भक्तिभावनो भगवान्
अपि चेत्सुदुराचारो भजते मामनन्यभाक्।
साधुरेव स मन्तव्य: सम्यग् व्यवसितो हि स: ।।
(१)
पुण्यपुर्या मथुरायास्तासु रथ्यासु, स्वल्पस्वल्पासु विशिखासु च, महानद्य जनसम्मर्दोऽस्ति। परश्शता नरनार्य: कक्ष्ये धौतं धातुकलशं च वहन्त्यो यमुनातटमभिसरन्ति। उत्साहिन: शिशवो यमुनायां जलक्रीडनलालसया प्रयान्ति पुरतो धावन्त:। कालिन्दीघट्टगता आपणा: सन्ति साम्प्रतं वस्तुभि: पूर्णा:। क्रेतार: संघश: समवयन्ति प्रत्येकमापणम्। तुलसीमाल्यादि विक्रेतॄणामद्योच्चगता ग्रहा:। नि:शङ्कमद्य निबध्यते यात्रिणां गले 'कण्ठी। समारोहस्याऽस्य तदिदमेव मूलकारणं यदद्य कार्तिकशुक्ला द्वितीया (यमद्वितीया)। पुण्यतमेऽस्मिन्पर्वणि पावनसलिलाया: सूर्यतनयाया: स्नानं विशिष्य पुण्यप्रदं परिगण्यते। दूरदूरदेशस्था यात्रिणोऽद्य भगवत्या: कलिन्दनन्दिन्या: पावनपयसि निकाममामज्जयितुमात्मानमुपगता इतस्तत:। भूयानद्य घट्टेषु जनसङ्घट्ट:। सकृदवमज्ज्य जलान्नि:सरणमपि परिगण्यते परमपुरुषार्थ इव। v
स्त्रैणतीर्थेषु महिलानामपारोऽद्य सञ्चार:। कियत्य: किल हिन्दुयुवत्य: पुण्यप्राप्तिनिमित्ताय सोत्साहमवगाहहन्ते कालिन्दीम्। काश्चित्तीर्थसोपानमारुढा भगवन्तं भास्वन्तं प्रणमन्ति, तर्हि काश्चित् - 'तिहारो दरस मोहि भावै श्रीयमुने इत्यादि प्रोच्चारयन्त्य: प्रभातगीतिमेव गौरवाद् गुनगुनायन्ति। यास्तु पूजां पाठं वा किमपि न जानन्ति ता: केवलं 'जय जमुने जय जमुने इति हार्दिकस्तवनेनैव देवभजने निजां भक्तिं प्रकटयन्ति। नवीना मीननयनास्तत्रापि ग्रहगते एव प्रपञ्चे संलीना:। काचित्कथमिव निर्विष्टा दीपावलीति कथां प्रथयामास तर्हि काचिदलक्तकस्य केशगुम्फनस्य वा गाथामुद्गिरति स्म। यास्त्वितोऽपि लज्जाशीलास्तासां कर्णे कर्णे एवं प्रेमवर्णना: प्रारेभिरे। एवंविधे मीमांसनीये मार्मिकमनोज्ञसमये समारभ्यत तावदकस्मादेव घट्टेऽस्मिन्नकाण्डकोलाहल:।
घट्टस्यैकस्मिन्पाश्र्वे युवतिरेकाऽऽसीत् स्नाती, या हि समाजे कलङ्किनी बालविधवा। नामासीत्कमलेति। घट्टस्य बहुतरा: स्त्रियस्तामेतां परिचिन्वन्ति स्म। आसीदेतस्य कारणमपि। यस्मिन्प्रतिवेशे कमलाया आसीन्निवासस्तत्रत्या भूयस्यो महिला: समायासिषुरत्र स्नातुम्। पुण्येऽस्मिन्पर्वदिवसे कुलाङ्गनाभि: सह कुलकलङ्किनीमेतां स्नातीमवलोक्य सतीत्वतेजसा तिग्मद्युति: सावित्र्या: प्रतिमूर्ति: सेयं श्रीमती महिलामण्डली क्नोधेन घृणया च गाढतरमगर्जत्। किन्तु कथालेखकेन तथ्यमिदमावेदनीयमेव यद् यामिमां वेश्यां परिजानन्ति न सा काचिद्वारवनिता। यौवनस्य प्रलोभने पतिता बालविधवा कमला प्रतिवेशिनैकेन युवकेन सह गृहाद्बहिरभूत्। न्यवात्सीत्कानिचन दिनानि निजाऽऽनेत्रा युवकेन सह पृथग् भाटकभवने रथ्याया: प्रतिमुखे एव। साम्प्रतं साधारणे प्रतिवेशे निवसति गृहस्थ इव साधारणतया। प्रशान्तायां यौवनवात्यायामवष्टम्भनात्कमला न्यरुणत् निजात्मानम्। किन्तु किमिदानीं सम्भवेत्? गार्हस्थ्यं परित्यज्य बहिर्निर्गतानां वनितानां साहचर्यं कथं वा पावन: प्राचीनसमाज: समनुमोदेत्? यौवनस्यैकमात्रमिदं स्खलितं कण्टकमिव क्लिश्रात्यन्त:करणे कमलाम्। प्रणयिनं प्रति नासावतिष्ठद्भाव:। भूयांसं सा विजन एवं व्यत्यगमयत्। यमुनास्नानदेवदर्शनादिषु व्यतिगच्छति बहुतर: समय:। किन्तु यस्मिन्समये निजाऽऽनेत्रा सह निवसति स्म कमला रथ्यामुखभवने, तस्मिन्नेव समये लोकानां भाव: कमलाया विषये विकृतिं भेजे। लोकास्तां वेश्यामिवाऽस्पृश्यां मेनिरे, कलङ्किनीमिमां परिकलय्य कुलाङ्गनासु कुटिलाऽऽलोचना प्राचलत्।
इदमेवासीत्कारणं यद् या पुरन्ध्री स्तोत्रपाठे संलग्नासीत्सा स्तुतिमिमां विमुच्य अक्षिभ्रूरवं निकुच्य सामर्षमवोचत्- ''अपेहि रे पापिनि, इहैव किं मर्तुमवकाशमलब्धा: या सूर्यदेवाय प्रणामे पर्यस्तासीत्सा प्रणामं परिमुच्य ज्येष्ठमासस्य चण्डांशुरिव जाज्वल्यमाना सोत्तेजनमगर्जत्- 'दूरमपसर! न किं विलोकसे यदस्मिन् स्थाने वयं स्नाम:।
कमला कलङ्किनी किल समाजे। यत्पापं प्रक्षालितमपि नापैति, परिवृता तेन सा। पुन: सा किमिति यमुनाऽवगाहनाय व्रजति? यमुनाया: पावनपयसा किं वेश्याया: पातकमपोहितुं पार्यते? अवश्यम्, द्वयोरपि नयनयो: सुरतटिनीसरस्वतीभ्यां यमुनासलिलस्य सङ्गमे वेश्या पातकमपि प्रक्षालयितुं पार्यत इति पुराणेभ्य: प्रतीम:।
