चतुष्पथीयम्
(नव्यप्रहसनचतुष्टयसङ्कलनम्)
मिश्रोऽभिराजराजेन्द्रः
इन्द्रजालम्
रचनाकालः
30 जनवरी 80 ई.
पात्राणि
ऐन्द्रजालिकः.................... (इन्द्रजालोपजीवी कश्चित्)
बालकः ............................(जम्मूरेत्याख्यः कश्चिद्वटुः।)
सङ्केतितजनाः
श्रेष्ठीजनः..........................(A Millionair)
विधायकः…………………(An M.L.A)
कालगरलः ……………….(A Call-Girl)
तस्करः…………………...(A Smuggler)
वाक्कीलः………………….(An Advocate)
विश्वविद्यालय-शिक्षकः…….(A Professor)
यान्त्रिकः…………………(An Engineer)
नगरोपकण्ठस्थिते ग्रामे कस्मिंश्चित् कोऽप्यैन्द्रजालिकः स्वोपायकौशलं दर्शयितुमागतः। बालवृद्धवनितादिसंवलितो विशालजनमम्मर्दः परितो विराजते। केचिदुद्विग्नाः केचिदुत्कन्धराः केचिन्नताननाः केचित्तमालचूर्णभक्षणव्यापृताः केचिद् बद्धालापाः केचिदङ्काधिरोपितार्भकाः केचित्क्रीडाविलम्बने संजातमत्सराः केचिदारब्धदुर्वचनाः केचितूष्णीकाः केचित् स्तिमितनयनाश्च वर्तन्ते। अकस्मादेव स्फारीभवति डमरूकनिनादः। वंशयष्टिद्वयोरोपितलोहरुज्जुका काचिदेकादशवर्षदेशीया जांगलिकबाला पर्यटितुमुपक्रमते। अन्ये च मायिककुटुम्बिनः स्वं स्वं नियोगमशून्यीकुर्वन्तस्तिष्ठन्ति।
इन्द्रजालोपजीवी कलाकारो नृत्यति सविलासम्। डमरूकध्वनिं प्रतिक्षणं परिवर्तय़न् गायति च।
डिम् डिम् डिम् डिम् डिमिक् डिमिक् डिम्
डिम् डिम् डिम् डिम् डिमिक् डिमिक् डिम्।।
बन्धो रे बन्धो रे शृणु वचनम्
इन्द्रजाले मदीये विधेहि नयनम्।।
काशी मया दृष्टा परीता कलिकाता
दिल्ली राजधानी गृहिणी मम जाता।
कर्णपुरं हस्ततले पादतले पटना
मुखे मद्रासपुरी शीर्षतले सतना।।
बन्धो रे बन्धो रे मुञ्च सदनम्
इन्द्रजाले मदीये विधेहि नयनम्।।
एकदिनं जौनपुरे जबलपुरे मासम्
अमृतसरे वर्षार्धं मुम्बय्यामासम्
गृहं नैव कृषिर्नैव नैव कोऽपि धट्टः
उदरमात्रमस्ति मे न मामकोस्ति हट्टः
बन्धो रे बन्धो रे देहि शरणम्
इन्द्रजाले मदीये विधेहि नयनम्।।
डिम् डिम् डिम् डिम् डिमिक् डिमिक् डिम्
डिम् डिम् डिम् डिम् डिमिक् डिमिक् डिम्।।
(संगीतकमवरोध्य परितः पर्यटन् किञ्चिदुच्चस्वरेण)
एहि बन्धो! बाला आगच्छत आगच्छत। गृहेभ्यो निष्क्रम्य आगच्छत। मात्रंकेभ्यो निष्क्रम्यागच्छत (स्वरं परिवर्त्य सोल्लुण्ठम्) किं बहुना, मातृकुक्षिभ्योपि निष्क्रम्यागच्छत।
आगच्छ भगिनि। आगच्छ मातः। आगच्छ पितः। श्रेष्ठीजनाः आगच्छत।(सशाठ्यमुपहसन्) ग्रामवीथीकुक्कुराः! मदुपायप्रशंसकाः यूयमप्यागच्छत।. भवतु नाम। बन्धवः! साम्प्रतं क्रीडनकं प्रारप्स्यते। एकवारं कृपया सोल्लासं करतलध्वनिं कुर्वन्तु भवन्तः।
(सर्वे करतलध्वनिं कुर्वन्ति)
ऐन्द्र – (निराशां प्रकटयन्)
हन्त भोः किमिदं नाम! मशकावमर्दनमितोऽयं करतलध्वनिः। वनस्पतिधृतोपभोगाहृतशक्तिकाः वृकोदराः! किञ्चित्तारस्वरेण करतलानि ताडयन्तु भवन्तः।
भवतु मम सोदराः। सर्वेभ्यो नमः। हिन्दुभ्यो रामरामेति। मुस्लिमेभ्यो वालेकुम् अस्सलामिति। शिष्य – (सिक्ख) बन्धुभ्यः सच्छ्री अकालेति। ख्रिस्तेभ्यो गुडनूनेति। पितृभ्यश्चरणस्पर्शः। मातृभ्यः पादलग्निका (पालागन) भगिनीभ्य आशीर्वादः माणवकेभ्यश्चिरंजीवनम्। तर्हि पुनरेकवारं नभः स्फोटं करतलध्वनिं कुर्वन्तु मेऽन्नदातारः।
(नभोविदारं ध्वनिरुत्पद्यते। ऐन्द्रजालिकः हर्षेण गादीभूय)
अलम् अलम् अधुना। इदमभूद् युक्तियुक्तम्। मत्क्रीडादिदृक्षवः!
सज्जनाः! सम्प्रति प्रारभ्यते ममेन्द्रजालम्। पश्यन्तु भवन्तः। अयमस्ति मम वत्सरः। मम क्रीडाकपोतः। अयं कौशलं दर्शयिष्यति, अयं भवन्मनांसि आह्लादयिष्यति (अधरं विकुंच्य सस्मितम्) अवसरमुपेत्य भवद्ग्रन्थिमपि छेत्स्यति। (सर्वे अट्टहासं कुर्वन्ति) एषोऽहं पुष्टविडालमाह्वयामि।
ऐन्द्र – एहि मम प्रिय वटो।
बालकः – अपेहि ममाप्रियपटो।
ऐन्द्र – कथं रुष्टोऽसि दारक?
बालकः - कथमतुष्टोऽसि प्राणहारक!
ऐन्द्र – उपसर भोः क्रीडाशुक!
बालकः – अपसर भोः गरलमुख!
ऐन्द्र – स्फूर्जय मे केलिविलासविहग!
बालक – कूर्दय रे वेलिपलाशप्लवग!
(ऐन्द्रजालिकः स्वललाटं ताडयति। आत्मानं शपति। प्रणतिपुरस्सरं निवेदयते।)
ऐन्द्र – बन्धवो! दृष्टं भवद्भिः। अयं पादताडितकः अपि न संशृणुते। सर्वथा कुटिलम् असमञ्जसस् चोत्तरयति। किं करवाण्यस्य?
बालकः – (उच्चस्वरेण) गुरो! अस्य लुञ्चितस्य मुखे कुण्डलिनीः प्रवेशय निरन्तरालम्।
(सर्वे हसन्ति)
ऐन्द्र – (स्मृतिमभिनीय) शोभनं शोभनम्। जितोऽस्मि मत्पितः। त्वद्वाचोयुक्त्या जितोऽस्मि। भोः सज्जनाः क्रीडनात्प्रागेवाद्य वटुरयं मया मिष्टान्नकुण्डलिन्यादिभिः उपच्छन्दितः। किन्तु कार्यव्यापृतमानसतया तदेव मया विस्मृतम्। यतोऽयं लघुव्यालः दष्टुमुपक्रमते, न सहजं व्यवहरति। भवतु। मिष्टान्नपुटकमस्मै समर्पयामि तावत्। गृहाण रे बालशम्बर!
(इति बालकं मिष्टान्नं भक्षयति। क्रीडा पुनः प्रवर्तते)
ऐन्द्र – एहि मम प्रियवटो!
बालकः – सन्धेहि मायाप्रियपटो!
ऐन्द्र – कथं रुष्टोऽसि दारक?
बालकत्रः – सर्वता तुष्टोऽस्मि क्षुधामारक!!
ऐन्द्र – उपसर भोः क्रीडाशुक!
बालक – व्ययाहार भोः सुधामुख!
ऐन्द्र – स्फूर्जय मे केलिविलासविहग!
बालकः – सज्जय मे लास्यताण्डवसुभग!
ऐन्द्र – यत्प्रक्ष्यामि भणिष्यसि?
बालकः – भणिष्यामि भणिष्यामि।
ऐन्द्र – यद् दिदृक्षामि दर्शिष्यसि?
बालकः – दर्शयिष्यामि दर्शयिष्यामि।
ऐन्द्र – यत् कथयिष्यामि करिष्यसि?
