अरण्यानी
मिश्रोऽभिराजराजेन्द्रः
प्रयागविश्वविद्यालयः
प्रवहति जलधारा प्राणपीयूषदात्री
त्रिदशपतिदिशायां देवधुन्यास्सदैव।
हरिहरविधिभूमौ तीर्थराजे प्रयागे
विलसति कमनीयो विश्वविद्यालयोऽयम्।।१।।
क्वचिदिह वटशाखी राजते दीर्घकायो
दिनमणिकरजालैर्दुष्प्रवेश्योऽतिसान्द्रः।
शुकचटककपोतध्वाङ्क्षपुंस्कोकिलानां
श्रुतिसुखदविरावैः कुञ्जशोभां तनोति।।२।।
अगणितपथमाला वर्धयत्यस्य शोभां
स्रगिव नववधूट्या रोपिता कान्तदेहे।
प्रतिपलमनिलेनान्दोलिताऽशोकराजि-
र्हरति तनुविषादं सोख्यमाविष्करोति।।३।।
घनरव इव कोऽयं श्रूयते मन्द्रघोषः
श्रवणविवरयुग्मे योऽमृतौघं पिपर्ति।
अलममित विकल्पैर्देववाणीविभागः
स्वगुणमहितकीर्तिस्सोऽयमार्षप्रकर्षः।।४।।
अनुभवितुमसत्यं भूरि संसारसिन्धो-
र्ननु तरणकलायां दक्षतामाप्तुकामाः।
प्रतिशरदुपयान्ति ज्ञानविद्यातृषार्ता
इह वटुसमुदायाः प्राणयात्रोपपत्त्यै।।५।।
नयविनयकलाभिर्ज्ञानविज्ञानवाग्भिः
शतमितममितान्तेवासिवृन्दं वितन्वन्।
भरतभुवि सदाख्यामाक्सफोर्डस्य वृण्वन्
लसति धवलकीर्तिर्विश्वविद्यालयोऽयम्।।६।।
प्रतिदिवसमधीतिर्बोधमत्र प्रसूते
स च कलयति यत्नैश्छात्रछात्रीचरित्रम्।
भवति निखिलराष्ट्रं सद्गुणानां प्रभावै-
र्हिमधवलशरीरं प्राप्तविद्यैस्तदेवम्।।७।।
आगतोऽयं वसन्तः
श्रुतिपथाऽगतकोकिलकाकली
सुरभिताऽऽम्रतरोर्नवमञ्जरी।
नववधूरिव भाति वनस्थली
भवति हन्त! वसन्तमयञ्जगत्।।१।।
क्वचिदभीकविहङ्गमयोर्ध्वनिः
क्वचिदलिश्रितमार्दवगुञ्जनम्।
क्वचिदनारतमेव विलोक्यते
विपिनचारि कुरङ्गकदम्बकम्।।२।।
बकुलचम्पकजम्बुबिभीतिका
वटकदम्बमधूकपलाशिनः।
विकचपुष्पपरागजसौरभै-
र्निखिलमेव जगन्मदयन्त्यहो।।३।।
वहति शीतलमन्दसमीरणः
सततमाप्तसुमासववारुणीः।
रविमयूखशराऽहतजीवितैः
पशुविहङ्गगणैर्बहुमानितः।।४।।
परिमलाऽभिमुखीभ्रमरावली
नवरसालतरुं परितः स्थिता।
समवलोक्य समागतयाचकान्
ननु दधाति धनं वनदेवता।।५।।
सरसि सारसहंसकदम्बकं
प्रतिपलं जनयत्यमृतं स्वनम्।
चपलवीचिहताः कमलद्रुमाः
परिहरन्ति वराटकसञ्चयम्।।६।।
प्रमुदिता तटिनी मुदिताऽटवी
विविधजन्तुगणैः परिवारिता।
प्रमुदितं विपिनं कुसुमाश्रयम्
ऋतुपतेर्विदधाति शुभाऽगतम्!७।।
निदाघकालः
भस्मीकरोति धरणीं सततं विशालां
नीराश्रितञ्च विदधाति जनं समग्रम्।
सूर्यातपैर्निखिललोकमयं निहन्ति
कं कं न पीडयति हन्त! निदाघकालः।।१।।
पश्यन्तु तावदिह शुभ्रजलं तडागं
पद्माश्रयं पशुंविहङ्गचयेन सेव्यम्।
यत्रागतं चपलकेलि मरालवृन्दं
माध्वीं निपीय मधुरं निनदं करोति।।२।।
रम्यामहो पुनरिमां सहकारशाखां
विज्ञायपुष्परहितां विजहुर्द्विरेफाः।
अद्यापि किन्तु समुपाश्रयते प्रशान्तो
मत्तो पिकः फलवतीं गतिमाकलय्य।।३।।
शुष्मोदरो वहति सम्प्रति गन्धवाहः
प्रज्ज्वालयन्नखिलकाननशाखिपुञ्जम्।
फुल्लः पलाशविटपी सह रक्तपुष्पै-
रन्तश्शुचं प्रकटयत्यनिशं निदाघे।।४।।
वीता निशा भयकरी ननु शारदीया
ज्योत्स्नाऽमला वियति सम्प्रति भाति सेयम्।
दीना अपि प्रतिनिशं सुखदां सुनिद्रां
ग्रीष्मावधौ हृदयतोषकरीं लभन्ते।।५।।
श्रीकृष्णजन्माष्टमी
महत्प्रेम चित्तेषु सञ्चारयन्ती
मुकुन्दोद्भवञ्चाद्य संस्मारयन्ती।
सरित्कुञ्जकान्तारपुञ्जावतंसा
समायात्यहो कृष्णजन्माष्टमीयम्।।१।।
न तद्वेश्म यत्रानिशं नास्ति गीतं
न तद्गीतकं यन्न मोदोपपन्नम्।
युवा कोऽपि नास्ति प्रहृष्टो न योऽसौ
न बालाऽप्रहृष्टा न वृद्धोऽप्रहृष्टः।।२।।
क्वचिद् दिक्षु गुञ्जन्त्यलं चञ्चरीकाः
क्वचिद्रौति निम्बद्रुमे कोकिलोऽपि।
क्वचिच्चित्रचित्रीकृता गेहकुड्याः
धरैवाद्य कृष्णायते गोकुलाऽढ्या।।३।।
क्वचित्कीर्तनं वन्दनं वाऽप्यनूनं
क्वचित्पुष्कलं चारु झङ्कारि गीतम्।
सनृत्यं चतुश्शालकं क्वापि भाति
क्वचिच्चारुदीपावली भाति रम्या।।४।।
न कस्मिन् स्थले श्रूयते कण्ठघोषो
जयी सोऽस्तु गोविन्ददेवो बलीति।
समग्रोऽपि लोकोऽद्य लीलाऽनुरक्तो
न कुत्राऽद्य गोविन्दराधाप्रसङ्गः।।५।।
धरा सावलेपं हसत्यद्य सस्यै-
र्वियद्याति गोविन्दगात्रानुकान्तिम्।
तुरङ्गा मतङ्गा विहङ्गाः प्लवङ्गा
भुजङ्गाः सगङ्गा मुदं यान्ति सर्वे।।६।।
अयत्नोपनीतं परिस्कन्दपुञ्जं
मुकुन्दोऽपि सम्प्रेक्ष्य तुष्टिं प्रयाति।
स्मरन्ती यशोदाव्यथां भूरिभावा
प्रजा लोचनाश्रु प्रकामं जहाति।।७।।
वाणीवन्दनम्
विजय जननि जनमङ्गलकारिणि!
करकमले तव विलसति वीणा बुधजनमानससततविहारिणि!!
इन्दुकुन्दसमधवलशरीरे विमलदुकूलविभूषितकाये!
शम्भ्वजविष्णुपवनवैश्वानरदेवेन्द्रादिसमर्चितमाये!!
करकुवलयनखराग्रनिनादिततन्त्रीरवपूरितदिग्वलये!
सुभगवरटमधुकलरवसतताराधितचतुराननमधुनिलये!!
स्वयमिह कवयसि ननु कविभूता स्वयमिह भवसि जननि सत्कविता!
स्वयमसि वेदपुराणसाहिती स्वयमसि जननि सृष्टिरतिमहिता!
सम्प्रति सम्पादय दयमाना मातस्सुरभारति! निजममताम्!
ज्ञानं देहि, निधेहि कवित्वं, विस्तारय सर्वं प्रति समताम्!!
जीवितमिदं भवतु मम वरदे! तव गृहदीपसमानममन्दम्!
मदुदिततवगुणगीतिरसैर्भवतात्सहृदयरसपानमनन्तम्!!
भारतभूमिः
त्रैलोक्यभूमिमधुरा सुखदा मनोज्ञा
काशीप्रयागमथुराविदिशादिरम्या।
मन्दाकिनीधवलतोयधरा विशाला
धन्योत्तमाऽस्ति सुरवन्दितमेदिनीयम्।।१।।
यस्याः प्रभावमवलोक्य सुरादिसंघा
नक्तन्दिवं मनसि किन्न विचारयन्ति!
सम्प्राप्य हन्त नरयोनिमिहैव नित्यं
प्रोत्तुङ्गशैलशिखरेषु सदा चरेम।।२।।
वेदान्तयोगजननी सुरवाग्विलासा
प्रादात्समग्रजगतेऽखिलशिल्पशिक्षाम्।
अध्यात्मबोधमधु पूर्णतृशं निपीय
नूनं बभूव धरणीयमवाप्तकामा।।३।।
पाश्चात्त्यपङ्करहिताऽखिलविश्ववारा
नित्यं प्रदाय तनयेभ्य उदारशिक्षाम्।
तेषाञ्चकार नियतिं जननीव धीरा
रत्नोज्ज्वलां बुहुगुणां सततं महार्घाम्।।४।।
काश्मीरबङ्गमिथिलाऽन्ध्रकलिङ्गदेशा
विन्ध्यादयश्च गिरयस्सरितस्सनीराः।
गान्ध्यादयश्च नृवराः प्रियदेशभक्ताः
यस्या अहो जयति सा भरताख्यभूमिः!!५।।
शरदृतुवैभवम्
कोकनदाऽनन्दकरीं पुष्पवतीं तापहरीं
मञ्जुलशीतर्तुविभां पश्य हृदनुरागकरीम्।।१।।
भृङ्गमयं पद्मवनं गुञ्जितमाकर्ण्य मनः।
मोदमेति, शनैः शनैर्वहति गन्धभृत्पवनः।।२।।
परिपाकोन्मुखा लता निष्पलाशतामेताः।
प्रकटयन्ति वार्द्धक्यं प्रत्यङ्गं पिशङ्गता।।३।।
गृहे-गृहे समुत्पतति महानसोद्गतधूमः।
दैन्यजर्जरं परन्तु दीनगृहं किं ब्रूमः!!४।।
पीवरोधसो गावो हम्भारवमाचरन्ति।
सोत्काः सत्योऽपि पयोभारभङ्गुराश्चलन्ति।।५।।
प्रतिद्वारमाश्रयते जनवृन्दं हसन्तिकाम्।
पितामहा अभिदधते बालकेभ्यःकथानिकाम्।।६।।
कलममञ्जरीचञ्चुः परिभ्रमति शुकावली।
नीलनभसि सायंकाले तनोति बकावली।।७।।
नोद्धूलिर्नो वात्या न च सम्प्रति वृष्टिमयम्।
शरदि समापतितायां भुवि सर्वं सुधामयम्।।८।।
शीतलहरीप्रकोपः
कम्पं विधाय हृदयेऽखिलजीवभाजां
दग्ध्वा निकाममधुना हरिताभशस्यम्।
स्वैरं विभाति कुलटेव कुलङ्कषोग्रा
दुर्दान्तशीतलहरीयमतिप्रचण्डा।।१।।
का वल्लरी हरितकान्तिमयी सरागा
भस्मीकृता न सुदृढं पशुरेव को वा!
