प्रथमोऽध्याय:
भारतीयं गौरवम्
नूनमखण्डस्यापि भूमण्डलस्यास्य पयोधिपयोभिरावृतो जलसंस्तरभागोऽस्ति भूरि भूयान्, स्थलभागस्तु तदपेक्षया भूरि विरल इति भाषन्ते भौगोलिका:। पयोधि: परित: परिवृत: सोऽयं स्थलभूखण्ड: सप्तसु भागेषु विभक्तो ये हि द्वीप-संज्ञया पुराण-संहिताभिराख्याता:। ते च-जम्बू-शाक-कुश-क्रौञ्च-शाल्मली-गोमेद-पुष्कराख्या:। तेषामाद्योऽयं जम्बूद्वीप: सर्वतो महान्। समग्रस्यापि भूखण्डस्याद्र्धो भागो नूनमनेनैव व्याप्त:, अद्र्धे त्वन्यस्मिन्नन्येऽपि द्वीपा इत्याहुरार्यवैज्ञानिका:। जम्बूद्वीपस्य नव२ वर्षा: (भागा:)। तेषामन्यतमोऽपि सर्वप्रधानमयं भारतवर्ष:, यो हि कर्मक्षेत्रमित्याख्यातो३ मनीषिभि:। अस्य हि पुरा समभूद्भूयानायाम:, यो हि नवसु४ भागेषु विभक्त: प्राक्तनै:। अयमस्माकमावासभूत:। सागरसंवृतस्तु तेषां नवमो भाग:। अस्य चतु: सीमा:, गिरयो नद-नदी-प्रभृतय: अवान्तरदेशाश्च पुराणसंहितानुसारिणि मार्कण्डेयपुराणे भारतखण्डवर्णनाध्याये विस्तृत्य वर्णिता:।
अस्माकमयमार्यावर्तो न नाम साधारणो देश:। अस्य हि वर्तमाना सीमा भगवन्तं मनुमारभ्य प्रवृत्तान्वाख्यायते। यथा-
'आसमुद्रात्तु वै पूर्वादासमुद्रात्तु पश्चिमात्।
हिमवद्विन्ध्ययोर्मध्यमार्यावर्तं मनुर्जगौ।।’
इयमेव मानवसभ्यताया आदिभूमि:। भगवती संस्कृतभारती अत्रैवोत्तरोत्तरं प्रौढिं भेजे, यया हि सर्वत: प्रथममस्मिन् संसारे ज्ञानाऽऽलोक: प्रवर्तित:। तथा हि मम पद्यद्वयम्-
१. 'भूमेरद्र्धं’ क्षारसिन्धोरुदक्स्थं जम्बूद्वीपं प्राहुराचार्यवर्या:। अद्र्धेऽन्यस्मिन् द्वीपषट्कस्य याम्ये क्षारक्षीराद्यम्बुधीनां निवेश:’ सिद्धान्तशिरोमणि।
२. इलावृत-रम्यक-हिरण्मय-कुरु-हरिवर्ष-किंपुरुष-भारत-केतुमाल-भद्राश्वा:।
३. 'तत्रापि भारतमेव वर्षं कर्मक्षेत्रमन्यान्यष्ट वर्षाणि स्वर्गिणां पुण्यशेषोपभोग- स्थानानि भौमानि स्वर्गपदानि व्यपदिशन्ति।’ श्रीभागवतम्।
४. 'भारतस्यास्य वर्षस्य नव भागान्निबोध मे। समुद्रान्तरिता ज्ञेयास्ते त्वगम्या: परस्परम्।। इन्द्रद्वीप: कशेरुश्च ताम्रवर्णो गभस्तिमान्। नागद्वीपस्तथा सौम्यो गान्धर्वो वारुणस्तथा। अयं तु नवमस्तेषां द्वीप: सागरसंवृत:।।’’ मार्कण्डेयपुराण।
५. आर्या यत्र समन्ताद्वर्तन्ते पुन: पुनरुद्गमन्त्यत्र।
ययैवाऽऽदौ सृष्टा नरजगति सभ्यत्वसरणि-
र्यदीयं साम्राज्यं क्वचन समये प्राज्यमभवत्।
यतोऽमू: सम्भूता जगदुदरसूता१ नरगिरो
गिराऽसौ गैर्वाणी जयती वरवाणी परिवृढा।।१।।
यया लोके वेदा: परिकलितभेदा: प्रकटिता:
स्मृतीनां धात्री या, प्रसवनकरी योपनिषदाम्।
समस्तत्रैलोक्ये ह्युपदिशति याऽऽध्यात्मिकपथं
स्फुरद्दिव्यज्योतिर्जगति जयतान्निर्जरगिरा।।२।।
भूरिभाग्यभूरियमेव भूर्न केवलमार्याणां न वा केवलं प्राच्यदेशीयानाम्, अपितु-
सर्वेषामेव प्राच्येतिवृत्तगवेषकाणां मनस्यङ्कयामास मानवसभ्यतागतं कञ्चिदुत्कर्षं नूनम्। अयोध्यां सरयूं चाऽवलोक्य किं न स्मरणपथमधिरोहति दशकन्धर-कन्धराभुजविपिनदवानलो भगवान् रामचन्द्र:? साम्प्रतमिदं लघुतमं नगरम्, किन्तु कस्मिन्नपि समये सेयमासीन्महाविभव-शालिती विशालतमा राजधानी यत्र हि नानादेशीयानां मूर्धाभिषिक्तानां प्रभूता: सम्पदोऽस्याश्चरण-योरलुठन्। तत्समयस्य साक्षि भगवतो वाल्मीके: सूक्तिसुधानिस्यन्दस्तदिदं रामायणं नूनम्।
रामायणस्य समये समाज: कियदुदारचरित्र: पवित्रश्चासीत्। जीवनस्यादर्श: किय-दुन्नतोऽभूत्। परिवारे परस्परं कीदृक् पूर्ण: प्रणयोऽभवत्। राज-प्रजयोर्मिथोऽतुलनीय: सद्भावोऽभूत्। अद्येव नासीद् द्वयो: स्वार्थेकप्रणयिता। 'बालोऽपि नाऽवमतव्यो मनुष्य इति भूमिप:’ इति धार्मिकमहत्त्वेन।
'राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम्।
राजन्यसति लोकेऽस्मिन् कुतो भार्या कुतो धनम्।।’
इति जगति जीवनाधारत्वेन वा यदि प्रजानां राजा विश्रम्भभूमिरासीत्तर्हि राजापि निजप्रजा: पुत्राधिकं स्निह्यति स्म। तासां रक्षणावेक्षणमात्मन: प्रधानं जीवनलक्ष्यममन्यत। आसीत्समाजस्य विश्वास:।
'प्रजानां विनयाऽऽधानाद्रक्षणाद्भरणादपि।
स पिता पितरस्तासां केवलं जन्महेतव:।।’
अत एव हि भूपतेरुपरि समुपस्थिते सङ्कटे प्रजा: प्राणपणेनापि तत्साहाय्यं विदधु:। राज्ञि वनं प्रोषिते प्रकृतयोऽपि सर्वं गृहादिकमपास्य गलदश्रवस्तमनुययु:। निजस्वामिना विरहितं नाभ्यनन्दँस्ता राष्ट्रम्। आहुस्ता:-
१. वैदिकभाषामूलभूताया वर्तमानगैर्वाण्या: पूर्वजायाश्च यस्या इण्डोरोपियानाख्याया: सकाशादन्या वैदेशिकभाषा: परिष्कृतस्वरूपजुषो भारतीयभाषा उदभवन्निति भाषाविदो वदन्ति।
'न हि तद्भविता राष्ट्रं यत्र रामो न भूपति:।
तद्वनं भविता राष्ट्रं यत्र रामो निवत्स्यति।।’
इतो राजापि प्रजानामवनाय तासामनुरञ्जनाय निजं राज्यं सुखं जीवनं चापि न किञ्चिदभिमन्यते। प्रजासु सङ्कटे समुपस्थिते, देशद्रोहि-दस्यु-प्रभृतीनामाक्रमणे सम्भवति, रक्षाभित्तिरिव सर्वप्रथमं स्वयमयं सम्मुखमवतिष्ठते। न गणयति च निजप्राणादिकम्। अत एव हि क्षत्रियशब्दस्य महन्महत्त्वं प्राख्याप्यत पार्थिवपुङ्गवै:-'क्षतात् किल त्रायत इत्युदग्र: क्षत्रस्य शब्दो भुवनेषु रूढ:’। अद्येव न प्रजाप्रमुखपरतन्त्रम्, अपि तु सर्वतन्त्रस्वतन्त्रं निजमिदं राज्यतन्त्रमेव किम्, सर्वमखिलं वैभवं जीवलोकसुखं किं बहुना जीविताधिकां प्रियतमामप्येष परिहरति। या भार्या अकार्यशतमपि कृत्वा धर्मतो भरणीया। आह मनु: -
'वृद्धौ च मातापितरौ साध्वी भार्या शिशु: सुत:।
अप्यकार्यशतं कृत्वा भर्तव्यान्मनुब्रवीत्।।’
यस्या विरहे स्वयमेष दीनं व्यलपत्-'इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयो:, असावस्या: स्पर्शो वपुषि बहलश्चन्दनरस:’ इत्यादि तामेव प्रेयसीं सीतामपि त्यक्तुमयं विवशो भवति। आह-
'स्नेहं दयां च सौख्यं च यदि वा जानकीमपि।
आराधनाय लोकस्य मुञ्चतो नास्ति मे व्यथा।।’
किमत्र कारणम्?