अस्तु यत्किञ्चित्, कमला प्रत्यहं यमुनायां स्नातुमागच्छति, अद्यापि तथैवाऽऽगच्छत्। किन्त्वित: पूर्वं नैवंविधस्तीव्रस्तिरस्कारोऽनया सोढव्योऽभूत्। किन्त्वथापि नेयमभूद्धैर्यतो विचिलिता। अश्रुपूर्णमाननमवनमयन्त्येव सा शनै: शनै: समापयामास स्नानम्। पित्तलकलशं कालिन्दीपयसा समवपूर्य घट्टस्योपरि समायासीदसौ। घट्टस्यैकस्मिन्कोणे स्थिता भूरि बिभ्यती सा सलिलं वर्षद्भयां नयनाभ्यां विलोकयामास सकृत्पावनसलिलां भगवतीं कालिन्दीम्। कलशं कक्ष्ये कुर्वन्त्येव प्राणंसीद्विनम्रीभूय। तत श्यानमेघमालामिव मेचककेशकलापं पृष्ठे विलुलयन्ती सलिलार्द्रवसना अर्द्धावृतशिरोभागैव सा गृहमार्गमुदलङ्घयत्।
(२)
यमुनातटात्कमलाया निवासगृहमासीदतिदूरे। अर्द्धक्नोशान्न भवेन्निकटवर्ति। मार्गमुल्लङ्घयन्त्या: समुद्भूच्चेतसि विचारोऽस्या:- 'सर्वे जना देवाय जलमर्पयितुं व्रजन्ति। बहुला: स्त्रियो देवमन्दिरे ताम्बूलगृहस्य पुष्पगुम्फनभवनस्य वा सेवामारचयन्ति। कतिचिद् देवभाण्डागारे तण्डुलगोधूमादिधान्यानां निस्तुषीकरणस्य शोधनस्य वा सेवामङ्गीकुर्वन्ति, पुन: किमहं न कुर्याम्? मयाऽऽहृतं तोयं किं नाङ्गीकुर्यात्केशव:? नाङ्गीकुर्याच्चेदथाप्यहं तन्मन्दिरस्य सोपानमेव पयसा प्रक्षालयेयम्। किन्त्वस्ति किं तस्याप्यधिकारो मह्यम्? मम जलं नीचजातयोऽपि नाङ्गीकुर्वन्ति। मम जल स्पर्शेन तेऽप्यपवित्रा: सम्पद्यन्ते, पुनरहं प्राङ्गणं वा सोपानं वा कथङ्कारं वा शक्नुयां प्रक्षालयितुं पयसा? अस्तु पश्याम्यद्य मदनमोहनो सेवां स्वीकरोति न वेति।
वार्तामिमां मनस्यावर्तयन्ती कमला मार्गमासीदुल्लङ्घयन्ती। यमुनातीर्थेभ्य: स्वल्पान्तर एवासीद् भगवतो मदनमोहनस्य सुप्रसिद्धं मन्दिरम्। विशालकायस्य मन्दिरस्य चतुर्दिक्ष्वेवासन् जनतायातायातस्य साधारणरथ्या या: किल 'परिक्रमा नाम्ना लोकेषु परिचिता:। एतस्या: परिक्रमाया दक्षिणप्रान्ते आसीत्कमलाया निवास:। तस्यां रथ्यायामन्यमार्गाऽपेक्षया स्वल्पं यातायातं जनानाम्, गृहसंख्याऽपि परिमिता।
कमला तस्मिन्दिने निवाससदनमत्वा जलकलशमुद्वहन्ती मदनमोहनस्य मन्दिरमवाप्रोत्। मन्दिरस्य प्राङ्गणे समागत्य न्यरुध्यत सा। अग्रे गमनस्य 'जगन्मोहन सोपानारोहणस्य वा नाभूत्तस्या: साहसम्। परिचितान्मनुष्यानालोक्यैव प्रोदभवद्व्याकुलता तस्या:। लज्जैव किम्, निजोपरि समभूत्तस्या पूर्णरूपेण घृणा। सोपानस्य समीपे भित्तिलग्ना सा व्यत्यगमयद्भूयांसं कालम्। आसीत्तस्या मनसि कामना यन्मन्दिरस्य प्राङ्गणं निजकलशजलेन प्रक्षाल्य देवसेवाया: सुकृते सञ्चिनुयां कञ्चिदंशम्, किन्तु नाऽभवत्साहसम्। समाजे सा कलङ्किनी, तत्संस्पृष्टं जलं सुतरामपवित्रम्। कमला कमपि न किञ्चिदुक्त्वा पाषाणप्रतिमेव समवास्थित तूष्णीमेकपाश्र्वे।
मन्दिरस्य सेविका आभीरी एका सम्मार्जिनीमादाय सममार्जयन्मन्दिरस्य प्राङ्गणम्। परिचिनोति स्म सा कमलाम्। अत्रावस्थितां कमलामवलोक्य समभाषत सा- 'किमित्यत्रा-स्थितासि, दूरमपसर। यावत्सम्मार्जयामि देवाङ्गणम्।
कमला दूरमपासरत्। आभीरी क्नुद्धा भूत्वा किञ्चिदुच्चैरवादीत्- त्वं किं वाञ्छसि? कमला बिभ्यती रुद्धस्वरे प्रत्यवदत् - 'ममैतेन कलशजलेन... । नाशक्नोदग्रे वक्तुम्। नाभवत्साहसमेवाऽग्रे वक्तुम्।
'तव कलशजलस्य किं भवेद्भो:? किं देवं स्नायपितुमिच्छसि?.
'नैव
'तर्हि
'सोपानं बहि: प्राङ्गणं च वाञ्छामि प्रक्षालयतिुम्।
मन्दिरस्य 'समाधानी जगन्मोहनेऽवस्थित: कारणविशेषेण दर्शनाभिलाषिणां दर्शनं करोति स्म। पूर्वजातो द्वयो: संलपापस्तस्यापि कर्णकुहरे प्राविशदंशत:। अग्रे समुपसृत्य सोऽपि प्राङ्गणाभिमुखमवालोकयत्। गहनगभीरतया चाऽपृच्छत्- 'कंकोलाहलमारचयसि रे!
सोत्तेजनमजलाद्भृत्या- 'कोलाहल: क: स्यात्? लोकानामभिमान एव न माति मानसकन्दरायाम्। वेश्या सलिलमादाय समागताऽस्ति, कामयते च यद्देवमन्दिरं पयसा प्रक्षालयेयम्।
देवस्य प्रकट: परिषद: 'समाधानिमहाभाग: सगौरवभरेण स्वरेण कमलामुपदिदेश-''पश्य, भवत्या स्पृष्टं जलं न कस्मिन्नप्युपयोगे समायायात्। प्राङ्गणप्रक्षालनेऽपि नेदं परिगृह्येत। यावत्प्राङ्गणं न शुष्येत्तावत्तदुपरि लोकानां पादपतनस्य शङ्का।
कमला सुभृशमवाङ्मुख्येव समाधानिमहोदयस्याज्ञावाक्यमिदमशृणोत्। ततो नितान्तं विषण्णमना शनै: शनै: प्राङ्गणादपसृत्य सा मन्दिरस्य पृष्ठगते पुष्पोद्याने समवाप्रोत्। तत्र किञ्चित्कालं विलम्ब्य व्यचिन्तयत्सा किञ्चिच्चेतसि। ततश्चतुर्दिक्षु चक्षुर्निक्षिप्य व्यलोकयत् सा सभयकम्पं यदत्रापि तु कश्चिन्नावालोकयति मे निवारक:। ततो विजनं विलोक्य न्यषीददसौ भूमौ। भगवन्तं मदनमोहनमेकान्तहृदयेन ध्यात्वा तदिदमखिलमपि कलशजलमर्घ्यमिव भूमौ न्यपातयत्। सलिलसिक्तां तां मृत्तिकामादाय ललाटे जिह्वायां च सश्रद्धं न्यदधात्। एतदनन्तरं भगवत उद्देश्येन निजमस्तकं भूमावाघृष्य प्राणमद्भगवन्तं सभक्ति। ततो रिक्तं जलकलशं कक्ष्ये वहन्ती सा गृहाभिमुखमचलत्।
(३)