बालकः – करिष्यामि करिष्यामि।
ऐन्द्र – तर्हि समुद्यतो भव। भूमावुत्तानं शेष्व।
बालकः – समुद्यतोस्मि।
(ऐन्द्रजालिकः वटोरुपरि कृष्णवर्णं मायामयप्रच्छदमेकं विस्तारयति। परितश्च परिक्रामति डमरूकं चित्रं नादयन्। क्रीडा प्रारभते)
ऐन्द्र – वटो!
बालकः – पटो!
ऐन्द्र – (कमपि कृपणश्रेष्ठिनं संकेतयन्) कोऽयं जनः?
बालकः – गुरो! अयं विधिनिर्माणकौशलेन पुरुषः पौरुषदृष्ट्या नारी, नारीत्वदृ,ट्या वन्ध्या च। अस्य कापाले गोमयं, नयनयोः सुवर्णमृगः, मुखेऽसत्यं, उदरे च पंचदशगृध्द्राशनोचितम् उदरम्भरि भोजनम्। व्यक्तिदृष्ट्याऽयं श्रेष्ठीस्वरः, शक्तिदृष्ट्या हरिणेश्वरो, जातिदृष्ट्या च कृपणेश्वरः (इत्यर्धोक्ते)
ऐन्द्र – अलम् अलमेतावता। वटो। नायमायकरकार्यालयो, न व्यवहारसत्राधिकरणं, न वा तीर्थपुरोहितगृहपंजिका। तत् किमनेन बृहत्परिचयेन? सम्प्रति यत्पृच्छामि तत्तसंक्षिप्तं भण।
बालकः – गुरोराज्ञा गरीयसि।
(विक्षुब्धो भूत्वा श्रेष्ठी पलायते। सर्वे दर्शकाः सकरतालमुपहसन्ति)
ऐन्द्र – भवतु नाम। वटो!
बालक – पटो!
ऐन्द्र – (कमपि धौतधवलवाससमहापुरुषं संकेतयन्)
कोऽयं महापुरुषः?
बालकः – गुरो! योऽयं महापुरुषस्तिष्ठति ईशानकोणे तमेव पृच्छति भवान्?
ऐन्द्र – (क्षोभमभिनयन्)
गर्दभ! महापुरुषं महापुरुष इत्यनुवदसि? चपेटिकाभिस्ते कर्णमूलं पिण्डखर्जूरमेवाभिमन्यते।
(सर्वे साट्टहासं मुखरीभवन्ति)
ऐन्द्र – (निरुत्तरं तिष्ठन्) लोपाकशावक! अद्य बहु प्रमाद्यसि। कुण्डलिनीबलेन सहस्रबुद्धित्वमेषि। रोटिकामपि न दास्ये रात्रौ।
बालकः – यद्भवतु तद्भवतु गुरो। तथापि मृषा न वक्ष्यामि। अहमिवायमपि बृहल्लोपाको बहु प्रमाद्यति, कुण्डलिनीबलेन कोटिबुद्धित्वमेति, स्वार्थसाधननिमज्जिततया रोटिकामपि खादितुं न पारयति रात्रौ।
ऐन्द्र – तर्हि सत्यं भण, किमयं समताशिक्षकः?
बालकः – सत्यं भणामि गुरो! अयं जनताभक्षकः।
ऐन्द्र – हंहो ज्ञातमिदानीम्। महानुभावोऽयम् एम.एल.ए. भूतः।
बालकः – सुष्ठु विजानाति भवान्। बकशावोऽयं यमालये प्रसूतः।
ऐन्द्र - क्षन्तव्योऽस्मि भोः। स्वाग्निनैव कीचकवनं मे दह्यते। दुर्मुखोऽयं वटुर्न मे मानं रक्षति न वा शीलसमुदाचारं पश्यति।
(प्रह्वीभूय)
वटो! सुमुख! कथमद्य वक्रीभवसि? मदुपहासं कारयसि!
बालकः – गुरो! नाहम्। अयमेव धवलो गिरिजापतिवाहनो विशालेऽनेहसि नक्रीभवति, जगदुपहासं च कारयति।
ऐन्द्र – (जिह्वां पीडयन् सकृतकक्रोधम्)
वैधेय ! असम्बद्धप्रलापिन!! कथमिदमधरोत्तरं बुक्कसि? तृणकमपि नो बिभेषि? परिचायय भद्रपुरुषं साधु, नियन्त्रय वा रसनाग्रकर्तरिकाम्।
बालकः – गुरो! साधु परिचाययामि। गिरिजापतिवाहनोऽयं गौर्वाहीकः! अक्षक्रीडानिपुणोऽयं धारयति रुद्राक्षमालाम्। परोक्षे कार्यं निहत्यापि प्रत्यक्षं प्रियं वदति। अयं गुणान् निगूहति गुह्यं च प्रकटीकरोति। हितान्निवारयति, पापाय योजयते। अयम् आपद्गतं जहाति काले च नैव ददाति।
ऐन्द्र – (सोद्वेगम्) अलमेतावतैव। सम्प्रति (इत्यर्धोक्ते)
बालकः – गुरो! मोपरोंत्सीः। सावशेषोऽयं परिचय इदानीमपि। अयं जननेता बन्धुबान्धवस्नेहशीलाचारभेत्ता, मतपत्राणां क्रेता, मानपदप्रतिष्ठाविक्रेता, समाचारपत्राङ्कितकोणवृत्तैकवेत्ता, राष्ट्रगौरवरज्जुच्छेत्ता, आसन्दिकावधूपरिणेता च। अस्यैव कृपया दीनो देशः, पीनो मेषः, नवीनः क्लेशः, मलीनो वेषः, अजीर्णो निदेशश्च।
ऐन्द्र – अलम् अलम्।
बालकः – गुरो! अपरमपि किञ्चित् श्रोतव्यं श्रावयामि! विजयदशम्यामयं! हिन्दुर्भवति, ईदमहोत्सवे च तुरुष्कः। वैशाखीपर्वण्ययंशिष्यो भवति, क्रिसमस्महोत्सवे पुनरांग्लदेशीयः।
सर्वदेशीयोऽयं, सर्ववेषीयोऽयं, सर्वेश्वरीयस्च। किमपि वृत्तमस्य मनसि वचांसि कर्मणि च युगपदवस्थातुं न शक्नोति। उदरम्भरोऽयं, स्वजनम्भरोऽयं, गृहम्भरोऽयं, स्वार्थम्भरोऽयं, किं वा साक्षाद् विश्वम्भरोऽयम्।.....गुरो। सम्प्रति परिचयस्यान्तिमोंशः। अस्य जन्मभूमिः “कान्स्टीच्युएंसी”, मतवारमस्य जन्मदिनम्, मतदानमस्य कुलमहोत्सवः, दारुलशफास्य स्थीयि निवासस्थानम्। निखिलेऽपि जीवनावधौ वराकोऽयं दुर्ग्रहैः पीड्यते प्रतिपंचवर्षानन्तरम्।
(नेता दुर्वचोभिरधिक्षिपन्नैन्द्रजालिकं प्रतिष्ठते। सर्वेंऽपि दर्शकास्तमुपहसन्ति)
ऐन्द्र – सर्वमपि गुडगोमयं विधाय तृष्णीमुपगतोसि? अये मत्पितः! संप्रति क्व गता ते बृहस्पतिमतिः? असकृन्निवारितोपि नाङ्गीकृतवानसि मदुपदेशम्? एवमेव यदि खेला प्रवर्त्येत चेत्तर्हि जठरानलनिर्वापणमपि न भविष्यति।
दर्शकः – भ्रातः ऐन्द्रजालिक! अलं मुधा सन्तप्य। न किमप्यत्याहितम्।गिरिजापतिवाहनोऽसौ सत्यमेव पाटच्चरः। तत्साध्वेव प्रकाशितं दारके तज्जन्मलग्नचक्रम्। आगामिनि निर्वाचने सोऽवश्यमेवास्माभिर्मूषिकीकरिष्यते। साम्प्रतं प्रवर्ततां खेला।
ऐन्द्र – (सप्रणिपातम्)
यथादिशन्ति नागरजनाः। एषाऽग्रेसरीक्रियते खेला। वटो!
बालकः – पटो! एष सन्नद्धोऽस्मि!
ऐन्द्र – (जनमेकं निर्दिशन्) कोऽयं जनः?
बालकः – गुरो! द्रवीभूतं ते मनः। प्रवाहमस्य भवान् नियंत्रयतु।
ऐन्द्र – (सवितर्कम्) किमिदं प्रलपसि? मामेव नर्मपात्रीकर्तुं समीहसे?
बालकः – नाहं प्रलमामि। प्रश्न एव भावत्कोऽनुपयुक्तः!
ऐन्द्र – कथं पुनरेतत्?
बालकः – गुरो! शुकदेवदृष्ट्या पश्यति भवान्। निपुणं निरीक्ष्य साध्वविज्ञाय च प्रश्नमुट्टङ्कयतु भवान्। नाऽयं कोऽपि जनः। इयं कापि कन्या.......कलिकन्या।
(सर्वे हसन्ति। कन्यापि ब्रीडावनता भवति)
ऐन्द्र – (निपुणमवेक्ष्य) सत्यमेव वेषभूषाप्रत्ययेन प्रवञ्चितोऽस्मि। भवतु नाम। वटो! इमामधिकृत्य किं जानासि?
