चतुर्थोऽध्याय:
मध्यकाल:
भारतीयसम्राजां वैभवभोगा:
''विभवो भोगशक्तिश्च, नाऽल्पस्य तपस: फलम्।’’ यस्य दीनस्य मध्यवित्तीय- पुरुषस्य जीवनयात्रानिर्वाहोपयुक्तं वित्तं भवेत् स हि भोग- विलासादिकं जानन्नपि कथं तदुपभोगं कुर्यात्? प्राय: प्राचीनशैल्या शिक्षिता: प्राचीनभूपालानां भोग-विलासमयीं जीवनचर्यां सर्वात्मना जानन्ति। संस्कृतपण्डिताश्च रसमयेषु काव्येषु विलासप्रकारान् बहुधा दृष्टवन्त:, तदनुकूलां चर्यां चाऽपि जानन्त्येव। किन्तु विलासमयी चर्या धनवैभवबाहुल्ये सत्येव शक्यते निर्वाहयितुम्। एतद्विपरीतम्, बहुषु पाश्चात्त्य- देशेषु धनवैभवप्राचुर्येऽपि तत्र विलासा:, भोगप्रकाराश्च लोकानामविज्ञाता:। अत एव ते धनवैभवस्य भोग-विलाससाधनत्वं न परिजानन्ति। किन्तु परमेश्वरेण यस्मै वैभव-सामथ्र्यं दत्तं स हि भाग्ये सत्येव तदुपभोगं सम्यक्प्रकारेण करोति, यथा हि शीर्षके पद्यखण्डेन सूचितम्।
कला:, ऐश्वर्यम्, विलास:, एवमादीनां सामाजिक आधार:, पूर्णा सम्पन्नता तथा सर्वविधा सुखशान्तिश्चास्तीति सर्वे जानन्ति। प्राचीनानां भूपालानां भोगविलाससङ्कथा 'पुराण’ कालिकी परिगण्यते, यत्र हि नवशिक्षितानां विश्वासो नाऽभ्युदेति। किन्तु मोगलसम्राजां शासनकाल ऐतिहासिक:। येन ज्ञानधनेन एतद्युगीया: सर्वत: सम्पन्ना:, आत्मनि विज्ञताभिमानं च धारयन्ति, तै: पाश्चात्यैरेव मोगलकालिकमितिवृत्तं प्रणीतं, यद्धि सर्वतो नवशिक्षितजगति प्रचरितम्। पाश्चात्यानामितिहासेभ्य एव अत्रत्यैरपि परिज्ञातं यत् कतिपयशताब्दीपर्यन्तं मोगलसम्राड्भि: सम्पन्नता, सुखशान्तिश्चाऽनुभूता। अत एव ऐतिहासिका: कथयन्ति यत्तेषां जीवने 'राग-रङ्गा:’ बहुश: प्राचलन्। अन्यसम्राजां विषये भवेदपि कदाचिन्मतान्तरम्, किन्तु मोगलसाम्राज्यस्य वस्तुत: संस्थापकस्य सम्राडकबरस्य शासनकाल: पूर्णतया सम्पन्न: समभूत्।
सम्राडकबरो निजं राजकोषम् चतुस्ंित्रशत्कोटिमुद्राभ्य: (३४८२२६२८६ रु.) अप्यधिकमधिकरोति स्म, इति हि यूरोपीय इतिहासलेखक: डॉ. लेट महोदय: अलिखत्। तस्मिन् समये रूप्यकस्य मूल्यं १९१४ तमख्रिष्टवत्सरापेक्षया षड्गुणमासीत्। एतदनुसारम् तद्राजकोषस्य मूल्यम् लेटमहोदयस्य शब्देषु [चतुर्विंशति कोटि 'पोण्ड’ मुद्रा: सन्ति]। अकबरस्य समकालिक: एङ्गलैण्डस्य शासक: 'सप्तम हेनरी’ महोदय: जगति सर्वतोऽप्यधिको धनिक: प्रख्यायते स्म। स हि अष्टादशलक्षात्मक-स्वर्णमुद्रा ('गिनी’) मितां स्वर्णरूप्यात्मिकां सम्पत्तिमधिकरोति स्म। तेन हि रूप्यकस्य मूल्यं न्यूनीकृतमभूदिति तस्मिन् समये प्रसिद्धिरासीत्। इङ्गलैण्डीयेतिहासस्य स्वर्णयुगस्याऽधिष्ठात्री एलिजाबेथमहाराज्ञी चतुर्लक्षपौण्ड मुद्रात्मकम् ऋ णं व्यक्त्वा स्वर्गवासिनी बभूव।
अकबरस्य शासनकाले प्रतिदिनव्यवहारोपयुक्तानामन्नादिवस्तूनां का परिस्थितिरासीदिति तत्त्वत: परिज्ञाने तत्सामयिकस्य रूप्यकस्य मूल्यं बहुतरमनुमातुं शक्येत। अकबरस्य शासनकाले एकरूप्यकस्य द्वादश 'मन’ मिता गोधूमा:, अष्टादश 'मन’ मिता यवा:, षोडशमनमिता माषा: ('उर्द’), मुद्गा: अष्टादशमनमिता:, उत्तमा: तण्डुला: एकरूप्यकस्य दशमनमिता: प्राप्यन्ते स्म। लवणम्- एकरूप्यकस्य षोडशमनमितम्, एक: अवि: (भेड) साद्र्धमुद्रया क्रीयते स्म। दुग्धं तु एकमुद्रया ४४ शेटकमितं प्राप्यते स्म। विंशशताब्द्यां जातो भारतीय: अङ्कान् इमान् श्रुत्वा विस्मितो भवेत्।
आगरानगरस्य दुर्गे औरङ्गजेबेन यदा हि स्वस्य पिता शाहजहानो बन्दीकृतोऽभूत्, तस्य च राजकोषो यदा हि तेन स्वाऽधीनीकृतोऽभूत् तदा हि तस्य रत्नानां संख्या तेन जिज्ञासिताऽभवत्। एतदर्थं कोषाध्यक्ष: फौलादखानो नियुक्तोऽभूत्। एतत्कार्यार्थं स हि अवकाशं ययाचे। षण्मासानन्तरं स हि सम्राजे उत्तरमददात् ''रत्नानां परिगणनार्थम्, तेषां मूल्याङ्कनार्थं च न्यूनान्न्यूनं चतुर्दश वर्षात्मक: समय: समपेक्ष्यते। अवरङ्गजेबो विवशतया स्वस्य प्रबलमौत्सुक्यं खर्वीचकार। शाहजहानस्य सविधे पञ्चकोटिमुद्राणां रत्नानि तस्य व्यक्तिगता सम्पत्तिरासीत्। एतदतिरिक्तं कोटिद्वयमुद्राणां रत्नानि राजपरिवारेभ्य: उपायनरूपे अदीयन्त। तस्य जगत्प्रसिद्धमयूरसिंहासनं स्वर्णरत्नमयमेवाऽऽसीदिति को न जानाति।
एवंविधवैभवमयीमाधारशिलामधिष्ठाय मोगलसम्राजां विलासमयं जीवनं विचित्रै: शिल्पमयैश्च कृत्यैराप्लावितं प्राप्यते। विलासा:, नानाप्रकारका उत्साहा:, तदर्थं नवीननवीना: प्रयोगा:, नानाविधा मनोरुचय:, विभिन्नप्रकारकाश्चित्तप्रसादाश्च तेषां जीवनचर्यायामवाप्यन्ते। कलानां, साहित्यस्य च स्वाभाविक: प्रणयस्तेषां जीवनकाले सर्वतो विकीर्ण: प्राप्यन्ते। सम्राड् बाबर: चिर्भटकाया: ('खरबूजे’) भोजनं भृशमभिरोचयति स्म। स हि पुष्पाणां, मनोहरपल्लवानां चाऽपि महान् प्रणयी आसीत्। मृगया प्राय: सर्वेषामेव मोगलसम्राजामभिरुचिता बभूव। सम्राजा अकबरेण विशिष्टप्रकारिका एका मृगया-प्रणाली आविष्कृताऽऽसीत् या हि 'कमरघा’ इति प्रख्यायते स्म। सेयं क्रीडा अतीव लोकप्रियाऽभवत्। एतस्यां बहव: मृगव्यान्वेषका: ['हकने’ शिकारका पता लगाने वाले] चत्वारिंशत्क्रोशपरिमिते परिसरे मृगयापशून् परिवेष्टयन्ति स्म। शनै: शनैस्तमेतं मृगयापशुं सम्राज: समीपे आनेतुं प्रयतन्ते स्म, येन गजोपरि संस्थित: सम्राट् सकौतुकं मृगयां तनुयात्। तस्मिन् समये सम्राजं विहाय, न कश्चिदन्यो वन्यहस्तिनो गृह्णाति स्म, न च चित्रमृगस्य मृगयां करोति स्म।
जहाँगीर: पशूनां मिथोयुद्ध-दर्शनस्य परमानुरागी आसीत्। स हि हस्तिनां, महिषाणां च युद्धमपश्यत्। कदाचित्कदाचित् मनुष्यानपि महिषै: सह योधयामास। स हि एवंविधेषु नृशंसेषु क्रीडनेषु परममनुरज्यति स्म। सम्राट् अकबर: 'चौसर’ (चौपड) क्रीडायां 'गुटिका’ स्थाने परिचारिकाणां प्रयोगमकरोत्। अकबरश्चित्रकलायै अपि परमं प्रश्रयमदात्। तस्य राजसभाया: ('दरबार’) प्रख्यातश्चित्रकर: अब्दुलसमद: 'कुरानस्य’ १२२ तममध्यायं 'कुक्कुरमुत्ता’ पुष्पस्य बीजोपरि समग्रं लिलेख। जहाँगीर: स्वयं चित्रकार:, चित्रपरीक्षकश्चासीत्। स हि स्वजीवनचरिते स्वयं लिखति- ''मम चित्रकलाज्ञानस्य, एतत्कलापरीक्षणस्य च शक्तिस्तावतीं सीमानं प्राप, यत् मृत:, किं वा जीवितो मत्परिचित: कालाकारो यां कलाकृतिं चकार, अहं कलाकारस्य नामनिर्देशं विनैव तत्कालं पर्यचिनवं यत् कीदृशी कृति: कस्य कलाकारस्याऽस्तीति। यदि द्वाभ्यां कलाकाराभ्यां मिलित्वा चित्रे कस्मिंश्चन-----भृकुटि:, मुखं च चित्रितं, तर्हि अहं तत्कालमेव निरदिशम्- 'मुखं केन चित्रितं भृकुटिश्च केनेति।
उद्यानविषयकं शिल्पम्, स्थापत्यम्, नृत्य-सङ्गीते, एतदादीनां परिज्ञानं रुचिश्च सर्वेष्वेव मोगलसम्राट्सु स्वाभाविकमिवाऽऽसीत्। एतदतिरिक्तम्, भोजन-सामग्रीचयन-----चातुर्यं सम्राट्सु बाहुल्येन व्यलोक्यत। सम्राजो भोजनालयस्य प्रात्यहिको-व्ययोऽनेक सहस्रमुद्रामित: साधारणतयाऽभवत्। राजहम्र्यस्य सर्वोपि व्यय: एककोटिमुद्रात: कथमपि न्यूनो नासीत्। सम्राड्युवराजपत्नीनाम्, राजकुमारीणां हम्र्यस्य उपमहिषीणाम् (रक्षितानाम्), प्रौढनारीणाम्, गायिकानाम्, सर्वासामेव स्वरूपानुसारं सम्मान:, तदुचितो व्ययश्चासीत्। हम्र्यमालायां कर्तव्यानुसारिण्यस्तासां पदव्योऽपि सम्मानसूचिका: समभवन्। गृहप्रबन्धिकानाम्- 'शाहे खानम्’ ('घर की बादशाह’) सम्राट्- पुत्रीणाम् 'दुर्र ई दुरनि बेगम’ ('शाहजादियों में मोती जैसी’) रक्षिता: प्राय: 'बादामचश्म’ (बडी-बडी आँख वाली) इत्यादि संज्ञाभिरस्मर्यन्त। शृङ्गारे प्रौढानां 'फलाकि बानो’ सौभाग्यशालिमहिला, कञ्चुकिन्य: स्त्रिय: मृगनयनी, रसबाई, नीलम, अमृतादि पदकान्यवहन्। मोगल-सम्राज: हिन्दी-संस्कृतनाम्नां प्रयोगमतिप्रणयेनाऽकुर्वन्।
हम्र्ये समागता राजकुमार्य: नृत्य-सङ्गीत-कामशास्त्रादीनामध्ययनमकुर्वन्। तत्र हि शृङ्गारमयानि काव्यानि बाहुल्येनाऽपठ्यन्त। सम्राट्कुमार्य: आभरणानामति-प्रणयिन्य: अभवन्। एतासां भूषणान्यपि अतिबहुमूल्यान्यभवन्। अङ्गुलीषु महामूल्यान्यङ्गुलीयकान्यधारयन्, यासु दर्पणान्यपि जटितान्यभूवन्। ता मुहुर्मुखदर्शनविनोदेन अप्रीयन्त। प्रत्येकमाभूषणं बहुसंख्यकं बहुमूल्यं चाऽभवत्। तासां परिधानानि अतिबहुमूल्यानि पुष्पसारै: सुवासितानि चाऽभवन्। एकस्मिन् दिवसे बहुवारान् परिधानीयानां परिवर्तनमभूत्। एकवारं शरीरे धृतं वस्त्रं पुनस्तदेव न कदाचिदप्यधार्यत। परिधानीयानीमानि अतिसूक्ष्माणि सुदृश्य-सुस्पर्शानि चाऽभूवन्। 'इटेली’ प्रदेशस्य पर्यटकेन 'निक्कोलो मनुकि’ महोदयेन वर्णितम्- 'प्रत्येकवस्त्रस्य भार: एक 'ओंन्स’ तो नाधिकोऽभवत्। स्त्रीणामुत्तरीयाणि ('ओढनी’, 'शाल’) तादृक् सूक्ष्माण्यभवन् यत् तानि अङ्गुलीयकस्याऽभ्यन्तरे प्राविशन्।
सम्राजां राजपुत्रा अपि प्रायशो विलासरुचयोऽभवन्। कस्यचित् सम्राट्पुत्रस्य चेत् कुमार: अभवत् तर्हि तस्य नामकरणम्, तस्य कृते प्रतिमासवेतननिर्धारणं च तस्य पितामहाधीनमासीत्। जहाँगीर:, नूरजहाँ च काव्यनिर्माणप्रणयिनावास्ताम्। मोगलवंशस्य रक्ते विलासप्रवाह: स्वाभाविक इवासीत्। सर्वेऽपि प्राय: काञ्चन-कामिनी-कादम्बस्य स्वभावतीऽनुरक्ता आसन्। जहाँगीरो मद्यस्य पात्रमतिप्रणयेनाऽस्तौत्। मुहम्मदशाहस्तु 'रँगीला बादशाह’ नाम्ना प्रख्यातोऽभूत्। 'जहाँ-दारशाह:’ अतिविलासी आसीत्। एका नर्तकी तस्यातिप्रेयसी बभूव। सम्राज: शिरसि धारणीयं छत्रं तयाऽपि धारणीयमभूत्। सा हि दीपप–ि-दर्शनं बहुधा अभ्यरोचयत्। अत एव प्रतिमासं त्रीन् वारान् सर्वस्मिन्नपि नगरे 'दीपावली’ प्राभवत्। दीपान् अप्रज्वालयन् नागरिको राजाज्ञया दण्डितोऽभवत्।