वर्षस्य त्रिशतमूनषष्टि च दिनान्यतिलङ्घ्य पुनरुपायासीदद्य 'यमद्वितीया। वर्षेऽस्मिन्कमला प्रत्यहं यमुनास्नानायाऽगच्छत्। यमुनाजलेन कलशमापूर्य, मदनमोहनमन्दिरस्य पृष्ठदेशे देवकुसुमोद्याने निषद्य, भगवत उद्देश्येन प्रत्यहं सा कलशजलेनाऽर्घ्यमदात्।
अद्य पुण्यतमं पर्वं, पुन: प्रत्युपस्थिता यमद्वितीया। अद्य कमला महति प्रत्यूषे समुत्थाय प्रायासीद्यमुनास्नानाय। प्रत्यहमिवाऽद्यापि सा पावनपयसा कलशमापूर्य भक्ति-गद्गदकण्ठेन भगवतीं कालिन्दीमभिनन्द्य गृहाभिमुखमचलत्। कमला नाऽस्मिन्दिने गृहं प्रत्यावर्तिष्ट, न वा प्रतिदिनमिव मन्दिरस्य पुष्पोद्याने एव समुपातिष्ठत्। अद्य सा यमुनासलिलभृतं कुम्भमादाय सलिलार्द्रवसना मन्दिरस्य पुर: प्राङ्गणे समवस्थिता। भगवतो दर्शनाय हृदयमस्या व्याकुलम्, प्रवहति नेत्राभ्यां निरर्गलं नीरम्। सा वाञ्छति पुनरेकवारं भगवतो दर्शनं दूरादपि समवाप्रुयाम्। मन्दिरस्य 'जगन्मोहनं प्रक्षाल्य न सा सम्प्रति देवसेवापुष्पमान्मनोभागे संविभक्तुमिच्छति। सा तु साम्प्रतं भक्तसङ्कुलसमवायादेव केवलमेकवारं मदनमोहनस्य मनोहरां मूर्तिमालोकयितुमभिवाञ्छति। वत्सरात्पूर्वमस्मिन्नेव प्राङ्गणे दूरत: समवस्थाय भगवतो मनोहरां मूर्तिमवालोकयत्सा। तस्मिन् पर्वदिने एकवारस्य भगवतो दर्शन एव मदनमोहनस्य मनोज्ञां मूर्तिमात्मनो मानसे सुदृढमङ्कयामास कमला। तद्दिनादारभ्याऽद्यपर्यन्तं पूर्णमपि संवत्सरं सा तन्मूर्तेर्ध्यानेनैव निरन्तरमत्यवाहयत्। मन्दिरस्य पृष्ठभागे, आम्रवृक्षस्याधस्तादवस्थाय, तामेव मञ्जुमूर्तिमेकमनसा ध्यायन्ती कलशसलिलेन सा प्रत्यहमेवार्ध्यमदादेकवर्षपर्यन्तम्। ध्यानद्वारा हृदयपटले चित्रितां तामेतां मनोहरमूर्तिं प्रत्यक्षदर्शनेन पुनरहा समुज्ज्वलां कर्तुमुत्कटा वासना तामद्य पुनर्मन्दिरे समवाकर्षत्। किं न दद्याद्दर्शनं भक्तवत्सलो भगवान्?
निजमन्दिरस्याऽऽवरणपटो नेदानीं पर्यन्तमुदघाट्यत। समाधानिमहाशयोऽपि केनचित्कार्येण मन्दिराद्बहिरगच्छत्। कमला जलकलशं वहन्ती प्राङ्गणस्यैकपाश्र्वे समवास्थित। एवमवस्थितायास्तस्या व्यत्यैद्भूयान् समय:। जलपूर्णं कलशं श्रोणिदेशे विलम्बाद् वहन्ती सा सम्प्रति नितान्तमभूच्छ्रान्ता। किन्तु भगवते मदनमोहनाय समानीतं कलशं सा कथं स्थापयेद्भूमौ? रिक्तमपि तमेनं कर्तु नाऽवाञ्छच्चेतसा। सा निश्चितमकरोन्मनसि यदद्य प्राङ्गणकोणाद्भगवतो दर्शनं कुर्वन्त्येव भगवतश्चरणयोरुपरि कलशसलिलेनार्घ्यप्रदानस्य भावनां कुर्याम्। किन्तु दुर्लभमभूदद्य देवस्य दर्शनम्। भारेण कमला नितान्तमेव विह्वला समवर्तिष्ट। श्रोणेरुपरि भारं धृत्वा समवस्थानस्य नासीत्किञ्चिदपि शक्ति:। भगवतो ध्यानं कृत्वा सा हि नितान्तं हीनतया प्रार्थयत- 'स्वामिन! नेदानीमहं स्थातुं शक्नुयाम्। क्षणार्थमेकवारं ते मधुरदर्शनं मे देहि।
मन्दिरस्य मुख्यार्चकस्तस्मिन्नेव समये कमलाया: सम्मुखतो भूत्वा मन्दिराभिमुखमगमत्। नासौ प्रत्यहं सेवायां स्नाति। वार्धक्यवशादस्मात्पुण्य कर्मणस्तेनाऽवकाशोऽवश्यं गृहीतस्तथापि भगवत्सेवायां दृढानुरागवशात् स्वेच्छया कदाचित्कदाचिदसौ सेवायै स्नाति। अद्यापि सेवायै मन्दिराभिमुखं प्रयाति स्म। भगवदर्चनाय मन्दिरमभिसरन्व्यलोकयदसौ प्राङ्गणस्यैकस्मिन्कोणे काचिदबला बहो: कालाज्जलकलशं वहन्ती स्थितास्ति। अपृच्छदसौ -'पुत्रि किं वाञ्छसि?
अत्रैतदभिसूचनं समुचितं भवेद्यन्मुख्यार्चको न परिचिनोति स्म कमलाम्, किन्तु कमला मुख्यार्चकमहाभागं सम्यक् पर्यचिनोत्, श्रद्धां चाऽप्यकरोत्। स वास्तव एव भगवद्भक्तोऽभूत् उपासनायास्तत्त्वं च सम्यगवेदीत्। स हि सर्वेषामेव सम्प्रदायानां भक्तिग्रन्थानतिप्रेम्णा मीमांसितवान्। बाल्यस्य यौवनकालस्य वा नास्माकं विशिष्य परिचय: किन्तु वर्तमानकाले सोऽयमतीव श्रद्धेय: सर्वेषाम्। भगवति स्वल्पमपि कस्यचित्सत्यानुरागं विलोक्य भवत्यसौ साधुनयन: पुलकितवदनश्च। सोऽयं विद्वान् भगवद्भक्तश्च, वयोवृद्धो मार्मिकश्च, सरलश्चोदारश्च। य: किलैकवारमप्यस्य परिचयं प्राप्नोति अवश्यमसौ मुख्यार्चकमहानुभावे हार्दिकीं श्रद्धामावहति।
इत: पूर्वं न कदाचित्कमला मुख्यार्चकमहाभागमेतावन्निकटाद्विलोकयतुम-लब्धाऽवसरम्। शुभ्रकेशस्य देवकान्तिमण्डितस्य महापुरुषस्याऽस्य सात्त्विकीं मूर्तिमालोक्य भक्त्याऽप्लुतचित्ता सा मौनमस्थात्, न किञ्चिदुत्तरं मुखादुदगच्छत्।
प्रश्रस्योत्तरमप्राप्य वृद्धो मुख्यार्चक: पुन: ससान्त्वनमपृच्छत्- 'कथय वत्से! किमर्थयसे? कमला नाधुनाऽपि संलीपतुमपारयत् मुख्यार्चकोऽवोचत्-' किं भगवते सेवा - जलमानीतवत्यसि? नैव।
'तर्हि कि वाञ्छसि?
'मदनमोहनस्यैकवारं.....
'दर्शनं कर्तुमिच्छसि?
