य आगन्तव्यम्। - शान्तिशीलोऽवदत् - द्वारं नास्ति, वर्तते रन्ध्रम् ....
भगवता व्यासेनाप्युक्तम् - दृष्टिपूतं न्यसेत् पादम्। परन्तु अत्र पादक्षेपस्यापि कथा नास्ति। अस्यां गुहायां तु जानुभ्यां रिङ्गतो जनस्यप्रवेशः स्यात्।
-- तर्हि दृष्टिपूतं न्यसेज्जानु इति पठनीयम् - विहसन् शान्तिशीलः प्राह।
श्रुत्वा विशाखोऽहसत्।
उभौ कथञ्चिद् अन्तः प्रविष्टौ। इयं गुहा विनयं शिक्षयति- अत्र उन्नतशिरसा स्थातुं न शक्यम्, अवनम्रेण प्रवेष्टुमपि न शक्यम्। इयं गुहा मम माता। इयं मया आलपति। एनामधिकृत्य गाथे मया भणिते। न मया भणिते। ते गाथे स्वयमेव मामुपेते। मामुपेतुं बहोः कालात् ते प्रतीक्षमाणे आस्ताम्। ममैव कुटी रिक्ता नाभूत्। यदा मम मनाक् कुट्यामवकाशो जातःतदा ते आगते। इदानीमहमस्मि, मम कुटी चास्ति, कुट्यां द्वित्राः पञ्चषा वा गाथाः सन्ति। ताभिर्गाथाभिः सममहं निवसामि।इति कथयन् शान्तिशीलोऽहसत्।
विशाखो व्यचिन्तयत् - प्रथमं पितुः निर्घृणो वधः, बाल्य एव प्राप्तमनाथत्वम्, अन्ततश्च इह एकान्ते निवासः - एतेन सर्वेण अयं भिक्षुः विक्षिप्तो जातः।
-- अहं विक्षिप्तो नास्मि -- -निर्निमेषं प्रशान्तभव्यया दृशा विशाखं वीक्ष्य स पुनराह - मन्ये मनाग् विक्षिप्तोऽहम्। विक्षिप्तत्वं नाम किम्? विशेषेण क्षिप्तत्वम्। अहमस्मि विशिष्य क्षिप्तः, अहं भाग्येन इह क्षिप्तः तथागतेन इह क्षिप्तः। लोकैरिह क्षिप्तः। क्षिप्तोऽपि आक्षिप्तोऽपि। तथापि आत्मानमात्मना धारयामि।आत्मानमात्मना आलपामि। अद्य भवान् दृष्टः, तर्हि आत्मैव दृष्ट इति अनुभवामि। अत आत्मानमात्मना वदामि। इत्युक्त्वा स पुनरहसत्।
प्रातःकालो जातः। हिमालयस्य निर्झरेषु स्नात्वा स्नात्वा समुज्ज्वलो रविः प्राचीदिक्तटादुपरि विनिर्याति स्म। विशाखेनापि निर्झरजलेन स्नानं विधाय सूर्योपस्थापनं कृतम्। शान्तिशीलः गुहाभ्यन्तरं तथागतस्य प्रतिमायाः सम्मुखं ध्याननिमग्नः। विशाखः शान्तिशीलं प्रतीक्षमाणः गुहायाः पृष्ठभागे शनैः शनैः प्रचलितः। अधस्तस्य दृष्टिर्गता। रात्रौ हिमवर्षा जाता। हिमसन्ततेः स्रस्तरेण वनभूमिराच्छन्ना। अग्रे पदपङ्क्तिरदृश्यत। हिमसन्ततेः स्रस्तरं लङ्घयित्वा केचन जनाः पशवो वा गताः स्युः, अथवा चतुष्पादानामेव पदचिह्नानि तानि।
शान्तिशीलः ध्यानान्निवृत्तो बहिरेत्य तस्य पार्श्वे स्थितः। अद्य तथागतः मत्पुरः प्रकटीभूतः, स कथयति - अस्य विशाखस्य सविधे यत् पुस्तकमासीत् तदन्वेष्टव्यम्.... पुस्तकं तु प्राप्येत -
- कथं प्राप्येत?
-अस्यां शिलायाम् आरोहतु भवान् - आरोहतु -
विशाखस्तेन निर्दिष्टायां शिलायामारोहत्। नीचैः किमपि दृश्यते -
-- नीचैः वनराजयः सन्ति -
-- न। अधो वनराजीः पश्यतु। तत्र किमपि दृष्टम्, दृष्टं वा?
--दृष्टम्- मन्ये वर्तते तत्र कश्चन गिरिग्रामः---
-- सत्यं गिरिग्राम एव। सा वर्तते अलकापुरी। ह्य ए मया सूचिता भवते - सैव। तत्र ये वसन्ति ते कदाचिज्जानीयुः भवतां पुस्तकस्य विषये - आवां तत्र गत्वा प्रक्ष्यावः- कथमिदमुच्यते इति प्रक्ष्यति भवानधुना। कथमिदमुच्यते --तत्र कारणं वर्तते..कारणं किम्? कारणमेतद् - यद् यत्र भवान् मया निपतितो विलोकितश्च उपरि आनीतश्च - ततो मार्गं याति अलकां प्रति। अत एव स तस्करः कदाचित् अलकां गतः स्यात् -
-- इदानीमेव अलकां गच्छामस्तर्हि - विशाखोऽवादीत्। तस्य मन उत्कण्ठितम्।
-- इदानीम्? इदानीमवसरो नास्ति - उचितः अवसरः आयातु - तदा पुस्तकप्राप्तेर्द्वारं स्वयमुद्घाटितं स्यात् -
- अपि नाम भवान् सर्वज्ञः ? विशाखः प्रष्टुमिच्छति स्म, परन्तु तूष्णीम् आस।
दक्षिणपार्श्वे काचन गुहा दृश्यते स्म। - अरे इयमत्र एका अपराऽपि गुहा वर्तते।
शान्तिशीलो यस्यां गुहायां वसति सा सङ्कीर्णा,एतस्यास्तु गुहाया द्वारमपि प्रशस्तम्।
विशाला च लक्ष्यते।
-- भ्रातः शान्तिशील, अपि पश्यसि तां गुहाम्, अहं तत्र वसतिं कल्पयामि - यावत् पुस्तकं पुनरुपलभ्येत - यावदहमत्र स्याम् तावत् -
शान्तिशीलः अस्मयत। अकथयच्च - तस्यां तु गुहायामन्य एव कश्चन मुनिर्वसति।
-- अरे, अन्योऽप्यत्र मुनिरस्ति। भवता पूर्वं किमर्थं न भणितम्? कोऽसौ , क्वासौ किन्नामधेयः कथं तस्य दर्शनं प्राप्नुयाम्? कदाचित् स मम पुस्तकं कुत्रास्ति, कथं च प्राप्येत इति ज्ञापयितुं क्षमेत -
शान्तिशीलोऽहसत्। - भद्र विशाख! भवान् एतावतः प्रश्नान् उपस्थापयति एतावदग्रे अग्रे विचारयति यदहं किं ब्रूयाम्? अस्तु, तस्यां गुहायां वसति मुनिराजः। तस्य दर्शनं सुलभं नास्ति - स खलु एकान्तवासी - कदाचित् अद्य श्वो वा स्यात् तस्य दर्शनम् - निकषा मधुपुरं यद् वर्तते सरस्तत्रासौ क्वचिज्जलं पातुं याति - तदानीमेव दर्शनं सम्भवेत् अन्यथा तु न -
-- अरे कीदृशोऽयं मुनिः?