बालकः – गुरो! सर्वमेव जानामि! किमुपवर्णयामि।प्रत्यक्षचरितं परोक्षचरितं वा?
ऐन्द्र – वैधेय! यच्छ्लाध्यं तन्मात्रमेव भण।
बालकः – गुरो! वीरबाला इयं कालगरला इति (Call Girl) विज्ञायते शाटिकाऽनया संहर्तुं न पार्यते। तस्माद्वेलिवितानमात्रं (बेलबॉटम) धारयति। जनसम्मर्दोत्सारणे साक्षादियं पुतलीबाई शत्रुजनविमुखीकरणेऽपि साक्षाद् झांसीश्वरी। अभीकजनामन्त्रणे तु साक्षादियं शर्कराकुण्डलिनी।
ऐन्द्र – वटो! पुनरपि प्रकृतिमापन्नोऽसि?
बालकः – गुरो! कृष्णप्रच्छदप्रभावोऽयम्। श्रूयतामग्रे। सेयं कालगरला लिपस्टिककृपयैव बिम्बाधरोष्ठी, कृतककुन्तलबन्धकृपयैव महार्घधम्मिल्ला, कज्जलरेखा विधानेनैव कर्णान्तायतलोचना, महेन्द्री (मेंहदी) रसरंजनयैवानुरक्तकरतला, डाइटिंगमाययैव मुष्टिग्राह्यमध्या, श्वेतचूर्णानुलेपेनेनैव पार्विकशर्वरीश्वरमुखी, निरर्गलयौवनव्ययेन च सौभाग्यवती।
(कन्या निभृतनिभृतं प्रपलायते)
ऐन्द्र - गरलमुख! त्वदसम्बद्धप्रलापमाकर्ण्य न कोऽपि अत्र स्थास्यति। पश्य, तावत्। दुर्मनायिता सापि पलायिता।
बालकः – गुरो! अलमतिकरुणया। मायानाम्नी सा। भवन्तमपि विक्रेतुं समर्था। भवादृशा न जाने कियन्तस्तस्या दुष्पट्टाञ्चले निबद्धाः।
ऐन्द्र – मूढ! तृष्णीमातिष्ठ।
बालकः – (कृतकरोषमभिनीय)
जानामि जानामि! न मयि स्निह्यति भवान्। तामेव कालगरलां निपीय धूर्जटित्वमेतुं समीहते भट्टपादः।
ऐन्द्रः – (स्फारमुपहसन्) कोलपोतक! भट्टपादमपि आविलयितुमुपक्रमसे। विदितचरितस्ते गुरुः।
बालकः – गुरो! यत्पश्यामि तदिदानीं भणामि। इयता कालेनैव सा कालगरला श्रेष्ठिचत्वर – (Civil Lines) हट्टमासाद्यकेनचिद्धनिकयूना सार्धं ऐल्चिकोनाम्नि भोजवेश्मनि पक्वान्नानि अत्तुं प्रवत्ता। गुरो! पश्याम्यहम्। इदानीमेव सा ताम्रतरसूपं (Tomato soup) समास्वाद्य, कलायप्रनीरञ्च (मटरपनीर) राजाम्बा (राजमा) च तन्द्रारिभिस्सार्धं (तन्दूरी) भक्षयति। गुरो! पश्यतु भवानन्। छविल्लभर्तारं (छोलाभटूरा) विना व्यंजनरुचिरस्याः समाप्तिं नेष्यति।
(दर्शकाः सकरतालं उच्चैः प्रहसन्ति)
ऐन्द्र – पश्यन्ति भवन्तो ममान्नदातारः अस्य माणवकस्य वक्रोक्तिकौशलम्। न म या शिक्षितोऽयं वाक्पाटवे, तथापि प्रत्युत्पन्नमतितया स्वैरं हि चकास्ति। भवतु, वटो!
बालकः – आज्ञापयतु भट्टपादः।
ऐन्द्र – वटो! यत्प्रक्ष्यामि तद् वक्ष्यसि?
बालकः – वक्ष्यामि गुरो वक्ष्यामि।
ऐन्द्र – तद् ब्रूहि, सम्मर्देऽस्मिन् पञ्चजनाः के सर्वश्रेष्ठा वक्तुं शक्यन्ते।
बालकः – (तारस्वरेण हसन्)
गुरो! वामहस्तक्रीडेयं मत्कृते। स्फुटं वक्ष्यामि।
ऐन्द्र – अलं विस्तरेण। अभिप्रायं निवेदय।
बालकः – गुरो योऽयं शबलवस्त्राच्छादितो धीरप्रशान्तवेषः कर्जनानुकृतश्मश्रुः बुल्गानिनानुकृतकूर्चः उपनेत्रपिहितलोचनस्तिष्ठति मध्यमवृद्धोऽसावेव प्रथमः श्रेष्ठपुरुषः।
ऐन्द्र – वटो! कथमेतत् युज्यते!
बालकः – गुरो! भैरवतस्करोऽयं वर्तते। अवैधमदिरायातनिर्यातनिर्माणबलेनैव पञ्चभूमिकोऽस्य राजप्रासादोऽभ्रंलिहाग्रः परिलक्ष्यते। गंजनैः भङ्गाभिश्च (गँजा-भाँग) च समुपचितान्यस्य द्राग्यानानि निमिपालदेशसीमानमप्यतिक्राम्य धावन्ति, समाहरन्ति चाकुप्यं वसु। अयं जीवद्रावणो निखिलमपि प्रयागनगरं भ्रूभङ्गमात्रेणैव क्रेतुं समर्थः।
(जनोऽसौ सम्मर्दोपहस्यमानः ससरम्भं गच्छति)
ऐन्द्र – धिङ्मूर्ख! किमिदमेव पृष्टोऽसि? भवतु द्वितीयं भण।
बालकः – गुरो! योऽयं ताम्बूलोपरक्ताधरः असितकञ्चुकः कुक्षिस्थपञ्जिको वाक्कीलोऽवाच्यां दिशि दृश्यते स एव द्वितीयः श्रेष्ठपुरुषः।
ऐन्द्र – वटो कथमेतत्?
बालकः – गुरो! मृषाजीवी जनोऽयम्। कलहं समुत्पाद्य शमयितुमुपाक्रामते। असत्यमभिभाष्य चिरंजीवयत्यसत्यम्। असत्यं खादति। असत्यं पिबति। असत्यं संस्तरति। असत्यमेवाच्छादयति। असत्यं जागर्ति। असत्यं निद्राति असत्यं स्वप्नायते। किमधिकं गुरो! असत्यमेवास्य माता पिता जीवनधर्मश्च। वाक्कीलोऽयम्। कचहरीकीटाणुरयम्। भिक्षुक इवायं करौ प्रसारयति। पाटच्चर इव सर्वं मुष्णाति। पश्यतोहर इव प्रत्यक्षमेव निर्धनीकरोति जनम्। अस्ताम् समेषां भयम्।
ऐन्द्र – मूढ! श्रीमन्तं संक्षोभ्य कुतस्ते कल्याणम्! तदलं वक्तव्यैः।
बालकः – गुरो! नाहं बिभेमि वाक्कीलात्। असत्य़नवादेवास्य बिभेमि। भवतु। प्रकृतिमनुसरामि गुरो! योऽयं मच्चरणाभिमुखस्तिष्ठति जनः स एव तृतीयः श्रेष्ठपुरुषः।
ऐन्द्र – कथमेतत् सम्भवति वटो!
बालकः – गुरो! विश्वविद्यालयशिक्षकोऽयं विद्वन्मूर्धन्योऽध्यक्षपदमलङ्करोति। त्रिपुण्डमण्डितमस्य सम्पूर्णं विद्यार्थीजीवनम्। उदुम्बरपुष्पतां गतास्य कृते प्रथमा श्रेणी। तथापि गुरुचरणचारणचक्रवर्तितया, नवनीतोपलेपनकलाविशारदतया च सकृदवाप्तासन्दिको न कथमपि मुमोच तां विविधावरोधझञ्झाझम्पप्रताडितोऽप्यनेकवारम्। सम्प्रति वेश्वानरज्वालापहृतसकलमलो निर्मलकार्त्तास्वरो निखिलगुणनिधानभूतो राराज्यते। धनदानं शैय्यादानं, पशुदानमिवायमपि स्वामुष्मिककल्याणार्थं छात्रेभ्यश्छात्रीभ्यश्च (विशेषेण) अङ्कदानं विदधाति। विविधमूल्यमितोऽस्य महार्धोऽङ्कः। परीक्षासरित्समुत्तरणमात्राय शतरुप्यकाणि, द्वितीयश्रेण्यर्थं पंचशतरुप्यकाणि, प्रथमश्रेण्यर्थं सहस्ररुप्यकाणि, प्रवक्तृपदप्राप्त्यर्थं च पञ्चसहस्ररुप्यकाणि स्वीक्रियन्तेऽनेन विद्यामन्दिरदैवतेन। परन्तु गुरो!......