पूर्वकर्मानुबन्धिनी लोकानां शुभाशुभे नियतमिमे भाग्याधीने, तथापि राजा प्रजानामभ्यु-दयमात्मन: कर्तव्यमवधारयति। तास्वनवसरममङ्गले संघटिते स्वयमयमात्मनोऽपराधं भावयति। अत एव राजा राम: अकालमेव ब्राह्मणतनये विपन्ने नूनं प्रजाभिरक्षितुर्ममैव कश्चिद्पराध: संवृत्तो येन मे प्रजास्वकालमृत्युना प्रविश्य ब्राह्मणतनयोऽयं संहृत:।’’ इति भूतानुकम्पया स्वयमनुशोचति। अपि समुपलब्ध: क्वचिदीदृगुदारो व्यवहारो भूमण्डलेऽन्यत्र?
सर्वतोभावेन निजाभिभावकस्य भूभर्तुर्र्भरवशे एव सुखं स्व-स्व-व्यवहारेषु निश्चिता: प्रकृतय: परमामुन्नतिं भेजुर्विद्यासु नानाकलासु च। व्यवसायवाणिज्यादिभिरासीदस्य दूरदूरद्वीपैरपि घनिष्ठ: परिचयश्च सम्बन्धश्च। भारतस्य पोता: समुद्रवक्षसि तरन्तो दूरदूरद्वीपेषु विश्रमं विदधु:। धर्मशास्त्रे समुद्रयात्रानिषेधं दर्शयन्तो यद् बाह्यै: सह व्यवसायविच्छेदं समर्थयन्ते तत्तु प्रतारणमात्रम्। विशिष्टब्राह्मण-विषयिणी सा व्यवस्था न देशमात्रं पङ्गूकर्तुं प्रभवेत्। आसीत्परमामुन्नतिमुपगता पोतनिर्माणकला भारतीयानाम्। सामुद्रिकपोतानां नानाभेदा नानाविधतरिनिर्माणशिल्पं३ च स्फुटमावेदयति भारतीयानां समुद्रयात्रायां द्वीपान्तरेषु यातायातम्। तत एव हि यथा भारतीयद्रव्याणि बहिर्जग्मुस्तथा द्वीपान्तरेभ्यस्तत्रत्यानि वस्तून्यपि देशेऽस्मिन् समाजग्मु:। किं न विलोक्यन्ते प्राचीनसाहित्ये राजसमाजादृतानि चीनांशुकादिवस्तूनि?
किञ्च विद्या-कलादीनां भवनमिदं भारतमेवाऽभूद्भूतकाले भूमौ। साम्प्रतं वा मध्यकाले वा भवेदन्यान्यदेशैरपि प्रदर्शितो विद्यानां विद्योत: किञ्चित्, किन्तु सर्वत: प्रथमं मानवजातौ ज्ञानाकारप्रवर्तक: सोऽयमेव भाग्यवान् भूखण्ड इति नात्ममुखेन प्रशंसा सेयम्। संमन्यन्ते तदिदं तथ्यं निष्पक्षपाता: पाश्चात्या अपि। ये तु केचिद् ग्रीसदेशे मिश्रदेशे च प्रारम्भिकीं सभ्यतां साधयितुमकाण्डपरिश्रमं विदधते, सेयं विजेतृजाते: साम्प्रतिकी राजनीतिलीला। बहव: किल रहस्यमिदमधुना बोद्धुमप्यपारयन्। अत एव विशेषविवरणं विनाऽनाग्रहिलैस्तदिदं तत्त्वं स्वतोऽवगन्तव्यं नाम। ये तु पाश्चात्त्यमुखनिर्गतवाणीनामनन्यदासा भारतीयाभासास्ते तु प्रमाणशतैरपि न प्रत्येतार: प्राचीनानां वचांसि। अस्तु 'ऋग्वेदसंहितातो न किञ्चित्प्राचीनं वाङ्मय-मुपलब्धमद्यावधि भूमण्डलेनानेन’ इति सर्वेरप्यन्वेषकै: स्वीकृतं तथ्यमित्येव महद्भागधेयं नूनम्। वेदसंहितोद्भावकास्ते आर्या आसन्ननार्या वेति तु स्वत: प्रत्येतव्यम्।
इदानीमवशिष्यते द्वितीयस्य राजनीतिप्रकारस्य समुत्तरणं नूनं यत् नासीद्भारतीया-नामार्याणां भारते निवास: प्राथमिक:, अपि तु बहिर्देशेभ्य: समागत्य भारते उपनिविष्टवन्तस्ते इति। एतस्याप्युत्तरं सत्यव्रतसामश्रमिप्रभृतिभि: ऐतरेया- लोचने भूमिकायाम् समञ्जसमेव वितीर्णम्। अन्येऽपि साम्प्रतं भारतीयानामत्रैव निवासं स्वीकर्तुमुन्मुखा इव दृश्यन्ते। अस्तु सत्यवसरे प्रसङ्गसङ्गत्या तदिदमत्र गृह्येत। किन्तु 'इमं मे गङ्गे।’ इत्यादिमन्त्राणामिदंप्रथम-तयोच्चारका ये केचिदासन् ते गङ्गां प्रत्यक्षमालोकयन्त एवैतादृशं सम्बोधितवन्त इति तु मादृशानां विश्वास:। गङ्गा च सेयं भारतं भूषयति, भूखण्डान्तरं वेति तु स्वतो विवेचनीयं नूनम्। अस्तु, कृतं प्रसक्तानुमप्रसक्तेन। विद्यानामादिमोद्भावका भारतीयमहर्षीणां पूर्वजा एवाऽऽसन्निति साधयन्ति महान्तो गवेषका एव।
विद्यानां साकल्येन वर्णनं साहित्ये समुपनिबन्धनं च भारतीय-प्राचीनग्रन्थेष्वेव दृष्टम्, नेतरदेशीयासु भाषासु। साहित्ये समावेशश्च कस्यचिद्विषयस्य तदैव भवति यदा शतशतवत्सरात्मके काले व्यतीते विषयेऽस्मिन् सन्देहकृताया अव्यवस्थाया विशृङ्खलतायाश्च प्रसङ्ग: समुपतिष्ठति। तदा हि सुव्यवस्थार्थं विषयस्याऽस्य स्वरूपनिर्देश:, परिगणना, भेदोपभेदा-श्चेत्यादिकं साहित्यिकरूपमाविर्भवति। एवं च कस्यचिद्विषयस्य साहित्ये समुपनिबन्धन-मालोक्य लोकालये तत्प्रचारस्य भूयान् काल: अनुमतन्व्यो भवति। 'पूर्वं भाषाया उद्भव: ततस्तत्सुव्यवस्थार्थं व्याकरणस्य जन्म। न किल व्याकरणात्काचिद्भाषा जन्म लभते’ इति यदिदं प्रमापकं तत्प्रमापकानुसारेण साहित्ये समुपनिबन्धनकालात्पूर्वं भूयान् समयपरिवर्तो विद्याप्रचारस्याऽनुमीयते भारतेऽमुष्मिन्। अस्ति हि पुराणसंहितासु विद्यानां साहित्यिकसन्निवेशो नूनम्। तथा हि विष्णुपुराणे-
'अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तर:।
धर्मशास्त्रं पुराणं च विद्या ह्येताश्चतुर्दश।।
आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रय:।
अर्थशास्त्रं चतुर्थं च विद्या ह्यष्टादशैव ता:।।’