सम्राट्प्रेयसी ('लालकुँअर’) यात्रिभि: परिपूर्णाया नौकाया जले निमज्जनं न कदाचिद्- अद्राक्षीत्। आसीच्च तस्या महानभिलाष: अत एव तस्या: सङ्केतमात्रेण सम्राज:- आज्ञयैकदा-यात्रिभि: परिपूर्णा नौका यमुनाया धारायां तत्कालं निमज्जिता नौचालकै:।
***
सोमनाथे यवनाक्रमणम्
गुर्जरस्य पश्चिमायामस्ति 'कठियावाड’ नामक: प्रायद्वीप:-यस्यास्माकमितिहासे---'सौराष्ट्रम्’ इति नामधेयम्। प्रायद्वीपस्य दक्षिणतटे भगवत: सोमनाथस्य (शिवस्य) महाविशालं पावनं मन्दिरम्। पुरा ह्यासीदस्य महन् माहात्म्यम्। ग्रहणादिपर्वसु द्वित्र- लक्षयात्रिणामभूदत्र महान् समारोह:। राजभिर्महाराजैश्च देवोत्तरसम्पत्ति रूपेण प्रादीयन्त द्विशतग्रामा येषामायेन मन्दिरस्य व्ययो निर्वाह्यते स्म। ऐतिहासिकैरेतस्य मन्दिरस्य महद्वैभवमावर्णितम्। अत्र हि द्विसहस्राण्यर्चका:, पञ्चशतानि नृत्याङ्गना:, द्वे शते चासन्नियता गायका:। मन्दिरस्य मध्यावलम्बिनी महती घण्टा द्विशत 'मन’ सुवर्णनिर्मितया शृङ्खलया ललम्बे। देव-स्नानाय प्रत्यहं पञ्चशतक्र ोशेभ्य: समाह्रियते स्म गङ्गाजलम्। एवमिवान्यान्या अपि मन्दिरस्य वैभवसूचिका वार्ता: सुप्रसिद्धा इतिहासेषु। अस्तु, अयं किल भगवत: सोमनाथस्य संक्षिप्त: परिचय:। साम्प्रतमाक्रमणकारिणो गजनीस्थानीयस्य महमूदस्यापि किञ्चित्परिचय: प्रदीयते।
अफगानस्थाने गजनीनामकमासीत्सुप्रसिद्धं नगरम्, यत्र हि दुर्गममभूदेकं दुर्गमपि। ९९७ तमे ख्रिष्टाब्दे सुबुक्तगीन नामके एतदीयेऽध्यक्षे लोकान्तरमुपगते, तत्पुत्रमिस्माइलं निगडयित्वा महमूदोऽभूदस्य शासक:। अयं हि सुबुक्तगीनस्य रक्षिताया वेश्याया: पुत्र:। एष माहम्मदधर्मस्यासीद् घोर: पक्षपाती। सदैव येन केनाप्युपायेन स्वधर्मस्य प्रचारे प्रयत्नशील: सोयं द्रव्यलालसाग्रस्तोऽपि परकाष्ठाया आसीत्। आभ्यामेव कारणाभ्यामाकृष्ट: सोयं दुर्दान्त: सप्तदशवारानस्माकमाचक्राम देशम्। एतस्यान्तिममाक्रमणं सोमनाथेऽभूद्यस्य संक्षिप्तो वृत्तान्त: प्रकटीक्रियतेऽधस्तात्।
१०२४ तमस्य ख्रिष्टाब्दस्य सितम्बरमासे महमूद: प्रातिष्ठत गजनीनगरात्। अनेन सह चत्वारिंशत्सहस्राधिका सेना, विंशतिसहस्रणि चासन् भारवाहका: उष्ट्रा:। अक्टूबरमासे सोयमुपागमन्मुलतानम्, ततश्चोपाययावजमेरुनगरम्। अजमेरस्य शासकस्तस्योपगमवृत्तमाकण्र्यैव पलायाञ्चक्रे । अत एव शासकशून्यामिमां राजधानीं प्रान्तं च यथेच्छमयं लुलुण्ठ, भ्रंशयामास च तत्स्थानानि। लाभलोभादग्रे प्रवृद्ध: सोयं गुर्जरप्रदेशस्य सुसमृद्धाम् 'अनहिलवाडा’ नाम्नीमवाप राजधानीम्, यत्रत्य: शासकोऽप्येत्दभयाद् दूरं दुद्राव। इमं प्रदेशं लुण्ठित्वा सोयं समुपययौ सोमनाथम्।
भयङ्करभावनाभि: सह कृतोपनिवेशे चास्मिन्, स्वल्प एव काले विदितमभूदेत-दागमनस्य कारणं लोकानाम्। एक: साहसी पुरुषस्ततमेवं न्यवेदयत्-'यदि त्वमात्मनो हितं कामयसे तर्हि प्रत्यावर्तस्व स्थानादस्मात्। अन्यथा मन्दिराधिष्ठितो देवस्त्वां नाशयेदञ्जसा’। किन्तु द्रव्यलालसान्ध: स दुर्दान्त: कथमेवं भत्र्सनाभि: परावर्तेत? स हि मन्दिरमाक्रमितु-मादिशन्निजवीरान्। यवनसैनिकैरेतै: क्षण एव सर्वेऽप्यपसारिता: शान्तिप्रिया लोका:। मन्दिरान्त: स्थिता लोका: संभूय शम्भुमभ्यर्थयामासिरे-'भगवन्। रक्ष न: साम्प्रतम्’। किन्तु भारतीयानामिव विदेशीयानामपि स्वामिन: पिनाकिन: साम्प्रतं किं चिकीर्षितमिति कथं ते वराका विद्यु:? बहि: स्थिता यवनसैनिका: 'अल्लाहो अकबर’ इति घोषै: दिशो मुखरयन्तो बलात्प्रावि-क्षन्मन्दिरान्त:। उपान्तवासिभि: क्षत्रियैर्यथैव सोयं दु:संवादोऽधिगतस्तथैव सशस्त्रमुपगतास्ते म्लेच्छानिमानाक्रमन्त, निपातयामासुश्च सर्वान्मन्दिरस्य बहि:। अस्मिन्नास्कन्दने न्यहन्यन्त बहवो यवना:। त्रीणि दिनानि समभूद् घोरयुद्धम्। अनहिलवाडराजधान्या: शासको निजसेनामुपादाय समाययौ साहाय्याय हिन्दूनाम्। शूराणां क्षत्रियाणां बाहुल्यमालोक्य नाग्रे प्रससार साहसं यवनानाम्। सम्मुखमुपागतमिव प्रतिक्षणं लक्षयामासुस्ते निजपराजयम्। सर्वथा निकटागतमनिष्टमवधार्य महमूदो निजसेवाध्यक्षान्प्रतिबोधयामास नानाधा, धर्मस्य ईश्वरस्य च शपथेन सर्वानिमानुत्तेज-यामास। धर्मबलानुप्राणितेषु यवनेषु पुन: सञ्चचार साहसम्। प्ररोचनावाक्यैद्र्विगुणीकृतविक्रमास्ते महताऽऽवेशेन युद्धाय समनह्यन्त। स्वयं महमूद: सोत्फालमारुरोह रणतुरगम्। साहसिनं स्वामिनमग्रगामिनमालोक्य सर्वेपि योधा युगपदाक्रामन् मन्दिरमिदम्। हन्त! चिरयुद्धपरिश्रान्तै: क्षत्रियवीरैर्नेदमाक्रमणमशक्यत सोढुम्। युद्धेऽस्मिन् पञ्चसहस्रहिन्दवो जलमार्गेण पलायितुं प्राक्रमन्त येषु बहवो यवनैर्विवशं निगृहीता निर्दयं न्यहन्यन्त।
इदानीं महमूदो मन्दिरं प्राविक्षत्। अहह तत्रत्यं विभवमालोक्य समवापदनवाप्त-पूर्वं विस्मयमसौ। अतितुङ्गमासीन्मन्दिरम्। अस्याभ्यन्तरभागे धनुषाकारेषु मन्दिराधारेषु देदीप्यमान-रत्नखचिताश्चित्रविचित्रा: षट्पञ्चाशदासन् सुवर्ण-स्तम्भा:। मन्दिरे नासीत्सूर्यरश्मीनां प्रवेशो यथावत्, अत एव महामहत्या सुवर्णशृङ्खलया लम्बमान: प्रकाशते स्मैको गन्धदीपो रात्रिन्दिवम्। मन्दिरद्वारमाविश्यैव सोमनाथस्य विशाला मूर्तिरभूद् दृग्गोचरम्। सा ह्यासीन्नवहस्तोन्नता, यस्यां साद्र्धत्रिहस्तपरिमिता भूप्रोथिताऽभूत्। मूर्तिमवलोक्यैव स समादिशद् भुम्। भीषणवज्रपातोप-ममिममवलोक्य व्यतिकरं मन्दिराभ्यन्तरस्थिता देवपूजकास्तस्य निपेतुश्चरणयो:, बद्धाञ्जलय: सदैन्यं प्रार्थयाञ्चक्रिरे-'अस्मदाराध्यस्य देवस्य सेयं भूमिर्न चेद्भवता खण्ड्यते तर्हि समर्पयामस्तावद् द्रव्यं यावन्न कदाचिदपि श्रीमता संगृहीतं स्यात्’। द्रव्यलोलुपोऽसौ प्रार्थनामाकण्र्य विचारमूढो निभृतमस्थात्। एतस्य सचिवा अपि धर्म-दयाऽऽविष्टा: सूचयामासुरात्मन: सम्मतिम्-'एतेषां ब्राह्मणानामवधारणीयैव सेयं प्रार्थना’।
परं किञ्चित्कालं विचार्य स्वयमेवासौ देवार्चकानुवाच-'मूर्तिरक्षकतापेक्षया मूर्तिभञ्जक-ताकीर्तिरैव मेऽधिकं प्रिया। अहमस्मि मूर्तिभेत्ता, न तावन्मूर्ति-विक्रेता’, इत्युक्त्वैव धर्मान्धोसौ निजलगुडेन मूर्तिमभ्याजघान। तत: सर्वेपि यवनास्तामिमां मूर्तिं प्राहार्षु:। प्रतिमाऽसौ व्यदीर्यत। किन्तु दृश्यतां भगवतोऽद्भुतं समीहितम्, यन्नानेन भगवान् क्रुद्धो जात:। अपि तु पाषाणानां स्थाने प्रतिमाभ्यन्तरे पूर्णैर्महामहार्घैरसंख्यै रत्नैस्तत्स्थानमपूर्यत। नास्मिन्संदेहो यन्मूर्तिरक्षायां यावान् धनलाभो महमूदायाऽभविष्यत्तदपेक्षया भूयानधिको लाभो मूर्तिखण्डनेऽभवत्। किन्तु देवमूर्तिविदारणस्य दुष्कार्याद्दुर्दमनीयेन द्रव्यलोभेन चास्य चरित्रं चिराय कलङ्कितमक्रियत।
चित्रं, चतुर्धाऽसौ मूर्तिरभज्यत। तेषामेकैकं खण्डं मक्कामदीनातीर्थयोरवशिष्टौ द्वौ खण्डौ च महमूदो गजन्यां प्रेषयामास। गजनीप्रेषितयोरनयोरेक: खण्डो राजहम्र्येऽपरश्च प्रधाने यवनोपासनास्थाने (मसजिद)ऽस्थाप्यत। मन्दिरद्वारमपि चन्दननिर्मितमासीत्, यस्योपरि कुशल-शिल्पिकृतमुत्करणकार्यमत्यद्भुतभासीत्। तदपि गजनीं प्रैष्यत। द्वारमिदमष्टशतवर्ष-पर्यन्तमतिष्ठद् गजन्याम्। १८४२ तमे ख्रिष्टाब्दे सम्राट् प्रतिनिधे लार्ड एडिन्बरा महोदयस्याज्ञया प्रधानसेनापति: 'नाट’ महोदय: सुमहता समारोहेण द्वारमिदं पुनर्भारतं प्रत्यानयत्, यत् अधुनापि अस्य नगरस्य दुर्गाभ्यन्तरेऽवतिष्ठते। एकस्य शिल्पकलाविचक्षणस्य कथनमस्ति यदिदं द्वारं न चन्दननिर्मितम्, अपि तु देवदारुघटितम्। एतस्योपरितनं कारुकार्यमपि यवनशिल्पशैलीमनुहरते, अत एवानुमीयते यन्नेदं तद् द्वारं सोमनाथमन्दिरस्य वस्तुत:।
एतस्मिन्नाक्रमणे महमूदेन यावद्द्रव्यमुपलब्धं तस्य यदि वर्णनं तत्त्वत: क्रियते, जनानां दृष्टौ तन्मिथ्या प्रतीयेत। एतावदिदमासीद् यदस्य पूर्णतया परिसंख्यानमपि न स्थिरीभवति। अस्तु यत्किञ्चित्। तथाप्यैतिहासिकानामिदं वर्णनमवश्यं विश्वासार्हं सर्वेषामाक्रमणानामपेक्षया प्रभूततमं द्रव्यमस्मिन्वारे यवना: स्वदेशं निन्यु:।
स्वदेशमुपगतो महमूद: १०३० तमे ख्रिष्टीयसंवत्सरे (अप्रेलमासस्य १९ तारिकायाम्) पञ्चत्वमगात्। आसीदस्य वयस्तदा पञ्चाशद्वर्षात्मकम्। चतुस्त्रिंशद्वर्षाण्यसौ राज्यमशिषत्। मरणात्पूर्णमयं सर्वामप्यात्मन: सम्पत्तिमानाययामास सम्मुखे, द्वे दिने च तया-साकमन्तिमं प्रणयमदर्शयत्। आत्मन: प्राणान्पणीकृत्य परमपरिश्रमेण या समृद्धिस्तेनाऽर्जिता तामत्रैव विहाय विवशमयं प्रतिष्ठते लोकान्तरमिति चिन्तासन्तापेनास्य नेत्राभ्यां प्रावहन्नविरलमश्रुधारा:। अन्तसमये परिसंख्यानतोपि बहिर्भूतामपारामिमां धनसमृद्धिं विजहतोऽस्य दु:खमवश्यमभूत्, परं नेदं तस्य मनस्यभवद् यदस्माद्धनराशेरेकामपि मुद्रां विसृजेदसौ लोकोपकाराय धर्माय वा। समग्रामपि सम्पत्तिमसौ पुन: पूर्ववद्धनागारे स्थापयितुमादिशत्। हन्त! किं तावदस्ति साम्यमेतस्य कार्पण्यस्य कुत्रचिद् भूमण्डले? द्रविणस्य दर्शनानन्तरं द्वितीय-दिने-समग्रां सेनाम्, हस्तिनस्तुरगान् शिबिकादिकञ्चाखिलं सम्यगलङ्कृत्य निजसम्मुखमानेतुमादिशत्। एतत्सर्वमालोक्य स हि सोच्चै:स्वरमरोदीत्।