ऐन्द्र – पूरय पूरय सावशेषं वचः।
बालकः – य- कोऽपि प्राणानपि पणीकृत्यास्य जामातृत्वं गृह्णीयात्, यो वा सूकरमुखाणामस्य दुर्दारकाणां धूलिमलप्राञ्छनं कुर्यात्, यो वास्य महानससामग्रीं निर्व्ययमुपस्थापयेत्, यो वास्य गेहिन्याः खदिरपूगीताम्बूलतमालपत्रसत्प्रबन्धं वा कर्तुमुत्तीर्णो भवेत् तत्कृते तु सर्वमेव सुलभं वराटिकां विनैव। मौर्ख्ये साक्षाद्बृहस्पतिः अयं, वैदुष्ये पुनः साक्षात् सोमशर्मा। प्रतिप्रश्नं षड्ढलानि उत्तरयति।
(नतानतोऽध्यापकस्तत्रैव तिष्ठति)
ऐन्द्र – वटो! सम्प्रति संक्षिप्यते मया खेला।
बालकः – किन्निमित्तम्?
ऐन्द्र – एवं नाम त्वया कृष्णावरमायागर्वितेन तिरस्क्रियन्ते सज्जनाः? कियदवारं समभ्यर्थितं मया। किन्तुः कः शृणोति?
बालकः – भवतु गुरो! प्रवचनकाले सर्वथा परवशीभवामि अहम्। स्वयमपि नानुभवामि आत्मोदीरितवचनानि। कयापि प्रच्छन्नशक्त्या यद् भणितुं प्रवर्त्ये तदेव भणामि।
ऐन्द्र – (इन्द्रजालगौरवमनुभवन्)
भवतु वत्सक। अलमायासेन। प्रकृतिमनुसर तावत्।
बालकः – (सोत्साहम्) गुरो! यान्त्रिकं पश्यति भवान् मद्दक्षिणबाहुप्रतिष्ठम्?
ऐन्द्र – पश्यामि वटो। पश्यामि।
बालकः – गुरो अयमेव तुरीयः श्रेष्ठपुरुषः। कथमिति तदुच्यते। वर्षजीविनः षण्मासजीविनो वा एतन्निर्मिताः सेतुबन्धाः। अयं सीमन्तचूर्णे (Cement) समधिकसिकतां मेलयति। चतुस्सूत्रायोदण्डस्थाने त्रिसूत्रायोदण्डान् प्रयुनक्ति। प्रथमश्रेणीष्टका उपेक्ष्य रक्तपेटीष्टकाभिरेव भवननानि निर्माति। तिलं तालीकरोत्ययम्। पश्यतु गुरुवर्यः। आसीदयं ह्य एव सर्वविधदरिद्रः किन्तु सम्प्रति वर्तते धनधान्यसमृद्धो लक्षपतिः।
ऐन्द्र – वटो भूरिभाग्योऽयं महाजनः।
बालकः – कथन्न भूरिभाग्यः! रूपगर्विता कर्मान्तविद्यालयगामिनी? (Convent) कन्याऽस्य यान्त्रिकवरस्य प्रपलायिता केनचित् सुभगम्मन्ययूना सार्धम्। ज्येष्ठत्वकनिष्ठत्वोभयगुणमण्डितोऽस्य पुत्रः परस्सहस्राणि रुप्यकाणि मिषित्वा अभिनेतृभावलम्पटतया मायापुरीं (Bombay) उपद्रुतः। सम्प्रत्येकाकी वराकोऽयं विधुरो यथाकथञ्चित् धूम्रमैरेयपानादिभिस्समयं नयति।
(यान्त्रिकः क्रोधारुणलोचनस्सन् पश्यति क्षणं प्रयाति च)
बालकः – दृष्टः भवद्भिः? पलायितोऽसौ बालुकापुरुषः। मृतास्सर्वे मृत्तिका भवन्ति। अयं पुनः बालुका भविष्यति।
(सर्वे स्वैरं हसन्ति)
ऐन्द्र – वटो! क्षपितस्त्वयाऽऽर्यमिश्राणां मूल्यवान् कालः। अलमतिविलम्बेनाधुना। द्रुतमिदानीं पञ्चमं श्रेष्ठपुरुषं समुदाहर।
बालकः – गुरो! किं न पश्यति भवान् पञ्चमं श्रेष्ठपुरुषम्।
(सर्वे साश्चर्यं पश्यन्ति। ऐन्द्रजालिकः स्मेराननो भवति, किन्तु न किञ्चदपि अभिव्यनक्ति)
दर्शक – वटो! त्वममेव संज्ञापय। कुतूहलिनो वयम्।
बालकः – अये महापुरुषाः! महद्भ्योऽपि महीयांसः विद्वद्वरेण्याःऋ राजनेतारः समाजसंरक्षकाः, श्रेष्ठीवर्याः, कलाकारा, आबालवृद्धाश्च जनसमूहाः रूपसौन्दर्यनिधानभूताः सुन्दरकामिन्यो यस्य मम पिपीलकोपमस्य छुद्रजीवस्य वाचोयुक्तया विमोहितास्सन्तस्तिष्ठन्ति अत्र क्षेत्रपुरुषायमाणाः योऽहमिन्द्रजालवटुः किन्नामस्मि महापुरुषः?
(जनसमूहे नभोविदारं करतलध्वनि), साधुवदध्वनिस्च स्फारीभवति)
बालकः – (कृष्णप्रच्छदमपनीय)
भोः भोः प्रियबन्धवः! मित्राणि, भगिन्यः, पितरः, मातरः!! सौऽहमस्मि द्वादशवर्षदेशीयोऽनाथबालकतः। मातृपितृपरित्यक्तोऽज्ञातकुलशीलसमुदाचारः सर्वजनतिरस्कृतश्च यथाकथञ्चित् पितृकल्पस्यास्य ऐन्द्रजालिकस्य हस्तयोर्निपतितोऽस्मि। नाहं (इत्र्धोक्ते)
ऐन्द्र – वटो! आस्तां तावदियं कथा। मुहूर्तमात्रं तिष्ठ!
बालकः – गुरो! कस्मादिदमादिश्यते?
ऐन्द्र – प्रश्नान् कांश्चित् प्रष्टुकामोऽहम्।
बालकः – गुरो! अवसितेदानीं मोहमयी क्रीडा। विलीना शफरी, तत्सलिलताडनेन को लाभः?
ऐन्द्र – (सवात्सल्यम्)
वत्सक! दुर्वारा इमे प्रश्नाः। अपृष्टे सति संशयितं भविष्यतीन्द्रजालम्।
बालकः गुरो! एवम्?
ऐन्द्र – अथ किम्।
बालकः – गुरो। तर्हि तूर्णं पृच्छतु भवान्।
ऐन्द्र – वटो किं वयं मयूरव्यंसकाः?
बालक – पटो! धिगेवंवादिनम्। नीरक्षीरविवेकिनः कलहंसका वयम्।
(दर्शकाः सकरतालमुपहसन्ति)
ऐन्द्र – वटो! किमिन्द्रजालमस्माकं मुद्रार्जनसाधनम्?
बालकः – पटो! धिगेवंमानिनम्। सर्वथा सहृदयजनाराधनमिदम्।
ऐन्द्र – चिरञ्जीव वत्स! इदानींस्ववचनचन्द्रिकया अपनय दर्शकजनहृदयान्धकारम्।
(इति भूमावुपविशति)
बालकः – (सहस्ताभिनयम्)
नाहं भिक्षुकः। नाहं लुण्ठाकः। नाहं दस्युः। नाहमलसः। नाहं हीनपौरुषः। बन्धवः! अहमस्मि कलाजीवी। भवन्मनोरञ्जनाय कौशलं विधाय, भवदाह्लादं विधाय, भवदानुकूल्यं वा विधाय स्वोदरपूरणं करोमि। कलयानयैव निखलमपि भूमण्डलं विमोहयितुं समीहे। नाहं शम्बरः, न वा देवराज इन्द्रः। नाहं मयासुरो न वा धटोत्कचः। पी.सी.सरकारोऽपि नास्मि। अहमस्मि भवतां लघुक्रीडनकम्।
बालकः – (कृष्णप्रच्छदं विस्तारयति। सर्वे जना मुद्रावर्षणं कुर्वन्ति। बालकस्सर्वेभ्यः प्रणमति। ऐन्द्रजालिकश्च वेणुं वादयन् डमरूकं च निनादयन् सुमनोहरं नृत्यति गायति च)
एकपणं पञ्चपणं षष्टिपणं भ्रातः
दत्त मनसि यदभिमतं यदनुमतं दातः!
लक्षपतिः कोटिपतिर्भवितुमहं नेहे
सर्वमिदं भवति वृथा स्वर्गमिते देहे!
बन्धो रे बन्धो रे देहि भरणम्
इन्द्रजाले मदीये विधेहि नयनम्।।
डिम् डिम् डिम् डिम् डिमिक् डिमिक् डिम्
डिम् डिम् डिम् डिम् डिमिक् डिमिक् डिम्।।
(जवनिकापात)
इतिश्रीमदभिराजराजेन्द्रविरचितं व्यलोकवृत्ताश्रितमेकाङ्किरूपकम्
इन्द्रजालाभिधानं समाप्तम्
निर्गृहघट्टम्
रचनाकालः –
07 अगस्त 80 ई.
