तृतीयोऽध्याय:
भारतवैभवम्
आर्याणामावास:
कथयन्ति पाश्चात्या यत् ''आर्याश्चतु:सहस्रवर्षेभ्य: पूर्वमुत्तरपश्चिम- कोणाद् भारतमाविशन्। इत: पूर्वमिमे 'मध्यैशिया’ मध्यवसन्। जनसंख्यावृद्धौ खाद्यसामग्रीन्यूनतया क्लिष्टा इमे संघश इतस्तत: प्रासरन्। य: संघ: सुदूरपश्चिमं प्रति प्रावसत् तत्संतति: साम्प्रतिकयूरोपराष्ट्रनिवासिन:। ये च तावदीरानं भारतं च प्रातिष्ठन्त तद्वंशजा: ईरानीया भारतीयाश्चार्या: समभवन्। भारते समुपेतानामेषां विशेष- परिस्थितिवशाद् यो वै सभ्यताया: संस्कृतेश्च विकासोऽभवत् स एवाग्रे हिन्दूसंस्कृतौ सभ्यतायां च पर्यणमत। भारतीयाशाखाया अमुष्या: संस्कृतिसर्वस्वं वेदा: तत्रापि विशेष ऋग्वेद:। एष हि न केवलमार्याणाम्, अपि तु पृथिव्या: सर्वत: पुरातनो ग्रन्थ:। एतेन हि प्राचीनार्याणां चतु: सहस्रसंवत्सरपुरातनं जीवनं भूयसाऽवगम्यते’’।
संस्कृतपण्डितानामासीदारम्भादेव दृढो विश्वासो यत्प्राचीनार्याणामिदं भारतमेवासीदादिमं स्थानम्। परं तदिदमेतेषां मानसे वाक्प्रवाहे वाऽऽसीत्। नैतत्पुष्टये एभि: कानिचित्प्रमाणान्यन्विष्टानि यै: परिपन्थिन: परितुष्येयु:। न वा मध्यैशियात: प्रोषितत्वसाधनाय पाश्चात्यैर्या युक्तय: प्रदत्तास्तासां खण्डनमेव विहितम्। बहवस्त्विदमप्यपवदन्ते यत्प्राक् पण्डितानामेतद्विषये दृष्टिरेव नासीत्। किन्त्विदमंशत: कामं सत्यं भवेत्, परं सर्वथा सत्यतां स्वीकर्तुं न कथञ्चिदुत्सहामहे। संस्कृत-पण्डितैरार्याणां भारतनिवासित्वे प्रकाशितमात्मीयमभिमतम्, किन्तु येन प्रकारेण पाश्चात्त्यानां कर्णगोचरमिदं स्यात्तथा नासीत्साधनं पुरा तेषां सविधे। यज्ञेश्वरपण्डितेन 'आर्यविद्यासुधाकरे’ वेदद्रष्ट्रगणामार्याणां भारतनिवासित्वे दत्तमात्मनोऽभिमतं किन्तु तदर्थमावश्यका उपपत्तयो नोपन्यस्ता:।
अस्मिन्विषये पाश्चात्यपरिबोधनोचितं यदि केनचिद्भारतीयेन लिखितं तहर््यसौ लोकमान्यो बालगङ्गाधरतिलक:। अनेन 'दि आक्र्टिक होम इन दि वेदाज्’ पुस्तके यद्यपि संस्कृतपण्डितानां मतस्य पुष्टिर्न कृता परं प्रचलितस्य पाश्चात्त्यमतस्य खण्डनमवश्यं विहितम्, समञ्जसं च विहितम्। तन्मतस्य सोऽयं सारांश:-
आसीत्सोऽपि समयो यस्मिन्नुत्तरीयध्रुवप्रदेशस्याञ्चलो मनुष्याणां निवासयोग्योऽभूत् यो हि साम्प्रतं नास्ति तथा। आर्याणामादिदेश: स एवाभूत्। समयविपर्ययेण हिमस्य तज्जनितशैत्यस्य च प्रकोपे प्रवृद्धे शनैश्शनैस्ततो निष्क्रम्य केचिद्यूरोपे केचिदीराने केचिच्च भारते समागत्य उपन्यविशन्। तन्मतेन वैदिकसभ्यताया: प्राचीनता प्रायो दशसहस्रवर्षानुमिता पर्यवस्यति।
पाश्चात्त्यपण्डितैस्तिलकस्य प्रगाढपाण्डित्यस्य प्रशंसाऽवश्यं विहिता किन्तु न तन्मतं तैरभिमतम्। अत्र हि पाश्चात्यानां गूढा, प्रयोजनप्रवणा प्रकृतिश्च तान्विवशीकरोति। सम्प्रति तदिदं रहस्यं बहवो नवशिक्षिता अपि ज्ञातुं प्रभवन्ति। यदा हि विजेतृभिर्गूढोऽभिसन्धि: प्रकटित:-'यथा यूरोपादिजातयो बहिर्देशेभ्य: समागत्य भारतमध्यवसन् तथैवार्या अपि बहिस्त: समागत्य भारतमध्यतिष्ठन्, को वा तेषां नवीनोऽधिकार:’ इति, तदा ह्येतेषामुन्मीलितं सुप्तं चक्षु:। पाश्चात्य-गुरूणां कर्णफूत्कृतमुल्लङघ्य प्रारब्धो नवीनशिक्षितैरप्येन्वेषणप्रयत्न:। अस्यां दिशि सर्वत: प्रथमो लेखक: स्वर्गीय: श्री अविनाशचन्द्रदास एव हि प्राचीनभारतीयपण्डितानां मतं समर्थयमान: 'ऋग्वेदिक इण्डिया’ पुस्तके प्राचामार्याणां समर्थयामास भारतीयतामेव। अत्र हि भूगर्भशास्त्रानुसारं प्रमाणितैरनुसन्धानै ऋग्वेदकालिकीमार्याणां स्थितिं भारते एव संघटमानां साधितवान्।
ततोऽद्यावधि लोके प्रकाशितं प्रतिकूलमनुकूलं चोभयविधं पाश्चात्त्यानां भारतीयानां च साहित्यं सम्यक्परिशील्य राष्ट्रीयमहासभाया: (कांग्रेस) प्रधानमंत्री सुप्रसिद्धो नेता बाबूसम्पूर्णा-नन्दमहोदयो लिखितवान्-'आर्यों का आदिदेश’ नामकं हिन्दीग्रन्थं यत्राऽद्यावध्युपलब्धै: प्रमाणै: साधितवान् यद्-'आर्याणां निवास: प्रारम्भादेवासीदस्मिन्नर्यावर्ते एव। तस्यायं सार: किञ्चित्-
ऋग्वेदे नदीनामासाम् (सिन्धु, विपाशा, शतद्रु, वितस्ता, असिक्नी, परोष्णी, सरस्वती) मुहुर्वर्णनेन साप्तसिन्धवनाम्नि देशे तेषामासीन्निवास इति ज्ञायते। इमा नद्यश्च भारतं विहाय नान्यत्र कुत्रचित्। अत एव नदीभिराभिर्जुष्टे (सप्तसिन्धवे देशे) भारतैकदेशे तेषां निवास: स्पष्टं परिज्ञायते। येषामार्याणां वंशजा वैदिकदेवतोपासका अद्यत्वे प्रसिद्धा भारतीयार्या आसन् तेषामेवैकशाखीया अन्येऽप्यार्या आसन्, तेऽपि मित्रवरुण-अग्न्यादि देवानस्तुवन्नपूजयंश्च। किन्तु पूर्वोक्तेषु आर्येषु शनैर्विकासे सति 'इन्द्र:’ देवानां प्राधान्यं भेजे। द्वितीयशाखीयानां (मित्रवरुणादिपूजकानां) प्राचीनता तादृश्येव, किन्तु ते तं विकासं न बहु मेनिरे। अत एव न ते इन्द्रं मानयामासु:। शनै: शनैर्मतभेदस्य जन्म भूत्वा परस्परं स्पद्र्धा, निन्दा, मात्सर्यम्, संघर्ष: विरोधश्चाऽज्ञायत। आद्यशाखया इन्द्रोऽभिमतस्तर्हि द्वितीयशाखया स विमत:। एका शाखा सुरं (देवम्) उत्कर्षभूमिं मन्यते तर्हि तत्प्रातिद्वन्द्व्ये, अन्यशाखायाम् 'असुर:’ (दैत्य:) उत्कृष्ट: पूज्य: परिगण्यते। अवश्यमिमौ पक्षौ द्वावपि भ्रातरौ। एकत्रोत्पन्नौ देशभ्रातरौ (अत एव हि अदितेरुत्पन्ना देवा: सुरा, दितेरुत्पन्ना दैत्या असुरा:। किन्तु द्वावपि वैमात्रेयभ्रातरौ समानबलौ च)।
शनै: शनैरयं संघर्ष: संप्रवृद्ध्य युद्धस्य रूपं जग्राह। यस्य परिणामो देवासुरसंग्रामो यो हि समानबलानां भ्रातॄणामासीत्। अत एव जयपराजययोस्त्वरितम-सम्पत्त्या भूयांसं कालं प्रावर्तत, भयङ्करं हानिप्रदं च रूपं भेजे। अयमेव देवासुरसंग्राम: (आर्याणां भिन्नशाखीयभ्रातृभि: संघर्ष:) ऋग्वेदमारभ्य पुराणसंहितासु तदनुगामिषु वा साहित्यादिषु च भारते प्रसिद्धिं प्राप। अग्रिमित्र-वरुणादि-देवोपासका: सुराणामुत्कर्षवादिनो वेदप्रवर्तका ऋषिवंशजा: प्रारम्भिका आर्या: 'इन्द्र’ (नवविकसितशक्ति) पक्षपातित्वादुत्तरोत्तरं स्वदेशे उत्कर्षं स्थितिदाढ्र्यं च भेजु:। नवविका-सस्याऽपक्षपातिनोऽन्यशाखीया ये पूर्वेषां प्राप्तिद्वन्द्व्येन 'असुराणाम्’ उत्कर्षं ख्यापयन्तस्तेषामेव अग्रिमित्रवरुणादिदेवानां स्तावका: संघर्षवशात् 'सुरान् देवान्’ निनिन्दु:। असुरान् (असून् प्राणान् रान्ति तान् अर्थाद् बलवत:) प्रशशंंसु:।
सोऽयं देवासुरसंग्राम: परस्परमार्याणां संघर्ष:। सुराणामुत्कर्षख्यापका: इन्द्रपक्षपातिनो वैदिका आर्या:। असून् रान्ति तेषां बलवतां कीर्तिगायकस्त इमे (आवेस्ताग्रन्थकीर्तिता:) ईरानजा: पारसीका आर्या:। पक्षद्वयभुक्तानामेषामेव 'इन्द्र’ नाम्नीं नवविकसित-शक्तिमादाय परस्परसंग्राम: समानबलतया दीर्घकालं चचाल। अन्ते ऋग्वेदादिग्रन्थानुसारं देवानाम् (वैदिका-र्याणाम्) विजय: अन्येषामनिन्द्रपूजकानां पराजय: प्रत्यफलत्। तत्कारणात् इन्द्रमस्वीकुर्वन्तो विरोधवशेनाऽस्माद् देशाद्बहिर्जग्मु:। इन्द्रपूजका वैदिकाश्च निजादिमदेशे (साप्तसिन्धवे) दृढीभूता बभूवु:।
एकादिमदेशत्वात् आर्यत्वे समानत्वाच्च द्वयो: संवादिनी भाषा। समाना देवा:। किन्तु देशपरित्यागात् जलवाय्वादिभेदसंघटनया असुरमहत्त्वख्यापनाच्च द्वयोर्दलयोरभूद् भेद:। अतोऽन्यदलीया ''मृध्रवाच’’ उक्ता:।
ईरानदेशे मित्रस्य 'मिथ्र’, वरुणस्य 'वरन’, सोमस्य 'होम’, सकारस्य हकारोच्चारणेन सप्त 'हफ्त’, सिन्धु 'हिन्दु’, विवस्वत: पुत्रो यम: 'विवहवत पुत्रो 'यिम’ इति पुरा उच्चारणभेद: पप्रथे। ततश्च प्राचीनेरानवासिन: (पारसीका:) साप्तसिन्धववासिनो वैदिकाश्च भ्रातर: परस्परम्। एके विजयशालित्वात्तत्रैव (सप्तसि.) तस्थु:, अपरे बहि: (ईरानादिषु) जग्मुरिति देवासुरसंग्राम-परिणाम:। अनेन अतिप्राचीन 'आवेस्ता’ ग्रन्थेनापि स्पष्टं सूचितं भवति यदार्याणामादिमनिवास: सप्तसिन्धुदेशेऽभूत् न चैते कुतश्चिद् बहि: स्थानादागता:। इत: पूर्वं साप्तसिन्धवे कुत आगता इति तु नासीदृग्वेदवर्णितानामार्याणां विदितम्।
पारसीकानामतिप्राचीनार्यत्वं समकालिकसभ्यत्वं च भाषाया बहुतरसाम्येन बुध्यते। जेन्द भाषया लिखितस्य 'आवेस्ता’ ग्रन्थस्य गाथाद्वयं नीचै:-
'ह्यत ता ऊर्वाता सशया या मजदाओ ददाता रवीति चा अनीति चा-------अत ऐपि ताईश अंघहती अश्ता१’ (गाथा)
'अस वे सवे्रम मज्दा यथा वाओ हख्मी--------परे वक्खेदा यथा ऊर्वैद्यास--- अवैमी पैति।
१. मज्द ने हमको दो आत्माएँ दीं। इनमें से जो ऊँची आत्मा है वह अनीति की ओर ले जाती है और जो नीची आत्मा है वह अनीति की ओर।
२. हे माज्द हमको सिखाओ कि वह कौन सा उत्सर्ग कौन सा धैर्य कौन सा वैराग्य है जो हमको तुमसे मिला दे और आत्मा ज्ञान करा दें।
आभ्य: सप्तसिन्धुभ्योऽतिरिक्ता:- दृषद्वती-तुष्टामा-सुसर्तु-रसाश्वेती-कुभा-गोमती-मेहत्नु-क्नुमु-इति।
सिन्धोर्नाम सुषोमा, विपाशायाश्च आर्जिकीयेत्यपि प्राप्यते। ऋक् १०-७५-५, गङ्गायमुनयोरपि प्रसङ्ग उपलभ्यते। किन्तु वर्तमानकाले यथा गङ्गायमुनयोर्महत्त्वं तथा पुरा सिन्धुसरस्वत्योरासीत्। स्थाने-स्थाने सिन्धोर्विद्यते वर्णनं तत्रापि सरस्वत्यास्तु वर्णनं काव्यस्येव अत्यलङ्कृतम्।
सप्तसिन्धवस्य उत्तरतो हिमालय:, तत उत्तरमेक: समुद्रो यो वर्तमानतुर्किस्थान-स्योत्तरसीमामारभ्य पश्चिमायां कृष्णसागरपर्यन्तमगच्छत्। एतस्याप्युत्तरं भूमिरासीद् या उत्तरधु्रवपर्यन्तमगात्। दक्षिणत: समुद्रो यत्र सम्प्रति राजपुत्रप्रदेश:। अयं समुद्रस्तावत्पर्यन्तमगच्छद् यत्राधुना अरावलीपर्वत:। अयं पश्चिमायां अरबसागरेण समगच्छत पूर्वस्यामप्येक: समुद्रो यो हिमालयस्योपत्यकाया अधस्तात् युक्तप्रान्तं विहारं चाप्लावयत् आसामपर्यन्तमगच्छत्। पश्चिमायां सुलेमानपर्वत:, अत्रापि पर्वतस्याधरस्तात् समुद्रस्यैका सूक्ष्मा रेखाऽऽसीत्।
उपर्युक्तं वर्णनमवश्यं विलक्षणं प्रतीयेत। सोयं सप्तसिन्धवप्रदेश: स एवासीद् योऽधुना पञ्चाम्बुकाश्मीरनाम्ना प्रसिद्ध:। नास्ति तत्सविधे कुत्रचित्समुद्रस्य सन्धानम्। परमुपरिलिखित-सीमानुसारम्-उत्तर-पूर्व-दक्षिणेषु किञ्चित्पश्चिमे चेति चतुर्भागेषु समुद्रेणावृत:। ऋग्वेदकालिक-मानचित्रेणेदं स्पष्टीभवेत्। यतो हि कालस्य तावानन्तरो जातो येन भारतस्य भौगोलिकस्थितौ समघटत बहुतरं परिवर्तनम्।
भूगर्भशास्त्रमेतस्य परिवर्तनस्य समर्थकम्। एतस्य स्पष्टीकरणमिह तावदनावश्यकम्, परन्तु वैज्ञानिकैस्तदिदं स्वीकृतं यद् विन्ध्यादिप्राचीनपर्वतापेक्षया हिमालयो नवीन:। यदा हि हिमालयो बहिरुत्थितस्तदा तदध: समभूद्गर्त: यो हि कतिसहस्रवर्षैरपूर्यत। तावत्पर्यन्तं गङ्गा-यमुनादयो लघीयस्यो नद्योऽभूवन्। किन्तु गर्ते पूरिते यथैव समुद्रो दूरमगच्छत् तथा तथैव ता अपि अग्रगामिन्योऽभूवन्। एतावत्किल, यथा यमुना गङ्गया संगता गङ्गा च समुद्रेण सङ्गतुं गङ्गासागर पर्यन्तं प्रायात्। समुद्रे अपसृते एव, ब्रह्मपुत्रनद:। आसाममार्गेण वङ्गानागत्य गङ्गयाऽमिलत्।
इतो राजपुत्रस्य समुद्रोऽशुष्यत्। पूर्वं सरस्वती अत्रैव समुद्रेऽपतत्। यथा यथा समुद्रोऽऽ शुष्यत् तथा तथाऽत्र बालुका उदभवत्। पूर्वं यां मृत्तिकां नद्यो हिमालयादानयन् तया युक्तप्रान्त-विहार-वङ्गा: प्रादुरभवन्। परन्तु दक्षिणे नासीदीदृक् साधनम्। अत एव नाऽपतन्मृत्तिका। पानीयाऽधस्तनी बालुकैव केवलमशिष्यत, यस्य सागरस्य स्मारक: 'साँभरह्रद:’ साम्प्रतम्। सरस्वती या कस्मिंश्चित्समये महानद्यासीत् सा अतिलघीयसी समभूत्। सा हि राजपुत्रस्य बालुकाप्रदेशे विलुप्यतेऽपि। नाममात्रशेषा संप्रति सरस्वती। घग्घर नाम व्यपदिश्यते, किन्तु तदिदं नाम दृषद्वत्या अपि कृते व्यवहिृयते। आस्तिका: केवलं संतोषयन्त्यन्त:करणं यद् अन्त:स्रोता: सरस्वती प्रयागे त्रिवेण्यां वर्तमानेति।
उत्तरदिग्गत: समुद्र: शुष्क: सम्प्रति। तस्य स्मृति: कास्पियनसागर-अरबसागर-तत्प्रदेशीयैरन्यैर्महाह्रदैश्च सांप्रतमपि वर्तमाना। यत्र पश्चिमसमुद्र: सुलेमानपर्वतं यावदगच्छत् तत्र सिन्धप्रान्तस्यैको भागोऽवसत्।
पाश्चात्या गवेषकविद्वांस: कथयन्ति यत्प्राचीनार्याणां समुद्रस्य नासीत्परिचय:। यत्किञ्चिद्वर्णनं यत्रकुत्रचित्लभ्यते तद्धि श्रुतप्रायम्। किन्तु उपरिप्रोक्तानुसारं सप्तसिन्धवं परित: प्राय आसीत्समुद्र एव, आर्यास्तावत्पर्यन्तं पर्यजानंश्च। पाश्चात्त्या: कथयन्ति यत्कर्णाकर्णिकया समुद्रकथा तै: श्रुता। किन्तु ते सीमारूपेण समुद्रमजानन्निति वेदतो विद्म:-
'वातस्याश्वो वायो: सखा यो देवेषितो मुनि:।
उभा समुद्रावाक्षति यश्च पूर्व उतापर:।’ १०/१३६/५