नास्मिन्कश्चिदपि सन्देहो यन्महमूद: शूरो राज्यलोलुप:, उत्कृष्टो योद्धा महापराक्र-मश्चासीत्। एतदतिरिक्तमेतस्मिन्नासीद् विद्याभिरुचिरपि च गुण: कश्चित्। फिरदौसी नामकं महाकविमयं कवितानिबद्धमेकं ग्रन्थं निर्मातुमादिशद् यस्य प्रतिपङ्क्ति चैकैकं 'दीनारम्’ दातुं प्रतिजज्ञे। 'दीनार’ नामको नाणक: सुवर्णस्य रजतस्य च पृथक्-पृथक् प्राचलत्तस्मिन्समये। महमूदस्य च पुरस्कारप्रतिज्ञा नासीद्विस्पष्टार्था यदहं सुवर्णस्य रजतस्य वा दीनारान्वितरेयमिति। किन्तु महमूदस्यालोकसामान्यं धनवैभवामालोक्य कवि: स्वमनसैवाऽकल्पयद्यन् महाविभवोसौ सम्राट् सुवर्णस्यैव दीनारान् समर्पयेन्न रजतस्य। परमपरिश्रमेणाद्भूतं ग्रन्थं निर्माय यदा कवि: सम्राटसम्मुखमुपाहरत्तदा तेन परिज्ञातं यद्रजतस्य दीनारा: समप्र्येरन्। मनस्वी कवि: क्रोधाविष्टो महमूदमनालोक्यैव निजगृहमगात्तस्योपहासपरमन्यं चैकं ग्रन्थं निर्ममौ, यस्योपरि गभीराशयो महमूदो न किञ्चिच्चकार। प्रत्युत कवे: क्र ोधोपशमाय प्रजिघाय महामूल्यमुपायनम्। किन्तु महान्खेदो यन्नास्योपायनस्यासीत्कश्चिदुपयोग:। नेदं कविना चक्षुभ्र्यां वीक्षितमपि। उपयानवाहिनो राजपुरुषा यथैव कवेर्गृहं प्रापुस्तथैव गृह-पुरुषा: कवे: शवमादाय श्मशानं प्रत्यचलन्।
गजनवीयोसौ महमूदोत्यन्तमासीत्कुरूप:। नासौ जातु दर्पणमवालोकयत् । एकदा मुकुरे मुखमात्मनो विलोकयन्नसौ भूयस्तरां विषसाद जगाद च समीपस्थान् यद्राज्ञो रूपमाकर्षकमेवापेक्ष्यते वस्तुत:। किन्तु दैवेच्छायां किं जन: कुर्यात्। विधाता मामेवं निर्ममौ यन्मामवलोक्यैव लोकानामुदेति घृणा। कतिपये ग्रन्थकाराश्चैवमवर्णयन् यन्महमूदो निजसौन्दर्यैण-नाऽशकत् प्रीणयितुं जनान्, अत एव निजपराक्रमेणासौ सर्वांश्चकार चकितान्। यदीदं तथ्यं तर्हि स्पष्टमिदमस्ति यन्महमूदस्य कुत्सितं रूपमेवासीत्तस्य वैभवस्य कारणम्।
महमूदेन गजनवीनगरमिदं सम्यगावासितं परिष्कृतं च। प्रजानां सौख्याय स्थाने स्थाने धर्मशालादिका: प्रणीता:। राजधान्यामेका महापाठशालापि प्रत्यष्ठापि यस्यां पर:सहस्र हस्तलिखिता: समगृह्यन्त ग्रन्था:। विदुषां साहाय्याय लक्षमुद्रास्तेन पृथगकल्प्यन्त। महावीरो-सौ त्रिंशद्वर्षैर्निजराज्यमीरानोपसागरमारभ्य यूरालसर: पर्यन्तम्, कुर्दिस्तानस्य पर्वतमालामारभ्य शतद्रुनदी पर्यन्तं वद्र्धयामास। एतावतो राष्ट्रस्य प्रभुरप्यसौ 'मूर्तिभञ्जक’ ('बुतशिकन’) विरुदेनैवात्मानं धन्यं मेने। चित्रं विधेर्विलसितम्।
***
नादिरशाहस्याक्रमणम्
भारतवर्षमिदमात्मनो धनशालितया सज्जनतया उदारतया सहनशीलतया च दुष्टदस्यूनां दृष्टिं दु:खाकरोति स्म चिरादिति विदितमितिहासविदाम्। वयं विपुलपरिश्रमेण सत्यतया च धनमध्यगच्छाम किन्तु नान्वतिष्ठाम तद्रक्षायै प्रयत्नम्। अस्माभि: सञ्चितं सुवर्णं सर्वत: किन्तु तद्रक्षणाय लोहस्यास्त्रशस्त्राणि नोत्पादितानि। परिणामोयं समभवद् यद् ये किल धने विद्यायां चास्मत्त: प्रहीणा आसंस्तेऽप्युद्दण्डतयाऽस्मदावासमाचक्रमु:। सर्वस्वं चास्माकमपहृत्य हरिणीप्लुतै: पलायमाना नि:शङ्कमगमन्नात्मगृहान्। आसीदावश्यकता यद्यथा वयं ज्ञानार्जनाय धनसञ्चयाय चाहर्निशं पर्यश्राम्याम तथा तद्रक्षाया अप्युपाया: कर्तव्या आसन्, किन्तु शान्तिमयी नि:स्पृहता नैवं कर्तुमदिशदवसरम्। इदमेवासीत्कारणं यदस्माकमशिक्षितोऽसभ्यश्च प्रतिवेशी अफगानिस्तानपरिसरो न केवलमानन्देनाऽऽत्मरक्षामेवाऽकरोत्, अपि तु समये समयेऽस्माकं देशं प्रविश्य लुण्ठनेऽप्यभूत्प्रवृत्त:। न च कश्चित्तमेनं दमयितुं प्राभवत्। प्रत्युत य: कोपि भारतं प्रविविक्षुरत्राऽऽगतस्तस्यैव लोकातिशायिन्या: सभ्यताया: कारणात् अग्रे समुपसृत्य स्वागतमिवाकार्षीत्। सादरं स्थानं दत्त्वा स्वकीयं वस्त्रं तेन पर्यधापयत्, स्वकीयं जठरमवमुष्य तस्मै भोजनमदात्, भ्रातरमिव च तमेनममानयत्।
पर्यवसानमिदमभूद्यद् यदा वयमशयिष्महि, प्रत्युत सानन्दं शयनमपि यावन्नापूर्यत, तत:पूर्वमेवास्माकमतिथिभिर्वयमाक्रान्ता:, हस्तौ पादौ च निगडयित्वा भूमौ वयमापातिता:। अपानीयत सर्वस्वमस्माकम्। क्षुत्क्षामा: समभूम, अलुप्यत विह्वलानां नो धर्म-कर्मणोरपि चिन्ता। समुदभवद्भ्रात्रोरपि मिथ: कलह:। स्वर्णमयं भारतं भस्मसादभूत्, न चेदमेकदा, अपि तु मुहुर्मुहु:। अस्माकमभूदियं परिस्थितिर्यदा चंगेजखानो भारतं प्राविशत्, तैमूरो यदा घातशूरोऽ-भवत्। किन्त्वस्मिन् वारे सर्वतोऽधिका दु:स्थितिरभूद्यदा हि नादिरशाहो देशमिममास्कन्दत्। तद्दिनमनुस्मृत्य वेपते हृदयम्, सीदत्यन्तरात्मा। इदानीमपि यदा वयं घोरमन्यायमालोकयामस्तदा 'नादिरशाही’ ति तमनुशोचाम:।
कम्बोजानाम् (बाह्लीकदेशस्य) मार्गेण सीमागिरिमालामुल्लङ्घ्य पञ्चनदान्प्रावि-शन्नादिरशाह:। नौसेतुभि: सिन्धुमातीर्याऽभूदयमग्रेसर:। लाहोरप्रान्तशासक: केवलं यत्किञ्चिद-करोदस्य प्रतिरोधम्, नैनं विहाय कश्चिदन्योऽस्य सम्मुखमप्यगात्। नि:शङ्कमग्रे प्रसृतोऽसौ समुदलंघयद्यमुनाम्, इन्द्रप्रस्थात्पञ्चाशत्क्रोशान्दूरमयमुपागात्। एतस्यास्कन्दनमाकण्र्य दिल्ली-शासको मुहम्मदशाहो व्याकुलोऽभूत्। हन्त! विलासरसमग्नस्य क्वाऽस्य नृत्यगोष्ठी कुत्र च नादिरशाहस्य रणोन्मत्ता वीरवाहिनी।
अतियत्नैरिन्द्रप्रस्थीया सेना समरसम्मुखीनाभूत्। दिल्लीसम्राट् आसफजाहं सह नीत्वा समुपागात्करनालम्, अध्यवात्सीच्च सुदृढं दुर्गम्। अवधप्रान्तस्य शासक: (सूबेदार) सआदत-खनोऽपि साहाय्याय समागात्। समभूद् द्वयो: सेनयो: सम्प्रहार:। श्रूयते आसफजाह: शत्रुणा सह गूढं समगंस्त, अत एव नासौ सम्यगयुद्ध। फलमभूद् यत्सम्राज: सेना सर्वथा व्यनश्यत्, प्रधानसेनापति: 'खानदौराँ’ समरेऽशयिष्ट। सआदतखानो निगडितोऽभूत्। हतोत्साहो मुहम्मदशाहो व्यसर्जयत्सन्धे: प्रस्तावम्। आसफजाहो राजदूतो भूत्वा प्रायासीन्नादिरशाहसन्निकटम्। नादिरशाहो महताऽऽदरेण तमामन्त्रयत। अभूदुभयो: समागम:, आसीदेकस्मिन्नेव नगरे द्वयोरावास:। नादिरशाहस्यानीकिनी निर्भ्रममभ्रमन्नगरमितस्तत:, किन्तु नादिर शाह: सुदृढमिमामाज्ञां प्रासारयन्नगरे यत्तदा न काचित्क्रूरता दस्युता वा भवेत्। प्रबन्धार्थमेतस्य सोऽयं प्राहरिकानपि स्थाने-स्थानेऽतिष्ठिपत्।
एवं सत्यपि दिल्लीस्था प्रजा नाऽभ्यरोचयन्नादिरशाहम्। प्रयत्ना: कृता:, प्रजा किन्तु नौपेति स्म प्रणयं कथञ्चित्। यो हि निष्कारणं निर्वैरं चाक्रामत्, निर्बलतावशाच्च योऽस्मान्वशे चकार, दीना दुर्बला: सन्तोपि प्रजाजना: कथं तमेनमादरदृशा पश्येयु:?
द्वितीयस्मिन्दिने मिथ्यैवोद्घोष: प्रासरत्-नादिरशाह: पञ्चत्वं गत इति। प्रसिद्ध: किल भारतीयो गड्डरिकाप्रवाह:। न कश्चिद्व्यचारयन्नापि च तथ्यं निरधारयत्कोपि। मत्तप्रलाप: सोयं गृहाद्गृहं प्रासरत्। अक्षुभन्भारतीया युगपदेव। नादिरशाहस्य सैनिका यत्रैवालक्ष्यन्त तत्रैव- ते समाक्राम्यन्त भारतीयै:। पशुमारममार्यन्त सैनिका:। न कोऽपि सम्राट्सैन्याधिकृतस्तदवर्जयत्। इन्द्रप्रस्थीयानामेतावन्नीचताऽभूद् यत्प्राहरिका अपि वराका: खड्गधारायामवहन्।
नादिरशाहो व्यतिकरमिममवरोद्धुं प्रायतत पूर्वम्, किन्तु नाभूत्सफल:। अखिलां निशामचलत्सोयमुपद्रव:, प्रत्युत शनै: शनैरुपचयं भेजे। प्रात: सैन्धवमारूढोऽसौ बहिरभ्राम्यन्न-गरस्य। आसीत्तस्य विचारो यन्मां प्रत्यक्षीकृत्य भवेयुर्भारतीयसैनिका: शान्ता:। रथ्यासु भ्राम्यन् विलोकयामासासौ निजसैनिकानां शवान्। किन्तु प्रशंसामस्तस्य धैर्यं यन्नायं प्रकृतिदुर्दमोपि किञ्चिदनिष्टं कर्तुमैषीत्। परं लोकानां दौरात्म्यमिदमभूद् यद्भवनेभ्य: प्राक्षिप्यन्त पाषाणा नादिरशाहस्योपरिष्टात्। किञ्चिदग्रेऽभिसरत्येव कश्चिन्नादिरशाहमभिलक्ष्य प्राक्षिपन्नालिकास्त्रम्। नादिरो दैवादरक्ष्यत, किन्तु तत्पाश्र्वरक्षक: सेनाधिपतिर्विलोकयत्येव तस्मिंस्तत्रैव व्यपद्यत। इयमासीद्वीरपुरुषाणां सहनस्य सीमा अत एव प्रस्फुरदोष्ठोसौ सर्वसंहारस्य (कत्लेआम) प्राचारयदाज्ञाम्। प्रात:कालादारभ्य भूयांसं समयं यावत्प्राचरन्नरहत्याकाण्ड:। न जानीम: कियन्तो गुणिन: सज्जनाश्च करवालतीर्थे न्यमज्जन्। विशसन-विध्वंसयोर्नासीत्परिसीमा। नगरमकारि बलिसात्, यत्र हि स्थानस्थानत: प्रवहन्त्य: शोणितापगा अपि न प्राभवन्निर्वापणे। अभूदुद्वेल: सर्वनाशस्य महार्णव:।
उचित एवायं दण्डो भारतीयानामनभिज्ञताया:। प्रथमा सेयममीषां मूढता च कदर्यता च यन्नैभि: कायमनोधनै: संहत्य संयोधितो निजदेशस्य परिपन्थी, न परिरक्षिता जननी जन्मभूमिश्च शत्रोरुपद्रवात्। तत: सर्वाधिका सेयमज्ञताभूद्यत् क्षुधितसिंह इव सोयं नादिरशाहो मुधैव प्रकोपित:। यद्येवं नाभविष्यत्तर्हि केवलं धनमेवादाय कदाचिन्नादिरो निजदेशं परावर्तिष्यत। अस्तु, अन्ते मुहम्मदशाहस्तदमात्यश्च प्रणामाञ्जलिभिर्नादिरशाहमशमयताम्। स हि हिंसाकाण्डस्य निरोधाज्ञा-मदिशत्। निजसेनाया उपरि तस्य कियानातङ्कोऽभूदित्येतावतैव परिज्ञायेत यत्तस्याऽऽज्ञाक्षरेषु नि:सृतेष्वेव यो यादृक्परिस्थित्यामासीत्तादृगेव चित्राङ्कित इवावतस्थे। यदि कस्यचित्कर-वाल: कन्धरामस्पृशत्तर्हि स तत्रैव न्यरुध्यत। किन्तु दिल्लीनिवासिनां दौर्भाग्यदुर्दिनं नात्रैव परिसमाप्यत। अद्यावधि रुधिरप्रवाहिणी खड्गधारा प्रावहत्तर्हि सम्प्रति धनाकर्षणाय सङ्घर्ष: प्रावर्तत।
अयं नियोग: पुरा सआदतखानस्याधीनोभूत् किन्तु स देहलीं प्राप्यैव पञ्चत्वमयात्। ततस्तदिदं कार्यं सरबुलन्दखानस्य, ईरानदेशवासिनश्चैकस्यायत्तमक्रियत। द्वावपीमौ पूर्वत एव प्रजानां रक्तशोषणे प्रसिद्धावास्ताम्, तदुपरि नादिरशाहस्य निष्ठुरो नियोग:। घोरेणात्याचारेण समाकृष्यत सर्वतो द्रविणम्। अश्रूयत सर्वतोऽब्रह्मण्यम्ं। किन्तु दीनानां दु:खस्य दर्शक: को वा दयालुरासीत्, व्याकुलानां व्यथावारक: को वा कारुणिकोऽभूत्?