सर्वत: प्रथमं वैदिकसाहित्ये दीयतां दृष्टि:। यस्मिन् समये समगे्रऽपि जगति नासीत्कोऽपि ज्ञानालोक:, सर्वेप्यन्यान्यदेशवास्तव्या भोजनशयनादिकं देहपालनमेव बहु मन्यन्ते स्म, आसीत्तस्मिन्नपि समयेऽस्य सविधे दिव्यज्ञाननिधि: श्रीमान् वेदराशि:, यस्य ज्ञानगरिमविषये प्राचीनताविषये च महामहापण्डितानामनेकानि मस्तिष्कानि अनन्तकालाद् गवेषणाप्रयत्ने संलग्नानि परं नाधुनापि चरमान्वेषणा तेषां समाप्यते। आध्यात्मिकज्ञाननिधयस्ता: किलोपनिषदो भारत एवाविर्बभूवुर्याभि: प्रभाविता यूरोपदेशीया: पारस्यदेशीयाश्चैकमुखेन घोषयामासु:-' आध्यात्मिकभावसम्पन्ना काचिद्भाषा यद्यस्ति संसारे तर्हि सा संस्कृतैवेति’। मॉनियरविलियम्स- शोपनहार प्रभृतय: स्पष्टं सिद्धान्तयन्ति यत् 'भारतीयं वायुमण्डलमुत्कृ ष्टान् पवित्रान् सत्यांश्च विचारान्प्रचारयत्येतासु’। 'यद्धि राष्ट्रमुपनिषत्सदृशान् ग्रन्थान् प्रसूते, भगवद्गीतासदृशांश्च महागभीरान् प्रबन्धानुपजनयति तस्योदारत्वं को वा न स्वीकुर्यात्’। न केवलं पूर्वदेशीया:, अपि तु सर्वे पाश्चात्या अपि स्वीकुर्वन्ति यद्भाषाया उपरि तद्भाषाभाषिणां प्रभाव: प्रस्फुरति। यदि काञ्चिद्भाषां मृदुस्वभावा: संयमिनो दयाशीलाश्च पुरुषा व्यवहरिष्यन्ति तर्हि तद्भाषाया उपरि तत्प्रभावा: प्रतिफलिष्यन्ति अत एव ते व्याहरन्ति-' संस्कृतभाषा मधुरस्वभाव-सम्पन्नाना-मार्याणां भाषणवशान्माधुर्यपूर्णा समजनि।’
इत्थं नितरामलब्धापरपारो वेदराशिरस्माकममूल्यो निधि:। पातञ्जलमहाभाष्ये पर:- सहस्रशाखा अस्याभिहिता:। बह्वयो विलुप्ता:, अल्पीयस्योऽवशिष्यन्ते, तासामपि बहुमूल्यं वाङ्मयमनन्तपारम्। संहिता-ब्राह्मणारण्यकोपनिषदादीनामयं ग्रन्थराशि: प्राचीनतम:। तदनु गान्धर्ववेद-धनुर्वेदायुर्वेद-नाट्यवेदादय उपवेदा अपि प्रथिता: सन्ति। तेषां विपुलमस्ति वाङ्मयम्। षड् वेदाङ्गा अप्याख्यायन्ते शिक्षा-कल्प-व्याकरण-निरुक्त-ज्योतिष-छन्दोऽ-भिधाना:। श्रुतिमूर्छनादि-पदावस्थिततानपरिच्छेदप्रयुक्तावधाने पृथक् षड्जादिस्वर समुदायो गान्धर्ववेद:। चतु:षष्टिकलासंग्राहकमौशनसादिशास्त्रमर्थशास्त्रम्। अङ्गानि षट् शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्यौतिषमिति। ऋग्यजु:सामाथर्वाख्या वेदाश्चत्वार ईरिता:।। विचारो वेदवाक्यानां मीमांसा प्रोच्यते बुधै:।। सा च पूर्वोत्तरभेदाद् द्विधा। तथा हि -कर्मप्रतिपादनपरा जैमिनिप्रणिता द्वादशाध्यायी पूर्वमीमांसा, ब्रह्मप्रतिपादनपरा व्यासप्रणीता चतुरध्यायी उत्तरमीमांसेति। पदार्थनिर्णयपरं तर्कशास्त्र्रं न्याय: (अत्रैव वैशेषिकनयस्यान्तर्भाव:)। मन्वत्रि- विष्णुहारीतादिप्रणीतं धर्मशास्त्रम्। कपिलपातञ्जल-पाशुपत पाञ्चरात्रादीनामागमानामपि धर्मशास्त्र एवान्तर्भाव:। सर्गप्रतिसर्गादिपञ्चलक्षणलक्षितं मत्स्यमार्कण्डेय भविष्यभागवत ब्रह्म ब्रह्माण्ड ब्रह्मवैवर्तवायुवामन विष्णु वराहाग्रिनारदीय पद्मलिङ्ग गरुडकूर्मस्कन्द भेदादष्टादशविधं पुराणम् (संक्षिप्तसंग्रहो यथा- ''मद्वयं भद्वयं चैव ब्रत्रयं वचतुष्टयम्। अनापलिंगकूस्कानि पुराणानि विदुर्बुधा:।’’ तदन्वष्टादशोपपुराणानि, औपपुराणानि इत्यादि वाङ्मयमनन्तम्। आगमविधा अपि वैपुल्यं बिभ्रति। सुमहानयं वाङ्मयसम्भारो न कुत्राप्यन्यत्र लभ्यो भारतादृते।
यानि खलु दर्शनशास्त्राणि अस्माकमुन्नते: परं काष्ठां प्रमाणयन्ति, येषा दर्शनानां सत्तया समस्तस्यापि भूमण्डलस्य सभ्या जातय: सशिर:कम्पमस्माकमुच्चान् विचारान्प्रशंसन्ति, यानि खलु दर्शनानि दृष्ट्वा अस्माकं जातिरतिप्राचीनतमेऽपि काले सुसभ्या सुमन्नता चासीदिति बलान्मन्यन्ते, तानि किल दर्शनशास्त्राणि भारतमेवाविर्भावयांबभूव। ये किल यूरोपादिदेशीया: प्राचीनदार्शनिका: समग्रेऽप्यात्मनो देशे दर्शनरहस्यं प्रचार्य कृतिनोऽभूवन् तेऽप्यस्माकं दर्शनानामृणिन:। मॉनियरविलियम्समहाशयो यस्य सिद्धान्ता: पाश्चात्यपण्डितानां गोष्ठीषु महत्त्वदृष्टयाऽवलोक्यन्ते, दर्शनशास्त्रविषये स्पष्टमभिप्रायं प्रकाशितवान्-'यूरोपस्य प्रथमदार्शनिकौ प्लेटो, पिथागोरसश्चेत्येतौ द्वावपि दर्शनविषये भारतवासिनां हिन्दूनां सर्वप्रकारेण ऋणिनौ स्त:’।
लैथब्रजमहाशय: स्वनिर्मितेतिहासे हिन्दूनां विषये पक्षपातपूर्णान् सङ्कीर्णान्विचारान्प्रकट-यामास, परं तस्यापि मुखादिदं नि:सृतम्-'दर्शनशास्त्रस्यादिगुरव: केवलमार्या एव’। अध्यापको मैक्समूलरो वक्ति-'यद्धि राज्यमुन्नतेरुच्चशिखरे स्थितं भवति, यस्मिन् राज्ये आन्तरिकाणां बाहीकानां च शत्रूणामक्रमणस्य किञ्चिदप्याशङ्का न भवति, यस्य राज्यस्य लोका धनसम्पत्त्या सहैव अनेकानि विद्यामन्दिराणि अनेकांश्च विश्वविद्यालयान् स्थापयित्वा सर्वा अपि विघ्नबाधा: पराहत्य विद्यानामालोचनायां मन: संयोजयन्ति तस्मिन्नेव सभ्ये समुन्नते च राष्ट्रे दर्शनशास्त्र-स्याविर्भावो भवति।
सर्वत: प्रथमं गगनमण्डलस्य वृत्तान्तो भारतीयैरेव प्रकाशित:। यां खगोलविद्यामवलम्ब्य पाश्चात्त्यै: साम्प्रतमतिशयितोन्नति: प्रकटिता सा विद्या भारतेनैव सूचिता संसारस्याग्रे। यत्कान्तिमण्डलं संस्कृतभाषाभिज्ञैर्भारतीयज्यौतिषिकैरन्विष्टं तत्खलु समग्रोपि संसार: सम्मानयति। चीनदेश:, अरबदेशश्च यज्ज्यौतिषविद्याया: प्रकाशं दर्शयामास सोऽपि भारतानुग्रहलब्ध एवेति सर्वैरेव गवेषकै: स्वीकृतम्।
यद्धि अङ्कगणितं समग्रेऽपि संसारे भारतवर्षस्य महत्तां प्रमाणयति तदप्यस्मिन्नेव देशे सर्वत: प्रथममाविरासीत्। कोल्ब्रुकपण्डितो निष्पक्षपातं साधितवान् यत्समग्राय जगते दशपर्यन्तां गणनामपि भारतवर्षमेव शिक्षयामास। कथयत, यो देश: अन्यान्यदेशवासिनो लोकानङ्गुलिपर्वणा-मुपरि 'एकं द्वे त्रीणि’ इत्यादि गणनामपि शिक्षयामास तस्य कीदृगासनमन्यान्यदेशानां संनिधौ? भारतवर्षस्येतिहासे सयुक्तिकमेतत्साधितं यत्-' अरबदेशवासिभि: सेयं विद्या हिन्दूभ्य: शिक्षिता। अत एवेमां विद्यां ते 'इल्म हिन्दसा’ (भारतवर्षीयां विद्याम्) वदन्ति।’ स्पष्टोऽयं घोषणाडिण्डिमो यदद्यावध्यपि आरब्या: पारसीकाश्च अङ्कान् 'हिन्दसा’ इति नाम्ना व्यवहरन्ति।