कुत्रचिच्चतु:समुद्राणामपि निर्देश:। यथा-राय: समुद्रांश्चतुरोऽस्मभ्यं सोम विश्वत: आपवस्व सहस्रिणा।। (ऋ. ९ -३४-६)
अस्तु, स्थाने स्थाने स्पष्टीभवति यत्प्राचीनार्याणामासीत्प्रचुर: परिचय: पयोधीनाम्। एभि: सप्तसिन्धवदेशमावसद्भि: पूर्वो दक्षिणश्च समुद्र: प्रत्यक्षीकृत:। एतेषां सम्मुख एव गङ्गा धारा शनै: पूर्वाभिमुखाभवत्। शनै: शनैश्च समुद्राणां स्थाने मनुष्याणामावासयोग्या भूमिरभूत्। वेदमन्त्राश्च न्यूनान्यूनं १६-१७ सहस्रवर्ष पुरातना:। ते च स्वस्मादतिपुरातनस्य समयस्य सङ्केतं कुर्वन्ति। पितृणां वर्णने ते कथयन्ति यत् प्रमीतानां तेषां तावान् समयो व्यतीतो यावता ते पूर्वजा: सन्तोऽन्येषां पथिकृत: (यमसदने गामिनो मार्गस्य निर्देशका:) अपि जाता:। यथा-
'नम ऋषिभ्य: पूर्वजेभ्य: पूर्वेभ्य: पथिकृद्भ्य:’
(ऋ. १० मण्ड., सूक्तं-’१४)
किं विस्तरेण अस्मिन् सूक्ते एवंविधपितृणामाख्यानमस्ति येषां शरीरत्यागस्य स्मरणातीतो व्यतीतोऽनेहा। एते हि देवै: सह साम्यमवापु:, मार्गकाराश्चान्येषां संवृत्ता: एतेन स्पष्टं शक्यमनुमातुं यद् यदा इमे मन्त्रा: प्रोदचार्यन्त ततो न्यूनान्न्यूनं दशसहस्रवर्षाणां पुरातनं समयं सूचयन्ति स्म।
सर्वस्य संक्षिप्तो निष्कर्ष:- अद्यत: पञ्चविंशतिसहस्रवर्षेभ्योपि पूर्वमार्या: साप्तसिन्धव-देशे न्यवात्सु:। पूर्वं पाश्चात्या भारतीयसभ्यताया मूलं मिश्रदेशस्य सभ्यतां जगु:। यतो नास्मिन्देशे तत्कालस्य स्मारकं प्रमाणं किञ्चित्। परं 'मोहेञ्जोदडो’ (सिन्धुभाषया मृतानां स्तूप:) 'हरप्पा’ प्रदेशस्य खननकार्ये यानि वस्तून्युपलब्धानि तैर्भारतस्य सभ्यता षट्सहस्रवर्षेभ्य: पुरातनीं स्वीकुर्वन्ति विप्रतिपन्ना अपि। तादृशकलानां विस्तारे अवश्यं कियान् कालोऽपेक्षित:। ततश्च मौर्यकालिककलाया: पितृत्वगवेषणार्थं ईरानं प्रति गमनस्य नाऽपेक्षा। पूर्वे यूरोपीया: सभ्यताविकासं सर्वत: पूर्वं मिश्रेऽमन्यन्त परं सम्प्रति तदिदं सर्वमान्यमभूद् यत् ईराकप्रदेशे सभ्यताया: प्रारम्भो मिश्रतोऽपि पुरातन:। ईराकस्य पुरातनी सभ्यता सुमेर-अक्काद (शुमीर (सुमेर) अक्कादेति ईराक केन्द्र पर्यन्तं विस्तृता सभ्यतेति प्रथिता। किन्तु गवेषकै: सर्वतो विलक्षणं यत्तत्त्वमाविष्कृतं प्रदेशस्य भग्नावशेषा ये सम्प्रति खातास्तेषां सभ्यता महेञ्जोदरो सभ्यतातो भूरि भूरि संवदते। गृहस्थापत्यम्, मूर्तय:, मुद्रा:, भाषा:, अन्यत्किं बह्वीनां व्यक्तीनां नामान्यपि संवदन्ते। एतेषामेक उपास्य: ''इन्दुरु’’ इन्द्रेण संवदते। किमधिकम्, वेदे जर्फरी, तुर्फरीत्यादय: शब्दा अद्यावध्यासन्नस्पष्टार्था:। अन्वेषकाणां सम्मतिर्यद्वयं केवलमद्यावधि भारतमेवान्वेषयामो, न बहि:। इमानि हि ईराकस्य प्राचीननदी-पर्वतादीनां नामानि। यद्यार्याणामेका शाखा तस्मिन् समये भारते (साप्तसिन्धवे) आसीत्तह्र्यन्या ईराके आसीत्। द्वयोश्चासीत्संपर्क:, अत एव वेदे द्वयोरेव इतिहासोपलब्धि: (एवंविधान्वेषकेषु भारतीयेषु अध्यापकप्राणनाथ विद्यालङ्कार:)।
एवं किल प्राचीनार्याणामार्यावर्तनिवासित्वमेव, न पुनर्बाह्यात्स्थानादत्रागन्तुुुुकत्वम्। अत्र हि बहव: संस्कृतपण्डितानाक्षिपन्ति यत्-' संस्कृतपण्डितैर्नात्र विषये लेखनी स्पृष्टा। प्रत्युत यैर्बालगङ्गाधरतिलकमहोदयादिभि: पाश्चात्त्यानां— प्रातिद्वन्द्व्ये यत्किञ्चिल्लिखितं तत्रापि -'बाल (बालगङ्गाधर) सिद्धान्तस्तु बालसिद्धान्त एव’ इत्यवहेलागर्भमेवाऽऽभाषितम्। अत एव नवीनैर्बहुभि: संस्कृतज्ञानां विषये निर्धारितं यन्नेमे एतद्विषये किञ्चित्स्वमतं रक्षन्ति, किं बहुना, प्रश्नस्यास्य गूढं महत्त्वमपि नेमे विदन्तीति। किन्तु नेदं कथमपि तथ्यम्। संस्कृतपण्डितै-रारम्भादेव संभाषितं यदार्याणामादित एव भारतेऽभून्निवास:। तत 'आर्यविद्यासुधाकर’ कारं यज्ञेश्वरभट्टमारभ्य-सत्यव्रतसामश्रमि-समीक्षाचक्रवर्ति श्री मधुसूदन शर्मविद्यावाचस्पति-महामहोपाध्याय पं. श्री गिरिधरशर्म चतुर्वेदादिभि:, प–ीनामासां लेखकेनानेनापि च समये समये वक्तृतादिभिर्लेखैश्चाप्ययं विषय: सुबहु समथ्र्यते स्म।
किन्तु पाश्चात्यविद्वद्भिस्तदिदं मन्ये वज्रलेखीकृतमिव ततो ग्रामपाठशालामारभ्य विश्वविद्यालयपर्यन्तं चापि सेयं नवशिक्षितेभ्यो मन्त्रदीक्षा दत्ता यत्-आर्या बहिस्त आगत्य भारतमाक्रान्तवन्त:, आदिमनिवासिनश्च पराक्कृत्य स्वाधिकारं चक्रु रिति। आङ्गलशिक्षितेषु सेयमपि रुढिर्दृढं प्ररूढा यद् भारतीया सभ्यता मिश्र (ईजिप्ट) देशस्य ईराकदेशस्य च सभ्यतातोऽर्वाचीना। दयनीया आङ्गलशिक्षिता वराका नाविदन्नत्र विजेतृजातेर्निगूढं नैतिकरहस्यं पूर्वम्। संप्रति तु पूर्वोक्तरूढ्योर्विरुद्धं न कञ्चन तर्कं ते मनसापि श्रोतुं कामयन्ते। पर:शतवर्षाणां सांस्कृतिका राजनैतिकाश्च ये गूढाग्रहा अन्त:करणस्यान्तस्तले निगूढा: सन्ति ते तदिदं तथ्यं स्वीकर्तुं निवारयन्तीव। यदीमा वार्ता विज्ञानसम्बन्धिन्योऽभवष्यिंस्तर्हि आक्षेप्ता प्रत्यक्षप्रयोगद्वारा अशक्ष्यन्निराकर्तुम्। किन्तु प्राचीनैतिहासिक क्षेत्रे यत्र यूरोपीयविद्वद्भिरात्मन: किञ्चिन्मतं स्थिरीकृतं तद्विरोधे भारतीयस्य कस्यचिदभिमतं सम्मानं लभेत, एतत्किलाऽसम्भवं न चेत्सुकठिनं त्ववश्यमेवेति को न विवेकी विजानीयात्?
***
वैदिकार्या: प्रारम्भादेव भारतवासिनो, न बाह्या:
भारतस्यास्य बोधनायाऽऽर्यावर्तशब्दोऽयं भृगुप्रोक्त-मनुसंहितायां व्याकरणमहाभाष्ये ततस्तु महाभारतादावपि कामं भवेद् दृष्ट:, परं न वेदसंहितासु। किन्त्वार्यशब्देन श्रेष्ठा जातिश्चिरात्प्रासिध्यद्वेदेषु। ''विजानीह्यार्यान् ये च दस्यवो बर्हिष्मते रन्धया शासदव्रतान्’’ (ऋ १/५१/८१), ''तयाहं सर्वं पश्यामि यश्च शूद्र उतार्य:’’ (अथर्व. ४/२०/३ खं.), ''अयुव-मार्यस्य राष्ट्रं भवति’’ (ऐतरे ८/५/२) इत्यादौ स्थाने स्थाने प्राप्यते जातिवाचकस्यार्य-शब्दस्योल्लेख:। चिरन्तनेन पाणिनिनाप्यार्य-शब्द: सोयमुपगृहीत: -'आर्यो ब्राह्मणकुमारयो:’ (६/२/५८)। निरुक्तकारो यास्कोऽपि व्यवहृतवानिमम्- 'विकारमस्यार्येषु’ (२/१/४)। आर्यशब्दश्चायं व्याख्यातस्तेन स्थानान्तरे-'आर्य: ईश्वरपुत्र:’। आर्यपदं निघण्टौ (२/२२) ईश्वरनामसु पठितम्, तस्यापत्यम् 'आर्य:’। अस्मत्पूर्वपुरुषा आर्या रूपवत्त्वेन बलवत्त्वनेन विद्वत्त्वेन सत्यवादितादिबहुसद्गुणवत्त्वेन पवित्राचारवत्त्वेन च भूयस्तरां गौरवमलभन्त समाजे। अत एव ईश्वरपुत्रा इति व्यपदिश्यन्त। एतद् दृष्ट्वैव महम्मदीया: स्वधर्मप्रवर्तकं मुहम्मदं साक्षादीश्वरपुत्रं मन्यन्ते। आर्या: (ईश्वरपुत्रतागौरववाहिन: सभ्या:) आवर्तन्ते पुन: पुनरुद्भवन्ति यत्र स आर्यावर्त:। आर्या: 'आ’ आभिमुख्येन (प्रधानरूपेण) वर्तन्ते यत्र स आर्यावर्त:, इति सत्यव्रतसामश्रमिमहाभाग:।
स चायमार्याणामादिमावास: पुरा हिमवत्पृष्ठस्य दक्षिणे भागे 'सुवास्तु’ प्रदेशे बभूव -'सुवास्त्वा अधि तुग्वनि’ (ऋ. ८/२०/३७)। 'सुवास्तुर्नदी, तुग्वं तीर्थं भवति, तूर्णमेतदायन्ति’ (४/२/७) इति यास्क:। वास्तु: वासभूमि:, सा खलु यस्यास्तीरे सुष्ठु भवति सा नदी सुवास्तु:। (४/२/७०)। कनिङ्गहममहाशयस्य मतानुसारं स्वात् सुवात्। अत एव प्रदेशमिमं परिजानन् तत्र- भवान्पाणिनिराह -'सुवास्त्वादिभ्योऽण्’ इति वा प्रसिद्धा नदी सेयं सुवास्तु:। सुवास्तुनिवासकाले च तत्रत्यै: सेयमृक् समाम्नाता-''मा वो रसाऽनितमा कुभा.’’ इत्यादि। एतस्मादृङ्मन्त्रात् आर्याणामादिनिवासस्य चतु: सीमानो व्यज्यन्ते। तथा हि- सुवास्तु जनपदादुत्तरस्था रसा (नदी) उत्तरसीमा, कुभा (काबुलनदीति प्रसिद्धा) पश्चिमसीमा, तक्षशिलाप्रदेशीया सरयू: (न उत्तरकोसलस्था सरयू:, कुभाद्युत्तरदिशि तस्या असाहचर्यात्) पूर्वसीमा, कुभाया अध: क्रुमुसिन्धु सङ्गमश्च तद्दक्षिणसीमा।
तत: सुवास्तुत: किञ्चित्पश्चिमे पर्वते आर्याणां निवासप्रवाह: प्रासरत्। तत: किञ्चित्कालानन्तरं सुवास्तुत: प्राग् दक्षिणस्थां श्रीकण्ठशैलसमुद्भूतां जह्नुमुन्याश्रमतलवाहिनीं जह्नावीं यावदार्यावास: प्रवृद्ध:। यथा ऋक् -'पुराणमोक: सख्यं शिवं वां युवोर्नरा द्रविणं जाह्नव्याम्’ (जाह्नवी एव उत्तराखण्डे भागीरथ्या: शाखाविशेषत्वेन ख्याता साम्प्रतिकी जाह्नवी, इति सामश्रमि महाभाग:)। जाह्नावीतीरस्थो जाह्नवप्रदेश: अद्यतन 'पाँचकोरा’ त: प्राक्, सिन्धुत: प्रत्यक्, वुनाद् (वर्णु) प्रदेशतश्चोदक्दिश्यवस्थित इति विश्वकोषसम्पादको वसुदास:।
एतदनन्तरमार्याणामावास: सारस्वतप्रदेशेषु विस्तीर्ण:। यथाह यास्क:- विश्वामित्र ऋषि:, सुदास: पैजवनस्य पुरोहितो बभूव, स वित्तं गृहीत्वा विपाट् शुतुद्रयो: संभेदमाययाव-नुययुरितरे, (२, ७, २)। अत्रैव बहव ऋङ्मन्त्रा: सामगानमन्त्रा: आथर्वमन्त्राश्च समाम्नाता:। यागविधयोऽप्यत्रोद्भूता:। आर्यसाम्राज्यमिहैव प्रथमं विश्रुतम् अत एव सर्वेष्वेव वैदिकग्रन्थेषु सरस्वत्या: प्रसङ्गो भूयसा श्रूयते। यागभूमित्वेन प्रशंसाऽप्यस्यैव प्रदेशस्य। यथा- 'नित्वा दधे वर आ पृथिव्या इलायास्पदे सुदिनत्वे अह्नाम्। दृषद्वत्यां मानुष आपयायां सरस्वत्यां रेवदग्ने दिदीहि।।’’ (ऋ. ३/२३/४)। हे अग्ने: अहं त्वां इडायास्पदे (शस्यबहुले) एवंविधप्रशंसाभाजने प्रदेशे निदधे (स्थापयामि)। 'क: स प्रदेश’ तदाह -'दृषद्वत्याम्’ 'आपयायां’ 'सरस्वत्याम्’ (दृषद्वतीतीरमारभ्य सरस्वतीतीरं यावत् त्रिनदी प्रदेश: सर्व एव ब्रह्मावर्त:) 'मानुषे’ जनपदे त्वं 'दिदीहि’ दीप्यस्व। अत एव हि प्रोक्तं मनुना -'सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम्। तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते।।’ (२,१७)।
ततोऽस्यार्यावर्तस्य भूयान्विस्तारोऽभूत्, त्रिसप्तनदीभि: सोऽयं व्याप्त:। यथा शाकलसंहिताया दशममण्डले नवर्चं सूक्तं (यद्धि नदीस्तुतिपरतया 'नदीस्तुत्’ इति प्रसिद्धम्) तस्य पञ्चमी ऋक् -
'इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमं सचता परुष्ण्या।
असिक्न्या मरुद्वृधे वितस्तयार्जीकीये शृणोह्या सुषोमया।।’
अत्र श्रुता (१) गङ्गा प्रसिद्धैव। तत: पश्चिमस्था यमुना (२) तत: पश्चिमस्था सरस्वती (३) तत: पश्चिमस्था शुतुद्री (४) कश्यप-पुरत: प्राक्प्रवाहिणी। तत: पश्चिमस्था परुष्णी (एषैव यास्ककाले इरावती, सम्प्रति ऐरावती)। तत: पश्चिमस्था असिक्नी (एषैव चन्द्रभागा) तत: पश्चिमस्था वितस्ता। ऐरावती-चन्द्रभागा-वितस्तेति तिसृणामासां सम्मेलनतो याऽभूदतिप्रसारा मालवदेशीयकश्यपपुरत: पश्चिमस्यां दिशि दक्षिणाभिमुखी महानदी सैव मरुद्वृधा (५), शतद्रोरुपरिष्टात् पश्चिमपाश्र्वत: सङ्गता प्राचीनतमा आर्जीकीया (६) उरुञ्जिरेति प्राचीनतरं नाम, (विपाडिति यास्ककाले, विपाशानाम्नी संप्रति)। तत: पश्चिमस्था सुषोमा (७) या हि तक्षशिलानामप्रदेशान्निम्नगामिनी सिन्धौ च सङ्गता। एता: सप्त नद्यो यावद्भूभागे प्रावहन् सप्तनद: सप्तसिन्धुरिति वा ख्यायते। गङ्गायमुने विहाय पूर्वोक्ता: पञ्चनद्यो यावद्भूभागे प्रवहन्ति स पञ्चनद: सारस्वतप्रदेशश्चेति विश्रुत:।
एष सप्तनद: सिन्धो: पूर्वपारस्थ:। एवमेव सिन्धो: पश्चिमपारस्थोऽप्यपर: सप्तनद: प्रदेश:। अयं प्रदेश: साम्प्रतमार्यावर्ताद् बहिर्भूत: परं पुराऽऽसीदार्यावर्तान्तर्गत:। अत एव शाकलसंहिताया: षष्ठ्यामृचि सप्तानां नदीनां वर्णनम्
''तृष्टामया प्रथमं यातवे सजू: सुसत्र्वा रसया श्वेतया त्या।
त्वं सिन्धो कुभया गोमतीं क्रु मुं मेहत्न्वा सरथं याभिरीयसे।।’’
अत्र तृष्टामा (१), सुसर्तु: (२), रसा (३), श्वेती (४), कुभा (५), गोमती (६), मेहत्नु युता क्रुमु: (७), इमा: सप्त नद्य: समुद्रगामिन: सिन्धुनदस्य पश्चिमस्यां दिशि पूर्व-दक्षिणाभिमुखं प्रावहन्। सिन्धुश्चायं हिमालयमध्यभागादुत्पद्य पूर्वं पश्चिमाभिमुखगामी तत: किञ्चिदग्रे गत्वा दक्षिणप्रवाही। एतासां सप्तनदीनां सम्प्रत्यन्यान्येव नामानि। चित्रालदेशत: पूर्वस्यां प्रवहमाना 'पञ्चकोर’ प्रदेशीया त्र्यवयवा नद्येव मन्ये 'तृष्टामा’। 'सुसर्तु:’ रिति सुनास्तोर्नामान्तरं या हि संप्रति 'स्वात्’ इत्युच्यते। 'रसा’ पूर्वं सुवास्तुप्रदेशस्योत्तरसीमभूता वर्णिता। 'श्वेती’ डेरा इस्माइलखाँ प्रदेश-तलवाहिनी अर्जुनी। कुभा 'काबुल्’। 'क्रुमु:’ वर्णुप्रदेशीया कुरम्। 'गोमती’ गोमल् इतिख्याता। एता: सप्तापि साक्षात् परम्परया वा सिन्धुनदसंगता:।