सर्वत: पूर्वं साम्राज्यस्य कोषे मणिभूषणागारे चाधिकारोऽक्रियत। विश्वविश्रुतं मयूरसिंहासनं(तख्ते ताऊस) अप्यधिकृतमभूत्। एतदुत्तरं धनकुबेरै: श्रेष्ठिभिर्निजसर्वस्वं समाप्र्यन्त तदनन्तर राजकीयाधिकारिणामवसर: समागमत्। तत: साधारणश्रेणिकानाम्, अन्ते च दीनदुर्गतानागर्तिनाभूदव्याहति:, तेऽपि नानाधा निर्दयमपीड्यन्त।
विरल एव स जनोऽवशिष्येत यो हि न भवेद्भाजनमत्याचाराणाम्। बहुभि: पर्यत्यज्यन्त प्राणा:। बहवस्तु भीता आत्महत्यामनुतस्थु:। प्रतिगृहमश्रूयत करुणाक्रन्दनम्। एकैकशो जना अपीड्यन्त, इच्छापूर्तावसत्याम् एतदतिरिक्तं प्रान्ताध्यक्षेभ्य: (सूबेदार) कररूपेण धनमपाकृष्यत। येन केनापि प्रकारेण धनं सर्वत: समाह्रियतेति सर्वस्य सार:।
गमनसमये नादिरशाहो मुहम्मदशाहेन सन्धिमस्थापयत्। मुहम्मदशाहस्य दुहित्रा पुत्रस्य विवाहमकरोत्। सिंहासनमधिष्ठाप्य निजकरदत्तैर्भूषणैरभूषयन्मुहम्मदशाहम्। सोऽयं दग्धेष्वङ्गेषु, क्षारपे्रक्षपो नूनम् । किन्तु नरवराहस्य मुहम्मदशाहस्य कुत्रैतत्परिज्ञानम्? जीवन्नसौ मुक्त इत्येव तस्य कृते कुशलम्।
अष्टपञ्चाशद्दिनानि भारतमापीड्य परावर्तिष्ट नादिरशाहो निजदेशम्। कोटिशो मुद्रा:, कोटिकोटिमुद्राणां कनक-रजत पात्राणि, भूषणानि च सह समाहरत्सोयम्। महामूल्या हस्तिनो वाजिनो दासेरकाश्चाप्यनीयन्त। शताधिका: शिल्पिनोऽपि भारतादीरानं प्राहीयन्त तदा।
नादिरशाहस्य प्रस्थानादनन्तरं भूयांसि दिनानि मृत्योरिव शान्तिमन्वभवत्सेयं देहली। निवर्तने नादिरशाहस्य यदा किल धन-जनानां हानिरनुमिता जनैस्तदा तेषां मस्तिष्कमभूद् घूर्णितम्। सर्वमन्यदनुचिन्तितं स्यात् किन्तु नेदं कदापि संप्रधारितं तैर्यत् कतिकोटिमिता अपि भारतवासिन: किमिति निर्बला: पशव इव निर्दयं न्यहन्यन्त, अनाथा इव निर्बाधमबाध्यन्त, नि:सहाया इव नि:शकमलुण्ठ्यन्त? किन्नासीद् भारतवासिनामपि हस्तपादम्? किमासन्नेषामपि शरीरे प्राणा:? किमेतैरप्यासीदपीतं मातु: स्तन्यम्? नि:संशयं सर्वमिदमेषामासीदेव, न्यूनतासीत्केवलमेकताया:, आवश्यकतासीन्मिथ: सहानुभूते:, अपेक्षासीत्परस्परं संघटनस्य। वक्तुं वयमजानीम किन्तु नैकेन स्वरेण। योद्धु वयं प्राभूम किन्तु न मिथ: सङ्गत्य। फलमिदमेवाभूद् यद्वयमेकैकमपीड्यामहि, नि:शङ्कमलुण्ठ्यामहि, निर्दयं चाहन्यामहि।
निर्गते नादिरशाहे महता विलम्बेन सम्राजस्तत्सामन्तानां च विद्राणाभून्निद्रा। यथैव चक्षुषी विस्फार्य विलोकितं तथैव सर्वत: सर्वनाश: सम्मुखगोऽभवत्। सेना नाममात्रायासीत्, कोषश्च नि:शेष:। दक्षिणतो महाराष्ट्रा महता समारोहेण निजप्राबल्यमस्थापयन् लब्धे चावसरे न पर्यशेषयन् लुण्ठनादिकमपि। केवलमासीदवशिष्टमिदमुत्तरभारतम्, तदिदं नादिरशाहस्तथा व्यमद्र्दयन्न यथा महाराष्ट्रा अपि प्राभवन्विपोथयितुम्। तदुपर्यपि पारस्परिक: संघर्षो व्यजृम्भत, यस्य परिणाम: सोयमभूद् यदुत्तरभारतमिदं मोगलानां हस्तान्नि:सृत्य पूर्वं सिखानां ततश्चाङ्गलानां हस्तक्रीडनमभूत्।
***
मोगलकाल:
इतिहासकीर्तितकार्याणामार्याणां स्वतन्त्रशासनस्य तु कथा पृथक्पथा तावत्, किन्तु वैदेशिकविभारतस्य भारतस्येतिहासे मोगलानां शासनकालो विशेषेण प्रसिद्धो व्यपदिश्येत। अस्मिन् समयेऽपरिज्ञातनिवेशेषु दूरदूरप्रदेशेष्वपि भारतस्य कीर्तिकथा प्रासरत्। यूरोपाद् बहवो यात्रिणो मोगलसम्राजां राजसभामालोकयितुमिहागच्छन् ये तेषां वैभवं प्रत्यक्षीकृत्य समभूवन्वि-स्मिता:। मोगलानां साम्राज्यं १५२६ तम ख्रिष्टसंवत्सरादारभ्य १८०३ तमं वर्षं यावत्प्राचलत्। बाबर आसीत् प्रथमो मोगलसम्राट्। अयं यथा शूरस्तथा विद्वानप्यासीत्। अस्य शिल्पकलावि-लासोऽप्युल्लेखितुं शक्येत नूनम्। अनेन ह्यात्मचरिते विवृतं यत् 'मया निजसौधस्य निर्मापणाय ६८० शिल्पकारा न्ययुज्यन्त। तदतिरिक्तम्- आगरा, सीकरी प्रभृतिस्थानेष्वपि १५९१ शिल्पिन: प्रत्यहमकुर्वन् स्थापत्यकार्यम्। किन्तु प्राक्कलाकवलनशीलस्य कालस्य प्रभावान्नाधुना बाबरस्य हुमाँयोश्चापि समयस्य किञ्चिदुपलभ्यते शिल्पकार्यम्।
बाबरादुत्तरं हुमायुस्तत्सिंहासनमधितष्ठौ। आसीदयं ज्योति:शास्त्रप्रणयी। एष हि नक्षत्रगणनां कृत्वा तदनुसारमेवाऽध्यवेशयद्राजसभाम्। श्रूयते यदेकदा कश्चिद् भस्त्राऽऽसेची हुमायो: प्राणरक्षामकरोत्। ततश्च देहलीमुपगतो हुमायु: कृतज्ञतया घण्टात्रयस्य कृते भस्त्रासेचकमिममकरोद् भारतसम्राजम्। अयं तु निजभस्त्राया व्यधापयद् गोलाकारान् खण्डान् ये हि निजनाममुद्रयाङ्किता नाणक-रूपेण प्रचालितास्तेनाऽऽत्मस्मरणार्थम्।
हुमायोरनन्तरं तत्सूनुरकबरो भारतस्याभूत्सम्राट्। एष एव मोगलमालायां सुमेरुरिव महाँश्च कीर्तिमाँश्च। संसारे ये ये कीर्तिशालिन: सम्राज: पूर्वमभूवंस्तेष्वकबरस्य नाम सप्रशंसमुपकीर्त्यते कथाकोविदै:। अयमासीन्महाविचक्षण:, किन्तु नाभूदयमक्षराणां पाठक-लेखक:। चित्रं, न प्रबभूव सोयं स्वहस्ताक्षराण्यपि कर्तुम्। आगरानगरस्य रक्तपाषाणनिर्मितं दुर्गमकबरेणैव निर्मापितम्। सिकन्दरास्थानस्य पाषाणोपरि कृतमुत्करणशिल्पम्, सीकरी प्रदेशस्य राजसौधास्तस्यैव शिल्पकलामार्मिकत्वमद्यापि सूचयन्ति, येषां शिल्प-नैपुण्यमवलोकयन्तश्चि-त्रीयन्ते विचक्षणचूडामणयोपि। मर्मरपाषाणे तादृक्सूक्ष्मतया लताविटपा:, पुष्पपत्राणि, तद्गत-नाड्यश्चोत्कीर्णा येषामग्रतस्तूलिकालिखितं चित्रमप्यधरायते। पाषाणनिर्मितं जालशिल्पं-निर्निमेषनयनमालोकनीयमेव। अकबरस्य समये समभूवँल्लोकैकसारा बहवश्चित्रकारा:। सम्पूर्णेऽपि सप्ताहे यावन्ति निरमीयन्त चित्राणि, चित्रमार्मिक: परिश्रमी चाकबरस्तान्येकदिनमात्रे सूक्ष्मतया पर्यैक्षत स्वयमेव। अदाच्च चित्रकारेभ्यस्तेषां योग्यतानुसारं पुरस्कारम्। कदाचित्कदा-चिदकबरो हिन्दूनामिव पर्यधत्त वासांसि, आङ्कयच्चालिकं चन्दनतिलकेन, अमण्डयच्च कुण्डलाभ्यां कर्णयुगलम्। अस्य सभायामासन् भूमण्डलप्रसिद्धा: नव विद्वांस:। बीरबल-टोडरमल्लादयोऽस्यैव सभारत्नान्यासन् येषां कीर्तिकथयाङ्कितं भारतेतिवृत्तम्। अकबर-बीरबलयोश्चातुर्यपूर्णा: कथा: कथापटूनां कथानके एतावल्लोकप्रिया: समभवन् यासां छायया प्रत्यहं नवनवा: कथा: परिकल्प्य कल्पनाकोविदैर्मूलकथासु मिश्रिता:। टोडरमल्लेनैव मन-सेरादिवस्तुपरिमाणानि, मील-विराह-विस्वादीनि भूपरिमाणानि गज-गिरहप्रभृतीनि वस्त्रादीनां च परिमाणानि नियतीकृतानीति प्रसिद्धम्। अकबरो विविधधर्माणामध्ययनं विधाय सार्वदैशिकं कञ्चन धर्ममवतारयितुमैच्छत्। तत्कृते पुस्तकाध्ययनस्याऽभावे विकल्परूपेण स धर्माचार्यै: सह सम्भाषणं कुरुते स्म। सीकरीसौधे तत् स्थानमद्यापि दर्शयन्ति तत्रत्या: पर्यटकप्रदर्शका: (गाइड) यत्र मध्येऽवस्थितोऽकबर: समन्ततोऽवस्थितानां तत्तत्सम्प्रदायपण्डितानां भाषणान्यशृणोत् तान्यवाधारयत् अवाऽऽलोचयच्च। आसीदयमतिसंयतचर्य:। एतस्य मन्त्रिणा अबुलफजलेन लिखितम्- 'सम्राड् अहोरात्रे एकदा भुङ्क्ते, क्षुधाशेष एव च भोजनाद्धस्तमाकोचयति। शोरक-शीतलीकृतं च गङ्गाजलमयमापिबति’। अकबरो रजन्यामशेत षड् घण्टाकालम्, समग्रं दिवसमयमकरोदश्रान्तभावेन सम्राज्यकार्याणि। रात्रौ चाऽयमध्यवेशयत्पूर्वोक्तां विदुषां सभां यत्र मनोविनोदेन साकमभूदस्य प्रचुरो ज्ञानलाभ:। अयं हि समग्रहीदशेषाणामपि मार्मिकाणां सम्मतिम्, किन्तु पर्यन्ते स्वबुद्ध्या सूक्ष्ममालोक्यैव किञ्चिदपि कार्यमकरोत्। गुणपरीक्षको नीतिपटुश्चायम् आम्बेर-योधपुरादिशासकानां क्षत्रियाणामकरोदादरं ददौ च तेभ्यो भूयांसि पदानि प्रतिष्ठां च। अभूदस्य भूयोभी राजन्यै: सहाप्रदर्शितभेदं वैवाहिकसम्बन्धोपि। किन्तु सोयं प्रकार: कूटनीतेरेव, यया हि राजन्या: स्वमर्यादां विस्मृत्य सर्वदार्थमेषामनुगता: स्युरिति हि पुरावृत्तसमालोचका: प्रोचु:।
सम्राजोऽकबरस्य तनय: समभूज्जहाँगीर:। बाल्येऽस्य नामासीत्सलीम इति किन्तु साम्राज्यसिहांसनमधिष्ठितस्याऽस्याभूत्पूर्वमीरितं नाम। एतस्य महिषी 'नूरजहाँ’ इतिहासे सुप्रसिद्धा। यद्यपि सेयमासीन्महिला, किन्तु प्रतिभाऽमुष्या नाभूत्साधारणी। सेयं साम्राज्यस्य कार्यं सम्यगबुध्यत पर्यचालयच्च शासनसूत्रम्। पाटला (तरुणी) पुष्पाणां सौरभसार: (गुलाब का इत्र) सर्वत: प्रथममनयैव समुद्भावित इति लोकेषु प्रसिद्धम्।
भारतसाम्राज्यमधिवहताऽनेन 'न्यायशृङ्खला’ नाम्ना सुवर्णस्यैका महती शृङ्खला लम्बितासीद्या कति 'मन’ मित चामीकरनिर्मिता। यस्या एक: प्रान्त: शाह-गुल्मे ('शाहबुर्ज’) द्वितीयोऽञ्चलश्च दुर्गाद् बहिर्यमुनातटे पाषाणस्तम्भेनैकेनाबद्ध आसीत्। सेयं षष्टि 'गज’ परिमिताऽभूत् प्रत्येकहस्तद्वये ('गज’) चैकैका-घण्टा: समबध्यन्त, या ह्यञ्चलेऽवकर्षण-कालमेव वेगतो रणरणायन्ते स्म। सम्राजा समभूत्सर्वतो घोषितं यद् यस्य किल जनस्याभियोगो न सम्यगालोचितो भवेदधिकरणे, (कचहरी) स हि मत्समीपे निर्णयार्थमिमां शृङ्खलां परिचाल-येत्स्वैरम्। 'हाकिन्स’ नाम्नेतिहासलेखकेन लिखितमितिवृत्ते- 'जहाँगीरस्य समये त्रीणि सहस्रं सैन्याधिकृता: (मनसबदारी) अभूवन् येषामधिकारे त्रिलक्षमिता सेना सर्वदा समनह्यत। साम्राज्यकोषेऽनन्तो धनरत्नराशिरासीत्। हम्र्यमालायां चास्य षट्त्रिंशत्सहस्रं दास्य: परिचारकाश्चा-सन्नियुक्ता:। सम्राजोऽस्याभूवन् द्वादशसहस्रं कुञ्जरा:, येषु त्रिशतं केवलं सम्राज एव सेवामकुर्वन्। प्रत्यहं सभायां पञ्चायुतमितानां राजतमुद्राणामासीद् व्यय:। राजहम्र्येषु च मुद्राणां त्रीण्ययुतमव्ययीत्।