पात्राणि
गिरीशः............(कथानायकः)
(कस्मिंश्चित्कार्यालये लिपिकः)
विनोदः............(गिरीशवयस्यः)
सलीमः............(गिरीशवयस्यः)
भवेशः.............(गिरीशवयस्यः)
बालचन्द्रः.........(गिरीशवयस्यः)
हंसनाथः...........(गिरीशवयस्यः)
शिवलालः.........(कर्मकरो भृत्यः)
अधीक्षकः..........(कार्यालयाधिकारी)
मङ्गला............(गिरीशपत्नी)
कल्पना.............(गिरीशप्रेयसी)
।।प्रथमदृश्यम्।।
नगरस्य घनवसतौ कस्यचिल्लिपिकस्य साधारणगृहम्। गृहस्य राजमार्गाभिमुखो भागः सुधाचूर्णलिप्तोऽतिधवलः परिलक्ष्यते। अन्तर्भागस्तु धूलिमलीमसः क्वचिदुत्कीर्णसीमन्तलेपः क्वचिल्लूताजालानुविद्धभित्तिकोणः क्वचिच्च पुञ्जीभूततृणलोष्टादिकः। अलिन्दसंलग्न एकस्मिन् कक्षे आसन्दिकोपविष्टः समाचारपत्रं पश्यन् गृहपतिर्गिरीशशर्मा कन्दुकोपनामा विभ्राजते।
अपटीक्षेपेण प्रविशति गृहिणी चायचषकहस्ता।
गिरीशः – (प्रियागमनव्यतिकरमनुसन्धाय)
शिव शिव! पत्नयोऽपि नाम कियन्नृशंसा भवन्ति? को नु खल्वासां प्रत्ययः?
मङ्गला – (पत्नीनिन्दयोद्वेगमनुभूय)
किमत्याहितं पत्न्या यत्तां नृशंसा घोषयसि?
गिरीशः – (साभिनयम्) स्वागतं स्वागतं महिलोद्धारसभाध्यक्षायाः। मत्पार्श्वमुपविशतु भवती येन हृत्तापो मे प्रणश्येत्।
(चायचषकमवलोक्य)
अहोऽहो। सुधापात्रमप्यानीतं वर्तते। देवी! अस्यौदरिकस्य कृते कियत् कष्टमङ्गीकरोषि? एहि, उपनय।
(चायचषकाय हस्तं प्रसारयति)
मङ्गला – अलमतिहार्देन। क्वचिदमृतमुद्वमसि क्वचिद्धलाहलञ्च। नाहमनेन सुवर्णमृगेण स्ववशीकर्तुं शक्ये। चषकं तावद्गृहाण, रसनां सन्तापय। महानसकार्याणि विमुच्य समागताऽस्मि। न मे स्थातुमवसरोऽत्र।
गिरीशः – (अनुनयन्)
इदमेव न रोचते मह्यम्। उदीच्यांप्रवर्तेऽहम्। त्वं तावदवाच्याम्। आम्रमहं वदामि। त्वं तावत्तिन्तिडीकं रटसि। इदमपि नाम किं युज्यते?
मङ्गला – (किञ्चिद्गादीभूय)
किं घातितं मया? अरण्यरोदनं समारब्धवानसि। किन्तव, हानिस्तु ममैव वर्तते। त्वं तावत् जठरानलं निर्वाप्य कार्यालयं गमिष्यसि, आदिवसं चाटुवार्ताः प्रवर्तयन् सुखं स्वप्स्यसि। अहं पुनः त्वत्तो निवृत्तिमवाप्य त्वदुत्पादितसन्ततिवाहिनीं समरोपायकौशलं शिक्षयन्ती अस्यामेव जम्बुकगुहायां स्थास्यामि।
गिरीशः – (सकुटिलहास्यम्)
किम्ममैवेयं सन्ततिवाहिनी? न तव? निरन्तरमेव प्रतिवेशिभिस्सार्धं तुमुलसङ्गरं घोषयन्ती परिलक्ष्यसे। यदि नामेयं प्रतिभटभयङ्करी सन्ततिवाहिनी न भवेत् तत्प्राणा अपि संशयिता भवेयुः।
मङ्गला – अलमपदेशेन। त्वमेव भव सेनापतिः। गच्छाम्यहम्।
गिरीशः – अये शृणु तावत्। पत्नीविषयकं समाचारं न प्रक्ष्यसि?
मङ्गला – किं प्रक्ष्यामि? नेत्रे तावच्चलचित्रविज्ञापनोपरि कीलिते। हेमामालिनी चित्रमनिर्वर्ण्य कुतस्ते मानसार्णवोत्तालतरङ्गशान्तिः। अये साधुपुरुष! इदानीमपि न मुञ्चसि तां वराकीम्? साम्प्रतं तु सा गृहिणीभूता धर्मेन्द्रस्य।
गिरीशः – (विगर्हणामपलपन्)
व्यर्थमेव शङ्काग्नौ विदहसि। त्वामुपेक्ष्य न खल्वेकमपि चलचित्रं दृष्टवानस्मि। अन्ये पतयस्तु क्षीरनिपतितां मक्षिकामिव पृथक्कृत्य पत्न्यभिधानां बाधां मनांसि रञ्जयन्ति। अहमेव गौर्वाहीकोऽस्मि। शीलसमुदाचारस्य मूल्यमेव न वर्तते कलियुगेऽस्मिन् स एव समाद्रियते। योऽतिसन्धानकलापटुः।
मङ्गला – भवतु भवतु। परिहासविजल्पितमात्रमिदम्। अलमुत्फुल्लगल्लाभ्याम्। साम्प्रतं कथय समाचारम्।
गिरीशः – आम् स्मृतम्मया। प्रकाशितं वर्तते वृत्तमिदं यत् कयाचित्पत्न्या स्वकीयः पतिर्जारसाहाय्येन पर्यङ्कमधिशयान एव पशुमारं मारितः।
मङ्गला – काचित् काणेलिका भविष्यति। धिक्तां रण्डाम्। अन्यथा काऽपरा एवमाचरिष्यत्यतिदारुणं नृशंसं कर्म?
गिरीशः – घटनाविस्तारं प्रददता संवाददात्राऽग्रे लिखितम् (इत्यर्धोक्ते)।
मङ्गला – अग्रे यल्लिखितं तत्त्वमेव पठ। गच्छाम्यहं महानसे। परिपाकमेत्योदनं स्थाल्याम्। अवतारयामि तावत्।
(सवेगमपयाति। अलिन्दे कश्चिज्जनः कवाटं खट्खडिति ताडयति)
गिरीशः – (श्रुतिमभिनीय)
भोः कोऽस्ति? कृपयाऽऽगम्यतामिहैव। आगम्यताम्।
(पञ्चषा जनाः प्रविशन्ति। कश्चिदाबद्धपञ्जिकः कश्चिदालम्बितवस्त्रपिटकः कश्चिदारोपितघर्मोपनेत्रः कश्चिदर्धपीततमालवीटिकश्च)
गिरीशः – (निपुणमवलोक्य)
सुप्रभातं सुप्रभातम्। स्वागतं मित्रमण्डल्याः। कथयत भ्रातरः, किमिदं नाम? सन्धिप्रस्तावदूतसम्प्रेषणादिकं विनैव प्रसह्याक्रमणमिदम्?
विनोदः – अये कन्दुकभ्रातः! सर्वमेव विस्मृतवानसि? अद्यैवाष्टवादनतोऽत्र गोष्ठी भवितुं निश्चिता। त्वयैव सस्नेहं सानुरोधञ्च स्थानमिदं सङ्केतितमासीत्?
गिरीशः – (सस्मृतिमूलम्)
स्मृतं स्मृतम्। किं वदानि बन्धो! अद्यत्वे सन्निपाताक्रान्तस्येव मे सर्वमपि प्रतीपं लक्ष्यते। प्रतिष्ठे तावदुत्तरस्यां परन्त्वासादयाम्यवाचीम्। चत्वारिंशे समारूढ एवेदृशी दुर्गतिः। गलितवार्द्धक्ये पुनर्नजाने किं भविष्यति?