ततश्च 'चित्राल्’ प्रदेशत: प्राक् विलोचिस्तानप्रभृतित ऊध्र्वं च यो वै आर्यावर्तप्रदेश: स किल 'पश्चिमसप्तनद:’ इति व्यपदेशमर्हति। सप्तनदे पञ्चनदप्रदेशोऽन्तर्भवति किं च यथा पूर्वसप्तनदे पञ्चनदप्रदेशोऽन्तर्भवति तथा पश्चिमसप्तनदे अफगान-पंचकोर-प्रदेशो व्याप्यते। एवं सति गान्धारोऽयमार्यावर्तेऽन्तर्भवति। अत एव गान्धारीणामिवाविका (ऋ . १/१२६/७), 'नग्नजिते गान्धाराय’ (ऐत. ब्रा.), 'साल्वेयगान्धारिभ्यां च’ (पाणिनि ४/१/१६९), इत्याद्युक्तय: संगच्छन्ते। अत एव च कुरुराजधृतराष्ट्रपत्नी दुर्योधनादीनां माता 'गान्धारी’ भारते प्रासिध्यत्। एवमेव अद्यतन 'पारस्य’ राज्यप्राक्प्रान्तवर्ती पूर्वमद्रप्रदेश:, तत एव पाण्डुराजस्य पत्नी 'माद्री’ चापि भारतीयैवासीत्। अत एव हि 'पौर्वमद्र:’ इति पदसाधनाय 'मद्रेभ्योऽञ्’ (४/२/१०८) इति प्राणीयत पुरा पाणिनिसूत्रम्। एवं च पारस्यप्राक्प्रान्तवर्ती यथा पूर्वमद्र:, तथा पारस्योत्त-रप्रान्तवर्ति, अद्यत्वे 'मिदिया’ नामकं साम्राज्यमेव उत्तरमद्र इति स्वीकरणं नाऽनुचितम्। तथा च एक: सप्तनदप्रदेश: सिन्धो: पूर्वपारस्थ:, अपरश्च सिन्धो: पश्चिमपारस्थ:। सिन्धुश्चायं हिमवन्मध्यभागादुद्भूय पश्चिमप्रवण: अन्ते समुद्रमाविशति। तथा च पुरातनमार्यावर्तं मध्यतो द्विधा कुर्वन् सोयं सीमादण्ड इवावावस्थितोऽद्यापि विद्योतते भारते।
सप्तनदीसिक्तो यथा एक: प्रदेश: (पूर्वसप्तनद:) तथा सप्तनदीमातृकोऽन्योऽपि सप्तनद: (पश्चिमसप्तनद:) उपरि वर्णित:। एताभ्यश्चतुर्दशनदीभ्योऽतिरिक्ता: अन्या अपि सप्तनद्य: पूर्वोक्तनदीस्तुत्सूक्तस्य ६-८ ऋग्भ्यां ज्ञायन्ते, या: सिन्धोरतिदूरे उत्तरपश्चिमभागे पुराऽऽसन्। तासामेका १. ऊर्णावती (कैलाशनिम्नस्थोर्णाप्रदेशीया), २. हिरण्मयी, ३. वाजिनीवती, ४. सीलमावती, एताश्चतस्रोऽप्युत्तरदिक्स्था:। ५. 'एनी’ नदी निम्नबिलोचिस्थाने प्रसिद्धैव। एवं ६. 'चित्रा’ चित्राल्प्रदेशतो निर्गत्य कुभायां मिलिता। ७. 'ऋ जीती’ चापि कुभाया: समीपवाहिनी। एवं किल त्रिसप्तनद्य: पुरातने आर्यावर्ते प्रकटमासन्, यासु सिन्धुनद: सर्वप्रधानम्। यथा- 'प्र सप्त-सप्त त्रेधा हि चक्रमु: प्र सृत्वरीणामति सिन्धुरोजसा’ (नदीस्तुत्सूक्तम्) [आप:-नद्य: सप्त सप्त भूत्वा त्रिधा त्रिश्रेण्य: सत्य: प्रचक्रमु: प्रावहन् (सिन्धो: पूर्वस्यां सप्त, पश्चिमस्यां सप्त, उत्तरस्यां च सप्त) एतासां सृत्वरीणां नदीनाम् (एकविंशतिसंख्याकानाम्) ओजसा बलेन अति अतिशयित: एको नद: सिन्धु:।] अयं सिन्धु: पूर्वोक्तनदीनां पुत्र इव राजेव चाग्रे वर्णित:। एतत्त्रिसप्तनदी परिवृतो मध्ये सिन्धुना सिक्त: समभूत्पूर्वकालिक आर्यावर्त:। अतएव- 'यस्तेजो ब्रह्मवर्चसमिच्छेत्-------प्राङ् स इयात्,--योऽन्नाद्यमिच्छेत्----दक्षिणा स इयात्-- य: सोमपीथमिच्छेत्----उदङ् स इयात्, इत्यादयश्चतुर्दिग्विषयका वादा: प्राक् उदगित्यादेरव-धिसापेक्षतया मध्यगतं सिन्धुमेवावधीकृत्य प्रवृत्ता इति सिन्धुमध्योऽयमस्माकमार्याणां पुरातनो निवास इति स्पष्टमभ्युपेतव्यम्।
किञ्च द्वितीयनदीसप्तके तृतीया नदी 'रसा’ या पूर्वमावर्णिता सैव प्राक्तन-भारतस्या-सीदुत्तरसीमा। अर्थात् रसाया उत्तरेणासीदनार्यदेश:, तस्याश्च दक्षिणेनासीदार्यावर्त:। अनार्यदे-शात्पणिन: (व्यापारिण:) असुरा: (आर्येतरे) आर्यदेशे आगत्य गवादिसङ्ग्रहमकार्षु:। अत एव कदाचित् पणिभिरनार्यैर्गुप्तमपहृता: आर्याणां गाव: 'सरमा’ नाम्न्या: कुक्कुर्या अनुसन्धानेन उत्तर-सीमभूतामिमां रसां तीत्र्वा पुनरलभ्यन्त प्राक्तनैरार्यै: एतद्विषयको देवशुनी-पणिसंवाद ऋक्संहितायाम् (१० मण्डले) विस्तृत्योक्त:। तस्यादिमैषा ऋ क्-
'किमिच्छन्ती सरमा प्रेदमानड् दूरे ह्यध्वा जगुरि: पराचै:।
कास्मे हेति: का परितक्मासीत् कथं रसाया अतर: पयांसि।।१
अत्र निजगवीनां प्रत्याहरणाय 'रसा’ नद्यास्तरणं भारतीयार्याणामेवेति को वा स्थिरमस्तिष्को न विजानीयात्। इदानीं परीक्ष्यतामार्याणां बहिस्त: समागत्य भारते प्रविष्टत्वं (औपनिवेशिकत्वम्) आङ्गलशिक्षितानां सुन्दरमस्तिष्के बलात्प्रवेशयतां यूरोपीयविदुषां पाण्डित्यम्। 'रसाया अतर: पयांसि’ इति 'रसा’ नद्यास्तरणमिदं दृष्ट्वा ते कथयन्ति- 'मध्येशियात: समागत्य आर्या 'रसा’ नदीमुत्तीर्य भारते प्राविशन्। एतन्नदीतरणमेव पूर्वतनार्याणां बहि: प्रदेशादागतत्वं सूचयति’ इत्यादि। नात्र विशेषवाग्वादस्यावश्यकता। प्रमाणमत्र पाठकानां हृदयमेवेत्यलम्। सेयं 'रसा’ प्राचीनभारतस्य पश्चिमसीमेति 'आवेस्ता’ ग्रन्थतोऽप्यवसीयते। तत्र हि 'रंहा’ [सकारस्थाने हकारोच्चारणात्तेषाम्] स्थाने स्थाने संस्मृता। स्वीकृतमिदं विश्वकोषकारेणापि। स आह- 'सेयं’ समुद्रसंगता 'रसा’ त्वद्यतनार्यावर्ततो बहिष्ठा, खोराशानराज्यान्तर्गता 'आवेस्ता’ ग्रन्थवर्णिता 'रंहा’।
'ईरान्’ इति साम्प्रतं प्रथितो देश:, मूंजवान् इति ख्यात: पर्वतश्चापि पुराऽऽर्यावर्तान्तर्गतोऽभूदृक्संहिताकाले। यथा-
'प्रावेपा मा बृहतो मादयन्ति प्रवातेजा इरिणे वर्वृताना:।
सोमस्येव मौजवतस्य भक्षो विभीदको जागृविर्महृयमच्छान्।।’ (१०-३४-१)
'ईरिणे’ ईरानप्रदेशे वर्वृताना: अधिकतया वर्तमाना: 'वृहत:’ विभीदकवृक्षा: 'मा’ मां मादयन्ति। अयं (विभीदक:) मौजवत: मूजवान्नामपर्वतोत्पन्नस्य सोमस्य भक्ष: इत्यादिरस्या
१. सायणकृतं भाष्यं स्पष्टीकरोत्यार्याऽनार्यवृत्तमिदम्। तथाहि तदक्षराणि- ''इन्द्रपुरोहितस्य बृहस्पतेर्गोषु बालनाम्नोऽसुरस्य भटैरसुरैरपहृत्य गुहायां निहितासु सतीषु-------बृहस्पतिप्रेरितेनेन्द्रेण गवामन्वेषणाय सरमा नाम देवशुनी प्रेषिता। सा च महतीं----- नदीमुत्तीर्य बलपुरं प्राप्य गुप्तस्थाने नीतास्ता गा ददर्श। अथ तस्मिन्नन्तरे पणय इदं-- वृत्तान्तमवगच्छन्त एनां मित्रीकर्तुं संवादमकुर्वन्’’। अत्र पणयो वणिज:। (बनजारे) असुरा बलवन्तोऽनार्या: अभिप्रेता इत्युक्तं निरुक्ते- ''पाणिनिर्वणिग् भवतीति (२/५/३) असुरा बलवन्त: (३/२/२)।
अर्थ:। ईरिणमिति द्विधा व्याख्यातं निरुक्ते- 'ईरिणमृणातेरपार्णं भवति अपरता अस्मादोषधय इति वा’ (९-१-८)।
अथर्वसंहिताया: पञ्चमकाण्डस्य चतुर्दशर्चद्वाविंशतितमसूक्तस्य तृतीये मन्त्रे 'परुष’ नामजनपदस्य, चतुर्थे अष्टमे च 'महावृष’ प्रदेशस्य, पञ्चमसप्तमयो: नवमे च 'मूजवत्’ प्रदेशस्य बाह्लिकप्रदेशस्यापि, अन्तिमे (चतुर्दशे) अङ्ग-मगध-मूजवत्- गन्धारीणां श्रवणमस्ति। परमिमे सर्वेपि जनपदास्तदानींतनार्यावासस्य बहिर्भूता आसन्। अत एव आथर्वणैस्तत्र 'तक्म’ स्थापनं प्रोक्तम् [इदं हि बहिरेव विधीयते]। तथाहि चतुर्थे मन्त्रे-
'गन्धारिभ्यो मूजवद्भ्योऽङ्गेभ्यो मगधेभ्य:।
प्रेष्यं जनमिव शेवधिं तक्मानं परिदद्मसि।।’
यद्यपि 'परुष्’ (पेशावर)-'गान्धार’ (कन्दहार) यो: पूर्वमार्यावर्तान्तर्गतत्वमुक्तं किन्त्वेतन्मन्त्राम्नानकाले तयोर्बहिर्भूतत्वमभूदिति प्राचामाचार्याणां तात्त्विको विमर्श:। अनेन हि प्राक्तनार्यावर्तस्य सजीव इतिहासश्चक्षुषोरुपगच्छतीति को वाऽऽर्यसंतानो न प्रकटयेत्पुलकम्।
अङ्गराज्यस्य पुराऽनार्यत्वमेवासीत्। कुरुराजदुर्योधनकाल एव तस्याऽऽर्यावासत्वं समपद्यत। मगधस्य तु चिरादनार्यावासत्वं प्रासिध्यत्। तथा च ऋ क्- 'किं कृण्वन्ति कीकटेषु गावो नाशिरं द्रुहे न तपन्ति धर्मम्।’ (३-५३-१४)। 'कीकटो नाम देशोऽनार्यनिवास:’ इति निरुक्तम् (६-६-४)। कीकटश्चायं मगध:। यथाहि स्मृति:-
'कीकटेषु गया पुण्या, पुण्या पुनपुना नदी।
च्यवनस्याश्रमं पुण्यं पुण्यं राजगृहं वनम्।।’
अयं मूजवान्काममनार्यावासोऽपि आर्यावासस्योत्तरसीमासीदिति जानीम:। यतो हि वाजसनेयिन:- 'एतत् ते रुद्रावसम्, तेन पुरो मूजवतोऽतीहि’ (सं.- ३-६१) इति प्रार्थयन्ते। अत्र हि रुद्रनाममृत्युदेवताया मूजवत: परपारे गमनप्रार्थनात् आर्यावर्ततो दूर एव तस्य स्थितिर्वाञ्छितेति स्फुटं गम्यते। ततश्च अद्यतन पारस्यराज्यस्य पश्चिमोत्तरस्थो य एशियामाइनर-प्रदेशस्तस्मात्प्राक्, अनुगङ्गप्रदेशात्पश्चिमे, सिन्धुसागरसंगमादुत्तरे, मूजवत्पर्वताद्-दक्षिणे संहिताकालिक आसीदार्यावर्त --- इति सर्वसारो निष्कृष्यते। किन्तु आर्यावर्त सीम्नामेतावत्त्वेऽपि प्राचामार्याणामासीदधिकार इतोपि दूरे दूरे।
यत:-
'आवदिन्द्रं यमुना तृत्सवश्च प्रात्र भेदं सर्वतातामुपायत्।
अजास: शिग्रवो यक्षवश्च बलिं शीर्षाणि जभ्रुरŸव्यानि।।’
(ऋ . ७-१८-१९)
अत्र आर्याणामिन्द्राय यमुना:, तृत्सव:, अजास:, शिग्रव:, यक्षव: (एतत्प्रभृतिदेशवा-सिसामन्ता राजान:) अश्व्यानि (अश्वादिवाहितानि) शीर्षाणि (शिरसा संधृतानि च) बलिम् (उपढौकनम्) जभ्रु: (प्रददु:) इति आर्येन्द्राय करप्रदानेतिहास: प्रख्यायते।
ऐतरेयकाले त्वार्यावर्तस्यायतनं यादृगासीत्तत् अभिषेकप्रकरणादनुमातुं शक्यते। तत्र 'प्राच्यां दिशि ये के च प्राच्यानां राजान:, दक्षिणस्यां दिशि ये के च सत्वतां राजान:, प्रतीच्यां दिशि ये के च नीच्यानां राजानो येऽपाच्यानां, उदीच्यां दिशि ये के च परेण हिमवन्तं जनपदा उत्तरकुरव उत्तरमद्रा:, ध्रुवायां मध्यमायां प्रतिष्ठायां दिशि ये के च कुरुपञ्चालानां राजान: सवशोशीनराणां राज्यायैव तेऽभिषिच्यन्ते’’ (८-३-२)।
अत्र 'प्राच्यानां राजान:’ इति सामान्यतो निर्देशात्प्राच्यां दिशि नासीत्कश्चित्प्रबलो नरपति:, प्रत्युत क्षुद्रराजैरधिकृता ग्रामप्राया आसन्। अत एवाग्रे 'प्राच्यो ग्रामताबहुला विष्टा:’ (ऐत. ३-४-६) इत्युक्तम्। तदानींतन: स पार्वत्यजनपद: अद्यतनो नयपालकिरातनगरादि (भूटान) क एवेति जानीम:। तत एव हि सोमवल्लीनां क्रयो विहित ऐतरेयके 'प्राच्यां वै दिशि देवा: सोमं राजानमक्रीणन्’। एवं पाणिन्यादिकाले कान्यकुब्जाऽऽहिच्छत्रादयो ये प्रख्यातास्तेऽप्यैतरेयकाले ग्रामप्राया एवासन्।
दक्षिणस्यामासीदेकं सत्वद्राज्यं बलवद्, यद्धि 'आदत्त यज्ञं काशीनां भरत: सत्वतामिव’ (शत. १३-४-५-२१) इत्यादिरूपेण दौष्यन्तिभरताधिकृतं बहुत्र स्थाने आम्नातम्। (दौष्यन्तेर्भरतस्येतिहासो बहुप्राचीन:, अत एवैतरेयादिषु स 'गाथा’ नाम्ना व्यपदिष्ट:)।
प्रतीच्यां दिशि तु नैकमप्यासीत्सुसमृद्धं राज्यम्। तस्या उत्तरभागे पर्वतपादस्थभूमिपा: 'नीच्या:’ केचिदप्रसिद्धप्राया:। दक्षिणभागेऽप्यवाच्या: केचित्। मध्यभागे त्वरण्यभूमय:।
उदीच्यां दिशि तु- हिमवत्पृष्ठदण्डस्योत्तरे भागे आर्यावर्ताद् बहिर्विद्यमानावपि 'उत्तरमद्र:’ 'उत्तरकुरुश्चेति श्रूयेते। एवं प्रतीयते यत् हिमवत: पृष्ठदेशे मद्र-कुरुदेशावास्तां मध्यस्थितौ, ययोर्दक्षिणोऽद्र्धभाग आर्यावर्तभुक्त:। उत्तरभागो योह्यार्यावर्ताद् बहिरासीत्स 'उत्तरकुरु:’ 'उत्तरमद्रश्च’ इत्यभूत्प्रसिद्ध:। अस्य हि नैसर्गिकसौन्दर्य- स्वास्थ्यकरत्वादित:, तद्देशवासिनां शान्तिप्रियत्व- तप:परायणत्वादि-देवस्वभावदर्शनाच्च पुण्यमयत्वं देवक्षेत्रत्वम्, अजेयत्वं च यथा ऐतरेयके- 'देवक्षेत्रं वै तन्न वैतन्मत्र्यो जेतुमर्हति’ इति श्रुतम्। तथा महाभारतेऽप्यर्जुनदिग्विजये (सभापर्वणि) प्युपलब्धम्-
''तास्तु सान्त्वेन निर्जित्य मानसं सर उत्तमम्।
ॠषिकल्पांस्तथा सर्वान् ददर्श कुरुनन्दन:।।
तत एवं महावीर्यं महाकाया महाबला:।
द्वारपाला: समासाद्य हृष्टा वचनमब्रुवन्।।
पार्थ नेदं त्वया शक्यं पुरं जेतुं कथञ्चन।
उपावर्तस्व कल्याण पर्याप्तमिदमच्युत।।
न चापि किञ्चिज्जेतव्यमर्जुनात्र प्रदृश्यते।
उत्तरा: कुरवो ह्येते नात्र युद्धं प्रवर्तते।।
अथेह पुरुषव्याघ्र किञ्चिदन्यच्चिकीर्षसि।
तत् प्रबूहि करिष्यामो वचनात्तव भारत।।
ततस्तानब्रवीद्राजन्नर्जुन: प्रहसन्निव।
पार्थिवत्वं चिकीर्षामि धर्मराजस्य धीमत:।।
न प्रवेक्ष्यामि वो देशं विरुद्धं यदि मन्यसे।
युधिष्ठिराय यत्किञ्चित्करपण्यं प्रदीयताम्।।
ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च।
क्षौमाजिनानि दिव्यानि तस्य ते प्रददु: करम्।’’
तदिदं महान- गरमद्यत्वे 'तिब्बत्’ इत्युच्यते [स्थौल्यवदिति तस्यार्थ:, एतद्देशवासिन: प्राय: स्थू- लनासिकोदरजङ्घा भवन्ति।]
अत्र 'मध्यायां दिशि’ कुरु पाञ्चाल-वश-उशीनरा: कीत्र्यन्ते। एवं च कुरुपाञ्चालादय: प्रदेशा आसन्नार्यावर्तस्य मध्यदेशा:। वश: सोयं महाभारतादि प्रसिद्ध: शिवि: स्यात्। मध्यमायां दिशि इत्यस्य 'ध्रुवायां, प्रतिष्ठायाम्’ इति विशेषण द्वयदानाम् मध्यायावर्ते एव तदानीमा-सीद्राजधानीति ज्ञायते। अत एव हि कुरुपञ्चालादिमध्यदेशमेवाऽवधीकृत्य पूर्व-पश्चिमादयोऽत्र दिश: सूचिता भवन्तीति सूक्ष्ममालोचनीयम्।