-- स मुनिरेकान्तसाधकः। महायोगी। सप्ताहे सकृद् भुङ्क्ते। सप्ताहे एकवारं जलं पिबति।न अस्माकं मध्ये आयाति। नेतस्ततः पश्यति। प्रकृत्यैव धीरः। सर्वदा प्रायो मौनमालम्बते। यदि भाषते तर्हि न सर्वे ज्ञातुं प्रभवन्ति किमसौ भाषते। अत एव मुनिराज इति तमहमाह्वयामि।
-- तर्हि तस्य दर्शनं करिष्यामि। अवश्यं स मम पुस्तकविषयेऽपि संज्ञानं दद्यात्।
शान्तिशील एतच्छ्रुत्वा उच्चैरहसत्। विशाखो विमनायितः। - सर्वत्र अस्य हास्यमेव, न मच्चिन्तामयमवगच्छतीति मनसि अकरोत्।
अथ शान्तिशीलोऽवदत् --पुस्तकविषये चिन्तयाऽलम्। चिन्तया किं भविष्यति, किमपि न भविष्यति।
कठोरीभूतो दिवसः। उपरि देवदारोः कश्चन काकस्तारं रौति स्म। शान्तिशीलो विहसन्नाह - अयं काकः कथयति - कदाचित् श्वः स मुनिरस्मभ्यं दर्शनं दद्यादिति। इति कथयित्वा स पुनर्विहसितः।
मेघपटं संहृत्य रविः क्षणम् उभौ एतौ अवालोकयत्। शनैराकाशादवतरन् समीरोऽनयोः मुखाभ्यां स्वेदलवान् आचामति स्म।
मन्ये अद्य वर्षा न स्युः। आतप उन्मीलितः। - शान्तिशीलोऽवदत्।
(5)
अपरेद्युः विशाखो गुहाया बहिरागतोऽपश्यत् - शान्तिशीलः केनचिज्जनेन आलपति। विशाखः किञ्चिदुपसृत्य चकितः स्तब्धः निर्निमेषं विलोयकयन् स्थितः। अभूतपूर्वं रूपम्। शान्तिशीलेनोक्तमासीत् निकटमेव वर्तते अलकापुरी। इयं तत्रत्या यक्षिणी तर्हि। तन्वङ्गी,नितान्तं कमनीयकनकचम्पकगौरवर्णा, नयनेभ्यो दीप्तिः काऽपि विनिर्याति।
शान्तिशीलस्तया मन्दं मन्दं लपति। पुस्तकम् - इति शब्दम् उभयोर्वार्तालापे श्रुत्वा तस्य कौतुकं जागरितम्। तथापि विनयवशाद् दूरमवस्थितः। सा नयनाभ्यां पिबन्तीव तं शृणोति स्म, सग्रीवाभङ्गं तथा तथेति वदति स्म।
यावद् विशाखो विचिन्तयति अपि नामाहमुभयोर्वार्तालापे सम्मिलितो भवेयम्, तावत् सा युवती विहसन्ती हरिणीव उपत्यकायाम् उत्फालैः द्रुतं धावन्ती तिरोहिता। - अरे कथमियं तथा त्वरया अन्तर्हिता! उपत्यकाया उच्चावचे पथि गमनागमने धावने सा दृढमभ्यस्ता आसीदिति तु निश्चितम्।
अथ शान्तिशीलस्तमाह - भद्र विशाख, सुस्थिरो भव।अर्चा आगता आसीत्।सा मया उक्ता पुस्तकविषये। सा कथयति पुस्तकमलकायामेव स्यात्। मध्याह्ने तस्याः पिता आगमिष्यति।स तु अलकायाः अधिपतिः।
-- महानयमुपकारो मम स्यात् यदि पुस्तकं पुनः प्राप्येत।
मध्याह्ने अलकाग्रामप्रधान आगतः।
शान्तिशील एव विशाखमाहूय तस्य परिचयमददात् - अयम् अलकाया धनपतिः।
-- धनपतिस्तु कुबेरो भवति, सोऽस्माकं देवः।- विशाखो ब्रवीति स्म।
श्रुत्वा धनपतिरहसत्। प्राह च - नाम्नैव धनपतिरहम्। धनं तु किमपि नास्ति मे।
शान्तिशीलोऽवदत् - अयं कुवेरो वर्तते वा न वेति न जानामि, परन्तु अयम् अलकाग्रामस्य प्रधानः।
धनपतिः -- नमोऽतिथये, नमोऽतिथये इति विशाखं निगदन् त्वरया नोदितो धनपतिरवादीत् - अस्तु तर्हि भदन्ताः, गच्छामि, विलम्बेन कार्यहानिः स्यात्...
विशाखः प्रष्टुमिच्छति स्म - कीदृशं कार्यम्, अपि नाम मत्पुस्तकविषये किमपि ज्ञातम्, तदानीमेव सहसा शान्तिशीलो हर्षोत्फुल्ल इव तमवदत् - - भद्र विशाख, पश्यतु भवान् मुनिराजो याति। स एव मुनिर्यस्य महती दर्शनाकाङ्क्षा भवत आसीत्!
विशाखो झटिति समेत्य तस्य पार्श्वे स्थितः - क्वासौ?
तत्र अवलोकयतु - स गुहाया निस्सरति -
विशाखो निर्मिमेषनयनाभ्यां विलोकयन् स्थितः। एतादृशं भीषणं च प्रशान्तं च, विकटं च आकर्षकं च, भयावहं च मनोहरं च सौन्दर्यं न कदापि पूर्वं दृष्टम्। सुन्दरीणां मदस्खलितानि गतागतानि विलोकितानि तेन तक्षशिलायां शाकले च, गजानां गतिर्दृष्टा, हंसानामपि। परन्तु मृगराजस्य इयं गतिस्तु केनोपमीयेत? का गतिः, का प्रशान्तिः? कीदृशी भव्यता आकृतेश्च उदात्तता!
शनैः शनैः विशाखस्य पश्यतस्तस्य सिंहस्य आकृतिर्दूरीभूता। शान्तिशील आह - मध्येऽस्य पर्वतस्य अलकायाश्च वर्तते एका पुष्करिणी। तत्रासौ जलं निपीय पुनरागच्छेत्। बहोः कालान्मत्सकाशं नागतः। असौ मम सखा वर्तते।
-- अयं सिंहः, भवतः सखा?
-- एकदा तस्य दक्षिणं चरणं कण्टकेन क्षतम्। मया दृष्टम् - स कष्टेन स्खलन् चलति। मामवलोक्य स विरम्य पार्श्व उपविष्टः, चरणं च प्रादर्शयत्। मया कण्टको निस्सारितः। ततश्च स स्वमार्गेण गतः, अहं स्वमार्गेण। आवयोः पन्थानौ तु भिन्नौ, तथापि मैत्री तु अभिन्ना।
-- अस्तु, अद्य अलकां गच्छाव? कदाचित् तत्र पुस्तकस्य ज्ञानं स्यात्? धनपतिना भवतः का वार्ता जाता? अपि नामासौ पुस्तकप्राप्तौ साहाय्यं कुर्यात्?
-- पुस्तकस्य अवस्थितिर्ज्ञाता - कुत्र वर्तते इति ज्ञातम् - अलं चिन्तया - पुस्तकं प्राप्येत - परन्तु नाद्य -
-- किं किं भवानाह - अपि नाम प्राप्येत पुस्तकम्? शान्तिशील भद्र, महानयं भवतां मयि उपकारः - इति कथयन् साश्रु हर्षगद्गदं विशाखः शान्तिशीलमालिङ्गत्।
शान्तिशीलस्तं स्थिराभ्यां नयनाभ्यां निर्वर्णयन् गम्भीरेण स्वरेणाह - भद्र विशाख, काऽपि सङ्कटच्छाया भवन्तं परितोऽभितो आवर्तमाना वर्तते। तस्मै पुस्तकाय केऽपि स्पृहयन्ति, अथवा तस्य पुस्तकस्य नाशमेव इच्छन्ति ते।त्वं प्रागेव यात्रया क्लान्तः। एतच्च महद्दायित्वं गुरुभिः भदन्तैः भद्रबाहुभिः त्वयि न्यस्तम्। ते ममापि तथैव पूज्या यथा तव। नाहं त्वां समधिकतरम् उद्वेजयितुमिच्छामि। परन्तु अत्यन्तं सावधानेन भाव्यम्। कश्चन
दुरभिसन्धिर्वर्तते।
विशाखः तस्य वचसो गाम्भीर्यं विभावयन् मन्त्रेणाभिभूतो नाग इव क्षणं तं पश्यन्नवस्थितः। अनन्तरमाह - भद्र शान्तिशील, अहं यादृशस्तादृशो वा सङ्कटः स्यात्, न तस्माद् बिभेमि। तथापि कस्माद् भयं, कस्य दुरभिसन्धिः इति यदि सर्वं विशदयसि तर्हि सन्नद्धः स्याम् --
-- अहं स्वयमेव न जानामि भद्र, किं कथयानि - केवलमेतद् अवधारय - अद्य अलकाया यो ग्रामप्रमुखो धनपतिः सद्य एव आगतश्च गतश्च, स मयि स्निह्यति, मया आत्मानमुपकृतं मन्यते। उपकारस्तु मया न किमपि तस्य कृतः - एतत् तस्य औदार्यं वा गुणग्राहकत्वं वा - अस्तु, स जानाति पुस्तकं केन तस्करेणापहृतम्, तस्करो गृहीतोऽपि, प्राप्तमपि पुस्तकम्...
-- प्राप्तं मिलिन्दप्रश्नपुस्तकम् - अपि सत्यम् - भद्र, कथय कुत्र तत्?
-- सुरक्षितं वर्तते तत्, चिन्ता न कार्या। परन्तु सावधानतया स्थातव्यम्। वस्तुत आचार्यचरणाःस्वभावेन सरलाः। तैः एवम् एकाकिना भवता पुस्तकं प्रेषितम्, अस्मिन् कर्मणि स्यात् कश्चन महानन्तराय इति तैर्न चिन्तितम् -
-- इदानीमपि अहं किमपि न वेत्तुं पारयामि - भद्र, भवानाह पुस्तकं प्राप्तम् - इदानीं कीदृशोऽन्तरायः के परिपन्थिनः --
- वस्तुतस्तस्करस्तु वर्तते अलकायाः सीमान्ते केचन डोम्बजातीया वसन्ति तेष्वेव कश्चित्। परन्तु तस्य अनेन पुस्तकेन न कोऽप्यर्थः, स कस्यचिदादेशेन तथा कृतवान् - काश्मीरदेशस्य कस्यचिद् राजपुरुषस्यादेशो वर्तत इति ज्ञायते। यस्यादेशस्तेन एतेषां डोम्बानां पुराणः परिचयः, स एतावता एतैः सम्पर्कं करोति, एतेभ्यो धनं ददाति। तस्य पुस्तकस्य प्राप्त्या आचार्यचरणानां वसुमित्राणां गौरवं वृद्धिमियात्। केचन तेषां गौरववृद्धिं न सहन्ते। तैः पुस्तकस्य अपहरणं कारितम्।
-- महानयं भवतां मयि उपकारः यदि पुस्तकस्य पुनः प्राप्तिर्भवति। परस्तात् पश्यामः..