को वा जनो विदलितः परिपीडितस्सन्
हा हा हतोऽहमिति नार्तरवञ्चकार!!२।।
शावं विहाय ममताप्लुतसारमेयी
शीतप्रवाहनिहता विकला वराकी।
सोष्मस्थलं किमपि मार्गयते लपन्ती
भूयस्समापतति शावकरोदनीर्ता।।३।।
तापान्वितेऽपि हृदये प्रविकीर्य शैत्यं
शैलायते हि पवनो जनकम्पकारी।
देहो न याति सुगतिं जडताऽभिभूतो
लब्ध्वाऽपि वह्निशरणं द्रुतशीतकोपे।।४।।
का वा कथा शरणवस्त्रधनार्तिभाजां
ये प्रत्यहं सकरुणं क्षुधया भ्रमन्ति।
यच्ञाप्रसारितकरा अपि भर्त्सितास्ते
धातुर्विपन्नहृदयत्वमहो वदन्ति!!५।।
द्वादशमासिकम्
विहारे प्राकारे विकचसहकारे जलनिधौ
प्रवाले शैवाले सरसि जलजाले कुवलये।
वसन्तः कान्तारे विलसति घने रम्यसदने
महिम्ना चैत्रोऽयं प्रथममधुमासो विजयते।।१।।
विशाखा वैशाखे प्रमदकलिकेवोदितवती
लसच्छस्यं क्षेत्रे मदयति मनः काममधुना।
समोदं कूजन्ति प्रतिविटपिशाखं परभृताः
मृगाङ्को व्योमाङ्के नरपतिपदं किन्न भजते!!२।।
रविर्नेष्टे ज्येष्ठे विकिरति यदाऽऽग्नेयकिरणान्
प्रभूतं खिद्यन्ती भवति धरणी भ्रान्तहरिणी।
अहो न्वस्मिन्मासे मलयमरुतोऽप्याप्ततपनाः
लभन्ते विश्रामं क्षणमपि न हन्त प्रणयिनः।।३।।
दिगन्ते वाद्यन्ते नवजलदवाद्यानि सततं
शुचौ रम्ये काम्ये भवविभवधन्ये किल यंदा।
नवोढा कान्तेव प्रणयरससिक्ता सितमुखी
घनाङ्के नृत्यन्ती विचरति चला मुग्धचपला।।४।।
क्वचिद्दोलाऽऽरामे हरति पथिकस्याक्षियुगलं
द्रुतं स्मारं स्मारं नभसि वनितां प्रस्थितवतः।
वसाना कौसुम्भं दृगमृतझरी ग्रामतरुणी
न दत्ते पन्थानं कथमपि वराकश्चरतु किम्!!५।।
न के कृष्णायन्ते विभवधनिके भाद्रपदके
स्मरन्तः कालिन्दीपुलिनगतगोविन्दमनघम्।
अहो यस्मिन्मासे व्रततिवलयोऽप्याप्तमदनः
कथा का तत्तेषां रहितदयितानां विरहिणाम्!!६।।
भ्रमद्भृङ्गालीषे कुसुमरसलीना रुतियुता
क्वचिन्मन्दं मन्दं कलयति सुखं मञ्जुमुकुले।
क्वचिल्लीलारण्ये प्लवगविहगाक्रान्ततरवः
समुत्पाद्यानन्दं हृदयविभवं स्वं विदधति।।७।।
उपान्ते ग्रामाणां सुजनशरणानां रसवतां
द्रुमच्छायामूर्जे कृषकनिमवहो नैव भजते।
ह्रदे मध्येऽम्भोजं प्रबलजलधारासु वलिता
तरन्ती हंसीयं रुचिकरविनोदान् प्रतनुते।।८।।
सरित्तीरे मार्गे पथिकसमवायं मदयति
प्रमत्तोऽसौ केकी धृतमदनवेषो घनसखः।
मुहुर्नृत्यन् कामी विगलति च रेतांसि वदना-
दहो गर्भाधानं सुरतफलमानं भवति तत्।।९।।
समायाते पौषे नलिनवनिकामेव सततं
द्विरेफाः सेवन्ते मधुरमकरन्दप्रणयिनः।
हसन्तीमाश्रित्य प्रशमितकुटीरे सुखकरे
पिवन्ती प्राग्वृत्तं नयति जनता शीतरजनीम्।।१०।।
सबाधेऽस्मिन्माघे द्रविणरहिताः क्षणमतयो
निकामं वेपन्ते नियतिनिहिता दीनमनुजाः।
शरद्वातोत्कम्पास्तरलहृदि येषामनुदिनं
प्रजायन्ते हा हा जगति विधिना किं कृतमिदम्!!११।।
तपस्ये माकन्दं परिमलमयं वीक्ष्य सहसा
विनिद्रो रक्ताक्षो रचयति मुदा सौहृदमहो।
अये श्रावं-श्रावं विरहविरुतिं खेदजननीं
वराक्याश्चातक्या हृदि मलिनतां को न भजते!!१२।।
वसन्तावतरणम्
काव्योपवनवासन्तीं बुद्धिदां शक्तिदामहम्।
चतुर्वेदमयीं वन्दे सुप्रसादां सरस्वतीम्।।१।।
प्रेयस्तदनु मेऽस्तु श्रीविश्वनाथपदाम्बुजम्।
काशीवाससुखं येन स्वसद्मन्येव लभ्यते।।२।।
ऋतुराजो वसन्तोऽसौ सर्वलोकजनप्रियः।
मुक्तच्छन्दोनिबद्धेन गीतेन गीयते मया।।३।।
गृहवनपुञ्जे सघननिकुञ्जे ननु परितः प्रसरन्तम्।
भुवि विहरन्तं मधु रसयन्तं कलयत सुखदवसन्तम्!!
रौति कलं कोकिलो रसाले
को न भवति मधुरोऽस्मिन्काले
जनयति चेतसि समुदितरेतसि काममहोऽतिदुरन्तम्!!
कुसुम समुदये भ्रमरविलसितम्
स्फुटमवलोक्य निपीय च रणितम्
हृदि परितोषो भवति विशेषो वातमवाप्य वहन्तम्!!
यमुनागाङ्गे निगमप्रयागे
बुधजनचेतसि लसदनुरागे
मदिदं गीतं प्रणयपरीतं संस्थापयतु वसन्तम्!!
दृशि-दृशि रूपसमृद्धिसमर्चा
हृदि-हृदि काङ्क्ष्यदयितजनचर्चा
विहितसमासे ननु मधुमासे पश्यति कोऽन्यमुदन्तम्!!
शुभाशंसनम्
शूरा भवन्तु शिशवस्सुधियश्च धीराः
नाट्यप्रयोगरूचिका महिता भवन्तु।
गङ्गातरङ्गरमणीयपवित्रमौलि-
र्भूयोऽप्यहो विजयतां सुखदप्रयागः।।१।।
चीनाश्च ये परममोहरता दरिद्रा
मित्रद्विषः खलु विडालपिशङ्गनेत्राः।
क्रान्त्वाऽऽगता असमभूमिमिहास्मदीयां
भस्मीभवन्तु शिखयैव यथा पतङ्गाः।।२।।
चाओऽथवा कुटिलनीतिरयूबखानः
द्रुह्यन्ति ये च नितरामिह भारताय।
नश्यन्तु ते त्वरितमेव निजैः कुकृत्यै-
र्दीर्घायुरस्तु मतिमान् स जवाहराख्यः।।३।।
इन्दिन्दिरा विचककोकनदं मनोज्ञं
माकन्दमौलिवसतिञ्च पिका वसन्ते।
वर्षागमे जलधरं शिखिनो यथैव
प्रीत्याऽनिशं सकुशलं किल कामयन्ते।।४।।
संवत्सरेऽभिनवभव्यमये तथैव
सोऽहं सदैव भवदीयकृपाभिलाषी।
कीर्ति धनं बहुविधं विभवं श्रियञ्च
सम्प्रार्थये प्रचुरमात्रमलं भवद्भ्यः।।५।।
पीयूषार्द्रैर्मधुरमधुरैः स्नेहसिक्तैश्च रम्यै-
र्वात्सल्याढ्यैश्चटुलवचनैर्लालितो यो भवद्भिः।
कीरस्सोऽयं वियति विहरन् दैवयोगादिदानीं
स्तौति स्निग्धं रहसि भवतो भव्यभावैर्विरावैः।।७।।
चान्द्री शोभा भवतु भवतां भास्वरञ्चास्तु तेजः
कीर्तिश्चित्रा जगति विभुता सैव पौरन्दरी स्यात्।
गीर्वैधात्री विमलविभवा स्याच्च वैनायकी धीः
रम्या वृत्तिः कुशलबहुला नूतने वत्सरेऽस्मिन्।।८।।
अरण्यरोदनम्
यावत्करोमि पठनेऽभिरूचिं प्रतीक्ष्णां
धैर्यं निधाय हृदयञ्च विभावयामि।
वातायनान्तिकपथेन च तावदेव
यान्ती छिनत्ति हृदयम्मम कापि बाला।।१।।
बाला तुषाररुचिरब्जमृणालहस्ता
चन्द्रानना धवलदीपशिखेव दीप्ता।
काकोदराभचिकुरा मृगशावकाक्षी
लक्ष्यीकरोति हृदयं मम नेत्रबाणैः।।२।।
प्राप्स्यामि शान्तिमधुना किल शोधसौधे
सद्योऽपहाय ललनाजनसम्प्रदायम्
इत्थं विचार्य हृदि साधु दृढं निबद्धः
सोऽयं मनोमधुकरो जडतामुपैति।।३।।
पृच्छामि पाठ्यविषयां विपदं सखायं
नूनं हि तां झटिति तेऽपि समापयन्ति।
कन्दर्पजं तदपि सम्प्रति हन्त कस्मै
व्याधिं निरौषधिमिमं विनिवेदयेऽहम्!!४।।
माकन्दमञ्जुमकरन्दचयं जिघृक्षु-
र्यावद्वसन्तपवनं नु सभाजयेऽहम्।
घ्राणं तदा द्विगुणगन्धभरोपचारै-
श्चारीकरोति खलु कापि वसन्तसेना।।५।।
काचित्स्फुरत्तडिदिवैति दुकूलवस्त्रा
दृष्टद्व्युरोजदृढकञ्चुलिकां दधाना।
काचित्प्रवातचपला हृतकर्णधारा
चञ्चत्तरीव भुवि चङ्क्रमणं करोति।।६।।
जातोऽस्ति सम्यगिह हन्त तृणाग्नियोगः
एवं सति प्रभवतात् कथमत्र शिक्षा!
अग्निः कथं सलिलशीतलतामुपेयात्
यद्वा तृणं दहनमुक्तिसुखं प्रयायात्।।७।।
कविकुलगुरुगीतम्
विकसितकीर्तिं विलसितमूर्तिं रविमिव यशसि ललामम्।
नौमि कवीशं कविरजनीशं कविकुलगुरुमभिरामम्!!
वैदर्भी मञ्जुलपदरीतिः
भावमयी मृदुमङ्गलगीतिः
प्रेम यदीयं संस्मरणीयं, काव्यमनिष्टविरामम्!
नौमि कवीशं कृतिरजनीशं कविकुलगुरुमभिरामम्!!
कथयामास पदैरत्यल्पम्
सङ्केतैर्ननु भणितमनल्पम्
प्रतुष्टुवे ननु भारतराष्ट्रं बहुविस्तरं प्रकामम्!
नौमि कवीशं कृतिरजनीशं कविकुलगुरुमभिरामम्!!
जडचेतनतादात्म्यकल्पना
निखिलविश्वमाङ्गल्यकामना
स्वर्गधरासङ्गमनयोजना विदधति तमतिललालम्!
नौमि कवीशं कृतिरजनीशं कविकुलगुरुमभिरामम्!!
शाकुन्तलादि नाट्यत्रितयम्
रघुवंशादि च काव्यतुरीयम्
तमतिमहान्तं कविकुलकान्तं दधते जनहृदि कामम्!
नौमि कवीशं कृतिरजनीशं कविकुलगुरुमभिरामम्!!