ततश्चैतरेयकाले हिमवतो दक्षिणपाश्र्वनिम्नस्थं किरातजातिनिकेतनं किरातनगर-मेवासीदार्यावर्तस्य पूर्वप्रत्यन्त: [आर्यावासाद्बहि:स्थो देश:]। पूर्ववर्णितं सत्वद्राज्यमन्त-र्निवेश्याऽऽसीद्दक्षिणसीमा। गिरि-गिरिनदी-ग्रामसीमादि प्राचुर्यवर्णनाद् गान्धारादिदेशेभ्योऽप्यग्रे आसीत्पश्चिमसीमा। उत्तरस्यां तु उत्तरकुरूणामजेयत्ववर्णनात्तत: पूर्वमेवासीदार्यावर्तस्योत्तरसीमेति ज्ञातव्यम्। एकत्र ऐतरेयके श्रूयते- 'त एतेऽन्ध्रा: पुण्ड्रा: शबरा: पुलिन्दा मूर्तिवा इत्युदन्त्या बहवो भवन्तीति’ (७-३-६)। 'एते’ इति प्रत्यक्षनिर्देशात्तस्मिन्काले विद्यमाना आसन्निमा जातय इति ज्ञायते। 'उदन्त्या:’ इत्यस्य प्रत्यन्तवासिनोऽनार्या इत्यर्थ:। तथा च अनार्यभूमीरिमा: प्रत्यन्तीकृत्य-आसामन्त: स्थिता: प्रदेशा एवासंस्तस्मिन्काले आर्यभूमय:। अन्ध्रजातयो दक्षिणायां प्रसिद्धा:। 'पुण्ड्र:’ इति सांप्रतिकं 'दीनाजपुरम्’। शबरपुलिन्दमूतिवाश्च विन्ध्यगिरिवासिनो म्लेच्छजातिविशेषा: प्राय: प्रसिद्धा एव। ततश्च प्राच्यां दिशि सोयमार्यावर्तो नासीद्विस्तृतस्त-स्मिन्काले इति ज्ञायते।
शतपथस्य 'विदेघ-माथवा’ ख्यानात् (का.१-३, प्र.३ का १०-१९ क.) विदेहनाममैथिलजनपदो नासीदतिप्राचीनाऽऽर्यभूरिति प्रतीयते। दक्षिणमगधस्य तु नाऽभूत्तदाऽ-प्यार्यावर्तभुक्तत्वम्। ततोऽर्वाचीनेन पातञ्जलमहाभाष्येणापि दक्षिणमगधात्प्रत्यगेव आर्यावर्तसीमा प्रोक्ता। शतपथे (१२-९-३-३) 'बाह्लिक: प्रातिपीय: शुश्राव’ इत्याख्यानात् पश्चिमदिशि बह्लीकोयमार्यावर्तान्तर्गत एवासीदिति ज्ञायते। पाणिनिनापि आयुधजीविवाचि- पाश्र्वादिगणे बह्लीकशब्द: पठित: (५-३-११७)। एवं 'कम्बोजाल्लुक्’ इति कम्बोजपदमपि तत्र दृश्यते। महाभारतेपि कम्बोजबह्लीकौ वर्णितौ। (द्रो. प्र. ११७,१५५ अध्या.)। 'कंबोजा: कम्बल भोजा:’ इत्यादिना निरुक्त: कम्बोजशब्दो यास्केनापि। एवं 'शवतिर्गतिकर्मा कम्बोजेष्वेव भाष्यते’ इति महाभाष्यपस्पशा।
महाभाष्ये आर्यावर्तस्य चतु:सीमनिरूपणमेवमुपलभ्यते 'क: पुनरार्यावर्त:? प्रागादर्शात्। प्रत्यक्कालकवनात्, दक्षिणेन हिमवन्तम्, उत्तरेण पारियात्रम्। 'आदर्शादय: पर्वतविशेषा:’ इति तट्टीकाकारकृत्कैयट:। 'जनपदतदवध्योच्च’ (पाणि ४-२-१२५) इत्यस्योदाहरणे 'आदर्शक:’ इति पददर्शनात् आदर्शनामा सीमापर्वत: प्रत्यभिज्ञायते। एतस्य निरुक्त्या सोयमञ्जनपर्वत इत्यवगम्यते। एष सम्प्रति 'सुलेमान्’ इत्युच्यते। पूर्वसीमाभूतं कालकवनं तु दक्षिणमगधस्य प्रत्यक्स्थितं बकासुर (बक्सर) प्रदेशीयं ताडकवनम्। पुरा तत् कालयवनाश्रितमभूत्। तत एव कालवनं कालकवनमिति वा नाम सम्पन्नम्। अत एव हि मगधस्यानार्यावासत्वं पतञ्जलिना स्वीकृतम् -'हम्मति: सुराष्ट्रेषु, रंहति: प्राच्यमगधेषु’ इत्यादि। ततश्च प्राच्यमगधीयकुसुमपुरादीनाम् (सम्प्रति पटनेत्यादि प्रसिद्धानाम्) आर्यावर्तसीमतो बहि: स्थिति-रेवासीदिति विज्ञायते।
भगवान्मनुस्त्वाह सीमानमार्यावर्तस्य- 'आ समुद्रात्तु वै पूर्वादा समुद्रात्तु पश्चिमात्। तयोरेवान्तरं गिर्योरार्यावर्तं प्रचक्षते।।’ 'तयोर्गिर्यो:’ पूर्वोपात्तयोर्हिमवद्विन्ध्ययो:। ततश्च पूर्वाऽ-परसमुद्रव्यापी देशो मनोरभिमत:। अत्र पूर्वं: समुद्र: 'गङ्गासागरसंगम:’। पश्चिमस्तु 'सिन्धु-सागरसंगम:’।
अत्र 'तयोरेवान्तरं गिर्यो:’ इति मनूक्त्या पूर्वस्यां यावत्येव विन्ध्यगिरे: प्रसृतिस्तावानेव यज्ञिय आर्यावर्त:। एतस्माद्बहि: आर्यावर्तत्वेपि न यज्ञियत्वमिति- मनोस्तात्पर्यम्। अत एव अङ्ग वङ्ग कलिङ्गेषु सौराष्ट्रमगधेषु च गमननिषेध: सङ्गच्छते। अत एव च ''नाऽऽसन्पुरा एतेषु (अङ्गादिषु) प्रदेशेषु ब्राह्मणा: इति प्रवाद: प्रासिध्यत्। साम्प्रतमपि मगधान्तर्गतेषु पटनाप्रभृतिषु, अङ्ग- प्रदेशेषु भागलपुरादिषु, चान्यत: समागता: शाकलद्वीपिब्राह्मणा: तथा वङ्गेषु कान्यकुब्जादागता एव ब्राह्मणा 'राढिवारेन्द्र- वैदिका:’ इति ख्याता: प्राप्यन्ते।
कलिङ्गप्रदेशस्यागम्यत्वम् 'अत्यन्तापह्नवे लिङ्वक्तव्य:’ इति कात्यायनवार्तिक - तद्भाष्यभ्यामवगम्यते। अस्योदाहरणे भाष्यम्-'नो कलिङ्गान् जगाम’ एतद्धि विवृतं कैयटेन- 'न केवलं तद्देशभोजनादेरपह्नवो यावत् तद्देशगमनादेरपि’। एष कलिङ्गप्रदेशोऽद्याप्यार्यावर्ताद् बहिरेव संस्थितो मेदिनीपुरादारभ्य तैलङ्गदेशान्तं यावद्विस्तृत:। (पुरायमासीत् उत्कलिङ्ग-मध्यकलिङ्ग-कलिङ्गेति त्रिधा विभक्त:। अत एव त्रिकलिङ्गनामा। त्रैलिङ्गनाम तु तत एव समुद्भूतम्। उत्कलिङ्गनामत एव उत्कलनामप्रसिद्धिरित्यैतिहासिका:।)।
अमरसिंहोऽपि प्राच्योदीच्यमध्यम्लेच्छेति चतुर्विभक्तमार्यावर्त देशस्य परित: संस्थानम-सूचयत्- 'आर्यावर्त: पूण्यभूमिर्मध्यं विन्ध्यहिमागयो:’ तत्र 'शरावत्यास्तु योऽवधे:। देश: प्राग्दक्षिण: प्राच्य उदीच्य: पश्चिमोत्तर:। प्रत्यन्तो म्लेच्छदेश: स्यान्मध्यदेशस्तु मध्यम:।।’ (प्राक्सहितो दक्षिणो देश: 'प्राग्दक्षिण:, पश्चिमसहित उत्तरदेश: 'पश्चिमोत्तर:’ अन्तं प्रतिगत: 'प्रत्यन्त:’ (सीमान्तप्रदेश:) इति तदर्थ:)। अमरसिंहकाले यथा शरावती प्राच्योदीच्ययो: सीमाऽसीत्तथा सूचितं काशिकायामपि -'प्रागुदञ्चौ विभजते हंस: क्षीरोदके यथा। विदुषां शब्दसिद्ध्यर्थं सा न: पातु शरावती।।’
यूरोपीयाणां मतखण्डनम्-
एवमार्याणामार्यावर्तवासित्वे दृढासिद्धेऽपि नीतिनिपुणा यूरोपीय पण्डिता: प्राहु:-''सारस्वतप्रदेशदमधिवसद्भि: प्राचीनार्यै: 'अनु प्रत्नस्यौकसो हुवे’ (ऋ. १-३०-९) इति निजस्य पुरातनं स्थानं स्मृतम्। अत एव ते पूर्वमन्यत्रैव कुत्रचिदूषु:। विचारेण तत्पूर्वस्थानं मध्यैशियाप्रदेशस्य 'बेलुर्ताग्- मुशताग्’ पर्वतयोर्मध्यगतं सिध्यति। तस्मादेव च स्थानात्प्राचीनार्या: (भारतीया: पारसीका: शर्मण्यादयश्च) भारत-पारस्य-जर्मनादिषु विकीर्णा बभूवु:।
'इमं ये गङ्गे यमुने.’ इत्यादि भारतीया नदी: प्रत्यक्षमामन्त्रयन्तो वैदिका आर्या: सुस्फुटं भारतवास्तव्या एवाभूवन्नित्येतद्विरुद्धं वच: कथमु श्रद्धमर्हति? परं विजेतृनीतिनिध्नै: पाश्चात्त्यैर्या वा गुरुमन्त्र आङ्गलशिक्षितानां कर्णयोर्निहितस्तत्प्रतीकाराय वक्तव्यमेवाऽऽपतितम्। श्रूयताम्- अनु प्रत्नस्येति प्रसङ्गापतितो मन्त्रो येन द्रष्ट्रा प्रोक्तस्तस्यैव प्रत्नमोक: अन्यत्रासीदिति ऊहावकाश:, अथवा आर्यमात्राणां स्थानान्तरीकरणस्यावसर:? 'अहं प्रयामि पातालं तुरङ्गमगवेषणे’ इत्यत्र वक्तु: पातालगमनं प्रतीयते, उत आर्यजातिमात्रस्य पातालप्रवेश: प्रख्यायते? अनु प्रत्नस्येतिमन्त्रस्य द्रष्टा विश्वमित्रपुत्र: शुन:शेप ऋषि:। स एवात्मन: पूर्वावासस्य स्मरति, यो हि जह्नुमुन्याश्रमकान्तारे जाह्नव्या मूले जह्नूनां चाधिपत्ये आसीत्। (ऐत. ब्रा ७-३-६)। तस्मादेवाश्रमाद् हरिश्चन्द्रपुत्रो रोहितस्तं क्रीत्वा सारस्वतप्रदेशमानिनाय (ऐत. ७,१,१-६)। ततश्च कथमनेन प्राचामार्याणां स्थानान्तरादागत्य भारत-प्रविष्टत्वं कल्प्यते?
पाश्चात्यैरेतद्विषयकेऽनुमानेऽष्टौ हेतवो दत्तास्ते पाठकानां पुरत: ससमाधानमुप-स्थाप्यन्ते-
(१) 'एशियाखण्डत: प्रसृता एव भारतीय- यूरोपीयादय आर्या भारतादौ प्रविष्टा:’ इति सुप्रसिद्ध: प्राचीन: प्रवाद:। अनेन तावदनुमीयते यद्भारतीयार्या एशियामध्यत एवागता इति। अनेन कथमस्माकमार्यावर्ते आदिनिवास: प्रतिषिध्यते भूस्वत्वनाशो वा साध्यते? पूर्वोक्त: सुवास्तुदेश: सप्तनदप्रदेशो वा यत्रार्यैर्वेदा दृष्टा:, किमेशियाखण्डे नास्ति? तत: स्थानात्पूर्वें बहवो विश्वामित्र-पुत्रादयो निर्वासिता:। यथा 'त एतेऽन्ध्रा: पुण्ड्रा: शबरा: पुलिन्दा मूतिवा इत्युदन्त्या बहवो भवन्ति वैश्वामित्रा दस्यूनां भूयिष्ठा:’ (ए. ७-३-६)। एवमेव त्वग्दोषदुष्टत्वा-द्भर्तृपरित्यक्ता अत्रिसुता विदुष्यपालैव ग्रीकदेशीयानाम् 'अपोलो’ देवता स्यादिति संभावयन्ति भूयांस:।
(२) 'भारतीय-पारसीक-यूरोपीयादीनां प्राचीनभाषासु मिथ: सौसादृश्यमवलोक्यते विशेषतश्च- सर्वास्वेवैतासु भाषासु शीतर्तोरेकविधमेव नाम।
ततश्च-एकवंशप्रभवत्वं च सर्वेषामनुमीयते इति। अत्रोच्यते, आदिजातानामेषां स्यादेकवंशप्रभवत्वम्। शीतप्रधानदेशवासित्वं च यत्किलानुमीयते तदपि सम्यगेव। अत एव हि उपहिमालयं सुवास्तुप्रदेशे सप्तनदप्रदेशे वा प्राचामार्याणां निवासोऽस्माभिरुपपाद्यते। ततश्च कथमेषां बहिस्त: समागतत्वम्? किञ्च-पारसीकानामवेस्ताग्रन्थस्य 'वेन्दिदाद’ प्रकरणीये आद्येऽध्याये अभ्युदयशालिनो नगरस्यैकस्य प्रशंसास्ति, यस्य नाम तत्र 'हरखइति’ व्यपदिष्टम्। सोयं स्पष्ट: 'सारस्वत’ प्रदेश:। सकारं हकारमुच्चारयतां तेषां भाषायां 'सरस्वती’ शब्दस्यैव 'हरखइती’ इति विपरिणाम: संजात इति स्वीकुर्वन्ति भाषावैज्ञानिका:। तदिदं क्लार्कमहोदयेनापि स्वीकृतम् (१८६२ खृ. मु. व्या. ५६-५८ पृष्ठ)।
(३) ''-'अवेस्ता’ ग्रन्थस्य 'वेन्दिदाद’ प्रकरणे देशवर्णनप्रसङ्गे 'ऐर्यनम्वेजो’ नाम हिमप्रधानो जनपदो वर्णितोऽस्ति, स एवैषां पारसीकानामादिवासभू: स्वीक्रियते। पारसीकानां भारतीयानां वदनमण्डलगतं सौसादृश्यमस्ति। एवं वैदिकभाषातो ज्रेंदभाषाया: (आवेस्ताग्रन्थभाषाया:) अपि बहुतरं सादृश्यम्, तथा द्वयोरपि जात्यो: समानमग्निपूजकत्वम्। ततश्च मूल-भूतानामार्याणामावासभूमि: 'ऐर्यनम्वेजो’ स्थानमनुमीयते’’ इति। अस्तु सम्यगिदम्। पारसीका: स्युरस्मद्भ्रातर:। निवसेयुश्च तेषां पूर्वजा: 'ऐर्यनम्वेजो’ स्थाने। किन्तु सुवास्तुप्रदेशाद्व-हिर्भूतानां तेषां तस्मिन् स्थाने निवास: संपन्न इति वेदादिभ्यो ज्ञायते [आर्याणां मध्ये सदा 'इन्द्रस्य’ प्राधान्यं शनै: संवृत्तं तदा इदमस्वीकुर्वन्तो मित्रवरुणयमादिमतपोषका: केचिद्विरुद्धा अभवन्। शनै: सोयं विरोध: 'देवासुरसंग्राम’ रूपं भेजे। द्वयोर्भिन्नदेशवास्तव्यतां च चकारेति बहवो जल्पन्ति। ततश्च वेदद्रष्टृभ्य एवार्येभ्यो विच्छिद्य केचित् 'ऐर्यनमवेजो’ स्थानमुपगता: स्युरिति सुसंभवमेव। स्पष्टमिदं सम्पूर्णानन्दनिबन्धचर्चायामग्रे स्यात्] सर्वेषामेवार्याणां तत्र (ऐर्यनमवेजो) निवासकल्पनं तु स्थूलप्रायम्। एकवंशजा अपि नानाकारणैर्नानादेशेषु निवसन्त्येव। अत एव वैदिकेष्वार्येषु सारस्वतप्रदेशमधिवसत्स्वेव तद्वंशलब्धजन्मान: केचित् 'ऐर्यनम्वेजो’ स्थाने समागता इति सुसंगतमेव। स चायं जनपदो हिमप्रधान: काश्मीरेभ्य उत्तर: 'आर्याणक’ इत्यार्येषु कीर्तित:। यथा हि राजतरङ्गिणी-
'तुषारवर्षैर्बहुलैस्तमकाण्डनिपातिभि:।
आर्याणकाभिधे देशे विपन्नं केचिदूचिरे।।’ (४-३६७)
(४) ''बहो: कालात्प्रसिद्धिरस्ति-'ग्रीक-रोमकजातिपूर्वपुरुषा: पूर्वोत्तरदेशत: प्रस्थाय इटाल्यादौ न्यवात्सु:’ इति। अयं प्रवादस्तदैव संगच्छते यदा हि एशियाखण्डस्य मध्यभूमिरेव मूलभूतानामार्याणामावासत्वेन परिकल्प्येत। ततश्च मध्येशियाखण्ड एव प्राचीनार्याणामावासभू: सिध्यति’’। अत्र वदाम:-सुवास्तु-सारस्वत-प्रदेशोऽपि इटाल्यादिप्रदेशेभ्य: किञ्चिदुत्तर-पूर्वगत:। ततश्च प्राचीन: प्रवाद: प्राचामार्याणां सुवास्तुप्रदेशवास्तव्यत्वेऽनुकूल एव।
(५) 'हिमालयस्योत्तरभूभाग: पवित्रतम: स्वर्ग इति लोकोत्तरमाहात्म्यवाही चेति भारतीयार्येषु सर्वत: प्रख्यातम्। तथा च तादृशोयमेशियामध्यभाग: प्राचीनार्याणामादिनिवास: स्वत एव सिध्यति’। इदमपि व्यामोहनमात्रम्। आर्या: किल हिमालयस्य दक्षिणभागे (सुवास्त्वादिप्रदेशे) न्यवसन्निति पूर्वमवोचाम। तेहि तप:-साधनादिकृते हिमवदुत्तरभागं प्रायशोऽगच्छन्, लेभिरे च सिद्धिम्। अत एव हिमवदुत्तरभागे तेषां बहुमान:, न तु पूर्वपुरुषाणा-मावासभूमिरिति तेषां पावित्र्यबुद्धि:। लोकातीतमहिमा तु- उत्तराणां कुरूणामजेयत्वादिश्रवणादिति महाभारतादितो विदितमेव। हिमवत्पृष्ठस्य स्वर्गरूपत्वं तु पुराणेभ्य: प्रासिध्यत्। तत्रापि कारणमुत्तरत्वम्। आर्याणां मते उत्तरा दिग् देवभूमि:। दक्षिणा च याम्या (यमनिवासभू:)। ततश्च हिमवदुत्तरभूभागस्य पवित्रतामात्रेण नैषा प्राक्तनार्याणां निवासभू: संभवतीति विवेक्तव्यम्।
(६) 'कौषीतकिब्राह्मणे श्रूयते- 'उदीच्यां दिशि प्रज्ञाततरा वागुद्यते, उदञ्च उ एव यन्ति वाचं शिक्षितुम्, यो वा तत आगच्छति तस्य वा शुश्रूषन्ति इति हस्माहैषा हि वाचो दिक् प्रज्ञाता, इति एवं किल हिमवद्दक्षिणभागस्थित: कौषीतकब्राह्मणप्रवक्ता उत्तरभागस्थितानां निजपूर्वपुरुषाणामादिनिवासभूतामुत्तरां दिशं प्रशस्तवाक्शिक्षकत्वेन स्तौति’ इति षष्ठोयमनुमान-हेतुस्तेषाम्। अत्रोच्यते न केवलमत्रैव, ऐतरेयब्राह्मणेऽप्येवं- विधा श्रुतिरुपलभ्यते। ऐतरेय-ब्राह्मणकाले च कुरुपञ्चालशिविसौवीरा आसन्मध्यदेशा इति पूर्वमावर्णितम्। ततश्च मध्य-देशस्थित: प्रवक्ता स्वापेक्षया उत्तरां दिशम्, अर्थात् उत्तरस्थितम् 'उद्यान’ देशमेवमुपस्तौतीति सरलोऽयमर्थ:। उद्यान-जनपदश्च काश्मीर-संनिहित:। उज्जानक इति व्यपदिष्ट: सोयं विद्यानिवासत्वेन राजतरङ्गिण्यामन्यत्रापि च प्रशस्त:। अत एव विद्यानिलयस्यास्यैव सेयं स्तुति:, किं नाम पश्चिमतोऽप्युत्तरमनुधावनेन?