बीजगणितं यत्खलु एल्जब्रेति नाम्ना व्यवहरन्ति पाश्चात्यास्तदपि भारता-म्भोनिधेरुद्भूतमेकं रत्नम्। रेखागणितस्य तानि शुल्बसूत्राण्यस्मिन् देश एव प्रसूतान्यासन्। प्राच्यविद्यापण्डितो मॉनियरविलियम्समहाभाग: कथयति
''बीजगणितस्य रेखागणितस्य चाविष्कार:, ज्योतिषशास्त्रेण सह तस्य प्रथमं प्रयोगो हिन्दूनामेव द्वारेणाऽभूत्।’’ डाक्टर थीबोमहोदय: स्पष्टमभिप्रैति ''अखिलमपि भूमण्डलं रेखागणितस्य कृते भारतवर्षस्याधर्मर्णमस्ति, न यूनानदेशस्य।।’’
यद्धि सङ्गीतशास्त्रं सर्वदेशीयानां सङ्गीतशास्त्राणामपेक्षया प्राचीनं सुविस्तृतं पूर्णं च परिगणितं तदप्यत्रैव प्रोद्भवं लेभे। गानं रोदनं च सर्वोऽपि विजानातीति किंवदन्त्यनुसारं सर्वेष्वपि देशेषु सङ्गीतस्य प्रचारो नूनं भवेदिति वयमनुमिनुम:। परं यत्र बहूनां विभिन्नविभिन्न-वाद्यानां 'खं खं पंपं’ स्वरैरेव सङ्गीतव्यसनं निर्वाह्यते सोऽपि देश: सङ्गीतशास्त्रं जानातीति किं हृदयेन स्वीकुर्म:? तत्सङ्गीतमस्ति उत अज्ञहस्तपतितानां वाद्यानां करुणाऽऽक्रन्दनमस्ति! सङ्गीतस्य सोऽस्ति विलक्षणो महिमा येन जिघांसु हृदयमपि सहजमेव द्रुतं भवति। 'रागस्य’ कार्यमेव तादृशमस्ति यत्सोऽयमभिज्ञस्य अनभिज्ञस्यापि वा हृदयं तथाऽनुरञ्जयति यथा कस्मैचित्कालाय तद्धृदयं तस्मिन् रागरसे लीनं भवति। अत एव 'शिशुर्वेत्ति पशुर्वेत्ति वेत्ति गानरसं फणी’ इति प्राचीन: प्रवाद:। सोऽयं दृष्टान्त: सर्वत्र सुप्रसिद्धो यत्ताललयानुगतं वीणावाद्यं यदि प्रारभ्यते तदा ह्यारण्यका हरिणका अपि मुह्यन्ति। एवं यत्र सङ्गीतस्योन्नतिस्तस्यागे्र तत्सङ्गीतं कथं वा सङ्गीतपदयोग्यं भवेद् यत्र विभिन्नविभिन्नशब्दानां वाद्यानां समाहारमात्र-मभ्युपगम्यते।
मनुष्यहृदयस्यैकमात्रं परिष्कारकं सङ्गीतशास्त्रमिदं भारतेनैव प्रसूतं यस्य हि नारद-हनूमद्-भरतमुनिप्रभृतयो महान्त आचार्या आसन्। या स्वरलहरी विलक्षणमेकं नादं पुञ्जीकृत्य, नियतानां मात्राणामनुसारेण माधुर्यमवकिरन्ती प्रचलति तस्यां मात्राणां नियमनं यदि मनुष्यस्य कृतिस्तर्हि देवेभ्यो न सोऽतिरिच्यत इति वक्तव्यं स्यात्। अद्य हि भारतं सगर्वमुन्नमयेच्छिरो यदिदं दिव्यं सञ्जीतमत्रैवाविर्भूतमिति। कियन्तञ्चित् कालमारभ्य तदिदं सङ्गीतशास्त्रं संस्कृतविदुषां हस्तात्प्रच्युतम्, आसेवन्ते तदिदं भारतीया माहम्मदा एव बाहुल्येन। एते चाभिमानमत्ता: कथयन्ति कदाचित् 'यदिदं शास्त्रं यूनानदेशादेवोपलब्धं भारतीयै:। अस्माकमिदमाद्यं धनम्’। परं ते नैतिहासिका:, केवलं मुखमस्तीति वादिन:। एकदा ईदृशेनैव माहम्मदगायकेन सहाभून्मम संवाद:। अवददसौ यथाभ्यस्तम्- 'अस्माकमेवासौ विद्या। अवश्यं प्राचीनैर्हिन्दुभिरस्यां परिष्कार: कृत:’। मया प्रोक्तं 'खाँ साहब! यदीयं विद्या श्रीमतामेवाऽऽदिधनं तर्हि सप्तस्वराणामपि नामानि पारस्यभाषामयान्येव स्यु:। षरज-रिषभ गान्धारैत्यादीनि मन्ये पारस्यभाषामयान्येव नामानि। वसन्त-हिल्लोल-भैरव इत्यादिनामान्यपि मन्ये यूनानभाषा-मयान्येव।’ नासीदुत्तरं खाँ साहबसन्निधौ।
इदानीं दीयतां नाट्ये दृष्टि:। नाट्यविषयमादाय बहूनि वर्षाणि गवेषितं पाश्चात्यै: पण्डितै:। प्रारम्भत: पुत्तलिका नृत्यमादाय नाट्यस्योत्पत्तिरभूदिति बहूनां धारणा। तस्यापि सूत्रं वेदकालादारभ्योपक्रम्यते। ततो भारते नाट्यस्योन्नतिस्तादृगभूद्यामद्यत्वे समुन्नतोन्नतानि स्वतन्त्रराष्ट्राण्यद्यापि तुलयितुं नालम्। अहं पणबन्धपुरस्सरं शक्रुयां घोषयितुम्-यद्भाषान्तर-पक्षपातिनो दर्शयिष्यन्ति किञ्चिदीदृशं पुस्तकं यद्धि भरतमुनिप्रणीतं नाट्यशास्त्रं तुलयेत्? बहुभिर्वर्षैर्नाट्यशास्त्रविषये गभीरं गवेषयद्भि: पाश्चात्यै: किं कस्मिन्नपि देशान्तरे प्राप्तं नाट्यशास्त्र सब्रह्मचारि पुस्तकम्? तथ्यं त्विदं यन्नाट्यशास्त्रस्यास्य वस्तुतस्तत्त्ववेदितारोऽपि विरला एव भवेयु:। प्रलुप्त: किलैतद्विषय: प्राचीन: सम्प्रदाय:।
कोहल- नखकुट्टादीनां नाट्यशास्त्राचार्याणां बहव: प्राचरन् पुरा ग्रन्था: येषां नाममात्राणि साम्प्रतमलङ्कारग्रन्थेभ्य: समधिगच्छाम:। नाट्यमञ्चस्य पाश्चात्यैर्भूय: स्वरूपमुन्नमितं प्रवद्र्धितं चेति ते मनस्यभिमन्यन्ते किन्तु तेषां सभ्यताया जन्मतोपि पूर्वं भारतेन रङ्गमञ्चस्य कियान्परिष्कारो व्यधायीत्यस्य साक्षि केवलं भारतीयं नाटककदम्बकमेव। देवसभायां दिव्यैर्गन्धर्वाप्सरोभि: सोयं नाट्यमञ्च: प्रारभीति भरतोक्त्यनुसन्धानोत्तरं कति वा नाटकानि भारतेस्मिन् कविभि: प्रणीतानीति न कोऽपीयत्तया शक्नोति वक्तुम्। समर्थसमर्थै: कालिदासादिकविभिरपि नाट्यमञ्चोऽयं मण्डित: स्वकृतिभि:। भासादीनां पुरातनानि नाटकानि वर्तमानकालपर्यन्तं लुप्तान्यन्विष्य प्रचारितानि गवेषकैरिति को वा विलुप्तरत्नग्रन्थस्य भारतीयनाट्य-साहित्यस्येयत्ताप्रकाशनाभिमानं वहेत्?