गीर्वाणभाषा किल राष्ट्रभाषा
वाक्सौरभेयीस्तनजातदोहा
दिव्यामृतस्वादयुताऽनवद्या।
पेपीयमाना त्रिदशैश्च मर्त्यै-
र्गीर्वाणभाषा किल राष्ट्रभाषा।।१।।
वेदाः पुराणानि षडङ्गकानि
व्यासप्रणीतानि यदाश्रितानि।
रामायणञ्चापि ययाऽनुबद्धं
गीर्वाणभाषा किल राष्ट्रभाषा।।२।।
श्रीरामगाथोदधिहंसभूतो
वाल्मीकिरप्याश्रयतेस्म धन्याम्।
यद्भूषणं वाक्पतिकालिदासो
गीर्वाणभाषा किल राष्ट्रभाषा।।३।।
आमुष्मिकज्ञानगभीरराशि-
र्मनोरमं शोभनलोकवृत्तम्।
द्वयञ्च यां भूषयते निकामं
गीर्वाणभाषा किल राष्ट्रभाषा।।४।।
संरक्षणे प्रायतत प्रकामं
श्रिताऽरविन्दा जननी च यस्याः।
सा कामधेनुः कविताव्रतानां
गीर्वाणभाषा किल राष्ट्रभाषा।।५।।
मूलञ्च या भारतभारतीनां
या विश्वभाषोच्चयपृष्ठभूमि।
या शास्वती सृष्टिरमेयरूपा
गीर्वाणभाषा किल राष्ट्रभाषा।।६।।
सिषेविरे यां परया नु भक्त्या
वैदेशिका वेदविदो रसज्ञाः।
या कुञ्जिका मंत्रमयीव वाचां
गीर्वाणभाषा किल राष्ट्रभाषा।।७।।
तेभ्यो नमस्सर्वदा
त्यक्त्वा सवार्थपरम्परानुदिनं प्रीत्या परेषाम्मुदे
हिण्डन्ते नु परोपकारनिरताश्चारित्र्यदीक्षाव्रताः।
लाभालाभजयाजयादिघटनैर्नित्यं समत्वाञ्चिता
ये जीवन्ति मुरारिलीनमनसस्तेभ्यो नमस्सर्वदा।।१।।
स्वार्थः सिध्यतु वा न वा ननु भवेद्धानिः परेषामिति
क्रोधेर्ष्याजडताप्रतीतिनिरताश्चारित्र्यदीक्षाव्रताः।
क्रीडाभूमिरियं धरा सुविशदा व्योमापि कीर्तिस्थलं
दुर्ज्ञानं गहनं यदीयशरणं तेभ्यो नमस्सर्वदा।।२।।
गाल्यापि प्रभवन्ति ये हितविधौ दुर्वैरिणां नित्यशः
जीवन्मुक्तिविमण्डिताः सहृदयाः सर्वोपकारक्षमाः।
येषां कीर्तिकलाकलापलपने न क्षीयते भारती
काव्यानामुपजीव्यतामुपगतास्तेभ्यो नमस्सर्वदा।।३।।
पियू, समुपेक्ष्य ये निजमहो हालाहलं तन्वते
तद् द्वारैव ससागरां भुवमिमां भोक्तुञ्च वाञ्छन्ति ये।
तत् तेषां सहते कथं भरमसौ स्रष्टा कलौ रक्षसां
धर्मो वा दुरितानि हन्त कुरुते नष्टानि तेषां कथम्!!४।।
आश्चर्यं मलभोजिनोऽप्यहरहः कुल्यैकवासाश्रया
यन्नीचाधमशूकरा मलयजं निन्दन्ति तारस्वरैः।
सौरभ्यीकरणं मलस्य भवति स्फारं किमेतावता
चञ्चच्चन्दनपूतिमत्त्वमथवा, केनेदमालक्ष्यते५।।
श्रीजगन्नाथप्रशस्तिः
कदम्बराजीलसितावनान्ताः
कलिन्दजासीकरवारिसिक्ताः।
प्रतिक्षणोद्भावितमञ्जुलीला
मुकुन्द! कस्माद् भवता वियुक्ताः!!१।।
किमत्र दृष्टं भवता विशिष्टं
पयोधितीरेऽधिकलिङ्गभूमि।
न गोकुले सान्द्रकरीलकुञ्जे
नचापि वृन्दाविपिने यदासीत्।।२।।
विलोलसिन्धुर्मिविलोकनेच्छ-
मपूपुरद्द्वारवती न किन्ते?
अतः परं किं त्वदभीष्टमासी-
द्यदर्थमेतोऽसि विभो! कलिङ्गान्??३।।
न राधिका भीष्मकजा न चापि
न सत्यभामाऽक्षतरूपगर्वा।
कस्मात्त्वया सार्धमहो मुरारे!
कृता न सौधेऽत्र विटङ्कपीठे!!४।।
विभूषितो लाङ्गलिनाऽसि नित्यं
सुभद्रया चापि लसद्भगिन्या।
त्रयी विचित्रेयमहो विभाति
कुटुम्बिनां ते वरवेणुनादिन्!!५।।
दोधूयमानध्वजभूरिदीप्य-
न्निवाससौधोऽमलमण्डपाढ्यः।
स्फुरत्सुपर्णध्वजशोभिताऽग्रः
प्रविष्टमात्रस्य धुनोति चित्तम्।।६।।
त्वदन्तिके नाथ! निषद्य भूमौ
जना विभिन्नाऽभिधजातिवर्णाः।
मुदा समश्नन्त उपेत्य हार्दं
संस्कुर्वते वैकृतहिन्दुधर्मम्।।७।।
उपेत्य वंशीधर! धाम्नि चित्तं
जाजायते काममुशीरशीतम्।
क्षेत्रं त्वदीयं पुरुषोत्तमाख्यं
हिनस्ति नूनं भवपाशमूलम्।।८।।
प्रायशः सर्वलोकः
सुखयति खलु त्रं क्वापि तारुण्यलक्ष्मीः
सजलजलधरश्रीः क्वापि राकेन्दुरम्या।
उपवन सुषमा वा क्वापि सौरभ्यनद्धा
नवनवगुणरागी प्रायशः सर्वलोकः।।१।।
अभिलषति पदातिश्चारुवेगां द्विचक्रीं
स च समधिकवेगं स्कूटराख्यं सुयानम्।
तदधिकृदपि नित्यं स्पर्धते बाष्पगन्त्र्यै
नवनवगुणरागी प्रायशः सर्वलोकः।।२।।
कृतसततविगाहा यस्य गङ्गा प्रयागे
प्रकृतिमुपगतोऽसौ यस्य तीर्थप्रवासः।
विशति यदभिराजः सोऽद्य कावेरिकाऽम्भो
नवनवगुणरागी प्रायशः सर्वलोकः।।३।।
क्वचिदपि मदुरायां पाण्डिचेर्यां कदाचि-
न्ननु तिरुचिरपुर्यां क्वापि श्रीरङ्गतीर्थे।
कृतबहुदिनवासस्यापि नव्या दिदृक्षा
नवनवगुणरागी प्रायशः सर्वलोकः।।४।।
गणयति खलु तिक्तं भोजनादौ न कश्चित्
श्रयति तदनु चाम्लं किञ्च लावण्ययुक्तम्।
कलयति पुनरन्ते मिष्टमेवात्मतृप्त्यै
नवनवगुणरागी प्रायशः सर्वलोकः।।५।।
वर्षावैभवम्
सन्तापं ज्वलदग्निदग्धमरूतां वर्षाझरीभिर्हरन्
शैलीन्ध्रीं सुषमां भुवामुपनयन् जीवव्रजं मोदयन्।
धुन्वन् घस्मररोचिषं रवितनुं तन्वन्मनः प्राणिना-
माषाढाम्बुधर! प्रकामविभवैस्त्वं राजराजायसे।।१।।
वाराहीमथ माहिषीं तनुलतां सैंहीं क्वचिच्चामरीं
बिभ्रत्कुण्डलमण्डितां धुतफणामाजागरीं भैरवीम्।
विच्छित्तिं प्रविसारयन्नवनवामैन्द्रायुधीमम्बरे
मेघ प्राघुणिकोत्तम! प्ररुदितान् सम्मोदयन् द्योतसे।।२।।
व्याधुन्वच्छाखिशाखां भरवहननतां लोललोलावनम्रां
रत्नाढ्यान् कर्णपूरान् झणझणझणितैर्नादयन्नागरीणाम्।
गेहे ग्रामेऽथ वाट्यां वनचरवसतौ राजधान्यां पुरे वा
संरूढे श्रावणेऽस्मिन् प्रभवति परितः पर्व हिन्दोलनानाम्।।३।।
आग्नेयैरंशुजालैर्निरतिशयखरैर्दाहयित्वा धरित्रीं
पापं दुर्मर्षणीयं शुभचरितहरं भास्करो यद्ध्यकार्षीत्।
मन्ये तद्दूयमानो जलदजवनिकागोपितात्माननोऽसौ
प्रायश्चित्तं विधत्ते जलधरनिबिडे श्रावणेऽस्मिन्नितान्तम्।।४।।
तोये-तोये तनूजा तरुणदिनमणेः भाद्रकेऽस्मिन् विकीर्णा
नादे-नादे च वंशी पथि-पथि- चपलं मण्डलं गोपयूनाम्।
रूपे-रूपे निलीना हरिहृदयहरी राधिका रम्यभावा
बाले-बाले मुकुन्दो भुवि-भुवि रमते चारुवृन्दावनश्रीः।।५।।
दोला निम्बेऽधिशाखं क्वचिदपि कजरीरम्यगीतिः प्रतोल्यां
शर्वर्या जागरो वा युवजनपरिधौ वाचिकश्चिद्विलासः।
योगक्षेमोपलब्धिः हृदयरतिकरी प्रोषितानां प्रियाणा-
मित्येतैः सौम्यवृत्तैः क्षपयति समयं भाद्रकेऽस्मिन्समाजः।।६।।
स जयेत् प्रयागः
गङ्गाम्बुकज्जलरसेन लिलेख सृष्टिं
पर्णायमानभुवि यत्र वटेन धाता।
यत्रोदियाय नवसंस्कृतिरश्मिमाली
ज्ञानामृताम्बुदधरस्स जयेमत्प्रयागः।।१।।
संगत्य सर्वककुभां नवदीप्तिजालं
साहित्यगायनकलाकलनाप्रपूतम्।
विद्योतयन्निखिलविश्वभुवं प्रकामं
विज्ञानदीपशिखया स जयेत्प्रयागः।।२।।
गौराङ्गशङ्करकुमारिलकालिदासः
संयोजयन्नविरतं ककुभश्चतस्रः।
सत्यं शिवं सहजसुन्दरतां दधानः
सद्भावमङ्गलकृती स जयेत्प्रयागः।।३।।
भिन्नाचलोच्चशिखरोद्गतवारिधारे
नानाप्रदेशधरणीहृदयप्रसेकैः।
गङ्गाकलिन्दसुतयोरभितः पतन्त्यौ
संगच्छतोऽत्र रभसात्स जयेत्प्रयागः।।४।।
यत्तीरवर्तिनि चिराय सुगाङ्गनाम्नि
रेमे नृपेन्द्रनिलये विधुवंशदीपः।
कान्तोर्वशीप्रणयसिन्धुनिमग्नचेता
ऐलेय एधितमदस्स जयेत्प्रयागः।।५।।
विश्वविद्यालयस्तत्र राराज्यते
स्मारयन् याज्ञवल्क्यं भरद्वाजकम्।
सान्द्रमोहान्धकारं हरन् विद्यया
भूषयञ्जीवनं वत्सराणां शतम्।।६।।
ज्ञानविज्ञानराशिं हरन्तोऽनिशं
तन्वते दिग्दिगन्तेषु विद्यागुणम्।
स्नातका यस्य राष्ट्रेऽखिले शंसिता
विश्वविद्यालयोऽसौ चिरं वर्धताम्।।७।।
विविधोपादानम्
सरस्वती
यदीयकृपया शठोऽपि सततं प्रयाति सुमतिं विहाय कुमतिम्।
शुभां सुवरदां मदेकसुखदां नमाम्यहं शारदां सुवदनाम्।।१।।
त्वमेव जननी त्वमेव जनकस्तवमेव भगिनी त्वमेक हितकः।
त्वमेव निखिलं मदीयसुधनं विधेहि कुशलं त्वममेद वरदे!!२।।