(७) ''लोकं पुष्येम तनयं शतं हिमा:’’ [शतं संवत्सरान् बालं तनयं पुष्याम इति तदभिप्राय:] इत्याशीर्मन्त्र:। हिमर्तुत: संवत्सरपरिगणनं तत्रैव युज्यते यत्र किल सदैव शीतस्या-तिशय: स्यात्। भारतीयप्रदेशेषु नैवम्। मध्येशियाप्रदेशस्थो वेलुर्ताग् मुशताग पर्वतयोरन्तरालभागस्तु तादृश एवेति स एव प्राचामार्याणामावासदेश: स्यादिति तेषां सप्तमो हेतु:। सम्यक्। हिमर्तुवाचक-हिमशब्देन संवत्सरपरिगणनात्, हिमशब्दस्याऽब्दवाचित्वेन व्यवहाराद्वा चेदस्मत्पूर्वपुरुषाणां शीतप्रधानदेशवासित्वमभ्यूह्यते तर्हि शरदृतुवाचिशरच्छब्देन संवत्सरपरिगणनात्, शरच्छब्दस्य वर्षवाचितया व्यवहाराद्वाऽस्मत्पूर्वपुरुषाणां शरदृतुप्रधानदेशवासित्वमपि कल्प्यताम्। अस्ति तद्रूपेणापि श्रवणं बहुत्र। यथा- 'तिस्र यदग्ने शरदस्त्वामिद्’ (ऋ .१-१२-६२), शतमिन्नु शरदो अन्ति देवा:’ (ऋ .१-१४-६१), 'शतं नो रास्व शरदो....ऽश्यामायूँषि’ (ऋ . २-३-२७), 'शतं जीव शरदो वर्धमान:’ (तैत्तिरी.), 'पतिर्जीवति शरद: शतम्’ (ऋ . १०-८६-३९) इत्यादि।
वस्तुतस्त्वेवंविधैरनुमानैरार्याणामौपनिवेशिकत्वसाधनं तदिदं स्थूलप्रायम्। न तावदार्या: केवलं शीतप्रधानदेशवास्तव्या:, न वा शरदृतुप्रधानदेशवासिन:। अस्ति हि तत्त्वमस्याऽन्यदेव। 'शरच्छृता अस्यामोषधयो भवन्ति, शीर्णा आप इति वा’ (नि. ४-४-४) 'शृणाति (हिनस्ति) प्राणिन:’ इति शरत्पदव्युत्पत्त्या शरदृतोरस्वास्थ्यकारित्वमासीदाचार्याणां संमतम्। ततश्च सैव वर्षस्यान्तममानि तै:। शरदृतुश्च यदा वत्सरस्यान्तावयवस्तदा हिमर्तु: संवत्सरस्यादि: सुतरां सम्पन्न:। एवं च वर्षगणनाप्रसङ्गे हिम-शरच्छब्दयोरन्यतरस्य प्रयोग: प्रचलित: प्राय: पूर्वेषाम्। शनैर्गौण्या वृत्त्या तयोरब्दवाचित्वमपि प्रसक्तमेव। एवं च वर्षपरिगणने हिमशब्दस्य प्रयोगमात्रेण प्राचीनार्याणां बेलुर्तागनिवासित्वजल्पनं नास्ति किं राजाज्ञामात्रमिति स्वयं विविच्यताम्।
(८) ''-'उत्तरं गिरिमति दुद्राव’ (१-८-१) इति हि शतपथे प्रोक्तम्। 'उत्तरं गिरिम् हिमालयं 'अति’ अतिक्रम्य 'दुद्राव’ द्रुतगमनं कृतवान् इति तदर्थं कृत्वा पाश्चात्यपण्डिता: कथयन्ति यत् हिमालयमुल्लङ्घ्य द्रवणेनानेन स्पष्टं किल हिमालयोत्तरवासिनामार्याणां हिमालयमुल्लङ्घ्य भारते प्रवेश: सूचितो भवति। सोयमष्टमस्तेषां हेतु:। किन्तु सोयं हेतुव्र्या-मोहहेतुरेवाऽपक्वधियाम्। 'मा धर्मपुस्तकमधीष्व, चेत्वमपवित्र: इति कस्यचिद्धार्मिकस्योक्ति:’ अत्र चेत् त्वमपवित्र: इति वाक्यखण्डं प्रलुप्य ''मा धर्मपुस्तकमधीष्व’ इति सेयमाचार्याणामाज्ञा’’ इति यथा प्रतारणमात्रं परिज्ञायेत तथा तदिदं कौतुकं नाम। यत्र किल तदिदं शतपथवचनं प्रोक्तं तत्र प्रसङ्ग एवाऽन्यादृश:। सोयं जलप्लावनस्य ('बाढ’) प्रसङ्ग:। कदाचित् संभूते जलप्लावने आर्यावर्तीयसमुद्रादुत्थितो जलौघ: सहसा हिमालयस्य शृङ्गं यावदधिरुरोह। तत: शनैरुपशान्ते जलोपप्लवे स 'यथावदन्ववससर्प’। तत्र यदा जलौघ: निसर्गादधिकं जगाम तदा 'उत्तरं गिरिं’ (हिमालयम्) 'अति दुद्राव’ उचितादधिकं जगाम’ इति प्रोक्तम्।
अत्र अधिकं गमनमेव प्रासङ्गिकोऽर्थो न तु उल्लंङ्घनम्। वेदार्थनिर्णायकेषु निरुक्तादिषु सर्वत्र अतेरभिपूजित एवार्थ:, न अतिक्रमणम्। यथा निरुक्ते- 'अति सु इत्यभिपूजिते’ (१-१-५)। अत एव उक्तस्य 'अति दुद्राव’ इत्यस्य 'अतिजगाम’ (शृङ्गपर्यन्तं प्राप) इति भाष्यकृता हरिहरस्वामिनाऽर्थ: कृत:। इदानीं विचार्यताम्, अनेन शतपथखण्डेन प्राचीनार्याणां हिमगिरिमुल्ल-ङ्घ्य भारते पलायनं कथंकारमापतितम्’? अस्तु, यदि कदाचित् उल्लङ्घनमप्यर्थ: स्यात्तदापि, ये किल प्राचीनार्या: पाश्चात्यानामुक्त्यनुसारं हिमगिरेरुत्तरे बेलुर्ताग्प्रदेशेन्यवात्सु: तेषामार्याणां दृष्ट्या सोयं हिमालय: 'उत्तरगिरि:’ आहोस्विद् 'दक्षिणगिरि:’ स्वयमेतद्विचार्यं तैरेव। अत एव एवमेवंविधभूतलोपरिसंस्थिता सेयं भित्तिरवाङ्मुखं निपततीति क्षणं विचार्यतां विवेकिभिरेव।
बालगङ्गाधरतिलकमहोदयस्य मतनिरास:
१. प्राचीनार्या: सुमेरुप्रदेशे-न्यवात्सुरिति तेन (बालगङ्गाधरतिलकेन) गवेषितम्। यतो हि- 'अमी य ॠक्षा निहितास उच्चा:.’ इत्यादिऋ ङ्मन्त्रात् उत्तरस्था: ऋ क्षा: (सप्तर्षय:) शिरसि उन्नता: उत्तरदिग्गते मेरुप्रदेशे एव द्रष्टुं शक्यन्ते। अत एव एतन्मन्त्र- प्रवक्तृणामार्याणां सुमेरुपृष्ठे निवास:, इति तत्तात्पर्यम्। किन्तु नेदं तथ्यम्। ऋ क्षपदस्य नक्षत्राण्येवार्थ:, न सप्तर्षय:। ततश्च आकाशस्थानि नक्षत्राणि यथा मेरौ उच्चानि दृश्यन्ते तथाऽन्यत्रापि। उच्चै: पदेन मस्तकोपरिभ्राम्यमाणत्वं तु न केनचिदवगम्यते। अस्तु, ऋ क्षपदस्य सप्तष्र्यर्थे कृतेऽपि 'उच्चा: उत्तरस्था:’ इत्येवार्थ:। उक्तं हि शतपथे- उत्तरा हि सप्तर्षय उद्यन्ति इति।
यदि च तात्त्विको विचार: क्रियेत तदा सोयं मन्त्रो (अमी य ऋ क्षा:) वरुणविज्ञान- पर:। वरुणस्तु रात्रिकालिकोऽध:स्थ: सूर्य:। ततश्च वरुणराज (सूर्यविशेष) कर्तृक: सप्तर्षि-प्रभृतीनां चन्द्रमसश्च प्रकाशो मन्त्रस्यास्य भावार्थ:। मेरुप्रदेशे च सूर्यविशेषस्य वरुणस्य अध:स्थितत्वेन सप्तर्षिप्रभृतीनां प्रकाशनं नोपपद्यते। अत एव सोयं मन्त्र आर्यावर्तवासिनामेवाऽऽ-र्याणामुक्ति: संगच्छते, न मेरुप्रदेशवासिनाम्।
२. 'ससूर्य: पर्यूरू वरांस्येन्द्र आववृत्याद्रथ्येव चक्रा’ इति मन्त्रखण्डेन 'मस्तकोपरि-नक्षत्राणां रथचक्राकारेण भ्रमणं मेरुस्थानामेव दृग्गतं भवति’ इति तदुक्ति:। किन्त्वस्य मन्त्रस्यार्थो मध्यस्थितस्य सूर्यस्याऽऽकर्षण-शक्तिसूचनम्। 'इन्द्र: परमैश्वर्यादिगुणयुक्त: सूर्य: ऊरू (विस्तृते आकाशे) वरांसि पृथिव्यादिग्रहोपग्रहमण्डलानि आवृत्यात् आवर्तयति। कथम्?- 'रथ्या चक्र इव’ यथा अक्ष: मध्यस्थ: सन् रथसंबन्धीनि चक्राणि (भ्रामयति)। ततश्च मध्यस्थित-सूर्याकर्षणशक्तित: सर्वेषां ग्रहोपग्रहाणामितस्ततोगमनं विक्षेपराहित्यं भ्रमणं चेति मन्त्रेणानेन सूच्यते, नान्यत्। 'यो अक्षेणेव चक्रिया शचीभि:.’ इत्यादिभि: स्थाने-स्थाने सूचितमिदं विज्ञानमग्रे।
३. अग्निष्टोमे प्रातरनुवाक: प्रातरेव पठ्यते। तस्य संख्या तु - 'सहस्रमनूच्यं स्वर्गकामस्य’ इति। ततश्च सहस्रसंख्यस्यानुवाकस्य प्रात:काले तदैव पाठो भवेद् यदा उष:कालो मासद्वयमित: स्यात्। उत्तरध्रुवप्रदेशे च षण्मासपरिमितो दिवसो भवतीति प्रात:कालो मासद्वय-मित: संभवतीति बालगङ्गाधरोक्ति:। किन्तु तत्त्वतो विचारे प्रातरनुवाकस्य सर्वदिवापाठ्यत्व-श्रुति:- 'उदित आदित्ये प्रातरनुवाकमनुब्रूयात्’ सर्वं ह्यैवैतदहर्दिवाकीत्र्यं भवति’ (ऐत. ४-३-४)। अवश्यं प्रात: पाठ्या: स्वल्पा ऋच:, ता ह्यादौ प्रारभ्यन्ते इति नामधेयस्यान्वर्थता। किञ्च सुमेरुप्रदेशीयोषसो दीर्घत्वं किमार्यावर्तवासिनामस्माकं दृष्ट्या, अथवा तत्रत्यानाम्? अत्रत्यानां दृष्ट्या इति चेत्, अस्मत्कृतेन दीर्घत्वेन पूर्वकालिकार्याणां सुमेरुवास: कथं साध्य:? अथ तेषामिति चेत्, सर्वदा येषां दीर्घम् उषो भवति कथं तैस्तस्य दीर्घत्वं प्रत्येयम्? दीर्घत्वं ह्यापेक्षिकम्। यावत्किल लघुद्र्वितीय उष:कालो न दृश्यते तावत्तस्य दीर्घत्वं कथं प्रत्येयम्। किञ्च यदि प्रातरनुवाकस्य पाठो द्विमासात्मकस्तर्हि प्रातस्सवन-माध्यन्दिनसवनतृतीय-सवनानां काला: कीदृशा मन्तव्या:? संवत्सरकालश्च कीदृश:? अथ दीर्घौषसि सुमेरावेव प्रातरनुवाक-पाठस्य संभवस्तर्हि युधिष्ठिरादिभिरार्यावर्तवासिभिरनुष्ठितेऽश्वमेधादिषु प्रातरनुवाकपाठो न बभूवेति मन्तव्यं स्यात्।
'तानीदहानि बहुलान्यासन् या प्राचीनमुदिता सूर्यस्य’ (ऋ . ७-७६-३) इति मन्त्रेण उषस: कतिदिनव्यापित्वं यत्साधयितुं वाञ्छितं तदपि न, अनेन दिनानामानन्त्यमात्रं गम्यते न दीर्घत्वम्। किञ्च उष: शब्दस्य बहुवचनान्तप्रयोगेण 'इमा एव ता उषसो.’ इत्यादिषु यद्दैघ्र्यमुषस: साध्यते तदपि मनोरथमात्रम्। पूर्वपरसन्दर्भेण मन्त्र: सोयं पुनर्जन्मविषयो नोषसो दीर्घत्वविषय: [दर्शित: पूर्वापरमन्त्रपाठस्तत्र]।
४. सुमेरुवासिभिर्दक्षिणस्यां सूर्यस्योदयो दृश्यते स्म। अत एव 'पुत्रश्चरति दक्षिण’ इति दक्षिणदिक्पुत्र: स प्रोक्त:। एतदपि यत्किञ्चित्। उत्तरपदस्य ऊध्र्वमर्थो वेदे। तथा च 'ऊध्र्वस्थ: सूर्य:, दक्षिणा अर्थात् अधस्था पृथिवी’ इत्येव तदर्थ:। किञ्च न दक्षिणायामुदय: येयं दिगस्माकं पश्चिमा, सैव सुमेरुवासिनां दक्षिणा। यस्यां सूर्य उदेति तस्या एव पूर्वत्वनियमात्।
५. ''सप्तर्षिहस्तावचितविशेषाण्यधो विवस्वान्परिवर्तमान:’’ इति कुमारपद्यं यत्प्रमाणत्वेनोद्धृतं तत्तूपहास्यमेव। एतद्धि अद्ययुगीयेन 'अस्त्युत्तरस्या’ मिति वर्तमानकाल-वादिना कालिदासेनोक्तम्। किं तस्यापि सुमेरु-प्रदेशवासित्वम्?
६. वैदिकमन्त्रेषु 'नवग्वा’ 'दशग्वा’ इतिपदस्वारस्यात्, नवमासात्मको दशमासात्मको वा वत्सरो गम्यते। एतादृशं वर्षं नास्मत्प्रदेशे। सुमेरौ संभवत्येवं वर्षमिति तत्रैवादिमानां निवास: सिध्यतीति यदुक्तं तदपि निर्बीजमेव। सुमेरुप्रदेशे नवमासात्मक: संवत्सर:? दशमासात्मको वा? यदि नवमासात्मकस्तर्हि 'दशग्वा’ इत्यस्य का गति:? अथ दशमासात्मकस्तर्हि 'नवग्वा’ इत्यस्य का उपपत्ति:? उभयविधमेव वर्षमिति चेत्, विरुद्धयोद्र्वयो: कथमेकत्र समावेश:? किञ्च, अस्माकं वत्सरो भूभ्रमणजन्य:, तेषां कथम्? अस्माकमब्द एव तेषामेकं दिनमिति चेत्, तर्हि तादृशै: कतिभिर्दिनैर्मास:, कतिभिश्च वर्षम्? एवं सति शतायुर्वै पुरुष:, इत्यस्मादेत-दृष्ट्या परिगणने कथं सिध्येत्? किञ्च 'नवग्वा’ पदेन नवमासात्मक:, 'दशग्वा’ पदेन दशमासात्मक: साध्यते तर्हि यत्र 'शतग्वि’ पदं श्रूयते- ''शनिश्चिदन्तो अद्रिवोऽश्वावन्त: शतग्विन:०’ इत्यादि, 'आ न इन्दो शतग्विनम्’ (ऋ . ९-६७-६) इत्यादि। तत्र किं शतमासात्मकं वर्षं वक्तव्यं स्यात्?