अन्यदीयेषु साहित्येषु दृश्यकाव्यस्य नाटकादयो द्वित्रा एव प्रसिध्यन्ति भेदा: किन्तु भारतीयसाहित्ये अभिनेयानां काव्यानां नाटकप्रकरणभाणादयो रूपकनामानो दश प्रधानभेदास्ततो नाटिका-त्रोटक-गोष्ठी-प्रभृतीन्यष्टादशोपरूपकाणीति जातय एव भूयस्यो नाटकानाम् येषामव-लम्बनेनानन्ता ग्रन्था निर्मिता भारतीयै: प्राग्भि:। बहूनि रूपकाणि तु संप्रति नाममात्रतोऽनुमेयानि यानि हि साहित्यदर्पणे समुद्धृतानि ग्रन्थकृता। यथा-केलिरैवतक-मेनकाहित-सौगन्धिकाहरण-लीलामधुकर-पुष्पभाषित-देवीमहादेव-यादवोदय-स्तम्भित-रम्भ-नर्मवती-विलासवती-कन्दर्पकेलि-शर्मिष्ठाययाति-कुसुमशेखरविजय-बिन्दुमती-प्रभृतीनि।
यत्किलायुर्वेदशास्त्रमद्यापि भूमण्डलेऽतुलनीयं गौरवमावहति, यस्य च साहाय्येन समग्रेष्वष्यन्यान्यदेशेषु जीवयन्ति वैदेशिका: परोलक्षान् जनान् तदपि भारत एवाऽविरभूत्। बहवोद्र्धैतिहासिका जल्पन्ति यद्वैद्यकविद्या यूनानदेशाच्छिक्षिता भारतीयैरिति। सोऽयमेषां स्पष्टो भ्रम:। यूनानदेशे ह्यष्टमशताब्द्यां वैद्यविद्याया: प्राचारोऽभवत्, तस्मिन् हि समये हारुँ रशीद् भूपालस्य शासनमासीत्। अस्मिन्नेव समये अरबेषु चरकादिग्रन्थानामनुवादोऽभूत्। सर्वत: प्रथमं सेरापियन-नामाऽरबग्रन्थकार: चरकं 'जरक’ नाम्ना लिलेख। एविसेनस्तु 'सिरक’ नाम्ना व्यपदिदेश। रहाजेजो यो ह्यस्मादपि प्राचीनोऽभवत्स तु सरकेति नाम समुल्लिलेख। एभि: स्पष्टं ज्ञायेत यदष्टमशताब्द्यां भारतवर्षादेव यूनाने प्रचरिताभूद्वैद्यविद्या। डा. हण्टर महोदयस्यास्त्यन्वेषणम्-'अष्टमशताब्द्यां संस्कृतभाषातो यानि पुस्तकान्यनूदितान्यभूवन् तान्येवारबदेशे वैद्यविद्याप्रचारस्य मूलम्। सप्तदशशताब्दीपर्यन्तं योरपदेशवासिनो वैद्या अरबदेशीयानाम् (मूलतस्तु हिन्दूनाम्) नियमानन्वसरन्। अष्टमीं शताब्दीमारभ्य पञ्चदशशताब्दीपर्यन्तं यानि वैद्यकस्य पुस्तकानि निरमीयन्त यूरोपे तेषु चरकस्य प्रमाणान्युद्धृतानि’। मौलानाहालीमहाभाग: स्वयमेतदङ्गीकुरुते-' सर्वत: प्राचीनौ वैद्यकग्रन्थकारौ चरकसुश्रुतौ, ययो: कृति: सर्वत्र प्रचरिता। अन्ययोरनुवादो यदा ह्यरबेष्वभूत्तदैवारबदेशीया वैद्यकविद्याया-मनुरागिणोऽभूवन्।’
नीतिशास्त्रं तु भारतस्यैकमात्रं वस्तु। कौटिलीयमर्थशास्त्रं यस्य किल महत्त्वं परिमितादेव कालाज्जनैरवगतं तदप्यस्मिन्नेव देशे समुद्भूतम्। अपि कौटिलीयार्थं-शास्त्रसदृशं ग्रन्थं देशान्तरे शक्नुयान्निदर्शयितुं कश्चित्? एतस्य हि गुणगौरवं गायन्त: पाश्चात्या: स्पष्टं वदन्ति-'यस्मिन्काले तदिदमर्थशास्त्रं प्रादुर्भूतं तस्मिन्समये देशेष्वन्येषु एतावती सभ्यतैव नासीत्प्रचारिता, दूर निर्माणकलां भारते ह्यस्मिन्नैकैकं विषयमालम्ब्स पर: शतानि पुस्तकानि प्राणीयन्त प्राकृततै:। कियत्परिगण्यन्ताम्, नास्ति कोऽपि तादृशो विषयो यत खलु संस्कृतभाषाभाषिणां भारतीयानां मर्मस्पर्शिनी विचारकहरी न प्रवृत्तास्यात्। महागभीरं दर्शनविधयमारभ्य भोजननिर्माणं, गृहनिर्माणं, पटनिर्माणं, चित्रनिर्माणमित्यादि व्यावहारिकविषयपर्यन्तं सर्वेष्वपि विषयेषु पर:शता ग्रन्था व्यलेख्यन्ता येषु बहवो विनष्टा बहवो विनाशिताश्च वैदेशिकैराक्रमणैर्येषां नाममात्रमेवाऽस्माकं विदितम्। म्लेच्छराजानां