'एहि, तर्हि मामनुसर, साम्प्रतमेव पटमुद्घाटयामि। समीपाऽवस्थिता भूत्वा सम्यग् विधेहि भगवतो दर्शनम्। इत्युक्त्वा सरभसमसौ मन्दिरं प्राविशत्। मन्दिरद्वारस्य जवनिकामपसार्य दृष्टं तेन यत्सा स्त्री न सम्मुखेऽस्ति। दूरे दृष्टिं प्रसार्य दृष्टं तेन, यत्सा नीचै: प्राङ्गण एव सन्तिष्ठते। मुख्यार्चक: सङ्केतमकरोत्- 'उपर्यागत्य कुरुदर्शनं भगवत:।
कमला एकचित्ता भूत्वाऽधस्तादेव देवदर्शनं व्यदधात्। ध्यानभङ्गे सति व्यालोकयदसौ यन्मुख्यार्चको मामाह्वयति। दर्शनं कुर्वती सा व्यग्रभावेनाग्रतोऽवश्यमसरत्। किन्तु 'जगन्मोहनस्य सोपानमुपगम्य सा सन्निरुद्धाऽभूत्तत्रैव। नाग्रे शशाक समभिसर्तुम्। साम्प्रतं मुख्यार्चकस्तारस्वरेणाह्वयत्- 'उपरि समागत्य विलोकस्व भगवन्तं धैर्येण।
कमलायाश्चेतसि नितान्तमासीद् व्याकुलता यत्समीपमुपगत्य सम्यग् विदध्यां दर्शनं भगवत:, किन्तु प्रबलामिमां वासनां यथाकथञ्चिदभिभूय नतमस्तकैव सा धीरभावेनावादीत् - 'अग्रे समुपगमस्य न मेऽधिकार:।
मुख्यार्चक: - अधिकार: किमिति नाऽस्ति वत्से? यस्य हि भगवद्दर्शनस्य प्रबलोत्कण्ठा तस्य सर्वोऽप्यधिकार:।
कमला - अहम् .... अहम् .....
मुख्यार्चक: - त्वं काऽसि?
कमला - अहं कलङ्किनी, समाजाद्बहिष्कृता।
मुख्यार्चक: - नैवम्, नाऽसि त्वं कलङ्किनी, त्वं हि भगवद्भक्त:। सोपानमारुह्य नि:शङ्कमग्रमुपेहि 'कमला भगवतो भक्त:। हन्त न सा साम्प्रतं पर्यन्तमिदमजानात्। तस्या शरीरे विद्युच्छक्तिरिव प्रबलं प्रावहद्भक्तिप्रवाह:। न साम्प्रतं तस्या: कश्चिदवरोध:। सा सरभसमारुह्य सोपानं, जगन्मोहनस्य प्रारम्भप्राञ्चल एव निभृतमवातिष्ठत।
(४)
एतस्मिन्नेव समये पृष्ठभागात् समाधानिमहाभागस्य कण्ठरव: समवाकण्र्यत। स हि केनचिद्वैष्णवेन सह संलापं कुर्वन्समायासीज्जगन्मोहनाऽभिमुखम्। कमलां निजमन्दिरस्याग्रप्राङ्गणे समवस्थितामवलोक्य स हि सहसैवाऽग्रिशर्मा समभूत्। अवोचच्च कर्कशकण्ठेन 'अभाग्ये! जगन्मोहनमारूढासि? हन्त एतावत्ते धार्ष्ट्यम्! अपेहि मन्दे! त्वरितमितो नीचै:।
कमलाया: स आनन्दश्चोत्साहश्च व्यलुप्यत तत्क्षणमेवाऽत्यन्तम्। पर्यभूयत दीनायास्तस्या हृदयं सङ्कोचेनानुतापेन च। आत्मग्लान्या तस्या: पादौ पाषाणायितावभूताम्, तथापि सा तत: परावर्तनस्य प्रयत्नं व्यदधात्। एतस्मिन्नेव समये निजमन्दिराद्बहिरुपगत्य मुख्यार्चकमहाभाग: समाधानिनमब्रवीत्- 'एतस्या: स्त्रिया: किमिति करोषि तिरस्कारम्?
समाधानिमहाभाग: - श्रीमन् ! दृश्यतां मन्दिरस्य समीपमेवेयमुपगता।
मुख्यार्चक: -तर्हि कोऽस्मिन्नपराध: संवृत्त:?
समाधानिमहाभाग: - इयं समाजस्य कलङ्किनी, वेश्या।
मुख्यार्चक:- वेश्याया: कृते किं भगवद्दर्शनस्य निषेध:?
समाधानिमहाभाग:- दर्शनं कामं न निषिद्धं किन्तु लोकानां समीपे समुपगत्य स्पर्शनमवश्यं निषिद्धम्।
मुख्यार्चक:- केनेदं भवते बोधितम्? महामहत्सु पीठस्थानेषु किं भवति?
समाधानिमहाभाग: - महतां देवधाम्नां कृते न कोऽपि नियम:।
मुख्यार्चक: - तर्हि कस्याऽपि देवमन्दिरस्य कृते न कश्चिन्नियम:। मम सुदृढो विश्वासो यद् घोरपातकिन: स्पर्शादपि भगवान्न कदाचिदपवित्रो भवति।
समाधानिमहाभाग: - तर्हि पञ्चामृतस्नानादिना अङ्गशोधनस्य व्यवस्था किमिति प्रचलिता?
मुख्यार्चक: - सा ह्यस्मदादीनां कृते। न भगवत: शोधनाय। भक्तजना भगवत: शोधनव्यवस्थां कृत्वा निजमनस: शोधनं कुर्वन्ति। य: किल 'भगवान् जडजङ्गमानां सर्वेषां स्वामी, स कदाचिदप्यवित्रो न जायते। भवतु, भगवतस्तु नैषा स्पर्शं कृतवती, इयं तु केवलमङ्गनादग्रे समागत्य 'जगन्मोहने समवस्थिता। किमेतावन्मात्रेणैव मन्दिरमपवित्रं संवृत्तम्?
समाधानिमहाभाग: - किमिति न संवृत्तम्?
समाधानिमहोदयमत्यारूढं दृष्ट्वा प्रशान्तमहासागरेऽपि तरङ्ग एक: समुदतिष्ठत्। मुख्यार्चक: किञ्चिदुत्तेजनास्वरे साम्प्रतमवोचत्- सम्यगिदम्, प्रत्यक्षदैवतस्य श्रीमदनमोहनस्य सम्मुखे समवस्थाय किं भवान् दृढतया वक्तुं शक्नुयाद् यद् भवान् वा अहं वा मन्दिरेऽस्मिन्सम्प्रविश्य मन्दिरस्याऽस्यापवित्रतां नोत्पादयाव:? समाज सेयं प्रत्यक्षरूपेण कामं कलङ्किनी, किन्तु भवान् वा अहं वा अभ्यन्तरेऽपि किं 'दुग्धधौता: इव निर्लिप्ता: सिद्धा भविष्याव:? यौवनस्य घटना: संस्मृत्य शुद्धान्त:करणेन किञ्चिद् ब्रूहि।
समाधानिमहाशयोऽस्मिन्प्रश्रे शिथिलक्रमोऽभूत्। किञ्चित्कालमवचनो भूत्वा पर्यन्ते कमलाभिमुखमालोकयन्स समुवाच- ''किमये! पुनरद्य भगवत्प्राङ्गणं प्रक्षालयितुं समुपागता? गच्छ, अद्ययावद्यस्मिन् स्थाने जलं निषिक्तवती तत्रैव नीरं निषिञ्चे:।
मुख्यार्चकेन पृष्टम्- 'नित्यं कस्मिन्स्थले जलं निषिञ्चिति?
समाधानिमहाभाग:- मन्दिरस्य पुष्पोद्याने।
मुख्यार्चक: - आगच्छ, पश्याव:।
द्वावपि तत: समवतीर्य मन्दिरस्य पृष्ठदेशे उद्यानमव्रजताम्। तत्र आम्रवृक्षस्यैकस्याधस्तात् प्रत्यहं जलधारानिषेकेण निपतितं गर्तमेकमलोकयताम्। तं निर्दिश्य प्रोक्तं समाधानिना- 'इयमभाग्या प्रत्यहमत्रैव जलं निषिञ्चति।
मुख्यार्चक: - जलं कुत: समाहरति?