तिलकेन सिद्धान्तितं यद्वेदे देवयानशब्दात् सूर्यस्य सुमेरुयानम् (उत्तरायणम्) अवगम्यते, पितृयानशब्देन च सूर्यस्य कुमेरुगमनम् (दक्षिणायनम्) प्रतीयते। ततश्च सुमेरुप्रदेशेषु देवयाने दिनं सम्पद्यते, पितृयाने च रात्रि:। तथा च देवयान-पितृयान-शब्दान्विता अमी मन्त्रा: सुमेरुप्रदेशेष्वेव निवसद्भी रचिता:। एवं च वैदिकानामार्याणां तत्रैवादिनिवास: सुतरां सिध्यतीति। तदिदं मार्मिकदृष्ट्या समीक्षणीयं नूनम्। उत्तरायणदक्षिणायने भूमध्यभागस्थितेनैव नूनं सम्यक् परिदर्शनीये। उत्तरकेन्द्रे दक्षिणकेन्द्रे वा समवस्थितानामेकपाश्र्वगामितया अपरपाश्र्वगता अयनगतिर्न सम्यक्तया परिलक्षणीया। तथा च देवयान-पितृयानाभ्यां दिवारात्र्योराविष्कारस्य सुमेरुप्रदेशे कथं वा स्वारस्यम्?
वस्तुतस्तु 'देवा:’ द्युस्था: अश्विप्रभृतयो 'यान्ति’ गच्छन्ति येन मार्गेण स एव भूमण्डलादिभ्रमणमार्गो देवयानाख्य:। पितृस्थानानां चन्द्रमण्डलादीनां भ्रमणमार्ग एव पितृयानम्। किं वा अन्तरिक्षस्य यमनामक-वायु-विशेषाधिकृतं चन्द्रलोकम्, अपरं वा तत्संनिहितं पितृलोकं त्यक्तस्थूलदेहा अर्चिरादिसहाया गच्छन्ति येन मार्गेण स एव पितृयानाख्य:, सर्वेषां मन्त्राणां तथैव संगते:। ततश्च तिलकोद्भावित: सर्व एव मनोरथो मनस्येव जीर्यति।
किञ्च-देवानामेकैकवर्षात्मके रात्र्यहनी भवत:, अनेनापि आर्याणामादिनिवास: सुमेरौ साधयितुमिष्टस्तेन। परं देवानामित्यस्य 'सुमेरुवासिनां मानवानाम्’ इत्यर्थावगतौ किं मानम्? मनुसंहितादौ अस्मत्संवत्सरकालमितं देवानां दिनमित्यवश्यमुक्तम्, परं न तत्र सुमेरोर्गन्धोपि। एवं सुमेरुवासिनां देवत्वं महाभारतादिनाऽवगतं किन्तु न तत्र देवानां मास-ऋतु-अयन संवत्सरादियानमभिहितम्। ततश्च ज्ञातव्यमेव यत्सुमेरुप्रदेशीयस्थले दिनमासत्र्वादिमानं कीदृशम्? परिमाणं च तेषामब्दमानत:, अथवाऽस्माकम्? वस्तुतस्तु सुमेरोर्देवलोकत्वं यद्वर्णितं महाभारतादौ तत् आपेक्षिकम्। यथेह सौरे जगति भूलोकान्तरिक्ष-द्युलोक विभागा:, तथैवाऽस्मच्छरीरादिष्वपि। अग्रि-वायु-सूर्याणां प्रधानतो भू-आदीनि स्थानानि। ततश्च भुवि तेषां सत्ताया: का कथा, भौमपदार्थेष्वस्मच्छरीरादिष्वापि तथैव तेषां त्रयाणां देवानां सत्तां स्वीकुर्महै। तथा च-यथाऽस्य सौरजगत: ऊध्र्वभागे स्वर्गस्थितिस्तथैवास्यां पृथिव्यामपि मध्यादिदेशापेक्षया ऊध्र्वभागस्था: काश्मीरादिदेशा: स्वर्गा:। तत ऊध्र्वस्था: कैलास-गन्धमादनादय: काश्मीरस्थानां स्वर्गा:। ततोऽप्यूध्र्वस्था: सुवीर्यादि (साइबीरिया) प्रदेशा: कैलासादिवासिनां स्वर्गा:। ततोऽप्यूध्र्वतन: सुमेरुप्रदेश: सर्वभूवासिनां स्वर्ग: तदित्त्थं सुमेरुप्रदेशस्याऽऽपेक्षिकदेवनिकेतनत्वे स्वीकृतेऽपि तत्र आद्यानामार्याणामावास आसीदिति कथंकारं सिध्येत्?
किमार्या बहिर्देशेभ्योऽत्र समायाता:?
आर्या भारते मध्यैशियादेशादागत्य, अत्रत्या अनार्यजातीर्विजित्य देशेस्मिन् न्यवसन्निति पाश्चात्यानां तथाकथित: शोधो यद्यपि भारतीयैरन्यैश्च शोधविद्वद्भि: साधु परीक्ष्य खण्डित:, नाऽधुना तस्य मान्यता विश्वस्य मूर्धन्य-विद्वत्सु, तथापि तस्य किंचिद् विवेचनं, तद्गत- भ्रामकमान्यतानां खण्डनं चाऽस्माभि: प्रबन्धेऽस्मिन् विहितं प्रसङ्गवशात्। एतद्विषये आधुनिकान्वेषकाणां यानि मतानि तान्यप्युद्धृतानि। अस्मिन्नेव प्रसङ्गे कतिपयान्यभिमतानि पुनर्विवेच्यन्ते। नीरजाकान्त चौधरी देव शर्मणा १९६१ तम ख्रिष्टीयवत्सरस्य भादपद मासे गोरखपुरीय 'कल्याण पत्रे’ महता समारोहेण साधितं यत् ''आर्याणां बहिर्देशेभ्य: समागत्य भारते प्रवेशस्य कथा सर्वथा मिथ्या’’ इति । स हि लिखति-''आधुनिक पाश्चात्त्यमतानुसारं भारतेतिहास: ३३० ई. पूर्वत:, अर्थात् दिग्विजयिन: सिकन्दरस्य भारताऽऽक्रमणात्प्रारभ्यते। इत: पूर्वस्य तु यत्किञ्चिज् ज्ञानं तद्धि इतिहासनाम्ना न व्यपदेष्टुं शक्यते। अत एव सिकन्दरस्य मृत्योरनन्तरं तदीयसेनापतिना सेल्यूकसेन पश्चिम-एशियाप्रदेशे साम्राज्यमभूत् स्थापितम्। तेषां राजदूत: सोयं मेगास्थानीज: ३०४ ई. पूर्वं मौर्यसम्राजश्चन्द्रगुप्तस्य राजसभायां किञ्चित्काल-पर्यन्तमतिष्ठत्। तेन हि एको यात्रावृत्तान्त: समभूल्लिखित:। तस्यैव हि उपलब्धेभ्य: अंशेभ्यो निम्नाङ्कितं वृत्तमुद्धृतं पाश्चात्यै:। मेगास्थनीज: कथयति-''समस्तोऽपि भारतदेश: एको विराट्देश:, यस्मिन् हि विभिन्न विभिन्न जातीनां लोका: सुखं निवसन्ति। एषां मध्ये एकोऽपि जनो मूलतो विदेशिवंशोत्पन्नो नास्ति। मार्मिकेण सुस्पष्टं ज्ञायते यत् सर्वेऽपि भारतीया: आदिमभारतवासिनां वंशधरा:। एतदतिरिक्तं भारतेऽस्मिन् वैदेशिकलोकानां कदापि कश्चिदुपनि-वेशो नाऽभूत् स्थापित:। न च भारतेनाऽपि विदेशे गत्वा कश्चिदुपनिवेश: स्थापितोऽभूत्।’’
आधुनिकानाम् पाश्चात्त्य-ऐतिहासिकानां मतानुसारम् अनुमानत: २५०० वर्षाण्यारभ्य १५०० ई. वर्षपूर्वम् यावत् आर्यजातीयं दलम् उत्तर-पश्चिम सीमान्तमार्गेण भारतेऽस्मिन् प्राविशत्। आगत्यैव च तेन एतद्देशनिवासिन: द्रविड-कोल-भील जातीयान् विजित्य क्रमश: स्वीयोपनिवेश: स्थापित:। इमे आर्या: हिन्दू-पारसी-काकेशीय-ग्रीकप्रभृति यूरोपीयजातीनामासन् पूर्वजा:। भारताद् बहि: कस्मिन्नपि स्थाने एतेषां प्राचीना निवासभूमिरासीत्।
यदि तदिदं सत्यं तर्हि भारतेऽस्मिन्नभियानमार्याणां, मेगास्थनीजस्य भारते आगमनात् प्राय: १२०० वर्षपूर्वं निश्चितमभूत्। किन्तु मेगास्थनीज: प्रबलतया साधयति ''यत् भारतस्य एकमात्रस्यापि पुरुषस्य पूर्वपुरुषा: भारताद् बहिस्तो न समागता:, न च भारतेऽस्मिन् वैदेशिकजातेरुपनिवेश: कदाचित्स्थापितोऽभूत्’’।
मेगास्थनीज: सोयमुच्चपदस्थ:, निरपेक्ष:, बुद्धिमांश्च, पुरुषोऽभूत्। तस्य संमतिरु-पेक्षणीया न नाम सिध्येत्। तन्मतस्य अन्यान्येषामंशानां विचारे कृते निश्चेतव्यं स्याद् यदयं भारतेऽवश्यावश्यं किञ्चित्कालं स्थितो भवेत्। तद्विवरणस्य भूयस्यो वार्ता: सर्वथा विश्वास्या: सिध्यन्ति। बहूनां विषयाणामुपलभ्यन्ते प्रमाणानि। अत एव हृदि विश्वासो भवेद् यदेतास्य कृतं विवरणं प्राय: पक्षपातशून्यमेव भवेदिति।
प्रथमम्-अद्यत: २३०० वर्षेभ्य: पूर्वं भारतेऽस्मिन् न कोऽपि तदिदमजानाद् यद् भारतीया आर्या: (वैदिका:) बहिर्देशेभ्य: समागता भारतेऽस्मिन् इति। प्रत्युत सर्वेषामयमेव निश्चयोऽभवद् यद्- प्रत्येकं भारतवासी भारतस्याऽऽदिम-निवासिनां वंशज: इति।
द्वितीयम्- बहिर्देशादागतया कयाचिदपि जात्या भारतेऽस्मिन्नाद्यावधि उपनिवेश: स्थापित:। अर्थात् भारतमिदं विदेशीय लोकेभ्य: कदापि नाऽभूत्पराजितम्। सदैव स्वाधीनं समभूत्।
तृतीयम्- भारतेनानेन द्वितीये राष्ट्रे न कदाचिदुपनिवेश: स्थापित:। अर्थात् देशेनाऽनेन अपरस्य राज्याऽपहरणस्य न कदाचिदपि चेष्टा कृतासीत्। इदं हि भारतीयराजनीतेश्चिरन्तनधाराया अनुरुपमासीत्। एतदतिरिक्तम्-भारताद् बहि:, समीपस्थेषु देशेषु वैदिकी जाति:, वैदिकी सभ्यता च तस्मिन् समये सुस्थिताऽऽसीदिति पुरातनेतिहासानामालोचनया निश्चेतव्यं भवेत्।
'भारतीया वैदिकजातिरस्मिन् देश एव समुत्पन्नेति’ यदि सत्यं, तर्हि सुतरामिदं सिध्यति यद् भारतेऽस्मिन्नार्याणामभियानं न कदाचिदभूत्। यद्येवं न स्यात्तर्हि एकसहस्रवर्षाणामभ्यन्तरे एव आर्याणामभियानमिदं (मेगास्थनीजस्य समये) पूर्णतया विस्मृतं नाऽभविष्यत्।
'वैदिकजाते: (अर्थाद् भारतीयानाम्) स्मृतिशक्तिरेव दुर्बला’ इति सेयं वार्ता नाद्यावधि केनचिद् वैदेशिकेन (विपक्षेण) प्रमाणै: साधिता। प्रत्युत-ये जना: सहस्रसहस्रवर्षावधि-वंशानुक्रमेण समग्रा अपि श्रुती: (वेदान्) अन्यान्यानि च शास्त्राणि सम्यक् प्रकारेण कण्ठस्थान्य-कुर्वन्, तेषां स्मृतिशक्ति: कथं नु दुर्बला स्यात्? एवं- विधा: पण्डिता: साम्प्रतमपि दक्षिणप्रान्ते विद्यमाना: सन्ति येषां सर्वा अपि वेद-संहिता: कण्ठस्था: सन्ति। पूर्वस्मिन् समये श्रुतधरा: कवय:, पण्डिताश्च भूयांसोऽभूवन्। स्वल्पस्यैव समयस्य सेयं घटना यत् पण्डितराज-जगन्नाथतर्कपञ्चाननेन गङ्गातीरे द्वयोर्गौराङ्गयो: (आङ्गलयो:) परस्परविवाद: श्रुतोऽभूत्। तयोर्भाषां नासौ पण्डितो जानाति स्म। तथापि न्यायालये तस्य पण्डितस्याह्वाने कृते साक्षिरुपेण तयोर्वैदिशिकयोर्विवादस्य अविकलमावृत्ति: कृताऽभवत्। सेयं वार्ता सर्वत: प्रसिद्धा। शतावधानिन: पुरुषा भारते अद्यावध्यापि न भवेयुर्दुर्लभा:। (भारतमार्तण्डोपाधिधारिण: श्री गट्टूलालाजीति प्रसिद्धास्तैलङ्गब्राह्मणा जन्मान्धा अपि, शतावधानिन: किम्, सहस्रावधानिन: आसन्, येषां स्मृतिशक्तेश्चमत्कार: आङ्गलशासनेऽपि सहस्रसहस्रजनानां प्रकाण्डसभासु सर्वत: सुपरीक्षितोऽभवत्। इति जानन्ति भारतस्य सर्वेऽपि प्रान्तदेशा:।)
विशेषत:- पूर्वकाले पितृकार्यमपि देवकार्यवत् विशेषावश्यकं परिगण्यते स्म। वर्तमानसमये माता-पित्रो: वार्षिकं श्राद्धमपि न बहुभि: क्रियते, किन्तु पूर्वम् [शतवर्षेभ्य: पूर्वमेव] प्रत्येक-अमावस्यातिथौ बहव: पितृश्राद्धमकुर्वन्। तर्पणं तु नित्यकर्मैव। अत एव पूर्वतना भारतीया: निजपूर्वपुरुषाणां नामानि, तद्वृत्तान्तांश्च यथावत् स्मरन्ति स्म। अश्वमेधयागे ये ऋ त्विजो व्रियन्ते स्म, तैरेव पूर्वतनचतुर्दशपुरुषपर्यन्तानां नामान्युच्चारणीयान्यभवन्। अद्यावध्यपि घटकब्राह्मणा: (विवाहसंसाधका:) चतुर्दश-पुरुष-पर्यन्तं वंशावलिं सम्यक्तया समुपस्थापयन्ति। राजपुत्रप्रान्ते विवाहाऽवसरे वर-कन्यापक्षयोरुभयोरेव पुरोहिता: चतुर्दशपुरुषपर्यन्तां वंशावलिम् [कुत्रचित्कुत्रचित् चत्वारिंशत्पुरुषपर्यन्ताम्] अद्याऽपि वर्णयन्ति। तदिदं कर्म 'शाखोच्चार’ नाम्ना प्रख्यायते। पुरा भारते अकालमृत्युर्न सहसाऽभवत्। साधारणतया शतवर्षात्मके काले त्रय: पुरुषा निश्चेतुं शक्येरन्। ततश्च चतुर्दशपुरुषानुक्रमे प्राय: ४६६, चत्वारिंशत्पुरुषानुक्रमे च १३३३ वर्षाणि संभवन्ति। अर्थात्-साधारणतया शतशतवर्षाणां पारिवारिकमितिहासं जनास्ते परिजानन्ति स्म। निवासस्थानान्यपि तेषां स्मरणात् न प्रच्यवन्ति स्म।
भारते गता: कतिचन शताब्द्यो झंझावातविध्वस्ता:, अन्धकारमयदुर्युगरूपे व्यतिगता:, यासु माहम्मदा: पठाना: मोगलाश्च भारतमाक्राम्यन्। तत: आङ्गलानां पराधीनतादु:खम्, तत्कृतोऽपमानश्च सहनीयोऽभवत्। अस्यां नारकीयध्वंसलीलायां, निरंकुशशासनजनितैरत्याचारै-र्वैदिकसभ्यताया: मूलमेव कम्पितमभूत्। देवमन्दिराणि, शास्त्रग्रन्थानां भण्डागाराणि सर्वतो विध्वस्तान्यक्रियन्त। प्रचारकाणां समग्राणि कुलान्येव व्यनाश्यन्त, विधर्मिणो वा निरमीयन्त। एवं भयङ्करवात्यायां परित: प्रचलितायामपि मर्मान्वेषिण: सूक्ष्मरुपेण द्रष्टुं शक्नुयुर्यत् सहस्रवर्ष-पूर्वतनानां कुलपतीनां नामानि, तेषामन्येभ्य: प्रदेशेभ्य: समागमनस्य वार्ता: तत्पुरातनेतिहासश्चापि विस्मृतिगर्भे नाद्यापि विलुप्तानि। काचिदपि सुसभ्या जाति: शतसहस्रवर्षेषु व्यतिगतेष्वपि स्वीयस्य आदिमप्रदेशस्य प्रियां कथां विस्मरेदिति न कदाचित्संभवति। वर्तमाना यहूदीजातिरेतस्य निदर्शनम्। वर्तमानानां यहूदिनां संख्या एककोटितोऽपि न्यूना। द्विसहस्रवर्षेभ्य: पूर्वतनकालादेव [७० ई. तदपेक्षयाऽपि ६०० वर्षेभ्य: पूर्वत एव] ते स्वदेशान्निर्वासिता:, समग्रे संसारे च व्याप्ता:, परं किं ते एकदिनार्थमपि निजं पूर्वदेशं 'पैलेस्टाइन’ क्वापि विस्मृतवन्त:? एतस्या: स्वदेशनिष्ठाया: प्रभावेणैव यहूदीजाति: सेयं प्रथममहायुद्धादनन्तरं स्वीये 'पैलेस्टाइने’-- स्वाधीनं राज्यं स्थापयितुमभवत्समर्था। बहुसंख्यका यहूदीजातीयास्तत्रैव सन्ति साम्प्रतं परावृत्ता:।