शासनसमये बहुवारमस्माकं पुस्तकालया: पावकेऽदाह्यन्त। खिलजी नामकस्य म्लेच्छराजस्य सेनानायको मुहम्मदविनसामाख्य: पुरी-विहार-नालन्दा-बुद्धगयासु स्थितान्पुस्तकालयानदाहयदि स्पष्टमितिहासग्रन्थेषु। एवं बहून्वारान् बहूनां ग्रन्थरत्नानां ध्वंसे सत्यपि ग्रन्था: सन्त्यवशिष्टास्तैरेव मार्मिका अनुमान्ति यत्सर्वेष्वेव विषयेषु भारतीयानि मस्तिष्कानि पुरा प्रावर्तिषतेति। किं बहुना, कामशास्त्रेऽपि तत्तादृशानि पुस्तकानि सन्ति येषां साम्यं नाद्यापि देशान्तरेषूपलभ्यते। कामसूत्रं यद्धि वात्स्यायनमुनिप्रणीतमस्ति तादृश: सूत्रग्रन्थ: देशेन केनचिदन्येन कदाचिदुद्भावित:?
इदानीं काव्येषु दीयतां दृष्टि:। अस्माकं देशे ईश्वरदत्तप्रतिभावद्भि: कविभिस्तादृशानि काव्यान्युदभाव्यन्त येषां तुलना नाद्यापि कुत्रचित्कर्तुं शक्या। महाकवे: कालिदासस्य नाम को वा शिक्षितम्मन्यो न जानीयात् यस्य रघुवंशशाकुन्तलादिषु गेटेप्रभृतिपाश्चात्त्यानामपि लेखनी प्रमोदप्रमत्तेव स्वैरमुद्गायत्यभिनन्दनगीती:। कालिदासस्य भवभूते: सुबन्धोर्दण्डिनो माघस्य कुमारदासस्य —श्रीहर्षस्य भारवेर्बिल्हणस्य भर्तृहरेर्भल्लटस्य—अमरस्या—भिनन्दस्य बाणस्य त्रिविक्रमस्य क्षेमेन्द्रस्य जगद्धरस्य जयदेवस्य मयूरस्य राजशेखरस्य कविकर्णपूरस्य पण्डित-राजस्य जगन्नाथस्य कस्य कस्य वा नामान्युल्लिख्यन्तां नाम। अत्रत्या: कवय: कवितारचने तथा सिद्धहस्ता आसन् यथैते स्वल्पमप्यायासं न प्रतीयुर्नानाछन्दोनिबद्धानां कवितानां निर्माणे। अयं किल विशेषो भारतीयसाहित्यस्यैवास्ति यत् शब्दानामर्थबोधक: कोषोऽपि छन्दोनिबद्धायां कवितायामेवास्ति। पारस्य-भाषाकोषकारैर्यदात्मन: खालिकवार्यादय: कोषा: कवितायामुप-निबद्धास्तदेतदप्यस्मदनुकरणमिवेत्यन्वेषकाणां सिद्धान्त:। किं बहुना-धर्मविषयकपुस्तकान्यपि भारतीयसाहित्ये पद्यनिबद्धान्येव। नायं विशेषो भारतमिदमन्तरा कस्मिन्नप्यन्यदेशीयसाहित्ये समवाप्येत।
कियद्वा परिगण्यताम्। निखिलेऽप्यस्मिन् भूमण्डले सोऽयमस्माकं भारतवर्ष एव विद्यानां विषये सर्वतोऽग्रमी मार्गप्रदर्शकश्च। वराकैरन्यान्यदेशैर्यस्या नामापि कदाचिन्न श्रुतं स्यात्तामपि विद्यां विद्योतयामासुर्भारतीया एव। सूत्रनिर्माणविद्या यां हि पाश्चात्या 'एफारिज्म’ शब्देन व्यवहरन्ति, साक्षादियं भारतवर्षस्यैवैकमात्रं सम्पत्ति:। अस्या एव विद्याया आधारेण गृह्यसूत्राणि, ब्रह्मसूत्राणि, अन्यान्यानि च न्याय-व्याकरणादिसूत्राणि भारतेऽस्मिन् जन्म लेभिरे। दृश्यते हि देश-जाति-निर्विशेषं सर्वत्रैव स्वल्पैरक्षरैर्बह्वर्थ-प्रतिपादनकलाया: समादर:। पाश्चात्यपण्डिता अय्युच्चकोटेस्तमेव कविं परिगणयन्ति यो हि स्वल्पैरक्षरै: बहुतरमर्थं निबध्नीयात्। अस्यां विद्यायां भारतीयै: पण्डितै: परा काष्ठा प्रदर्शितेति निर्धारणीयं स्यात्तत्वतो विचारे। पणबन्धपुरस्सरं शक्नुयां वक्तुम् यदिदानीं तु समग्रेष्वपि यूरोपादिदेशेषु सभ्यतादेव्या: सुमहानालोक: प्रसृतोऽस्ति। अस्मिन्नपि समये, कोऽपि विद्वान् किं निदर्शयितुं शक्नुयाद् संक्षिप्ताक्षरेषु महागभीरार्थ-प्रतिपादकान् तादृशान्वैज्ञानिक-ग्रन्थान् यथास्माकं प्राचीना: सूत्रग्रन्था: सन्ति?