जहाँगीरादुत्तरं तत्तनय: शाहजहाँ सिंहासनमध्यास्त। एष हि बहून् राजसौधान्निरमापयत्। इन्द्रप्रस्थ (देहली) नगरमयमेव पुन: पर्यवासयत्। यमुनातटे रक्तपाषाणै: सोयं निरमापयद् दुर्गमं दुर्गम्, यद्धि पञ्चाशत्लक्षमुद्राणां व्ययेन विंशतिवत्सरै: पूर्णमभूत्। दुर्गस्य प्रथमां कक्ष्यामतीत्य लभ्यते स्म तोरणद्वारं यदुपरि सर्वदा राजदुन्दुभय: सोन्नाहमनदन्। तत उत्तरं पूर्वदिशि साधारणराज-सभा (दरबारे आम) तत्पृष्ठतश्च विशिष्टा राजसभा (दरबारे खास) या हि मर्मरशिलाभिर्मनोज्ञं निर्मिता सा-खल्वासीत् पूर्वं सर्वतो रजताऽवगुण्ठिता।
अस्यामेव निहितमासीत् 'मयूरसिंहासनम्’ (तख्ते ताउस)। सिंहासनस्यास्य विषये प्रसिद्धं यदेतस्य कृते- ८६ लक्षमुद्राणामुत्तमोत्तमरत्नानि न्यचीयन्त राजकोषत:। ततश्चतुर्दश-लक्षमुद्रा व्ययेनसप्तहस्तायतो नव-दशहस्तोन्नताश्च पट्टो निरमीयत। ततो मणिरचितानां द्वादशस्तम्भानामुपरि सिंहासनस्यास्य मौलिभागोस्थाप्यत। सिंहासनेऽस्मिन्नुभयतो विरच्येतां मयूरौ ययोरङ्गेषु साम्राज्यदुर्लभान्यद्भुताद्भुतरत्नान्यधीयन्त आरोहणाय चास्य त्रिपर्व सोपानमरच्यत यस्मिन्नपि-बहुमूल्य-मणयो व्यराजन्। कुशलैरपि शिल्पिभि: सप्तभिर्वत्सरैरिदमशक्यत पूरयितुम्। एतस्य निर्माणे एककोटिमुद्राणामभूद् व्यय:। आगरानगरे 'ताजमहल’ नामकं महासौधमयमेव निजमहिष्या: स्मारकरूपे निरमपायत्, यद्धि विश्वविश्रुतेषु दर्शनीयवस्तुष्वन्यतमम्।
तत: शाहजहाँतनय औरङ्गजेबो भारतसाम्राज्यमग्रहीत्। एष हि निजभ्रातृन्निहत्य कूटनीत्या सिंहासनमारोहत्। संयतेऽस्य जीवने भोगनिवृत्तेरेव भावा: सर्वतो व्यराजन्। नास्य मन: प्रासज्यत कुत्रचित्प्रमोदे हासे विलासे च। नायं निजशरीरकृत्येषु राजकोषस्यैकामपि मुद्रां व्यवाहरत्। उष्णीषिका: सेवित्वा, धर्मपुस्तकस्य प्रतिलिपिं कृत्वा च जीवनवृत्तिं निरवीवहत्। अपि प्राप्येत भूमण्डलेक्वाप्येवंविध: सम्राट्? आसीदस्य समये मोगलसाम्राज्यस्य सर्वाङ्गै: पूर्णता। पूर्णत्वे सति च यथा पुन: क्षयस्यारम्भो नैसर्गिकस्तथैवात्रापि समभवत्। आत्मनो धर्मस्य (यवनधर्मस्य) नृशंसतयापि प्रचारमन्विच्छन् सोयं भारतीयधर्मे क्रूरं व्यवहर्तुमारेभे। अन्य धार्मिकेभ्यो 'जजिया’ नामकं करं सञ्जग्राह। देवमन्दिराणि ध्वंसयित्वा तत्स्थाने निजोपासनामन्दिराणि (मस्जिद) अतिष्ठिपत्। दिल्ली साम्राज्याभयकवचेषु जयपुराधिपतिप्रभृति क्षत्रियवीरेषु पदे पदे सन्देहमादधे। फलमिदमभूद् यदस्यान्त:शत्रवो बाह्यशत्रवश्च तथाविरभूवन् यथा यवनसाम्राज्यस्य मूलं सर्वथा शिथिलमेवाभूत्।
कोङ्कणप्रदेशे समुज्जृम्भमाण: श्रीमांश्छत्रपति: शिवाजी औरङ्गजेबस्य प्रधानशत्रुरासीत्। हिन्दुत्वस्य रक्षायै अयमेव महाभाग: प्राज्येपि दिल्ली साम्राज्ये विक्रमैकसारां निजखड्गधारां तथा तीक्ष्णीचकार यथा प्रबलमुज्जृम्भमाणोऽप्यौरङ्गजेबो न प्रबभूवात्मनो मनोरथं सम्पादयितुम्। परिमितसैन्यावष्टम्भितस्यापि साहसबलोज्जृम्भितस्यास्य नीतिचातुर्येण च समुचितावसरज्ञतया च शनै: शनैर्दक्षिणदिङ्मण्डलेऽस्य राज्यमेवाधिष्ठितमभूत्। अयं यथा वीरस्तथा धर्मधीरोऽप्येक एवासीत् तत एव, एकमात्रस्याप्यस्य विस्फुरणेनान्तर्धूमायमानो विरोधवह्निर्भारते तथा प्रजज्वाल यथा दिल्लीसाम्राज्यस्याभूदत्रैव परिसमाप्ति:, कामं नाममात्रार्थमग्रेपि गण्यतां कैश्चित्तत्। एतस्यैव कारणं यन्न केवलं महाराष्ट्र एव, अपि तु वक्षसि विस्फुरद्भारतीयार्यरक्तबिन्दवो हिन्दवो निखिला अपि महाभागस्यास्य कृते समुद्वहन्ति नूनं नि:सीमानमभिमानम्।
परिस्थिति-विमर्श:
मोगलानां समये पान-भोजनादिर्जीवनोपयोगिसामग्री समधिकं समर्घाऽऽसीत्।
दुग्धं, दधि च गृहे गृहे, नगरे नगरे सुलभं समर्घं चाभूत्। येषु प्राचीनाभिलेखेषु।
अकबरसामयिकं वस्तुपरिमाणमासाद्यततेषु घृतं दशाणकाधिकमुद्रया एक-'मन’ मितमालिखितम्। यैर्भाग्यवद्भि: स्वसमये एकमुद्राया घृतं काचकूपिकायामालोकितं ते दयनीया: कथमिदं विश्वस्यु:? 'बर्नियर’ नामकेन वैदेशिकयात्रिणा लिखितम्- ''अस्मिन् देशे जम्वीरशार्करं१ दधि चातिशय्य न किञ्चिद्विशिष्टं भोज्यम्। मोगलसम्राज: समारोपयन्बहुशो विलासोपवनानि। आखेटक्रीडाया अपि तेऽभूवन् रसिका:। अकबरसम्राट् प्रकाममभिरोचयति स्म 'पोलो’ क्रीडाम्। जहाँगीर: कपोतपालनव्यसनी समभूत्। शाहजहाँ रूपपरिवर्तनपूर्विकां नटक्रीडां रुच्या- स्पृहयाञ्चकार। मोगलानां साम्राज्ये दीनपान्थानां सुखाऽऽवासाय पथिकाऽऽवासा: (सराय) स्थाप्यन्ते स्म। यत्र तेषां सुखोपलब्धये यथाभिलषितं शीतोष्णजलयोरासीत्प्रबन्ध:। न केवलमेतदेव, पान्थानां कृते भोजनस्य, आस्तरणादेश्चापि प्रबन्ध: पान्थावासेषु तेष्वक्रियत। जहाँगीर: प्राचीन 'संसरणानां’ (सड़क) जीर्णोद्धारं कृत्वा समरचयत्तेषां सुव्यवस्थाम्। अबुलफजलेनाङ्कितमितिहासे-'सर्वेषामेव शिक्षोचितजातीनां बालानां कृते नवयुवकानां च कृते समभूवंस्तदा पाठशाला:। तस्मिन् समये विद्यालयानां कृते भारतवर्षमिदमासीत्सर्वत: प्रसिद्धम्।
कतिचिज्जनानामयं निरूढोस्ति विचारो यन्मोगलसम्राजो रात्रिन्दिवं भोगविलासेष्वेवामज्जन्। किन्त्वयं तेषां भ्रम:। मोगलसम्राजो महापराक्रमा: परिश्रमशीला उदाराशयाश्चाभूवन्। एत एव साम्राज्यस्य सर्वप्रधानानि सेनाध्यक्षा एत एव च सर्वोपरितना न्यायाधीशा आसन्। नासीदीदृश: साम्राज्यस्य कोपि विभागो यो हि तेषां निरीक्षणतो व्यत्यरिच्यत। आसीदियं तेषां दिनचर्या-तेह्यतिप्रत्यूषेऽजागरु: तत: सौधगवाक्षमधिष्ठाय प्रतीक्षमाणाभ्यो निजप्रजाभ्यो दर्शनमददु:। प्रणमन्त्यश्च प्रजा: प्रसङ्गतो विद्याकलाशिल्पादिकमात्मगतं सूचयन्त्य: स्वामिनो हृदि तत्प्रासङ्गिकमवकाशमासादयन्। विशेषप्रभावे तु तदात्व एव तत्प्रतिफलमलभन्त राजस्थानिक हिन्दुराजधानीष्वपि सेयं 'सलाम’ प्रथा निजाभ्यस्तसम्राजामनुकरणेन प्राचरदद्यावधि। किन्तु सेयमस्माकमतिप्राचीना भारतीया राजचर्या या हि लोकावर्जनधिया यवनसम्राड्भिरप्यनुगता। एतस्या: स्पष्टप्रमाणभूतम्, मोगलसामयिकतया तद्गतशब्दानुबद्धं प्रसिद्धमिदं पद्यमापामरमेव। राम झरोखे बैठकैं सबको मुजरा लेत। जैसी जाकी चाकरी वैसों ही फल देत। अस्तु, एतत्प्रजाप्रदर्शनोत्तरं किञ्चिद्विश्रम्य ते भोजनमकार्षु:। मध्याह्ने समभूद् राजसभा (दरबार), यस्यां प्रार्थनापत्राण्युपातिष्ठन्। रात्रौ चापि समध्यविशद्विशिष्टा सभा यस्यां गुप्तमन्त्रणा: कर्तव्यनिश्चयाश्च निरधार्यन्त। किं वा विशिष्य विस्तरेण, वक्तव्य-सार: सोयमेव यद् यवनसम्राजां समये नासीद्भारतवर्षस्य तावदधिकं शोचनीया दशा।
मोगलानां शासनकाल एव यूरोपस्य कतिपया जातयो व्यापारप्रसङ्गेन समाजग्मुर्भारत-वर्षम्। पुरा हि युरोपेन सह भारतस्य वाणिज्यं समभूत् 'एशियाई कोचक’ द्वारा मिश्रमार्गेण वा। इटलीप्रदेशस्य वेनिसनगरं व्यवसायस्यासीत्केन्द्रम्। 'कुस्तुन्तुनिया’ हि व्यवसायादिविषयेष्ववहद् भूयसा महत्त्वम्। किन्तु कुस्तुन्तुनियोपरि यवनानामधिकारे जाते पूर्वोक्ता: स्थलमार्गा: प्रायोन्यरुध्यन्तैव। तत एव-युरोपीया: समुद्र-मार्गस्य शरणमगृह्णन्। पोर्तगालस्य नाविको वास्को दि-गामा सर्वत: प्रथमं भारतमुपागमत्। तदनन्तरं तु युरोपस्य वाणिज्यं पौर्तगालीयानामेवाभूद्धस्त-गतम्। तत: शनैरुपातिष्ठन् डचजातीया: ततो गौराङ्गा: (आङ्गला:) तदनन्तरं च फ्रान्सवासिन:।
किन्तु न कस्यचिदप्यपयात्येकरसमय: समय:। समुपतस्थौ मोगलानामपि पतनकाल:। औरङ्गजेबस्य समय एव छत्रपति: शिवाजी दक्षिणस्यामध्यतिष्ठिपन्महाराष्ट्रराज्यम्। पञ्चनदेषु सिक्खा: प्राबल्यं भेजु:। अवधानां वङ्गानां च प्रान्तीयशासका: (सूबेदार) स्वतन्त्रतया 'नबाब’ पदमधारयन्। दक्षिणभारते निजामोपि निजाधिकारं प्रसार्य स्थापितवान् स्वतन्त्रं राज्यम्। किन्तु नेमान्यपि राज्यानि चिरमपारयन् निर्वाहयितुमात्मन: स्वतन्त्रताम्। एतानि हि पराबभूवुरंग्रेजा ये किल वाणिज्यप्रसङ्गेन समाययुर्भारतमिदम्। अङ्गरेजानां य: सङ्घो व्यापारं प्रसारयितुमिहाऽऽ-गात्तस्यासीन्नामधेयम् 'ईस्ट इण्डिया कम्पनी’। एष हि स्थाने स्थाने निजव्यापारकेन्द्राण्यस्थापयत्। निभृतनिभृतं च सोयं सङ्घो वाणिज्यव्यपदेशेन स्वीयां शक्तिमवर्धयत्। तत्तत्प्रान्तीयराज्या-धिकारिभि: सह सम्पर्कं भेजे। षड्यन्त्रैस्तेषु भेदं कृत्वा दुर्बलयामास तेषां शक्तिम्, प्रवर्धयामास चात्मनोधिकारान्। सर्वत: प्रथमं क्लाइवो वङ्गानां शासकं सिराजुद्दौलां पराभूय स्थापितवा-नङ्ग्रेजानामधिकारं वङ्गप्रदेशे। ततो 'माक्र्विस आफ वेलेस्ली’ तामिमां प्रभुतां प्रवर्धयामास शतमुखम्। ततो लार्ड हार्डिञ्जो, डलहौजी च द्वावपीमौ सिक्खानामपि शासनमपजह्रतु:। अभूदेकमात्रमङ्गरेजानमिवाधिकारो भारतेऽस्मिन्।