यदि सेयमार्यजाति: सत्यसत्यं २५००-१५०० ई. पू. एतन्मध्यकाले बहिर्देशाद् भारते समागताऽभविष्यत्। तर्हि परम्परात: सेयं कथा कर्णाकर्णिकया, मुखामुखि वाऽवश्यं प्रचारिताऽभविष्यत्। सहस्रवर्षान्तराले एव सेयं विस्मृता भवेदिति नासीत्संभवपरम्। शतवर्षेभ्य: पूर्वम् 'एलफिन्स्टन:’ स्वीये भारतेतिहासे मेगास्थनीजस्य तामिमामुक्तिं समुद्धृत्य लिखति- भारतीयहिन्दूनां पूर्वजा: कदाचिदपि वर्तमानमाधुनिकं निजनिवासं विहाय कस्मिंश्चिदन्यस्मिन्देशे न्यवसन्तीति स्वीकारस्य न किञ्चित्कारणम्। वेदे, मनुस्मृतौ, मनुत: पूर्वतने अन्यस्मिन् वा ग्रन्थे, हिन्दूजातिपूर्वनिवासभूमेर्न कश्चिदुल्लेख:।
यस्मिन् समये एल्फिन्स्टनेन तदिदं लिखितं, तावत्पर्यन्तं भारते आर्यजातेरभियानस्य सेयं सुकृत्रिमा कथा नाभूत्संघटिता। मैक्समूलरादीनां गवेषणाप्रारम्भस्याऽप्यासीन्महाविलम्ब:। अहह! आधुनिकेषु इतिहासेषु, केषुचित् तत् सम्बन्धिपुस्तकेषु वा, मेगास्थनीजस्य एतस्या उक्तेरुल्लेखपर्यन्तमपि नोपलभ्यते, एतस्येदमेव सुस्पष्टं कारणं यत् बहिर्देशात् आर्याणां भारतेऽभियानस्य सेयं कथा मेगास्थनीजस्योक्ते: सुस्पष्टं विपरीता, राजनैतिकै: कल्पिता।
वेदेषु तत्सम्बन्धिशास्त्रेषु आर्याणामभियानस्य क्वापि नोल्लेख:
वेदसंहितायामाध्यात्मिकोपासनाया मन्त्रा:। वर्तमानसमये उपलभ्यमाने ऋग्वेदस्यांशे १०१७ संख्या मन्त्रा:। एषु केवलं चत्वारिंशन्मन्त्रेषु पार्थिवभाव:, सभ्यताविषयक: कश्चित्सङ्केत-श्चानुमीयते गवेषकै:। एते मन्त्रा यदि ऐतिहासिकगवेषणाया भूमिकारूपा अपि चेन्मन्येरंस्तथापि भारते आर्याणामभियानस्य सूचिका काऽपि युक्तिर्गवेषकैर्नोपलब्धा। डॉ. कीथमहोदयो वेदस्य भारतीयस्य ऐतिह्यस्य च विषये सर्वतो विख्यात: सुमहान् गवेषको मन्यते। महाभागेनाऽनेन विषयेऽस्मिन् यत्किल समीरितं तद्धि सुतरां विचारणीयम्। स हि लिखति- ''अभियानस्य विषये यानि प्रमाणान्युपन्यस्यन्ते तेभ्य: कस्यचित्सिद्धान्तस्य निर्धारणे महत्या मार्मिकताया आवश्यकता। किन्तु तदिदं निश्चितप्रायं यद् वैदिका भारतीया: केन प्रकारेण भारते प्रविष्टा एतन्निर्धारणाय ऋ ग्वेदस्य न काचित् सहायता। केवलं जनैरनुमीयते यत् अभियातृदलीया जना हिन्दुकुशघाट्या भारते कदाचित्प्रविष्टा: स्यु:, ततश्च पञ्चाम्बुप्रदेशे भूत्वा पूर्वदिशि प्रसृता भवेयु:। यदीदमनुमानं सत्यमपि स्यात्तथापि ऋ ग्वेदे आर्याणामभियानस्य छायामात्रमपि नोपलभ्यते इति वाच्यं स्यात्। (वेदस्य बाह्योऽर्थ:)।
अधिकांशत:, उत्साहिभि: पाश्चात्त्यगवेषकैर्न कदाचिदपि भारते पदार्पणमपि कृतम्। केवलं कोषस्य सहायतया वेदानामर्थस्तैरूहित:। तेषां मध्ये-कैश्चित्पाश्चात्त्यै: आर्याणाम-भियातृदलस्य भारते आदिमनिवासिभि: अनार्यै: सह युद्धस्येतिहासो नूनं गवेषित:। किमधिकम् -''तद्विष्णो: परमं पदं सदा पश्यन्ति सूरय: दिवीव चक्षुराततम्’’ इति कोटिकोटिभारतीया: सहस्रसहस्रवर्षेभ्य: प्रतिदिनमनेकान् वारानावत्र्तयन्तोऽपि नानेन किञ्चित् ऐतिहासिकं तत्वं कदाचिदपि प्राप्तवन्त:। श्राद्धे उपयुज्यमानात्-''इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम्----’’ इति मन्त्रादपि केनचित् केनचिद् गवेषकमहाभागेन आर्यजातेरादिनिवास:, अभियातृदलस्य नेतृणां नाम-धामादिकम्, किं बहुना, भारते आगमनस्य समये मार्गे आगतानां कतिचित् स्थानानां, विश्रामस्थलानां च सङ्केतो महता प्रयत्नेनान्विष्ट:। अपूर्वेणाऽनेन आविष्कारेण अन्धकारगर्भात् प्रकाशप्रापणस्य सेयं कृपा आर्यसन्तानानामुपरि कृता।
ये महाभागा एतेषामाधारेण निरायासमेव दुरवगाहेऽपि वैदिकसाहित्ये स्वमनीषानुकूलं मन्तव्यं निर्धारयन्ति तैर्मार्मिकसमालोचकस्य कीथमहोदयस्य कथनं सूक्ष्मदृष्ट्या विचारणीयम्। ऋ ग्वेदे आर्यशब्दस्य त्रिषु स्थानेषूल्लेख:। किन्तु एतस्य अर्थो जातिवाचक: कुत्रापि नास्ति [१-१०३-३, ६-२५-२, १०-६५-११]। अस्तु, विषयेऽस्मिन् भूयसी आलोचना सुसम्भवा, किन्तु तदिदं निश्चितप्रायं यत् वेदे वेदसम्बन्धिशास्त्रेषु, किं बहुना विराट् संस्कृतसाहित्येऽपि आर्याणां बहिर्देशेभ्य उपगमनस्य, अन्यस्या जातेरागमनस्य वा, आर्याणां पूर्वस्थानस्य वा सङ्केतमात्रमपि नोपलभ्यते।
देशस्य सर्वेऽपि शिक्षिता जानन्ति यत् चत्वारिंशद्वर्षेभ्य: पूर्वं सिन्धुदेशस्य 'मोहनजोदडो’ 'हडप्पा’ इति स्थलयोरतिप्राचीनसभ्यता अनुसन्धानेन पुरातत्त्वविद्भिरन्विष्टा। पुरातत्त्वविदां निर्णयो यत् इमौ जीर्णावशेषौ न्यूनान्न्यूनं ३००० वर्षाणाम् ई. पू. पुरातनौ। पाश्चात्त्यगवेषकैरद्यावधि निश्चय: कृतोऽभूद् यत् भारते आर्याणां प्रथमप्रथममभियानं २५०० ई. पू. प्रथमं नाऽभूत्। परं सिन्धुदेशस्य अनेनान्वेषणेन पाश्चात्त्यकृतं सर्वमप्यन्वेषण्ंा विपरीतं पर्यवस्यति। 'मोहनजोदडो हडप्पा’ स्थानयो: प्राचीनावशेषौ यदि आर्यसभ्यतायाश्चिह्नानि निश्चीयन्ते तर्हि पूर्वनिश्चिता आर्याणां भारतेऽभियानस्य कथा नितान्तं दुर्बला सिध्यति। यतो हि पाश्चात्यानां मतानुसारं २५०० (ई.पू.) वर्षेभ्य: पूर्वं भारतस्याऽधिकारिण: असभ्या: ('कोलभिल्लादय:’) आसन्।
मन्ये गूढनीतेरनुसारं 'मोहनजोदडो’ सम्बन्धिनी सभ्यता, सिन्धुसभ्यता नाम्ना अत एव प्रसिध्यते, अर्थात् सेयम् 'आर्यसभ्यता’ नास्ति, अपितु- 'सिन्धु उपत्यकाया: सभ्यता’ (ढ्ढठ्ठस्रह्वह्य 1ड्डद्यद्यद्ग4 ष्द्ब1द्बद्यद्ब5ड्डह्लद्बशठ्ठ) इति नाम्ना पृथक् क्रियते। 'गार्डन चाइल्डस्य’ अभिमतमस्ति यत् सेयम् आर्याणां सभ्यता नास्ति, अपि तु भारतस्य कस्याश्चन प्राक्-आर्यजाते: सम्बन्धिनी।
एतदतिरिक्तम् मध्यभारतेऽपि 'महेश्वरे’ (प्राचीन माहिष्मती) अन्यान्यस्थानेष्वापि प्राचीनतमानां ध्वंसावशेषाणां क्रमश: आविष्कारो जायमानोऽस्ति, अग्रे भविष्यति च। तर्हि निश्चितमनुमीयते यत् एतेषां स्थानानां सभ्यताम् आर्यसभ्यतात: पृथक् कर्तुम् 'नर्मदा-उपत्यकाया: सभ्यता’ 'गाङ्गेय सभ्यता’ इत्यादि नामकरणस्य मन्ये आवश्यकता भवेत्।
सिन्धूपत्यकाया: सभ्यता वैदिकी
'मोहनजोदडो’ इत्यादि स्थानेषु खननकार्यमसम्पूर्णम्। तत्र मुद्रादि (सील) षु या लिपिरुपलब्धा, तस्या: पाठोद्धारो नाधुनाऽपि जात:। अत एव निश्चितरूपेण न किञ्चित् सिद्धान्तयितुं शक्यते, किन्तु ''सेयं सभ्यता वैदिकी’’ इति साधयितुं पर्याप्तानि प्रमाणानि। पाश्चात्यैरन्वेषकैरेव तदिदं तथ्यं सर्वात्मना स्वीकृतम्-
१. 'मोहनजोदडो’ स्थाने नासाग्रदृष्टि-मूर्तयो बहुश: प्राप्ता:। नासाग्रदृष्टि:, किं वा भ्रूमध्यदृष्टि: सेयं भारतीययोगविद्याया: सुप्रसिद्धमङ्गम्। अवैदिकसभ्यताया: कलाकारा: (ग्रीक, रोम आदि देशेषु) इमामन्तर्दृष्टिं न परिचिन्वन्ति। चीन-जापानादि देशेषु ध्यानासीनासु बुद्धमूर्तिषु सेयं दृष्टि: प्राय: प्राप्यते, किन्तु ''तदिदं बौद्धमतं भारतीयस्य वैदिकधर्मस्यैव शाखा’’ भारतादुद्भूतो वा धर्म इति हि पाश्चात्त्या अप्यङ्गीकुर्वन्ति।
२. पशुपतिमूर्ति:- वेदेरुपरि योगासने स्थिता त्रिशिरा: एका साधकमूर्ति: प्राप्ता, यस्या: समन्तात् अनेके पशव: परिवेष्ट्य स्थिता:। अन्वेषकस्य सर जोन मार्शलस्याभिमतं यत् सेयं 'पशुपति’ मूर्ति:। एवं न चेत्तथापि, आसनस्य व्यवहार: अवैदिकीषु जातिषु न कुत्रचिद् दृष्ट:।
३. 'मोहनजोदडो’- हडप्पेति द्वयोरपि स्थानयो: जीर्णावशेषेषु बहूनि लघु-दीर्घाकाराणि शिवलिङ्गानि प्राप्तानि। सेयं लिङ्गपूजा वैदिकी। पाश्चात्त्यधर्मप्रचारका: ('मिश्नरी’) चिराद् घोषयन्ति-'सेयमश्लीला। सेयमनार्येभ्यो गृहीता किन्तु ''प्राग्-वैदिक्यां कस्याञ्चिदनार्यजात्यां सेयं प्रचरिता- भूदिति’’ बहुनाऽन्वेषणेनाऽपि न साधयितुमशक्यत विरोधिभि:। केवलं मौखिक: प्रवाद:। विन्टरनीजस्य मतम्-'शिवलिङ्गपूजायां न काचिदश्लीलता। प्राचीनसभ्यताया: सुप्रसिद्ध आलोचक: डॉ. ड्यूरान्टमहोदय: कथयति- ''हिन्दू-उपासनापद्धत्यां शिवपूजा सर्वाधिका तपस्यासाध्या, महासंयमसाध्या च। लिङ्गायतगणा: लिङ्गस्य श्रेष्ठपूजका भक्ताश्च। भारते तेषां सम्प्रदाय: अति संयमशील:’’। फलत: शिवलिङ्गपूजायामश्लीलता-कल्पना केवलमसभ्यता, नास्तिकता।
किञ्च-असभ्यात्, अद्र्धसभ्यात्, यवनात्, म्लेच्छाद्वा अथवा सभ्यादेव वा कस्माच्चित् समाजात् वैदिकजात्याऽनया कस्यचिद् धर्मस्य, मतस्य, देवताया: उपासनाया वा काचित्प्रणाली गृहीता शिक्षिता वा भवेदित्यस्य न किञ्चित् प्रमाणमधिगतं विरोधिभि:। सनातनधर्म:, तस्योपासनापद्धतिश्च स्वयं पूर्णा, अत्र हि स्वयं दानस्य शक्ति:, अपरस्मात् किञ्चिद् ग्रहीतुं न काचिदावश्यकता। देशस्य दुर्गते: समये पराधीनतया: कालेऽपि, विजेतृजातिभ्योऽपि, वैदिकजात्याऽनया धर्मस्य विषये न किञ्चित् शिक्षितम्, तदा सर्वविधस्वातन्त्र्यकाले स्वाधीना, विजयिनी, सेयम् 'आर्य’ जाति: कस्याश्चन परजिताया:, असभ्याया:, 'दस्यु’ जाते: सकाशाद् धर्मं शिक्षेत, इति किं बुद्धिगम्यम्? किं च तत्प्रयोजनम्? तत्रापि अश्लीलभावस्य शिक्षा। शिवपूजायां लिङ्गोपासना क्रियते। किन्तु सेयं शिवलिङ्गपूजा परब्रह्मण आदिमूर्ते: प्रतीक पूजा। सर्वाभिर्जातिभि: कर्तुं शक्या। पुरोहितस्य, दक्षिणाया:, भोग-रागादीनाम्, मन्त्रादे: नात्र आवश्यकता। न किञ्चिदाडम्बरम्। साधारणजलेन, बिल्वपत्रेण, अधिकाधिकं चेत् पञ्चाक्षरमन्त्रमात्रेण वा देवाधिदेव: सोयं सुप्रसीदति। भारतेऽस्मिन् यावन्ति शिवलिङ्गानि, शिवमन्दिराणि च न तावन्ति अन्यदेवस्य मन्दिराणि। शिवस्य यावती पूजा, न तावती अन्यदेवस्य। इदानीं विचार्यताम्-आर्याणां कृते असभ्यजातिलब्धपूजापद्धतये एवंविधसर्वश्रेष्ठा-सनप्रदानस्य किमासीत्प्रयोजनम्?
किञ्च-वर्तमानकाले भारतेऽस्मिन् विपक्षगणसूचिताया: तथाकथिताया: आदिवासि-जातेरपि साम्प्रतं नोपलब्धि:, यस्यां जातौ शिवलिङ्गस्य, शिवपूजाया वा अस्तित्वं विलोक्येत। ततश्च सेयं शिवपूजा वैदिकी, मोहनजोदडो, हडप्पास्थानयो: प्राचीनाधिवासिन: वैदिकपद्धत्यैव उपासनामकार्षुरिति बुद्धिशालिभि: स्वीकर्तव्यं स्यात्।
किञ्च-जीर्णावशेषेष्वेषु एकं चित्रमस्ति यस्मिन् एकस्य वृक्षस्य शाखायां द्वौ पक्षिणौ स्थितौ। एकस्य मुखस्य समीपे फलम् अन्य: केवलं प्रेक्षते, न तस्य फलम्। तदिदं चित्रं सुस्पष्टम्। ऋग्वेद मन्त्रस्यास्य भाव:-
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते।
तयोरेक: पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति।।
(ऋ. मं.१ सू. १६४)
यदि चित्रेऽस्मिन् सोऽयं भावस्तर्हि मोहनजोदडोगता सभ्यता वैदिकीत्यत्र क: खलु मनागपि संदिह्यात्?
तत्रैव अन्यदप्येकं चित्रं यत्र श्मशानस्य दृश्यम्। एका कलशी अद्र्धदग्धानि काष्ठानि, चिताभस्म, ज्वलच्चिता आदि। शवस्याग्निसंस्कार: प्राचीनकालादारभ्याद्यावधि वैदिक भारते एव प्रचलित:। ततश्चैवंविधचित्रै: अन्यान्यैश्च चिह्नै: सुस्पष्टं, तत: कथं साधयितुं शक्यं यत् २५०० ई. पूर्व समये आर्या बहिर्देशाद् भारते उपगता: इति।
देवी मूर्ति: (रूशह्लद्धद्गह्म् त्रशस्रस्रद्गह्यह्य)
मोहनजोदडो, हडप्पा इति स्थानद्वये विलोचिस्तानस्य भिन्न-भिन्न स्तूपेषु च बहुतरा: स्त्रीमूर्तय: प्राप्ता:। या: किल दग्धया मृत्तिकया निर्मिता:। एतासां सम्बन्धे सर जान मार्शेलेन प्रोक्तम्-''एता: किल महादेव्या मूर्तय: सन्ति (रूशह्लद्धद्गह्म् त्रशस्रस्रद्गह्यह्य)। इमा: भूमध्यसागरस्य द्वीपेषु, तथा मिनोयान् सभ्यतायां च पूज्यन्ते स्म। सेयं देवीपूजा 'आर्य’ (वैदिक) जात्यां नाऽऽसीत्। आर्येषु देवीपूजा एतेषां सकाशादेव तत्र गता।’’
परं सेयमुक्ति: सर्वथा भ्रममूला। आर्येषु द्विजवर्गे (ब्राह्मण-क्षत्रिय-वैश्येषु) प्रत्येकं व्यक्ति: दैनिके नित्यकर्मणि त्रिकाल-सन्ध्यासु महादेव्या गायत्र्या उपासनां नियमेन करोति। अपि किं तर्कबलेन तदिदमपि समर्थयितुं शक्यं यत् ''वेदमूला सेयं देवी-उपासनाऽपि 'क्रीटत:’ भूमध्यसागरप्रान्ताद्वा भारते प्रविष्टा?