अपि सन्ति समग्रेऽपि भूतण्डले कस्मिन्नपि देशे कस्याञ्चिदपि भाषायाम्-'अर्थमात्रालाघवं पुत्रोत्सवमिव’ महोत्सवं मन्यमाना ग्रन्थकर्तार:? सामान्यतममेकमुदाहरणमुपस्थापयामि। संस्कृतव्याकरणस्य पाणिनिनिर्मितमेकं सूत्रमस्ति 'अदसोसेर्दादु दो म:’। अत्र ह्यष्टौ अक्षराणि सन्ति। किन्तु अष्टस्वेवाऽक्षरेषु षट् पदानि सन्ति अदस: असे: दात् उ द: म:। 'यस्मिन् अदस् शब्दे मकार: अन्ते न भवति तत्र, दकारादग्रेतनस्य ह्रस्वाक्षरस्य ह्रस्व उकार:, दीर्घस्य तु स्थाने दीर्घ उकारो भवति। किञ्च दकारस्थाने मकारो भवति।’’ एतावानर्थ एभ्य: षड्भ्योऽक्षरेभ्यो नि:सरति। पाणिनिसूत्रेषु बहुष्वेव पूर्वसूत्रेभ्य: कानिचित्पदान्याकृष्यन्ते, किन्तु स्वल्पकायेऽस्मिन् सूत्रे नैकमपि पदं पूर्वाकृष्टम्।
एवं कलानामपि विषये भारतस्यास्य भूरितमभूतिमत्त्वम्। कला: किल सभ्येष्वेव देशेषु जन्म लभन्ते इति हि युगेऽस्मिन्नतिप्रामाणिकतया प्रख्याता: पाश्चात्या एव प्रमाणयन्ति। व्यावहारिकसभ्यतया स्वच्छन्दं निरूढेषु सर्वव्यवहारेषु मनुष्यस्य प्रवृत्ति: सौष्ठवमनुधावति यद्धि कलानामुद्भवस्य मूलम्। ततश्चान्वेषणीयं स्याद् यद्भारतीया सभ्यता कियत्पुरातनीति। यस्मिन् समये भूमण्डलस्य सर्वा: अपि जातय: केवलं पानभोजनादि यथाजातधर्मानेव बहु मन्यन्ते स्म तस्मिन्नपि-समये भारतेऽस्मिन् तादृशं वैदिकसाहित्यमाविर्भूतं यत: पुरातनं च वैज्ञानिकं च गभीरं च साहित्यं न क्वचिदपि भूखण्डे श्रुतपूर्वम्। 'वेदेभ्य: पुरातनं वाङ्मयं न किञ्चिदद्यावधि समासादितम्’ इति विजेत्रभिमानिनो महानैतिका वैदेशिका अपि सङ्गिरन्ते। ततश्च साहित्येन सह सभ्यताया: सम्बन्धश्चेदभिमन्यते तर्हि सर्वत: पुरातनी सभ्यता वेदसाहित्योद्भावका-नामार्याणामधिगन्तव्या स्यात्। सभ्यतायां च प्रसृतायां कलानामङ्कुरा: स्वयमेवोद्भिद्यन्ते, इति तु प्रतिपन्नप्रायम्।
प्राचीनसाहित्यद्वारा आर्याणां कलासम्पन्नत्वानुमाने ये किल महोदया विमनायन्ते स्म तेषां कृते सम्प्रति प्रत्यक्षमेवोपस्थितम्। 'मौञ्जोदडो’ स्थाने यत्किल राजतन्त्रेण खननकार्यमार-म्भितमासीत्तत्र भूमिगर्भात्तादृशानि पुरातनवस्तून्यधिगतानि यै: किल भारतीया सभ्यता त्रिसहस्रवर्षेभ्य: पुरातनी स्वत एवाधिगन्तव्या भवेत्। मृत्कलशा: हस्तिदन्तसमुद्गका: धातुपत्राणि चेत्येवंविधा बहव: पदार्था: समधिगता: येषां किल प्रत्यक्षं कलाभि: सम्बन्ध:। तत: कथं प्राचीनार्याणां कलापटुत्वं नोपगन्तव्यं स्यात्?
किञ्च 'चतु:षष्टिकलानां’ प्रसिद्धि: बहो: पुरातनकालादस्ति भारतेऽस्मिन्। कलाश्चतु:षष्टिरिति परिगणनं च भारत एव श्रुतं, नान्यत्र कुत्रचित्। चतु:षष्टिकलानामियं चर्चा अतितमां प्राचीने 'ललितविस्तर’ ग्रन्थेऽप्युपलब्धा। कस्यापि व्यावहारिकपदार्थस्य साहित्यरूपे समावेशस्तदैव भवति यदा बहुकालं यावत्समाजे ़तस्य व्यावहारिक- रूपेण सुप्रचार: सुप्रसिद्धिश्च भवति। ततश्च 'चतु: षष्टिकला’ इति साहित्ये निवेश: सुस्पष्टं सूचयति यत्पूर्वं कलानामुद्भव:, ततस्तासां लोके परिग्रह:, तदनु तासां साहित्यिकरूपे सन्निवेश:, (यतो हि तासां चतु: षष्टित्वं परिगणितम्), इति हि भूयस: समयपरिवर्तनस्य परिणाम:। एवं च भारतेऽस्मिन् कलानामुद्भवो भूयस्तरां प्राचीन इति को वा नाभ्युपगच्छेत्?
***
द्वितीयोऽध्याय:
भारतस्य सीमा
जयपुरीयराजसभाप्रधानपण्डितविद्यावाचस्पति गुरुवरश्रीमधुसूदनशर्म महाभागै: 'इन्द्रविजयाख्ये’ भारतदेशाख्याननिबन्धे प्राचीनार्यदेशस्य पूर्वकालिकी सीमा एवं निरदिश्यत-
'पूर्वसमुद्रेत्याख्यो देशो य: पश्चिमाब्धिपर्यन्त:।
पूर्वोऽस्यार्यावर्त:, पश्चिम आर्यायणं भाग:।।’
एतदनुसारं पूर्वस्यामयमार्यावर्तो यथा पूर्वसागर-पर्यन्तं विस्तृतस्तथा पश्चिमायाम् अद्यत्वे 'ईरान’ इति प्रथितो भूभागोऽप्यार्यावर्त-भुक्त आसीद् यस्य यथार्थो व्यपदेश: आर्यायण इति। सोऽयं पश्चिम आर्यावर्त आसीत्। यस्य पश्चिम भारतस्य (आर्यायणस्य) भिन्न-भिन्न काले राजशासनानां भेदे सति-ओरियंस पारस्थान-खुरासानादिनाना विधान्यभिधानानि प्रावर्तन्त पुरा-
'इत्थं पश्चिमभारतमुक्तं क्वचिदीरियंस-सन्नाम्ना।
पारस्थानं क्वचन क्कचन खुरासानमीरानम्।।’ (इन्द्र.)