-- न, नायं ममोपकारः। भवतामेव उपकारः। एतादृशस्य पुस्तकस्य पुनरुद्धारे मम व्यवसायः, अनेन ममैव जीवनं धन्यतां गतम्। भवता महत्कर्म क्रियते - भवान् मत्कृते आदरणीयः।
अन्येद्युरेव पुस्तकं लब्धम्, अलकातः स्वयं धनपतिरागत्य दत्तवान्। विशाखो
गमनाय उत्कण्ठितः, शान्तिशीलेन निवारितः। धनपतिरपि एवमेव कथयति - एकाकिना नैव गन्तव्यम्। धनपतिः पञ्चयक्षान्विशाखेन साकं प्रेषयेत्। द्वित्राणि दिनानि विशाखेन प्रतीक्षा कार्या। यक्षाः कर्मकराः, कोऽपि इदानीं रिक्तो नास्ति। अन्यच्च - इदानीम् ऋतुरपि प्रतिकूलः। मार्गा अवरुद्धाः।
विशाखस्य मन उत्कायते। एकाकी एव गमिष्यामि, मार्गमपि वेत्स्यामीति स मुहुर्मुहुः कथयति, शान्तिशीलस्तु निवारयति। अवशो विशाखो दिनानि क्षपयति तस्याम् अलकापुरीसमीपवर्तिन्यामधित्यकायाम्।
अर्चा प्रतिदिनमागच्छति। सा शान्तिशीलस्य विशाखस्य च कृते फलानि आनयति। अर्चा वर्तते अत्यन्तं चपला किशोरी। अविरतम् आलपति।यदा वक्तुमारभते तूष्णीं न तिष्ठति। विशाखोऽपि तया विनोदं करोति।
यदा कदाचित् विशाखः शान्तिशीलेन सह अलकां याति। अलकाग्रामस्य सर्वेऽपि जनाः शान्तिशीलं प्रति बद्धादराः। स स्पर्शेन चिकित्सां करोति। इयं विद्या तेन पाटलिपुत्रे प्राप्ता। पुरा धनपतिः सन्धिवातेन ग्रस्त आसीत्।
पदात् पदमपि गन्तुं न प्रभवति स्म। स शान्तिशीलस्य चिकित्सया सुस्थो जातः। ततः प्रभृति तस्य गृहाद् अन्येषां ग्रामजनानां गृहेभ्यो वा शान्तिशीलस्य कृते कदाचित् फलानि दुग्धं व्यञ्जनानि वा प्रेष्यन्ते स्म।यदा ग्रामे कश्चन उत्सव आयोज्यते तदा ते सादरं तम् आमन्त्रयन्ते।
शान्तिशीलेन सह स प्रतिदिनं मार्गान्वेषणाय याति। कश्चन मार्ग उन्मीलितः स्यात्, येन अग्रे गमनं भवेत्। तस्मिन् दिने भ्रमन्तौ तौ दूरं निर्गतौ।
-इयम् अलकनन्दा वर्तते। अपरतो वर्तते भागीरथी। उपरि यदि गच्छामस्तर्हि गङ्गायाः स्रोतोऽवलोकयामः।
-- अपि नाम तत उपरि स्वर्गो भवेत्।
-- स्वर्गः? स्वर्गस्यात्र का कथा?
-- गङ्गानदी तु स्वर्गात् विनिःसृता। अनन्तरं सा अन्तरिक्षे ततः परं भूलोके प्रवहति। वयं गङ्गायाः भूलोकस्य स्रोतः यावत् समागताः। ततः परमवश्यं स्वर्गः स्यात्।
विभिन्नाः पादपाः। नानाविधानि पुष्पाणि। तेषां नामानि शान्तिशीलो जानाति। पादयोरधः हिमालयस्य शीतलाः शिलाः, उपरि विततं गगनम्। परितो देवदारुवृक्षाः। सहसा देवदारुवृक्षाणां पङ्क्तिं भित्वा तौ यस्मिन् स्थले समागतौ, सम्मुखं विलोक्य उभयोर्नयने
निबद्धे। श्वासश्चावरुद्धः। अहो जलानि इति विशाखस्य मुखान्निःस्सृतम्।
एकतः भागीरथी, अपरतः अलकनन्दा। हिमालयस्य कण्ठे लम्बिते मुक्तामाले इव। तयोर्मध्ये महामणिरिव राजते स्म सरोवरः।
- ततः परं वर्तते स्वर्गारोहणशिखरः। -सरोवरस्य अन्यस्मिन् पारे हिमाच्छादितं समुन्नतं शिखरमेकं सङ्केतयन् शान्तिशीलो भणति स्म।
-- तत्र मम माता स्यात्। - विशाखो निःस्तब्ध निःश्वासस्तस्यां दिशि विलोकयन् अवदत्।
-- भवतां माता तत्र कथं स्यात्। भस्मीभूते काये किमपि न तिष्ठति।
-- एतत्तु चार्वाकमतं वदति भवान्। सौगतस्तु न चार्वाकमतमाद्रियते।
शान्तिशीलोऽवदत् - परलोकः वर्तते वा न वेति अव्याकृतं प्रश्नमाह भगवान् बुद्धः। अस्मिन् लोके यत्किमपि प्राप्तुं शक्येत तत्र प्रयत्नो विधेय इत्येव तस्य आशयः।
माता तु वर्तते स्वर्गे इति विशाखस्य मनसि विश्वासः। यदि स्वर्गं यावद् गच्छामि तर्हि मातरं विलोकयिष्ये इति मनसि भवति।
सहसा द्वित्रा मृगा तयोः पार्श्वतः प्रधाव्य विनिर्गताः। अनिर्वाच्यः सुगन्धः नासापुटौ प्रीणाति स्म। कस्तूरीमृगाः - शान्तिशीलः सुप्रसन्नः उदगिरत्। बहोः कालादनन्तरं दृष्टाः। एते निरर्थकं धावन्ति। कस्तूरीमन्विष्यन्ति। कस्तूरी तु एतेषां नाभावेव वर्तते इति न जानन्ति।
विशाखः सूतवर्यम् अस्मरत्। तेन कथितमासीत् - माता तु सदैव त्वया सह वर्तते। तव मातृसूक्ते सा निवसति। सा सूक्ष्मशरीरेण विद्यते, सा त्वां निध्यायति। तव परिरक्षणं करोति। त्वम् कस्तूरीमृग इव निरर्थकमाहिण्डसे तस्या अन्वेषणाय।
सत्यं माता भौतिकशरीरेण पुनर्न प्राप्स्यते। तथापि मनसः कस्मिंश्चित् कोणे मातुः दर्शनाय बलवती आकाङ्क्षा जागर्ति। बालक एव स आसीत् तदा तेन निश्चयः कृतः यन्मातुः पुनर्दर्शनं करिष्यामि। इदानीं स तरुणः। कायस्तु यूनः, तस्मिंस्तु काये निवसति कश्चन बालकः, स बालक इदानीमपि मातुर्दर्शनं साक्षाद् भवितेति मन्यते।
(6)
कदा इतः परमग्रे व्रजामीति मुहुर्मुहुरुत्कायते स्म विशाखस्य चेतः। तुषाराच्छन्नं नभः। हिमपाते देवदारवः कम्पन्ते। क्वचित् प्रभाते सूर्यस्य दर्शनं भवति, पुनर्मेघा घटाटोपं रचयन्ति, झञ्झा प्रवहति, अनन्तरं पुनरपि हिमवर्षाः।
अर्चा प्रतिदिनं प्रभातायां रजन्यां तु आयात्येव, कदाचिदपराह्णेऽपि सा आयाति।
सा शान्तिशीलं तथा निर्वर्णयति यत् पास्यति समग्रं तम्। सूतेन सह निवसता तेन यद् यल्लौकिकं ज्ञानमवाप्तं तस्य क्वचिद् विनियोगं करोति विशाखः। एतेन विनियोगेन यद् रहस्यमुन्मीलितं तदेतत् - अर्चा शान्तिशीले दृढं बद्धभावा।
-- भद्र, शान्तिशील, इयं गौरी त्वां शिवं पतित्वेन समवाप्तुमुत्कायते।
-- शिवस्तु भवतां वैदिकानां देवः। का नाम गौरी?