समाधानिमहाभाग:- क इदं वेद, किन्तु लोका कथयन्ति यत्प्रत्यहं यमुनास्नानाय गच्छति, तत एव समागत्य नित्यमस्मिन्स्थाने सलिललेनार्घ्यं प्रयच्छति।
मुख्यार्चक:- तदिदं जलं भगवत: सलिलगृहे किमिति न प्रयच्छति?
समाधानिमहाभाग:- कलङ्किन्या: सलिलेन किं देवसेवा भवितुमर्हति? एकवत्सरात्पूर्वमद्यैव दिवसे जगन्मोहनस्थलं प्रक्षालयितुं सा सलिलं समाहरत्, तदेव प्रक्षालयितुं नास्यै यद्याज्ञा प्रादीयत्, तर्हि तस्या जलं सेवायां तु कथङ्कारमुपयुज्येत?
मुख्यार्चक: - तत्रभवतो विचारेण नोपयुज्येत, अहमुपयोगे नेष्यामि। इत्युक्त्वा मन्दिरमसौ परावर्तिष्ट। तत्रागतेन दृष्टं तेन यज्जगन्मोहनारोहणस्य सोपानस्य समीपे नीचै: कृतमस्तका कमला निश्चलभावेनाऽवस्थितास्ति। मुख्यार्चकेन प्रोक्तम्- 'त्वं जलकलशमिमं भगवतो जलगृहे समाहर। कमलाया नाभूदस्यां वार्तायां विश्वास:। सा हि परावृत्य पश्चात्प्रैक्षत्, कदाचित्सेयं वार्ता अन्यं प्रति प्रोक्ता मुख्यार्चकमहाभागेन। किन्तु निजस्य पृष्ठभागे नान्य: कश्चिदवलोकित: कमलया। सम्प्रति साश्चर्यया दृशा मुख्यार्चक महानुभावं प्रति विलुलोके कमला। स महाभाग पुनराज्ञापयामास कमलाम्- 'जलमिदं जलगृहे समानय।
किंकर्तव्यताविमूढा कमला महता सङ्कोचेन छिन्नाणि पदान्यग्रे गत्वा 'जगन्मोहने निश्चलमवस्थिता। एतत्स्थानं तस्या: कृते परमपावनं तीर्थक्षेत्रम्। तस्मिन् स्थानेऽद्यावधि नैषा प्रवेष्टुमधिकारं प्राप। ये जना अस्मिन् स्थाने स्थित्वा भगवतो दर्शनं विदधति कमला भावयामास तान् भाग्यवत:। एतत्सौभाग्यलब्धये सा प्रवाहयामास बहून्वारान् वाष्पसलिलम्। अद्य कमला भगवतो भक्त्वत्सलतया तस्मिन्नेव स्थानेऽवस्थिता।
कमला न जगाम जलगृहे। जगन्मोहन एव एकस्मिन्पाश्र्वे किञ्चित्स्थानं जलेन द्वि: 'परिमार्ज्य स्थापितवती जलकलशम्। मुख्यार्चकमहाभाग: स्वयं समुपगम्य तं जलकुम्भं भगवतो भवने निन्ये, क्षण एव च रिक्तीकृतं कलशं स्थापयामास यथास्थानम्। समागत्य दृष्टं तेन - यत्प्राङ्गणस्य धूलौ लोठन्ती कमला साष्टाङ्गप्रणामं प्रकरोति भगवते मदनमोहनाय। यस्मिन्समये भूमित: सा समुत्थितवती तस्मिन्समये कपोलयोर्वक्षसि च तस्या: प्रावहत्प्रबल: प्रेमाश्रुप्रवाह:। देवोपमो मुख्यार्चकमहाभागस्तामिमां लक्ष्यीकुर्वन्नवोचत्- 'वत्से! त्वमद्यावधि यया भक्त्या भगवतो दर्शनं विहितवती, सा भक्तिस्ते भूयान्नितान्तमक्षयेति प्रददे तुभ्यमाशीर्वादम्। भक्तिप्लुतं चेतसा भगवन्तं लक्ष्यीकृत्य कामं कस्मिन्नपि स्थाने प्रदीयतामर्घ्यम्, भक्तवत्सलो भगवान्प्रेम्णा तत्स्वीकरोति। सर्वान्तर्यामी अग्रतो वा पृष्ठतो वापि न किञ्चित्प्रतीक्षते। ब्राह्मणो वा शूद्रो वा, गङ्गाजलं वा सामान्यसलिलं वा नैतयोर्भेददृष्टिं बिभर्ति भगवान्। स त्वभिलषति भक्तस्य हृदयम्। समर्पय तस्मै त्वमात्मनो हृदयम्। निजपापानां कृते रुदिहि निरन्तरम्। अपमृज्येरंस्तव सर्वाण्यपि पातकानि।
मुख्यार्चकमहाभागस्य चरणौ नयननीरेण निषिच्य कमला परावर्तिष्ट निजनिवासम्।
(५)
गृहाङ्गणे आम्रवृक्षस्याधोनिषण्ण एको युवको विधत्ते स्म धूम्रपानम्। स ह्यपृच्छत्कमलाम्- 'अद्य कथमेतावान्विलम्ब:?
कमला किञ्चिदप्युत्तरमप्रदाय प्राविशन्निजप्रकोष्ठम्, निबबन्ध चाभ्यन्तरत: कपाटयोरर्गलाम्। मृत्तिकाभृतायां भूमौ दीनभावेन लोठन्ती सा मुक्तहृदयमरोदीत्। नासीत्तस्या रोदनस्य विरामो वा विश्रामो वा। नैतद्भवेद्विदितं कस्यापीति वस्त्रेण मुखमापूर्य नि:शब्दमियमरुदत्। आवर्तते स्म तस्या हृदये मुहुर्महुरिदमेव- 'पापानां कृते रुदिहि निरन्तरम्। अपमृज्येरंस्तव सर्वाण्यपि पातकानि। निर्भरं रुदती कमला मनस्येव भगवन्तं लक्ष्यीकृत्य सदैन्यमब्रूत- ''भगवन्नहं जीवनपर्यन्तं निरन्तरं रोदिष्यामि। रोदित्वा रोदित्वाऽहमात्मनो हृदयरक्तमक्ष्णोर्द्वारा प्रवाहयिष्यामि बहि:। हे दयामय! मार्जय मे पातकानि।
तस्मिन्नेव समये समाजघान कश्चिद् द्वारार्गलाम्। कमला चकिता भूत्वा विद्युदिव त्वरिततरमुदतिष्ठत्। अतियत्नेन सा समवृणोदात्मानम्, ममार्ज नयनयोर्जलम्। किन्तु नोद्घाटयामास तथापि द्वारार्गलाम्। शय्योपरि निश्चला स्थित्वा समचिन्तयन्निजाऽदृष्टस्य घटना:। सम्प्रति द्वारकपाटोपरि समभूवन् प्रबलतमा: समाघाता:। किन्तु कमला नास्योपरि दृष्टिमात्रमप्यक्षिपत्। किञ्चित्कालान्तरं निजमनसि कञ्चिद्विचारं स्थिरीकृत्य सा समुद्घाटयामास भवनद्वारम्।
द्वारे धूमपात्रहस्त: स एव युवा निभृतमासीदवस्थित:। प्रावोचत्स:- ''लक्षणै: प्रतीयते पुनस्त्वं निभृतमरोदी: कमले! कमला नाऽस्योत्तरमदात्। युवा पुनरवादीत्- 'मुधा रोदित्वा रोदित्वा किमिति देहं क्षपयसि कमले!