सलीमः – (सनिर्भर्त्सनम्)
किमिदं मुधाविजल्पनं नाम? अये दोः स्थ! समेषामेवास्माकम् इयमेव स्थितिः। गृहे गृहिण्या कार्यालये चाधिकारिणा नितरां कदर्थ्यमाणा वयं जीविताशाहताः स्मः।
विनोदः – भ्रातःसलीम! ननु तस्यैव रोगस्य प्रतिकारान्वेषणार्थं गोष्ठीयं समायोजिता। तदलं कालातिपातेन। आसन्दिका अपनीय कक्ष एवास्तरणमास्तीर्योपविशामः।
(सर्वे यथास्थानमुपविशन्ति)
विनोदः – (उद्ग्रीवस्सन्)
बन्धवः ज्ञातवृत्ता भवन्तो यदद्येयं पत्नीविरोधसमितिः किमर्थमाहूता इमाः द्विवराटिकोपमिताः श्वसुरवत्सतर्यः सर्वथाऽस्माभिः परितोष्यमाणा अपि न मनागवक्रतामुपयान्ति। आभिर्वयं नितरां शङ्कास्पदीकृताः कदर्थिता निस्सारीकृताश्च। प्रभूतधनार्जनं कृत्वाऽपि वयं जलपानव्ययार्थमनुदिनं भिक्षुकीभवामः। इमाः कृष्णाक्षराणि महिषनिभानि मन्यमाना रूपाश्वतर्यो बी.ए., एम.ए. परीक्षोत्तीर्णान् लब्धस्वर्णपदकांश्चापि सर्वानस्मान् प्रशासितुं समीहन्ते। तर्हि निवेद्यते इदानीं सचिवमहोदयः समितिकार्यक्रमाग्रेसरणाय।
गिरीशः – (उपनेत्रमवतार्य सनिर्वेदम्)
सुहृदा विनोदेन सर्वसाधारणी पीडा प्रकटीकृता। वस्तुतः पाणिपीडनं विधाय पीडामात्रमेवाऽस्माभिः प्रसह्याङ्गीकृतम्। पत्न्योऽस्माकं साकारपीडा एव। एवं विधेयं पीडा या न सोढुं शक्या, न निवोदयितुं शक्या। तथापि स्निग्धजनसंविभकक्तं हि दुःखं सह्यवेदनम् भवतीति पूर्वसूरिसम्मतोपदेशवशात् पीडेयमस्माभिः कतिपयैराप्तमित्रवर्यैः संविभज्य तुल्यमङ्गीकृता। एतावता तु तीव्रताऽस्याः डाकिन्याः किञ्चिदपचिता। साम्प्रतं सह्येयम्। परन्तु समूलोन्मूलनमेवास्याः समितेरेकमात्रं लक्ष्यम्।
(सर्वे करतलनादैस्सभाजयन्ति सचिवव्याहारम्)
सलीमः – सचिव महोदय! वयं सर्वे विश्वासं दापयामो भवते यदस्मिन्नभियाने! सर्वविधं साहाय्यं करिष्यामः।
गिरीशः – बन्धो! इयमेव ममाशा। एकं चणकं भ्राष्ट्रं विदारयितुं न शक्नोति। संघे शक्तिः कलौ युगे। सम्प्रति बालचन्द्रमहाभागः समागतपत्राणि पठिष्यति।
बालचन्द्रः – भ्रातरः! इमानि कानिचित्पत्राणि पीडितपतिभिः प्रेषितानि वर्तन्ते। सर्वमुपेक्ष्य सारभूतानि द्वित्राणि वाक्यानि प्रत्येकं पत्रात् प्रस्तौमि समितिविचारणार्थम्। अवहिताः शृणवन्तु भवन्तः।
(क्रमेण पत्राणि पठति)
इदं पत्रं महालेखाकारकार्यालयकर्णिकेन श्रीरमेशशर्मणा प्रेषितम्। लिखन्ति श्रीमन्तः यत् लक्षपतिपुत्री मदर्द्धाङ्गिनी मया निर्धनेन सार्धं दुःखमपमानञ्चानुभवन्ती मामतिशयं क्लिश्नाति। पितरौ क्रोशति कदाचित्, आत्मानं शपति कदाचित्, कदाचिच्चानुपलब्धमातमानुरूपमकन्दर्पप्रतिकृतिभूतकुलपुरुषं कमपि दृष्टतीकृत्य मां व्यङ्ग्यबाणैर्विध्यति। किं करोमि? योऽस्मि यथा वाऽस्मि, तत्सर्वं तु प्रत्यक्षमेव। कङ्कणहस्तस्य दर्पणो ऽपार्थक एव।
हंसनाथः – हन्त भोः कर्कशैव परिलक्ष्यते। रमेशशर्मा तु साक्षात् गौ- प्रतिभाति यादि नासौ धनकुबेरस्तर्हि नात्र तस्य कश्चिद्दोषः। भाग्यक्रमेण हि धनानि भवन्ति यान्ति। कथं न चिन्तितमिदं प्रागेव तस्य श्वसुरेण? वृषभस्य शङ्कौ सिंही निबद्धा तेनासाम्प्रतकारिणा।
सलीमः – (सकरतालम्) साधु साधु। भ्रातः हंसनाथ! सर्वथा साधूक्तम्।
बालचन्द्रः – सम्प्रति मयाऽपरमेकं पत्रं पठ्यते। प्रेषयतीदं कविः बहुषु मञ्चेषु लब्धप्रतिष्ठः, रक्तकण्ठो, मित्रवत्सलः प्रकाशितानेकरचनश्च।
लिखति शीतलमहोदयः यत् मम गृहिणी तु साक्षाद्वडवानलशिखा। मम कवित्वं नितरां विगर्हते। क्वचिन्मां चारणीकरोति, क्वचिद् याचकमाचष्टे। मां तिरस्कर्तुमेव ममाभिधानमपि कुब्जीकृत्य चीतलजी, मीतलजी, तीतलजी, पीतलजीति वोच्चारयति बी.ए. परीक्षोत्तीर्णा ज्ञानदृप्ता सा प्रतिपदं मया सार्धं विवदते! सर्वथा क्षुब्धोऽस्मि परिस्थित्यानया। स्वभावेनैवातिकोमलोऽहं कठोरमिममशनिपातं सन्ततं सौढुं न समर्थः।
सलीमः – धिक् धिक्। सिन्दुवारपुष्पराशौ ज्वलदग्निशिखाऽऽपतिता? यद्वा शरन्मृगाङ्कोपरि कार्ष्णायसमेघपंक्तिः समाच्छादिता।
बालचन्द्रः – भ्रातरः! सचिवमहोदयस्य प्रतिवेशिभूतो झिनकू नापितः। आत्मव्यथां प्रकाशयन् लिखति यन्मम कलहप्रिया गृहिणी वारं वारं मां विडम्बयति। कलहप्रसंगेषु सञ्जातरोषेण मयाऽविवेकिना पशुमारं मारिता सा शस्त्रैर्योद्धु मुद्यता बवति। अद्यैव तया शपथो विहितो यत्तवैव निशितक्षुरेण रात्रौ निकामं स्वपतिस्ते नासिकां पृथक्करिष्ये। तस्या अनेन पणेन सर्वथा भीतिमुपगतोऽस्मि। किमत्र मया प्रतिविधेयमिति।
भवेशः – अलमनेन नापितहतकेन। नेयं शिष्टपरिषद् एवं विधानां केशाकेशिगृहयुद्धानां निर्णेत्री। स नापितस्तां पशुमारं मारयति साऽपि तं क्षुरेण भीषयतीति कलहोपशमस्तुल्यबलत्वात्।
बालचन्द्रः – सचिवमहोदय! चरममिदं पत्रं श्री श्रीविलाससिंहमहोदयस्य। अयं महाभाग आयकराधिकारी सुप्रतिष्ठितश्च। व्यथामुद्घाटयति यदेतस्य नवयौवना मण्डनप्रिया गृहिणी निशीथात्पूर्वं कदापि गृहं न प्रत्यावर्तते। वत्सका मातृवात्साल्यमुदीक्षमाणा एव स्वपन्ति। सिंहमहोदयोऽपि लज्जाभिजात्यवशादनुक्त्वैव किञ्चितत् तूष्णीमुपगच्छति। परन्तु स्थितिरियं सम्प्रति दुस्सहा जाता।
सलीमः – श्रीमन्! अलं वक्तव्येन। वयं समितिसदस्याः सर्वज्ञाः। अस्मासु कः खलु कस्य व्यथां न जानाति? बालचन्द्रस्य पत्नी तेनैव गृहोपस्कारकर्म कारयति प्रतिप्रभातम्। भवेशः स्वयमेव महानसे भोजनं पचति, पात्राणि मार्जयति वत्सकांश्च विनोदयति गृहिणीभयेन। हंसनाथस्तु विवदमानः कदाचित् सन्तप्तसंदंशेनैव मारितः कर्कशया पत्न्या। अद्यापि तद्वामपृष्ठे ज्वलनाङ्को द्रष्टुं शक्यते। विनोदस्तु स्त्रीजितत्वादेव मातृवियुक्तः सन् प्रतिवेशिभिरुपहस्यते। तवापि दुर्दशा सलीम! न वक्तुं शक्या।
सलीमः – युक्तमाह सचिवमहोदयः।
(गिरीशस्य गृहिणी मध्य एव परिसमाप्तमहानसकार्योत्कण्ठावशादेव निकटवर्तिनि कक्षे समागत्य अर्धावरुद्धकपाटकोणमवलम्ब्य वार्ताक्रमं श्रोतुमुपक्रमते)
गिरीशः – अहमेव तावत् कियान् सुखी? जानन्ति भवन्तः महिषीव समुचितजरुथा मन्दगतिर्मदीया गृहिणी सर्वथा बुद्धिहीना। जलौकेव शान्ते समेपि जलराशौ वक्रमेव तरति।
(गिरीशगृहिणी क्रुधा सर्पिणीव रोषज्वालामनुभवति)
बालचन्द्रः – सचिवमहोदय! वयं सर्वे भवन्तं प्रति धृतसौहृदाः। सत्यमेव भवानपि महतीं पीडां सहते।
गिरीशः – अथ किम्। कार्यालयाधीक्षकमहोदयस्य सुरूपलिपिकया स्तेनाभिधया (Steno) सार्धं सकृद् बद्धालापः सन्दृष्टः केनचित् पिशुनेन सहकर्मिणा। सोऽपि नीचस्तद्वृत्तं मत्पत्न्यै सूचितवान्। तन्मात्रेणैव जातशङ्का जातरोषा जातमत्सरा च सा नितरां मह्यं कुप्यति, व्यङ्ग्यं व्यनक्ति, गर्दभीव क्रोशति च।
(गिरीशगृहिणी द्वारंमुद्घाटयितुं प्रवर्तते नियंत्रयति चात्मानम्)
सलीमः – हन्त भोः! देवोपमं पतिं कलङ्कास्पदीकृत्य साऽवश्यमेव नरकं यास्यति। धिक्तां पर्वतवृश्चिकीम्!