-- गौरी हिमालयकन्या। सा शिवं पतिं प्राप्तुम् उग्रं तपश्चचार। शिवः तस्या मनोभावपरिज्ञानाय वटुवेषं धृत्वा नर्मवचोभिस्तां तुदति स्म।
विशाखः पार्वत्याः तपः, शिवेन वटुवेषं धृत्वा तस्याः परीक्षा इति सर्वमाख्यानं कथयति स्म। श्रावं श्रावं शान्तिशीलोऽतितरां प्रमोदेन विहसति। विशाखस्य मनसि महान्परितोषोऽभवद् यन्मया अस्य मनो रञ्जितम्।
-- एनां कथां कथयित्वा सर्वथा मनो जितं मम भवता - इति निगदन् शान्तिशीलः कथां स्मारं स्मारं मन्दं मन्दं विहसन् वदति स्म।
विशाखस्य पुरः अन्यादृश एव नवः संसारः प्रतिदिनमुन्मीलति। एकदा तेन नन्दिनो दर्शनं कृतम्। सोऽचिन्तयत् -- निकषा एव वर्तते कैलासः। मन्ये भगवतः शिवस्यैव वाहनभूतोऽयं वृषभः। परन्तु यथा स्वग्रामे काशीजनपदे अन्यत्र वा वृषा दृष्टास्तथाऽयं नास्ति। अस्य तु द्वौ ककुदौ। केसरिणः इव केसराः दीर्घाश्च केशाः। एतेषु पर्वतस्थलेषु एतादृशा एव गावः पशवश्च भवन्तीति मन्ये।
स सोत्साहं शान्तिशीलमाह - भ्रातः शान्तिशील! मया अद्य नन्दिनो दर्शनं कृतम्। मन्ये कदाचिदेवमेव भगवत्याः पार्वत्याः भगवतः शिवस्यापि दर्शनं भविता - आदौ तैः स्ववाहनं दर्शितम् -
अरे - एते वृषभाः शिवस्य वाहनानि न सन्ति। एतादृशाः वृषभा अत्र बहवः सञ्चरन्ति। अत्रत्या वनग्रामजना एतान् आरोहन्ति।
एकदा सायङ्काले नभो निर्मलमदृश्यत। प्रसन्नः पवनः आकाशादवतीर्य मुखं परामृशति, स्कन्धौ संवाहयति। शान्तः स्थिरो गुहापरिसरः। वृक्षा अपि निष्कम्पं स्थिताः।अस्तङ्गच्छतो दिनकरस्य किरणाः स्वर्णिमं स्रस्तरं निर्मान्ति स्म। तस्मिन् स्रस्तरे विशाखस्य दृष्टिर्निपतिता। - "अहो! तत्र बिन्दवः सरन्ति" - स आह।
यन्नयनाभ्यां यथा दृश्यते तत् तथा न भवति - शान्तिशील आह- नेमे बिन्दवः एते सन्ति गिरिग्रामस्य जनाः पशवः।
विशाखः चकितः स्थिराभ्यां नयनाभ्यां तान् बिन्दून् अपश्यत्। शान्तिशीलेन सत्यमुक्तम्। ते बिन्दवः आसन् प्राणिनः। केचन द्विपादः केचन चतुष्पादःमनुष्याः गावः,बलीवर्दाः ...अजाः श्वानोऽपि वा अत्यन्तं तीक्ष्णेन नयनेन सूक्ष्मा बिन्दव इति स्पन्दमाना विलोकयितुं शक्याः।
सन्ध्याकाले विशाखः अस्तङ्गच्छतो रवेर्बिम्बमवलोकयन् स्थितः। पश्चिमा दिग् युद्धभूमिरिव रक्तलेखमिव बिभर्ति स्म। शनैः शनैः आरक्तं क्षितिजं मेघा परिवार्य विजृम्भिरे। अथ मेघाः परस्परं क्रीडितुमारब्धवन्तः। कदाचित् ते गजयूथा अभवन्, कदाचित् देवालयाः। विशाखस्तान् दर्शं दर्शं कल्पनानां जालमास्तृणोति स्म। अथ ते मेघाः सोपानपङ्क्तिमरचयन्। तत्र आरुह्य उपरि गन्तुं शक्यम् इति प्रत्यभात्। विशाखः सोल्लासं शान्तिशीलमाह - पश्य बन्धो, मेघैः कथं सोपानमाला विरचिता। मन्ये आरुह्य पर्वतादुपरि यामि, तत्र अवश्यं भवानीपतिर्भवान्या सह विलोकयितुं शक्येत।
-- अरे कुतोऽत्र भवानीपतिः? अत्र सर्वत्र प्रस्तरशिलाः शिलोच्चया गुहाश्च सन्ति। पशवः सन्ति, विरलाश्च सन्ति मनुष्याः।
-- शान्तिशील! भवता देवा विस्थापिताः। यदि देवा न स्युः तर्हि कथं जीवेम?
-- अहम् आत्मनात्मनि स्थितः। देवानहं न कामये, न मे देवेभ्यः प्रयोजनं, न वा वेदेभ्यः।
विशाखः विस्मितः चिन्तयति स्म - एतादृशं वचनं पूर्वमपि कुत्रचित् श्रुतम्। परन्तु कुत्र? सहसा स्मृतिः स्फुरिता - अरे सूतवर्यो वासुदेवस्य कृष्णस्य विचारान् यदा प्रतिपादयति तदा एतादृशानि वचनानि उदाहरति स्म वासुदेवकृष्णकीर्तितानि। तर्हि किं बौद्धा यद् वदन्ति, तदेव वासुदेवेनाप्युक्तम्?
एकदा नभो निर्मलम्। वायुः शनैर्वहति। शान्तिशीलेनोक्तम् - विशाख, एहि अलकां यावः।
उभौ पर्वतादवतीर्णौ। मार्गो दीर्घः। प्रातः प्रस्थाय मध्याह्ने तौ मधुपुरं प्राप्तवन्तौ। अर्चा - सा बालिका कथम् एतावन्तम् उच्चावचं मार्गं विलङ्घ्य अस्य कृते पर्वतशिखरं प्रतिदिनमारोहतीति विस्मयते स्म विशाखः।
शान्तिशील, कुत्र त्वया अहम् आनीतः - विशाखः किञ्चिद् रुष्ट इव शान्तिशीलम् उपालभते स्म - अत्र प्रायः चाण्डाला वसन्ति। पक्कणमेव वर्तते इदं तु।
चाण्डाला अपि मानवा एव। पक्कणं तु नास्ति - पश्यतु भवान् स्वच्छता वर्तते - ममैव निवेदनेन एते इदानीं रथ्यासु मार्जनं कुर्वन्ति।
भद्रपुरीग्रामस्य रथ्याः विशाखस्य स्मृतौ परापतिताः। सर्वत्र मलीमसत्वम्, कच्चरचयाश्च तासु दृश्यन्ते स्म। तदपेक्षया लघुरपि गिरिग्रामः समुज्ज्वलः परिमार्जितो भ्राजते।
-- अहं तु एतं ग्रामं क्रीडनीयकं कथयामि -
-- क्रीडनीयकम्?
-- धरित्र्याः हिमालयस्य च क्रीडनीयकं तत्। उभौ तेन क्रीडतः। यथा यदा अहं शिशुरासं तदा पाञ्चालैः पाञ्चालिकाभिश्चाक्रीडम्। इत्युक्त्वा स पुनरपि अहसत्।
इदानीं विशाखोऽपि अहसत्। स्मृत्या सहैव चित्तं कषायितं जातम्। एका पाञ्चालिका ममाप्यासीत् मात्रा निर्मिता - स वक्तुमियेष परं तूष्णीमास। मात्रा निर्मिता पुत्तलिका। अत्यन्तं चारुदर्शना। सा तेन गुरुकुलादागतेन कच्चरचये प्रक्षिप्ता दृष्टा। मातुः स्मृतिस्तस्या स्मृत्या सह अनुविद्धा पुनरपि जागरिता मानसे।
इतो दृश्यते काश्मीरदेशः - शान्तिशीलोऽङ्गुल्या पर्वताशिखरमेकं निदर्शयन्नाह - तस्मात् शिखरात् परतः काश्मीरम्।
-- तत्रैव मया गन्तव्यम्। तत्र किन्नरो नाम राजा शास्ति। तस्य राज्ञी वर्तते धर्मप्रिया।
शान्तिशीलोऽवदत् - जानामि राज्ञः किन्नरस्य प्रवृत्तिम्। अहमपि कदाचित् काश्मीरं गमिष्यामीति विचारयामि। दश दिनानि तिष्ठतु भवान्। ऋतोः किमपि वक्तुं न शक्यते। पौषो मासो व्यत्येतु। माघे कदाचिदानुकूल्यं स्यात्।
शान्तिशीलः किन्नरस्य राज्ञो वंशं निरूपयति स्म। आसीत् पाटलिपुत्रे काश्मीरदेशीयः राजानको नाम भिक्षुः। स विक्रमशिलायामध्ययनार्थं समागतः। तेन आगोनन्दात् काश्मीरराज्ञां वंशः कथं प्रावर्तत इति विज्ञापित आसीत् शान्तिशीलः।
तृतीयः गोनन्दः अतीतेषु शतवर्षेषु शास्ति स्म। तस्य पुत्र आसीद् विभीषणः, विभीषणस्य पुत्र इन्द्रजितः। इन्द्रजिते दिवङ्गते तत्पुत्रो रावणः पुनः शशास। रावणोऽयमासीत् परं शिवभक्तः। अनन्तरं तस्य तनयो द्वितीय विभीषणः राजाऽभूत्। अयं किन्नरस्तस्यैव पुत्रो वर्तते। किन्नरस्तु लम्पटो विलासी, राज्ञी वर्तते धर्मप्रिया- राजानको भिक्षुरसूचयत्, परन्तु इदानीं का दशेति न ज्ञायते। समयः परिवर्तते। सर्वं क्षणिकम्, सर्वं वस्तुजातं परिवर्तते। स्थिरं किमपि नास्ति। शास्ता वदति - प्रतिक्षणं ध्वंसो भवति, प्रतिक्षणं पुनर्निर्माणम्।
एवं वार्तां कुर्वन्तौ तौ अधित्यकाया उपरि प्राप्तौ। शान्तिशीलस्य गुहा दृश्यते। तदनु अपरा गुहा। तस्यां वनराजो वसति।
-- हिमालयोऽपि तथागतस्य वचनं प्रत्याययति। शान्तिशीलः कथयति स्म।
-- कथमेतत्?