कमला- किं सुखं देहेनाऽनेन?
युवा - सुखम्? यावत्कालं लोकेऽस्मिन् स्थिति: स्यात्तावन्ति दिनानि सुखमेव।
कमला- तावन्ति दिनानि दु:खमेव। पापस्मृतेर्निरन्तरं यन्त्रणैव।
युवा - गृहं विमुच्य मया सह त्वामिहागता, एतस्यैव किमेतावद्दु:खम्? अनेनैव किं निरन्तरमारोदिषि? पूर्वं तु नासीत्सेयं भवत्या: परिस्थित:। वर्षादारभ्य तदिदं परिवर्तनमवलोके भवत्याम्। अद्य मे सूचय सत्यम्, केनोपायेन भवती पुनस्तादृशी स्यात्?
कमला - पुनरहं तादृशी स्यामिति न केवलं कठिनमेव, अपि तु नितरामसम्भवम्। अहं यत्किञ्चिद्विसृज्य गृहादागता, न कश्चित्तन्मे प्रतिादातुं शक्नोति।
युवा- अस्तु, अपैतु सर्वमिदम्। मम तावदिद्येव निर्दिश किमित्येतावदारोदिषि?
कमला- अहं किमिति रोदिमि? हृदयं विपाट्य दर्शनेन विना नेदं शब्दैर्बोधयितुं शक्यम्।
युवा - कमले! अहमेव भवत्या: सर्वदु:खानां मूलम्। भवती वत्सलौ मातापितरौ राज्ञामिव विपुलं वैभवं चाऽऽदाय सुखेन संसारमासीन्निर्विशन्ती। न जानेऽहं कस्मिन्कुमुहूर्ते भवत्या रूपे गुणेषु च मुग्धो भूत्वा भवतीमचीकमे। यद्यहं प्रणयमेव केवलं कृत्वा निभृतमवतिष्ठेयं तर्हि न ते हृदये सोऽयमग्निरद्य प्रज्वलेत् मया मे प्रणय: प्रकटितो भवतीं प्रति। त्वया तत्प्रतिदानमपि मह्यमनुष्ठितम्। इदानीं कथय तथ्यं मे कमले! केनोपायेन ते सुखं स्यात्?
कमला- किं त्वं तत्कर्तुं शक्नुया:?
युवा - अवश्यं शक्नुयाम। प्राणप्रतिदानेऽपि यदि ते मुहुर्तं सुखं स्यात्तर्हि तदर्थमहं सन्नद्ध:।
कमला - तर्हि मां विमुच्य प्रतिनिवर्तस्व निजगेहम्।
युवा - गृहे मम कोऽस्ति कमले?
कमला- गृहे तव स्त्री-पुत्र-धन-जनं सर्वं त्वेवास्ति।
युवा- किन्तु कमला नास्ति।
कमला- कमला पातकम्, स्त्री पुण्यम्। एतावन्ति दिनानि पापमसेविष्ठा:, सम्प्रति परिशीलय पुण्यस्य परिचयम्।
कमला- पत्न्या: पादतले कोटिश: कमला: परिलोठन्ति। एकबारं परावृत्त्य परीक्षस्व तत्पटुतरम्।
युवा- कमले! यस्मिन्मार्गे त्वं जिगमिषसि, मामपि तत्सहगामिनं विधेहि, त्वां विहाय नाहं पारयेयं स्थातुम्।
कमला- यस्य सुखस्याशया मे संसर्गं वाञ्छसि, न तत्सुखं सम्प्रति शक्नुया: प्राप्तुम्। तव सुखं पत्न्या: संसर्गे, मम सुखं स्वर्गतस्य स्वामिनश्चरणतले। मार्गौ नितान्तं भिन्नौ मां विहाय परावर्तस्व गृहान्। नो चेत्........।
युवा - नो चेत्किं करिष्यसि कमले!
कमला- नो चेदहमेव गृहमिदं विमुच्य गच्छेयम्।
युवा- तावत: प्रणयस्येदं प्रतिदानम्?
कमला - मत्सम्मुखे नेदानीं भवत्प्रणयस्य प्रतिमूल्यम्।
युवा - कमले! कमले! एतावत्कालानन्तरं तव मम च वियोग: सोऽयं किं समञ्जस एव?
कमला सम्प्रति नास्मिन् स्थातुमपारयत्। अव्रजत्सा द्वितीयस्यां दिशि।
(६)
व्यत्यगादेको वत्सर:। कमला साम्प्रतमेकाकिनी। स्वैरं सा गृहकार्यं करोति, सन्ताम्यति च सन्ततं चिन्तया। अन्तोऽस्ति गृहकार्याणाम्, परं न कदाचिदन्तोऽभ्यन्तर चिन्तानाम्। अनन्तचिन्तासन्तानमात्मनो हृदये गोपयन्ती कमला जलभृतगभीरमेघखण्ड इव चक्षुर्दिक्षु चरति, कार्यमाचरति च।
कमला न पूजामाचरति, जपो वा तपो वा नाऽनया किञ्चिदनुष्ठीयते। केवलमेकं कलशं यमुनाजलस्य प्रत्यहमुपनयति मदनमोहनस्य मन्दिरे। अत्रैव तस्या: कर्तव्यं परिसमाप्यते नूनम्।
नि:स्तब्धायां निशि समस्ता पृथिवी यदा नि:संज्ञा निभृतं शेते, तदा कमला निभृतपदमुत्थाय प्राप्रोति मदनमोहनमन्दिरस्य सम्मुखे। निरुद्धद्वारस्याग्रतो धूलौ लोठन्ती सा चिरकालपर्यन्तमरुदत्। प्रतिदिनमिदमकरोत्सा। शीतं वा वर्षा न किञ्चित्सा परिगणयति। न गच्छति कमला कस्यचिद् गृहे, नान्योऽपि कश्चित्तस्या गृहं गच्छति। न संलपति कमला केनापि सह, न चान्योऽपि लालायित: कमलया संलपितुम्। एकाकिनी सा निभृतमरुदत्। सप्ताहे समगच्छत् सा एकदिनमापणे। सूपं वा तण्डुलं गोधूमं वा यत्किञ्चिदानेतुमशक तत एव सा समाहरत्, तेनैव च दिनान्ययापयत्। सूपमोदनं लवणं, नाममात्राय घृतमेतावद्विहाय न साऽन्यद्भुङ्क्ते, भोक्तुमिच्छापि च नोदेति।
कमलाया: समीपे रूपं यौवनं चेत्युभयमप्यासीत्। यत्र चेदं द्वयं तत्र विपत्तिर्नि:संशयम्। कश्चित्कश्चित्पृष्ठलग्रोऽभूत्तस्या:। एकदा कमला स्वहस्तेनैव निबिडं तं कृष्णकेशराशिमच्छिनद् गेहे। कपोलौ वक्ष:स्थलं च तप्तलोहेन सन्दह्य विरूपतामसृजत्। तद्दिनादारभ्य न कोऽपि पुरुषस्तां प्रति परावर्त्त्याऽप्यपश्यत्।