भेदनीत्या परतन्त्रीकृते राज्ये न सहसैवाधिगन्तुं शक्या लोकरुचि:। अत एव ह्यतिसा-धारणं धार्मिकव्यपदेशमादाय गौराङ्गाधिकृतसैनिकेषूद्बभूव विस्फुलिङ्गो विरोधाग्ने:। अयमेव हि १८५७ तमे ख्रिष्टाब्दे राजविद्रोहानलस्य भयानकं रूपमापेदे। सोयं चोयमुपप्लव: शनै: शनैर्भारतमात्रमानशे। अभूत्स्थाने स्थाने गौराङ्गाणां निधनम्। अभासत भारते अङ्गरेजानां प्रभुता सङ्कटापन्ना। किन्तु देशवासिनामेवोपजापेन सोयं विद्रोह: शनै: शान्तिमगात्। भृशं निगृहीता अभूवन् विद्रोहिणोपि। परं विद्रोहिणां कम्पनी सेयं कम्पनी अपि विलयं भेजे। तत्स्थाने इङ्गलेण्डस्य महाराज्ञी विक्टोरिया भारतवर्षस्यास्य सम्राज्ञी बभूव। नीतिनिपुणैरङ्गरेजैर्धर्मादि-स्वातन्त्र्यम्, अन्यान्यांश्चाधिकारान्भारतीयानामुद्घोष्य वशीकृताखिला प्रजा। प्राचार्यत कलानां कौशलम्, प्रासार्यत विपुलो वाणिज्यव्यवसाय:, अदश्र्यत वैज्ञानिकश्चमत्कार:, अक्रियत चातुर्येण शिक्षाप्रचार:, प्रादीयत धूमशकटि-गैसनलजलादिसाधनै: प्रजाभ्यो बहुतरा सुविधा। आसीदियं पूर्वविद्रोहदु:खैर्बहुतमं क्लिष्टा भारतीया जनता। अत एव निरुपद्रवामिमां सुविधा-मधिगत्य स्वल्पेनैव भृशं तुष्टाभूत्। विक्टोरिया महाराज्ञी भक्तिदृशा दृश्यते स्म। निरमीयन्त विक्टोरियाप्रशस्त्यादय: स्तुतय:। ततस्तत्पुत्र ऐड्वर्ड सप्तम:, तदनन्तरं तदात्मज: पञ्चमो जार्ज:, साम्प्रतं च षष्ठो जार्जमहाभागो भारतस्यास्य साम्राज्यपदमधितिष्ठतीति जानन्त्येव सर्वेपि।
***
स्वातन्त्र्यात् पूर्वं भारतस्य प्रान्ता:
भारतवर्षस्य प्राचीनं नाम आर्यावर्त:, यतो ह्यस्मिन्नार्याणामासीन्निवास:। भारतवर्षमिति तु पुरुवंशीयस्य दुष्यन्तपुत्रस्य महाप्रतापिनो भरतभूपतेर्नाम्ना प्रासिध्यत्। तस्य भूपतेर्विषये प्राह कालिदास:- 'रथेनाऽनुद्घातस्तिमित’ इत्यादि। प्राचीनभारतापेक्षया वर्तमानभारतस्याऽऽयामो भूयस्तरामह्रसत्। अत एव हि तत्सीमस्वपि बहुतरमघटतान्तरम्। वर्तमानभौगोलिका एशिया-यूरोप-अफ्रीका-आस्ट्रेलिया-उत्तरामेरिका-दक्षिणामेरिका इति षट्सु भागेषु विभजन्ते भूमिमण्ड-लमिदम्। एते हि महाद्वीपा महासागरै: परित: परिवृता:, महासमुद्रैरेव चेमे परस्परं द्वीपान्त-राद्विभज्यन्ते। महासागराश्चेमे-हिन्दमहासागर, पैसिफिक, अटलाण्टिक, आर्कटिक, अण्टार्कटि-केति नाम्ना प्रख्याता:। अस्माकमिदं भारतवर्षम् 'एशिया’ नामकस्य महाद्वीपस्यान्तरालवर्ति।
यस्मिन्नेशियामहाद्वीपे भारतवर्षमिदमस्माकमधितिष्ठति तस्मिन् आल्टाई, याब्लोनाय, स्टोनोवाय, प्रभृतय: प्रधानपर्वता:। दृश्यताम्, प्रान्तेस्मिन्निमौ काकेशस-क्यूवलनामानौ शैलौ। इतो दृश्यतामयम् एलबुर्जो हिन्दुकुशश्च महीधरौ। हिमालय-हिन्दुकुश-सुलेमानपर्वतश्रेणि-भिरेवेदमस्माकं भारतं वर्षमेशियाप्रदेशस्यान्यान्यदेशेभ्य: पृथक्कृतम्। यतो हि भारतवर्षस्योत्तरत-स्तदिमे पर्वता:, अवशिष्टासु तिसृषु दिक्षु च परिवृतो हिन्दमहासागर:।
नदीभि: पर्वतैश्चापि देशानां मिथ: सीमा प्रविभक्ता भवति। भारतवर्षे चापि विन्ध्याचल-सतपुडा महीधराभ्यां मध्यशताभ्यां देशस्यास्य कृतौ द्वौ खण्डौ-उत्तरभारतं दक्षिणभारतं चेति। पश्चिमीयघाट- पूर्वीयघाट-अरावली-नीलगिरिभिरपि तस्य स्वभावत: खण्डा इव कृता:। एवमेव सिन्धु-गङ्गा-यमुना-ब्रह्मपुत्र-नर्मदा-ताप्ती-महानदी-गोदावरी-कृष्णा-कावेरीप्रभृति-भिर्नदीभिरपि देशेऽस्मिन्नवान्तरविभाग: कृत:। गौराङ्गराजतन्त्रेण शासनसौकर्यार्थं भारतवर्षस्य विहिता निम्नलिखिता विभागा:-१. बम्बई, २. मद्रास:, ३. संयुक्तप्रान्त:, ४. विहारोत्कलौ (विहार उड़ीसा) ५. पञ्चनद: (पंजाब), ६. मध्यप्रदेश, विदर्भ: (बरार) ७. आसाम:, ८. ब्रह्मप्रदेश: (बर्मा), ९. वङ्गा:, १०. उत्तरपश्चिमसीमाप्रान्तश्चेति। इमे हि दश महान्त: प्रान्ता:। एतदतिरिक्ता:- देहली, ब्रिटिशविलोचिस्थानम्, अजमेर-मेरवाडा, कुर्ग:, अण्डमानद्वीप-समूहश्चेति पञ्च लघूनि मण्डलानि।
भारतवर्षस्य भूमिरत्यन्तमुर्वरा। अतएवात्रत्यो व्यवसाय: प्रधानं कृषि:। किन्तु वर्तमानेन भौतिकविज्ञानेन यन्त्रकार्यालयानामप्युन्नतिरापादि। अस्माकं देशेऽनुमानतोऽनेक शतं यन्त्रकार्यालया: (मिल)। मोहमयी-अहमदाबाद-नागपुरेषु सन्ति कार्पासकर्मशाला:, कलकत्ताञ्चले 'जूट’ अथवा 'पाट’ इति ख्यातस्य वस्तुनोऽपि कर्मशाला: सन्ति। कृष्णाङ्गार (कोयला) स्य तु बह्व्य: कर्मशाला:।
प्राचीनकालमारभ्यैव भारतवर्षमिदं कलाकौशलाय सुप्रसिद्धम्। साम्प्रतमपि तथैव कलाकौशलं विद्यत इति यद्यपि न शक्यते वक्तुम्। क्व सन्ति सूक्ष्मातिसूक्ष्मसूत्रवातारो यैर्निर्मिता समग्रापि वस्त्रसंहति: ('थान’) एकस्यामेलायां समायात्। यस्यां वस्त्रसंहतौ समकर्तितदूर्वाक्षेत्रोप-र्यास्तृतायां न स्पष्टं प्रतीयेत यद्वस्त्रमास्तृतम्, उत यामिन्या: सोयं नीहार:। लेखनीमुखं सहजभावेन परिचालयन्त एव ये मनुष्यस्याऽपि कलामाकृतिमङ्कितवन्तस्तादृशा: क्व सन्ति चित्रशिल्पिन:, तथापि कतिपयेषु तीर्थस्थानेष्वन्यान्यनगरेषु साम्प्रतमपि शिल्पकार्याणि भवन्त्येव। एकस्मिंस्तण्डुले सम्पूर्णमपि 'दोहा’ पद्यं लिखन्त: सन्ति साम्प्रतमपि शिल्पिन:। यन्त्रनिर्मितानां शस्त्राणां चित्रादीनां च निजकरकौशलेनोत्पादयितारोऽद्यापि भारतेऽस्मिन्नुपलभ्यन्त एव राजस्थानेषु केषुचिच्छिल्पिन:। दिल्ली-मुर्शिदाबाद-ढाका-लखनऊ-अहमदाबाद-बनारस-जयपुर-श्रीनगर प्रभृतीनि स्थलानि स्वस्वकलाकौशलाय प्रख्यातानि। अन्यत्तु सर्वं यन्त्रैरेव क्रियते।
भारतवर्षमिदं देशान्तरेषु विशेषतो योरपद्वीपे- कार्पास-शण-तण्डुल-तेलहन-गोधूम-पशुचर्म-अशोधित धातु- ऊर्णा-वेसवार ('मसाले’) प्रभृतीन् प्रेषयति। द्वीपान्तरेभ्यश्च सुवर्ण-रजत-वस्त्र-ताम्र-लौह-लौहसार (फौलाद) यन्त्राणि (मशीन)- तैल- काचनिर्मितवस्तु-कौशेय- वैदेशिकौषधादीनि देशेऽस्मिन्नायान्ति।
साम्प्रतमेतेषां प्रान्तानामुपरि दीयतां दृष्टि:। गृह्यतां सर्वत: प्रथममयं मध्यप्रदेशो विदर्भश्च। मध्यप्रदेशे गोधूमतण्डुलौ, विदर्भे जवाराढकौ लोकानां मुख्यतया भोज्यम्। विदर्भे नागपुरे च कार्पासो भवति बाहुल्येन। इयममरावती, अयमकोला, एष हिङ्गनघाट:, एतेषु हि स्थलेषु भूयान् कार्पासस्य व्यवसाय:। अत एव हि नागपुरमिदं वस्त्रवानयन्त्राणां कृते विश्वत: प्रथितम्। बुरहानपुरमिदं पुरातनं नगरम्, एतद्धि सौवर्णसूत्रनिर्मितवस्त्राणां (जरी के कपड़े) कृते भारते प्रसिद्धम्।
इदानीं नगरेषु कालिकातानगरमुपगम्यताम्। इदं नगरं वङ्गानां राजधानी। पूर्वं तु सर्वस्यापि भारतस्याभूदिदं राजधानी, किन्तु साम्प्रतं भारतवर्षस्य राजधानी इन्द्रप्रस्थम् (देहली)। वङ्गा हि नदीनां बाहुल्यात्प्रभूतजला:, अत एवात्र मत्स्यानामपि समर्घता। तत एव तण्डुला मत्स्याश्चाप्यत्रत्यानां प्रधानं भोजनम्। गृहा: सर्वेपीष्टकचिता:, नास्यां धरायां पाषाणा: सुलभा:। धनिका: किल पोतानापूर्य मद्रासदेशत: पाषाणानिह समानयन्ति। महत्यस्मिन्नगरे मरुप्रभृतिसुदूरप्रान्तेभ्योऽपि व्यवसायिन: समागत्य व्यापारं चिरात्प्रसारितवन्त: शनै: शनैरत्रत्या बभूवु:। एतस्मिन्महामहतां भूसम्पत्त्यधिकारिणां धनविलासभाञ्जि भूयांस्येव भवनानि येषु मल्लिकोपवनादीनि सुप्रसिद्धानि। अत्रत्यं विचित्रवस्त्वागारम्, दुर्गादिकं चापि दर्शनीयं नूनम्। महाऽऽयामोपि कतिपयक्षणैरेव सङ्कोचनीयो विस्तारणीयश्च यन्त्रसेतु: (हावडे का पुल) अप्यत्रत्यो दर्शनीयो यात्रिणाम्। भारते विशालतायामासज्जिता कृषिक्षेत्रहम्र्योपवनादिरूपा भूम्यधिकारिणां प्रभूता सम्पद् यया हि मण्डितमिदमञ्चलम्।
एतत्समीप एवोत्कल (उडीसा) देशोऽस्ति यत्र दारुब्रह्मेति पुरा-कीत्र्तितो भगवान् जगदीश:। जगन्नाथपुर्यां प्राय: सर्वदैव यात्रिणां यातायातम्, विशेषतस्तु आषाढ-शुक्ल-द्वितीयायां (रथयात्रोत्सवे)। एतत्समीपवर्ति समुद्रतटं स्वास्थ्यायापि विशिष्ट-लाभप्रदम्। कलकत्तादि-स्थानेभ्य: समायान्ति जलवायुपरिवर्तनाय बहव:।
बङ्गदेशसंभिन्न एव 'आसाम’ प्रदेश:। अत्र हि स्थानस्थानेषु चायोपवनानि काष्ठका-रुकार्यालयाश्च।
'मद्रास’ प्रदेशे तण्डुलनारिकेल-भवननिर्माणोपयुक्तकाष्ठानि चाधिक्येनोद्भवन्ति। अत्र हि नारिकेलस्य रज्जुरतिसुदृढा भवति। दीनानां गृहा नारिकेलकाष्ठैरेव निर्मीयन्ते, छादनमपि नारिकेलत्वच एव। रामेश्वर-श्रीरङ्ग-मदुरा-कुमारीप्रभृतीनि तीर्थानि सन्त्यस्मिन्नञ्चल एव, यद्दर्शनायोपयान्ति दूरदूरतोऽपि यात्रिण:। एतस्मिन्प्रान्त एव केरलमण्डले कोचीन-त्रावन्कोर-विजयनगरप्रभृतीनि सन्ति राजस्थानानि।
एतदन्तर्भुक्तं 'महीशूर’ मण्डलं हिन्दुनरपालेनानुशिष्टं सुप्रसिद्धं भारते। अत्र हि विद्या-शिल्प-कलादीनामपि समुचितं पर्यवेक्षणम्। इह 'चाय-काफी’ प्रभृतिपदार्थानामाधिक्येनोपयोग:। एतद्राज्यान्तर्गतं 'बेङ्गलोर’ नगरं सम्प्रति व्यापार-सौन्दर्य-नगरसौष्ठवादिषु प्रभूतमुन्नतिसम्पन्नम्। मलयाचलमण्डितेस्मिन् महीशूरमण्डले चन्दनतत्तेल-फेनकप्रभृतीनां बहवो यन्त्रकार्यालया:।