-- प्रतिक्षणं सर्वं परिवर्तते इति। पश्यतु भवान् हिमालयः कथं प्रतिक्षणं नवीनं रूपं धत्ते। भवान् ह्यस्तने दिने समागतः। तदानीं यादृशं दृश्यमासीदस्या गुहाया बहिस्तादृशमिदानीं न दृश्येत। इदमेव प्रतीत्यसमुत्पादः।
अरे पुनरपि तस्यैव क्षणभङ्गवादस्य प्रतीत्यसमुत्पादस्य च व्याधिना ग्रसितो भवान्। अधुना अहं प्रमाणं ददामि। पर्वताः परिवर्तनं न यान्ति परब्रह्मवत्। मया विलोकिता विन्ध्य-सह्य-मलय-सदृशाः पर्वताः। ते तथैव तिष्ठन्ति।
विशाखः शान्तिशीलेन विवदितुमारब्धवान्। यदि सर्वं क्षणिकं, सर्वं च प्रतिक्षणं परिवर्तते, तर्हि पूर्वस्मिन् क्षणे अहं यत्किमपि आसं तदिदानीमहं नास्मि - इति वक्तव्यं स्यात्।
-- सत्यम्। एवमेव वक्तव्यं स्यात् विशाखमहाभाग।
-- तर्हि,यदि पूर्वस्मिन् क्षणे अहं विशाखनामधेयः कश्चिन्मनुष्य आसम्, अस्मिन् वर्तमाने क्षणे अहं विशाखो नास्मि, तर्हि कथं भवान् मां विशाख इति सम्बोधयति?
-- एतत्तु धारावाहिकज्ञानेन भवति!
-- अत्रैव तावद् विप्रतिपत्तिर्जागर्ति। अहं विशाखो नास्मि इत्यपि सत्यम्, विशाखश्चास्मि इत्यपि सत्यम्। सत्यं किम्?
-- सत्यं चतुष्कोटिविनिर्मुक्तं भवति - सदपि नास्ति, असदपि नास्ति, सदसदपि नास्ति उभयात्मकमपि नास्ति।
-एतादृशस्य सत्यस्य कथं सत्ता भवितुमर्हति -
-- एतत्तु यद् भवन्तः वैदिकाः परब्रह्म अधिकृत्य प्रवदन्ति, तद्विषयेऽपि वक्तुं शक्यते।
-- आस्तां तावत्। एतादृशमेव यदि सत्यं, तर्हि तथागतस्य प्रतिमानां पूजने क आशयः?
-- प्रतिमा - सा तु संवृतिसत्यम्!
-- एतदेव सर्वो वदतो व्याघातः। यदा प्रतिमा पूजनीया भवति तदा तु संवृतिसत्यं स्मर्यते, यदा विशाखेन विवादः करणीयस्तदा परमार्थसत्यम्!
-- वैदिका अपि व्यावहारिकं सत्यं, प्रातिभासिकं सत्यं पारमार्थिकं सत्यमिति त्रिधा सत्यं परिकीर्तयन्ति। तथागतस्तु वर्तते - स मयि वर्तते, अहं च तस्मिन् वर्ते।
शान्तिशीलस्य स्वरे तादृशी अकम्प्या आस्था आसीद्, यया विशाखः अभिभूत इवक्षणं स्तब्धः।एतादृशी आस्था तस्य तर्कव्यूहं भित्त्वा तमवशं करोति। विशाखस्तां हातुं न शक्नोति न स्वीकर्तुम्।शान्तिशीलेन विवदतस्तस्य सैव स्थितिर्भवति स्म, या सूतवर्येण सह आलापं कुर्वतः। सूतवर्यस्यापि महती आस्था व्यासे पुराणे वासुदेवे च।
- तथागतस्तु सर्वज्ञः। स जानाति, परं न वक्ति। किमर्थं न वक्ति, यतो हि ममैव योग्यता न वर्तते तस्य वचःश्रवणाय - यदि योग्यता स्यात् तर्हि तस्य मौनादपि मम चेतसि शब्दाः समाधानानि च स्पन्दितानि स्युः। -- शान्तिशीलः स्वगुहायां तथागतस्य प्रतिमां दर्शं दर्शं निगदति स्म।
अलकायाः प्रतिदिनम् आयाति अर्चा।उच्चपर्वतस्य शिखरस्तस्या आगमनेन सुवासित इव जायते. सञ्चारिणी पल्लविनी लतेव सा शनैः शनैः शिखरमारोहति। विशाखस्तामवलोक्य कालिदासस्य काव्यं स्मरति --मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम्।
एकदा गतायां तस्यां तेन सविनोदं कालिदासस्योपमा शान्तिशीलस्य पुरो व्याख्याता। शान्तिशीलोऽवदत् - इयम् उपमा न श्लिष्यति अस्माकं कृते .... आवयोः कृते। वयं तपोधनाः नैव स्मः। अपरं च वयं पाण्डुपत्राणि अपि न स्मः।
-- अरे भवान् शुष्कपत्रमिव बहु मर्मररवं करोति इति उपमा श्लिष्यति।
-- भवतु यथा गौरी शिवं प्रतिदिनमर्चयितुमागच्छति स्म, तथा इयम् अर्चा त्वयि निबद्धरतिः त्वां पूजयति। इदानीमेनां स्वीकुरु।
कदाचिद् विशाखोऽर्चयाऽपि विनोदम् अकरोत् - भद्रे, अयं विरक्तः। न त्वयि दृष्टिं ददाति। किमर्थमेनां पूजयसि?
-- अहमेनं कामये। मया अयं वृतः, अस्य स्नेहं यावन्न लभे तावद् - अर्चाऽपि
विहसन्ती शान्तिशीलं कटाक्षैः क्षतविक्षतमिव कुर्वती प्राह।
-- शान्तिशील, किमर्थं न स्वीकरोषि अर्चाम्, सा त्वत्कृते ताम्यति, विचलति
वेल्लति - एतावदुच्छ्रायम् आरुह्य आरुह्य प्रतिदिवसमिह समायाति।
-- अर्चा वर्तते संसारः। संसारो मत्कृते नास्ति। यत्र संसारो विराममेति तत्राहं तिष्ठामि।"- शान्तिशीलोऽवदत्।
तदानीमेव पवनो निःस्पन्दो जातः। हिमालयगुहाः गाथायाः पदानि शृण्वन्त्यः तानि आम्रेडयन्ति स्म।
हिमपाते क्वचित् स्थेयमेवेति शान्तिशीलस्यैव सान्निध्ये यावद् हिमपातो न व्यत्येति तावद् निवसामीति निश्चिकाय विशाखः।
प्रकृतिः पुरुषस्य समक्षं नृत्यति। सा तस्य बन्धाय मोक्षाय च मायां विस्तारयतीति सांख्याः कथयन्ति। विशाखेनानुभूतं यदेतत् सांख्यानां मतं नास्ति सर्वथा सुश्लिष्टम्। हिमालयोपान्तमेत्य सोऽनुभवति - प्रकृतिरेव पुरुषं नर्तयति। प्रकृतिः लास्यं न वितनोति, ताण्डवं तनुते। अस्मिन् ताण्डवे मनुष्यो विवशो दोलायते।
हिमेन मार्गा अवरुद्धाः। एक एव मार्ग आसीत् काश्मीरान् गन्तुं, सोऽपि प्रस्तराणां निपातात् अवरुद्धः। शान्तिशीलो वारं वारं कथयति - मयापि गन्तव्यमेव। द्वित्राणि दिनानि प्रतीक्षस्व। ऋतोरानुकूल्ये सति प्रस्थानं करिष्यावः।
शान्तिशीलेन स विवदति, क्वचिद् वितण्डां क्वचिच्च वाक्छलमपि करोति। अनयोः कलहे विवादे कटुता न भवति स्म। अन्ततः सर्वं विशाखकृते परिहासे विगलितं भवति। एवमेव कलहायमानयोः विवदतोरुभयोर्मध्ये अनिर्व्याजः स्नेहोऽवर्धत। उभौ प्रवासिनौ, यथा प्रवासिनः पक्षिणः परस्परं न मुञ्चन्ति तथा उभौ परस्परेण बद्धौ। उभौ स्वदेशस्य गृहपरिवारस्य च विषये वार्तां कुरुतः।
गाथा उभयोर्मध्ये सेतुं रचयन्ति स्म। विशाखः कदाचित् प्राकृतगाथा गायति, शान्तिशीलोऽपि गायति थेरगाथाः।
अपि नामाहं मातरं पुनर्विलोकयिष्यामि - स एकदा शान्तिशीलमपृच्छत्।
-- विशाख, भवतां माता मृता। शरीरात् विनिर्गतेषु प्राणेषु किमपि नावशिष्यते।सा पुनर्न प्राप्येत।
शान्तिशीलस्य कठोरं वचः मनसो मर्म अभिनत्।
तेन सह पुनरयं प्रश्नः कथं पर्वतमिममुल्लङ्घ्य काश्मीरं प्राप्नुयात् सः?
(7)
वर्षासु मेघा धरां धारासारैराक्रामन्ति स्म, पर्वतास्तेषां नाराचैर्भल्लैरिव विदीर्णाः विक्षिप्ता इव शिरांसि धुन्वन्ति। शिखरा दोलायन्ते, शिलाः भयविगलिता इव नीचैः स्खलन्ति।
एकदा स शान्तिशीलमपृच्छत् - शान्तिशील एतादृशे शिलास्खलनेऽपि त्वं पर्वतमारोहसि अवरोहसि च। कथं प्राणानां सङ्कटादपि न बिभेषि?