कमलाया: समीपे कानिचिद्रूप्यकाण्याभरणानि चासन्पूर्वसङ्गृहीतानि। यमुनास्नानात्परावर्तनस्य समये तन्मध्यात्सा दीनदु:खिभ्यो व्यभजत्। नैतद्धनं पापेन सञ्चितम्, पितुर्गृहादागमनसमये सा तदिदं तथापि भगवतो मदनमोहनस्य सेवायां नैतद् द्रव्यमुपयोक्तुं सा साहसमवहत्। यमुनायास्तटे यदि कुत्रचित्सा सुन्दरपुष्पाण्यपश्यत्तर्हि मदनमोहनस्य कृते सा तानवश्यमाहरत्।
जगन्मोहने दूरत: स्थिता कमला एकस्मिन्दिवसे भगवतो मदनमोहनदर्शनं कुर्वन्त्यासीत् यथैव दृष्टं यन्मयाऽऽहृतै: गुणैर्भगवतश्चरणद्वयमाच्छन्नं तथैव सा भक्त्या प्रमोदेन च नितान्तमधीरा समवर्तिष्ट। सा भगवन्तं प्राणमत्, 'भगवन् मदनमोहन इत्युक्त्वा न चाह्वयदेकवारमन्यान्यदिवसवत्। केवलमरोदरीत्सा निरन्तरम्। तद्दिनादारभ्य प्रमोदविह्वलाया: कमलाया व्यत्यगु: कानिचिद्दिनानि तस्यामेव दशायाम्।
मदनमोहनस्य सैवायै कमला प्रत्यहमाहरद्यमुनाजलम्, प्रापच्च तन्मदनमोहनमन्दिरे। लाभे सति पुष्पाण्यपि समुपाहरन्मदनमोहनाय। कदाचित्कदाचिन्मालां निगुम्फ्य समर्पयामास सा भगवते। समाधानिमहाभागो नाऽधुना काञ्चिदापत्तिमुपदर्शयति, भगवत: कृते कमला यत्किञ्चिदुपानयत्तदेव स हि सादरमङ्गीचकार।
प्रकारेणाऽनेन पुनरयासीदेको वत्सर:। एकस्मिन्दिने कमला वाक्कीलस्य गृहे गत्वा दानपत्रमेकमलेखयत् स्थावरा अस्थावरा च या काचित्तस्या: सम्पत्तिरासीत्तामिमां दानपत्रद्वारा भगवते मदनमोहनाय सा समार्पिपत्। दानपत्रमिदं भगवतो मदनमोहनस्य मन्दिरे समर्प्य न कमला तदनन्तरमदृश्यत मथुरायाम्। क्व सा पर्यव्रजदिति न कस्याऽप्यभूद्विदितम्।
(७)
गृहपरिग्रहं परित्यज्य, कपर्दिकामात्रमपि न परिगृह्य, शाटिकामात्रपरिधाना कमला भगवतो जगदीशस्य दर्शनाय पुरीं प्रास्थित। न सा परिजानाति पन्थानम्। गतागतं कुर्वद्भय: पथिकेभ्य: पृष्ट्वा समभवदग्रेसरी सरणौ। न समीपं ताम्रखण्डमेकमपि। भिक्षया निर्वहति जीवनयात्रा। व्यत्यगाद्दिनादनन्तरं दिनम्। कमला महतोत्साहेन समुदलङ्घयन्मार्गम्। व्यत्यगुरेवं भूयांसो मासा: किन्तु साम्प्रतमपि जगन्नाथपुरी दूरे। शनैर्निरुत्साहाभूत्कमला। सा पूर्ववदिव मार्गमुल्लङ्घयितुं शक्त ा। कदाचिदुपवास:, कदाचिदर्द्धभोजनमेवं सा समभूदेकान्ततो निर्बला। अक्षीयतोत्साह:, क्रमक्रमादलुप्यत गमनशक्ति:। कमला समभूत्साम्प्रतं ध्याननिरता- 'भगवन् ! का मे साम्प्रतं गति:? एकदा मार्गमुल्लङ्घयन्ती कमला सर्वथैवाभूदसमर्था। सन्ध्या समये एव मार्गस्य तटे वृक्षस्यैकस्य निकटे दीनमशेत सा नितान्तनिर्बलतया। भूमौ शयाना सा समशोचत्- 'जानेऽहं भगवतो जगदीशस्य दर्शनं न मे भाग्ये। य: सकृदपि तत्रोपगच्छति क्षीयन्ते तस्याशेषपातकानि। नाहं रोदितुमपारयम्, अत एव न पातकान्यप्यपमृष्टानि। भगवतो जगन्नाथस्य दर्शनायाहं प्रस्थिता, किन्तु न मे भागधेये तदपि। हे भगवन्! किं मे भावितव्यम्? पापभारमिमं वोढुं न मे साम्प्रतं शक्ति:।
शोचन्ती शोचन्ती कमला नूनमभ्यभूयत निद्रया। स्वप्ने व्यलोकयत सा यन्मध्याकाशे विराजति मनोहरा मूर्तिरेका। पुनरपश्यत्सा-यत्र तारका: प्रकाशन्ते, शोभते भगवान् शशाङ्क:, तस्मिन्नेव स्थाने नवजलधरश्यामल: कमलदललोचन: श्रीमदनमोहनस्त्रिभङ्गललित: स्थितो ध्वनयति मुरलीम्। तस्याधरतटे हास:, नयननिकटे करुणा, कपोलेषु च प्रसाद: परिखेलति। शतशतशशाङ्कनां प्रतिबिम्बा: प्रतिफलन्ति तस्य चरणनखेषु। लक्षलक्षनक्षत्राणि लोठन्ति तस्य पादतले। आकाशं पृथिवीत्यादि लुप्तमखिलम्। निखिलमपि जगतस्तेज: संघीभूय व्याप्रोति मूर्तिमिमाम्। कमला निद्रायामेव रोमाञ्चितसकलशरीरा सोत्साहमपृच्छत्- 'किं भवानेव श्रीहरि:?
उत्तरमलभ्यत- 'आम्
'किं भवान्मह्यं दर्शनं दातुमुपगत:?
'नैव
'अहं भवतो दर्शनाय जगदीशपुरीं प्रयामि।
'अहं न निवसामि जगदीशपुर्याम्।
'तर्हि कुत्र निवससि?
'अहं मानुषाणां हृदये निवसामि। यो मामाह्वयति, यश्च मां द्रष्टुं जानाति स एव मे दर्शनं लभते।
अहमाह्वानं न जानामि। दयां विधाय शिक्षय मामह्वातुम्।
कमला ह्यावेगेनोच्चैरवदत्- 'भगवन्! शिक्षय मामाह्वानं भगवन्।
अस्मिन्वारेऽपि न प्राप्यत किञ्चिदुत्तरम्। पश्यन्त्यामेव कमलायामाकाशस्था सा मूर्ति: क्रमेण मन्द-मन्दतरा भूत्वा व्यलीयत गगन पटले। विह्वला कमला- 'हे भगवन्! बोधय मां दयया, केनोपायोन लभ्येत भवान्?
दिग्दिगन्तान्प्रतिध्वनयन् पुनरश्रूयत घोर: स चीत्कार- 'हे दयामय। बोधय मामेकवारं केनोपायेन भवान् लभ्येत?