गिरीशः – परन्तु भ्रातरः! मयाऽपि नाम अपक्वगुलिकाः न क्रीडिताः। विटपे-विटपे सा, पत्रे-पत्रे पुनरहम्। गुरुणैव सार्धं गुरुता न विधातुं शक्यते। लवणेनैव लवणं न भक्ष्यते। ईदृशं नाटकमहं करिष्यामि यत्सा मूकदृष्टी भूत्वा स्थास्यति। यदि तेनापि अनुकूलयितुं न शक्ष्यते तदा लगुडेश्वरमाह्वयिष्यामि (लगुडं प्रदर्शयन्) पश्यन्ति भवन्तः अयमेव मम कुलदेवो भगवान् लगुडनाथः। एतत्कृपया (इत्यर्धोक्ते)
(अकस्मादेव द्वारकपाटमुद्घाट्य सझम्पं प्रविशति गिरीशगृहिणी लगुडप्रहारञ्च करोति गिरीशपृष्ठोपरि। क्रमेण सर्वेऽपि प्रताडिता भवन्ति।
गिरीशः – (निर्ममप्रहारधातैः पीडामनुभूय)
अब्रह्मण्यम्! बन्धवः! वारय वारय मामस्याः डाकिन्याः। हन्त भोः मारितोऽस्मि, घातितोऽस्मि, सञ्चूर्णितोऽस्मि।
सलीमः – (प्रहारमनुभूय) अयि भाग्यवति! मया किन्तेऽपाकृतम्? यदि प्रहार एवाभिरुचिस्तर्हि भर्तारं प्रहर। नाहं ते भर्ता।
बालचन्द्रः – हा हा हतोऽस्मि निर्दोषहरिणः। कस्मादहमत्र वध्यस्थाने समागतः। हे प्रभो! ईदृशी राक्षसी न मया दृष्टा। इयं तु सर्वा अपि गृहराक्षंसीः अतिशेते।
(सर्वे वेदनया क्रोशन्ति। दुर्वचनानि प्रकटयन्तः पलायन्ते च)
मङ्गला – (क्रोधारुणलोचना, सफूत्कारम्)
चत्वरवृषभाः,बलिच्छागाः!! दृष्टं युष्माभिर्भगवतो लगुडेश्वरस्य शौर्यम्? यदि नाम पुनर्मम गृहे पदमपि कृतवन्तो यूयं तर्हि खञ्जान विधास्ये। कपालेषु एकमपि रोमावशिष्टं न भविष्यति। वयं गृहिण्यस्तु दुर्भरगृहकर्मभारैस्सन्तप्ताः नितरां दायित्वदुःखं सहामहे, यूयं पुनर्निर्गृहघट्टाः पत्नीविरोधसमितिं समायोजयथ? अहमपि नाम महिलोद्धारसभामंत्रिणी। द्रक्ष्याम्यहं युष्माकं बलपौरुषम्। द्रक्ष्यामि यन्मयि जीवितायां महिलोद्धारो भवेत् महिलाविनाशो वा?
(इति सफूत्कारं सरोषमंत्रितञ्च गृहान्तरं प्रविशति)
।।द्वितीयदृश्यम्।।
महालेखाकारकार्यालयस्य कश्चित् कक्षः। घटिकायन्त्रं दशवादनसूचनां प्रकटयति। सर्वदिशातो लिपिकाः समागच्छन्तस्तिष्ठन्ति स्वस्वस्थाने। कर्मकरा विपर्यस्ताः पञ्जिका व्यवस्थापयन्तो दृश्यन्ते। गिरीशशर्मा खञ्जगत्या शनैरागम्यस्वस्थानं गृह्णाति।
गिरीशः – (भृत्यं सम्बोध्य)
अये शिवलाल! जलमल्लकं तावदानय।
शिवलालः – इदमानीयते श्रीमन् ( तथा कृत्वा) इदं शीतलपानीयम्। गृह्णातु भवान्।
गिरीशः – (निखिलमपि पानीयपात्रं झटित्येव रिक्तीकृत्य सोच्छ्वासम्)
हे प्रभो! हृदये पुटपाक इव प्रज्वलति। जलमल्लकेनानेन चेन्निर्वाणमुपगच्छेत्।
शिवलालः – (साश्चर्यम्) चिरञ्जीविन्! कियानद्य पिपासुरसि? किं पानीयमपीत्वैव गृहात् प्रचलितोऽसि?
गिरीशः – (लगुडाघातं स्मरन्ननुभवन् च)
शिवलाल! अलं पृच्छया। पानीयस्य का कथा, भोजनमपि जठराशयस्थीकर्तुं नाशक्यत। कदाचिदेवमपि दुर्धटयति विधिः।
(इति आधातपीडामभिनयति)
शिवलालः – किमिदं नाम? श्रीमन्! दुःखायते भवान्। किन्न वर्तते स्वास्थ्यमनुकूलम्? यद्येवं तर्ह्यवकाश एव कथन्न प्रर्थ्यते?
गिरीशः – शिवलाल! न किञ्चिदत्याहितम्। पृष्ठोपरि लघुपिण्डकोऽस्ति संवृत्तः। स एव भृशं पीडयति। स्वास्थ्यं तु सामान्यमेव। गच्छ त्वम्।
(शिवलालो गच्छति, प्रविशति च काचिदनतिप्रौढा सुदर्शनयुवतिः)
कल्पना – (सविनयम्)
नमस्ते गिरीश!
गिरीशः – (सकृतकस्मितम् नयने विस्फार्य)
अये कल्पने! नमस्ते नमस्ते। कथय कीदृशी वर्तसे? अपि सर्वं रुचिरम्।
कल्पना – बाढम्। सर्वमपि सानुकूल्यमेव। किन्त्वद्य भवान् परिश्रान्तो विमनस्कश्च परिलक्ष्यते। किमस्ति कश्चिद् विशेषः?
गिरीशः – (सवेदनम्)
किं प्रस्तौमि कल्पने! आत्मरोदनेन त्वामपि सन्तापयितुं न समीहे। रोदनमिदं पुनर्नैकदिवसीयम्। आप्राणान्तमिदं सोढुमवाप्तमस्ति।
कल्पना – (सस्नेहम्)
प्रतीयते, यत्किञ्चिद् दुर्घटितं गृहे। किमद्य भ्रातृजायया कोऽप्यनर्थः समुत्पादितः?
गिरीशः – अलमलं तां कर्कशां हस्तिनीं नाम्ना प्रस्तूय। मृत्युवरणमपि जीवनादस्माद्वरम्। समाप्ता मे जिजीविषेदानीं कल्पने!
कल्पना – गिरीश! अलं सन्तप्य। मामेव पश्य। त्वया सार्धं संयोज्य मामपि लोकाः किं किं न कथयामासुः? परन्तु मया कर्णौ पिधाय सर्वमपि सोढम्। हस्ती गच्छति, कुक्कुराः बुक्कन्त्येव। न कोऽप्यत्र निष्कलङ्कः। वस्त्रान्तरे सर्व एव नग्नास्सन्ति।
गिरीशः – (सपिरतोषम्)
अवितथमुच्यते त्वया कल्पने! अपि नामाहं त्वत्सुखदुःखसहभुक् अभविष्यम्।
कल्पना – वैधात्रिकं ललाटलेखं कः प्रोञ्छतु! अलमति निराशया। साम्प्रतं स्वासन्दिकामुपैमि। पश्य, एते कार्यालयकुक्कुरा विस्फारितलोचनैः पश्यन्ति। अनन्तरं न जाने किं किं वक्ष्यन्ति लवणमरिचमुपलेप्य।
गिरीशः – गच्छ! शृणु तावत्। किमद्य सांयकालेऽवकाशमवाप्तुं शक्ष्यसि?
कल्पना – कथं न।
गिरीसः – तर्हि श्रेष्ठीचटत्वरे (Civil lines) मिलिष्यामि। इतस्ततो भ्रमणं भविष्यति, किञ्चिदशितव्यं च। आगमिष्यसि?