किञ्च-मोहनजोदडो स्थाने या: स्त्रीमूर्तयोऽधिगता:, ता देवीमूर्तय इति न स्वीकर्तुं शक्यते। तस्मिन् काले तत्रत्या: शिल्पिनस्तावच्चतुरा: शिल्पनिपुणाश्चाऽऽसन्’’ इति तत्र लब्धाभि: 'चर्म’ खड्गावरोधिकाभि: ('शील्ड’) अन्यैश्चोपकरणै: परिज्ञायते। देवीमूर्तय: सर्वत्र कलापूर्णा: सुमनोरमाश्चाधिगता:। एतासु तु मूर्तिषु सौन्दर्यस्य, शिल्पस्य च सुतरामभाव:। एतासु अलौकिकं दिव्यलक्षणं, पूजाया: श्रद्धायाश्च परिचय:, न केनापि समर्थयितुं शक्यते।
यदीमा: पूजाप्रतिमा अभविष्यन्, तर्हि एता: शिल्प-कला विशिष्टा: अभविष्यन्। मूर्तयश्चाकारे दीर्घा अभविष्यन्। वृत्ताकारमुखा:, काकिणी-कृतनेत्रा:, स्त्रीणां मृत्तिकामूर्तय: सर्वेषु प्रान्तेषु, ग्रामेष्वपि च साम्प्रतमुपलभ्यन्ते। एता हि प्रतिगृहमच्र्यमाना: श्रीदेव्या: प्रतिमा: इति न कोऽपि मन्यते। काकिणीकृतनेत्रत्वं काकिणी (कौडी) द्वयं संश्लेष्य नेत्रकार्यं यासु कृतं स्यात् तासां मूर्तीनां विषये कथ्यते।
सिन्धु-उपत्यकायां प्राप्ता: ता इमा: स्त्रीमूर्तय: एवंविधानि शिशूनां क्रीडनकान्येव। आभि: सह भूमध्यसागरीयाया: द्रविडसभ्यताया वा न कोऽपि सम्पर्को नूनम्। विषयेऽस्मिन् श्रीमणिमाधवचौधुरीमहोदयस्य प्रबन्ध: ''सिन्धुसभ्यतार उत्पत्ति’’ सिन्धु धर्मे स्त्रीदेवतार उपासना’’ इति च द्रष्टव्यौ (प्रवासी १३५५)।
(सिन्धु-सभ्यताया: सम्बन्धे सेयमालोचना प्रकाशिता, एतद्विरोधे यावत्कालं सुदृढं प्रमाणं नोपलभ्यते, तावत्तदिदं दृढीक्रियते यत्-सिन्धुसभ्यता न काचित् पृथक्, किन्तु आर्य (वैदिक) सभ्यताया एव अन्तर्भुक्ता नूनम्)।
स्वामिविवेकानन्देन कतिपयवर्षपूर्वमलेखि-दाक्षिणात्या द्रविडजातीया: सन्ति, ते उत्तराखण्डवासिभ्य: 'आर्येभ्य:’ पूर्णतया भिन्ना:। भारते दाक्षिणात्या ब्राह्मणा एव आर्यवंशजा: एतेहि उत्तर-भारतस्तत्र गता:।’’ इदं सर्वथा अविश्वसनीयम्। सम्पूर्णं भारतं सर्वदा 'आर्य’ वंशजमासीत्।
यदि आर्या बहिर्देशेभ्यो भारतमुपगता भवेयुस्तर्हि सेयं वार्ता कस्यामप्यवस्थायां, कस्मिन्नपि रूपे इतिहासेऽवश्यं गृहीता भवेत्। विस्तृते च साहित्ये तस्या: सङ्केत: कुत्रचिदवश्यमुपलब्धो भवेत्। तिथीनां वत्सराणां च विषये भवेत् कदाचिद्वादविवादस्य विषय:, किन्तु कलि अब्द: (५०६१तोप्यधिक:) युधिष्ठर अब्द: भारते अद्यापि प्रचलित:। तदिदं किं भारतीयजाते: सिन्धु उपत्यकासमाजस्याऽपेक्षयापि प्राचीनताया: सङ्केत न करोति? आधुनिकशैलीयुक्त इतिहासो न भवेत्कामम्, किन्तु वैदिक-शास्त्र पुराण-इतिहासा: (रामायण-महाभारतादि) वैदिकसभ्यताया: ऐतिहासिकसामग्र्या सम्यक् समृद्धा:। एवं सत्यपि सेयं वार्ता कुत्रचिदपि नोपलभ्यते यत् आर्य (वैदिक) जाति: बहिर्देशाद् भारते आगतेति। अथवा तदानीं भारतमिदं विदेशीयानां पादाऽऽक्रान्तमिति।
ज्यौतिषं प्रमाणम्
भारते वैदिकसभ्यताया: प्राचीनता ज्यौतिषशास्त्रादपि प्रतीयते। प्रोफेसरो वालेस: कथयति ''भारतीयज्योतिषस्य मानानि ज्यामितेर्गणितानुसारमपि निष्पद्यन्ते।’’ प्राय: सर्वेषामपि सम्मतमस्ति यदिदं गणिततत्त्वमतिप्राचीनमस्ति। समीक्षाद्वारा एतेषां समय: ईसातो न्यूनान्न्यून: त्रिसहस्रवर्षेभ्योऽपि प्राचीन:। वालेसमहोदय: तदिदं तत्त्वं पूर्णतया प्रमाणीकरोति।
भारतीयज्योतिषस्य वर्तमान: सारो यदि पञ्चसहस्रवत्सरेभ्य: पूर्वमपि सङ्कलित: स्वीक्रियेत तदपि सभ्यताया एवंविधे उच्चतरे 'स्तरे’ प्राप्तुं न्यूनान्न्यूनम् एकसहस्रवर्षाणां समयो व्यतीतो भवेत्। अर्थात् तदिदं स्पष्टं प्रमाणितं भवति यत् ४००० ईसात: पूर्वकाले वैदिक- आर्यजात्या भारते सभ्यता प्रचारिता, इति। कलि-अब्दानां प्रचारस्य वार्ता पूर्वं सूचितैव।
आर्यावर्त: आर्यजातिश्च
आर्यशब्दोयं न वैदेशिक:, सोयं भारतीय:। देवभाषाया धातु-प्रत्ययाभ्याम् (ऋ-ण्यत्) निष्पन्न:। 'आर्य शब्दस्यार्थ:- धार्मिक:, धर्मशील:, श्रेष्ठकुलोत्पन्न:, पूज्य:, श्रेष्ठ:, उदारचरित:, शान्त:, इति, ''कृतेन हि भवेदार्यो न धनेन न विद्यया’’। आर्य शब्दस्यार्थ:- महाकुल:, कुलीन:, साधु:, सज्जन:।
''कर्तव्यमाचरन् काममकर्तव्यमनाचरन्।
तिष्ठति प्रकृताचारे स तु आर्य इति स्मृत:।।’’
भृशमन्वेषणेऽपि वैदिकभाषायां 'आर्य’ शब्दस्यार्थ: न क्वचिज्जातिवाचक:। 'आर्य’ नाम्नी काचित् जाति: न कदाचिदप्यासीत् परन्तु यदि कस्यैचिज्जात्यै 'आर्य’ नाम्ना वैशिष्ट्यं प्रदातुमिष्यते चेत्- वैदिक (भारतीय) जातिरेव एकमात्रं विशुद्धा 'आर्य’ जाति:।
तर्हि के अनार्या:?
''किं ते कृण्वन्ति कीकटेषु गावो, नाशिरं दुहे न तपन्ति धर्मम्’’
(ऋग्वेद:३/३/२९)
कीकटदेश: अनार्याणां निवासस्थानवाचक: (कीकटो नाम देशोऽनार्यनिवास:’ (यास्क:, निरुक्ते)।
ये देव-पितृणाम् मनुष्याणां चोपकारं न कुर्वन्ति, ये इहलोकादतिरिक्ते अपरस्मिन् लोके विश्वासं न कुर्वन्ति, ये अग्रिहोत्रादि यज्ञं च न कुर्वन्ति, ये तपश्चर्यातो विमुखा:, ते नास्तिका:, ते अनार्या:। ते यस्मिन् देशे निवसन्ति, तस्यैव नाम कीकट इति। (भार्गव शिवराम किंकर, 'उत्सव’)
ब्रह्मावर्त: (वेदो वा वेदज्ञा वा यत्र पुन: पुनरावर्तन्ते 'जन्म गृöन्ति’ स ब्रह्मावर्त:)।
आर्यावर्त: (आर्या: वैदिके धर्मे निष्ठावन्त: पुरुषा: पुन: पुनर्जायन्ते स आर्यावर्त:) एवंविधया व्युत्पत्त्या स्पष्टं ज्ञायते यद् भारतमेव वैदिक (आर्य)-जातेर्मूलनिवास:, उत्पत्ति-स्थानम्। आर्यभूमेर्भारतस्यास्य 'कुमारिकाखण्ड:’ इत्यपि नामधेयम्। कुमारिकादेव्या नाम्ना तदिदं निष्पन्नम्। ''वर्णव्यवस्थितिरिहैव कुमारिकाख्ये, शेषेषु चान्त्यजजना निवसन्ति सर्वे’’ [सिद्धान्तशिरोमणि: गोलाध्याय:] उत्तरस्यां हिमाचलम्, दक्षिणायां कुमारिकामन्दिरपर्यन्तं भारतमिदं सम्पूर्णमेकस्यैव देशस्य नाम्ना विख्यातम्। आर्य, द्रविडेति भेदं प्रख्यापयन्तो विचारयन्तु हृदीदम्।
वैदिक-ऐतिह्यानुसारं मनु:, शतरूपा चेति प्रथमौ राज-राज्ञ्यौ। वैदिकसभ्यताया आधार: आदिभूमि: भारतखण्ड: कुमारिकाखण्डो वा। पुरा वैदिकसभ्यता पृथिव्यां सर्वतो व्याप्ताऽऽसीत् क्रमश: सा संकुचिताऽभवत्। किन्तु बाल्यावस्यात एव भारतीया: पाठ्यपुस्तके पठन्ति- ''भारते आर्य- अभियानेन सहैव भारतस्येतिहास: प्रारभ्यते। एतेभ्य: पूर्वं द्रविडजातेर्विषये नाधिकं परिज्ञायते। आक्सस् नद्या: घाट्याम् आर्यजातिरवसत् ईसवीय एकसहस्रवर्षेभ्य: पूर्वम्, ततो बहुपूर्वं वा संघीभूता आर्या उत्तर-पश्चिमदिश: पर्वतमार्गेण क्रमश: पञ्चाम्बुदेशस्य समभूम्या अस्मिन् देशे प्राविशन्।’’
एका द्वितीया कथा (कल्पना) अस्ति यत्- शूद्रगणा भारतस्य आदिमा अधिवासिन:। पूर्वकाले ते 'दासा:’ आसन्। अमेरिकायाम्- अंग्रेजा:, पूर्तगीजा:, एवंविधाभिर्जातिभि: अफ्रिकानिवासिन: 'दासान्’ कृत्वा अस्थापयन्। तेषां वंशधरा: बहुकालं यावत् 'दासा:’ आसन्। पुरातत्ववादिन: स्वप्नायितमलिखन्- ''भारतं श्यामनेत्रवद्भिरादिमनिवासिभि: सर्वथा परिपूर्णमासीत्। तदनन्तरम् श्वेतकाया: 'आरियन्’ गणा: कस्मादपि देशाद् भारते आगता:। स देश: कीदृगासीदिति न निश्चितम्। केचिद्वदन्ति 'तिब्बत-मध्यत:’ ते समागता:, अन्ये वदन्ति-'मध्य-एशियात:’ ते उपगता:, इति। कतिपये आङ्गला वदन्ति यत् आर्याणां केशा रक्तवर्णा आसन्, अन्ये कथयन्ति तेषां केशा: श्यामा आसन्निति। कतिपये जगदु: ते स्विट्जरलैण्डस्य एकस्य 'ह्रदस्य’ तटे न्यवसन्। कतिचिदाहु:- ''उत्तरमेरुवासिनस्ते आसन्निति।’’
सर्वमिदं कथामात्रम्। सर्वत: पुरातनेषु अस्माकं शास्त्रेषु कुत्रापि सूचनामात्रमपि नास्ति यद् आर्यगणा: कुतश्चिद् बहि: बहि: प्रदेशाद् भारतमुपागच्छन्निति। प्राचीनभारतान्तर्भुक्तम् 'अफगानस्थानम्’ अपि आसीदिति न विस्मर्तव्यम्।
वैदिकजातेरासीदितिहास:
पाश्चात्यभारतीयतत्त्ववेत्तॄणाम् (ढ्ढठ्ठस्रशद्यशद्दद्बह्यह्लह्य) इतिहासलेखकानामस्ति धारणा यत्- वैदिका: (हिन्दव:) इतिहासलेखनं न जानन्ति स्म, अत: प्राचीनकालिको नोपलभ्यते इतिहास इति। किन्तु सेयं धारणा भ्रमपूर्णा। वैदिकजातिरितिहासलेखनाभिज्ञा आसीत्, लिखिताश्च तया इतिहासा:। किन्तु संस्कृतसाहित्यस्य महान् भाण्डागार: अन्यान्यै: शिल्प-स्थापत्यादि निदर्शनै: सह अत्याचारिणां हस्तै: स हि सम्पूर्णो ध्वस्तोऽभवत्। योऽद्य न लभ्यते यस्य चोल्लेखो न दृश्यते, स हि पदार्थ आसीदेव नेति न कश्चिद्विवेकी साधयितुं शक्नुयात्। वैदिकजाते: प्राचीन इतिहासो धारावाहिकरूपेण नोपलब्ध इत्यनेन नेदं वक्तुं शक्यते यत्स इतिहासो लिखित एव नाऽऽभूदिति। चीनदेशस्य प्रख्यात: परिव्राजक: ह्वेन्स्याङ्ग: सप्तमशताब्द्यां बहुवर्षाणि भारते न्यवात्सीत्, अनेकदेशानां च भ्रमणमकार्षीत्। स हि लिखति- ''घटनानामितिहासं लिपिबद्धं कर्तंु प्रत्येकदेशे एक: कर्मचारी आसीत् यो हि तमिममलिखत्। सर्वघटनानां पूर्णविवरणस्य नाम 'नीलपीतम्’ इति। विवरणेष्वेषु उत्तमानाम्, अशुभानां सम्पूर्णानामेव घटनानां दौर्भाग्यस्य सौभाग्यस्य चाऽभवदुल्लेख:।’’ 'इतिहासानां प्रात्यहिकघटनानां चोल्लेख: शासनात्पूर्वं नासीदिति ये वदन्ति ते हुएन्साङ्गस्य तदिदं वक्तव्यं विचारयन्तु। तस्मिन् समये मोगला: विश्वकोषे 'आर्यन्’ शब्द: इण्डो-यूरोपीयभाषाणां 'सा टे म्’ श्रेण्यन्तर्गत: स्वीकृतोऽस्ति। तत: 'आर्यवाद’ वादविषये ये नानाविधा वादविवादा आसन् तानुपसूच्य साम्प्रतम् आर्यवाद: विश्वकोषादिषु सुसंघटितोऽस्ति। परं भारतीयविदुषां, ये हि पाश्चात्य प्रवर्तितपाठ्यक्रमेण ज्ञानप्रवाहं सञ्चित-वन्तस्तेषां कृते शिक्षाया: पाठ: (आर्याणामभियानविषयक:) साम्प्रतमपि स एव। 'आर्या भारते बहिर्देशादुपगता:’ इत्येव ते दृढमभिजानन्ति, बाल्ये पाठ्यपुस्तकेषु अधीतत्वात्। विश्वकोषं तु वराका: कियन्त: पठन्ति?
ये केचन भारतीयैरधुना इतिहासा लिखिता:, तेषु प्राचीनसाहित्यापेक्षया विरोधदर्शनेऽपि, हृदये सन्देहसमुदयेऽपि, नाद्यावधि केनचिदपि एतद्विलेखनस्य साहसमङ्गीकृतं यद्आर्याणां बहिर्देशादुपगमनस्य कथा सर्वथा कल्पिता, मिथ्या इति।
एतत्कल्पनायां निगूढमुद्देश्यं पाश्चात्त्यानाम्। 'जननी जन्मभूमिश्च स्वर्गादपि गरीयसी’ इति मन्वानानां हृदयात् आत्मगौरवम्, स्वदेशप्रीति:, जातीयाऽभिमान: सर्वथा अपगमित:। 'अस्माभि: अन्यैर्वैदेशिकैरिव अस्मिन् देशे विजय: कृत:। अस्माकं जन्मसिद्धोऽधिकारो नास्त्यस्मिन् देशे। विदेशादागता वयमस्मिन् विदेशीया एव’’ सेयं धारणा नवशिक्षितानां मनसि दृढमूला जाता। ''स्वदेश स्वदेश बोल रहा क्यों, यह नहि तेरा देश।।’’ यथा वयं बहिर्देशादुपगता:, तथा भवन्तोऽपि बाह्यादुपगता:। यूयं किञ्चित्कालपूर्वमागता:। यावत्कालं राज्यभोगो भवद्भाग्ये आसीत् तावद् भुक्त:। युष्माकमनन्तरं मोगला: समागता:। यावत्कालं राज्यभोगस्तेषामपि भाग्ये आसीत्तैरपि भुक्त:। इदानीं वयमागता:। वयमपि भवतां समाना एव। भारते भवन्तोऽपि बहिस्त: उपगता: वयमपि। पुनर्भवतां हृदये अशान्तिर्वा, असन्तोषो वा किमर्थम्? सन्तुष्टा भूत्वा अस्मदधीना यूयं सुखं निवसथ, [इदमेव पाश्चात्यद्वारा आविष्कृतस्य ''आर्यवादस्य’’ आन्तरिकं रहस्यम्।]
आङ्गलशैल्या भारतस्य योऽयमितिहासो निर्मित:, तस्याऽध्ययनेन सेयमेव धारणा स्पष्टीभवति----यत्-आदिमकालादेव भारतस्य अन्यैद्र्वारा पराजय: प्रारब्धोऽभूत्। क्रमश: आगन्तुकाया एकस्या जातेरनन्तरम्, अपरा जातिर्भारतीयान् पराजित्य अस्मिन् देशे स्वीयं राज्यमस्थापयत्। तासु जातिषु नायं कस्याश्चिदपि स्वदेश:, पितृदेश:। आङ्गलानां भारतविजयोपि तस्यैव क्रमस्य एकोऽनुच्छेद: अन्यतम: परिणामो वा। भारतीयजातेर्मनस्सु एवंविधभावानां सम्प्रवेश: आङ्गलानां वास्तव: सांस्कृतिको विजय:। अस्माकं च वास्तविकी पराधीनता। राजनैतिकी पराधीनता अस्थायिनी भवति, परं सांस्कृतिकी पराधीनता स्थायिनी दीर्घा च भवति। आर्यवादस्य पूर्वोक्तस्य सोयं विष: भारतीयानां जातीयविचारधारां सर्वथा जर्जरामकरोत्।
पूर्वोक्तस्य 'आर्यवादस्य’ स्वीकरणे, तस्य द्वितीयांशोऽपि स्वीकरणीयो भवति यत्- वेदा: वेदमूलकानि शास्त्राणि, इतिहासपुराणानि च केवलं कपोलकल्पना:। पशुपालानां गीतानि। यतो हि तेषु आर्याणां बहिर्देशादुपगमनस्य नोपलभ्यते वृत्तान्त:। हन्त! मिथ्याकथा-कल्पनस्याऽस्य फलस्वरूपे अस्माकं वैदिकधर्मे विश्वास:, आचारे निष्ठा, प्राचीनेषु श्रद्धाप्रभृतय: सर्वे एव सत्पदार्था: शिथिलीभूता:। फलत:- आर्याणां बहिर्देशादुपगमनस्य सेयं कथा सर्वथा मिथ्या। राजनैतिकै: कर्णधारै: स्वबुद्ध्या निर्मिता। एतस्या अभ्यन्तरे गम्भीरो राजनैतिको दुरभिसन्धिरनुप्रविष्टोऽस्ति। तदिदं नि:सन्देहमभवत्सिद्धम्। वैदिकी भारतीया आर्यजाति: भारतखण्डस्य मूलतो निवासिनी। इमे आर्या: बहिर्देशादागतानां केषाञ्चिद्वंशजा: कथमपि नेति सुतरां निश्चितम्।
***