--- एतावत् भयं प्राप्तं जीवने यदिदानीं सर्वं भयं विनिर्गतम्। - शान्तिशील उवाच।।
विशाखस्तस्य उत्तरं श्रुत्वा चकित इव तं पश्यन् स्थितः। सहसा पुनरपि सूतवर्यस्य स्मरणं मनसि उद्गतम्। कदाचित् सोऽपि एतादृशम् एव अभिप्रायं व्यानक्।
शान्तिशीलः पुनराह - इदानीं भयादपि अहं न बिभेमि। इदानीं सत्यमवगतम्। जीवनं दुःखमयं वर्तते, दुःखात् त्राणस्य उपायः वर्तते-इति तथागतः प्राह। स उपायो मया प्राप्तः। अतो न बिभेमि।
ऋतुचक्रस्य एतादृशं विवर्तनं विशाखेन न कदापि पूर्वमवलोकितम्। रजनी प्रभाता, परन्तु उदितमात्र एव सूर्योऽस्तङ्गत इति प्रतिभाति स्म। आकाशः पुनरपि सन्ध्याभ्रकपिशो जातः।मेघा आकाशे विकटं व्यूहमरचयन्। किमपि अप्रत्याशितं भवितेति आशङ्कया विशाखः शान्तिशीलेन सह गुहायामन्तः स्थितः। गुहाया बहिः दुष्टा इव मेघा निःशङ्कं सञ्चरन्तो गर्जन्तश्च तौ प्रत्यादिशन्ति। शान्तिशीलः ध्याने निमग्नो मौनं स्थितः। विशाखस्य मनसि वैकल्यमिव। सन्ध्यावन्दनमपि कर्तुमसौ नापारयत्। सूर्यस्य कापि गतिर्न ज्ञायते, सूर्योपस्थापनं कथं भवेत्।
शान्तिशीलो यस्मिन् संसारे निवसति, तस्मिंस्तु न सूर्योदयो न सूर्यास्तः, अथवा सदैव सूर्योदयः, सदैव सूर्यस्य चास्तङ्गमनम्। परन्तु अहं कथं व्यवहरामि? सूर्येण चन्द्रमसा च उदयं च अस्तं च गच्छद्भ्यां कालो नियम्यते। तस्मिन्नेव काले तु अहं वर्ते - इति विशाखो विचारयति स्म।
सहसा कर्कशकटुविरावैरतिभीषणं रवं विमुञ्चन्तो प्रबलैरासारैर्वर्षितुमारब्धवन्तो मेघाः। हिमालयोऽपि कम्पते स्मेति प्रतिभाति।प्रस्तराः पर्वताग्रात् स्खलन्ति स्म, निपतन्ति च स्म। मेघानां गर्जनं, प्रस्तराणां च भ्रंशः, प्रभञ्जनस्य च उत्कट उग्रो श्रवणभैरवो रवः -एते सर्वे शब्दा मिलित्वा कमपि कोलाहलं कुतपं56 विरचयन्ति स्म।
विशाखः शान्तिशीलश्च तूष्णीं गुहाभ्यन्तरं स्थितौ। अयं सङ्कटसमयः, कथञ्चिदतिवाह्यः, कथञ्चिदयं याति... यातु... परस्तात् सर्वमुपपन्नं स्यात्। परन्तु अस्मिन् क्षणे किमपि न बुध्यते -- किमपि वक्तुं न शक्यते, किमप्यालपितुं न शक्यते। पर्वतः महान् कोलाहलेन गुञ्जति, प्रकृतिस्ताण्डवं करोति, पर्वतास्तस्या नर्तने सङ्गतिं रचयन्ति मनुष्याणां वार्तालापः एतादृशे अद्भुते प्रसङ्गे कथं भवेत्?
कियान् कालोऽतीतः गुहाया अभ्यन्तरमिति न ज्ञायते। दिवसः गतो वा रजनी वा आगता, रजनी प्रभाता, प्रभातं वा रजनीयत इति वक्तुमसुकरम्। विशाखो मनसि मुहुर्मुहुः करोति, चीत्कृत्य शान्तिशीलं कथयेयं --भद्र शान्तिशील किमपि वद, किमर्थं ध्याननिमग्नस्तूष्णीं स्थितः? परन्तु शान्तिशीलः परमप्रशान्तमुद्रायां स्थितः। विशाखो विचलति, व्यग्रो भवति।
सूचीभेद्ये तमसि किमपि न दृश्यते। ओषधिप्रदीपाः निर्वापिताः। पशवः सुदूरं क्वचिच्चीत्कुर्वन्ति। गावो नर्दन्ति। महिष्यो महारवं विमुञ्चन्ति। गड्डारिकानां ध्वनिः मध्ये मध्ये श्रूयते। गुहाविसारीणिघनगर्जितानि पराहत्य मृगराजस्य अतिभयावहो निनादः सहसा समुत्थितः, अनन्तरं च चिरं गुञ्जति स्म।
अथ मनाग् विरते प्रभञ्जनस्य वर्षायाश्च रवे दिनमेवेदानीमपि इति प्रत्यभात्।
अन्धकारे आत्मैव केवलं ज्योतिः।
तथागतः कथयति - आत्मदीपो भव। आत्मैव दीपः तर्हि प्रकाशो नापेक्ष्यते।
शान्तिशीलेनोक्तमासीत् - न विशाख न, तथागतस्य वचनमित्थं नास्ति। तेनोक्तम् - अत्तदीपो भवेति अत्तदीप इति तु आत्मद्वीपम्, न पुनरात्मदीप इति।
सत्यं शान्तिशीलो द्वीप इव सर्वतः पृथग् भूत्वा अवस्थितः। विशाखोऽपि द्वीपायितः।
सहसा इरम्मदस्य57 तीक्ष्णं नेत्रनिमीलनकरं स्फुरितम् - अनन्तरं महाकटकटाशब्दः।
-- मन्ये महाकाल एव प्रधावितः। - विशाखो वदति स्म।
-- अरे कीदृशोऽयं शब्दो भद्र? विशाखोऽपृच्छत्।
-- अहं मन्ये पर्वतो निपतति - शान्तिशीलोऽकथयत्।
पुनरपि तडित् तारस्वरेण तडतडायिता। तस्याः स्फुरणे उभौ अवलोकयतः स्म - गुहा कम्पते।
सत्यम्, पतति स्म पर्वतः , कम्पते स्म गुहा - विगलति स्म नभः। किमेष एव प्रलयः?
अत्युग्रेण विरावेण कर्णौ प्रस्फुटिताविव।
-- भद्र शान्तिशील!
-- किमाह भवान्?
भवता तस्मिन् दिने क्षणभङ्गवादस्य प्रतीत्यसमुत्पादस्य च चर्चा कृता। इदानीमहं मन्ये क्षणभङ्गवादः
सत्यः, प्रतीत्य-समुत्पादमपि स्वीकरोमि। इमां वात्यां स्थगयतु भवान्, वर्षां विरमयतु कथञ्चित्। अहं सर्वं स्वीकर्तुं सन्नद्धः।
श्रुत्वा शान्तिशीलोऽहसत्।
अपि नाम अस्माकं गुहा स्खलिता? अपि नाम यस्मिन् स्थले गुहा आसीत् तस्मिन्नेव स्थले वर्तते उताहो अन्यत्र निपतिता? विशाखः शान्तिशीलं पृच्छति स्म।
किमपि उत्तरं नागतम्। शान्तिशीलः कथं नोत्तरयति?भद्र, अहं किमपि प्रष्टुकामोऽस्मि - स पुनराह, अथ स्वहस्तं च शान्तिशीलस्य स्पर्शमवाप्तुमितस्ततः प्रासारयत्। शान्तिशील! विशाखः उच्चैराक्रोशत्। तस्य प्रश्नं गुहा कवलीकृतवती।विशाखो भयेन चातङ्केन च जडीभूतः।भिक्षो शान्तिशील! कुत्रासि? स पुनः सर्वात्मना बलेन आह्वयत्।
पुनरपि गुहा तस्य आह्वानं कवलीकृतवती, परन्तु अतीतेषु पञ्चषु दशषु वा निमेषेषु कश्चन रवो दूराच्छ्रुतः - अहं बहिरस्मि भद्र विशाख!
अरे सर्वथा विक्षिप्तः किमु अयम्? एतादृशे व्यतिकरे गुहाया निस्सृत्य बहिस्तिष्ठति!गुहा कदाचिद् रक्षेत्, आकाशस्तु निगिरेत्।
साहसं सञ्चित्य विशाखः शनैः शनैर्गुहायाः विनिर्गतः। प्रभञ्जनस्य दीर्घद्रुमभञ्जनकरी गतिरिदानीं विरता। जलानां प्रवाहस्य महानादोऽवश्यं श्रूयते। मन्ये प्रभाता रजनी! विशाखेनोक्तम्।
-- न।दिनं सन्ध्यायितम्। शान्तिशील आह।
कालस्य कीदृशी गतिः? इयं प्रातःसन्ध्या वा आसीत् पश्चिमसन्ध्या वेत्येव निश्चेतुमशक्यम्। परन्तु शान्तिशीलः सत्यमाह। रजनी नैव प्रभाता। सर्वं विपर्यस्तं, परन्तु पूर्वा दिक् तु तत्रैव यत्र पूर्वमासीत्, तथैव पश्चिमापि। पश्चिमायां दिशि अरुणिमा दृश्यते। केवलं दिवसमात्र एव एतादृशो महान् व्यतिकरः संवृत्तः, तस्मात् सञ्जातो मतिविपर्ययः, अतः स चिन्तयति स्म यत् एकं दिनं एका च रजनी व्यपगता। रजनी तु इदानीमायास्यति।
विशाखेनावलोकितम्, पश्चिमदिशि अस्तङ्गच्छतो भुवनभास्करस्य धूसराच्छाया सङ्क्षिप्तानां च द्वित्राणां किरणानां सूक्ष्मा च्छविः सुदूरं सूक्ष्मदृशा अवलोकयितुं शक्यते।
शनैः शनैरधो हिमालयस्य तत्पादेषु स्खलति स्म सूर्यः। सूर्यस्य उज्ज्वलायामाभायां स्नान्ति स्म पर्वतशिखराः। नीचैः अद्भुतमेव आसीद् दृश्यम्। अरे एतादृशं तु दृश्यमिदम्प्रथमतया विलोकितम्! गुहायाः पृष्ठभागे सोऽसकृदागत्य अस्मिन्नेव शिलापट्टके स्थितः। अतः पूर्वमेतादृशं दृश्यं न कदापि दृष्टिपथमागतम्, केयं माया, कीदृशमिदं परिवर्तनम्! तत्र महान् सरोवर आसीत्!