कल्पना – आगमिष्यामि। त्वदाग्रहो न मया कदाप्यवमानितः।
(अकस्मादेव कार्यालयाधीक्षकः पर्यटन् समीपमायाति। कल्पना झटित्येव गन्तुमिच्छति। सर्वत एव नमस्कारध्वनिः श्रूयते)
अधीक्षकः – (सोल्लुण्ठम्)
कल्पने! किं कार्यालयसमस्याऽत्र समाधीयते? का न्वस्ति वेला तव घटिकायंत्रे?
कल्पना – श्रीमन्! एकादशवादनम्! परन्तु यथासमयमेव समागताऽस्मि।
अधीक्षकः – परन्तु नेदं तव कार्यस्थानम्। बहु श्रुतम्मया त्वामधिकृत्य। परन्तु न कदापि किञ्चिदपि पृष्टम्। ब्रूहि, कोऽस्ति तेऽयं गिरीशशर्मा? यदि नामशर्मणाऽपि ते कश्चित् सम्बन्धस्तर्हि कृपया कार्यालयाद्बहिरेवासौ निर्वहणीयः। कार्यालयवातावरणं माऽऽविलय। अग्रे पुनरीदृशीं त्रुटिं द्रष्टुं क्षन्तुं वा न समीहे। गच्छ।
(कल्पनाऽऽपमानिता शनैर्याति। कार्यालये कर्णोपजापः प्रादुर्भवति)
अधीक्षकः – (गिरीशं प्रति, सव्यङ्ग्यम्)
कथय कन्दुकमहोदय! आचरणसंहितामपि विस्मृतवानसि? स्वैराचारेण कार्यालयकार्येषु विघातं जनयसि?
गिरीशः – (सान्तर्निगूढरोषम्)
अधीक्षकमहोदय! असाधु पश्यति भवान्। कल्पनया सार्धं ममास्ति सात्त्विकः परिचयः। अलं कल्मषमुद्भाव्य।
अधीक्षकः – (सनिर्भर्त्सनम्)
तूष्णीमुपगच्छ। नयनयोर्बालुकाचूर्णं प्रक्षिपसि? अनपत्रपोऽसि सञ्जातः?
गिरीशः – अनवसरं भवान् खलीकरोति माम्। मन्ये केनचिदसत्प्रलापैः मद्विषयकैर्लघूकृतोऽत्रभवान्। अन्यथा स्वकार्यक्षमतया, सद्व्यवहारेण, नियमानुपालनेन च प्रारम्भत एव मया कार्यालयोऽयमुपकृतः।
अधीक्षकः – (समुद्विग्नः)
अलमलं व्याजान्तरविन्यासेन। नायमन्धबधिरयोः सन्देशदानक्रमः। अत्र क्षीरं क्षीरं भवति पानीयं पानीयं भवति। मा चरितार्थय सुभाषितमेतत् लोष्टैः कुतस्त्यैस्सममिष्टकाभिः योजयद्भानुमती कुटुम्बम् इति।
गिरीशः – श्रीमन्! भवदधिकारे नियोजितोऽस्मि। प्रभवति भवान् यत्किमपि वक्तुम्।
अधीक्षकः – किमुक्तम्? यत्किमपि वक्तुम्। किमकारणमेव भाष्यते मया? कृपया कर्गजखण्डमिदं गृहाण। पठ, किं लिखितमत्र, केन लिखितं, किमर्थं वा लिखितम्? गृहाण।।
(इति पत्रं ग्राहयति। गिरीशः पत्रं वाचयति। पत्न्या लिखितं स्ववचनीयतादोषमापठ्य विस्मयमुपयाति)
अधीक्षकः – पठितं त्वया? इदानीमेव गृहिणी ते समागता, पत्रमिदं च मह्यं प्रदत्तवती। तिष्ठति च, साऽस्मदीये कक्षे। अद्य प्रातः काले त्वया त्वन्मित्रैश्च यदाचरितं तत्सर्वमेव तया निवेदितम्। किमयमेवास्ति शीलसमुदाचारः? गृहकुक्कुटीं शाकतुल्यां विजानासि?
(गिरीशो नताननस्तिष्ठति)
अधीक्षकः - प्रथमोऽयमवसरः। अतएव विस्मृत्य सर्वं मर्षयामि। यदि नाम पुनरेवं प्रत्यक्षीकृतं मयाऽधरोत्तरं तर्हि युवामपि कार्यालयात् निलम्बयिष्ये। गच्छ, ग्रन्थिं बधान। कन्दुक इव पत्नीप्रेमिकयोर्मध्ये मोच्छल, अन्यथा सत्यमेव कन्दुकीभविष्यसि।
(इति मन्दं स्वकक्षे प्रविशति)
गिरीशः – (दीर्घ निःश्वस्य)
हन्त भोः। कस्याननमवलोक्य समुत्थितोऽस्म्यद्य? प्रातर्वेलात एव निकृतिं प्रहारञ्च सहमानोऽस्मि। तदासीत् गृहम्। अयमस्ति घट्टः। गृहे पत्नी वैरिणी। घट्टे चायं दानवोऽधीक्षको वैरी। उभयत्राऽपि अशरणोऽस्मि। रजकसारमेयो न गृहस्य न वा घट्टस्य। सत्यमेव निर्गृहघट्टोऽस्मि सञ्जातः। किं करवाणि मन्दभाग्यः?
(मध्य एव निकटस्थमिष्टान्नापणस्थापितस्य रेडियोयंत्रस्य गीतिका मुखरीभवति)
इदं विविधभारत्या इलाहाबादकेन्द्रम्। सम्प्रति प्रस्तूयते चलचित्रगीतानां कार्यक्रमो मनचाहे गीत इति। सर्वप्रथमं शृण्वन्तु भवन्तो मुगलेआजमचलचित्रस्येदं गीतम्। संगीतकारोऽस्य गीतस्य नौशादो गायिका च मंगेशकरोपाह्वा लता।
(गीतिका प्रवर्तते)
प्यार किया ते डरना क्या
जब प्यार किया तो डरना क्या!
प्यार किया, कोई चोरी नहीं की
छुप-छुप आहें भरना क्या!!
(क्रमेण गीतिका समाप्तिमेति। गीतश्रवणसमकालमेव गिरीशश्चेतनामुत्साहञ्चानुभवति)
गिरीशः – (सोच्छ्वासम्)
भो दिष्टम्। सत्यमुक्तं सूरदासेन यत् प्रीतिं कृत्वा न केनापि सुखमवाप्तम्। सलीमस्य कृते वराकी अनारकली दुर्गभित्तौ निचिता। कल्पनामभिलषतो ममाप्यवसानं दुरन्तमेव परिलक्ष्यते।
(मनसि विमृशन्)
भो अशरणोऽस्मि सञ्जातो जलपोतपक्षीव। परितोऽपि निस्सीमो दुस्तरस्सागरः। वराकः पोतविहगः समुड्डयनशक्तिसम्पन्नोऽपि कियत् समुड्डीयेत। कथं वागाधजलनिधिमतिक्रामेत? सागरसन्तरणप्रयचासं कुर्वाणोऽप्यसावन्ततः खेदमनुभवन् जलपोतमेवोपावर्तते।
ममापि नाम सैव स्थितिः। सर्वत्रोऽपि पराजयं शक्तिहासं नैराश्यं धनान्धकारञ्चानुभूय शरणभूतां कल्पनामेव समाश्रये।
(इति सदैन्यं सवेदनञ्च निषन्तुमुपक्रामति)
(ततः प्रविशति परितो विलोकयन्ती कल्पना)
कल्पना – गिरीश! निर्वापितः परिलक्ष्यसे! मन्ये, बहु जल्पितमघीक्षकेण।
गिरीशः – अथ किम्! अधिकारमत्तोऽस्ति जातः। आत्मानं देवकल्पं मन्यते।
कल्पना – भवतु, माऽतितरां क्लेशयाऽत्मानम्! जानाम्यहं तव मनः स्थितिम्।
गिरीशः – कल्पने! त्वयैव धतोऽस्मि। अन्यथा विलीनैवाऽसीन्मदीया जिजीविषा।
कल्पना – भो मैवं भण। अत्र कार्यालये नाऽस्त्यवसरः पुष्कलवार्तायाः। गतागतं कुर्वाणाः। सहचरा एते पैशुन्यकर्मणि दक्षाः। भूयोऽपि सूचयिष्यन्त्यधीक्षकम्। अतएव गच्छाम्यहम्। अवलम्बस्वाऽत्मानम्।
गिरीशः – यथामंत्रितमेव करिष्ये। गच्छेदानीम्।
कल्पना – (शनैरपसरन्ती, सवैलक्ष्यम्)
गिरीशः! सायंकाले सार्धषड्वादने श्रेष्ठिचत्वरे त्वां प्रतीक्षमाणा भविष्यामि।
(गिरीशो नवनवीकृतचेतनस्सोत्साहं स्मितं जनयति, आकूणितनेत्राञ्चलैः स्वीकरोति च प्रस्तावम्)
(जवनिकापातः)
इति भभयाख्यमिश्रवंशावतंसेन श्रीमद्दुर्गाप्रसादाभिराजीसूनुना
त्रिवेणीकविनाऽभिराजराजेन्द्रेण विरचितं
निर्गृहघट्टाख्यमेकाङ्कमवसितम्