सहृदयाः
विलासरुचिराः स्वभावमधुराः प्रपञ्चचतुराः सहासवदनाः।
भवे सहृदय़ा मरालगतयो जयन्ति सततं न कैरनुगताः!!३।।
चन्द्रोदयः
वियदहो स्वरुचा प्रतिभासयन् जगदिदं महदप्यनुभावयन्।
कुमुदिनीकुलवल्लभताङ्गतो विधुरुदेति किरन् किरणावलीम्।।४।।
वर्षारजनी
नवीकृता सान्द्रपयोदबिन्दुभिस्सभाजिता फुल्लकदम्बकुड्मलैः।
नवोढकान्तेव विरूढरागिणी विभाति वर्षारजनी मदोद्धुरा।।५।।
कृतघ्नः
कृतज्ञता यैर्न कदापि मन्यते जयन्ति ते केऽपि पिकानुकारिणः।
प्रभां समादाय खरांशुभास्कराद् विधुस्तुदत्येव तदीयवारिजम्।।६।।
आकांक्षा
न विद्यते कापि मदीयकामना विहाय वाण्यङ्घ्रियुगं सुखावहम्।
शिखावलाभो ननु काव्यरश्मिभिः कदा प्रकामं सुहृदानि भूतलम्।।७।।
माघमासः
मन्दं मन्दं वाति वातस्सगन्धो रोमोत्कम्पी गाढनिद्रापहारी।
मोदायन्ते मानसे के न माघे रम्यं दृष्ट्वा शारदीयं प्रभातम्।।८।।
कालिदासः
काव्यप्रकाशपरिपूतमतीव रम्यं ग्रन्थं प्रणीय कृतवान् भुवनोपकारकम्।
वन्दे तमेव सुरवाक्सुविलासहासं साहित्यवारिधिसुमौक्तिककालिदासम्।।९।।
अस्तोदयौ
चण्डांशुभिर्निखिलमेव भवं प्रदह्य बिम्बः प्रयाति तरणेर्दिशिपश्चिमायाम्।
प्राच्यां निशाकृदुदयाचलचूडचुम्बी चुम्बन्नहो निखिललोकमुदेति रम्यम्।।१०।।
सूर्योदयः
लोकं विधाय नवकान्तिमयं सरागं शोकं विधूय सकलं हि चराचराणाम्।
प्राच्यामहो रविरुदेति मयूखमाली कुर्वन् मलीमससरोजमुखं प्रसन्नम्।।११।।
संसृतिः
गृहपुरवनवाटिकाभिरधिष्ठितं
विविधगिरिसरिन्निपानमनोहरम्।
मरणरतिभयादिभिर्जटिलीकृतं
निखिलजगदिदं न कस्य कृतेद्भुतम्!!१२।।
विधवा
वसनं प्रकटितदैन्यं विरहितकान्तिः कपोलयुग्मश्रीः।
विधवैव जगति दीना धनजनहीना कथन्नु सञ्जाता!!१३।।
वायुयानम्
लघुजलनलिकेव द्योतते वायुयानान्निरवधिजलधारा हन्त नद्यां महत्याम्।
कुधरशिखरमाला लोष्टपुञ्जायमाना क्वचिदपि मम तिष्ठत्येकलग्ना न दृष्टिः।।१४।।
निशीथः
सुप्तोऽयं शिशुरिव जन्मदाशुभाङ्के
वाचालः प्रकटितसुश्रमः प्रयागः।
रौति क्वापि न विहगोऽधुना निशीथे
राजेन्द्रस्तदपि न दीपकं जहाति।।१५।।
गङ्गा
कल्लोललोलाऽम्बुसमुन्नताङ्गी लसद्वयस्सन्धिरमेयवेगा।
तटङ्कषोद्दामरतिप्रगल्भा प्रयाति सिन्धुं प्रमदेव गङ्गा।।१६।।
जननी
विरुद्धाऽपि क्रुद्धा स्तनमधुसुधां या वपुषि मे
मुदा सेकं सेकं प्रतिपलमहो पोषितवती।
विलीने मालिन्यं मयि सुखयुते सौख्यमभज-
त्प्रकृष्टा मेऽभीष्टा भवतु जननि हन्त न कथम्!!१७।।
मदीयदेशः
हिमालयाऽलङ्कृतरम्यभालः पयोधिसुक्षालितपादपद्मः।
सुनीतिविज्ञानकलावलम्बी जयत्यहो कोऽपि मदीयदेशः।।१८।।
नवमेलनम्
वियति भान्ति यथा सिततारकाः पुनरवाप्य सखीन् विगते घने।
विजयतां लभताञ्च तथा सखे! न इदमद्यतनं नवमेलनम्!!१९।।
परीक्षानिकषोपलः
पत्रभ्रंशविधौ वनेषु विटपा नूनं परीक्षोद्गता
जायन्ते हि निदाघतापसुखिनो निर्यत्पलाशैर्घनैः।
यत्फुल्लन्ति फलन्ति चापि रुचिरं रम्ये वसन्तागमे
तच्छायाऽभ्युदये निसर्गनिरतां मन्ये परीक्षामहम्।।२०।।
विश्वासं द्विगुणीकरोति हृदये पूरम्मुदां प्लावयन्
सन्धत्ते च कुटुम्बिषु प्रणयितां मानोन्नतिं दर्शयन्।
सोपानं ह्यधिरोप्य तुङ्गशिखरं सोऽहं महानन्ददो
जीव्यात्सद्गुणहेमशुद्धिनिकषो नव्यः परीक्षोपलः।।२१।।
देवता काऽपि वाचाम्
उरसि सरसभावं नेत्रयोः क्रान्तदृष्टिं
सरसिजदलकम्रां मानसे नम्रशय्याम्।
सपदि विरचयन्ती मल्लिकाक्षाधिरूढा
भवतु मयि दयार्द्रादेवता काऽपि वाचाम्।।२२।।
नाऽहं करोमि कवितामिह शारदैव
साऽऽत्मानमञ्जयति मत्कवनच्छलेन।
गन्धं तनोति जलजं न निजप्रभावै-
र्विस्फूर्जितं सकलमेव तदर्कलक्ष्म्याः।।२३।।
अमरकोषः
स्यात्सौख्यदो दिविषदामलकेशकोषः
श्रेष्ठीश्वरस्य यदि वा भुवि मानवानाम्।
साहित्यकानननिवासरसश्रितानां
विद्यावताममरकोषरसात् किमन्यत्!!२४।।
समस्यापूर्तयः
साहित्यसम्मेलनम्
प्राप्तं येन निरन्तरप्रचरणं राष्ट्रैकवाण्याश्चिरं
छात्रांल्लक्षमितान् परीक्ष्य निखिले देशे प्रदेशेषु च।
हिन्दीकाव्यकलाकलापरचनातीर्थं प्रभातान्वितं
तज्जीवेत्सततं स्वदेशमहितं साहित्यसम्मेलनम्।।१।।
यन्मूलानि विरोपितानि सदयं राजर्षिभिष्टण्डनै-
रुद्योगैश्च विवर्धितं ह्यनुदिनं श्रीमालवीयैश्च यत्।
हिन्दीपक्षधरैरसंख्यविबुधैर्यज्जीव्यते सत्वरं
तद्भूयादमृते महोत्सवपदे साहित्यसम्मेलनम्।।२।।
बालातपे प्लुष्यते
मार्तण्डज्वलदंशुभीतिविकले दीर्घे निदाघेऽपि यत्
सोढ्वा तापचयं विकासविभवं सम्प्राप्य मोदावहम्।
दृष्ट्वाऽब्जं शिशिरेऽपि चन्द्रकिरणे म्लानं मया चिन्त्यते
वह्नावङ्कुरितः कथं कुरबको बालातपे प्लुष्यते!!३।।
राष्ट्रं पुरो गच्छति
नित्योत्थापितविश्वशान्तियत्नैर्माङ्गल्यमूलैर्नवै-
र्नित्योद्घोषितराष्ट्ररक्षणपरार्भव्यैर्विधानोद्यमैः।
चञ्चत्प्राणमयं हृषीकनिचयैर्युक्तं वपुर्धारय-
न्मन्ये क्षेमकरे पथि प्रतिदिनं राष्ट्रं पुरो गच्छति।।४।।
कारुण्यशृङ्गाटके
चञ्चद्राजसभामनोविजयिनी श्रीकालिदासस्य गी-
र्विन्ध्यारण्यजटालनिष्कुटतटीलुब्धाश्च बाणोक्तयः।
सिद्धाः पण्डितमानिनां प्रणयने माघस्य गूढोक्तयः
किन्त्वेका भवभूतिरेव तनुते कारुण्यशृङ्गाटके।।५।।
शृङ्गारे ललितक्रमे विजयते श्रीकालिदासोऽनघः
ख्याते वीररसे तनोति सुषमां श्रीभट्टनारायणः।
हास्ये मृच्छकटीकृदात्ममहितश्शान्ते च हर्षोऽग्रणी-
र्माहात्म्यं भवभूतिरेव भजते कारुण्यशृङ्गाटके।।६।।
मृगात् सिंहः पलायते
मृगोऽसौ मृगराजोऽहं न मे कस्तूरिकागुणः।
त्रापाभांरार्दितस्तस्मान्मृगात्सिंहः पलायते।।७।।
पिपीलिका चुम्बति चन्द्रबिम्बम्
निदाघरात्रौ सितचन्द्रिकायां क्वचिज्जले भासितपूर्णरूपम्।
तृषाभिभूता सलिलं पिबन्ती पिपीलिका चुम्बति चन्द्रबिम्बम्।।८।।
तुषारगौरोऽपि यदि त्वमिन्दो! कलङ्कमङ्के सहजं बिभर्षि।
प्रिया कथन्नोऽहमपीति कृष्णा पिपीलिका चुम्बति चन्द्रबिम्बम्।।९।।
तत्रैव यान्त्यापदः
सिन्धौ सन्नितरां प्रचण्डकिरणैर्भानोर्जलं शोषितं
मेघीभूय ततो रुरोह शनकैर्नीलाम्बरं गुप्तये।
तत्राऽप्याविरभूत्प्रभञ्जनरयोद्घर्षाम्बुवर्षाभयं
प्रायो गच्छति यत्र दैवहतकस्तत्रैव यान्त्यापदः।।१०।।
दिवसे शशी
तमस्येव न मे शौर्यं नास्तित्वं केवलं निशि।
मध्येऽम्बरमित्यात्मानं तनोति दिवसे शशी।।११।।
धिग्रविं यस्तमिस्रायां लोकं त्यजति निष्ठुरः।
नित्यमैत्री मम श्लाघ्येत्याख्याति दिवसे शशी।।१२।।
आकाशपिठआकाशपिठर्णनक्षत्रमौक्तिकव्रजम्।
सूर्यदस्युहृतं दृष्ट्वा क्लिश्यते दिवसे शशी।।१३।।
कृष्णपक्षे कलानाशो निष्प्रभत्वं दिनोदये।
इतीवात्मव्यथं वक्ति हताशो दिवसे शशी।।१४।।
(उत्प्रेक्षालंकार)
मृगाक्षि! भालपट्टे ते कुन्दकर्पूरपाण्डुरे।
विशेषकमिदं भाति सर्वथा दिवसे शशी।।१५।।
नन्दनन्दनवात्सल्यप्रभावे प्रसृते सति।
दुर्वारोऽपि स कन्दर्पः समभूद् दिवसे शशी।।१६।।
(शृङ्गारभक्ती)
जगन्नाथकृपालोके सत्यनारायणोवसन्।
व्यनक्त्येव स्वसौभाग्यं भास्करे दिवसे शशी।।१७।।
सत्यनारायणस्सोऽयं कलाजीवी प्रियंवदः।
नूनं हरिहरालोके जायते दिवसे शशी।।१८।
(व्याजस्तुत्यलंकारः)
सत्त्वानुरूपं फलम्
सौवर्णेऽलघुपञ्जरे विलसितो लीलाशुको नित्यशः
कामिन्या हरिणीदृशा फलरसैर्यत्तृप्यते मञ्जुवाक्।
ध्वांक्षो दृष्टचरश्च यत्परिभवैर्विद्राव्यते निर्गुणः
सर्वस्तेन हि विन्दते परिणतं सत्त्वानुरूपं फलम्!!