तेन कातरीचीत्कारेण स्थावरजङ्गमम्, द्योतलभूतलं चापि रोमाञ्चितं भूत्वा प्रतिध्वनिमकरोत्- 'करुणामय किञ्चिदाज्ञापाय मां केन विधिना त्वामासादयेयम्।
चीत्कारशब्देनानेन भग्राभूत्कमलाया निद्रा। उत्थाय सा व्यलोकत चतुर्दिशम्। तया पृथिवी दृष्टा, गगनमवलोकितम्, तारा: प्रत्यक्षीकृता: किन्तु कुत्रापि सा मूर्तिर्न निभालिता। निराशाकुलहृदया सा गगनमवलोकयन्ती निस्तब्धमतिष्ठत्।
स्वप्रे सा यत्किञ्चिदशृणोत्सर्वं तत्तस्या: स्मृतिपटले वज्राक्षरैरुत्कीर्णम्। कमला एकैकं ता वार्ता: समारभत विचारयितुम्। अभूत्प्रत्यूषम्। कमला वृक्षतलादुदतिष्ठत्। येन मार्गेण सा मथुरात: समागमत् तेनैव मार्गेण सा पुनर्मथुरां परावर्तिष्ट।
(८)
व्यपससार कमलाया भ्रम:। न सा साम्प्रतं जगन्नाथपुरीं प्रस्थातुमुत्कण्ठिता। कमलाया: प्रतिभासमभूद् यद् हृदयस्यावस्थाविशेषस्यैव नाम 'जगदीशपुरी। यदा ह्यन्त: करणे राधाकृष्णयोर्युगलमूर्तिर्निरन्तरमवतिष्ठते तदैव जनो जगदीशस्य दर्शनं लभते। अन्यथा पापाकुलहृदयेन जगदीशपुर्यां चिरं जीवनयापनेऽपि न मानुषो लभते जगन्नाथस्य दर्शनम्।
मथुरामार्गमुल्लङ्घयन्ती कमला व्यचिन्तयच्चेतसि- 'हा हन्त को मयाऽनर्थो विहित:। अबोधस्य मनसो वशीभूताहं मुधैव जगन्नाथपुरीमभ्यधावम्। भो मम मदनमोहन! क्षमस्व विकलामिमां ते पुत्रीम्। भवतश्चरणावेव मत्कृते जगदीशपुरी। भवतश्चरणावेव मम सर्वाणि पुण्यतीर्थानि। भवतश्चरणयोरवनेजनजलं विसृजन्त्यैव मया निजपातकानां कृते रोदनमभिशिक्षितम्। पाषाणं विहाय सुवर्णं प्रत्यभिज्ञातम्। त्वमेव मे जगदीशपुर्या जगदीश:। त्वमेव मे वैकुण्ठपति: श्रीहरि:। हे मम दयामय देव! क्षमस्व मामकीनमपराधम्।
कातरकण्ठेन मदनमोहनमाह्वयन्ती कमला पन्थानमलङ्घयत्। दिनादनन्तरं दिनम्- मासादनन्तरं मासो व्यत्यगात्प्रकृतिनियमानुसारम्। न सम्प्रति कमला पूर्वमिव मार्गचलने समर्था। एकदिनस्य मार्गे व्यतिगच्छन्ति दश दिनानि। उपवासै: क्षीणं तान्तपरिश्रान्तं देहं यथाकथञ्चित्कर्षन्ती चलने समर्था कमला महता कष्टेन समवाप्नोन्मथुराम्।
आसीत्तस्मिन्नेव दिने यमद्वितीयाया: पुण्यं पर्व। किन्तु नाभूदिदं विदितं कमलाया:। हृदेषु यमुना घट्टेषु च समभून्नितान्तं सङ्कुलता। सर्र्वेषामपि च जनानां मुखं समवालोक्यत यमुनाभिमुखम्। धृतकौतूहला कमला पर्यष्टपृच्छेदेकां युवतिम्- 'ननु सूचय मामपि; सर्वा यूयं गच्छथ कुत्र? कोपमभिनयन्तया युवत्या प्रत्युक्तम्- 'अपेहि रे मन्दभाग्ये! किं तव नेदमप्यविदितं यदद्यास्ति 'यमद्वितीया।
अनाकुला कमलाऽपि यमुनास्नानाय पर्यचलत्।
भगवत्या: कालिन्द्या: कण्ठदघ्रे पयसि सन्निमग्रा कमला व्यचारयच्चित्ते- 'अद्य पुनस्तदेव यमद्वितीयाया दिनम्। अस्मिन्नेव दिने मया व्रतमङ्गीकृतमासीत्, अद्यास्मिन्नेव दिने व्रतस्योद्यापनमपि करिष्यामि। रे मातर्युमने! मम पापान्यपाकुरु। अस्माद्देहभारान्मां विमोचय। दीनोद्धारिणि..... एतदग्रे न प्राभवत्सा वक्तुम्। द्वावपि कपोलौ मार्जयन्ती वाष्पधारा निरन्तरमवहत् द्वयोरपि नयनर्योद्वौ प्रवाहौ यमुनाप्रवाहेण प्रेमत: समगंसाताम्।
कृतस्नाना कमला मदनमोहनस्य मन्दिराभिमुखमचलत्। न जानेऽस्मिन्समये तस्या देहे नवीना शक्ति: कुत: समुपगता, मनसि नवीन उत्साह: कुत: समभरत्। सा सुदीर्घमितं पन्थानमतिस्वल्प एव समये समतिक्रम्य नितान्तमेव शीघ्रतया मन्दिरस्य प्राङ्गणमुपातिष्ठत।
समयेऽस्मिन्मन्दिरपट: समुद्घाटित आसीत्। कुर्वन्ति स्म जना मदनमोहनस्य दर्शनम्। सङ्कोचरहिता कमला सरभसाभ्यां पदाभ्यामभ्याजगाम जगन्मोहनम्, निभृतमतिष्ठच्चैकचित्ता दर्शनं विदधती। वृद्धोमुख्यार्चकमहाभाग: स्वयमस्मिन्दिने सेवायामासीत्समुपस्थित:। नीराजनस्यानन्तरं पृष्ठत: परावृत्त्य वदनं, विलोकितमनेन- यत्सम्मुखे समवस्थितास्ति कमला। दृष्ट्वैव तां पर्यचिनोत्। अपृच्छदसौ कमलाम्- 'अद्य बहुकालानन्तरं समागतासि। प्रणम पुत्रि भगवन्तं मदनमोहनम्।
भगवतश्चरणाम्बुजदर्शनान्नेत्रमनपासरयन्त्येव कमला समभाषीत्- 'कं प्रणमामि? अपि भगवन्तम्? तस्य चरणयोरहं प्रत्यहं कोटि कोटि प्रणामानकरवम्, तस्य चरणयोरहं प्रत्यहं लोठामि। एषाहं तस्यैव चरणयोर्मस्तकं निधाय निपतिताऽस्मि। इदानीं कुत्र मस्तकं निधाय, कस्मै प्रणामं करवाणि?
मुख्यार्चकमहाभागस्य विस्मयोऽभूत्। किञ्चित्कालं नीरवनिस्तब्धो भूत्वा स समपृच्छत्- 'चरणामृतं ग्रहीष्यति?
कमला- ''अपि चरणामृतम्? चरणामृतं कुत्र दास्यसि? मुखे स्थानं नास्ति। समस्तदेहस्योपरि भगवतो मदनमोहनस्याधिकार: संवृत्त:। मस्तके मदनमोहन:, जिह्वायां मदनमोहन:, हस्ते मदनमोहन:। क्व दास्यसि चरणामृतम्?
नितान्तमाश्चर्येण साकं मुख्यार्चकमहाभागस्य समभूदसीमा श्रद्धा कमलाया उपरि। किं भगवत: प्रसादीभूतं पुष्पं ग्रहीष्यसि?
कमला- पुष्पम्? देहि! तस्य चरणयो: पुष्पं समर्पय, तच्चरणयोरेव! इत्युक्त्वा सा निजचरणमग्रे प्रासारयत्। महानुभावो मुख्यार्चकमहाभागो निकाममासीत्तत्त्वज्ञानी। तथापि भगवत: प्रसादीभूतं पुष्पं कमलाया: पादयो: स्थापयितुं नाभवदेतस्य साहसम्।
कमला न कस्यामपि दिशि परावृत्त्यापि दृष्टिमक्षिपत्। तस्या द्वे अपि नेत्रे समभूतां निमीलिते। सा हि ध्यानमग्ना भूत्वा धमिति धरणौ न्यषीदत्। तद् ध्यानं न कदाचिदभूद् भग्नम्, ते नेत्रे न कदाचिदभूतामुन्मीलिते! मदनमोहने मिलिता कमला मदनमोहन एव संवृत्ता!
परमदयालुर्मुख्यार्चकमहाभाग: सन्ध्यासमये कमलाया: शरीरं स्वयं स्वस्कन्धेनोढ्वा यमुनापुलिने सश्रद्धमग्रिसाच्चकार।