अद्य तु शासनभेदात् खुरासान (हिरात इति प्रसिद्ध:) पृथक्प्रान्त:, पारस्थानं पृथक्प्रान्त: इरानं च पृथक् किन्तु पुरा सर्वोऽप्ययं पश्चिम आर्यावर्त आसीत्। यतो ह्यासीत्पुरा भूगोलशास्त्रानुसारं देशविभाग:। प्राचीनार्यशास्त्रे भारतवर्षं 'भूतवृत्तपाद’ रूपम्। ततश्च पूर्वस्यां चीनसमुद्रमारभ्य पश्चिमतो लोहितसमुद्रपर्यन्तं प्राचीनभारतवर्षस्य सीमा। सिन्धो: प्राच्यां दिशि य: समुद्रस्तत्र 'फारमोसा’ पर्यन्तं प्राच्यभारतम्। सिन्धो: पश्चिमायां च विलोचिस्तान-अफगान्स्थिान-ईरान-मेसोपोटेमिया-अरब-एतदुत्तरं यो लोहितसागरस्तत्पर्यन्तं पश्चिमभारतम्। वैदिकभारतस्य पुरा भूमि-मानुषलोक-मध्यलोक इत्यासन्नाना व्यपदेशा:। द्वात्रिंशाक्षांशात्पूर्वं तदिदं भारतं पृथ्वी, एतदुत्तरं सप्तत्रिंक्षाशादुत्तर: स्वर्गलोक इति तद्विभाग:।
अयं भारतवर्षो दक्षिणोत्तरत: सहस्रयोजनपरिमित इति पुराणसंहिता-
योजनानां सहस्रं तु द्वीपोऽयं दक्षिणोत्तर:।
आयतस्तु कुमारीतो गङ्गाया: प्रवहावधि:।। (इति मत्स्ये)
मार्कण्डेयपुराणेऽपि भारतस्य सीमाऽऽख्यानम्, आकारश्चैवमुपलभ्यते-
'दक्षिणेऽपरतो ह्यस्य पूर्वेण च महोदधि:।
हिमवानुत्तरेणाऽस्य कार्मुकस्य यथा गुण:।।’
पश्चिमो योऽयमासीदार्यावर्तस्तस्य सीमा सम्प्रति सुतरां सङ्कुचिता। ओरियंस-पारस्थान-खुरासान (हिरात) ईराननाम्ना सम्प्रति प्रथिता: प्रदेशा: पुरा आर्यावर्तपश्चिमभागान्तर्गता आसन्। ते सम्प्रति भारतात्पृथग् भूत्वा पृथग् देशा: सम्पन्ना:। एवं च आर्यावर्तस्य पश्चिमसीमा यथा यथा संकुचिताऽभवत्तथा तथा ह्यार्याणां निवास: पूर्वस्यां दिशि प्रचुरं प्रासरत्। परिणामोऽस्य सोयमभूद् यद् भारतस्य पूर्वस्यां दिशि (अर्थात् भारतस्य पूर्वसीमातो बहि:) ये देशा अनार्य- वासत्वेन प्रथितास्तेष्वपि शनैरार्याणां प्रसारोऽभवत्। पूर्वं मगधा अनार्यवासा आसन्, शनैस्तेष्व-प्यार्याणां प्रसृतिरभूत्। कुरुराजस्य दुर्योधनस्य समयेऽङ्गराज्यमपि आर्यावासेषु पर्यगण्यत। इत: पश्चिमप्रान्तीया आर्यावर्तस्य देशा भारतात्पृथग् भूत्वाऽन्यशासने समगच्छन्त। पुरा येषु प्रदेशेष्वा-सीदार्याणामधिकार: प्रास्फुरच्च वैदिकी पताका, त एव देशा: शासनान्तरमुपलभ्य देशान्तररूप-मधारयन्। अत एव पश्चिमत: पूर्वस्यां दिशि प्राचीनार्याणां शनै: प्रसारं दृष्ट्वा बभूव पाश्चात्य-गवेषकाणां भ्रमो यदार्या अन्यस्मात् कस्माच्चन देशात् प्रस्थाय भारतमागता इति। भारतागमनात् पूर्वं यस्मिन् प्रदेशे आर्याणामावासस्तै: साध्यते सोऽप्यार्यावर्तान्तर्गत:।
एतद्विषये प्राचीनै: पण्डितै: प्रसङ्गवशतो निजाभिप्राय: समये समये प्रकटीकृत एव तत्तद्ग्रन्थेषु। नाधिकमभ्यूहस्य विषय:। 'आर्यविद्यासुधाकरे’ यज्ञेश्वरभट्टेन साधितस्तावत्-प्राचामार्याणां निवासोऽयमार्यावर्त एवेति। अधुना सत्यव्रत सामश्रमिमहाभागेनापि 'ऐतरेयालोचने’ सोऽयमवतारितो विषयो महता गवेषणेन। किन्तु विजेतृनीतिवशा: पाश्चात्त्या: प्राहुर्यन् मध्यैशियात: समागमन् भारतमिदं प्राञ्च आर्या इति। पाश्चात्यशिक्षयैव प्रेरितप्रतिभानां बहूनां भारतीयानामपि यूरोपीय-पण्डितानां मन्त्रोपदेशतो बभूव धारणा यद् भारतीया आर्या बहिस्त एव समागता इति। एतद्विरोधे भारतीयैरन्वेषकैर्बहु प्रयतितं साधितं च। लोकमान्येन तिलकेन यूरोपीयाणां मतं निरस्य सुमेरौ स्थितिरार्याणां साधिता। सामश्रमिमहाभागेन 'एशियाटिकसोसाइटी’ द्वारा मुद्रापिते 'ऐतरायालोचने’ आर्यावर्त एव संस्थितिरार्याणां सर्वत: समर्थिता। किन्तु गुरुमन्त्रदीक्षितानामाङ्गलभाषाशिक्षितानां नैतेषु तथ्येष्वभूदवधानं किञ्चित्। साम्प्रतं तु बाबूसम्पूर्णानन्दमहोदयेन 'आर्यों का आदिदेश’ नामके हिन्दी पुस्तके साधिता सर्वै: प्रकारैरार्याणां मूलनिवासिता भारतवर्षस्येति किं वा सम्प्रति प्रतिपद्येरन्नवशिक्षिता:? पण्डितानां संस्कृत-भाषानिबद्धा गवेषणा न तेषां दृष्टौ प्रविशति चेत्संप्रति तु आङ्गलभाषापण्डितेनैव तदिदमन्विष्टम्। किमिदानीमपि परमगुरूणां पाश्चात्यानां स्वल्पोऽप्युक्तिविरोधो न श्रद्धेयस्ते?
***