गजं बिले आचकर्ष
जनं महासत्त्वमुदारदृष्टिं गिलाऽविलं प्रेक्ष्य तमद्य शेषम्।
भृशं वयं चेतसि चिन्तयामो गजं बिले मूषिक आचकर्ष।।
कदन्नभक्षी ननु पाकदेशो यथाऽनिशं शातयति स्वदेशम्।
विलोक्य तद्भाति नितान्तसत्यं गजं बिले मूषिक आचकर्ष।।
आषाढ एष ददृशे
आच्छादयन् पृतनयाऽसितधूमलेखा-
भृद्वारिवाहनिचयाञ्चितया प्रकामम्।
सान्द्रद्रुमावलिपरीतगभीरभूभृत्-
स्फीतावकाशविवराणि दुरुत्तराणि।।१।।
साटोपमित्वरघनावलिडिण्डिमानां
प्रस्थानकौतुकमपि प्रथयन्निनादैः।
आषाढ एष ददृशे रुचिरप्रतीक्षो
वर्षाधिराज इव मञ्जुलदेवभूमौ।।२।।
तूणीरवक्त्रबहिरागतसायकाभै-
रम्भः पृषद्भिरनिशं प्रपतद्भिरूर्ध्वम्।
दीप्यन्निदाघगुरुतापविलूनकानन्तिं
सम्मोदयन् व्रततिमाशुशुभे घनर्तुः।।३।।
तारध्वनिप्रसृमरैः करकावपातैः।
कर्णम्पृणैर्मधुरवैर्लघुबिन्दुजालैः।
वृक्षच्छदप्रपतितैश्च लयान्तराढ्यैः
सङ्गीतसंसदमसौ जनयाञ्चकार।।४।।
वेगोच्चलद्दलचयानृजुदेवदारुन्
हिन्दोलनव्यतिकरैरिव कम्पयन्तः।
वाता ववुस्तुहिनशीतलतां दधाना
अम्भोदबिन्दुनिकरान् परितः किरन्तः।।५।।
नीचैरुपर्यथ च तीर्यगपि भ्रमद्भिः
पारावताभजलदैरचलोच्चशृङ्गाः।
धूमोच्चयावृतसमग्रकलेवरांशा
नैव स्फुटं ददृशिरे धृतसान्ध्यशोभाः।।६।।
रात्रावतर्कितमहो करकावपात-
प्रोद्यद्ध्वनिक्षपितकोमलगाढनिद्रान्।
पारावताः स्वशिशुकान् परिसान्त्वयन्तो
भीतान् कुलायलुठितान् जलदाञ्छपन्ति।।७।।
श्यामाकसर्षपकलायमधूकपुष्पा-
कारैरहो जललवैः प्रथयन्समृद्धिम्।
मेघव्रजोऽभिमतनीरवतां दधानो
धीरं वदान्यचरितं विशदीकरोति।।८।।
श्वेतान्निमेषपरिधौ ननु मेषशावान्
भल्लूकपङ्क्तिमथ संहतरोमराजिम्।
विद्रावयन्त उपरि प्लुतकण्ठनादै-
र्भ्रान्ता भवन्ति मुदिरा अकृतव्यवस्थाः।।९।।
यावन्निकामरमणीयमदृष्टमेघैः
सन्दृश्यते विततनीलनभस्समन्तात्।
मायामयं शितिपटं ननु तावदेव
तस्येन्द्रजालनिपुणस्य ततं विभाति।।१०।।
अन्तर्बहिस्तपनमाशु जलाभिषेकै-
रुच्छेदयन्नु जगतां सचराचराणाम्।
प्रह्वीकरोतु शिमलामिव देवभूमिं
मेघस्समग्रवसुधामिह भारतीयाम्।।११।।
मिश्रोऽभिराजराजेन्द्रः प्रथमेक्षितसम्पदः।
श्यामलापीठवर्षर्तोः सत्करोत्यभिनन्दनम्।।१२।।
धनकादम्बिनीस्नातो देवतात्मा हिमाचलः।
स्नपयेद्भारतं राष्ट्रं भूरिभव्यामृताम्बुभिः।।१३।।
मार्तण्ड एष समुदेति
उत्तष्ठि मा शुचमुपैहि विलोकयचेमं
प्रोन्मील्य मानिनि दृशौ दयितं समक्षम्।
इत्येवमात्तहृदयोदररोदरौधां
पद्मां प्रबोधयति दीप्तरविः प्रभाते।।१।।
मासृण्यमण्डितकरैरपनीय चञ्च-
त्सान्द्रक्षपाहृततुषारभंरावगुण्ठम्।
लोलार्क एष रभसाद्दयितो रिरंसुः
कान्तां प्रसादयति पुष्करिणीतनूजाम्।।२।।
भोगोद्धुरश्चिरवियुक्तरविः कथञ्चि-
त्तैस्तैरुपायनिचयैः खलु सम्मुखीनाम्।
कृत्वा चुचुम्बिषति निर्यदलिस्वनाढ्या
मा मेति कल्पयति साऽपि निषेधवाचम्३।।
दष्ट्वा प्रसन्नवदनां दयिताङ्कपाल्यां
चञ्चद्रजः प्रसरभावितभोगसौख्यम्।
व्यालोलवातरयकम्पितशाखिशीर्षा
पद्मां वनी हसति सूर्यविटोपपन्नाम्।।४।।
पाथोजिनीप्रणय वारिकृतावगाहः
प्राच्याद्रिसानुवरसिन्धुरपृष्ठरूढः।
व्याकीर्णवज्रमणिपाण्डुगभस्तिपुञ्जो
मार्तण्ड एष समुदेति नृपो जिगीषुः।।५।।
चारैरुलूकनिवहैर्विनिवेद्यमानं
प्रस्थानकौतुकविधिं समवेत्य यस्य।
गूढाऽवनीधरदरीषु निलीय रङ्क-
स्सातङ्क एव समयं हरतेऽन्धकारः।।६।।
तं सान्वयं तरणितारकरा उदग्रा-
श्चिन्वन्ति रोषकलुषाः कृतदुर्व्यवस्थम्।
स्वैरं दिदण्डयिषवोऽद्रिगुहाऽन्धकूप-
च्छायादिषु प्रणिहितं क्वचिदस्तभव्यम्।।७।।
आत्मानमह्नि परिरक्ष्य सपत्नकोपा-
दस्ताचलं श्रयति सायमथाब्जबन्धौ।
संवीक्ष्य निष्प्रभमनुग्रतनुञ्च भूयो
ध्वान्तं बहिश्चरमिदं कुरुतेऽट्टहासम्।।८।।
प्रोन्माथि निस्त्रपमिदं प्रसमीक्ष्य नृत्यं
क्लीबान्धकारपरिवारजनोपनीतम्।
कान्तव्यथाव्यतिकरैरनुपातविद्धाऽ
प्यम्भोजिनी सकरुणं निमिमील चक्षुः।।९।।
तं वैरिवैरिणमथ प्रथिताऽन्धकारं
मत्वा नितान्तसुहृदं स दधत्कलङ्कः।
चन्द्रोऽप्यहो समुदियाय मलिम्लुचाभः
पर्यायदर्शितविभिन्नकलस्वरूपः।।१०।।
धिक्त्वां तमोऽनुगमये प्रतिशोधभीरो
नीच प्रभामलिन चन्द्र तथेति शप्त्वा।
ज्योत्स्नाकलेवरममुष्य विधिस्स चक्रे
श्वित्राभतारकसहस्रपृषत्कजीर्णम्।।११।।
स्वार्थैकसाधनविधौ शिथिला मतिस्ते
यस्मात्तुलेव नतिमुन्नतिमेति दिग्धा
तस्मात्त्वमेष्यसि विधो प्रतिपक्षमेव
वृद्धिक्षयोभयविषादभरं क्रमेण।।१२।।
आदित्यशात्रववशात् विधिनाऽभिशप्त-
श्चन्द्रस्ततः प्रभृति नैति रवेस्समक्षम्।
मन्दाक्षपाण्डुरमुखः क्वचिदम्बरस्थः
प्रच्छन्न एव दिवसं नयति प्रविद्धः।।१३।।
प्रत्नं प्रभाकरनिशाकरवैरवृत्तं
नाद्यापि किं तदिहलक्ष्यत एव सम्यक्!
कोऽयं प्रभो! नियतिपुत्तलिकोपहासो
यत्सङ्गतौ क्षणमपि प्रथितौ न तौ स्तः।।१४।।
त्वदिच्छा
यद् दारूयोषिदिव सूत्रधृता त्वयाऽहं
नानाविधाऽभिनयवानधिभूमितल्पम्।
मायानटेश्वर! चिरावधि नर्तितोऽस्मि
तत्केवलं भुवनमोहनिका त्वदिच्छा!!१।।
अद्याभिराजितनयो भणति प्रविद्धः
सास्रं त्वदीयचरितं ननु भिन्नवज्रम्!
नैरङ्कुशत्वबलगर्वित एव यत्त्वं
लोकं क्षिणोष्यविरतं न तवोचितं तत्।।२।।
मान्योऽसि सर्वजगतां निरवग्रहोऽसि
स्वच्छन्द आत्मरुचिकोऽस्यनियन्त्रितोऽसि।
यद्गर्वखर्वितजगत्त्रयसन्निसर्ग-
स्त्वं सैंहिकेयपदवीं समुपागतोऽसि।।३।।
निर्माय संहरसि तत्क्षणमेव किञ्चित्
प्रोत्थाप्य पातयसि निष्करुणोऽपरं यत्।
वज्रायिताऽत्मचरितैर्वधिकायसे त्वं
कस्मात्तथापि करुणावरुणालयोऽसि!!४।।
मृत्युव्यथां सहति जीवितविप्रयोगा-
च्छागस्तथापि नहि ते रसनाऽल्पतोषः!
उत्पाद्य नित्यमयुतं प्रयुतं यदत्सि
तत्ते प्रभुत्वमथवा पिशिताशनत्वम्!!५।।
बौद्धैर्जिनैस्सहजमेव बहिष्कृतोऽपि
शक्तोऽसि नो तदपकारविधौ यदल्पम्।
ये सन्ति हन्त तवकाः शुकशावकास्तान्
भिन्दन्न शाकुनिक! यासि मनोविषादम्!!६।।
धिक्त्वां विपन्नहृदयं विपदेकमूलं
स्वात्मप्रजाभिरिह पूरितकल्यवर्तम्।
धिक्त्वां प्रभुत्वमदगर्वितमाशुरोषं
स्वायत्तगौरवधरं स्वसुखावसक्तम्!!
विस्मयसप्तकम्
कदलीविपिनेषु चरन्ति खरा
मधुवारि पिवन्त्यधिपुष्करिणि।
लवणादिभरञ्च वहन्ति हया
इति विस्मयमेति मदीयमनः।।१।।
क्व नु पञ्जरकीरविनोदकथा
क्व नु सारिकया सह संल्लपनम्!
क्व च हर्म्यगवाक्षरतिप्रथिता
क्व च सम्प्रति कम्प्रकरं कुतुकम्!!२।।
प्रतिभाति धरा दवदाहमयी
निरुपायमृगा इव भीतजनाः।
श्वसनोत्क्रमणोत्प्लवनोच्छलनैः
पथि भूरि पतन्ति युगान्तभिया।।३।।
कलिकौतुकवृत्तमहो तुलसी
निजगाद यदात्मकृतौ तपसा।
प्रतिभाति तदेव भृशं घटितं
ननु विस्मयमेति मदीयमनः।।४।।
निगमागमशास्त्रचयाध्ययनं
शुभकर्मशतञ्च सदाचरणम्।
ननु निष्फलमेव विभुस्मरणं
परितो जयतेऽनृतमेव कलौ!!५।।
वरटाः किल शैवलभक्ष्यपरा
मलिनीकृतपाण्डुरपक्षचयाः।
विलसन्ति च घूकगणा भवने
तदवेक्ष्य मनो मम विस्मयते!!६।।
अयि भारति! तेऽथ ललाटलिपौ
परमेशकरैः किमिवोल्लिखितम्!
जयिनी नृपनीतिरियं कुटिला
भवती च पराजयदैन्ययुता।।७।।
अमीनाबादेऽस्मिन्
स्फुरच्चण्डारण्यप्रसृतदवदाहप्रजविता
विपर्यस्ता नानाप्रकृतगतयो भ्रान्तमतयः।
चतुर्दिक्षु क्षामा व्यपगतविरामा इव नरा
अमीनाबादेऽस्मिन् वनपुशुनिभा धावनरताः।।१।।
वियद्धूमोद्गारान् शतशतविकारान् प्रतिपलं
त्रिपद्यो बिभ्रत्यः पथि-पथि सरन्त्योऽनवरतम्।
समेषां पान्थानां प्रसरसुखराकाघनघटा
हृतक्रोडोच्चार्यं दधति सततं घुर्घुररवम्।।२।।
प्रकाशीया “कुल्फी” गज़गिह सिता चाऽत्र “रउड़ी”
तिलाद्यैः सम्मिश्राश्चिकनवसनान्यत्र सततम्।
स्फुटं विक्रीयन्तेऽभिनवपथिकं सौम्यवचनै-
रमीनाबादेऽस्मिन् कृतवसतयश्चाभिदधति।।३।।
जलानां गाम्भीर्येऽपरिचयवतो लोलमनसो
विहारस्पर्धोत्कान् विरहिततटान् मुग्धपथिकान्।
निगृह्णन्ति स्वैरं निभृतनिभृतं नक्रगतिका
अमीनाबादेऽस्मिन् विपणिपणयो धूर्तवणिजः।।४।।
क्वचिद्गावो मुक्ताः पृषदुदरयुक्तास्सपृथुका
महिष्यो वा कृष्णा असितगिरिसानुप्रचलिताः।
चरन्त्युन्मादार्ता अधिनृपतिमार्गं प्रतिपलं
पुरेऽमीनाबादे चकितनयनैर्हन्त कलितम्।।५।।
इतो गामं गामं सपदि किल रुद्धोऽपि पथिकः
समन्विष्यन्नीषत्प्रचुरमवकाशं पथि पुनः।
क्वचित्सव्यं सव्येतरमपि च गच्छन् विकलितोऽ
प्यमीनाबादाध्वन्यहह चतुरङ्गं वितनुते।।६।।
तटिन्या गोमत्याः प्रवरपुलिने प्रत्नवसति
स्थितं भूमौ ख्यातं सुभगनगरं लक्ष्मणपुरम्।
अमीनाबादाख्यं तदुपनगरं भूरिविभवं
जनानां सम्मर्दैर्व्यथयति मनो दर्शनवताम्।।७।।
मार्तण्ड एष समुदेति
सिन्दूरलोहितनिपानजलेऽधिसन्ध्यं
प्रोद्यत्प्रहृष्टकुमुदप्रसवप्रभावः।
प्राच्यारुणिम्नि विकिरन् विशदान्मयूखान्
मार्तण्ड एष समुदेति जगत्प्रबोधः।।१।।
चारित्र्यशङ्किजनवृन्दविधूतशीलां
कौलीनतप्तहृदयां किल दिग्वधूटीम्।
मार्तण्ड एष खलु कान्त इव प्रवासी
चञ्चत्करैर्विशदयन् कुरुतेऽवदाताम्।।२।।
अम्भोजयावकरसाञ्चितकम्रपादा
धूमोच्चयाञ्जनवती जलदाऽवगुण्ठा।
प्रोड्डीनशुभ्रबकपङ्क्तिविलोलदृष्टि-
श्चारीं समाचरति दिग्दयिताऽङ्गणे खे।।३।।
पूर्वं तमोमलिन आरुण एव पश्चाद्
दुर्लक्ष्य ऊर्ध्वनयनैश्च ततोऽपि दृष्टः।
दाहक्रमेण विविधद्युतिमाशु तन्वन्
संलक्ष्यतेऽम्बरमणिर्ननु लौहकल्पः।।४।।
गाढं रुरोद यदहो प्रियविप्रवासाद्
सान्द्रान्धकारविरहव्यथिता नभःश्रीः।
मुक्ताबृहन्ति तरुपर्णचयस्थितानि
तान्येव सम्प्रति पतन्ति दृगम्बुभाञ्जि।।५।।
मानोज्ञकं विविधवर्णयुतं सुमेभ्यो
लोकाय पौरुषमभीप्सितसाधनाय।
कोकाय हर्षनिवहं वितरन् विषादं
घूकाय साम्प्रतमुदेति विकर्तनोऽयम्।।६।।
गाढोष्मपक्षतिभरैर्निभृतं कुलाये
शावान् नियन्त्रयति भक्ष्यविधानभीत्या।
बालार्कदीप्तिविनिवारितगाढनिद्रा-
स्ते किन्तु चुङ्कृतिचयैर्जननीं तुदन्ति।।७।।
सुस्वापसौख्यमनुभूय निशि प्रगाढं
प्रातस्समीरपरिरम्भसमुत्थकम्पः।
पादौ प्रतत्य लगुडीकृतमेरुदण्डो
व्यायाममानतकटिर्विदधात्यलर्कः।।८।।
गोभिस्समं निशि दधत्सहवाससौख्यं
शुद्धान्तपो नृप इवैष वृषः प्रभाते।
प्रोथं विवृत्य गगनं ननु सञ्जिहानः
पादाग्रधूलिभिरहो मलिनीकरोति।।९।।
काञ्चिन्निपीड्य सदयं दयितां विषाणैः
संक्षोभ्य काञ्चिदचिरोदितकामभावम्।
प्रोत्सार्य कामपि मृषासुरतादकामां
संसेवते सपदि कामपि साध्वभीकाम्।।१०।।
कोणे क्वचिच्च निशि मूषहरैरनल्पं
पुञ्जीकृते विविधभक्ष्यचयाऽवशेषे।
पक्वान्नगन्धभिदुरात्मतटस्थधैर्यं
विभ्रान्तमौकुलिकुलं वृजिनं तनोति।।११।।
कस्मात्त्वया गतनिशि प्रसभाऽवपातै-
रध्यासिता मम हि सा पिचुमन्दशाखा!