--अरे भद्र शान्तिशील! एष सरोवरस्तु न पूर्वं दृष्टः।
हिमालयस्य शिखरेभ्यः स्यन्दमानाः सहस्रशो धाराः सरोवरं पूरयन्ति स्म।
-- "अत्र पूर्वं तु --"इति कथयतो विशाखस्य दृष्टिः सहसा शान्तिशीलस्य वदने निपतिता।
किमभवत्? भद्र शान्तिशील, किमिति एतादृश आतङ्कित इव त्रस्त इव स्रस्तसर्वगात्र इव लक्ष्यते भवान्? धारय धारय आत्मानम्!
शान्तिशीलस्य मुखं सर्वथा विवर्णम्, स सरोवरं हस्तेन सङ्केतयन् किमपि वक्तुकाम आसीत्, परं मुखात्तस्य शब्द एव न निस्सरति। अरे कीदृशी दशा जाता अस्य तपस्विनः? विशाख आत्मना आत्मानमाह।
भद्र विशाख! अलका -- इति कथयन् शान्तिशीलो विशाखस्य हस्तमगृह्णात्, मूर्च्छया भूमौ निपतन्तं तं विशाखः सबलाभ्यां भुजाभ्यामधारयत्।
शान्तिशीलो निःश्वासं विमुच्य तस्य स्कन्धे मस्तकं विन्यस्य रुदता स्वरेणाह - सर्वमेव समाप्तं भद्र विशाख! अलका नास्ति। अयं राक्षसः सरोवरो अलकां निगीर्णवान्।
- किमाह भवान्? एतत् कथं सम्भाव्यते?
-- सत्यं वदामि भद्र!
सत्यं वदति शान्तिशीलः। यस्मिन् स्थले महान् सरोवरस्तरङ्गायते तस्मिन्नेव तु स्थल आसीदलका!
--मैवं वद भद्र शान्तिशील! अलका एवं कथं समाप्ता स्यात्! आवयोर्दिग्भ्रमो जातः। वस्तुतो यादृशी वात्या वर्षा च सञ्जाता तेन दिशो न परिचीयन्ते।
इत्युक्त्वा स शान्तिशीलं प्रत्याशया अवालोकयत् - इदानीं शान्तिशीलः सहासं साट्टहासं वा कथयिष्यति - पश्य, तस्यामन्यस्यां दिशि वर्तते अलका, अयमेव क्षणभङ्गवादः।
-- परन्तु शान्तिशीलस्तथैव जड इव मूक इव भयस्तब्ध इव दुःखाकुल इव स्थितः।
किमर्थमहमत्र समागतः? शान्तिशीलस्य एतद् दुःखं द्रष्टुम्?विशाखो मनसि करोति स्म।
स शान्तिशीलेनालपितुं प्रायतत। शान्तिशीलस्तस्य वचोभिरात्मनो वचनं न मेलयति। कदाचिदन्यमनस्क इव आम् एवम् इति वा कथयति। पुनश्च मौनं वृणुते।
सत्यं प्रलयो जातः। अलकायास्तथा लयो जातः यन्मनो न विश्वसिति। सहसा गत्वा पश्यामीति उक्त्वा शान्तिशीलस्ततः प्रचलितः। - भद्र शान्तिशील सन्ध्या परिणमति। शीघ्रमेव तमश्छन्नं सर्वं भविष्यति। इदानीमपि शिलाः स्खलन्ति। प्रातः गत्वा द्रक्ष्यामः। इति कथयतो विशाखस्य वचोऽशृण्वन्निवशान्तिशीलोऽवनतशिराः विनतकायः शनैः शनैः पर्वतादवरोढुमारब्धवान्।
"विरम!... विरम!... विमुञ्च दुराग्रहम्, हठेन कष्टं स्यादि"ति साटोपं निगदन्तं विशाखमनादृत्य शान्तिशीलो याति स्म। अरे! कियान् कठोरोऽयं, कियान्निरपेक्षः, आत्मानमेव केवलं ध्यायति, एकश्चरेत् खड्गविषाणकल्प इति बुद्धवचनमेवानुसरतीति चिन्ताचर्चितचित्तो विशाखस्तस्मात् जुगुप्समानस्तं तर्जयन्नपि तस्मिन् निबद्धस्नेहस्तस्य पृष्ठतः प्रचलितः। विशाखेन मार्गो न ज्ञायते। परिचिता अपि पन्थानः प्रस्तरैस्तताः। वात्यया निकृत्ताः स्थूलाभिर्जलधाराभिर्धरायां शायिताः वृक्षाः पदे पदे मार्गं रुन्धन्ति। परन्तु अस्मिन् क्षणे शान्तिशीलः पादयोः विद्युतं मनसि प्रभञ्जनं च धृत्वा याति स्म। तस्य पृष्ठतो विशाखः प्रस्तराणां प्रहारैरात्मानं रक्षन् शान्तिशीलं च "रक्ष रक्ष आत्मान"मिति मुहुर्मुहुर्बोधयन्चलति स्म।
सहसा महती कापि शिला मध्येऽनयोः स्खलन्ती अतितीव्रेण वेगेन कटकटाशब्दं कुर्वाणा नीचान्नीचैः यान्ती तस्मिन्नेव महति सरोवरे पतिता। विशाखेनैतादृशः प्राणानां सङ्कट इदम्प्रथमतयाऽनुभूतस्तथापि कश्चन वर्तते यो रक्षति माम्, यो रक्षति एनं शान्तिशीलमपि, कामं स स्यात् तथागतो वा शङ्करो वा महाकालो वा हिमाचलो वेति मन्यमानः सोऽग्रे असरत्।
प्रायः प्रहरः अतीतः स्यात् यदा तौ तस्मिन् स्थले प्राप्तवन्तौ यत्र मधुपुरं पुरा आसीत्, इदानीं सरोवरः। मेघाः स्फुटिताः। चन्द्रमा उदितः। प्रथमम् अरुणच्छायः, ततः तप्तकनकवर्णाभः, तदनु पूर्णपक्वगोधूममञ्जरीतुल्यः पिञ्जरः। शनैः स पाण्डुरतां प्रपेदे।
इदानीं स क्षीणो मलिनो दीनः प्रतिभाति। कृतान्तस्य इमां सर्वां विनाशलीलां विषण्ण इव विलोकयति नभस इति प्रतीयते। तस्य श्वेता रश्मयो धरां स्पृशन्ति। मेघस्फोटेन विनिर्मितस्य सरोवरस्य महति जलराशौ दर्पण इव दीप्यन्ते।
मेघानां विदारणम् अलकां व्यनाशयत्। लयं याताऽलका। सूतवर्यो मेघस्फोटेन जलप्लावनम् एकस्मिन् आख्याने वर्णितवानासीत्। आख्यानस्य श्रवणेन तु ज्ञातुं न शक्यते मेघस्य दारणं कियद् दारुणं भवतीति। मेघस्फोटेन प्रलयकरो यो महाजलप्रवाहो विनिर्गतः, तेनैव विनिर्मितं विततमिदम् अगाधम् अपां निधानम् अनयोः सम्मुखं लहरीयते स्म। - अहो अलका क्व गतेति विषण्णः चकितचकितो विशाखो यावद् किमपि वक्ति, तावत् शान्तिशील आह - भद्र विशाख! विनष्टा अलका। मन्ये न किमपि अवशिष्टम् इति। एतादृशी वेदना शान्तिशीलस्य स्वरे न कदापि विशाखेनानुभूता, यदा तेन दस्युभिर्भिक्षुसङ्घस्य प्रत्यक्षं दृष्टो महासंहारो वर्णितस्तदानीमपि स तटस्थ इव अन्यैः सार्धं घटितं वृत्तं गदतीति प्रतीयते स्म। परन्तु इदानीं सोऽतितरामाकुलः अभितः परितो निकषा पुरस्तात् पश्चात् तिर्यग्वा मुहुर्मुहुर्विलोकयति,ओह -- आह - अरे - इति शब्दास्तस्य कण्ठान्निस्सरन्ति। विशाखेनैवम् आकुलो न कदापि दृष्टः शान्तिशीलः। शान्तिशीलोऽयं सर्वथा स्थिरचित्तः, घोराद् घोरतरेऽपि सङ्कटे सर्वथा स्थिरः अप्रकम्प्यमतिरेव स्थास्यतीति स विश्वसिति स्म। पाटलिपुत्रे महान्तं संहारं भिक्षूणां दृष्ट्वा कठोरहृदयः स सञ्जातः, इदानीं तं किमपि न व्यथयति, न विचालयति इति विशाखो जानाति स्म। परन्तु शान्तिशीलस्तु प्रकृत्या अत्यन्तं स्निग्धः कोमलः, अलकाया विनाशेनैवं हतप्रभः।
- तथापि वर्तते अलका। - शनैः शान्तिशीलोऽवादीत्।
अलका क्वास्ते? इति विशाखो मृगयति। सरोवरस्य तटे अवशेषाः सन्ति अलकायाः। तान् दृष्ट्वैव शान्तिशीलेन वर्तते अलकेत्युक्तम्। वृक्षस्य कस्यचित् शाखायां सक्तं कस्यचिज्जनस्य दुकूलम्, शिलानां सङ्घाते श्लिष्टः कस्याश्चिद् रमण्याः शवः। कीदृशी संहारलीलां व्यरचयन्महाकालः?क्व गतास्ते जना ये अत्र गायन्ति स्म हसन्ति स्म नृत्यन्ति स्म?किं जातं तेषामजाविकानां गोपालानां -- अथ अर्चा??सा क्व स्यात्?