प्रान्त एव यन्नाम्ना प्रासिध्यत्तदिदं 'बम्बई’ नगरं वर्तमानभारते सुमहत्समृद्धमुन्नतं च। कस्मिंश्चित्समये मत्स्याजीवानामतिलघीयानयं ग्रामोऽभूत्किन्तु साम्प्रतमिदमेङ्गलेण्डस्य पुत्र इति जेगीयते जनै:। व्यापारस्य यन्त्रकार्यालयादीनां च भारते सर्वापेक्षया प्रधानतममिदं क्षेत्रम्। पाश्चात्त्यदेशानामिदमेव यातायातस्य द्वारमित्यर्णवयायिपोतानामत्र महान्कार्यसम्भार:। अतिविस्तृतं चात्र पोतविश्रामस्थलम्। भारतराजधानीचरं कलिकत्तानगरं भूसम्पत्त्यधिकारिणां विभवै: काममुज्जृम्भेत परं व्यापारप्रसारे पश्चिमदेशीयसौष्ठवप्रकारे चेदमेव नगरमुत्कर्षेत्। यथाऽत्र महाविशाला: सर्वविधयन्त्रकार्यालया: सीनेमादिक्रीडागृहाश्च, तथा महासमृद्धान्यभ्रंलिहानि हम्र्याण्यप्युपसागरमन्यनगरातिशायीनि। इयद्विशालोऽस्य नगरस्य परिसरो यदत्रोपदशानि धूमशकटि- विश्रमस्थानानि, येषु स्वल्पस्वल्पसमयान्तर एव करोति गतागतानि स्थानीया वाष्पशकटि:। भगवतो नदनदीपतेर्गर्भं मृत्पाषाणैरापूर्य प्रतिवर्षं प्रवध्र्यतेऽस्य नगरस्य महानायाम-स्तथापि नाद्यावधि निवृत्ता निवाससङ्कुलता। देशानुसारं महाराष्ट्रबाहुल्येऽपि पारसीकभाटियादि-धनिकप्रमुखमिदं नगरम्। मरुदेशवासिनोऽपि साम्प्रतमुज्जृम्भन्ते व्यापारे-यद्यपि नगरेऽस्मिन्-प्राय: पृथिव्या: सर्वदेशीया एवोपलभ्येरन्नरा:। पचिमदेशीयानां कृते भारते समागत्य दर्शनीयानि स्थलानि यद्यपि नगरेऽस्मिन् 'मलाबार हिल’ 'कोलाबा’ प्रभृतीन्युपसागरतटं भूयांसि।
उत्तरेण मोहमयीं गुर्जरदेश:। मोगलशासनात्पूर्व गुर्जराणां राजधानी-क्षेत्रं किल 'अनहिलवाडा’ नगरेणासीदधिष्ठितं तत्रेदानीम् अहमदाबाद नगरम्। अत्र हि व्यापारस्य साधीयान्प्रसार:। सूत्रकर्तन-वस्त्रवानादीनां सर्वतोऽधिका अत्र यन्त्रकार्यालया: गुर्जर-सौराष्ट्रेषु वडोदा-भावनगर-राजकोट ध्रांगध्रा-वढवान प्रभृतीनि राजसंस्थानानि। तेषु 'गायकवाडस्य’ राजधानी वटोदर (बडोदा) पत्तनं वर्तमानसमये भूय: समुन्नतम्। वर्तमान: शासकोऽस्य विद्या-कला-प्रणयी समाजपरिष्कारकश्च। शिक्षा-कलादि-सम्प्रसाराय साधीयानस्य भूपतेरभिनिवेश:। गुर्जरदेशेऽपि साधीयसी सस्योत्पत्ति:। सूरत प्रभृतीन्यस्य संपन्नानि दर्शनीयनगराणि। गुर्जरदेशीया उदारप्रकृतय: किन्तु ते तावच्छ्रमसहा न भवन्ति यावन्महाराष्ट्रा:। महाराष्ट्राणां वीरता परिश्रमशीलता चेतिहासप्रसिद्धे। छत्रपति: शिवराजवीरोऽत्रैवाभवद् येन हिन्दुसभ्यताया: संरक्षणाय साम्राज्याधिकारिणो मोगला अपि निजखड्गधारया चमत्कृता:। स्वल्पेनापि संघेन तथा पराक्रान्तं महाराष्ट्रवीरैर्यथा कोटिकोटिमुद्राणां व्यये परोलक्षसैनिकानां बलिदानेपि मोगलसाम्राज्यमुत्तरोत्तरं शिथिलमूलमेवाभवत्। प्रतापिन: 'पेशवाख्या:’, नानातात्याटोपे प्रभृतय: साहसिनोत्रैवाभवन्।
इदमस्ति संक्षिप्तं शब्दबद्धं भारतस्य चित्रं स्वातन्त्र्यात् पूर्वं भारतस्य भौगोलिक्या राजनैतिक्याश्चावस्थिते:।
[स्वातन्त्र्यादनन्तरं यथा राज्यानां पुनर्घटनं, देशीयराज्यानां (देशी रियासत इत्याख्यानां) भारतीयसङ्घे समामेलनं, भारतीयसंविधानस्य २६ जनवरी १९५० दिनाङ्कात् प्रवर्तनं तदनुसृत्य राज्यानां सङ्घटनमित्यादि महत्त्वपूर्णा ऐतिहासिक्यो घटना अघटन्त तास्तु साम्प्रतिकशिक्षार्थिनां विदुषां च प्राय: सुपरिचिता एव।]
***
भारतवैभवम्
पञ्चमोऽध्याय:
आर्यावर्तस्य राष्ट्रिया एकता
(संक्षिप्तमैतिहासिकं सर्वेक्षणम्)
बहूनां नवशिक्षितानां प्राय: सेयं धारणा समवाप्यते यत् भारतस्य 'एक-राष्ट्रनिर्माणम्’ अस्मिन्नेव समये समभवत्, अन्यथा इत: पूर्वं भारतमिदमनेकराज्येषु विभक्तम्, अनेकेषु शासनेषु च सङ्क्रान्तमासीत्। एतस्या मनोभावनाया: प्रचारका: प्रधानतोऽस्माकं पूर्वशासका आङ्गला एव। किन्तु भारतीयसाहित्यस्य प्राक्तनेतिहास-परिशीलकास्तथ्यमिदं चेत्किञ्चित्परिश्रमेण गवेषयेयुस्तर्हि स्फुटमिदं प्रमाणितं भवेद् 'यद् देशे कृत्रिमा येयमेकता साम्प्रतं प्रचार्यते, सर्वतो विघटनस्य वा यानि लक्षणानि निरीक्ष्यन्ते, एतस्य सर्वस्याऽपि बीजवाप: आङ्गलानां शासने एव समजायत।’ राष्ट्ररूपभवनस्य निर्माणं भौगोलिक्या: एकता-भूमेरुपरि सञ्जायते, किन्तु एतस्या मूलमस्ति 'जातीया एकता’। जातिगता चैकता च भावनात्मिकामेकतामालम्ब्य सम्प्रवद्र्धते। एतासामुपरिपृष्ठ ('छत्त’) निर्माणं राजनैतिक्या एकतया सम्पाद्यते।
ईशुखिष्टस्य सहस्रसहस्रवर्षेभ्य: पूर्वं शबर-किरात-द्रविड-मुण्डादि जातीया भारतेऽस्मिन् न्यवसन्, येषां भिन्ना भाषा, भिन्ना च संस्कृतिरभूत्। एवं-विधभिन्नभिन्नलोकान् संयोज्य जातीयैकताया: भावनात्मिकायाश्चैकतायां: स्थिरीकरणं प्राचीनार्याणां सर्वतोपि जटिला समस्याऽभूत्। एतदर्थं गभीरविचारशालिभिस्तै: एका संघात्मिका जाति: सम्पादिता। यस्यां हि नानाभाषाभाषिण:, नानावर्ण-रूपसंयुक्ता:, नानाविधसंस्कृतिशालिनश्च जना: स्वस्वयोग्य-तानुसारम्, स्वस्वकार्यानुसारं च स्वोचितं स्थानमलभन्त। संघात्मिका सेयं जाति: कालान्तरे हिन्दूजातिनाम्ना प्राख्यायत। सुप्रसिद्धेन ऐतिहासिकविदुषा के. एम्. पणिक्करमहोदयेन अलेखि- ''विस्तृताया: भारतीयजनसंख्याया: विभिन्नविभिन्नतत्त्वानां मध्यत: एकस्या: सभ्यताया:, एकरूपस्य समाजस्य च संघटनं, तस्य च समग्रेऽपि देशे संस्थापनं प्राचीनार्याणां महती सेयं सफलता इति।’’
सुप्रसिद्ध: पाश्चात्त्य: इतिहासकार: स्मिथमहोदय: स्वीकुरुते- ''भारतमिदं सुदृढां गभीरामेकां (सर्वाधारभूताम्) एकतामधिकरोति, या हि भौगोलिकपृथक्तया, राजनैतिक-प्रभुसत्तया च संस्थापिताया: एकताया: अपेक्षयाऽपि सुगभीरा। सेयमाधारभूता एकता रुधिरम्, वर्णम्, भाषाम्, परिधानम्, आचार-व्यवहारान्, नानावर्गाणामसंख्यातान् विभेदांश्चातिक्रम्य सर्वोपरि संस्थिता।।’’
सत्यं चेदन्विष्यते तर्हि प्राचीनार्याणां जातिनियमा: तथा जटिला:, दुर्दरूढाश्च नाऽऽसन्। भोजनादिव्यवहारे, विवाहादिसंव्यवहारे च न तावती बाधा आसीत्। इतिहासे दृश्येत यत् सम्राजा चन्द्रगुप्तेन ग्रीकदेशीयां राजकुमारीमङ्गीकृत्य तया सह परिणय: कृत:। कालान्तरे शक, हूण, शाकद्वीपादिवासिनश्चानेके जना वैदेशिका भारते-न्यवसन् ये हि प्राचीनार्यै: तथा मिश्रिता:, येषां वर्तमानकाले चिह्नमात्रमपि नाऽऽसाद्यते।
भावनात्मिकाया: एकताया: कृते [यस्य बलेन भारतस्य यस्मिन् कस्मिन्नपि भागे निवसन् मनुजो विचारयति यत् समस्तोऽपि देशस्तस्यैव स्वदेश:।] काश्चन नद्य: सुपवित्रा: स्थिरीकृता: यासु स्नानं पावनं, कर्तव्यं च स्थिरीकृतम्। यथा-
''गङ्गे च यमुने चैव गोदावरि सरस्वति।
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधि कुरु।।’’
युगयुगान्तरे अद्यापि कर्मनिष्ठा हिन्दव: सप्तस्वेतासु नदीषु स्नानेन-पुण्योपार्जनस्य कामनां धारयन्ति। एताश्च नद्य: समग्रेऽपि भारते व्याप्ता:, नैकस्मिन् प्रान्ते। एवमेव अस्मत्पूर्वजैरार्यै: भारतस्य पर्यन्तेऽवस्थितानां पर्वतानां यात्रापि तीर्थभूता-स्वीकृता। यथा-
'महेन्द्रो मलय: सह्य: शुक्तिमानृक्षपर्वत:।
विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वता:।।’
एतदेवाऽभिसंघाय जगद्गुरुशंकराचार्यप्रभृतिभि: स्वस्थापिता मठा भारतस्य चतसृष्वपि-दिक्षु-निवेशिता:। यथा-शृङ्गेरी (दक्षिणायाम्), द्वारिकापीठम् (पश्चिमायाम्) बदरीनाथ: (ज्योतिर्मठ:, उत्तरस्याम्) जगन्नाथ: (पूर्वस्याम्), येन हि श्रद्धालवो भारतीयाश्चतुर्णामपि धाम्नां यात्रां कुर्वन्तो देशस्यैकतां प्रतिपदमनुभवन्ति।
भाषागतं महत्त्वम्
भारतस्यैकताया: सर्वतोऽधिकं प्रमाणमस्ति सेयं संस्कृतभाषा। लोकानां विस्मयो भवेत्, यस्मिन् समये वर्तमानकालिकानां यातायातसाधनानां सर्वथाऽप्यभावोऽभूत्, तस्मिन्नपि समये हिमालयमारभ्य कुमारीपर्यन्तम्, सिन्धुमारभ्य वङ्ग-आसामपर्यन्तं च सेयं संस्कृतभाषा सर्वतोऽधीयते स्म, सर्वे च तामिमां बुध्यन्ते स्म। हिन्दुजातेर्जननमारभ्य मरणान्ता: सर्वेपि संस्कारा: अनयैव भाषया संपाद्यन्ते स्म।
राजनैतिकी एकता
अस्मत्पूर्वजै: राजनैतिकी एकता, केन्द्रीय-सत्ता चापि महत्त्वेन संरक्ष्यते स्म। पुराणेषु, तदाश्रयग्रन्थेषु रामायण-महाभारतयोश्च स्थाने-स्थाने अश्वमेधयज्ञस्य, दिग्विजयस्य, चक्रवर्तिनो राज्यस्य च प्राप्यते स्पष्टं वर्णनम्। सम्राज: पक्षे सर्वदिशां विजय:, चक्रवर्तिराज्य-स्थापनं च महा-आदर्शस्थापनेन सह पुण्यकार्यमपि बुध्यते स्म। पुराणानुसारं मान्धाता, रघु, युधिष्ठिर प्रभृतिभिश्चक्रवर्ति राज्यस्थापनमकारि। गुप्तसम्राजा समुद्रगुप्तेनाऽपि दिग्विजयं कृत्वा अश्वमेधयज्ञो व्यधायि। अनयैव भावनया सम्राट् अशोक: समग्रेऽपि भारते मौर्यसाम्राज्यं स्थापयामास। गुप्तसम्राट् समुद्रगुप्तो दिग्विजयं कृत्वा अश्वमेधयागमकरोत्। आर्यावर्तस्याऽस्य राष्ट्रिय-एकताया: सर्वतोऽधिकं प्रमाणमित: परं किं स्याद्-यत् पञ्चाम्बुराज्ये गत्वा ग्रीकराज्यस्य शासनविध्वंसक: चन्द्रगुप्तमौर्य:, मगध (विहार) राज्यस्य निवासी आसीत्, एवं पुरुषपुर (पेशावर) पञ्चाम्बु राजस्थानपर्यन्तं व्याप्तस्य हूणराज्यस्य विध्वंसक: एकोऽभूद् मालवदेशस्य राजा यशोवर्मा।
६४७ तमे ख्रिष्टवत्सरे सम्राजो हर्षस्य मृत्योरनन्तरं भारते राजनैतिक एकताया: समभूदवसानम्। अनेकेषां राज्यपुत्रराज्यानां समभूदुदयो यानि हि परस्परं युद्ध्यन्ते स्म। अस्मिन्नेव समये दुर्दुरूढताया: 'सामाजिक संकीर्णतायाश्च’ आर्यजात्यां प्रवेशोऽभवत्। अत एव ग्रीक-शक हूणादि विदेशीयजातिवत् मोहम्मदा: (मुसल्मान) अपि भारतीयसमाजस्याङ्गभूता नाऽभवन्। माहम्मदेषु सोयमेव महान् दोषोऽभूत् यत्ते स्वात्मानं शासकजातीयं मन्यते स्म, ते स्वात्मन: पृथक् सत्तां च सर्वदा रक्षन्ति स्म। 'मुसलिम लीग’ संस्थया भारतवासिनो माहम्मदा: स्वीयं पृथग्राज्यं (पाकस्थान) स्थापयितुं प्रेरिता:, पर्यन्ते सफलीभूताश्च। एवं सत्वेऽपि भारतस्य राष्ट्रीयता तादृशी मधुरा, सुदृढा चासीद् यद भारतीयै: माहम्मदै: देशे सहवासात् सोयं देश: 'स्वदेश:’ इति विचार्यते स्म। स्वीयां पृथग् जातीयतां संरक्षन्तोऽपि ते भारतीयां सभ्यताम् तत्संस्कृतिं च न केवलं ते स्वीकुर्वन्ति स्म, अपि तु तस्यां ते महत्त्वपूर्णं योगदानमपि कुर्वन्ति स्म। ''मानुष हौं तो वही रसखाँन बसौं व्रज गोकुलगाँव के ग्वारन।’’ इति हृदयाद् गायन् कृष्णभक्तो रसखान: एको माहम्मद एव आसीत्। इयमासीत्तदानीन्तना स्थिति:।