इत्येवमादि कलहं कलघण्टिकाभि-
स्सार्धं तनोति कलविङ्कततिस्समन्तात्।।१२।।
वत्सक्षुधां समनुभूय विलोकयन्ती
वात्सल्यपूरितदृशा परिबृंहिताक्षी।
हम्भारवैर्गगनपन्ध्रभरैर्नितान्तं
गृष्टिर्भिनत्ति ककुभामिव सन्धिबन्धान्।।१३।।
नाश्नाति शष्पकवलं न बुसं खलं नो
नो वा मनाक् स्पृशति दुर्लभसक्तुचूर्णम्।
रज्जुञ्च शङ्कुमपि साधु विभेत्तुकामा
व्यह्नि प्रसूतशिशवे ननु कातरा गौः।।१४।।
निर्विश्य रात्रिविवरे किल जीवलोकाः
सुप्तिं भजन्त्युरगसन्ततिनिर्विशेषाः।
जाते पुनस्तरणिताम्रतरप्रकाशे
निर्गत्य हन्त विवरात् परितो भ्रमन्ति।।१५।।
निर्बन्धमारटति पक्षिणि लोहिताक्षे
स्वैरं “कुहू- कुहु- कुहू- कुहु- कूहु- कूहू!”
“पी-पीहु- पीहु- पिहु- पीहु” च चातकेऽपि
स्पर्धेव काचिमदुभयोः प्रथते प्रभाते।।१६।।
सम्पूर्णनग्नशिशवो ननु पामराणां
भिक्षाटिनां गलितघोणजलप्रवाहाः।
स्वैरं हसन्त इव लक्षपतेस्समृद्धिं
निघ्रन्ति पल्वलजले शफरान् प्रहृष्टाः।।१७।।
उद्दामयौवनवती तनुजा नु तेषां
दृद्याऽनवद्यकमनीयतमाऽननश्रीः।
विच्छिन्नकञ्चुकबहिर्गमनोत्सुकौ स्वौ
हा हन्त पश्यति कुचौ नितरां सलज्जम्।।१८।।
किं किं न पश्यति रविः करुणेतिवृत्तं
दिक्षु प्रसारितकरः जगताञ्च साक्षी।
हत्याप्रवञ्चनकृपाकरुणोपकार-
व्याध्याधिपुण्यदुरितादिकथासहस्रम्।।१९।।
नित्याऽनुभूतमहितोदयमाङ्गलिक्यो
नित्यं तथैव समवाप्तकथाऽस्तखेदः।
योगीव भात्युभयथाऽप्यविषण्ण एव
मार्तण्ड एष सुखदुःखदशोपदेष्टा।।२०।।
गुर्जरेषु त्रियामा
दिवसकरमरीचिप्रौढतापप्रदग्धं
सुभगदयितकल्पं छन्नदेहप्रकाशम्।
निभृतनिभृतमेवाऽसेवितुं भव्यवामा
धरणितलमुपेता गुर्जरेषु त्रियामा।।१।।
दिशमथ दिननाथे वारुणीं लम्बमाने
श्रयति शमितजल्पे पक्षिवृन्दे कुलायम्।
प्रसृमरसुमगन्धैरागमं सूचयन्ती
मदयति मधुपालीं गुर्जरेषु त्रियामा।।२।।
मुदितकुमुदबन्धुप्रीतसौभाग्यबिन्दु-
प्रथितविशदभालाऽमुद्रिताऽरक्ततारा।
व्रजयुवतिदुकूलस्तोमहृत्कृष्णवर्णा
समवतरति मुग्धा गुर्जरेषु त्रियामा।।३।।
जलधिलहरिलोल्लज्झर्झरीतालबन्धै-
र्मदकलविहगालीकण्ठनिर्यन्निनादैः।
पवनधुततरुत्थोद्दामझम्पाङ्घ्रिचारी
नटति पटुनटीयं गुर्जरेषु त्रियामा।।४।।
दरविकसितमल्लीमञ्जुनेत्रा प्रशान्त-
भ्रमरनिचयचञ्चत्कज्जलालेखरम्या।
असितजलदमालासौम्यशाटी सलज्जा
सरति नववधूटी गुर्जरेषु त्रियामा।।५।।
असितजलधिवक्षस्तल्पके पर्यटन्ती
निविडतिमिरलेखा शम्भलीवेन्दुवक्त्रा।
धरणितलमुपैति ध्वान्तलीलानिगूढं
पिशुनविटसहाया गुर्जरेषु त्रियामा।।६।।
समवतरणवेलां वासुदेवस्य काञ्चि-
च्छ्रयदविशदपक्षां भाद्रपद्याऽष्टमीकाम्।
स्वतनुविभवसाम्यां स्मारयन्ती सगर्वा
लुठति तुलितकृष्णा गुर्जरेषु त्रियामा।।७।।
त्रिदशपतिनमस्यामानयन्ती सहेलं-
त्रिनयनचरणाब्जद्वन्द्वके सेविकेव।
पणवमुरजघण्टाशङ्खभृत्सोमनाथा-
नदति ललितकण्ठा गुर्जरेषु त्रियामा।।८।।
जलधिकुहरसुप्तैः शुक्तिशङ्खप्रवालै-
स्तुहिनविशदवर्णैर्दस्युभीतैः प्रकामम्।
असितपटनिभैः स्वैः प्रार्थिता ध्वान्तयूथै-
रवितुमतति सत्त्वं गुर्जरेषु त्रियामा।।९।।
विकचकुमुदनेत्रा यूथिकामञ्जुहासा
सरसिजमृदुकाण्डाऽताम्रहस्ताङ्घ्रियुग्मा।
तरुशिखरकुलायोन्निद्रपक्षिप्रजल्पा
समभिसरति चन्द्रं गुर्जरेषु त्रियामा।।१०।।
वसतिगृहगवाक्षे स्थापितैर्दीपपुञ्जै-
र्नगरसघनवीथ्या विद्युताञ्च प्रकाशैः।
सपदि नयनलीलां कुर्वती सानुरागं
ननु सरति सहेलं गुर्जरेषु त्रियामा।।११।।
सततमभिभवन्ती सच्चरित्रप्रकाशं
नयविनयसमज्ञाबोधविज्ञानलोकम्।
पिशुनसमुदयोद्यद्द्वेषनाटीव चित्राऽ
भिनयति बहुरूपं गुर्जरेषु त्रियामा।।१२।।
हलिहलदलनार्ता श्यामतोयाऽसिताङ्गी
प्रतपनतनुजेव स्फीतकातर्यभावा।
विततलहरिवेगप्लाव्यमानाखिलोर्वी
श्रयति खकुकटाहं गुर्जरेषु त्रियामा।।१३।।
क्वचिदयमभिराजीसूनुरित्थं स्वयात्रा-
ध्वनि सपदि समन्ताद्रोदसीं व्याप्नुवन्तीम्।
नयनयुगलदृष्टां लाटनीवृत्त्रियामां
विशदयति बुधानां हृन्मुदे रम्यबन्धैः।।१४।।
मुम्बईममरेलीतो गच्छन्निशि निशीथिनीम्।
मिश्रोऽभिराजराजेन्द्रो यथादृष्टं समञ्चति।।
हिमपातगाथा
नीडस्थशावककदम्बकचुङ्कृतीभिः
धिग्धिग्धिगित्थमिति दुर्वचनाऽभिशप्तः।
दत्वाऽर्धचन्द्रमिव साधु बहिष्कृतोऽयं
लोकैरितस्तत उदञ्चति शीतवायुः।।१।।
स्नान्तीभिरायतनभस्तटिनीजलेषु
प्राच्यादिदिग्वलयमञ्जुलकामिनीभिः।
शेषाय देवतरुसानुषु लम्बमानाः
पिण्डा लसन्ति तुहिनस्य सिताञ्चलाभाः।।२।।
दृष्टिं दृशां ननु हरन् घनबाष्पयूथैः
कर्णावलं बधिरयन् जवझङ्कृतीभिः।
पादप्रचारमपि धुन्वनहो स्वशैत्यै-
र्लोकं विमर्दयति हन्त हिमावपातः।।३।।
दैनन्दिनं कलहवृत्तमुपेक्ष्य दीनाः
कुब्जीभवत्तनुलताः कपयो द्रुमेषु।
उद्वृत्तदन्तशकलाश्चलिताक्षताराः
श्रीबोधिसत्त्वचरितं परिशीलयन्ति।।४।।
अन्याऽनुपस्थितिविवृद्धंमनः प्रहर्षो
जङ्घानिमज्जितसमुच्छ्वसितोर्ध्वपुच्छः।
रथ्य़ास्ववस्करचयेष्वशनं प्रभातेऽ-
न्विष्यत्यलर्कजरठोऽप्यकुतोभयोऽयम्।।५।।
रात्रौ द्रुमाद्द्रुमतटेषु समुच्छलन्ती
शीतार्मदिता प्रियवियोगभराननुतप्ता।
क्रन्दत्यरण्यघननिष्कुटमेखलासु
फ्लाइङ्ग फॉक्स इति नामवती विहङ्गी।।६।।
क्वासौ विधिस्सकलसृष्टि विधानदक्षो
विष्णुः क्व वा पशुपतिर्वरुणोऽथवेन्द्रः!
नॄणां पुनर्गिरिभुवां शरणप्रदाता
देवोऽग्निरेव हिमशैत्यहरस्स एकः।।७।।
राहुग्रहोऽपि न तथा तनुते व्यलीकं
नो वा पयोदपटली मम धर्महन्त्री।
हैमाचली तुहिनवृष्टिरियं यथेति
क्लिश्यन् दिनेऽपि दिनपो विधुतामुपैति।।८।।
आकाश एष दयितः परिभूः स्वयम्भू-
र्नग्नां विलोक्य धरणीं किमुत स्वभार्याम्।
जातत्रपस्तुहिनपातमिषेण यत्नै-
स्तां संवृणोति शरदभ्रसितैर्दुकूलैः!!९।।
पश्चात् स्थितो गगनचुम्बिमहार्घशीर्ष-
स्सान्द्राऽवदातहिमपुञ्जवृतोत्तमाङ्गः।
मध्ये कुटुम्बिनिचयं कुलवृद्धकल्पः
संल्लक्ष्यते धवलधारमहीधरेन्द्रः ।।१०।।
कुर्वन् पृथग्भरतभूमिमिमां पुराणीं
त्रैविष्टपाद् विवुधयोनिविहारदेशात्।
अंकाधिरोपितशतद्रु-विपाशकोऽयं
शैलो विराजति कुलूत समर्च्यपादः।।११।।
स्फीतेषु मानसविचारतरङ्गकेषु
स्वैरं तरन्त इव गूढविरूढभावाः।
हैमाचलीषु तटिनीषु तुषारपिण्डा
लोलं लुण्ठन्ति हिमपातदिनेष्वनूनम्।।१२।।
पारेमहीध्रशिखरं निविडप्रदोषे
क्षीणप्रभे परिणते सति सूर्यबिम्बे।
सन्ध्यानटी शतसहस्रविचित्रवर्णान्
मेघांस्तनोति विपणिस्थपटप्रकल्पान्।।१३।।
शैलाच्चशृङ्गतरुपल्लवहर्म्यपृष्ठ-
क्षोणीतलादिषु निपीय हिमं समन्तात्।
सत्त्वैकशासनवशात् त्रिगुणत्वभावो
मिथ्यैव भासत इह प्रकृतेर्निकामम्।।१४।।
मिश्रोभिराजपदभाक् सुरवाचि सिद्धो
वाणीकृपाऽणुसमुपाहृतशक्तिपातः।
प्रस्तूय देववसुधाहिमपातगाथां
राजेन्द्र एष तनुते रसिकप्रमोदम्।।१५।।
प्रतीयसे किन्तु नरो न सिंहः
स्वकूटनीत्या सुहृदस्समस्तान्
विश्वाससिन्धौ ननु गाहमानान्।
यद् ग्राहयित्वा प्रसभं हवाला-
नक्रेण जातोऽसि सुखी प्रकामम्!!१।।
न राष्ट्रमेतन्न च वेत्ति सर्व
तवेतिवृत्तं नरसिंह बन्धो!