अर्चां स्मृत्वा विशाखस्य नयनयोरश्रूणि उद्गतानि। स इदानीं शान्तिशीलस्य विकलतायाः कारणमप्यबुध्यत। कामं ताटस्थ्यं नाटयति स्म भिक्षुरयम्, न मे अर्चया किमपि प्रयोजनमिति कथयति स्म, परन्तु मनसि एतस्य निवसति अर्चा।
अत्र वयमागताः -- विशाखोऽनुमानेन अवशेषान् विलोक्य प्रत्यभिज्ञाप्रत्ययं करोति स्म - अत्रैव कदाचिदासीत् ग्रामप्रमुखस्य धनपतेर्गृहम्। तत् तु सर्वथा विलुप्तम्।
मुहूर्तं यावत् ते कालकवलिताया अलकाया अवशेषेषु अभ्रमन्। परितः शवाः। मृता गावः अजाः अन्ये च पशवः। शवानां पूतिगन्धः स्तीर्यते।
अथ विशाख आह -भद्र शान्तिशील, इमाः सीमानो मधुपुरस्य, इतोऽग्रे महद् वनम्। तत्र गमनेन किम्? दृष्टं यद् द्रष्टव्यम्। मनुष्याः न सन्ति, पशवो न सन्ति। किमत्र वर्तते? पश्य तावदत्र --तत्रापि - अरे तत्र तु गृहाः सन्ति -
-- भद्र विशाख,तानेव गृहानहं मार्गये। ते सन्ति श्वपचानां गृहाः। ग्रामाद् बहिश्चाण्डालानां पक्कणः। मेघानां स्फोटेनयो महाप्रवाहः सर्वामपि अलकामवाहयत्, तस्य प्रभावस्तस्मिन् पक्कणे तथा न जात इति मन्ये। अत एवाहं ब्रवीमि - ध्रियते अलकेति।
उभौ अलकाया बहिः स्थितां श्वपचानां वसतिं यावत् प्राप्तौ।
सर्वत्र ज्योत्स्ना प्रसृता। अद्य पूर्णिमा। सरसः जलं ज्योत्स्नायां दर्पण इव, तस्मिन् आकाशोऽवतीर्णः।
वसतौ आसन् चत्वारः पुरुषाः पञ्चषाश्च स्त्रियः। बालका अपि सन्ति। शान्तिशीलं विशाखं चागतं दृष्ट्वा ते सर्वे सम्मिलिताः। शान्तिशीलः असकृत् अस्मिन् पक्कणेऽपि समागतः। अत्रत्याः चाण्डालास्तस्मिन् श्रद्दधानाः सन्ति। केचन शान्तिशीलं वीक्ष्य रोरुद्यन्ते, केचन कुशलप्रश्नं कुर्वन्ति। स्त्रीणां रोदनेन बालकानां च कोलाहलेन किमपि आलपितुं श्रोतुं वा न शक्यते।अथ कश्चन वृद्धः तान् सर्वान् तर्जयति स्म - अरे सर्वे तूष्णीम्भवत। एतौ मुनी सम्प्राप्तौ। एतयोः महती कृपा। इदानीमेतौ यत्किमपि निर्दिशतस्तत् कुर्मः।
अयमासीत् तूलकः, चाण्डालप्रमुखः। अस्य प्रभावादेव सम्प्राप्तमासीत् मिलिन्दप्रश्नपुस्तकम्।
शान्तिशीलस्तमपृच्छत् - अपि नाम मधुपुरस्य केचन जना अवशिष्टाः?
-- न कोऽप्यवशिष्टो भगवन्! - स वृद्ध आह - सर्वं समाप्तम्। एतादृशो मेघस्फोटोऽदृष्टपूर्वः।
-- इदानीं भवन्तः किं करिष्यन्ति?
-- भगवन्! अस्माकं किम्? वयं डोम्बजातीयाः, एकस्मिन् स्थाने नैव तिष्ठामः, अग्रे गमिष्यामः।
तदानीमेव चत्वारो बालकाः वस्त्राणि, अलङ्कारान्, भोजनं चादाय सम्प्राप्ताः। तानवलोक्य अन्ये बालकाः पुरुषाः स्त्रियश्च तान् पर्यवारयन्, अपृच्छंश्च – किं किमासादितम् - अहो एतन्नूपुरमेतदहं गृह्णीयाम् - अपूपाः पायसम् - देहि इतो देहि -
तूलको विशाखं निर्वर्णयन् शान्तिशीलमाह - मुनिवर्याः, पश्यन्तु भवन्तः, ये गृहा विनष्टाः, तेषां यत्किमपि अवशिष्टं धनं वा वस्तुजातं वा भोजनं वा अन्विष्य अन्विष्य एते डिम्भा आनीतवन्तः। अस्माकं तु वृत्तिरेवैतादृशी।
यावत् शान्तिशीलः किमपि वक्ति तावत् कश्चन चाण्डालदारकः तस्य तूलकस्य नेदीयान् भूत्वा - -- तात, एका चिरण्टी तत्र वर्तते - ग्रामप्रधानस्य गृहसमीपम् - सा किमपि नालपति - पृष्टा किमपि न वक्ति, शून्ये निध्यायन्ती तत्र स्थिता।
विशाखेन श्रुतम्। स शान्तिशीलमाह - भद्र शान्तिशील, अनेन बालकेन सह गच्छामः। पश्यामः का स्त्री वर्तते।
उभौ तेन बालकेन समं प्रचलितौ।
- अरे, इयं तु अर्चा! विशाखः प्रत्यभिजानात्।
अर्चा किमपि न वदति। शून्ये विलोकयति। शान्तिशीलस्तामाह्वयति। विशाख, इयमीदृशी कथं जाता?
सहसा विशाखेन सूतवर्योऽमस्मर्यत। कथं केन हेतुना तस्मिन् महासङ्कटक्षणे सूतवर्यस्यैव स्मृतिरुदिता तदीये मानसे इति परस्तात् स सर्वथा विस्मयमनुभवति स्म।
कालिन्दी अत्यन्तं विषण्णा भाति स्म। यस्तां त्रायसयति स तस्या एव देवरः सालङ्कः। एकदा यदा प्रभातकाले कालिन्दी सूतवर्यमभिवादयितुमुपस्थिता तदा तां स बोधयति स्म - "पुत्रि, जानामि ते दुःखम्। किन्तु किं कर्तुं शक्यते अस्माभिः? अस्माभिः पुरुषैः केवलं भवादृशो नारीजनः नानाविधानैः नानावितानैः नानाप्रतानैः खेदमानीयते। अपरञ्च ज्येष्ठाभिरपि त्रासमानीयन्ते कनिष्ठाः। आत्मा एव रक्षणीयः, आत्मनैव आत्मन उद्धारः करणीयः। त्वयि शक्तिरस्ति इति अहं जानामि। त्वयि राधाऽपि विलसति, काचन कालिकाऽपि त्वयि जागर्ति, कदा कालिका विजृम्भेत इति अहं न जानामि।"
यदा सूतवर्य एवं कालिन्दीं बोधयति स्म, तदा विशाखः शय्यायामर्धसुप्त एतत्सर्वं शृणोति स्म। बहो कालात् सूतवर्यस्य इमे तदानीं श्रुताः शब्दास्तदीये मानसे पच्यन्ते स्म।
अप्रत्याशिततमेव तत् सर्वं घटितम्। न जानाति विशाखो यत् कथं स सूतवर्यस्य शब्दानेव आम्रेडयति स्म अर्चाया कृते। "अर्चे भगिनि, जानामि ते दुःखम्। किन्तु किं कर्तुं शक्यते अस्माभिः? आत्मा एव रक्षणीयः, आत्मनैव आत्मन उद्धारः करणीयः। त्वयि शक्तिरस्ति इति अहं जानामि। त्वयि राधाऽपि विलसति, काचन कालिकाऽपि त्वयि जागर्ति, कदा कालिका विजृम्भेत इति अहं न जानामि।
शान्तिशीलेन तदा उक्तमासीत् - विशाख, नाहमेनां यथा त्वं बोधयसि तथा बोधयिष्यामि, अहमस्या दुःखमङ्गीकरोमि। अद्य प्रभृति यत्किमपि इयं सहते तदेव अहमपि सहिष्ये। अस्याश्चित्ते मम चित्तम्, मम चित्ते अस्याः।
---0000---