एवमेव अकबरसम्राज: पाश्र्ववर्ती अब्दुलरहीम: (खान खाना) न केवलं हिन्दीभाषाया: समभूत् केवलं सुकविरेव, अपि तु कृष्णभक्ते: प्रचारकोऽप्ययमासीत्। सुप्रसिद्धमस्त्य तदिदं दोहाच्छन्द:-''धनि रहीम मन आपनो, कीन्हो चारु चकोर। निस दिन ही लाग्यो रहै कृष्णचन्द्र की ओर।।’’ अकबरमारभ्य शाहजहाँपर्यन्तास्तादृशा: यवनसम्राज आसन् ये एतादृशीमेव भाषां पोषयन्ति स्म, या हि 'हिन्दी’ ति प्रसिध्यति।
माहम्मदसम्राजां योग:
आर्यजातीयै: सम्राड्भिरिव माहम्मदसम्राड्भिरपि भारतीयराजनीते: प्राङ्गणे एकतास्थापनार्थं प्राणपणेन यत्न: क्रियते स्म। ते हि भारतमेव स्वदेशं भावयन्ति स्म। अत एव गजनी, काबुल, कन्धार आदीन् विहाय (यत्र हि तेषां जन्माऽभूत्) दिल्ली-आगरानगरयोरेव राजधानीं स्थापयन्ति स्म। अलाउद्दीन खिलजी, मुहम्मद तुगलक, अकबरमारभ्य अवरङ्गजेब-पर्यन्तै: सर्वैरेव मोगलसम्राड्भि: भारतीयदक्षिण प्रान्तस्य एतदर्थं विजय: परम- परिश्रमेणाऽपि कृत:, येन हि स्वदेशस्य भारतस्य राजनैतिकी एकता अक्षुण्णा तिष्ठेत्।
धर्मनिरपेक्ष-जातीय-एकता
जातीय-एकताया: कृतेऽपि भारतेऽस्मिन् नासीत्प्रयत्न इति न कश्चित्साधयितुं प्रभु:। माहम्मदसम्राजा अकबरेण हिन्दु-माहम्मदयो: सामाजिकम्, सांस्कृतिकं च सामञ्जस्यं स्थापयितुं धर्मनिरपेक्षस्य साम्राज्यस्य स्थापनाय यत्न: कष्टं सोढ्वापि नूनं क्रियते स्म। धर्माग्रहिला: 'मुल्ला’ मौलिवी’ महोदया: एतत्कृते ते अतिविरुद्धा अप्यासन्। राष्ट्रियामिमामेकतां स्थापयितुं सर्वत: प्रथमं यदिदं कार्यं प्रारभ्यत, तदर्थमेव वैदेशिकैरप्यैतिहासकै: अकबर 'महान्’ ('ग्रेट’) सम्राट्, 'राष्ट्रियसम्राड्’ वा स्वनिबन्धे लिखित:। अकबरेणैव माहम्मदशासनेऽप्यस्मिन् 'गोवधस्य निरोध:’ साम्राज्यशासनेऽस्मिन् विहित:। साम्राज्ये शासकपदानि हिन्दूभ्योऽपि तेन निष्प्रतिरोधं दीयन्ते स्म। सम्पूर्णस्य महत: प्रान्तस्यापि पतय: ('गवर्नर’) हिन्दवोऽभवन् (कामम्, एतदर्थं राजनैतिकानां भिन्न-भिन्ना दृक्कोणा: सन्ति, किन्तु तेन राजपुत्रक्षत्रियै: सह वैवाहिक-सम्बन्धोऽप्यास्थाप्यत। तेन हि हिन्दूनां भाषायै, कलायै, संस्कृतये चाऽपि सुस्पष्टं राज्याऽऽश्रय: प्रादायि। सर्वत: प्रथमं स एव तदिदं तथ्यं हितावहतया समबुध्यत यत्-'राष्ट्रियएकताया: सुस्थिरतार्थं विशालजात्योरनयो: (हिन्दुमाहम्मदयो:) एक समाजस्थापनं हितावहं भवेदिति। एतदेव मूलं मनस्याधाय सहि 'दीने इलाही’ नामकमेकं समाज सम्प्रदायम् स्थापयामास, यस्मिन् तत्सामयिका दीक्षिता अप्यभवन्। एतस्य प्रत्यक्षं फलमप्यालोक्यताम्-यदा हि औरङ्गजेबेन अकबरस्य सेयं राष्ट्रियनीति: पादघातमवहेलिता, तदा मोगलसाम्राज्यस्यास्य---तत्कालं विलोपोऽप्यभवत्। किन्तु औरङ्गजेबात्पूर्वम्, भारतेऽस्मिन् सामाज्यशासने राष्ट्रिय-एकता कीदृशी समभवत्, एतस्य परिचय: सम्भवेदनेनैव यत् कस्मिंश्चित्काले ब्राह्मणै: 'अल्लोपनिषद्’ ग्रन्थ: माहम्मदानामेकीभावाय पृथक्तया प्रदर्शित उपनिषत्सु परिगणनाय। 'कट्टर’ पण्डितानामप्यासीत् स्फुटं घोषणा-'' दिल्लीश्वरो वा जगदीश्वरो वा मनोरथान्-पूरयितुं समर्थ:’’ इति।
औरङ्गजेबस्य सङ्कीर्णधर्मनीते: कारणात् मोगलसाम्राज्यस्य पतनमभूत्। किन्तु कालान्तरे भारते प्रविष्टैराङ्गलै: सम्पूर्णेऽपि देशे स्वीयं शासनं प्रवर्तितम्। अंग्रेजानां शासनेन क्षुब्धै: सर्वतो नियन्त्रितैश्च भारतीयै: १८५७ तमे ख्रिष्टवत्सरे सर्वत: प्रथमं ''स्वाधीनतासंग्रामस्य’’ शङ्खध्वनिर्विहित:, यो हि आङ्गलै: 'सैनिक-विद्रोह’ नाम्ना घोषितोऽभूत्। तस्मिन् समये भारतस्य संघटनशक्तिर्बीजरूपेणाऽलक्षितमुत्पेदे। तस्मिन् समये हि भारतीया जनता राजसभाया: सर्वमान्यान् त्रीन् मानबिन्दून् अमन्यत एको मोगलवंशजो देहली सम्राट्, द्वितीय: अवधप्रान्तस्य नवाब वजीर:, तृतीयो महाराष्ट्राणां पेशवा। एते त्रय एव तात्कालिकं राष्ट्रियसंग्रामं सञ्चालयन्ति स्म। अस्मिन् राष्ट्रियाऽभ्युदये हिन्दव:, माहम्मदाश्चेति द्वावेव संहत्य सञ्चालनकार्यमकुर्वन्। सुप्रसिद्धेन इतिहासविदा माल्सनेन लिखितं यत्- प्रारम्भिकेऽस्मिन् राजविद्रोहे ('स्वतन्त्रता संग्रामे’) एतत्संघटनात्पूर्वम्- अजीमउल्ला, वजीरुलहक, मीर अली सदृशा अनेके मौलिवीमहोदया: प्रजासु सर्वत: परिभ्रमन्त: तात्कालिकशासनस्य विद्रोहं कर्तुं जनान् उत्तेजयन्ति स्म धर्मयुद्धस्य ('जिहाद’) प्रचारं चाऽकुर्वन्। किन्तु दैवदुर्विपाकात् सा क्रान्ति: असफलाऽभूत्। परं तेन सङ्कटेन आङ्गलै: शासकै: सेयं शिक्षा दृढीकृता यत् हिन्दु-यवनानां मध्ये बहो: कालात्प्रचलिताम् इमामेकतामुन्मूल्यैव देशोपरि शासनं सुशकम्’’ इति।।
आङ्ग्लानां शासनसमय: -
इत: परम् आङ्गलानां शासनकाल: प्रारभ्यते, यत्र हि ''भेद: प्रवत्र्यतां, शासनं च क्रियताम्’’ इति कुटिला नीति: प्रावर्तत। सर्वप्रथमं माहम्मदानाम् एकं शिष्टमण्डलम् (डेपुटेशन’) १९०६ तमे ख्रिष्टीयवत्सरे 'आगा खानस्य’ नेतृत्वे तात्कालिकभारतीय वाइसरायस्य 'लार्ड मिण्टो’ इत्यस्य सविधे अगच्छत्। लार्डेन तेभ्य: आश्वासनं दत्तं यत् -'एकस्य सम्प्रदायस्य जातेर्वा, स्वरूपे तेषां राजनैतिक अधिकाराणां रक्षा क्रियेत’’ इति। एवं किल अङ्गरेजानां कूटनीत्या भारतीयराजनीत्यां जातीयवैमनस्यस्य सर्वत: प्रथमं विषबीजं प्रोप्तम्, यस्य महत्त्वमेकेन आङ्गलशासकेन बुद्ध्वा लार्ड मिण्टोसविधे पत्रं प्रेषितम्-''इदं किल राजनैतिकपटुताया: कार्यं भवता सम्पादितं यद्धि भारतीयमितिहासं दीर्घकालं यावत् प्रभावितं कुर्यात्’’ वास्तवे पृथक् 'पाकस्थान’ निर्माणस्येदमेवाऽऽसीद् बीजम्। १९०६ तमे ख्रिष्टवत्सरे एव 'मुस्लिमलीगस्य’ स्थापनाऽभूत्।
माहम्मदानां पृथङ् निर्वाचनम्
१९०९ तमे ख्रिष्टवत्सरे 'मॉर्ले-मिण्टो-सुधार’ नाम्ना केचित् परिष्कारा: प्रारभ्यन्त तेष्वपि पृथङ् निर्वाचनस्य घातकं विषमासीत् प्रच्छन्नम्। एतदनुसारं योरपीयानाम्, एंग्लोइण्डिय-नानाम्, भारतीय-ईसाईमतभुक्तानाम्, पञ्चाम्बुदेशीयसिक्खानाम्, सर्वेषामपि तेषां 'पृथक् निर्वाचन’ स्याऽधिकारोऽभवत् (अर्थात् एतेषां प्रत्येकवर्ग: स्ववर्गद्वारा एव निर्वाचितो भवेत्। एवं सिक्खानामेकस्मिन् दले ('अकाली’) पृथग्वादस्य या भावना साम्प्रतं प्रबलाऽभवत्, एतस्या: पूर्वाऽऽभास: १९२९ वार्षिके राजकीयेधिनियमे ('ऐक्ट’) एव प्राप्यते यस्या बीजवप्तार: केवलमङ्गरेजा एव। सुप्रसिद्धो भारतीयो राजनीतिज्ञ: शिवस्वामी ऐयर: एतत्सम्बन्धे लिखितवान्-''साम्प्रदायिकाऽधिकाराणां पृथक्स्वीकारस्यैवायं परिणामोऽभवद् यत् एवंविधानामन्यान्य-वर्गाणामपि साम्प्रदायिकाऽधिकाराणामस्वीकरणं कठिनं किम् असम्भवमिवाऽभवत्। कुटिलैस्तै: पृथङ् निर्वाचनमिदं भारतीयराजनैतिकजीवनस्य स्थायि तत्त्वं निरणीयत।’’
१९३२ तमे ख्रिष्टवत्सरे पूर्वोक्तसाम्प्रदायिकनिर्णयानुसारं तु अस्पृश्या: ''अछूत’’ अपि हिन्दुवर्गात् पृथक् अक्रियन्त। तेभ्योऽपि पृथङ् निर्वाचनस्याऽधिकार: प्रात्तोऽभूत्। किन्तु एतत्कृते महात्मना गाँधिमहोदयेन आमरणम् अनशनमङ्गीकृतम्। पुण्यपत्तने मिथो विचारवि-निमयोऽप्यभूदेतद्विषये। तदनन्तरमतिकठिनतया तदिदम् (अस्पृश्यानां पृथङ् निर्वाचनम्) अस्वीकृतमभूत्। अहह! अस्पृश्यानां पृथक् निर्वाचनमिदं भारतीयां 'राष्ट्रिय-एकताम्’, 'हिन्दूनां एकतां’ च विचूर्णयितुमासीदेकं महाऽस्त्रम्। यदि सेयं कूटनीति: सफलाऽभविष्यत्तर्हि अखण्डितस्याऽप्यस्य भारतस्य अन्यान्येऽपि खण्डा: अद्रक्ष्यन्त। तात्कालिक-पृथङ्निर्वाचन- पद्धतेरेव दुष्परिणामोऽयं यद् भारतस्य खण्डो भूत्वा 'पाकस्थानस्य’ पृथङ्निर्माणमभूत्। बहवो जना: 'पाकस्थान’ स्वीकरणस्य दोषं भारतीयानां नेतृणां शिरस्यारोपयन्ति। किन्तु किम् आङ्गला: अखण्डितमिदं भारतं परित्यज्य पृथग् अभविष्यन्?
अस्तु, आङ्गलदेशीयैरेतै: आत्मन: साम्राज्यं स्थिरीकर्तुम्, व्यवसाय-वाणिज्यादीनां हिताय च, विजितायाऽस्मै भारताय राजनैतिकी एकता निर्दिष्टा, किन्तु राजनैतिक-एकतया राष्ट्रिय-एकता नैव सिध्यति। पूर्वमुल्लिखितम्-'राष्ट्रिय-एकताया: प्रधानं मूलम्-जातीया एकता’ इति। कूटनीतिपटव: आङ्गला जातीयामिमामेकतां भङ्क्तुमेव पृथङ् निर्वाचनपद्धतिं प्राचालयन्, यया हि हिन्दु-माहम्मदान् पृथक् पृथक् कृत्वा भारतस्य राष्ट्रिय-एकताया उपरि कुठाराघातमकुर्वन्। तस्या एव भेदनीते: सोयं दुष्परिणामो यद् भारतीयान् माहम्मदान् दृष्ट्वा, अन्यान्येऽपि वर्गा: ('अकाली’ प्रभृतय:) स्वस्य कृते पृथग् राज्यनिर्माणस्य कामनामधारयन्।
एतस्य या परिणतिर्जाता जायमाना च तामद्य सर्वे भारतीया: साश्रु पश्यन्ति, आङ्गलानां गूढामिमां कूटनीतिं च परिचित्य तस्या: सर्वाङ्गीणस्याध्ययनस्य प्रयत्नान् विदधति।
***