भवाऽधुना त्वं विबुधो बुधो वा
प्रतीयसे किन्तु नरो न सिंहः।।२।।
दुःखोपचर्या खलु राजनीति-
र्यदुक्तमेतद्धि विशाखदत्तैः।
तदद्य सिद्धं गणिकागृहीत-
स्सिंहोऽपि हा जम्बुकतामुपेतः।।३।।
आसन्दिकां स्वां परिपातुकामैः
कृतं भवद्भिर्यदभून्नु शक्यम्।
त्यजन्तु भूयस्तदवाप्तिलोभं
न काष्ठभाण्डं पचति द्विवारम्।।४।।
विभज्य दक्षोऽसि निजार्थसिद्धा-
वदक्षिणः सन्नपि दाक्षिणात्यः।
नियन्त्रयाऽत्मानमुपेक्ष्य राष्ट्रं
त्वयाऽधुना राष्ट्रमिदं न रक्ष्यम्।।५।।
वेदगीतम्
श्रवणीयं मननीयमविरतं सहजं गानीयम्।
वेदामृतमिह भारतराष्ट्रे सर्वैः पानीयम्।।१।।
साम्नां यजुषामृचामथर्वाङ्गिरसां धृतभेदः।
मन्त्राणां मञ्जुलसमवायस्त्रयीमयो वेदः।।२।।
गूढरहस्योद्भेदमहिम्ना भवति स आम्नायः।
प्रवचनमिति गुरुशिष्यपरम्परया प्रसरोपायः।।३।।
प्रवरचरणशाखाशिखया सन्दर्शितविस्तारः।
दिव्यचिरन्तनचिन्तनशतजलसृतिपारावारः।।४।।
इन्द्रवरुणयमरुद्रविष्णुमरुदादियशोगीतिः।
प्रतिमंत्रं दृश्यतेऽधिनिगमं हिमधवला कीर्तिः।।५।।
वेदोऽयं साहित्यसुरद्रुमपातालगमूलम्।
सर्वकामनापूर्तिसमर्थ सुरापगाकूलम्।।६।।
प्रत्यक्षेण यदनुमित्या वा सिध्यति नो तथ्यम्।
सर्वं तदपि भवति विज्ञातं वेदेभ्यः सत्यम्।।७।।
विविधकलासाहित्यशास्त्रदर्शनचिन्तनधारा।
निगमाचलशिखरादुद्भूताऽऽलोकित संसारा।।८।।
दिव्यानुभवसरिदियं रुचिरा त्रयीविमलधारा।
साक्षात्कृतधर्मणामृषीणां तपोमहितभारा।।९।।
प्रथिता जगति यदीया वृहती कामदुहा भाषा।
शतशतार्थदीपनी नवनवाऽक्षतधिषणोल्लासा।।१०
क्वचिदितिहासः पुरातनः ज्ञानं क्वचिदपि शुद्धम्।
क्वचिद्विपाशशतद्रुतटोत्थं दाशराज्ञयुद्धम्।।११।।
अहिबलनमुचिकुयवशम्बररौहिणदनुसंहारः।
वीरकर्मसमुदयो मघोनः क्वचिच्चमत्कारः।।१२।।
क्वचिन्नासदीये सन्दर्भे सृष्टेर्जिज्ञासा।
अद्धा वेद को न खलु तदिति प्रश्नमयी भाषा।।१३।।
सूर्यासोमविवाहमहोत्सववर्धितसम्भारः।
निगमे क्वचिद् वर्णितोविमलःपरिणयसंस्कारः।।१४।।
दर्शपौर्णमांसाश्वमेधपुत्रेष्टिगवामयनम्।
क्वचिच्चित्रितं वाजपेयनृपसूयमहायजनम्।।१५।।
विश्वशान्तिकामनया व्यक्तं सांमनस्यवचनम्।
क्वचिदधिनिगमं प्रतिपादितमिह मधुविद्याकथनम्।।१६।।
पञ्चेन्द्रियसामर्थ्यसमन्वितशतवर्षायुष्यम्।
कल्पितमिह दृश्यतेऽधिमंत्रं प्रशमितकालुष्यम्।।१७।।
निखिलविश्वसौभाग्यशान्तिसुखमहितमधूद्गारः।
शतसह्स्रवीचिप्रचुरोऽयं श्रुतिपारावारः।।१८।।
षड्वेदाङ्गपुराणशास्त्रदर्शनकाव्यादिधरः।
जयतादिह भूतले गगनगः श्रौतो महीधरः।।१९।।
सत्यं वद धर्मं चर नितरां त्यज नो स्वाध्यायम्।
मातृपित्रतिथिगुरुदेवो भव कुरु विविधोपायम्।।२०।.
एकं सद् बहुधा वदन्ति विप्रा यं परमेशम्।
इन्द्रं भगं मित्रमर्यमणं स्वीकुरु तमशेषम्।।२१।।
एवंविधदिव्यातिदिव्यवचनैर्हृदयं दधती।
निखिलमहीतलमुपकुरुते श्रुतिवाणी सरस्वती।।२२।।
निगमकल्पपादपं तादृशं भवभयदैन्यहरम्।
यो न सिषेवे जगति मानवः सुखसौभाग्यकरम्।।२३।।
जन्म तस्य जातं निरर्थकं मनोव्याधिमूलम्।
पदे-पदे- तत्कृते केवलं भुवि कीर्णं शूलम्।।२४।।
गायति तस्मादभिराजो वेदाञ्चितमहिमानम्।
उत्तिष्ठत जाग्रत मनुजा गायत श्रुतेर्गानम्।।२५।।
पुष्करराजस्तवः
वैरिञ्चयज्ञपरिपूतदिगन्तरालं
नागाद्रिवेष्टिततनुं हिमहारशुभ्रम्।
दुर्दान्तपापकलिकल्मषहारि-दिव्यं
तीर्थेश्वरं तमिह पुष्करराजमीडे।।१।।
यद्वारुणीककुभि तुङ्गमहीध्रशृङ्गे
धातृप्रिया वसति रोषनिषक्तचित्ता।
पार्श्वे च रुद्रगृहिणीमणिबन्धपीठं
तत्पुष्करं विमलमुक्तिसरोऽहमीडे।।२।।
दोषा द्रवन्ति विदहन्ति च पापसंघा
यद्दर्शनेन नियुताऽयुतजन्मलिप्ताः।
यत्साक्षिकैर्व्रतचयाऽचरणैर्विमुक्तिः
श्रीपुष्करं विजयते तदनादितीर्थम्।।३।।
श्राद्धं यदीयपरिधौ विदधे कदाचि-
त्सीतापतिर्दशरथस्य महामहिम्नः।
डिम्भं जघान वसुदेवसुतोऽपि यत्र
तन्नौमि पुष्करमहं भुवि दिव्यतीर्थम्।।४।।
यत्राश्रमाः कलशयोनिमृकण्डविश्वा-
मित्रादिभूरितपसामथ भूपतीनाम्।
तां राजसूयवसुधां ध्रुवनन्दनस्य
श्रीपुष्करं विवुधसिन्धुसमं समीडे।।५।।
चञ्चद्धरीतिमवनौषधिजातशोभं
वापीनिपानमृदुकूपविवृद्धपुण्यम्।
दीप्यत् त्रिदेवचरितस्थलसाक्षिभूतं
स्वर्गास्पदंतदिह पुष्करमानतोऽस्मि।।६।।
कुष्ठाद्यनेकजडचर्मरुजामराति-
र्यक्ष्मोपशान्तिनिपुणं सगुणं यदम्भः।
विष्णोर्विभूतिमहितं वसुधैकनेत्रं
तीर्थोत्तमं तदिह पुष्करमानतोऽहम्।।७।।
नागोद्भवस्थलमिदं धृतपञ्चकुण्डं
दीमप्ताऽजगन्धशिवलिङ्गयशोऽवदातम्।
यत्कार्तिके भुवमुपैति श्रितान्तरिक्षं
तं पुष्करं सकलतीर्थप्रतिं प्रपद्ये।।८।।
यन्मोक्षदातरि जले सदयं प्रवाह्य
राधाष्टमीशुभतिथौ ननु विप्रसाक्ष्यैः।
मात्रग्रजाऽस्थिनिचयं कृतकृत्यतायाः
काष्ठां परामुपगतोऽस्त्यभिराज एषः।।९।।
मिश्रोऽभिराजराजेन्द्रो दुलीचन्दद्वितीयकः।
पुष्करे विहितस्नानं पुष्करं स्तौति सार्जवम्।।१०।।
वसुग्रहरसेन्द्वब्दे ख्रैस्ते मृगाङ्गवासरे।
तिथाविन्दुगुणेऽगस्ते पूरितं पुष्करार्चनम्।।११।।
स्वतन्त्रता
स्वजीवनाऽमृतोद्भवप्रभूतसौख्यदायिनी
पराऽवमाननामशिनी प्रसुप्तचिद्विकासिनी।
दयाकृपाक्षमाऽर्जवप्रतापशौर्यसंश्रिता
ज्यत्येनहसि त्रयेऽपि जन्मिनां स्वतंत्रता।।१।।
नभोगतुङ्गतामपि स्वतुङ्गताऽतिलङ्घिनी
पयोध्यगाधतामपि ध्रुवं दृढातिशायिनी।
प्रचण्डवाय्वपेक्षयाऽप्यहोधिकं प्रवेगिनी
महौजसां प्रचारिणी जयेदियं स्वतन्त्रता।।२।।
दृषत्कठोरहृद्भिनत्ति सत्वरं स्वतन्त्रता
निरर्गलप्रपातवा रुणद्ध्यहो स्वतन्त्रता।
असम्भवान्यहोऽखिलानि कल्पते स्वतन्त्रता
जगत्यमेयशक्तिका महीयतां स्वतन्त्रता।।३।।
न रोचते शुकाय हेमपञ्जरोऽपि यां विना।
प्रमोदते न मन्दुरामृगेन्द्रकोऽपि यां विना।
असार्थकं निरुत्सवं यया विनाऽस्ति जीवनं
विलक्षणोद्धवप्रदा जयत्यहो स्वतंत्रता।।४।।
स्फुरन्ति वृक्षपल्लवाः प्रभञ्जनोपलालिता
लसन्ति वृन्तमूर्ध्नि पुष्पसञ्चयाश्च वीरुधाम्।
समुत्पतन्ति बद्धपङ्क्तयोऽम्बरे पतत्रिणः
ययाऽनुकम्पिताः प्रवर्धतामसौ स्वतन्त्रता।।५।।
कुशानुरेति दाहतां न किं जलैरबाधितो
जलं बिभर्ति शीततामबाधितोऽग्निना न किम्?
बलाहको न किं ददाति वारि झञ्झया विना
समर्थतां प्रकाशयत्यहो द्रुतं स्वतन्त्रता।।६।।
सुखं समेधतां कथं पराश्रयोपजीविनां
गुणो विकाशतां कथं परावमानभोगिनाम्!
कथम्महीयतामहो निसर्ग एव मानिना-
मवाप्यते हृषीकशंसिनी च चेत्स्वतन्त्रता।।७।।
त्रिदोषतापिनी कलङ्ककल्मषौघनाशिनी
दयाकृपापरोपकारबन्धुताप्रकाशिनी।
मुखाम्बुजस्मितोत्थसंविधानसूत्रधारिणी
त्रिलोकशोकवारिणी विभासतां स्वतंत्रता।।८।।
निकृष्टकन्थयाऽपि छाद्यते न किं कलेवरं
विलक्षभिक्षयाऽपि किन्न याप्यते स्वजीवनम्!
स्वपित्यलं सुखेन किं जनो न चत्वरेशयो
यतस्तदीयजीवने प्रवल्गते स्वतन्त्रता।।९।।
चकास्ति भूरि भूतले न किं स्वतन्त्रभारत
स्वभव्ययत्नसर्जकं स्वगौरवोपरक्षकम्।
महीयते पुनर्जगत्यहोऽस्मदीयसंस्कृति-
स्तदीय हेतुरस्ति केवलं वृता स्वतन्त्रंता।।१०।।
न्यायालयवृत्तम्
सन्दीप्तमेतदिह भो भवनं विशालं
सर्वे ज्वलन्ति नु रक्षत रक्षताऽशु।
क्रोशन्त इत्यविरतं किल कान्दिशीका
धावन्त्यमी कचहरीनिगृहीतलोकाः।।१।।
गृध्द्रा मृतं पशुमिवाऽस्थिचयानलर्काः
संस्थापिता नयगृहेऽत्र विलोकयन्ति।
दुश्शातितं जनमहो प्रसभं नृशंसै-
र्न्यायार्थिनं निकृतिभाजमरातिविद्धम्।।२।।
दुःखं नु तस्य परिपृच्छति कोऽत्र को वा
सम्मार्जयत्यविरलाऽश्रुततिं दृगुत्थाम्।
अर्थार्जनाऽवसरहेतुममुं वराकं
पश्यन्त आत्मसुखिनो मुदमामनन्ति।।३।।
केचिद्भ्रमन्ति पिशिताशनपाशबद्धाः
क्षुत्क्षामकण्ठवदनाः परिशुष्ककायाः।
उद्वृत्तनेत्रपरिधिद्वयभीष्मरूपाः
पाकोन्मुखाऽघचयविग्रहवन्त उग्राः।।४।।
केचित्प्रलापनिरता मलिनं वसाना
वाक्कतीलयुक्तिमधुसिक्तहृषीकवृन्दाः।
दुष्यत्सपत्नपरिमर्दनलुब्धचित्ता
न्यायालयेऽत्र विषमारभटीं श्रयन्ति।।५।।
म्लानानना विपदुरिकृतमङ्गलाशा
दैन्यव्यथापिहितनेत्रयुगाऽवकाशाः।
आशा विलोक्य सकला विततार्तिपाशा
न्यायालयेऽसकृदटन्ति जना हताशाः।।६।।
नेयं विपद् विधिकृता न च भाग्यदोषाद्
द्रागागता न खलु पूर्वजनिप्ररूढा।
दुर्बुद्धिताण्डवमिदं हृत्सर्वसौख्यं
लोकावमानपरिवारितजीवयात्राम्।।७।।
कोऽप्यस्ति भूमिशकलाय समुत्थवादः
सम्पत्पयोधिविनिमज्जत एष चाऽन्यः।
दुष्यत्कलत्रचरितैर्गतवक्त्रशोभो
जीवन्मृतोऽयमपरो ननु नित्यमृत्युः।।८।।
कस्कं तदीयविषमां विपदं विपृच्छेत्
साहाय्यमेव विदधातु कथं तदीयम्!
न्यायालये कलुषमोहमहाकटाहे
भृज्यन्त एव सकलाः किल तप्ततैले।।९।।
सर्वे विदन्ति निजपापभरं प्रकामं
जानन्त्यनीतिपथसंश्रितमात्मयोगम्।
स्वार्थान्धलोचनयुगास्तदपि प्रलिप्ताः
पङ्के पराभवकरे निकृतिं भजन्ते।।१०।।
बुद्धिं विशोधय विभो! जरताममीषां
सत्त्वं प्रसारय विकासय सद्विवेकम्।
न्यायं यथा हृदय एव लसत्प्रयत्नै-
श्चिन्वन्तु हार्दपरिशीतलचेतसस्ते।।११।।
जाते प्रबोधतुहिनांशुशुभोदयेऽद्धा
वैरं प्रशाम्यति निरिन्धनकाष्ठकल्पम्।
तस्माद् विबोधय जनान् परमेश! मुग्धान्
छिन्ने तरौ क्व विटपाः क्व च पुष्पपर्णम्!!१२।।
निवेदनाष्टकम्
स्नातं नो चेद्दैन्यशीताम्बुपूरे
को लाभस्ते जाह्नवीस्नानपुण्यैः!
दृष्टं नो चेत्पामराणां कुटीरं
को लाभस्ते सन्निसर्गाऽवलोकैः!!१।।
ग्राम्यैस्सार्धं नो कृता स्निग्धवार्ता
व्यर्थं जातं वाचि दाक्ष्यं समाजे।
प्रीत्या धौतं नो विपन्नाऽश्रुवक्त्रं
धिक्त्वां दृप्यत्स्वामिवक्त्राब्जभृङ्ग!!२।।
नोऽधीता चेद्भालदारिद्रयगाथा
किं सार्थक्यं काव्यशास्त्रप्रमोदैः!
नो गीतं चेज्जीवनं पुण्यभाजां
व्यर्थाष्टोडी-भैरवी-मालकोसाः।।३।।
नो स्पृष्टश्चेत्कुष्ठिदेहः कदाचित्
धिक्ते बन्धो! सारणं पुत्रलोम्नाम्।
आर्तोद्धारे नैव दत्तस्सहाय-
स्तत्तेऽपार्था दानचर्चाऽऽत्मसौख्या।।४।।
गेहं प्राप्तं याचकं नाऽभ्यनन्दो
धिक्ते राज्ञां पादधूलीविनोदम्।
पूर्ण छिद्रं नैव चेद्दुर्विधानां
वंशीछिद्रश्वासपूर्तिर्निरर्था।।५।।
नग्नाङ्घ्रीणां नोद्धृतं कण्टकं चेत्
पादत्राणे कीदृशी तद्रतिस्ते!
दर्शं दर्शं वस्त्रहीनाऽर्भयूथं
वस्त्रे भूषे कीदृशस्तेऽनुरागः!!६।।
मा माऽऽत्मानं सम्बधानात्मसौख्यै-
र्लोकव्याधिं पश्य लोकाऽनुभाव्यम्।
स्वीयां शक्तिं युङ्धिुभ भूत्यै परेषां
हस्ताऽभ्याशे द्रक्ष्यसि स्वर्गमेव।।७।।
को लाभस्ते जीवनैर्दीप्ततुल्यै-
र्नो विध्वस्तश्चेत्तलस्थोऽन्धकारः।
लोकं बन्धो! दीपयस्व प्रकामं
स्वीयं चित्तं प्राक्परं दीपयित्वा।।८।।
नेतरन्नेतरत्
यान्त्वहान्यार्तिभाजां व्यथोत्सादनै
रोदनोच्छूननेत्राऽश्रुसम्मार्जनैः।
यातु जीमूतकेतुत्वमस्मज्जनु-
र्मेऽभिकाङ्क्ष्यं प्रभो! नेतरन्नेतरत्।।१।।
द्वेषवीरुत्र्।रोहो न जात्वङ्कुरे-
न्मन्मनोभूमिगर्भे दधद्दुर्विषः।
प्रीतिकादम्बिनी शास्तु चिद्योविम्नि मे
मेऽभिकाङ्यंदू्य प्रभो! नेतरन्नेतरत्।।२।।
मेऽधिजिह्वं लसेत्त्वत्कथा पावनी
कर्णयोश्चारुचर्चाऽप्यसौ तावकी।
स्यात्करे लेखनी त्वद्गुणाशंसिनी
मेऽभिकाङ्क्ष्यं प्रभो! नेतरन्नेरत्।।३।।
यत्कुटीरे न तद्राजसौधे सुखं
शाकपत्रादितुष्टिर्न खल्वन्यथा।
नामसङ्कीर्तनैस्ते व्यतीयाद्दिनं
मेऽभिकाङ्क्ष्यं प्रभो! नेतरन्नेरत्।।४।।
वृत्तकन्थारसे मन्मनोमन्दिरे
काञ्चनञ्चापि मृल्लोष्टकल्पं न किम्!
त्वत्पदाम्भोजमाध्वीरसैर्माद्यतो
मेऽभिकाङ्क्ष्यं प्रभो! नेतरन्नेरत्।।५।।
लोकदत्तां प्रतिष्ठां क्षणस्थायिनी-
माप्तुमाहिण्डते लोक एषोऽनिशम्।
त्वत्करस्पर्शसौख्यं परं बिभ्रतो
मेऽभिकाङ्क्ष्यं प्रभो! नेतरन्नेरत्।।६।।
देववाणीसपर्यारतस्यास्ति किं
लौकिकं काम्यमाहोस्विदत्राऽपरम्!
कामनामूलमेवाऽचिरं ध्वंसतां
मेऽभिकाङ्क्ष्यं प्रभो! नेतरन्नेरत्।।७।।
मातृसौख्याद्वियुक्ते जरज्जीवने
वल्गते सर्वतो गाढगाढं तमः।
त्वत्कृपाभास्करस्तन्नु विद्योतये-
न्मेऽभिकाङ्क्ष्यं प्रभो! नेतरन्नेरत्।।८।।
श्रयति नितरामेकशरणः
महामोहोद्भूतं यदवधि बलं माद्यति तनौ
दुरन्ता धीश्चापि द्रुततरविकल्पा भ्रमयति।
अयं चञ्चाकल्पस्तदवधि न शं याति मनुजो
विनष्टे स्वोपाये भगवदवलम्बो हि भवति।।१।।
क्व चेयं सञ्जाता जतुकृतशलाकासमुदये
वृथा लौहभ्रान्तिर्गगनसुमकल्पा जनिमताम्!
अखण्डे ब्रह्माण्डे निरवधि लसन्तं मधुमयं
महिम्नां सम्भारं कमहि नहि पश्येत्कथमसौ!!२।।
ययाऽऽज्ञप्ता मेघाः शतसिलधाराभिरवनी-
मकस्माद्गूहन्ते सरिदुदरपूरक्षमजलाः।
ययोद्दीप्ता दावाः क्षणमतनुकान्तारसुषमां
किरद्भस्मीभूतां विदधति न तां कोऽपि मनुते।।३।।
क्व चायं दुर्भिक्षः क्व च कुलिशपातः क्व नु पुन-
स्सतङ्को भूकम्पो विपुलनगराऽस्तित्वहरणः।
ऋतूनां षण्णां वा क्व नु खलु विलासा निजरसाः
कथं नेदं चिन्त्यं घनरहसि लीनं विलसितम्!!४।।
स्फुरन्मल्लीवल्लीहृदयभुवि निद्राभुजशयो
निरातङ्को यावन्मधुकर उपैत्यार्कमुदयम्।
अहो तत्प्रागेव क्षुभितनलिनीको मदगज-
श्चचर्वोद्भ्रान्तस्तं किमिति परिपश्येन्न मनुजः।।५।।
कुलालः स्वेच्छाभिर्भ्रमयति यता चक्रमनिशं
तथैवाऽहन्ता मे पथि-पथि भृशं नर्तितवती।
अनाप्ताऽभीष्टार्थो निहत पुरुषार्थोऽयमधुना
विधीच्छाप्रागल्भ्यं परमशमदं स्वात्मनि वृणे।।६।।
धनं विद्या रूपं शतगुणचयो राजनिलयो
न वा वंशख्यातिर्जगति सुखहेतुर्जनिमताम्।
स एवाऽनन्दाब्धौ विलसति चिरं शान्तशफरो
मृडानीपादाब्जं श्रयति नितरामेकशरणः।।७।।
जानकीशस्तदा केवलं स्मर्यताम्
आधिभिर्मानसं भूरि तातप्यतां
नेत्रयोश्चाश्रुकादम्बिनी सम्प्लवेत्।
कोऽपि दृश्येत नोऽभिन्नमित्रं यदा
जानकीशस्तदा केवलं स्मर्यताम्।।१।।
नाऽनुमोदेत भार्यामनोवृत्तकं
सात्त्विकं सूनुरप्याशु विघ्नं सृजेत्।
प्रत्यवायोन्मुखाः सन्तु कौटुम्बिका
जानकीशस्तदा केवलं स्मर्यताम्।। २।।
शाम्भवीयोगमुद्रा मृडानीकृपा-
मञ्जुपीयूषसिक्ता यदि प्राञ्जला।
संस्खलेज्जातु लोलेन्द्रियोन्मादनै-
र्जानकीशस्तदा केवलं स्मर्यताम्।। ३।।
सम्पदैश्वर्यसिन्धूर्मिसेकोत्सवै-
रुद्विजेच्चित्तमेतत्प्रमाथि ध्रुवम्।
तद्रुचिं नूतनां संविधातुं मुदा
जानकीशस्तदा केवलं स्मर्यताम्।।४।।
जानकीसन्निभां जीवनेच्छामिमां
हर्तुमिच्छेद्यदा वञ्चनापारगः।
कोऽपि मारीचसंज्ञस्सुवर्णोज्ज्वलो
जानकीशस्तदा केवलं स्मर्यताम्।।५।।
घोरसंघर्ष आप्तव्यकर्तव्ययो-
र्जातु जायेत धैर्यप्रतिष्ठाहरः।
लोकसौख्यार्थमामुष्मिकश्रेयसे
जानकीशस्तदा केवलं स्मर्यताम्।। ६।।
सौम्यवेषा निगूढाऽशिवाऽभ्यन्तरा
यद्युपैत्वन्तिकं काऽपि मायामयी।
रक्षितुं चारु चारित्र्यचामीकरं
जानकीशस्तदा केवलं समर्याताम्।।७।।
गाढगाढेऽन्धकारे निमज्जन्ति चे-
न्मृत्युना कृत्तसूत्रास्तु जीवातवः।
सम्मुखस्थोऽभयोद्धस्त इन्द्वाननो
जानकीशस्तदा केवलं स्मर्यताम्।।८।।
त्याज्यतां जन्मभूमिः प्रसूर्वाऽनघा
तातपादो वियोगे त्यजेज्जीवनम्।
स्याच्छयः स्थण्डिले कन्दमूले रुची-
जानकीशस्तदा केवलं स्मर्यताम्।।९।।